जिज्ञासाधिकरणम्
अथातो ब्रह्मजिज्ञासा ॥ १ ॥
ब्रह्मसूत्रभाष्यम्
अत्र अथशब्द आनन्तर्यार्थः परिगृह्यते नाधिकारार्थः ब्रह्मजिज्ञासाया अनधिकार्यत्वान् मङ्गलस्य च वाक्यार्थे समन्वयाभावाद् अर्थान्तरप्रयुक्त एव ह्यथशब्दः श्रुत्या मङ्गलप्रयोजनो भवति पूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेकात्। सति च आनन्तर्यार्थत्वे यथा धर्मजिज्ञासा पूर्ववृत्तं वेदाध्ययनं नियमेनापेक्षते एवं ब्रह्मजिज्ञासापि यत्पूर्ववृत्तं नियमेनापेक्षते तद्वक्तव्यम्। स्वाध्यायाध्ययनानन्तर्यं तु समानम्। नन्विह कर्मावबोधानन्तर्यं विशेषः न धर्मजिज्ञासायाः प्रागपि अधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेः। यथा च हृदयाद्यवदानानामानन्तर्यनियमः क्रमस्य विवक्षितत्वान् न तथेह क्रमो विवक्षितः शेषशेषित्वे अधिकृताधिकारे वा प्रमाणाभावाद् धर्मब्रह्मजिज्ञासयोः। फलजिज्ञास्यभेदाच्च। अभ्युदयफलं धर्मज्ञानं तच्चानुष्ठानापेक्षं निःश्रेयसफलं तु ब्रह्मज्ञानं न चानुष्ठानान्तरापेक्षम् भव्यश्च धर्मो जिज्ञास्यो न ज्ञानकालेऽस्ति पुरुषव्यापारतन्त्रत्वाद् इह तु भूतं ब्रह्म जिज्ञास्यं नित्यवृत्तत्वान्न पुरुषव्यापारतन्त्रम्। चोदनाप्रवृत्तिभेदाच्च। या हि चोदना धर्मस्य लक्षणं सा स्वविषये नियुञ्जानैव पुरुषमवबोधयति ब्रह्मचोदना तु पुरुषमवबोधयत्येव केवलम् अवबोधस्य चोदनाजन्यत्वान्न पुरुषोऽवबोधे नियुज्यते यथा अक्षार्थसंनिकर्षेणार्थावबोधे तद्वत्। तस्मात्किमपि वक्तव्यं यदनन्तरं ब्रह्मजिज्ञासोपदिश्यत इति। उच्यते नित्यानित्यवस्तुविवेक इहामुत्रार्थभोगविरागः शमदमादिसाधनसंपन् मुमुक्षुत्वं च। तेषु हि सत्सु प्रागपि धर्मजिज्ञासाया ऊर्ध्वं च शक्यते ब्रह्म जिज्ञासितुं ज्ञातुं च न विपर्यये। तस्माद् अथशब्देन यथोक्तसाधनसंपत्त्यानन्तर्यमुपदिश्यते॥
अतःशब्दः हेत्वर्थः। यस्माद्वेद एव अग्निहोत्रादीनां श्रेयःसाधनानामनित्यफलतां दर्शयति तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते इत्यादिस् तथा ब्रह्मज्ञानादपि परं पुरुषार्थं दर्शयति ब्रह्मविदाप्नोति परम् इत्यादिस् तस्माद् यथोक्तसाधनसंपत्त्यनन्तरं ब्रह्मजिज्ञासा कर्तव्या॥
ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा। ब्रह्म च वक्ष्यमाणलक्षणं जन्माद्यस्य यत इति। अत एव न ब्रह्मशब्दस्य जात्याद्यर्थान्तरमाशङ्कितव्यम्। ब्रह्मण इति कर्मणि षष्ठी न शेषे जिज्ञास्यापेक्षत्वाज्जिज्ञासाया जिज्ञास्यान्तरानिर्देशाच्च। ननु शेषषष्ठीपरिग्रहेऽपि ब्रह्मणो जिज्ञासाकर्मत्वं न विरुध्यते संबन्धसामान्यस्य विशेषनिष्ठत्वाद् एवमपि प्रत्यक्षं ब्रह्मणः कर्मत्वमुत्सृज्य सामान्यद्वारेण परोक्षं कर्मत्वं कल्पयतो व्यर्थः प्रयासः स्यात्। न व्यर्थः ब्रह्माश्रिताशेषविचारप्रतिज्ञानार्थत्वादिति चेन् न प्रधानपरिग्रहे तदपेक्षितानामप्यर्थाक्षिप्तत्वात्। ब्रह्म हि ज्ञानेनाप्तुमिष्टतमत्वात्प्रधानम्। तस्मिन्प्रधाने जिज्ञासाकर्मणि परिगृहीते यैर्जिज्ञासितैर्विना ब्रह्म जिज्ञासितं न भवति तान्यर्थाक्षिप्तान्येवेति न पृथक्सूत्रयितव्यानि। यथा राजासौ गच्छति इत्युक्ते सपरिवारस्य राज्ञो गमनमुक्तं भवति तद्वत्। श्रुत्यनुगमाच्च। यतो वा इमानि भूतानि जायन्ते इत्याद्याः श्रुतयस् तद्विजिज्ञासस्व तद्ब्रह्म इति प्रत्यक्षमेव ब्रह्मणो जिज्ञासाकर्मत्वं दर्शयन्ति। तच्च कर्मणिषष्ठीपरिग्रहे सूत्रेणानुगतं भवति। तस्माद्ब्रह्मण इति कर्मणि षष्ठी॥
ज्ञातुमिच्छा जिज्ञासा। अवगतिपर्यन्तं ज्ञानं सन्वाच्याया इच्छायाः कर्म फलविषयत्वादिच्छायाः। ज्ञानेन हि प्रमाणेनावगन्तुमिष्टं ब्रह्म। ब्रह्मावगतिर्हि पुरुषार्थः निःशेषसंसारबीजाविद्याद्यनर्थनिबर्हणात्। तस्माद्ब्रह्म
जिज्ञासितव्यम्॥
तत्पुनर्ब्रह्म प्रसिद्धमप्रसिद्धं वा स्याद् यदि प्रसिद्धं न जिज्ञासितव्यम्। अथाप्रसिद्धं नैव शक्यं जिज्ञासितुमिति। उच्यते अस्ति तावद्ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितम्। ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते बृंहतेर्धातोरर्थानुगमात्। सर्वस्यात्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिः। सर्वो ह्यात्मास्तित्वं प्रत्येति न नाहमस्मि इति। यदि हि नात्मास्तित्वप्रसिद्धिः स्यात् सर्वो लोकः नाहमस्मि इति प्रतीयात्। आत्मा च ब्रह्म। यदि तर्हि लोके ब्रह्म आत्मत्वेन प्रसिद्धमस्ति ततो ज्ञातमेवेत्यजिज्ञास्यत्वं पुनरापन्नं न तद्विशेषं प्रति विप्रतिपत्तेः। देहमात्रं चैतन्यविशिष्टमात्मेति प्राकृता जना लौकायतिकाश्च प्रतिपन्नाः। इन्द्रियाण्येव चेतनान्यात्मेत्यपरे। मन इत्यन्ये। विज्ञानमात्रं क्षणिकमित्येके। शून्यमित्यपरे। अस्ति देहादिव्यतिरिक्तः संसारी कर्ता भोक्तेत्यपरे। भोक्तैव केवलं न कर्तेत्येके। अस्ति तद्व्यतिरिक्त ईश्वरः सर्वज्ञः सर्वशक्तिरिति केचित्। आत्मा स भोक्तुरित्यपरे। एवं बहवो विप्रतिपन्ना युक्तिवाक्यतदाभाससमाश्रयाः सन्तः। तत्राविचार्य यत्किंचित्प्रतिपद्यमानो निःश्रेयसात्प्रतिहन्येत अनर्थं चेयात्। तस्माद्ब्रह्मजिज्ञासोपन्यासमुखेन वेदान्तवाक्यमीमांसा तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना प्रस्तूयते॥
ब्रह्म जिज्ञासितव्यमित्युक्तम्। किंलक्षणं पुनस्तद्बह्मेत्यत आह भगवान्सूत्रकारः
भामती
अथ यदसन्दिग्धमप्रयोजनं च न तत्प्रेक्षावत्प्रतिपित्सागोचरः, यथा समनस्केन्द्रियसंनिकृष्टः स्फीतालोकमध्यवर्ती घटः, करटदन्ता वा तथा चेदं ब्रह्मेति व्यापकविरुद्धोपलब्धिः। तथा हि ‘बृहत्त्वाद्बृंहणत्वाद्वात्मैव’ ब्रह्मेति गीयते। स चायमाकीटपतङ्गेभ्य आ च देवर्षिभ्यः प्राणभृन्मात्रस्येदङ्कारास्पदेभ्यो देहेन्द्रियमनोबुद्धिविषयेभ्यो विवेकेन ’ अहम्’’ इत्यसन्दिग्धाविपर्यस्तापरोक्षानुभवसिद्ध इति न जिज्ञासास्पदम्। न हि जातु कश्चिदत्र सन्दिग्धेऽहं वा नाहं वेति। न च विपर्यस्यति नाहमेव इति। न च अहं कृशः, स्थूलः, गच्छामि इत्यादिदेहधर्मसामानाधिकरण्यदर्शनाद्देहालम्बनोऽयमहङ्कार इति साम्प्रतम्। तदालम्बनत्वे हि योऽहं बाल्ये पितरावन्वभवं स एव स्थाविरे प्रणप्तॄननुभवामीति प्रतिसन्धानं न भवेत्। न हि बालस्थविरयोः शरीरयोरस्ति मनागपि प्रत्यभिज्ञानगन्धो येनैकत्वमध्यवसीयेत। तस्माद्येषु व्यावर्तमानेषु यदनुवर्तते तत्तेभ्यो भिन्नं यथा च कुसुमेभ्यः सूत्रम्। तथा बालादिशरीरेषु व्यावर्तमानेष्वपि परं परमहङ्कारास्पदमनुवर्तमानं तेभ्यो भिद्यते। अपि च स्वप्नान्ते दिव्यशरीरभेदमास्थाय तदुचितान्भोगान्भुञ्जान एव प्रतिबुद्धो मनुष्यशरीरमात्मानं पश्यन् ‘नाहं देवो मनुष्य एव’ इति देवशरीरे बाध्यमानेऽप्यहमास्पदमबाध्यमानं शरीराद्भिन्नं प्रतिपद्यते। अपि च योगव्याघ्रः शरीरभेदेऽप्यात्मानमभिन्नमनुभवतीति नाहङ्कारालम्बनं देहः। अत एव नेन्द्रियाण्यप्यस्यालम्बनम् , इन्द्रियभेदेऽपि ‘योऽहमद्राक्षं स एवैतर्हि स्पृशामि’ इत्यहमालम्बनस्य प्रत्यभिज्ञानात्। विषयेभ्यस्त्वस्य विवेकः स्थवीयानेव। बुद्धिमनसोश्च करणयोर् अहम् इति कर्तृप्रतिभासप्रख्यानालम्बनत्वायोगः। ‘कृशोऽहम्’ ’ अन्धोऽहम्’ इत्यादयश्च प्रयोगा असत्यप्यभेदे कथञ्चिन्मञ्चाः क्रोशन्ति इत्यादिवदौपचारिका इति युक्तमुत्पश्यामः। तस्मादिदङ्कारास्पदेभ्यो देहेन्द्रियमनोबुद्धिविषयेभ्यो व्यावृत्तः, स्फुटतराहमनुभवगम्य आत्मा संशयाभावादजिज्ञास्य इति सिद्धम्। अप्रयोजनत्वाच्च। तथा हि - संसारनिवृत्तिरपवर्ग इह प्रयोजनं विवक्षितम्। संसारश्च आत्मयाथात्म्याननुभवनिमित्त आत्मयाथात्म्यज्ञानेन निवर्तनीयः। स चेदयमनादिरनादिना आत्मयाथात्म्यज्ञानेन सहानुवर्तते, कुतोऽस्य निवृत्तिरविरोधात् ? कुतश्चात्मयाथात्म्याननुभवः ? न हि अहम् इत्यनुभवादन्यदात्मयाथात्म्यज्ञानमस्ति। न च अहम् इति सर्वजनीनस्फुटतरानुभवसमर्थित आत्मा देहेन्द्रियादिव्यतिरिक्तः शक्य उपनिषदां सहस्रैरप्यन्यथयितुम् , अनुभवविरोधात्। न ह्यागमाः सहस्रमपि घटं पटयितुमीशते। तस्मादनुभवविरोधादुपचरितार्था एवोपनिषद इति युक्तमुत्पश्याम इत्याशयवानाशङ्क्य परिहरति -**युष्मदस्मत्प्रत्ययगोचरयोर् इति।**अत्र च युष्मदस्मदित्यादिर्मिथ्याभवितुं युक्तमित्यन्तः शङ्काग्रन्थः। तथापीत्यादिपरिहारग्रन्थः। तथापीत्यभिसम्बन्धाच्छङ्कायां यद्यपीति पठितव्यम्। इदमस्मत्प्रत्ययगोचरयोरिति वक्तव्ये युष्मद्ग्रहणमत्यन्तभेदोपलक्षणार्थम्। यथा ह्यहङ्कारप्रतियोगी त्वङ्कारो नैवमिदङ्कारः, एते वयमिमे वयमास्महे इति बहुलं प्रयोगदर्शनादिति। चित्स्वभाव आत्मा विषयी, जडस्वभावा बुद्धीन्द्रियदेहविषया विषयाः। एते हि चिदात्मानं विसिन्वन्ति अवबध्नन्ति। स्वेन रूपेण निरूपणीयं कुर्वन्तीति यावत्। परस्परानध्यासहेतावत्यन्तवैलक्षण्ये दृष्टान्तः -**तमः प्रकाशवदिति।**न हि जातु कश्चित्समुदाचरद्वृत्तिनी प्रकाशतमसी परस्परात्मतया प्रतिपत्तुमर्हति। तदिदमुक्तम् -**इतरेतरभावानुपपत्ताविति।**इतरेतरभाव इतरेतरत्वम् , तादात्म्यमिति यावत् तस्यानुपपत्ताविति। स्यादेतत्। मा भूद्धर्मिणोः परस्परभावस् तद्धर्माणां तु जाड्यचैतन्यनित्यत्वानित्यत्वादीनामितरेतराध्यासो भविष्यति।दृश्यते हि धर्मिणोर्विवेकग्रहणेऽपि तद्धर्माणामध्यासः, यथा कुसुमाद्भेदेन गृह्यमाणेऽपि स्फटिकमणावतिस्वच्छतया जपाकुसुमप्रतिबिम्बोद्ग्राहिण्यरुणः स्फटिकैत्यारुण्यविभ्रम इत्यत उक्तम् -**तद्धर्माणामपीति।**इतरेतरत्र धर्मिणि धर्माणां भावो विनिमयस्तस्यानुपपत्तिः। अयमभिसन्धिः - रूपवद्धि द्रव्यमतिस्वच्छतया रूपवतो द्रव्यान्तरस्य तद्विवेकेन गृह्यमाणस्यापि छायां गृह्णीयात् , चिदात्मा त्वरूपो विषयी न विषयच्छायामुद्ग्राहयितुमर्हति। यथाहुः -‘शब्दगन्धरसानां च कीदृशी प्रतिबिम्बता” इति। तदिह पारिशेष्याद्विषयविषयिणोरन्योन्यात्मसम्भेदेनैव तद्धर्माणामपि परस्परसम्भेदेन विनिमयात्मना भवितव्यम् , तौ चेद्धर्मिणावत्यन्तविवेकेन गृह्यमाणावसम्भिन्नौ, असम्भिन्नाः सुतरां तयोर्धर्माः, स्वाश्रयाभ्यां व्यवधानेन दूरापेतत्वात्।तदिदमुक्तम् -**सुतरामिति।तद्विपर्ययेणेति।**विषयविपर्ययेणेत्यर्थः। मिथ्याशब्दोऽपह्नववचनः। एतदुक्तं भवति - अध्यासो भेदाग्रहेण व्याप्तः, तद्विरुद्धश्चेहास्ति भेदग्रहः, स भेदाग्रहं निवर्तयंस्तद्व्याप्तमध्यासमपि निवर्तयतीति। मिथ्येति भवितुं युक्तं यद्यपि तथापीति योजना ॥ इदमत्राकूतम् - भवेदेतदेवं यद्यहमित्यनुभवे आत्मतत्वं प्रकाशेत। न त्वेतदस्ति। तथाहि समस्तोपाध्यनवच्छिन्नानन्तानन्दचैतन्यैकरसमुदासीनमेकमद्वितीयमात्मतत्त्वं श्रुतिस्मृतीतिहासपुराणेषु गीयते। न चैतान्युपक्रमपरामर्शोपसंहारैः क्रियासमभिहारेणेदृगात्मतत्त्वमभिदधति तत्पराणि सन्ति शक्यानि शक्रेणाप्युपचरितार्थानि कर्तुम्। अभ्यासे हि भूयस्त्वमर्थस्य भवति, यथाहो दर्शनीयाहो दर्शनीयेति न न्यूनत्वं, प्रागेवोपचरितत्वमिति। अहमनुभवस्तु प्रादेशिकमनेकविधशोकदुःखादिप्रपञ्चोपप्लुतमात्मानमादर्शयन् कथमात्मतत्त्वगोचरः कथं वानुपप्लवः। न च ज्येष्ठप्रमाणप्रत्यक्षविरोधादाम्नायस्यैव तदपेक्षस्याप्रामाण्यमुपचरितार्थत्वं चेति युक्तम् , तस्यापौरुषेयतया निरस्तसमस्तदोषाशङ्कस्य, बोधकतया स्वतःसिद्धप्रमाणभावस्य स्वकार्ये प्रमितावनपेक्षत्वात्। प्रमितावनपेक्षत्वेऽप्युत्पत्तौ प्रत्यक्षापेक्षत्वात्तद्विरोधादनुत्पत्तिलक्षणमप्रामाण्यमिति चेन्न। उत्पादकाप्रतिद्वन्द्वित्वात्। न ह्यागमज्ञानं सांव्यवहारिकं प्रत्यक्षस्य प्रामाण्यमुपहन्ति येन कारणाभावान्न भवेदपि तु तात्त्विकम्। न च तत्तस्योत्पादकम्। अतात्त्विकप्रमाणभावेभ्योऽपि सांव्यवहारिकप्रमाणेभ्यस्तत्त्वज्ञानोत्पत्तिदर्शनात्। तथा च वर्णे ह्रस्वत्वदीर्घत्वादयोऽन्यधर्मा अपि समारोपितास् तत्त्वप्रतिपत्तिहेतवः। न हि लौकिका नाग इति वा नग इति वा पदात्कुञ्चरं वा तरुं वा प्रतिपद्यमाना भवन्ति भ्रान्ताः। न चानन्यपरं वाक्यं स्वार्थमुपचरितार्थं युक्तम्। उक्तं हि ‘न विधौ परः शब्दार्थ’ इति। ज्येष्ठत्वं च अनपेक्षितस्य बाध्यत्वे हेतुर् न तु बाधकत्वे, रजतज्ञानस्य ज्यायसः शुक्तिज्ञानेन कनीयसा बाधदर्शनात्। तदनपबाधने तदपबाधात्मनस्तस्योत्पत्तेरनुत्पत्तेः। दर्शितं च तात्त्विकप्रमाणभावस्यानपेक्षितत्वम्। तथा च पारमर्षं सूत्रं,“पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत्” (आ. ६ पा. ५ सू. ५४)इति। तथा “पूर्वात्परबलीयस्त्वं तत्र नाम प्रतीयताम्। अन्योन्यनिरपेक्षाणां यत्र जन्म धियां भवेत्” ॥ इति। अपि च येऽप्यहङ्कारास्पदमात्मानमास्थिषत तैरप्यस्य न तात्त्विकत्वमभ्युपेतव्यम् - ’ अहमिहैवास्मि सदने जानानः’ इति सर्वव्यापिनः प्रादेशिकत्वेन ग्रहात्। उच्चतरगिरिशिखरवर्तिषु महातरुषु भूमिष्ठस्य दूर्वाप्रवालनिर्भासप्रत्ययवत्। न चेदं देहस्य प्रादेशिकत्वमनुभूयते न त्वात्मन इति साम्प्रतम्। न हि तदैवं भवति - ’ अहम्’ इति; गौणत्वे वा न ’ जानानः’ इति। अपि च परशब्दः परत्र लक्ष्यमाणगुणयोगेन वर्तत इति यत्र प्रयोक्तृप्रतिपत्रोः सम्प्रतिपत्तिः स गौणः, स च भेदप्रत्ययपुरःसरः। तद्यथा नैयमिकाग्निहोत्रवचनोऽग्निहोत्रशब्दः (आ.१. पा.४. सू.४)प्रकरणान्तरावधृतभेदे कौण्डपायिनामयनगते कर्मणि“मासमग्मिहोत्रं जुहोति” (आ. ७ पा. ३ सू. १)इत्यत्र साध्यसादृश्येन गौणः, माणवके चानुभवसिद्धभेदे सिंहात्सिंहशब्दः। न त्वहङ्कारस्य मुख्योऽर्थो निर्लुठितगर्भतया देहादिभ्यो भिन्नोऽनुभूयते, येन परशब्दः शरीरादौ गौणो भवेत्। न चात्यन्तनिरूठतया गौणेऽपि न गौणत्वाभिमानः सार्षपादिषु तैलशब्दवदिति वेदितव्यम्। तत्रापि स्नेहात्तिलभवाद्भेदे सिद्ध एव सार्षपादीनां तैलशब्दवाच्यत्वाभिमानो, न त्वर्थयोस्तैलसार्षपयोरभेदाध्यवसायः। तत्सिद्धं गौणत्वमुभयदर्शिनो गौणमुख्यविवेकविज्ञानेन व्याप्तं तदिदं व्यापकं विवेकज्ञानं निवर्तमानं गौणतामपि निवर्तयतीति। न च बालस्थविरशरीरभेदेऽपि सोऽहमित्येकस्यात्मनः प्रतिसन्धानाद्देहादिभ्यो भेदेन अस्त्यात्मानुभव इति वाच्यम्। परीक्षकाणां खल्वियं कथा न लौकिकानाम्। परीक्षका अपि हि व्यवहारसमये न लोकसामान्यमतिवर्तन्ते। वक्ष्यत्यनन्तरमेव हि भगवान्भाष्यकारः - “पश्वादिभिश्चाविशेषात्” इति। बाह्या अप्याहुः - “शास्त्रचिन्तकाः खल्वेवं विवेचयन्ति न प्रतिपत्तारः” इति। तत्पारिशेष्याच्चिदात्मगोचरमहङ्कारमहमिहास्मि सदन इति प्रयुञ्जानो लौकिकः शरीराद्यभेदग्रहादात्मनः प्रादेशिकत्वमभिमन्यते, नभस इव घटमणिकमल्लिकाद्युपाध्यवच्छेदादिति युक्तमुत्पश्यामः। न चाहङ्कारप्रामाण्याय देहादिवदात्मापि प्रादेशिक इति युक्तम्। तदा खल्वयमणुपरिमाणो वा स्याद्देहपरिमाणो वा ? अणुपरिमाणत्वे स्थूलोऽहं दीर्घ इति च न स्यात् , देहपरिमाणत्वे तु सावयवतया देहवदनित्यत्वप्रसङ्गः। किञ्च अस्मिन्पक्षे अवयवसमुदायो वा चेतयेत्प्रत्येकं वावयवाः ? प्रत्येकं चेतनत्वपक्षे बहूनां चेतनानां स्वतन्त्राणामेकवाक्यताभावादपर्यायं विरुद्धदिक्क्रियतया शरीरमुन्मथ्येत, अक्रियं वा प्रसज्येत। समुदायस्य तु चैतन्ययोगे वृक्ण एकस्मिन्नवयवे चिदात्मनोऽप्यवयवो वृक्ण इति न चेतयेत्। न च बहूनामवयवानां परस्पराविनाभावनियमो दृष्टः। य एवावयवो विशीर्णस्तदा तदभावे न चेतयेत्। विज्ञानालम्बनत्वेऽप्यहंप्रत्ययस्य भ्रान्तत्वं तदवस्थमेव। तस्य स्थिरवस्तुनिर्भासत्वादस्थिरत्वाच्च विज्ञानानाम्। एतेन स्थूलोऽहमन्धोऽहं गच्छामीत्यादयोऽप्यध्यासतया व्याख्याताः। तदेवमुक्तेन क्रमेणाहंप्रत्यये पूतिकूष्माण्डीकृते भगवती श्रुतिरप्रत्यूहं कर्तृत्वभोक्तृत्वदुःखशोकाद्यात्मत्वमहमनुभवप्रसञ्जितमात्मनो निषेद्धुमर्हतीति।तदेवं सर्वप्रवादिश्रुतिस्मृतीतिहासपुराणप्रथितमिथ्याभावस्याहंप्रत्ययस्य स्वरूपनिमित्तफलैरुपव्याख्यानम् -**अन्योन्यस्मिन्नित्यादि।**अत्र चान्योन्यस्मिन्धर्मिण्यात्मशरीरादौ ‘अन्योन्यात्मकताम्’ अध्यस्याहमिदं शरीरादीति। इदमिति च वस्तुतः, न प्रतीतितः। लोकव्यवहारो लोकानां व्यवहारः, स चायमहमिति व्यपदेशः। इतिशब्दसूचितश्च शरीराद्यनुकूलं प्रतिकूलं च प्रमेयजातं प्रमाय प्रमाणेन तदुपादानपरिवर्जनादिः। “अन्योन्यधर्मांश्चाध्यस्य” अन्योन्यस्मिन्धर्मिणि देहादिधर्माञ्जन्ममरणजराव्याध्यादीनात्मनि धर्मिणि अध्यस्तदेहादिभावे समारोप्य, तथा चैतन्यादीनात्मधर्मान् देहादावध्यस्तात्मभावे समारोप्य, ममेदं जरामरणपुत्रपशुस्वाम्यादीति व्यवहारो व्यपदेशः, इतिशब्दसूचितश्च तदनुरूपः प्रवृत्त्यादिः। अत्र च अध्यासव्यवहारक्रियाभ्यां यः कर्तोन्नीतः स समान इति समानकर्तृकत्वेनाध्यस्य व्यवहार इत्युपपन्नम्।पूर्वकालत्वसूचितमध्यासस्य व्यवहारकारणत्वं स्फुटयति -**मिथ्याज्ञाननिमित्तः व्यवहारः।**मिथ्याज्ञानमध्यासस्तन्निमित्तः। तद्भावाभावानुविधानाद्व्यवहारभावाभावयोरित्यर्थः।तदेवमध्यासस्वरूपं फलं च व्यवहारमुक्त्वा तस्य निमित्तमाह -**इतरेतराविवेकेन।**विवेकाग्रहणेत्यर्थः।अथाविवेक एव कस्मान्न भवति, तथा च नाध्यास इत्यत आह -**अत्यन्तविविक्तयोर्धर्मधर्मिणोः।**परमार्थतो धर्मिणोरतादात्म्यं विवेको धर्माणां चासङ्कीर्णता विवेकः। स्यादेतत्। विविक्तयोर्वस्तुसतोर्भेदाग्रहनिबन्धनस्तादात्म्यविभ्रमो युज्यते, शुक्तेरिव रजताद्भेदाग्रह निबन्धनो रजततादात्म्यविभ्रमः।इह तु परमार्थसतश्चिदात्मनोऽत्यन्तभिन्नं न देहाद्यस्ति वस्तुसत् , तत्कुतश्चिदात्मनो भेदाग्रहः कुतश्च तादात्म्यविभ्रम इत्यत आह -**सत्यानृते मिथुनीकृत्य इति।**विवेकाग्रहादध्यस्येति योजना। सत्यं चिदात्मा, अनृतं बुद्धीन्द्रियदेहादि, ते द्वे धर्मिणी मिथुनीकृत्य युगलीकृत्येत्यर्थः। न च संवृतिपरमार्थसतोः पारमार्थिकं मिथुनमस्तीत्यभूततद्भावार्थस्य च्वेः प्रयोगः।एतदुक्तं भवति - अप्रतीतस्यारोपायोगादारोप्यस्य प्रतीतिरुपयुज्यते न वस्तुसत्तेति। स्यादेतत्। आरोप्यस्य प्रतीतौ सत्यां पूर्वदृष्टस्य समारोपः समारोपनिबन्धना च प्रतीतिरिति दुर्वारं परस्पराश्रयत्वमित्यत आह -**नैसर्गिक इति।**स्वाभाविकोऽनादिरयं व्यवहारः। व्यवहारानादितया तत्कारणस्याध्यासस्यानादितोक्ता, ततश्च पूर्वपूर्वमिथ्याज्ञानोपदर्शितस्य बुद्धीन्द्रियशरीरादेरुत्तरोत्तराध्यासोपयोग इत्यनादित्वात्बीजाङ्कुरवन्न परस्पराश्रयत्वमित्यर्थः। स्यादेतत्। अद्धा पूर्वप्रतीतिमात्रमुपयुज्यत आरोपे, न तु प्रतीयमानस्य परमार्थसत्ता। प्रतीतिरेव तु अत्यन्तासतो गगनकमलिनीकल्पस्य देहेन्द्रियादेर्नोपपद्यते। प्रकाशमानत्वमेव हि चिदात्मनोऽपि सत्त्वं न तु तदतिरिक्तं सत्तासामान्यसमवायोऽर्थक्रियाकारिता वा, द्वैतापत्तेः। सत्तायाश्चार्थक्रियाकारितायाश्च सत्तान्तरार्थक्रियाकारितान्तरकल्पनेऽनवस्थापातात् , प्रकाशमानतैव सत्ताभ्युपेतव्या। तथा च देहादयः प्रकाशमानत्वान्नासन्तः, चिदात्मवत्।असत्त्वे वा न प्रकाशमानाः, तत्कथं सत्यानृतयोर्मिथुनीभावः, तदभावे वा कस्य कुतो भेदाग्रहः, तदसम्भवे कुतोऽध्यास इत्याशयवानाह -आहआक्षेप्ता -**कोऽयमध्यासो नाम।**क इत्याक्षेपे।समाधाता लोकसिद्धमध्यासलक्षणमाचक्षाण एवाक्षेपं प्रतिक्षिपति -**उच्यते - स्मृतिरूपः परत्र पूर्वदृष्टावभासः।**अवसन्नोऽवमतो वा भासोऽवभासः। प्रत्ययान्तरबाधश्चास्यवसादोऽवमानो वा। एतावता मिथ्याज्ञानमित्युक्तं भवति। तस्येदमुपव्याख्यानम् “पूर्वदृष्ट” इत्यादि। पूर्वदृष्टस्यावभासः पूर्वदृष्टावभासः। मिथ्याप्रत्ययश्चारोपविषयारोपणीयमिथुनमन्तरेण न भवतीति पूर्वदृष्टग्रहणेनानृतमारोपणीयमुपस्थापयति। तस्य च दृष्टत्वमात्रमुपयुज्यते न वस्तुसत्तेति दृष्टग्रहणम्। तथापि वर्तमानं दृष्टं दर्शनं नारोपोपयोगीति पूर्वेत्युक्तम्। तच्च पूर्वदृष्टं स्वरूपेण सदप्यारोपणीयतया अनिर्वाच्यमित्यनृतम्।आरोपविषयं सत्यमाह -**परत्रेति।**परत्र शुक्तिकादौ परमार्थसति, तदनेन सत्यानृतमिथुनमुक्तम्। स्यादेतत्। परत्र पूर्वदृष्टावभास इत्यलक्षणम् , अतिव्यापकत्वात्। अस्ति हि स्वस्तिमत्यां गवि पूर्वदृष्टस्य गोत्वस्य, परत्र कालाक्ष्यामवभासः। अस्ति च पाटलिपुत्रे पूर्वदृष्टस्य देवदत्तस्य परत्र माहिष्मत्यामवभासः समीचीनः।अवभासपदं च समीचीनेऽपि प्रत्यये प्रसिद्धम् , यथा नीलस्यावभासः पीतस्यावभास इत्यत आह -**स्मृतिरूप इति।**स्मृते रूपमिव रूपमस्येति स्मृतिरूपः। असंनिहितविषयत्वं च स्मृतिरूपत्वम् , संनिहितविषयं च प्रत्यभिज्ञानं समीचीनमिति नातिव्याप्तिः। नाप्यव्याप्तिः, स्वप्नज्ञानस्यापि स्मृतिविभ्रमरूपस्यैवंरूपत्वात्। अत्रापि हि स्मर्यमाणे पित्रादौ निद्रोपप्लववशादसंनिधानापरामर्शे, तत्र तत्र पूर्वदृष्टस्यैव संनिहितदेशकालत्वस्य समारोपः। एवं पीतः शङ्खस्तिक्तो गुडैत्यत्राप्येतल्लक्षणं योजनीयम्। तथा हि - बहिर्विनिर्गच्छदत्यच्छनयनरश्मिसम्पृक्तपित्तद्रव्यवर्तिनीं पीततां पित्तरहितामनुभवन् , शङ्खं च दोषाच्छादितशुक्लिमां न द्रव्यमात्रमनुभवन् , पीततायाश्च शङ्खासम्बन्धमननुभवन् , असम्बन्धाग्रहणसारूप्येणपीतं तपनीयपिण्डम्पीतं बिल्वफलमित्यादौ पूर्वदृष्टं सामानाधिकरण्यं पीतत्वशङ्खत्वयोरारोप्याहपीतः शङ्ख इति। एतेनतिक्तो गुड इति प्रत्ययो व्याख्यातः। एवं विज्ञातृपुरुषाभिमुखेष्वादर्शोदकादिषु स्वच्छेषु चाक्षुषं तेजो लग्नमपि बलीयसा सौर्येण तेजसा प्रतिस्रोतः प्रवर्तितं मुखसंयुक्तं मुखं ग्राहयत् , दोषवशात्तद्देशतामनभिमुखतां च मुखस्याग्राहयत् , पूर्वदृष्टाभिमुखादर्शोदकदेशतामाभिमुख्यं च मुखस्यारोपयतीति प्रतिबिम्बविभ्रमोऽपि लक्षितो भवति। एतेन द्विचन्द्रदिङ्मोहालातचक्रगन्धर्वनगरवंशोरगादिविभ्रमेष्वपि यथासम्भवं लक्षणं योजनीयम्। एतदुक्तं भवति - न प्रकाशमानतामात्रं सत्त्वम् , येन देहेन्द्रियादेः प्रकाशमानतया सद्भावो भवेत्। न हि सर्पादिभावेन रज्ज्वादयो वा स्फटिकादयो वा रक्तादिगुणयोगिनो न प्रतिभासन्ते, प्रतिभासमाना वा भवन्ति तदात्मानस्तद्धर्माणो वा। तथा सति मरुषु मरीचिचयम् , उच्चावचमुच्चलत्तुङ्गतरङ्गभङ्गमालेयमभ्यर्णवमवतीर्णा मन्दाकिनी, इत्यभिसन्धाय प्रवृत्तस्तत्तोयमापीय पिपासामुपशमयेत्। तस्मादकामेनाप्यारोपितस्य प्रकाशमानस्यापि न वस्तुसत्त्वमभ्युपगमनीयम्। न च मरीचिरूपेण सलिलमवस्तुसत्स्वरूपेण तु परमार्थसदेव, देहेन्द्रियादयस्तु स्वरूपेणाप्यसन्त इत्यनुभवागोचरत्वात्कथमारोप्यन्त इति साम्प्रतं यतो यद्यसन्नानुभवगोचरः कथं तर्हि मरीच्यादीनामसतां तोयतयानुभवगोचरत्वम् , न च स्वरूपसत्त्वेन तोयात्मनापि सन्तो भवन्ति। यद्युच्येत नाभावो नाम भावादन्यः कश्चिदस्ति, अपि तु भाव एव भावान्तरात्मनाभावः स्वरूपेण तु भावः। यथाहुः -“भावान्तरमभावो हि कयाचित्तु व्यपेक्षया”(मण्डनमिश्रभ्रमविवेकः)इति। ततश्च भावात्मनोपाख्येयतयास्य युज्येतानुभवगोचरता। प्रपञ्चस्य पुनरत्यन्तासतो निरस्तसमस्तसामर्थ्यस्य निस्तत्त्वस्य कुतोऽनुभवविषयभावः, कुतो वा चिदात्मन्यारोपः। न च विषयस्य समस्तसामर्थ्यविरहेऽपि ज्ञानमेव तत्तादृशं स्वप्रत्ययसामर्थ्यासादितादृष्टान्तसिद्धस्वभावभेदमुपजातमसतः प्रकाशनं, तस्मादसत्प्रकाशनशक्तिरेवास्याविद्येति साम्प्रतम्। यतो येयमसत्प्रकाशनशक्तिर्विज्ञानस्य किं पुनरस्याः शक्यम् , असदिति चेत् , किमेतत्कार्यमाहोस्विदस्या ज्ञाप्यम्। न तावत्कार्यम् , असतस्तत्त्वानुपपत्तेः। नापि ज्ञाप्यं, ज्ञानान्तरानुपलब्धेः, अनवस्थापाताच्च। विज्ञानस्वरूपमेव असतः प्रकाश इति चेत् , कः पुनरेष सदसतोः सम्बन्धः ? असदधीननिरूपणत्वं सतो ज्ञानस्यासता सम्बन्ध इति चेत् , अहो बतायमतिनिर्वृत्तः प्रत्ययतपस्वी यस्यासत्यपि निरूपणमायतते, न च प्रत्ययस्तत्राधत्ते किञ्चित् , असत आधारत्वायोगात्। असदन्तरेण प्रत्ययो न प्रथत इति प्रत्ययस्यैवैष स्वभावो न त्वसदधीनमस्य किञ्चिदिति चेत् , अहो बतास्यासत्पक्षपातो यदयमतदुत्पत्तिरतदात्मा च तदविनाभावनियतः प्रत्यय इति। तस्मादत्यन्तासन्तः शरीरेन्द्रियादयो निस्तत्त्वा नानुभवविषया भवितुमर्हन्तीति। अत्र ब्रूमः - निस्तत्त्वं चेन्नानुभवगोचरः, तत्किमिदानीं मरीचयोऽपि तोयात्मना सतत्त्वा यदनुभवगोचराः स्युः। न सतत्त्वाः, तदात्मना मरीचीनामसत्त्वात्। द्विविधं च वस्तूनां तत्त्वं सत्त्वमसत्त्वं च। तत्र पूर्वं स्वतः, परं तु परतः। यथाहुः -“स्वरूपपररूपाभ्यां नित्यं सदसदात्मके। वस्तुनि ज्ञायते किञ्चिद्रूपं कैश्चित्कदा च न॥”(तत्वसङ्ग्रहः)इति। तत्किं मरीचिषु तोयनिर्भासप्रत्ययस्तत्त्वगोचरः, तथा च समीचीन इति न भ्रान्तो नापि बाध्येत। अद्धा न बाध्येत यदि मरीचीनतोयात्मतत्त्वानतोयात्मना गृह्णीयात्। तोयात्मना तु गृह्णन् कथमभ्रान्तः, कथं वा बाध्यः हन्त तोयाभावात्मनां मरीचिनां तोयभावात्मत्वं तावन्न सत् , तेषां तोयाभावादभेदेन तोयभावात्मतानुपपत्तेः। नाप्यसत्। वस्त्वन्तरमेव हि वस्त्वन्तरस्यासत्त्वमास्थीयते“भावान्तरमभावोऽन्यो न कश्चिदनिरूपणात्”(तत्वसङ्ग्रहः)इति वदद्भिः, न चारोपितं रूपं वस्त्वन्तरम् , तद्धि मरीचयो वा भवेयुः, गङ्गादिगतं तोयं वा। पूर्वस्मिन्कल्पे मरीचय इति प्रत्ययः स्यात् , न तोयमिति। उत्तरस्मिंस्तु गङ्गायां तोयमिति स्यात् , न पुनरिहेति। देशभेदास्मरणे तोयमिति स्यान्न पुनरिहेति। न चेदमत्यन्तमसन्निरस्तसमस्तस्वरूपमलीकमेवास्तु इति साम्प्रतम् , तस्यानुभवगोचरत्वानुपपत्तेरित्युक्तमधस्तात्। तस्मान्न सत् , नासन्नापि सदसत् , परस्परविरोधादित्यनिर्वाच्यमेवारोपणीयं मरीचिषु तोयमास्थेयम् , तदनेन क्रमेणाध्यस्तं तोयं परमार्थतोयमिव, अत एव पूर्वदृष्टमिव, तत्त्वतस्तु न तोयं न च पूर्वदृष्टं, किं त्वनृतमनिर्वाच्यम्। एवं च देहेन्द्रियादिप्रपञ्चोऽप्यनिर्वाच्यः, अपूर्वोऽपि पूर्वमिथ्याप्रत्ययोपदर्शित इव परत्र चिदात्मन्यध्यस्यत इति उपपन्नम् , अध्यासलक्षणयोगात्। देहेन्द्रियादिप्रपञ्चबाधनं चोपपादयिष्यते। चिदात्मा तु श्रुतिस्मृतीतिहासपुराणगोचरः, तन्मूलतदविरुद्धन्यायनिर्णीतशुद्धबुद्धमुक्तस्वभावः सत्त्वेनैव निर्वाच्यः। अबाधिता स्वयम्प्रकाशतैव अस्य सत्ता, सा च स्वरूपमेव चिदात्मनः, न तु तदतिरिक्तं सत्तासामान्यसमवायोऽर्थक्रियाकारिता वेति सर्वमवदातम्।स चायमेवंलक्षणकोऽध्यासोऽनिर्वचनीयः सर्वेषामेव संमतः परीक्षकाणां, तद्भेदे परं विप्रतिपत्तिरित्यनिर्वचनीयतां द्रढयितुमाह -**तं केचिदन्यत्रान्यधर्माध्यास इति वदन्ति।**अन्यधर्मस्य, ज्ञानधर्मस्य रजतस्य। ज्ञानाकारस्येति यावत्। अध्यासोऽन्यत्र बाह्ये। सौत्रान्तिकनये तावद्बाह्यमस्ति वस्तु सत् , तत्र ज्ञानाकारस्यारोपः। विज्ञानवादिनामपि यद्यपि न बाह्यं वस्तु सत् , तथाप्यनाद्यविद्यावासनारोपितमलीकं बाह्यम् , तत्र ज्ञानाकारस्याध्यारोपः। उपपत्तिश्च यद्यादृशमनुभवसिद्धं रूपं तत्तादृशमेवाभ्युपेतव्यमित्युत्सर्गः, अन्यथात्वं पुनरस्य बलवद्बाधकप्रत्ययवशान् नेदं रजतमिति च बाधकस्येदन्तामात्रबाधेनोपपत्तौ न रजतगोचरतोचिता। रजतस्य धर्मिणो बाधे हि रजतं च तस्य च धर्म इदन्ता बाधिते भवेताम् , तद्वरमिदन्तैवास्य धर्मो बाध्यतां न पुना रजतमपि धर्मि, तथा च रजतं बहिर्बाधितमर्थादान्तरे ज्ञाने व्यवतिष्ठत इति ज्ञानाकारस्य बहिरध्यासः सिध्यति।**केचित्तु -**ज्ञानाकारख्यातावपरितुष्यन्तो वदन्ति -**यत्र यदध्यासस्तद्विवेकाग्रहनिबन्धनो भ्रम इति।**अपरितोषकारणं चाहुः - विज्ञानकारता रजतादेरनुभवाद्वा व्यवस्थाप्येतानुमानाद्वा। तत्रानुमानमुपरिष्टान्निराकरिष्यते। अनुभवोऽपि रजतप्रत्ययो वा स्यात् , बाधकप्रत्ययो वा। न तावद्रजतानुभवः। स हीदङ्कारास्पदं रजतमावेदयति न त्वान्तरम्। अहमिति हि तदा स्यात् , प्रतिपत्तुः प्रत्ययादव्यतिरेकात्। भ्रान्तं विज्ञानं स्वाकारमेव बाह्यतयाध्यवस्यति, तथा च नाहङ्कारास्पदमस्य गोचरः, ज्ञानाकारता पुनरस्य बाधकप्रत्ययप्रवेदनीयेति चेत् , हन्त बाधकप्रत्ययमालोचयत्वायुष्मान्। किं पुरोवर्ति द्रव्यं रजताद्विवेचयत्याहोस्विज् ज्ञानाकारतामप्यस्य दर्शयति। तत्र ज्ञानाकारतोपदर्शनव्यापारं बाधकप्रत्ययस्य ब्रुवाणः श्लाघनीयप्रज्ञो देवानांप्रियः। पुरोवर्तित्वप्रतिषेधादर्थादस्य ज्ञानाकारतेति चेन्न। असंनिधानाग्रहनिषेधादसंनिहितो भवति। प्रतिपत्तुरत्यन्तसंनिधानं त्वस्य प्रतिपत्त्रात्मकं कुतस्त्यम्। न चैष रजतस्य निषेधः, न चेदन्तायाः, किं तु विवेकाग्रहप्रसञ्जितस्य रजतव्यवहारस्य। न च रजतमेव शुक्तिकायां प्रसञ्जितं रजतज्ञानेन। नहि रजतनिर्भासनं शुक्तिकालम्बनं युक्तम् अनुभवविरोधात्। न खलु सत्तामात्रेणालम्बनम् , अतिप्रसङ्गात्। सर्वेषामर्थानां सत्त्वाविशेषादालम्बनत्वप्रसङ्गात्। नापि कारणत्वेन, इन्द्रियादीनामपि कारणत्वात्। तथा च भासमानतैवालम्बनार्थः। न च रजतज्ञाने शुक्तिका भासते, इति कथमालम्बनम् , भासमानताभ्युपगमे वा कथं नानुभवविरोधः। अपि चेन्द्रियादीनां समीचीनज्ञानोपजनने सामर्थ्यमुपलब्धमिति कथमेभ्यो मिथ्याज्ञानसम्भवः। दोषसहितानां तेषां मिथ्याप्रत्ययेऽपि सामर्थ्यमिति चेन्न, दोषाणां कार्योपजननसामर्थ्यविघातमात्रहेतुत्वात् , अन्यथा दुष्टादपि कुटजबीजाद्वटाङ्कुरोत्पत्तिप्रसङ्गात्। अपि च स्वगोचरव्यभिचारे विज्ञानानां सर्वत्रानाश्वासप्रसङ्गः। तस्मात्सर्वं ज्ञानं समीचीनमास्थेयम्। तथा च रजतम् , इदमिति च द्वे विज्ञाने स्मृत्यनुभवरूपे, तत्रेदमिति पुरोवर्तिद्रव्यमात्रग्रहणम् , दोषवशात्तद्गतशुक्तित्वसामान्यविशेषस्याग्रहात् , तन्मात्रं च गृहीतं सदृशतया संस्कारोद्बोधक्रमेण रजते स्मृतिं जनयति। सा च गृहीतग्रहणस्वभावापि दोषवशाद्गृहीतत्वांशप्रमोषाद्ग्रहणमात्रमवतिष्ठते। तथा च रजतस्मृतेः पुरोवर्तिद्रव्यमात्रग्रहणस्य च मिथः स्वरूपतो विषयतश्च भेदाग्रहात् , संनिहितरजतगोचरज्ञानसारूप्येण, इदं रजतमिति भिन्ने अपि स्मरणग्रहणे अभेदव्यवहारं च सामानाधिकरण्यव्यपदेशं च प्रवर्तयतः। क्वचित्पुनर्ग्रहणे एव मिथोऽनुगृहीतभेदे, यथा पीतः शङ्ख इति। अत्र हि बहिर्विनिर्गच्छन्नयनरश्मिवर्तिनः पित्तद्रव्यस्य काचस्येव स्वच्छस्य पीतत्वं गृह्यते पित्तं तु न गृह्यते। शङ्खोऽपि दोषवशाच्छुक्लगुणरहितः स्वरूपमात्रेण गृह्यते। तदनयोर्गुणगुणिनोरसंसर्गाग्रहसारूप्यात्पीततपनीयपिण्डप्रत्ययाविशेषेणाभेदव्यवहारः सामानाधिकरण्यव्यपदेशश्च। भेदाग्रहप्रसञ्जिताभेदव्यवहारबाधनाच्च नेदमिति विवेकप्रत्ययस्य बाधकत्वमप्युपपद्यते, तदुपपत्तौ च प्राचीनस्य प्रत्ययस्य भ्रान्तत्वमपि लोकसिद्धं सिद्धं भवति। तस्माद्यथार्थाः सर्वे विप्रतिपन्नाः सन्देहविभ्रमाः, प्रत्ययत्वात् , घटादिप्रत्ययवत्।तदिदमुक्तम् -**यत्र यदध्यास इति।**यस्मिन्शुक्तिकादौ यस्य रजतादेरध्यास इति लोकप्रसिद्धिर् नासावन्यथाख्यातिनिबन्धना, किन्तु गृहीतस्य रजतादेस्तत्स्मरणस्य च गृहीततांशप्रमोषेण, गृहीतमात्रस्य च य इदमिति पुरोऽवस्थिताद्द्रव्यमात्रात्तज्ज्ञानाच्च विवेकः, तदग्रहणनिबन्धनो भ्रमः। भ्रान्तत्वं च ग्रहणस्मरणयोरितरेतरसामानाधिकरण्यव्यपदेशो रजतव्यवहारश्चेति ।अन्ये तु - अत्राप्यपरितुष्यन्तः, यत्र यदध्यासस्तस्यैव विपरीतधर्मत्वकल्पनामाचक्षते। अत्रेदमाकूतम् - अस्ति तावद्रजतार्थिनोरजतमिदमिति प्रत्ययात्पुरोवर्तिनि द्रव्ये प्रवृत्तिः, सामानाधिकरण्यव्यपदेशश्चेति सर्वजनीनम्। तदेतन्न तावद्ग्रहणस्मरणयोस्तद्गोचरयोश्च मिथो भेदाग्रहमात्राद्भवितुमर्हति। ग्रहणनिबन्धनौ हि चेतनस्य व्यवहारव्यपदेशौ कथमग्रहणमात्राद्भवेताम्। ननूक्तं नाग्रहणमात्रात् , किं तु ग्रहणस्मरणे एव मिथः स्वरूपतो विषयतश्चागृहीतभेदे, समीचीनपुरःस्थितरजतविज्ञानसारूप्येणाभेदव्यवहारं सामानाधिकण्यव्यपदेशं च प्रवर्तयतः। अथ समीचीनज्ञानसारूप्यमनयोर्गृह्यमाणं वा व्यवहारप्रवृत्तिहेतुः, अगृह्यमाणं वा सत्तामात्रेण। गृह्यमाणत्वेऽपि ‘समीचीनज्ञानसारूप्यमनयोरिदमिति रजतमिति च ज्ञानयोः’ इति ग्रहणम् , ‘अथवानयोरेव स्वरूपतो विषयतश्च मिथो भेदाग्रहः’ इति ग्रहणम्। तत्र न तावत्समीचीनज्ञानसदृशे इति ज्ञानं समीचीनज्ञानवद्व्यवहारप्रवर्तकम्। न हिगोसदृशो गवय इति ज्ञानं गवार्थिनं गवये प्रवर्तयति। अनयोरेव भेदाग्रह इति तु ज्ञानं पराहतम् , न हि भेदाग्रहेऽनयोरिति भवति, अनयोरिति ग्रहे भेदाग्रहणमिति च भवति। तस्मात्सत्तामात्रेण भेदाग्रहोऽगृहीत एव व्यवहारहेतुरिति वक्तव्यम्। तत्र किमयमारोपोत्पादक्रमेण व्यवहारहेतुरस्त्वाहोऽनुत्पादितारोप एव स्वत इति। वयं तु पश्यामः - चेतनव्यवहारस्याज्ञानपूर्वकत्वानुपपत्तेः, आरोपज्ञानोत्पादक्रमेणैवैति। ननु सत्यं चेतनव्यवहारो नाज्ञानपूर्वकः किं त्वविदितविवेकग्रहणस्मरणपूर्वक इति। मैवम्। नहि रजतप्रातिपदिकार्थमात्रस्मरणं प्रवृत्तावुपयुज्यते। इदङ्कारास्पदाभिमुखी खलु रजतार्थिनां प्रवृत्तिरित्यविवादम्। कथं चायमिदङ्कारास्पदे प्रवर्तेत यदि न तदिच्छेत्। अन्यदिच्छत्यन्यत्करोतीति व्याहतम्। न चेदिदङ्कारास्पदं रजतमिति जानीयात्कथं रजतार्थी तदिच्छेत्। यद्यतथात्वेनाग्रहणादिति ब्रूयात्स प्रतिवक्तव्योऽथ तथात्वेनाग्रहणात्कस्मादयं नोपेक्षेतेति। सोऽयमुपादानोपेक्षाभ्यामभित आकृष्यमाणश्चेतनोऽव्यवस्थित इतीदङ्कारास्पदे रजतसमारोपेणोपादान एव व्यवस्थाप्यत इति भेदाग्रहः समारोपोत्पादक्रमेण चेतनप्रवृत्तिहेतुः। तथाहि - भेदाग्रहादिदङ्कारास्पदे रजतत्वं समारोप्य, तज्जातीयस्योपकारहेतुभावमनुचिन्त्य, तज्जातीयतयेदङ्कारास्पदे रजते तमनुमाय, तदर्थी प्रवर्तत इत्यानुपूर्व्यं सिद्धम्। न च तटस्थरजतस्मृतिरिदङ्कारास्पदस्योपकारहेतुभावमनुमापयितुमर्हति, रजतत्वस्य हेतोरपक्षधर्मत्वात्। एकदेशदर्शनं खल्वनुमापकं न त्वनेकदेशदर्शनम्। यथाहुः - ज्ञातसम्बन्धस्यैकदेशदर्शनादिति। समारोपे त्वेकदेशदर्शनमस्ति। तत्सिद्धमेतद्विवादाध्यासितं रजतादिज्ञानं, पुरोवर्तिवस्तुविषयम् , रजताद्यर्थिनस्तत्र नियमेन प्रवर्तकत्वात् , यद्यदर्थिनं यत्र नियमेन प्रवर्तयति तज्ज्ञानं तद्विषयं यथोभयसिद्धसमीचीनरजतज्ञानम् , तथा चेदम् , तस्मात्तथेति। यच्चोक्तमनवभासमानतया न शुक्तिरालम्बनमिति, तत्र भवान् पृष्टो व्याचष्टाम् , किं शुक्तिकात्वस्य इदं रजतमिति ज्ञानं प्रत्यनालम्बनत्वमाहोस्विद्द्रव्यमात्रस्य पुरःस्थितस्य सितभास्वरस्य। यदि शुक्तिकात्वस्यानालम्बनत्वम् , अद्धा। उत्तरस्यानालम्बनत्वं ब्रुवाणस्य तवैवानुभवविरोधः। तथा हि - रजतमिदमित्यनुभवन्ननुभविता पुरोवर्ति वस्त्वङ्गुल्यादिना निर्दिशति। दृष्टं च दुष्टानां कारणानामौत्सर्गिककार्यप्रतिबन्धेन कार्यान्तरोपजननसामर्थ्यम् , यथा दावाग्निदग्धानां वेत्रबीजानां कदलीकाण्डजनकत्वम्। भस्मकदुष्टस्य चोदर्यस्य तेजसो बह्वन्नपचनमिति। प्रत्यक्षबाधकापहृतविषयं च विभ्रमाणां यथार्थत्वानुमानमाभासः, हुतवहानुष्णत्वानुमानवत्। यच्चोक्तं मिथ्याप्रत्ययस्य व्यभिचारे सर्वप्रमाणेष्वनाश्वास इति, तद् बोधकत्वेन स्वतःप्रामाण्यं नाव्यभिचारेणेति व्युत्पादयद्भिरस्माभिः परिहृतं न्यायकणिकायामिति नेह प्रतन्यते। दिङ्मात्रं चास्य स्मृतिप्रमोषभङ्गस्योक्तम्। विस्तरस्तु ब्रह्मतत्त्वसमीक्षायामवगन्तव्य इति, तदिदमुक्तम् - “अन्ये तु यत्र यदध्यासस्तस्यैव विपरीतधर्मत्वकल्पनामाचक्षते” इति। यत्र शुक्तिकादौ यस्य रजतादेरध्यासस्तस्यैव शुक्तिकादेर्विपरीतधर्मकल्पनां रजतत्वधर्मकल्पनामिति योजना।ननु सन्तु नाम परीक्षकाणां विप्रतिपत्तयः, प्रकृते तु किमायातमित्यत आह -**सर्वथापि त्वन्यस्यान्यधर्मकल्पनां न व्यभिचरति।**अन्यस्यान्यधर्मकल्पनानृतता, सा चानिर्वचनीयतेत्यधस्तादुपपादितम्। तेन सर्वेषामेव परीक्षकाणां मतेऽन्यस्यान्यधर्मकल्पनानिर्वचनीयतावश्यम्भाविनीत्यनिर्वचनीयता सर्वतन्त्रसिद्धान्त इत्यर्थः। अख्यातिवादिभिरकामैरपि सामानाधिकरण्यव्यपदेशप्रवृत्तिनियमस्नेहादिदमभ्युपेयमिति भावः।न केवलमियमनृतता परीक्षकाणां सिद्धा, अपि तु लौकिकानामपीत्याह -**तथा च लोकेऽनुभवः - शुक्तिका हि रजतवदवभासत इति।**न पुना रजतमिदमिति शेषः।स्यादेतत्। अन्यस्यान्यात्मताविभ्रमो लोकसिद्धः, एकस्य त्वभिन्नस्य भेदभ्रमो न दृष्ट इति कुतश्चिदात्मनोऽभिन्नानां जीवानां भेदविभ्रम इत्यताह -**एकश्चन्द्रः सद्वितीयवदिति।**पुनरपि चिदात्मन्यध्यासमाक्षिपति -**कथं पुनः प्रत्यगात्मन्यविषयेऽध्यासो विषयतद्धर्माणाम्।**अयमर्थः - चिदात्मा प्रकाशते न वान चेत्प्रकाशते, कथमस्मिन्नध्यासो विषयतद्धर्माणाम्। न खल्वप्रतिभासमाने पुरोवर्तिनि द्रव्ये रजतस्य वा तद्धर्माणां वा समारोपः सम्भवतीति। प्रतिभासे वा (न)तावदयमात्मा जडो घटादिवत्पराधीनप्रकाश इति युक्तम्। न खलु स एव कर्ता च कर्म च भवति, विरोधात्। परसमवेतक्रियाफलशालि हि कर्म, न च ज्ञानक्रिया परसमवायिनीति कथमस्यां कर्म, न च तदेव स्वं च परं च, विरोधात्। आत्मान्तरसमवायाभ्युपगमे तु ज्ञेयस्यात्मनोऽनात्मत्वप्रसङ्गः। एवं तस्य तस्येत्यनवस्थाप्रसङ्गः। स्यादेतत्। आत्मा जडोऽपि सर्वार्थज्ञानेषु भासमानोऽपि कर्तैव न कर्म, परसमवेतक्रियाफलशालित्वाभावात् , चैत्रवत्। यथा हि चैत्रसमवेतक्रियया चैत्रनगरप्राप्तावुभयसमवेतायामपि क्रियमाणायां नगरस्यैव कर्मता, परसमवेतक्रियाफलशालित्वात् , न तु चैत्रस्य क्रियाफलशालिनोऽपि, चैत्रसमवायाद्गमनक्रियाया इति, तन्न। श्रुतिविरोधात्। श्रूयते हि“सत्यं ज्ञानमनन्तं ब्रह्म” (तै. उ. २। १। १)इति उपपद्यते च, तथा हि - योऽयमर्थप्रकाशः फलं यस्मिन्नर्थश्च आत्मा च प्रथेते स किं जडः स्वयम्प्रकाशो वा। जडश्चेद्विषयात्मानावपि जडाविति कस्मिन्किं प्रकाशेताविशेषात् , इति प्राप्तमान्ध्यमशेषस्य जगतः। तथा चाभाणकः - “अन्धस्येवान्धलग्नस्य विनिपातः पदे पदे”। न च निलीनमेव विज्ञानमर्थात्मानौ ज्ञापयति, चक्षुरादिवदिति वाच्यम्। ज्ञापनं हि ज्ञानजननम् , जनितं च ज्ञानं जडं सन्नोक्तदूषणमतिवर्तेतेति। एवमुत्तरोत्तराण्यपि ज्ञानानि जडानीत्यनवस्था। तस्मादपराधीनप्रकाशा संविदुपेतव्या। तथापि किमायातं विषयात्मनोः स्वभावजडयोः। एतदायातं यत्तयोः संविदजडेति। तत्किं पुत्रः पण्डित इति पितापि पण्डितोऽस्तु। स्वभाव एष संविदः स्वयम्प्रकाशाया यदर्थात्मसम्बन्धितेति चेत् , हन्त पुत्रस्यापि पण्डितस्य स्वभाव एष यत्पितृसम्बन्धितेति समानम्। सहार्थात्मप्रकाशेन संवित्प्रकाशो न त्वर्थात्मप्रकाशं विनेति तस्याः स्वभाव इति चेत् , तत्किं संविदो भिन्नौ संविदर्थात्मप्रकाशौ। तथा च न स्वयम्प्रकाशा संवित् , न च संविदर्थात्मप्रकाश इति। अथ ‘संविदर्थात्मप्रकाशो न संविदो भिद्येते’ , संविदेव तौ। एवं चेद् यावदुक्तं भवति संवितात्मार्थौ सहेति तावदुक्तं भवति संविदर्थात्मप्रकाशौ सहेति, तथा च न विवक्षितार्थसिद्धिः। न चातीतानागतार्थगोचरायाः संविदोऽर्थसहभावोऽपि। तद्विषयहानोपादानोपेक्षाबुद्धिजननादर्थसहभाव इति चेन्न, अर्थसंविद इव हानादिबुद्धीनामपि तद्विषयत्वानुपपत्तेः। हानादिजननाद्धानादिबुद्धीनामर्थविषयत्वम् , अर्थविषयहानादिबुद्धिजननाच्च अर्थसंविदस्तद्विषयत्वमिति चेत् , तत्किं देहस्य प्रयत्नवदात्मसंयोगो देहप्रवृत्तिनिवृत्तिहेतुरर्थे इत्यर्थप्रकाशोऽस्तु। जाड्याद्देहात्मसंयोगो नार्थप्रकाश इति चेत् , नन्वयं स्वयम्प्रकाशोऽपि स्वात्मन्येव खद्योतवत्प्रकाशः, अर्थे तु जड इत्युपपादितम्। न च प्रकाशस्यात्मानो विषयास् ते हि विच्छिन्नदीर्घस्थूलतयानुभूयन्ते, प्रकाशश्चायमान्तरोऽस्थूलोऽनणुरह्रस्वोऽदीर्धश्चेति प्रकाशते, तस्माच्चन्द्रेऽनुभूयमान इव द्वितीयश्चन्द्रमाः स्वप्रकाशादन्योऽर्थो ऽनिर्वचनीय एवेति युक्तमुत्पश्यामः। न चास्य प्रकाशस्याजानतः स्वलक्षणभेदोऽनुभूयते। न च अनिर्वाच्यार्थभेदः प्रकाशं निर्वाच्यं भेत्तुमर्हति, अतिप्रसङ्गात्। न च अर्थानामपि परस्परं भेदः समीचीनज्ञानपद्धतिमध्यास्ते इत्युपरिष्टादुपपादयिष्यते। तदयं प्रकाश एव स्वयम्प्रकाश एकः कूटस्थनित्यो निरंशः प्रत्यगात्माशक्यनिर्वचनीयेभ्यो देहेन्द्रियादिभ्य आत्मानं प्रतीपं निर्वचनीयमञ्चति जानातीति प्रत्यङ्स चात्मेति प्रत्यगात्मा, स चापराधीनप्रकाशत्वात् , अनंशत्वाच्च, अविषयः, तस्मिन्नध्यासो विषयधर्माणाम् , देहेन्द्रियादिधर्माणां कथम् , किमाक्षेपे। अयुक्तोऽयमध्यास इत्याक्षेपः।कस्मादयमयुक्त इत्यत आह -**सर्वो हि पुरोऽवस्थिते विषये विषयान्तरमध्यस्यति।**एतदुक्तं भवति - यत्पराधीनप्रकाशमंशवच्च तत्सामान्यांशग्रहे कारणदोषवशाच्च विशेषाग्रहेऽन्यथा प्रकाशते। प्रत्यगात्मा त्वपराधीनप्रकाशतया न स्वज्ञाने कारणान्यपेक्षते, येन तदाश्रयैर्दोषैर्दुष्येत। न चांशवान् , येन कश्चिदस्यांशो गृह्येत, कश्चिन्न गृह्येत। नहि तदेव तदानीमेव तेनैव गृहीतमगृहीतं च सम्भवतीति न स्वयम्प्रकाशपक्षेऽध्यासः। सदातनेऽप्यप्रकाशे पुरोऽवस्थितत्वस्यापरोक्षत्वस्याभावान्नाध्यासः। न हि शुक्तौ अपुरःस्थितायां रजतमध्यस्यतीदं रजतमिति। तस्मादत्यन्तग्रहे अत्यन्ताग्रहे च नाध्यास इति सिद्धम्।स्यादेतत्। अविषयत्वे हि चिदात्मनो नाध्यासः, विषय एव तु चिदात्मास्मत्प्रत्ययस्य, तत्कथं नाध्यास इत्यत आह -**युष्मत्प्रत्ययापेतस्य च प्रत्यगात्मनोऽविषयत्वं ब्रवीषि।**विषयत्वे हि चिदात्मनोऽन्यो विषयी भवेत्। तथा च यो विषयी स एव चिदात्मा। विषयस्तु ततोऽन्यो युष्मत्प्रत्ययगोचरोऽभ्युपेयः। तस्मादनात्मत्वप्रसङ्गादनवस्थापरिहाराय युष्मत्प्रत्ययापेतत्वम्, अत एवाविषयत्वमात्मनो वक्तव्यम् , तथा च नाध्यास इत्यर्थः।परिहरति -**उच्यते - न तावदयमेकान्तेनाविषयः।**कुतः,**अस्मत्प्रत्ययविषयत्वात्।**अयमर्थः - सत्यं प्रत्यगात्मा स्वयम्प्रकाशत्वादविषयोऽनंशश्च, तथापि अनिर्वचनीयानाद्यविद्यापरिकल्पितबुद्धिमनः सूक्ष्मस्थूलशरीरेन्द्रियावच्छेदेनानवच्छिन्नोऽपि वस्तुतोऽवच्छिन्न इव अभिन्नोऽपि भिन्न इव, अकर्तापि कर्तेव, अभोक्तापि भोक्तेव, अविषयोऽप्यस्मत्प्रत्ययविषय इव, जीवभावमापन्नोऽवभासते, नभ इव घटमणिकमल्लिकाद्यवच्छेदभेदेन भिन्नमिवानेकविधधर्मकमिवेति। न हि चिदेकरसस्यात्मनश् चिदंशे गृहीते अगृहीतं किञ्चिदस्ति। न खल्वानन्दनित्यत्वविभुत्वादयोऽस्य चिद्रूपाद्वस्तुतो भिद्यन्ते, येन तद्ग्रहे न गृह्येरन्। गृहीता एव तु कल्पितेन भेदेन न विवेचिता इत्यगृहीता इवाभान्ति। न च आत्मनो बुद्ध्यादिभ्यो भेदस्तात्त्विकः, येन चिदात्मनि गृह्यमाणे सोऽपि गृहीतो भवेत् , बुद्ध्यादीनामनिर्वाच्यत्वेन तद्भेदस्याप्यनिर्वचनीयत्वात्। तस्माच्चिदात्मनः स्वयम्प्रकाशस्यैव अनवच्छिन्नस्य अवच्छिन्नेभ्यो बुद्ध्यादिभ्यो भेदाग्रहात्, तदध्यासेन जीवभाव इति। तस्य चानिदमिदमात्मनोऽस्मत्प्रत्ययविषयत्वमुपपद्यते। तथा हि - कर्ता भोक्ता चिदात्मा अहंप्रत्यये प्रत्यवभासते। न चोदासीनस्य तस्य क्रियाशक्तिर्भोगशक्तिर्वा सम्भवति। यस्य च बुद्ध्यादेः कार्यकारणसङ्घातस्य क्रियाभोगशक्ती न तस्य चैतन्यम्। तस्माच्चिदात्मैव कार्यकरणसङ्घातेन ग्रथितो लब्धक्रियाभोगशक्तिः स्वयम्प्रकाशोऽपि बुद्ध्यादिविषयविच्छुरणात्, कथञ्चिदस्मत्प्रत्ययविषयोऽहङ्कारास्पदं जीव इति च, जन्तुरिति च क्षेत्रज्ञ इति च आख्यायते। न खलु जीवश्चिदात्मनो भिद्यते। तथा च श्रुतिः -“अनेन जीवेनात्मना”(छा. उ. ६। ३। २)इति। तस्माच्चिदात्मनोऽव्यतिरेकाज्जीवः स्वयम्प्रकाशोऽप्यहंप्रत्ययेन कर्तृभोक्तृतया व्यवहारयोग्यः क्रियत इत्यहंप्रत्ययालम्बनमुच्यते। न च अध्यासे सति विषयत्वं विषयत्वे च अध्यास इत्यन्योन्याश्रयत्वमिति साम्प्रतम् , बीजाङ्कुरवदनादित्वात् , पूर्वपूर्वाध्यासतद्वासनाविषयीकृतस्योत्तरोत्तराध्यासविषयत्वाविरोधादित्युक्तम् “नैसर्गिकोऽयं लोकव्यवहारः” इति भाष्यग्रन्थेन।तस्मात्सुष्टूक्तम् -**न तावदयमेकान्तेनाविषय इति।**जीवो हि चिदात्मतया स्वयम्प्रकाशतयाविषयोऽप्यौपाधिकेन रूपेण विषय इति भावः। स्यादेतत्। न वयमपराधीनप्रकाशतयाविषयत्वेनाध्यासमपाकुर्मः, किन्तु प्रत्यगात्मा न स्वतो नापि परतः प्रथत इत्यविषय इति ब्रूमः।तथा च सर्वथाप्रथमाने प्रत्यगात्मनि कुतोऽध्यास इत्यत आह -**अपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः।**प्रतीच आत्मनः प्रसिद्धिः प्रथा, तस्या अपरोक्षत्वात्। यद्यपि प्रत्यगात्मनि नान्या प्रथास्ति, तथापि भेदोपचारः। यथा पुरुषस्य चैतन्यमिति। एतदुक्तं भवति - अवश्यं चिदात्मापरोक्षोऽभ्युपेतव्यस् तदप्रथायां सर्वस्याप्रथनेन जगदान्ध्यप्रसङ्गादित्युक्तम्। श्रुतिश्चात्र भवति“तमेव भान्तमनु भाति सर्वं तस्य भासा सर्वमिदं विभाति”(क.उ.२-२-१५)इति।तदेवं परमार्थपरिहारमुक्त्वाभ्युपेत्यापि चिदात्मनः परोक्षतां प्रौढवादितया परिहारान्तरमाह -**न चायमस्ति नियमः पुरोऽवस्थित एव,**अपरोक्ष एव,**विषये विषयान्तरमध्यसितव्यम्।**कस्मादयं न नियम इत्यत आह -**अप्रत्यक्षेऽपि ह्याकाशे बालास्तलमलिनताद्यध्यस्यन्ति।**हिर्यस्मादर्थे। नभो हि द्रव्यं सद् रूपस्पर्शविरहान्न बाह्येन्द्रियप्रत्यक्षम्। नापि मानसम् , मनसोऽसहायस्य बाह्येऽप्रवृत्तेः, तस्मादप्रत्यक्षम्। अथ च तत्र बाला अविवेकिनः परदर्शितदर्शिनः कदाचित्पार्थिवच्छायां श्यामतामारोप्य, कदाचित्तैजसं शुक्लत्वमारोप्य, नीलोत्पलपलाशश्याममिति वा राजहंसमालाधवलमिति वा निर्वर्णयन्ति। तत्रापि पूर्वदृष्टस्य तैजसस्य वा तामसस्य रूपस्य परत्र नभसि स्मृतिरूपोऽवभास इति। एवं तदेव तलमध्यस्यन्ति अवाङ्मुखीभूतम् महेन्द्रनीलमणिमयमहाकटाहकल्पमित्यर्थः।उपसंहरति -**एवम् -**उक्तेन प्रकारेण सर्वाक्षेपपरिहारात् ,**अविरुद्धः प्रत्यगात्मन्यप्यनात्मनाम् -**बुद्ध्यादीनामध्यासः।ननु सन्ति च सहस्रमध्यासाः, तत्किमर्थमयमेवाध्यास आक्षेपसमाधानाभ्यां व्युत्पादितः नाध्यासमात्रमित्यत आह -**तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते।**अविद्या हि सर्वानर्थबीजमिति श्रुतिस्मृतीतिहासपुराणादिषु प्रसिद्धम्। तदुच्छेदाय वेदान्ताः प्रवृत्ता इति वक्ष्यति। प्रत्यगात्मन्यनात्माध्यास एव सर्वानर्थहेतुर् न पुना रजतादिविभ्रमा इति स एवाविद्या, तत्स्वरूपं चाविज्ञातं न शक्यमुच्छेत्तुमिति तदेव व्युत्पाद्यं नाध्यासमात्रम्। अत्र च ‘एवं लक्षणम्’ इत्येवंरूपतयानर्थहेतुतोक्ता। यस्मात्प्रत्यगात्मन्यशनायादिरहितेऽशनायाद्युपेतान्तःकरणाद्यहितारोपणे प्रत्यगात्मानमदुःखं दुःखाकरोति, तस्मादनर्थहेतुः।न चैवं पृथग्जना अपि मन्यन्तेऽध्यासम् , येन न व्युत्पाद्येतेत्यत उक्तम् -**पण्डिता मन्यन्ते।**नन्वियमनादिरतिनिरूढनिबिडवासनानुबद्धाविद्या न शक्या निरोद्धुम् , उपायाभावादिति यो मन्यते तं प्रति तन्निरोधोपायमाह -**तद्विवेकेन च वस्तुस्वरूपावधारणम् -निर्विचिकित्सं ज्ञानम्विद्यामाहुः,**पण्डिताः। प्रत्यगात्मनि खल्वत्यन्तविविक्ते बुद्ध्यादिभ्यः बुद्ध्यादिभेदाग्रहनिमित्तो बुद्ध्याद्यात्मत्वतद्धर्माध्यासः। तत्र श्रवणमननादिभिर्यद्विवेकविज्ञानं तेन विवेकाग्रहे निवर्तिते, अध्यासापबाधात्मकं वस्तुस्वरूपावधारणं विद्या चिदात्मरूपं स्वरूपे व्यवतिष्ठत इत्यर्थः।स्यादेतत्। अतिनिरूढनिबिढवासनानुविद्धाविद्या विद्ययापबाधितापि स्ववासनावशात्पुनरुद्भविष्यति प्रवर्तयिष्यति च वासनादि कार्यं स्वोचितमित्यत आह -**तत्रैवं सति, -**एवंभूतवस्तुतत्त्वावधारणे सति,**यत्र यदध्यासस्तत्कृतेन दोषेण गुणेन वाणुमात्रेणापि स न सम्बध्यते -**अन्तःकरणादिदोषेणाशनायादिना चिदात्मा, चिदात्मनो गुणेन चैतन्यानन्दादिनान्तःकरणादि न सम्बध्यते। एतदुक्तं भवति - तत्त्वावधारणाभ्यासस्य हि स्वभाव एव स तादृशः, यदनादिमपि निरूढनिबिडवासनमपि मिथ्याप्रत्ययमपनयति। तत्त्वपक्षपातो हि स्वभावो धियाम् , यथाहुर्बाह्या अपि -“निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः। न बाधोयत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपाततः ॥”(प्रमाणवार्तिकम्-२१२)इति। विशेषतस्तु चिदात्मस्वभावस्य तत्त्वज्ञानस्यात्यन्तान्तरङ्गस्य कुतोऽनिर्वाच्ययाविद्यया बाध इति। यदुक्तम् , सत्यानृते मिथुनीकृत्य, विवेकाग्रहादध्यस्याहमिदंममेदमिति लोकव्यवहार इति तत्र व्यपदेशलक्षणो व्यवहारः कण्ठोक्तः।इतिशब्दसूचितं लोकव्यवहारमादर्शयति -**तमेतमविद्याख्यमिति।**निगदव्याख्यातम्।आक्षिपति -**कथं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि।**तत्त्वपरिच्छेदो हि प्रमा विद्या, तत्साधनानि प्रमाणानि कथमविद्यावद्विषयाणि। नाविद्यावन्तं प्रमाणान्याश्रयन्ति, तत्कार्यस्य विद्याया अविद्याविरोधित्वादिति भावः।सन्तु वा प्रत्यक्षादीनि संवृत्यापि यथा तथा, शास्त्राणि तु पुरुषहितानुशासनपराण्यविद्याप्रतिपक्षतया नाविद्यावद्विषयाणि भवितुमर्हन्तीत्याह -**शास्त्राणि चेति।**समाधत्ते - उच्यते - देहेन्द्रियादिष्वहंममाभिमानहीनस्य, तादात्म्यतद्धर्माध्यासहीनस्य प्रमातृत्वानुपपत्तौ सत्यां प्रमाणप्रवृत्त्यनुपपत्तेः। अयमर्थः - प्रमातृत्वं हि प्रमां प्रति कर्तृत्वं तच्च स्वातन्त्र्यम्। स्वातन्त्र्यं च प्रमातुरितरकारकाप्रयोज्यस्य समस्तकारकप्रयोक्तृत्वम्। तदनेन प्रमाकरणं प्रमाणं प्रयोजनीयम्। न च स्वव्यापारमन्तरेण करणं प्रयोक्तुमर्हति। न च कूटस्थनित्यश्चिदात्मापरिणामी स्वतो व्यापारवान्। तस्माद्व्यापारवद्बुद्ध्यादितादात्म्याध्यासात् , व्यापारवत्तया प्रमाणमधिष्ठातुमर्हतीति भवत्यविद्यावत्पुरुषविषयत्वमविद्यावत्पुरुषाश्रयत्वं प्रमाणानामिति।अथ मा प्रवर्तिषत प्रमाणानि किं नश्छिन्नमित्यत आह -**न हीन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यवहारः सम्भवति।**व्यवह्रियते अनेनेति व्यवहारः फलम् , प्रत्यक्षादीनां प्रमाणानां फलमित्यर्थः। ‘इन्द्रियाणि’ इति, इन्द्रियलिङ्गादीनीति द्रष्टव्यम् , दण्डिनो गच्छन्तीतिवत्। एवं हि ‘प्रत्यक्षादि’ इत्युपपद्यते। व्यवहारक्रियया च व्यवहार्याक्षेपात्समानकर्तृकता। अनुपादाय यो व्यवहार इति योजना।किमिति पुनः प्रमातोपादत्ते प्रमाणानि, अथ स्वयमेव कस्मान्न प्रवर्तत इत्यत आह -**न चाधिष्ठानमन्तरेणेन्द्रियाणां व्यापारः -प्रमाणानां व्यापारःसम्भवति।**न जातु करणान्यनधिष्ठितानि कर्त्रा स्वकार्ये व्याप्रियन्ते, मा भूत्कुविन्दरहितेभ्यो वेमादिभ्यः पटोत्पत्तिरिति।अथ देह एवाधिष्ठाता कस्मान्न भवति, कृतमत्रात्माध्यासेनेत्यत आह -**न चानध्यस्तात्मभावेन देहेन कश्चिद्व्याप्रियते।**सुषुप्तेऽपि व्यापारप्रसङ्गादि भावः।स्यादेतत्। यथानध्यस्तात्मभावं वेमादिकं कुविन्दो व्यापारयन्पटस्य कर्ता, एवमनध्यस्तात्मभावं देहेन्द्रियादिति व्यापारयन् भविष्यति तदभिज्ञः प्रमातेत्यत आह -**न चैतस्मिन्सर्वस्मिन् -**इतरेतराध्यासे इतरेतरधर्माध्यासे च,**असति, आत्मनोऽसङ्गस्य -सर्वथा सर्वदा सर्वधर्मवियुक्तस्यप्रमातृत्वमुपपद्यते।**व्यापारवन्तो हिकुविन्दादयो वेमादीनधिष्ठाय व्यापारयन्ति, अनध्यस्तात्मभावस्य तु देहादिष्वात्मनो न व्यापारयोगोऽसङ्गत्वादित्यर्थः।आतश्चाध्यासाश्रयाणि प्रमाणानीत्याह -**न च प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरस्ति।**प्रमायां खलु फले स्वतन्त्रः प्रमाता भवति। अन्तःकरणपरिणामभेदश्च प्रमेयप्रवणः कर्तृस्थश्चित्स्वभावः प्रमा। कथं च जडस्यान्तःकरणस्य परिणामश्चिद्रूपो भवेत् , यदि चिदात्मा तत्र नाध्यस्येत। कथं चैष चिदात्मकर्तृको भवेत् , यद्यन्तःकरणं व्यापारवच्चिदात्मनि नाध्यस्येत्। तस्मादितरेतराध्यासाच्चिदात्मकर्तृस्थं प्रमाफलं सिध्यति। तत्सिद्धौ च प्रमातृत्वम् , तामेव च प्रमामुररीकृत्य प्रमाणस्य प्रवृत्तिः। प्रमातृत्वेन च प्रमोपलक्ष्यते। प्रमायाः फलस्याभावे प्रमाणं न प्रवर्तेत। तथा च प्रमाणमप्रमाणं स्यादित्यर्थः।उपसंहरति -**तस्मादविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि।**स्यादेतत्। भवतु पृथग्जनानामेवम्। आगमोपपत्तिप्रतिपन्नप्रत्यगात्मतत्त्वानां व्युत्पन्नानामपि पुंसां प्रमाणप्रमेयव्यवहारा दृश्यन्त इति कथमविद्यावद्विषयाण्येव प्रमाणानीत्यत आह -**पश्वादिभिश्चाविशेषादिति।**विदन्तु नामागमोपपत्तिभ्यां देहेन्द्रियादिभ्यो भिन्नं प्रत्यगात्मानम्। प्रमाणप्रमेयव्यवहारे तु प्राणभृन्मात्रधर्मान्नातिवर्तन्ते। यादृशो हि पशुशकुन्तादीनामविप्रतिपन्नमुग्धभावानां व्यवहारस्तादृशो व्युत्पन्नानामपि पुंसां दृश्यते। तेन तत्सामान्यात्तेषामपि व्यवहारसमये अविद्यावत्त्वमनुमेयम्। चशब्दः समुच्चये। उक्तशङ्कानिवर्तनसहितपूर्वोक्तोपपत्तिर् अविद्यावत्पुरुषविषयत्वं प्रमाणानां साधयतीत्यर्थः।एतदेव विभजते -यथा हि पश्वादय इति।अत्र चशब्दादिभिः श्रोत्रादीनां सम्बन्धे सतिइति प्रत्यक्षं प्रमाणं दर्शितम्।शब्दादिविज्ञानेइति तत्फलमुक्तम्।प्रतिकूलेइति च अनुमानफलम्। तथा हि - शब्दादिस्वरूपमुपलभ्य तज्जातीयस्य प्रतिकूलतामनुस्मृत्य तज्जातीयतयोपलभ्यमानस्य प्रतिकूलतामनुमिमीत इति।उदाहरति -**यथा दण्डेति।**शेषमतिरोहितार्थम्। स्यादेतत्। भवन्तु प्रत्यक्षादीन्यविद्यावद्विषयाणि। शास्त्रं तु ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ इत्यादि न देहात्माध्यासेन प्रवर्तितुमर्हति। अत्र खल्वामुष्मिकफलोपभोगयोग्योऽधिकारी प्रतीयते। तथा च पारमर्षं सूत्रम् -“शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात्तस्मात्स्वयं प्रयोगे स्यात्” (अ. ३ पा. ७ सू. १८)इति।न च देहादि भस्मीभूतं पारलौकिकाय फलाय कल्पत इति देहाद्यतिरिक्तं कञ्चिदात्मानमधिकारिणमाक्षिपति शास्त्रम् , तदवगमश्च विद्येति कथमविद्यावद्विषयं शास्त्रमित्याशङ्क्याह -**शास्त्रीये त्विति।**तु शब्दः प्रत्यक्षादिव्यवहाराद्भिनत्ति शास्त्रीयम्। अधिकारशास्त्रं हि स्वर्गकामस्य पुंसः परलोकसम्बन्धं विना न निर्वहतीति तावन्मात्रमाक्षिपेत् , न त्वस्यासंसारित्वमपि, तस्याधिकारेऽनुपयोगात्। प्रत्युत औपनिषदस्य पुरुषस्याकर्तुरभोक्तुरधिकारविरोधात्। प्रयोक्ता हि कर्मणः कर्मजनितफलभोगभागी कर्मण्यधिकारी स्वामी भवति। तत्र कथमकर्ता प्रयोक्ता, कथं वाऽभोक्ता कर्मजनितफलभोगभागी। तस्मादनाद्यविद्यालब्धकर्तृत्वभोक्तृत्वब्राह्मणत्वाद्यभिमानिनं नरमधिकृत्य विधिनिषेधशास्त्रं प्रवर्तते। एवं वेदान्ता अप्यविद्यावत्पुरुषविषया एव। न हि प्रमात्रादिविभागादृते तदर्थाधिगमः। ते त्वविद्यावन्तमनुशासन्तो निर्मृष्टनिखिलाविद्यमनुशिष्टं स्वरूपे व्यवस्थापयन्तीत्येतावानेषां विशेषः। तस्मादविद्यावत्पुरुषविषयाण्येव शास्त्राणीति सिद्धम्।स्यादेतत्। यद्यपि विरोधानुपयोगाभ्यामौपनिषदः पुरुषोऽधिकारे नापेक्ष्यते, तथाप्युपनिषद्भ्योऽवगम्यमानः शक्नोत्यधिकारं निरोद्धुम्। तथा च परस्परापहतार्थत्वेन कृत्स्न एव वेदः प्रामाण्यमपजह्यादित्यत आह -**प्राक्च तथाभूतात्मेति।**सत्यमौपनिषदपुरुषाधिगमोऽधिकारविरोधी, तस्मात्तु पुरस्तात्कर्मविधयः स्वोचितं व्यवहारं निर्वर्तयन्तो नानुपजातेन ब्रह्मज्ञानेन शक्या निरोद्धुम्। न च परस्परापहतिः, विद्याविद्यावत्पुरुषभेदेन व्यवस्थोपपत्तेः। यथा “न हिंस्यात्सर्वा भूतानि” इति साध्यांशनिषेधेऽपि ‘श्येनेनाभिचरन् यजेत’ इति शास्त्रं प्रवर्तमानं न हिंस्यादित्यनेन न विरुध्यते, तत्कस्य हेतोः, पुरुषभेदादिति।अवजितक्रोधारातयः पुरुषा निषेधेऽधिक्रियन्ते, क्रोधारातिवशीकृतास्तु श्येनादिशास्त्र इति अविद्यावत्पुरुषविषयत्वं नातिवर्तत इति यदुक्तं तदेव स्फोरयति -**तथा हिति।**वर्णाध्यासः - ‘राजा राजसूयेन यजेत’ इत्यादिः। आश्रमाध्यासः - ‘गृहस्थः सदृशीं भार्यां विन्देत’ इत्यादिः। वयोऽध्यासः - ‘कृष्णकेशोऽग्नीनादधीत’ इत्यादिः। अवस्थाध्यासः - “अप्रतिसमाधेयव्याधीनां जलादिप्रवेशेन प्राणत्यागः” इति। आदिग्रहणं महापातकोपपातकसङ्करीकरणापात्रीकरणमलिनीकरणाद्यध्यासोपसङ्ग्रहार्थम्। तदेवमात्मानात्मनोः परस्पराध्यासमाक्षेपसमाधानाभ्यामुपपाद्य प्रमाणप्रमेयव्यवहारप्रवर्तनेन च दृढीकृत्य तस्यानर्थहेतुत्वमुदाहरणप्रपञ्चेन प्रतिपादयितुं तत्स्वरुपमुक्तं स्मारयति -अध्यासो नाम अतस्मिंस्तद्बुद्धिरित्यवोचाम।‘स्मृतिरूपः परत्र पूर्वदृष्टावभासः” इत्यस्य सङ्क्षेपाभिधानमेतत्। तत्र अहमिति धर्मितादात्म्याध्यासमात्रम् , ममेत्यनुत्पादितधर्माध्यासं नानर्थहेतुरिति धर्माध्यासमेव ममकारं साक्षादशेषानर्थसंसारकारणमुदाहरणप्रपञ्चेनाह -**तद्यथा पुत्रभार्यादिष्विति।**देहतादात्म्यमात्मन्यध्यस्य देहधर्मं पुत्रकलत्रादिस्वाम्यं च कृशत्वादिवदारोप्य आह - अहमेव विकलः, सकल इति। स्वस्य खलु साकल्येन स्वाम्यसाकल्यात्स्वामीश्वरः सकलः सम्पूर्णो भवति। तथा स्वस्य वैकल्येन स्वाम्यवैकल्यात् , स्वामीश्वरो विकलोऽसम्पूर्णो भवति। बाह्यधर्मा ये वैकल्यादयः स्वाम्यप्रणालिकया सञ्चरिताः शरीरे तानात्मन्यध्यस्यतीत्यर्थः।यदा च परोपाध्यपेक्षे देहधर्मे स्वाम्ये इयं गतिः, तदा कैव कथा अनौपाधिकेषु देहधर्मेषु कृशत्वादिष्वित्याशयवानाह -**तथा देहधर्मानिति।**देहादेरप्यन्तरङ्गाणामिन्द्रियाणामध्यस्तात्मभावानां धर्मान्मूकत्वादीन् , ततोऽप्यन्तरङ्गस्यान्तःकरणस्य अध्यस्तात्मभावस्य धर्मान् कामसङ्कल्पादीन् आत्मन्यध्यस्यतीति योजना।तदनेन प्रपञ्चेन धर्माध्यासमुक्त्वा तस्य मूलं धर्म्यध्यासमाह -**एवमहंप्रत्ययिनम् -**अहंप्रत्ययो वृत्तिर्यस्मिन्नन्तःकरणादौ, सोऽयमहंप्रत्ययीतम्।**स्वप्रचारसाक्षिणि -**अन्तःकरणप्रचारसाक्षिणि,चैतन्योदासीनताभ्यां,**प्रत्यगात्मन्यध्यस्य।**तदनेन कर्तृत्वभोक्तृत्वे उपपादिते।चैतन्यमुपपादयति -**तं च प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेण -**अन्तःकरणादिविपर्ययेण, अन्तःकरणाद्यचेतनम् , तस्य विपर्ययश् चैतन्यम् , तेन। इत्थम्भूतलक्षणे तृतीया।**अन्तःकरणादिष्वध्यस्यति।**तदनेनान्तःकरणाद्यवच्छिन्नः प्रत्यगात्मा इदमनिदंस्वरूपश्चेतनः कर्ता भोक्ता कार्यकारणाविद्याद्वयाधारोऽहङ्कारास्पदं संसारी सर्वानर्थसम्भारभाजनं जीवात्मा इतरेतराध्यासोपादानः, तदुपादानश्चाध्यास इत्यनादित्वाद् बीजाङ्कुरवन्नेतरेतराश्रयत्वमित्युक्तं भवति।प्रमाणप्रमेयव्यवहारदृढीकृतमपि शिष्यहिताय स्वरूपाभिधानपूर्वकं सर्वलोकप्रत्यक्षतयाध्यासं सुदृढीकरोति -**एवमयमनादिरनन्तः -**तत्त्वज्ञानमन्तरेणाशक्यसमुच्छेदः।अनाद्यनन्तत्वे हेतुरुक्तः -**नैसर्गिक इति। मिथ्याप्रत्ययरूपः -**मिथ्याप्रत्ययानां रूपमनिर्वचनीयत्वं तद्यस्य स तथोक्तः। अनिर्वचनीय इत्यर्थः।प्रकृतमुपसंहरति -**अस्यानर्थहेतोः प्रहाणाय।**विरोधिप्रत्ययं विना कुतोऽस्य प्रहाणमित्यत उक्तम् -**आत्मैकत्वविद्याप्रतिपत्तये इति।**प्रतिपत्तिः प्राप्तिस् तस्यै, न तु जपमात्राय, नापि कर्मसु प्रवृत्तये, आत्मैकत्वं विगलितनिखिलप्रपञ्चत्वमानन्दरूपस्य सतः, तत्प्रतिपत्तिं निर्विचिकित्सां भावयन्तो वेदान्ताः समूलघातमध्यासमुपघ्नन्ति। एतदुक्तं भवति - अस्मत्प्रत्ययस्यात्मविषयस्य समीचीनत्वे सति ब्रह्मणो ज्ञातत्वान्निष्प्रयोजनत्वाच्च न जिज्ञासा स्यात्। तदभावे च न ब्रह्मज्ञानाय वेदान्ताः पठ्येरन्। अपि त्वविवक्षितार्था जपमात्रे उपयुज्येरन्। न हि तदौपनिषदात्मप्रत्ययः प्रमाणतामश्नुते। न चासावप्रमाणमभ्यस्तोऽपि वास्तवं कर्तृत्वभोक्तृत्वाद्यात्मनोऽपनोदितुमर्हति। आरोपितं हि रूपं तत्त्वज्ञानेनापोद्यते, न तु वास्तवमतत्त्वज्ञानेन। न हि रज्ज्वा रज्जुत्वं सहस्रमपि सर्पधाराप्रत्यया अपवदितुं समुत्सहन्ते। मिथ्याज्ञानप्रसञ्जितं च स्वरूपं शक्यं तत्त्वज्ञानेनापवदितुम्। मिथ्याज्ञानसंस्कारश्च सुदृढोऽपि तत्त्वज्ञानसंस्कारेणादरनैरन्तर्यदीर्घकालातत्त्वज्ञानाभ्यासजन्मनेति।स्यादेतत्। प्राणाद्युपासना अपि वेदान्तेषु बहुलमुपलभ्यन्ते, तत्कथं सर्वेषां वेदान्तानामात्मैकत्वप्रतिपादनमर्थ इत्यत आह -**यथा चायमर्थः सर्वेषां वेदान्तानां तथा वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामः।**शरीरमेव शरीरकं तत्र निवासी शारीरको जीवात्मा, तस्य त्वम्पदाभिधेयस्य तत्पदाभिधेयपरमात्मरूपतामीमांसा या सा तथोक्ता। एतावानत्रार्थसङ्क्षेपः - यद्यपि स्वाध्यायाध्ययनपरविधिना स्वाध्यायपदवाच्यस्य वेदराशेः फलवदर्थावबोधपरतामापादयता कर्मविधिनिषेधानामिव वेदान्तानामपि स्वाध्यायशब्दवाच्यानां फलवदर्थावबोधपरत्वमापादितम् , यद्यपि च “अविशिष्टस्तु वाक्यार्थः” इति न्यायान् मन्त्राणामिव वेदान्तानामर्थपरत्वमौत्सर्गिकम् , यद्यपि च वेदान्तेभ्यश्चैतन्यानन्दघनः कर्तृत्वभोक्तृत्वरहितो निष्प्रपञ्च एकः प्रत्यगात्मा अवगम्यते, तथापि कर्तृत्वभोक्तृत्वदुःखशोकमोहमयमात्मानमवगाहमानेनाहंप्रत्ययेन सन्देहबाधविरहिणा विरुध्यमाना वेदान्ताः स्वार्थात्प्रच्युता उपचरितार्था वा जपमात्रोपयोगिनो वेत्यविवक्षितस्वार्थाः। तथा च तदर्थविचारात्मिका चतुर्लक्षणी शारीरकमीमांसा नारब्धव्या। न च सर्वजनीनाहमनुभवसिद्ध आत्मा सन्दिग्धो वा सप्रयोजनो वा, येन जिज्ञास्यः सन् विचारं प्रयुञ्जीतेति पूर्वः पक्षः। सिद्धान्तस्तु भवेदेतदेवं यद्यहंप्रत्ययः प्रमाणम्। तस्य तूक्तेन प्रकारेण श्रुत्यादिबाधकत्वानुपपत्तेः, श्रुत्यादिभिश्च समस्ततीर्थकरैश्च प्रामाण्यानभ्युपगमादध्यासत्वम्। एवं च वेदान्ता नाविवक्षितार्थाः, नाप्युपचरितार्थाः, किं तूक्तलक्षणाः। प्रत्यगात्मैव तेषां मुख्योऽर्थः।
जन्माद्यधिकरणम्
जन्माद्यधिकरणम्
जन्माद्यस्य यतः ॥ २ ॥
ब्रह्मसूत्रभाष्यं
जन्म उत्पत्तिर् आदिर् अस्य इति तद्गुणसंविज्ञानो बहुव्रीहिः। जन्मस्थितिभङ्गं समासार्थः। जन्मनश्चादित्वं श्रुतिनिर्देशापेक्षं वस्तुवृत्तापेक्षं च। श्रुतिनिर्देशस्तावद् यतो वा इमानि भूतानि जायन्ते इति अस्मिन्वाक्ये जन्मस्थितिप्रलयानां क्रमदर्शनात्। वस्तुवृत्तमपि जन्मना लब्धसत्ताकस्य धर्मिणः स्थितिप्रलयसंभवात्। अस्येति प्रत्यक्षादिसंनिधापितस्य धर्मिण इदमा निर्देशः। षष्ठी जन्मादिधर्मसंबन्धार्था। यत इति कारणनिर्देशः। अस्य जगतो नामरूपाभ्यां व्याकृतस्य अनेककर्तृभोक्तृसंयुक्तस्य प्रतिनियतदेशकालनिमित्तक्रियाफलाश्रयस्य मनसाप्यचिन्त्यरचनारूपस्य जन्मस्थितिभङ्गं यतः सर्वज्ञात्सर्वशक्तेः कारणाद्भवति तद्ब्रह्मेति वाक्यशेषः। अन्येषामपि भावविकाराणां त्रिष्वेवान्तर्भाव इति जन्मस्थितिनाशानामिह ग्रहणम्। यास्कपरिपठितानां तु जायतेऽस्ति इत्यादीनां ग्रहणे तेषां जगतः स्थितिकाले संभाव्यमानत्वान्मूलकारणादुत्पत्तिस्थितिनाशा जगतो न गृहीताः स्युरित्याशङ्क्येत तन्मा शङ्कि इति या उत्पत्तिर्ब्रह्मणः कारणात् तत्रैव स्थितिः प्रलयश्च ते गृह्यन्ते। न च यथोक्तविशेषणस्य जगतो यथोक्तविशेषणमीश्वरं मुक्त्वा अन्यतः प्रधानादचेतनाद् अणुभ्यो वा अभावाद्वा संसारिणो वा उत्पत्त्यादि संभावयितुं शक्यम्। न च स्वभावतः विशिष्टदेशकालनिमित्तानामिहोपादानात्। एतदेवानुमानं संसारिव्यतिरिक्तेश्वरास्तित्वादिसाधनं मन्यन्तेईश्वरकारणवादिनः॥
नन्विहापि तदेवोपन्यस्तं जन्मादिसूत्रे न वेदान्तवाक्यकुसुमग्रथनार्थत्वात्सूत्राणाम्। वेदान्तवाक्यानि हि सूत्रैरुदाहृत्य विचार्यन्ते। वाक्यार्थविचारणाध्यवसाननिर्वृत्ता हि ब्रह्मावगतिर् नानुमानादिप्रमाणान्तरनिर्वृत्ता। सत्सु तु वेदान्तवाक्येषु जगतो जन्मादिकारणवादिषु तदर्थग्रहणदार्ढ्याय अनुमानमपि वेदान्तवाक्याविरोधि प्रमाणं भवन् न निवार्यते श्रुत्यैव च सहायत्वेन तर्कस्याप्यभ्युपेतत्वात्। तथा हि श्रोतव्यो मन्तव्य इति श्रुतिः पण्डितो मेधावी गन्धारानेवोपसंपद्येतैवमेवेहाचार्यवान्पुरुषो वेद इति च पुरुषबुद्धिसाहाय्यमात्मनो दर्शयति। न धर्मजिज्ञसायामिव श्रुत्यादय एव प्रमाणं ब्रह्मजिज्ञासायाम्। किंतु श्रुत्यादयोऽनुभवादयश्च यथासंभवमिह प्रमाणम् अनुभवावसानत्वाद्भूतवस्तुविषयत्वाच्च ब्रह्मज्ञानस्य। कर्तव्ये हि विषये नानुभवापेक्षास्तीति श्रुत्यादीनामेव प्रामाण्यं स्यात् पुरुषाधीनात्मलाभत्वाच्च कर्तव्यस्य। कर्तुमकर्तुमन्यथा वा कर्तुं शक्यं लौकिकं वैदिकं च कर्म यथा अश्वेन गच्छति पद्भ्याम् अन्यथा वा न वा गच्छतीति। तथा अतिरात्रे षोडशिनं गृह्णाति नातिरात्रे षोडशिनं गृह्णाति उदिते जुहोति अनुदिते जुहोति इति।
विधिप्रतिषेधाश्च अत्र अर्थवन्तः स्युर् विकल्पोत्सर्गापवादाश्च। न तु वस्तु एवं नैवम् अस्ति नास्ति इति वा विकल्प्यते। विकल्पनास्तु पुरुषबुद्ध्यपेक्षाः। न वस्तुयाथात्म्यज्ञानं पुरुषबुद्ध्यपेक्षम्। किं तर्हि वस्तुतन्त्रमेव तत्। न हि स्थाणावेकस्मिन् स्थाणुर्वा पुरुषोऽन्यो वा इति तत्त्वज्ञानं भवति। तत्र पुरुषोऽन्यो वा इति मिथ्याज्ञानम्। स्थाणुरेव इति तत्त्वज्ञानं वस्तुतन्त्रत्वात्। एवं भूतवस्तुविषयाणां प्रामाण्यं वस्तुतन्त्रम्। तत्रैवं सति ब्रह्मज्ञानमपि वस्तुतन्त्रमेव भूतवस्तुविषयत्वात्। ननु भूतवस्तुविषयत्वे ब्रह्मणः प्रमाणान्तरविषयत्वमेवेति वेदान्तवाक्यविचारणा अनर्थिकैव प्राप्ता न इन्द्रियाविषयत्वेन संबन्धाग्रहणात्। स्वभावतो विषयविषयाणीन्द्रियाणि न ब्रह्मविषयाणि। सति हीन्द्रियविषयत्वे ब्रह्मण इदं ब्रह्मणा संबद्धं कार्यमिति गृह्येत। कार्यमात्रमेव तु गृह्यमाणं किं ब्रह्मणा संबद्धं किमन्येन केनचिद्वा संबद्धम् इति न शक्यं निश्चेतुम्। तस्माज्जन्मादिसूत्रं नानुमानोपन्यासार्थं किं तर्हि वेदान्तवाक्यप्रदर्शनार्थम्। किं पुनस्तद्वेदान्तवाक्यं यत् सूत्रेणेह लिलक्षयिषितम्। भृगुर्वै वारुणिः। वरुणं पितरमुपससार। अधीहि भगवो ब्रह्मेति इत्युपक्रम्याह यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत्प्रयन्त्यभिसंविशन्ति। तद्विजिज्ञासस्व। तद्ब्रह्मेति। तस्य च निर्णयवाक्यम् आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते। आनन्देन जातानि जीवन्ति। आनन्दं प्रयन्त्यभिसंविशन्ति इति। अन्यान्यप्येवंजातीयकानि वाक्यानि नित्यशुद्धबुद्धमुक्तस्वभावसर्वज्ञस्वरूपकारणविषयाणि उदाहर्तव्यानि॥
जगत्कारणत्वप्रदर्शनेन सर्वज्ञं ब्रह्मेत्युपक्षिप्तं तदेव द्रढयन्नाह
भामती
तदेवं प्रथमसूत्रेण मीमांसारम्भमुपपाद्य ब्रह्ममीमांसामारभते -**जन्माद्यस्य यतः।**एतस्य सूत्रस्य पातनिकामाह भाष्यकारः -**ब्रह्म जिज्ञासितव्यमित्युक्तम्।किंलक्षणं पुनस्तद्ब्रह्म।**यत्र यद्यपि ब्रह्मस्वरूपज्ञानस्य प्रधानस्य प्रतिज्ञया तदङ्गान्यपि प्रमाणादीनि प्रतिज्ञातानि, तथापि स्वरूपस्य प्राधान्यात्तदेवाक्षिप्य प्रथमं समर्थ्यते। तत्र यद्यावदनुभूयते तत्सर्वं परिमितमविशुद्धमबुद्धं विध्वंसि, न तेनोपलब्धेन तद्विरुद्धस्य नित्यशुद्धबुद्धमुक्तस्वभावस्य ब्रह्मणः स्वरूपं शक्यं लक्षयितुम् , न हि जातु कश्चित्कृतकत्वेन नित्यं लक्षयति। न च तद्धर्मेण नित्यत्वादिना तल्लक्ष्यते, तस्यानुपलब्धचरत्वात्। प्रसिद्धं हि लक्षणं भवति, नात्यन्ताप्रसिद्धम्। एवं च न शब्दोऽप्यत्र प्रक्रमते, अत्यन्ताप्रसिद्धतया ब्रह्मणोऽपदार्थस्यावाक्यार्थत्वात्। तस्माल्लक्षणाभावात् , न ब्रह्म जिज्ञासितव्यमित्यात्याक्षेपाभिप्रायः। तमिममाक्षेपं भगवान् सूत्रकारः परिहरति -“जन्माद्यस्य यतः” (ब्र. सू. १। १। २)इति। मा भूदनुभूयमानं जगत्तद्धर्मतया तादात्म्येन वा ब्रह्मणो लक्षणम् , तदुत्पत्त्या तु भविष्यति। देशान्तरप्राप्तिरिव सवितुर्व्रज्याया इति तात्पर्यार्थः।सूत्रावयवान् विभजते -**जन्मोत्पत्तिरादिरस्येति।**लाघवाय सूत्रकृता जन्मादीति नपुंसकप्रयोगः कृतस्तदुपपादनाय समाहारमाह -जन्मस्थितिभङ्गमिति।जन्मनश्च इत्यादिःकारणनिर्देशःइत्यन्तः सन्दर्भो निगदव्याख्यातः।स्यादेतत्। प्रधानकालग्रहलोकपालक्रियायदृच्छास्वभावाभावेषूपप्लवमानेषु सत्सु सर्वज्ञं सर्वशक्तिस्वभावं ब्रह्म जगज्जन्मादिकारणमिति कुतः सम्भावनेत्यत आह -अस्य जगत इति।अत्रनामरूपाभ्यां व्याकृतस्य इतिचेतनभावकर्तृकत्वसम्भावनया प्रधानाद्यचेतनकर्तृकत्वं निरुपाख्यकर्तृकत्वं च व्यासेधति। यत्खलु नाम्ना रूपेण च व्याक्रियते तच्चेतनकर्तृकं दृष्टम् , यथा घटादि। विवादाध्यासितं च जगन्नामरूपाभ्यां व्याकृतं तस्माच्चेतनकर्तृकं सम्भाव्यते। चेतनो हि बुद्धावालिख्य नामरूपे घट इति नाम्ना, रूपेण च कम्बुग्रीवादिना बाह्यं घटं निष्पादयति। अत एव घटस्य निर्वर्त्यस्याप्यन्तः सङ्कल्पात्मना सिद्धस्य कर्मकारकभावो घटं करोतीति। यथाहुः -“बुद्धिसिद्धं तु न तदसत्”(न्या.सू. ४। १। ५०)इति। तथा चाचेतनो बुद्धावनालिखितं करोतीति न शक्यं सम्भावयितुमिति भावः।स्यादेतत्। चेतना ग्रहा लोकपाला वा नामरूपे बुद्धावालिख्य जगज्जनयिष्यन्ति, कृतमुक्तस्वभावेन ब्रह्मणेत्यत आह -**अनेककर्तृभोक्तृसंयुक्तस्येति।**केचित्कर्तारो भवन्ति, यथा सूदर्त्विगादयः, न भोक्तारः। केचित्तु भोक्तारः, यथा श्राद्धवैश्वानरीयेष्ट्यादिषु पितापुत्रादयः, न कर्तारः। तस्मादुभयग्रहणम्। देशकालनिमित्तक्रियाफलानि इतीतरेतरद्वन्द्वः। देशादीनि च तानि प्रतिनियतानि चेति विग्रहः। तदाश्रयो जगत्तस्य। केचित्खलु प्रतिनियतदेशोत्पादाः, यथा कृष्णमृगादयः। केचित्प्रतिनियतकालोत्पादाः, यथा कोकिलालापादयो वसन्ते। केचित्प्रतिनियतनिमित्ताः, यथा नवाम्बुदध्वानादिनिमित्ता बलाकागर्भादयः। केचित्प्रतिनियतक्रियाः, यथा ब्राह्मणानां याजनादयो नेतरेषाम्। एवं प्रतिनियतफलाः, यथा केचित्सुखिनः, केचिद्दुःखिनः, एवं य एव सुखिनस्त एव कदाचिद्दुःखिनः। सर्वमेतदाकस्मिकापरनाम्नि यादृच्छिकत्वे वा स्वाभाविकत्वे वा सर्वज्ञासर्वशक्तिकर्तृकत्वे च न घटते, परिमितज्ञानशक्तिभिर्ग्रहलोकपालादिभिर्ज्ञातुं कर्तुं चाशक्यत्वात्।तदिदमुक्तम् -**मनसाप्यचिन्त्यरचनारूपस्येति।**एकस्या अपि हि शरीररचनाया रूपं मनसा न शक्यं चिन्तयितुं कदाचित् , प्रागेव जगद्रचनायाः, किमङ्ग पुनः कर्तुमित्यर्थः।सूत्रवाक्यं पूरयति -**तद्ब्रह्मेति वाक्यशेषः।**स्यादेतत्। कस्मात्पुनर्जन्मस्थितिभङ्गमात्रमिहादिग्रहणेन गृह्यते, न तु वृद्धिपरिणामापक्षया अपीत्यत आह -**अन्येषामपि भावविकाराणां -वृद्ध्यादीनांत्रिष्वेवान्तर्भाव इति।**वृद्धिस्तावदवयवोपचयः। तेनाल्पावयवादवयविनो द्वितन्तुकादेरन्य एव महान्पटो जायत इति जन्मैव वृद्धिः। परिणामोऽपि त्रिविधो धर्मलक्षणावस्थालक्षण उत्पत्तिरेव। धर्मिणो हि हाटकादेर्धर्मलक्षणः परिणामः कटकमुकुटादिस्तस्योत्पत्तिः, एवं कटकादेरपि प्रत्युत्पन्नत्वादिलक्षणः परिणाम उत्पत्तिः। एवमवस्थापरिणामो नवपुराणत्वादिरुत्पत्तिः। अपक्षयस्त्ववयवह्रासो नाश एव। तस्माज्जन्मादिषु यथास्वमन्तर्भावाद्वृद्ध्यादयः पृथङ्नोक्ता इत्यर्थः।अथैते वृद्ध्यादयो न जन्मादिष्वन्तर्भवन्ति, तथाप्युत्पत्तिस्थितिभङ्गमेवोपादातव्यम्। तथा सति हि तत्प्रतिपादके“यतो वा इमानि भूतानि” (तै.उ. ३-१-१)इति वेदवाक्ये बुद्धिस्थीकृते जगन्मूलकारणं ब्रह्म लक्षितं भवति। अन्यथा तु जायतेऽस्ति वर्धते इत्यादीनां ग्रहणे तत्प्रतिपादकं नैरुक्तवाक्यं बुद्धौ भवेत् , तच्च न मूलकारणप्रतिपादनपरम् , महासर्गादूर्ध्वं स्थितिकालेऽपि तद्वाक्योदितानां जन्मादीनां भावविकाराणामुपपत्तेः, इति शङ्कानिराकरणार्थं वेदोक्तोत्पत्तिस्थितिभङ्गग्रहणमित्याह -**यास्कपरिपठितानां त्विति।**नन्वेवमप्युत्पत्तिमात्रं सूच्यताम् , तन्नान्तरीयकतया तु स्थितिभङ्गं गम्यत इत्यत आह -योत्पत्तिर्ब्रह्मणःकारणादिति। त्रिभिरस्योपादानत्वं सूच्यते। उत्पत्तिमात्रं तु निमित्तकारणसाधारणमिति नोपादानं सूचयेत्।तदिदमुक्तम् -**तत्रैवेति।**पूर्वोक्तानां कार्यकारणविशेषणानां प्रयोजनमाह -**न यथोक्तेति।**तदनेन प्रबन्धेन प्रतिज्ञाविषयस्य ब्रह्मस्वरूपस्य लक्षणद्वारेण सम्भावनोक्ता। तत्र प्रमाणं वक्तव्यम्। यथाहुर्नैयायिकाः - “सम्भावितः प्रतिज्ञायां पक्षः साध्येत हेतुना। न तस्य हेतुभिस्त्राणमुत्पतन्नेव यो हतः” ॥यथा च वन्ध्या जननी” इत्यादिरिति। इत्थं नाम जन्मादि सम्भावनाहेतुः, यदन्ये वैशेषिककादय इत एवानुमानादीश्वरविनिश्चयमिच्छन्तीति सम्भावनाहेतुतां द्रढयितुमाह -**एतदेवेति।**चोदयति -**नन्विहापीति।**एतावतैवाधिकरणार्थे समाप्ते वक्ष्यमाणाधिकरणार्थमनुवदन् सुहृद्भावेन परिहरति -**न वेदान्तेति।**वेदान्तवाक्यकुसुमग्रथनार्थतामेव दर्शयति -**वेदान्तेति।**विचारस्याध्यवसानं सवासनाविद्याद्वयोच्छेदः। ततो हि ब्रह्मावगतेर्निवृत्तिराविर्भावः। तत्किं ब्रह्मणि शब्दादृते न मानान्तरमनुसरणीयम्।तथा च कुतो मननम् , कुतश्च तदनुभवः साक्षात्कार इत्यत आह -**सत्सु तु वेदान्तवाक्येष्विति।**अनुमानं वेदान्ताविरोधि तदुपजीवि चेत्यपि द्रष्टव्यम्। शब्दाविरोधिन्या तदुपजीविन्या च युक्त्या विवेचनं मननम्। युक्तिश्च अर्थापत्तिरनुमानं वा।स्यादेतत्। यथा धर्मे न पुरुषबुद्धिसाहाय्यम् , एवं ब्रह्मण्यपि कस्मान्न भवतीत्यत आह -**न धर्मजिज्ञासायामिवेति।श्रुत्यादय इति।**श्रुतीतिहासपुराणस्मृतयः प्रमाणम्। अनुभवोऽन्तःकरणवृत्तिभेदो ब्रह्मसाक्षात्कारस्तस्याविद्यानिवृत्तिद्वारेण ब्रह्मस्वरूपाविर्भावः प्रमाणफलम्। तच्च फलमिव फलमिति गमयितव्यम्।यद्यपि धर्मजिज्ञासायामपि सामग्र्यां प्रत्यक्षादीनां व्यापारस्तथापि साक्षान्नास्ति। ब्रह्मजिज्ञासायां तु साक्षादनुभवादीनां सम्भवोऽनुभवार्था च ब्रह्मजिज्ञासेत्याह -**अनुभवावसानत्वात्।**ब्रह्मानुभवो ब्रह्मसाक्षात्कारः परः पुरुषार्थः, निर्मृष्टनिखिलदुःखपरमानन्दरूपत्वादिति।ननु भवतु ब्रह्मानुभवार्था जिज्ञासा, तदनुभव एव त्वशक्यः, ब्रह्मणस्तद्विषयत्वायोग्यत्वादित्यत आह -**भूतवस्तुविषयत्वाच्च ब्रह्मविज्ञानस्य।**व्यतिरेकसाक्षात्कारस्य विकल्परूपो विषयविषयिभावः।नत्वेवं धर्मज्ञानमनुभवावसानम् , तदनुभवस्य स्वयमपुरुषार्थत्वात् , तदनुष्ठानसाध्यत्वात्पुरुषार्थस्य, अनुष्ठानस्य च विनाप्यनुभवं शाब्दज्ञानमात्रादेव सिद्धेरित्याह -**कर्तव्ये हीत्यादिना।**न चायं साक्षात्कारविषयतायोग्योऽप्यवर्तमानत्वात् , अवर्तमानश्चानवस्थितत्वादित्याह -**पुरुषाधीनेति।**पुरुषाधीनत्वमेव लौकिकवैदिककार्याणामाह -**कर्तुमकर्तुमिति।**लौकिकं कार्यमनवस्थितमुदाहरति -**यथाश्वेनेति।**लौकिकेनोदाहरणेन सह वैदिकमुदाहरणं समुच्चिनोति -**तथातिरात्र इति।**कर्तुमकर्तुमित्यस्येदमुदाहरणमुक्तम्। कर्तुमन्यथा वा कर्तुमित्यस्योदाहरणमाह -**उदित इति।**स्यादेतत्। पुरुषस्वातन्त्र्यात्कर्तव्ये विधिप्रतिषेधानामानर्थक्यम् , अतदधीनत्वात्पुरुषप्रवृत्तिनिवृत्त्योरित्यत आह -**विधिप्रतिषेधाश्चात्रार्थवन्तः स्युः।**गृह्णातीति विधिः। न गृह्णातीति प्रतिषेधः। उदितानुदितहोमयोर्विधी। एवं नारास्थिस्पर्शननिषेधो ब्रह्मघ्नश्च तद्वारणविधिरित्येवंजातीयका विधिप्रतिषेधा अर्थवन्तः।कुत इत्यत आह -**विकल्पोत्सर्गापवादाश्च।**चो हेतौ। यस्माद्ग्रहणाग्रहणयोरुदितानुदितहोमयोश्च विरोधात्समुच्चयासम्भवे तुल्यबलतया च बाध्यबाधकभावाभावे सत्यगत्या विकल्पः। नारास्थिस्पर्शननिषेधतद्वारणायोश्च विरुद्धयोरतुल्यबलतया न विकल्पः। किन्तु सामान्यशास्त्रस्य स्पर्शननिषेधस्य धारणविधिविषयेण विशेषशास्त्रेण बाधः। एतदुक्तं भवति - विधिप्रतिषेधैरेव स तादृशो विषयोऽनागतोत्पाद्यरूप उपनीतः, येन पुरुषस्य विधिनिषेधाधीनप्रवृत्तिनिवृत्त्योरपि स्वातन्त्र्यं भवतीति।भूते वस्तुनि तु नेयमस्ति विधेत्याह -**न तु वस्त्वेवं नैवमिति।**तदनेन प्रकारविकल्पो निरस्तः।प्रकारिविकल्पं निषेधति -**अस्ति नास्तीति।**स्यादेतत्। भूतेऽपि वस्तुनि विकल्पो दृष्टः, यथा स्थाणुर्वा पुरुषो वेति, तत्कथं न वस्तु विकल्प्यत इत्यत आह -**विकल्पनास्त्विति।**पुरुषबुद्धिः = अन्तःकरणं, तदपेक्षा विकल्पनाः = संशयविपर्यासाः। सवासनमनोमात्रयोनयो वा, यथा स्वप्ने। सवासनेन्द्रियमनोयोनयो वा, यथास्थाणुर्वा पुरुषो वेतिस्थाणौ संशयः, पुरुष एवेति वा विपर्यासः। अन्यशब्देन वस्तुतः स्थाणोरन्यस्य पुरुषस्याभिधानात्। न तु पुरुषतत्त्वं वा स्थाणुतत्त्वं वापेक्षन्ते। समानधर्मधर्मिदर्शनमात्राधीनजन्मत्वात्। तस्मादयथावस्तवो विकल्पना न वस्तु विकल्पयन्ति वान्यथयन्ति वेत्यर्थः।तत्त्वज्ञानं तु न बुद्धितन्त्रम् , किं तु वस्तुतन्त्रम् , अतस्ततो वस्तुविनिश्चयो युक्तः, न तु विकल्पनाभ्य इत्याह -**न वस्तुयाथात्म्येति।**एवमुक्तेन प्रकारेण भूतवस्तुविषयाणां ज्ञानानां प्रामाण्यस्य वस्तुतन्त्रतां प्रसाध्य ब्रह्मज्ञानस्य वस्तुतन्त्रतामाह -**तत्रैवं सतीति।**अत्र चोदयति -**ननु भूतेति।**यत्किल भूतार्थं वाक्यं तत्प्रमाणान्तरगोचरार्थतयानुवादकं दृष्टम्। यथा नद्यास्तीरे फलानि सन्तीति। तथा च वेदान्ताः। तस्माद् भूतार्थतया प्रमाणान्तरदृष्टमेवार्थमनुवदेयुः। उक्तं च ब्रह्मणि जगज्जन्मादिहेतुकमनुमानं प्रमाणान्तरम्। एवं च मौलिकं तदेव परीक्षणीयम् , न तु वेदान्तवाक्यानि तदधीनसत्यत्वानीति कथं वेदान्तवाक्यग्रथनार्थता सूत्राणामित्यर्थः।परिहरति -**न। इन्द्रियाविषयत्वेति।**कस्मात्पुनर्नेन्द्रियविषयत्वं प्रतीच इत्यत आह -**स्वभावत इति।**अत एव श्रुतिः -“पराञ्चि खानि व्यतृणत् स्वयम्भूस्तस्मात्पराङ्पश्यति नान्तरात्मन्” (क. उ. २। १। १)इति।**सति हीन्द्रियेति।**प्रत्यगात्मनस्त्वविषयत्वमुपपादितम्। यथा च सामान्यतो दृष्टमप्यनुमानं ब्रह्मणि न प्रवर्तते तथोपरिष्टान्निपुणतरमुपपादयिष्यामः। उपपादितं चैतदस्माभिर्विस्तरेण न्यायकणिकायाम्। न च भूतार्थतामात्रेणानुवादतेत्युपरिष्टादुपपादयिष्यामः। तस्मात्सर्वमवदातम्। श्रुतिश्च -“यतो वा”(तै. उ. ३। १। १)इति जन्म दर्शयति, “येन जातानि जीवन्ति” इति जीवनं स्थितिम् , “यत्प्रयन्ति” इति तत्रैव लयम्।**तस्य च निर्णयवाक्यम्।**अत्र च प्रधानादिसंशये निर्णयवाक्यम् -**आनन्दाद्ध्येवेति।**एतदुक्तं भवति - यथा रज्ज्वज्ञानसहितरज्जूपादाना हि धारा रज्ज्वां सत्यामस्ति, रज्ज्वामेव च लीयते, एवमविद्यासहितब्रह्मोपादानं जगज्जायते, ब्रह्मण्येवास्ति, तत्रैव च लीयत इति सिद्धम् ॥ २ ॥सूत्रान्तरमवतारयितुं पुर्वसूत्रसङ्गतिमाह -जगत्कारणत्वप्रदर्शनेनेति।