०२ भूमाधिकरणम्

०८ भूमा सम्प्रसादादध्युपदेशात् ॥

इदं समामनन्ति — ‘भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति ।’ (छा. उ. ७ । २३ । १)‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन् यद्विजानाति तदल्पम्’ (छा. उ. ७ । २४ । १) इत्यादि । तत्र संशयः — किं प्राणो भूमा स्यात् , आहोस्वित्परमात्मेति । कुतः संशयः ? भूमेति तावद्बहुत्वमभिधीयते ; ‘बहोर्लोपो भू च बहोः’ (पा. सू. ६ । ४ । १५८) इति भूमशब्दस्य भावप्रत्ययान्ततास्मरणात् । किमात्मकं पुनस्तद्बहुत्वमिति विशेषाकाङ्क्षायाम् ‘प्राणो वा आशाया भूयान्’ (छा. उ. ७ । १५ । १) इति सन्निधानात् प्राणो भूमेति प्रतिभाति । तथा ‘श्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति । सोऽहं भगवः शोचामि तं मा भगवाञ्शोकस्य पारं तारयतु’ (छा. उ. ७ । १ । ३) इति प्रकरणोत्थानात्परमात्मा भूमेत्यपि प्रतिभाति । तत्र कस्योपादानं न्याय्यम् , कस्य वा हानमिति भवति संशयः । किं तावत्प्राप्तम् ? प्राणो भूमेति । कस्मात् ? भूयःप्रश्नप्रतिवचनपरम्पराऽदर्शनात् । यथा हि ‘अस्ति भगवो नाम्नो भूयः’ इति, ‘वाग्वाव नाम्नो भूयसी’ इति ; तथा ‘अस्ति भगवो वाचो भूयः’ इति, ‘मनो वाव वाचो भूयः’ इति च — नामादिभ्यो हि आ प्राणात् भूयःप्रश्नप्रतिवचनप्रवाहः प्रवृत्तः नैवं प्राणात्परं भूयःप्रश्नप्रतिवचनं दृश्यते — ‘अस्ति भगवः प्राणाद्भूयः’ इति, ‘अदो वाव प्राणाद्भूयः’ इति । प्राणमेव तु नामादिभ्य आशान्तेभ्यो भूयांसम् — ‘प्राणो वा आशाया भूयान्’ इत्यादिना सप्रपञ्चमुक्त्वा, प्राणदर्शिनश्चातिवादित्वम् ‘अतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापह्नुवीत’ इत्यभ्यनुज्ञाय, ‘एष तु वा अतिवदति यः सत्येनातिवदति’ इति प्राणव्रतमतिवादित्वमनुकृष्य, अपरित्यज्यैव प्राणं सत्यादिपरम्परया भूमानमवतारयन्, प्राणमेव भूमानं मन्यत इति गम्यते । कथं पुनः प्राणे भूमनि व्याख्यायमाने ‘यत्र नान्यत्पश्यति’ इत्येतद्भूम्नो लक्षणपरं वचनं व्याख्यायेतेति, उच्यते — सुषुप्त्यवस्थायां प्राणग्रस्तेषु करणेषु दर्शनादिव्यवहारनिवृत्तिदर्शनात्सम्भवति प्राणस्यापि ‘यत्र नान्यत्पश्यतीति’ एतल्लक्षणम् । तथा च श्रुतिः — ‘न शृणोति न पश्यति’ इत्यादिना सर्वकरणव्यापारप्रत्यस्तमयरूपां सुषुप्त्यवस्थामुक्त्वा, ‘प्राणाग्नय एवैतस्मिन्पुरे जाग्रति’ (प्र. उ. ४ । ३) इति तस्यामेवावस्थायां पञ्चवृत्तेः प्राणस्य जागरणं ब्रुवती, प्राणप्रधानां सुषुप्त्यवस्थां दर्शयति । यच्चैतद्भूम्नः सुखत्वं श्रुतम् — ‘यो वै भूमा तत्सुखम्’ (छा. उ. ७ । २३ । १) इति, तदप्यविरुद्धम् ; ‘अत्रैष देवः स्वप्नान्न पश्यत्यथ यदेतस्मिञ्शरीरे सुखं भवति’ (प्र. उ. ४ । ६) इति सुषुप्त्यवस्थायामेव सुखश्रवणात् । यच्च ‘यो वै भूमा तदमृतम्’ (छा. उ. ७ । २४ । १) इति, तदपि प्राणस्याविरुद्धम् ; ‘प्राणो वा अमृतम्’ (बृ. उ. १ । ६ । ३) इति श्रुतेः । कथं पुनः प्राणं भूमानं मन्यमानस्य ‘तरति शोकमात्मवित्’ इत्यात्मविविदिषया प्रकरणस्योत्थानमुपपद्यते ? प्राण एवेहात्मा विवक्षित इति ब्रूमः । तथाहि — ‘प्राणो ह पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मणः’ (छा. उ. ७ । १५ । १) इति प्राणमेव सर्वात्मानं करोति, ‘यथा वा अरा नाभौ समर्पिता एवमस्मिन्प्राणे सर्वं समर्पितम्’ इति च ; सर्वात्मत्वारनाभिनिदर्शनाभ्यां च सम्भवति वैपुल्यात्मिका भूमरूपता प्राणस्य । तस्मात्प्राणो भूमेत्येवं प्राप्तम् ॥

तत इदमुच्यते — परमात्मैवेह भूमा भवितुमर्हति, न प्राणः । कस्मात् ? सम्प्रसादादध्युपदेशात् । सम्प्रसाद इति सुषुप्तं स्थानमुच्यते ; सम्यक्प्रसीदत्यस्मिन्निति निर्वचनात् , बृहदारण्यके च स्वप्नजागरितस्थानाभ्यां सह पाठात् । तस्यां च सम्प्रसादावस्थायां प्राणो जागर्तीति प्राणोऽत्र सम्प्रसादोऽभिप्रेयते । प्राणादूर्ध्वं भूम्न उपदिश्यमानत्वादित्यर्थः । प्राण एव चेद्भूमा स्यात् , स एव तस्मादूर्ध्वमुपदिश्येतेत्यश्लिष्टमेतत्स्यात् । न हि नामैव ‘नाम्नो भूयः’ इति नाम्न ऊर्ध्वमुपदिष्टम् । किं तर्हि ? नाम्नोऽन्यदर्थान्तरमुपदिष्टं वागाख्यम् ‘वाग्वाव नाम्नो भूयसी’ इति । तथा वागादिभ्योऽपि आ प्राणादर्थान्तरमेव तत्र तत्रोर्ध्वमुपदिष्टम् । तद्वत्प्राणादूर्ध्वमुपदिश्यमानो भूमा प्राणादर्थान्तरभूतो भवितुमर्हति । नन्विह नास्ति प्रश्नः — ‘अस्ति भगवः प्राणाद्भूयः’ इति ; नापि प्रतिवचनमस्ति ‘प्राणाद्वाव भूयोऽस्ति’ इति ; कथं प्राणादधि भूमोपदिश्यत इत्युच्यते ? प्राणविषयमेव चातिवादित्वमुत्तरत्रानुकृष्यमाणं पश्यामः — ‘एष तु वा अतिवदति यः सत्येनातिवदति’ इति ; तस्मान्नास्ति प्राणादध्युपदेश इति । अत्रोच्यते — न तावत्प्राणविषयस्यैवातिवादित्वस्यैतदनुकर्षणमिति शक्यं वक्तुम् , विशेषवादात् — ‘यः सत्येनातिवदति’ इति । ननु विशेषवादोऽप्ययं प्राणविषय एव भविष्यति । कथम् ? यथा ‘एषोऽग्निहोत्री, यः सत्यं वदति’ इत्युक्ते, न सत्यवदनेनाग्निहोत्रित्वम् ; केन तर्हि ? अग्निहोत्रेणैव ; सत्यवदनं त्वग्निहोत्रिणो विशेष उच्यते ; तथा ‘एष तु वा अतिवदति, यः सत्येनातिवदति’ इत्युक्ते, न सत्यवदनेनातिवादित्वम् । केन तर्हि ? प्रकृतेन प्राणविज्ञानेनैव । सत्यवदनं तु प्राणविदो विशेषो विवक्ष्यत इति । नेति ब्रूमः ; श्रुत्यर्थपरित्यागप्रसङ्गात् । श्रुत्या ह्यत्र सत्यवदनेनातिवादित्वं प्रतीयते — ‘यः सत्येनातिवदति सोऽतिवदति’ इति ; नात्र प्राणविज्ञानस्य सङ्कीर्तनमस्ति ; प्रकरणात्तु प्राणविज्ञानं सम्बध्येत ; तत्र प्रकरणानुरोधेन श्रुतिः परित्यक्ता स्यात् ; प्रकृतव्यावृत्त्यर्थश्च तुशब्दो न सङ्गच्छेत — ‘एष तु वा अतिवदति’ इति । ‘सत्यं त्वेव विजिज्ञासितव्यम्’ (छा. उ. ७ । १६ । १) इति च प्रयत्नान्तरकरणमर्थान्तरविवक्षां सूचयति । तस्माद्यथैकवेदप्रशंसायां प्रकृतायाम् , ‘एष तु महाब्राह्मणः, यश्चतुरो वेदानधीते’ इत्येकवेदेभ्योऽर्थान्तरभूतश्चतुर्वेदः प्रशस्यते, तादृगेतद्द्रष्टव्यम् । न च प्रश्नप्रतिवचनरूपयैवार्थान्तरविवक्षया भवितव्यमिति नियमोऽस्ति ; प्रकृतसम्बन्धासम्भवकारितत्वादर्थान्तरविवक्षायाः । तत्र प्राणान्तमनुशासनं श्रुत्वा तूष्णींभूतं नारदं स्वयमेव सनत्कुमारो व्युत्पादयति — यत्प्राणविज्ञानेन विकारानृतविषयेणातिवादित्वमनतिवादित्वमेव तत् — ‘एष तु वा अतिवदति, यः सत्येनातिवदति’ इति । तत्र सत्यमिति परं ब्रह्मोच्यते, परमार्थरूपत्वात् ; ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इति च श्रुत्यन्तरात् । तथा व्युत्पादिताय नारदाय ‘सोऽहं भगवः सत्येनातिवदानि’ इत्येवं प्रवृत्ताय विज्ञानादिसाधनपरम्परया भूमानमुपदिशति । तत्र यत्प्राणादधि सत्यं वक्तव्यं प्रतिज्ञातम् , तदेवेह भूमेत्युच्यत इति गम्यते । तस्मादस्ति प्राणादधि भूम्न उपदेश इति — अतः प्राणादन्यः परमात्मा भूमा भवितुमर्हतीति । एवं चेहात्मविविदिषया प्रकरणस्योत्थानमुपपन्नं भविष्यति । प्राण एवेहात्मा विवक्षित इत्येतदपि नोपपद्यते । न हि प्राणस्य मुख्यया वृत्त्यात्मत्वमस्ति । न चान्यत्र परमात्मज्ञानाच्छोकविनिवृत्तिरस्ति, ‘नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ६ । १५) इति श्रुत्यन्तरात् । ‘तं मा भगवाञ्शोकस्य पारं तारयतु’ (छा. उ. ७ । १ । ३) इति चोपक्रम्योपसंहरति — ‘तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान्सनत्कुमारः’ (छा. उ. ७ । २६ । २) इति । तम इति शोकादिकारणमविद्योच्यते । प्राणान्ते चानुशासने न प्राणस्यान्यायत्ततोच्येत । ‘आत्मतः प्राणः’ (छा. उ. ७ । २६ । १) इति च ब्राह्मणम् । प्रकरणान्ते परमात्मविवक्षा भविष्यति ; भूमात्र प्राण एवेति चेत् , न ; ‘स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि’ (छा. उ. ७ । २४ । १) इत्यादिना भूम्न एव आ प्रकरणसमाप्तेरनुकर्षणात् । वैपुल्यात्मिका च भूमरूपता सर्वकारणत्वात्परमात्मनः सुतरामुपपद्यते ॥ ८ ॥

०९ धर्मोपपत्तेश्च ॥

अपि च ये भूम्नि श्रूयन्ते धर्माः, ते परमात्मन्युपपद्यन्ते । ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा’ इति दर्शनादिव्यवहाराभावं भूमनि अवगमयति । परमात्मनि चायं दर्शनादिव्यवहाराभावोऽवगतः — ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १५) इत्यादिश्रुत्यन्तरात् । योऽप्यसौ सुषुप्त्यवस्थायां दर्शनादिव्यवहाराभाव उक्तः, सोऽप्यात्मन एवासङ्गत्वविवक्षयोक्तः, न प्राणस्वभावविवक्षया, परमात्मप्रकरणात् । यदपि तस्यामवस्थायां सुखमुक्तम् , तदप्यात्मन एव सुखरूपत्वविवक्षयोक्तम् ; यत आह — ‘एषोऽस्य परम आनन्द एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ (बृ. उ. ४ । ३ । ३२) इति । इहापि ‘यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखम्’ इति सामयसुखनिराकरणेन ब्रह्मैव सुखं भूमानं दर्शयति । ‘यो वै भूमा तदमृतम्’ इत्यमृतत्वमपीह श्रूयमाणं परमकारणं गमयति ; विकाराणाममृतत्वस्यापेक्षिकत्वात् , ‘अतोऽन्यदार्तम्’ (बृ. उ. ३ । ४ । २) इति च श्रुत्यन्तरात् । तथा च सत्यत्वं स्वमहिमप्रतिष्ठितत्वं सर्वगतत्वं सर्वात्मत्वमिति चैते धर्माः श्रूयमाणाः परमात्मन्येवोपपद्यन्ते, नान्यत्र । तस्माद्भूमा परमात्मेति सिद्धम् ॥ ९ ॥