०९ अत्ता चराचरग्रहणात् ॥
कठवल्लीषु पठ्यते ‘यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः’ (क. उ. १ । २ । २५) इति । अत्र कश्चिदोदनोपसेचनसूचितोऽत्ता प्रतीयते । तत्र किमग्निरत्ता स्यात् , उत जीवः, अथवा परमात्मा, इति संशयः ; विशेषानवधारणात् , त्रयाणां चाग्निजीवपरमात्मनामस्मिन्ग्रन्थे प्रश्नोपन्यासोपलब्धेः । किं तावत्प्राप्तम् ? अग्निरत्तेति । कुतः ? ‘अग्निरन्नादः’ (बृ. उ. १ । ४ । ६) इति श्रुतिप्रसिद्धिभ्याम् । जीवो वा अत्ता स्यात् ‘तयोरन्यः पिप्पलं स्वाद्वत्ति’ (मु. उ. ३ । १ । १) इति दर्शनात् ; न परमात्मा, ‘अनश्नन्नन्योऽभिचाकशीति’ इति दर्शनादित्येवं प्राप्ते ब्रूमः —
अत्तात्र परमात्मा भवितुमर्हति । कुतः ? चराचरग्रहणात् । चराचरं हि स्थावरजङ्गमं मृत्यूपसेचनमिहाद्यत्वेन प्रतीयते ; तादृशस्य चाद्यस्य न परमात्मनोऽन्यः कार्त्स्न्येनात्ता सम्भवति । परमात्मा तु विकारजातमुपसंहरन्सर्वमत्तीत्युपपद्यते । नन्विह चराचरग्रहणं नोपलभ्यते , कथं सिद्धवच्चराचरग्रहणं हेतुत्वेनोपादीयते ? नैष दोषः, मृत्यूपसेचनत्वेनेहाद्यत्वेन सर्वस्य प्राणिनिकायस्य प्रतीयमानत्वात् , ब्रह्मक्षत्रयोश्च प्राधान्यात्प्रदर्शनार्थत्वोपपत्तेः । यत्तु परमात्मनोऽपि नात्तृत्वं सम्भवति ‘अनश्नन्नन्योऽभिचाकशीति’ इति दर्शनादिति, अत्रोच्यते — कर्मफलभोगस्य प्रतिषेधकमेतद्दर्शनम् , तस्य सन्निहितत्वात् । न विकारसंहारस्य प्रतिषेधकम् , सर्ववेदान्तेषु सृष्टिस्थितिसंहारकारणत्वेन ब्रह्मणः प्रसिद्धत्वात् । तस्मात्परमात्मैवेहात्ता भवितुमर्हति ॥ ९ ॥
१० प्रकरणाच्च ॥
इतश्च परमात्मैवेहात्ता भवितुमर्हति ; यत्कारणं प्रकरणमिदं परमात्मनः — ‘न जायते म्रियते वा विपश्चित्’ (क. उ. १ । २ । १८) इत्यादि । प्रकृतग्रहणं च न्याय्यम् । ‘क इत्था वेद यत्र सः’ इति च दुर्विज्ञानत्वं परमात्मलिङ्गम् ॥ १० ॥