१७४
(चतुर्थः
मूलाविद्यानिरासः चतुर्थः खण्डः
(श्रुत्यादिप्रमाणोपन्यासः)
प्रमाणवाक्योपन्यासाय भूमिका १४२. श्रुत्याधुपन्यासेन प्रयोजनम् - यद्यप्यनुभवाविरुद्धयुक्त्य वष्टम्भेन प्रसादितत्वादनतिशङ्कनीयं भवतीत प्राक्तनेन ग्रन्थसन्दर्भेण प्रदर्शितमस्मदीयं दर्शनम् । तथापि सर्वमिदं स्वकपोलकल्पितमेव नाभियुक्तैः श्रुत्यादिभिर्वा घटाक्षेणापि वीक्षितमिति वाक्यशरणैः कैश्चिदु पेक्ष्येत । तेषामपि विशङ्काव्याधिं समाधातुमिदानी प्रयत्यते ।।
१४३. द्वैतिशङ्कापरिहारे नात्रादरः - अस्मिंस्तु खण्डे द्वैतिभिरागमव शेनाद्वैते शङ्कयमानस्य दोषजातस्य सर्वैरप्येकात्मवादिभिः परिहरणीयत्वान्न तदर्थमतीव प्रयत्यते । द्वैतस्य हि सर्वश्रुतिस्मृतिबहिर्भूतत्वं प्रपञ्चितमेव पूर्वाचार्यैः । नेह नानास्ति किञ्चिन (बृ. ४-४-१९) मायां तु प्रकृति विद्यात् (श्वे. ४-२०) मृत्योः स मृत्युमानोति (बृ.४-४-१९) वाचारम्भणं विकारो नामधेयम् (छां. ६-१-४) उदरमन्तरं कुरुतेऽथ तस्य भयं भवति (तै.२-७) द्वितीयाद्वै भयं भवति (बृ.१-४-२) न तु तद्वितीयमस्ति (बृ.४-३-२३) यत्र हि द्वैतमिव भवति (बृ.२-४-१४) - इत्यादिश्रुतिभिः तमः श्वभ्रनिभम् (मो. ध. ३०१-६०) गुणमयी मम माया (गी. ७ १४) विभक्तमिव च स्थितम् (गी. १३-१६) द्वैतिनोऽतथ्यदर्शिनः (वि.पु. २-१४-३१) भेदोऽयं मिथ्याज्ञाननिबन्धनः - इत्यादि स्मृतिभिश्च द्वैतसत्यत्वप्रतिषेधपूर्वकं तन्मिथ्यात्वोक्तेः, एकमेवाद्वितीयम् (छां. ६
खण्डः )
प्रमाणवाक्योपन्यासाय भूमिका
१७५ २-१) ब्रह्मैवेदं सर्वम् (?) इदं सर्वं यदयमात्मा (बृ. २-४-६) तत्सत्यम् (छां. ६-८-७) तत्त्वमसि (छां. ६-८-७) ब्रह्मविदाप्नोति परम् .(तै. २-१) अयमात्मा ब्रह्म (बृ. २-५-१९) सर्वं खल्विदं ब्रह्म (छां. ३ १४-१) सर्वमात्मानं पश्येत् (बृ.४-२-२७) एको देवः (श्वे.६-११) को मोहः कः शोकः (ई. ७) सर्वगुहाशयस्य क्षेत्रज्ञं चापि मां विद्धि (गी. १३-२) वासुदेवः सर्वम् (गी. ७-१९) - इत्यादिभिर्वचनैरद्वितीयस्यात्मतत्त्वस्य तात्पर्येण प्रशंसितत्वाच्च शास्त्रहृदयमद्वैतमेवेति स्फुटमवगम्यते ॥
न च तत्र तत्र द्वैतस्यापि जीवप्रपञ्चादिशब्दैर्व्यपदेशात्, सृष्टिवाक्य स्यान्यथानुपपत्तेः, ब्रह्मोपासनाविधिवाक्यानां दर्शनात्, कर्मकाण्डस्यान्यथा प्रामाण्याभावप्रसङ्गाच्च द्वैतमेव शास्त्रार्थ इति कुतो न स्यादिति शङ्कयम् । यथाप्राप्तमेव द्वैतमनूद्यते शास्त्रे, न तु तात्पर्येण प्रतिपादयिषितं तत्, तात्पर्यलिङ्गाभावादिति वक्तुं शक्यत्वात् । सृष्टिवर्णनस्थलेषु “सत्या सृष्टिः” इत्यनुक्तेः, सृष्टिज्ञाने फलाकीर्तनाच्च तत्र तात्पर्याभावस्य सुगमत्वात् । उपासनावाक्येषु च द्वैतसत्यत्वमविवक्षित्वैवोपासनाविधाने बाधकाभावादुपासनापरत्वं द्वैतसत्यत्वप्रतिपादनं चेत्युभयपरत्वे वाक्यभेदापत्तेः, साक्षाच्च नेदं यदिदमुपासते (के.१-५) इति परमार्थदृष्ट्या ब्रह्मण्युपासनाशेषत्वस्य पर्युदासात्, आत्मोपदेशवाक्यानां च निरवकाशानां सावकाशेभ्य उपसनावाक्येभ्यो बलीयस्त्वस्य श्लिष्टत्वात्, कर्मकाण्डस्या प्युपासनाकाण्डवत्स्वविधेयपरत्वात् द्वैतसत्यत्वपरत्वानुपपत्तेः, कर्मचित फलस्य क्षयित्वेन तत्र तत्र श्रुतौ स्मृतौ च निन्दितत्वाच्च शास्त्रबहिष्कृतमेव द्वैतिदर्शनम् । इत्यादिकं यदिह वक्तव्यं तदखिलं पूवैरेव गुरुभिजैमिनीय
१७६
मूलाविद्यानिरास
(चतुर्थः न्यायावष्टम्भेन वेदान्तान् व्याख्यातृभिः प्रतिष्ठाप्याद्वैतं परे निरुत्तराः कृता इति नास्त्यवसरः पुनर्रेत्याक्षेपपरीक्षणायेति विरम्यते ॥
ये पुनरद्वैत एव बद्धादराः प्रक्रियामस्मदुक्तां न प्रतियन्ति, न्यायाभासा वष्टम्भेन प्रक्रियान्तरप्रस्थानमित्युपश्रुत्यापि श्रद्दधानतया तदुक्तविषय समर्पकवाक्याभासानि वीक्ष्य स्यात् कदाचिन्नाद्रियन्ते न्याय्यमप्यस्मदुक्तं वेदान्तार्थमिति । तेषामुपसङ्ग्रहाय तदुदाहृतवाक्यानामन्यार्थत्वप्रदर्शन पुरस्सरं स्वपक्षस्य शास्त्रगुरुसम्प्रदायपरिशुद्धत्वमुदाहरिष्यते ॥
१४४. अवस्थात्रयप्रक्रियायां श्रुतेः - प्रामाण्यं कीदृशम् ? स्यादेतत् अवस्थात्रयान्वयव्यतिरेकेणैव शुद्धात्मानं विनिश्चिन्वतां भवतां किं नाम श्रुतिप्रामाण्यम् ? तथा हि - श्रुतिस्तावत् प्रत्यक्षसमर्पितसामग्र्युपजीविनीति सुप्रसिद्धम् । न च स्वप्ने सुषुप्तौ वा प्रत्यक्षप्रवृत्तिरस्ति, जाग्रद्भूमावेव तस्य लब्धसत्ताकत्वात् । न चास्त्यनुमानादेर्जागरितादन्यत्र व्यापारः । अतः प्रमाणव्यवहारस्यैव जागरितावच्छिन्नत्वान्न कथञ्चन तस्य प्रवेशप्रत्याशा सम्भवत्यवस्थात्रयविचारणायामपि । तदेवं यस्य श्रुतिः प्रमाण्यमेव न भजते, कैव कथा तस्य सुषुप्ते तत्प्रामाण्यादज्ञाननिरसनव्यसनस्येति ॥
अत्र पृच्छामः - कः खल्वेवं वदेत् ? अवस्थात्रयपरीक्षणेन शुद्दात्मानं सम्यगवगतवानाहो बुभुत्सुरिति । नाद्यः, प्रमाणादिव्यहारस्य ज्ञानादूर्ध्व मनभ्युपगमात् । न हि वेदान्तिनये ज्ञानिनः प्रमाणबलेनैकात्म्यनिश्चय
१२७. न ह्यात्मस्वरूपाधिगमे सति पुनः प्रमाणप्रमेयव्यवहारः सम्भवति ।। - गी. भा.
२-६९
प्रमा
माण्य
खण्डः)
प्रमाणवाक्योपन्यासाय भूमिका
१७७ इत्यङ्गीक्रियते, नित्यचैतन्यस्वरूप आत्मानपेक्ष्यैव प्रमाणामात्मनैवात्मानं वेत्तीत्यङ्गीकारात् । न चैकस्य कर्मकर्तृत्वप्रसङ्गः । अविषयस्य नित्यावि कारिणः प्रकाशे कर्तृत्वाद्यपेक्षाभावात् । अथ बुभुत्सोरेव प्रश्न एषः प्रमाणस्य सुषुप्तावप्यलब्धप्रसरत्वात्कथं सम्भवद्युक्तिकं श्रुतिप्रामाण्य मवस्थात्रयप्रक्रियायामिति । अत्रोच्यते - न तावत्प्रमाणस्य प्रामाण्य मवस्थात्रयव्यापित्वकृतं किं तु बाधशङ्काकलङ्कशून्यविषयसमर्पणकृतम् । न च नास्त्यत्र विषयसमर्पणम् । न ह्यत्र श्रुतिज्ञापितेऽर्थे संशयविपरीतप्रत्ययौ जायते । अनवबोधकत्वं तु दूरापेतम्, ज्ञाप्यस्यात्मनो नित्यावबोधस्व रूपत्वात् । न च प्रमाणान्तरसाहाय्यमपेक्ष्यतेऽत्र विषयनिश्चये । यथा हि"नद्यास्तीरे फलानि सन्तीति" वाक्यश्रवणानन्तरं प्रत्यक्षापेक्षा, तथा त्रापि शुद्धात्मबोधकवाक्यश्रवणानन्तरमपि नापेक्षितं मानान्तरगवेषणम् । प्रत्यक्षादिविषयवद्व्यवधानान्तरितत्वाभावादात्मनः ॥
यदप्याहुः केचित्- श्रुतेः प्रामाण्येऽभ्युपगम्यमाने नास्ति त्वदुक्तावस्था त्रयचिन्ताया अवसरः । अतोऽवस्थात्रयपरीक्षां विना नैव प्राणान् धारयितुं शक्नोषि चेत्, तर्हि त्यक्तव्या श्रुतिप्रामाण्यप्रत्यशेति । तदप्येतेन परिहतम् । श्रुतेहि प्रामाण्यं न श्रुतित्वेन, कथं तर्हि नित्यसिद्धात्मस्वरूपावबोधक त्वेनेति पूर्वमेव प्रोक्तम् । तस्माद्यः श्रुतिबोधिततत्त्वमस्यादिवाक्यज्ञानार्थं
१२८. तेनात्मस्वरूपेणाजेन ज्ञानेनाजं ज्ञेयमात्मतत्त्वं स्वयमेव विबुध्यतेऽवगच्छति नित्यप्रकाशस्वरूप इव सविता ।। मां. का. भा. ३-३३ १२९. नातः स्याद्भावनापेक्षा नापि मानान्तरं प्रति । अलौकिकत्वाद्बोधस्य ततश्चावगमात्मनः ।। बोधे हि लौकिकेऽपेक्षा परतोऽवगतौ तथा ।। तै. वा. २-६०८, ६०९
(चतुर्थः
१७८
मूलाविद्यानिरासः सकृच्छ्रवणमात्रेण शक्नोत्यपरोक्षयितुम्, तं पुरुषधौरेयं प्रति नैवाद्रिया महेऽवस्थात्रयपरीक्षां कृत्यान्तरं वा । यथोक्तम् - सर्वमात्मेति वाक्यार्थे विज्ञातेऽस्य प्रमाणतः । असत्त्वे ह्यन्यमानस्य विधिस्तं योजयेत्कथम् (उ. १८-२२४) इति । असत्त्वे ह्यन्यमानस्य - आत्मनोऽन्यस्य प्रमाणस्येत्यर्थः । उपलक्षणमिदं प्रमेयादेः । श्रुतेः प्रामाण्यमीदृशमेव खल्वभीष्टमद्वैतवादिनां यत्प्रमाणप्रमेयादिव्यवहारहीनमात्मानं वेदयित्वा स्वस्यापि प्रमाणत्वबाधनमिति । यस्तु संशयादिप्रतिबन्धवशान्न शक्नोत्यपरोक्षयितुं तं प्रत्यात्मस्वरूपविज्ञानार्थमिष्यते प्रक्रियाचिन्तेति सर्वं निर्मलम् ॥
सुषुप्तेरविद्यासंसर्गाभावे श्रुतिप्रामाण्यम् १४५. अविद्यावाक्यानां तद्विशेषरूपप्रतिपादने नास्ति व्यापारः - अत्र चोदयन्ति - अन्यधुष्माकमन्तरं बभूव (ऋ. १०-८२-७) नीहारेण प्रावृताः (ऋ. १०-८२-७) अनृतेन हि प्रत्यूढाः (छां.८-३-२) तेषां सत्यानां सतामनृतमपिधानम् (छां. ८-३-२५) त इमे सत्याः कामा अनृतापिधानाः (छां.८-३-१) अनीशया शोचति मुह्यमानः (मुं. ३ १-२) न तं विदाथ य इमा जजान (ऋ१०-८२-७) तथान्ये परिमुह्यमानाः (श्वे.६-१) इत्यादिभिः श्रुतिभिः प्राप्तज्ञानानां चेतनानामेवाज्ञत्वोक्ते - ध्यासरूपैवाविद्या, केवलान्तःकरणाश्रयत्वप्रसङ्गात् । सति सम्पद्य न
१३०. शास्त्रं त्वन्त्यं प्रमाणम् । प्रमातृत्वं ह्यात्मनो निवर्तयत्यन्त्यं प्रमाणम् । निवर्तयदेव चाप्रमाणीभवति स्वप्नकालप्रमाणमिव प्रबोधे ।। गी. भा. २-६९
खण्ड:)
सुषुप्तेरविद्यासंसर्गाभावे श्रुतिप्रामाण्यम्
१७९ विदुः सति संपाद्यमह (छां. ६-९-२) इति सुप्तावन्तःकरणमुखमनव लोकयन्त्यामप्यविद्यासद्भावं श्रावयति । अत: श्रुतिप्रामाण्यान्मन्यामहे मिथ्याज्ञानादिव्यतिरिक्तमेव भावरूपं किञ्चिदस्त्यावरणमात्मनीति । स्मृतयश्च - तेन मुह्यन्ति जन्तवः (गी. ५-१५), नीहारेण ह संवीतः शिश्नोदरपरायणः । जात्यन्ध इव पन्थानमावृतात्मा न बुध्यते ।। (मो. ध. २६८-२७) इति । अतोऽध्यासव्यतिरेकेण चिदाश्रिता काचिदविद्या स्तीत्यभ्युपगन्तव्यम्, श्रुतिस्मृतिप्रामाण्यादिति ॥
नैतत्सारम्, शब्दस्य यथाप्रसिद्धात्मविषयत्वात् कर्मविधायकवाक्य वत् । यथा हि विधिशास्त्रं कर्माणि विदधत्कर्मविधिविषयसत्यत्वप्रति पादनेऽपि व्याप्रियत इति नोपेयते, विधानेनैवोपक्षीणत्वात् । तद्वदत्राप्य ज्ञानोपदेशकं वाक्यं ज्ञाननिवर्त्य सूचनेनैवोपक्षीणम्, तस्याज्ञानस्वरूपाश्रय विषयादिप्रतिपादनेऽपि व्यापारो नाङ्गीकार्य इति युक्तमुत्पश्यामः । अन्यथा हि कर्मोपासनाविधिवाक्यैरेव द्वैतमपि प्रतिपादितं स्यादिति जितं द्वैत वादिभिरिति ।।
१४६. सति सम्पद्येत्यादिवाक्यं नाविद्यायां प्रमाणम्, अतत्प्र करणत्वात् - ननूक्तमत्र विशेषनिर्धारणे कारणम् । यद्यपि अन्यधुष्माकम् (ऋ. १०-८२-७) इत्यादिवाक्यानामविद्यासामान्यबोधकत्वम् तथाप्यन्तःकरणसंसर्गरहितायामप्यविद्यासद्भावं श्रावयति - सति सम्बद्य न विदुः (छां.६-९-२) इति । तेन मन्यामहे मिथ्याज्ञानादिव्यतिरिक्तमेव भवितुमर्हत्यज्ञानमितीति ॥
नैतद्युक्तम् । सति सम्पद्य न विदुरितीयं श्रुति विद्यासद्भावपराः, किं
१८०
(चतुर्थः
मूलाविद्यानिरास: तु सदात्मनोरेकत्वोपपादनपरा । कथम् ? उद्दालको हि श्वेतकेतुं पुत्रमेकत्वप्रतिपत्तये सुषुप्तौ सम्पत्तिमावेदयन् स्वपितिशब्दनिर्वचनेनैव स्वात्मन्यप्ययो गम्यते इति प्रस्तूय, शकुनिदृष्टान्तेन मनउपाधिकस्य जीवस्य सुप्तौ प्राणशब्दोपलक्षितब्रह्माश्रयत्वमुक्त्वा अशनायापिपासाशब्दयोर्निर्वच नेनापि सच्छब्दबोधितब्रह्ममूलत्वमेव गम्यतेऽस्योपाध्यात्मन इति निर्वाह्य, पुनरपि वागादिक्रमेण परस्यां देवतायां स्वरूपभूतायामेव सुषुप्तौ सम्पत्तिमब्रवीत् । श्वेतकेतुः पुनर्यद्येवं सत्सम्पत्तिः सुषुप्तौ, कस्मादस्मा भिस्तथा न विज्ञायत इत्याशङ्कय प्रकारान्तरेण तस्यैवोपदिष्टार्थस्य विशेषेण ज्ञापनं प्रार्थयामास । उद्दालकस्तु सदात्मप्रतिज्ञानाभावे हेतुरेकत्वमेव, नानात्वमेव हि विशेषविज्ञानहेतुरिति मधुरसदृष्टान्तोपन्यासेन तामाशङ्का पर्यहार्षीत् । एवमेवोपरिष्टादपि जीवस्य विशुद्धात्मस्वरूपतायां तत्तदा शङ्कापनयनाय दृष्टान्तप्रणयनं करिष्यतीत्यात्मैक्यपरमेवेदं प्रकरणमिति निश्चीयते । तद्यदीदृशप्रकरणस्थमपि वाक्यं सुषुप्ताविद्यासद्भावपरत्वेन विव्रियेत ततो वाक्यभेद एव प्रसज्यते ।।
१४७. सुषुप्तौ सत्सम्पत्तेः सम्पूर्णता नास्तीति शङ्का तत्परिहतिश्च अत्राह - सति सम्पद्येति वाक्यं न सदात्मनोरैक्यपरं भवितुमर्हति, स्वप्रान्तं मे सौम्य विजानीहि (छां. ६-८-१) - इत्युपक्रमवाक्ये प्राप्तमेव सत्सम्पत्तिमनूद्य न विदुरित्यविद्योपन्यासात् । इदमुक्तं भवति - यदा ह्ययं जीवो जागरितस्वप्नौ विहाय सुषुप्तिं गतो भवति तदा स्वात्मनि सद्रूपे सम्पन्नो भवति । यावता स्वस्मिन्नेवापीतो भवति तेन स्वपितीत्याचक्षत इति । यदि स्वस्मिन्नपीतस्तर्हि किं कारणं यथात्मनं नजानीत इत्याशय
खण्ड:)
सुषुप्तेरविद्यासंसर्गाभावे श्रुतिप्रामाण्यम्
१८१ सति सम्पद्य न विदुरित्यविद्याबोधकं वाक्यम् । सुषुप्तौ भावाविद्यासत्त्वान्न सम्पूर्णं लीन एव स्वात्मनि, कथं तर्हि, जागरितस्वप्रगतविशेषोपा ध्यभिमानविगमाल्लीन इत्युपचर्यते । यथाह स्म भाष्यकृत् - सुषुप्ताव स्थायामुपाधिकृतविशेषाभावात् स्वात्मनि प्रलीन इव (सू. भा. १-१ ९) इति । तथा चात्यन्तिकविलयाभावाद्दृष्टान्त एवायम् । दान्तिकं चोत्तरत्र वक्ष्यति - एवमेवेहाचार्यवान् पुरुषो वेद, तस्य तावदेव चिरं यावन विमोक्ष्येऽथ सम्पत्स्ये (छां.६-१४-२) इति । तस्मादविद्याबोधक मेवेदं वाक्यमिति ॥
तदसत् । स्वं ह्यपीतो भवतीति स्वपितिशब्दप्रवृत्तिनिमित्तं समर्पयद्वाक्यं स्वाप्ययस्य कात्य॑त्वाकात्य॑त्वान्यतरविधायकमित्यत्र मानाभावात् । भाष्यकारीयं च वचनमुदाहृतं भवदनिष्टप्रसञ्जकम् । कथम् ? स्वात्मनि प्रलीन इव (सू. भा. १-१-९) इत्यौपाधिक एव लयो न तु पारमार्थिक इति हि सूचयति । तदभावाधिकरणभाष्यस्थं च वाक्यमत्रानुकूलतरम् - अपि च न कदाचिज्जीवस्य सत्सम्पत्ति स्ति, स्वरूपस्यानपायित्वात् । स्वप्रजागरितयोस्तूपाधिसम्पर्कवशात् पररूपापत्तिमिवापेक्ष्य तदुपरमात् सुषुप्ते स्वरूपापत्तिर्वक्ष्यते (सू. भा.३-२-७) इति हि तत्र विस्पष्टमेवोक्तम् । अतः सिद्धं स्वभावसिद्धसदूपत्वमेव श्रुत्यात्र विशेषोपाधिविलयमपेक्ष्य सत्सम्पत्तिवाचोयुक्त्या बोध्यत इति । तस्मान्नाविद्यावादस्य मनागप्यत्राव काशः ॥
का
गप्य
१४८. न विदुरिति वेदनाभाववाचिना शब्देन न भावाविद्या बोध्यते इतश्च श्रुतावस्यां नास्ति भावाविद्याप्रत्याशा । सति सम्पद्य न विदुरिति
१८२
मूलाविद्यानिरास
__ (चतुर्थः हि वेदनाभावमात्रमत्र बोध्यते । तत्कथमसति वाक्यान्तरे भावाविद्यायामियं श्रुतिः प्रामाण्यमश्नुवीत ? ननु वेदनाभावो गमयिष्यत्यविद्याम्, वेदनाभावे हि हेतुरविद्येति । न, वेदनाभावे हेतुरेकत्वमेवेति श्रुत्या सदृष्टान्तं बोधनात् । श्रुत्यन्तरसंवादाच्च । अविद्यास्वरूपनिर्धारणार्थं प्रवृत्ता हि बृहदारण्यक श्रुतिर्जाग्रत्स्वप्रप्रविवेकेन कामकर्मविमुक्तत्वमुपपाद्य ततः सुषुप्तिमुपन्यस्य प्रियसम्परिष्वक्तस्त्रीदृष्टान्तेन प्राज्ञेनैकीभूतस्यात्मनो बाह्यान्तरवेदनाभावे तत्रैकत्वमेव हेतुरित्याह । एवमेवायं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम् (बृ. ४-३-२१) इति । उत्तरत्र च द्वितीयवस्त्वभावादेव वेदनाद्यभाव इति न तु तद्वितीयमस्ति ततोऽन्य द्विभक्तं यत् पश्येत् (बृ. ४-३-२३) इति वचनेन स्पष्टीकरोति ।
तस्मान्नाविद्यागमकमवेदनम् । न च लिङ्गान्तरं पश्यामः ॥
१४९. श्रुत्यर्पितन्यग्रोधबीजदृष्टान्तादप्येवं गम्यते - किञ्चान्यत् - यद्यपि प्रत्यस्तमितसर्वविशेषं सुषुप्तावात्मतत्त्वं विशेषविज्ञानेन नानुभवार्हम्, तथाप्यतीन्द्रियत्वादेव तस्य ज्ञानाभावो न तु विशेषस्येवानृतस्वरूपत्वात् । यस्मात्प्रकारान्तरेणाचार्योपदेशजनितज्ञानेन३२ साक्षात्कारार्हमेव भवतीति न्यग्रोधबीजजलविलीनलवणदृष्टान्तोपन्यासः, स एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो (छां. ६-८-७) इति च श्रवणम्, इत्येतदुभयमपि सुषुप्त्यवस्थायां शुद्धात्मानं प्रतिजिग्राहयिषतः
१३१. एकत्वमेव तेनात्र भेदादर्शनकारणम् । स्त्रीपुंदृष्टान्तवच्च स्यात्तदेतत्प्रतिपाद्यते ।। बृ. वा. ४-३-१३१० १३२. लवणाणिमवदिन्द्रियैरनुपलभ्यमानमपि जगन्मूलं सदुपायान्तरेणोपलब्धुं शक्यते ।
छां. भा. ६-१३-६खण्ड:)
सुषुप्तेरविद्यासंसर्गाभावे श्रुतिप्रामाण्यम्
१८३ सङ्गच्छते न तु विपरीतवादिनः । प्रतिपक्षे ह्यविद्यावृतत्वेनैवात्मतत्त्वं सुषुप्तौ नानुभूयत इत्यवक्ष्यत् । न पुनः सूक्ष्मत्वादिति ।।
स्यान्मतम् - सम्पत्तिर्नाम न सर्वथैक्यं किं तु तादात्म्यमेव, तादात्म्यं च यत्किञ्चिद्भेदसहितोऽभेदः । जागरितस्वप्नयोरिव स्फुटतरविक्षेपो नास्तीत्येतावता हि स्वरूपसम्पत्तिवचनमिति । मैवम्, उक्तदृष्टान्तप्रणयन प्रयासस्य श्रुत्या सूक्ष्मत्वाख्यानस्य च वैयर्थ्यापातात् । स्वाप्ययसम्पत्त्योः (ब्र. सू. ४-४-१६) इत्यादौ सम्पत्तिशब्दस्य कैवल्ये प्रयुक्तस्य निरुपचरिताभेदे वृत्तिर्नास्तीति वदितुमयुक्तत्वाच्च । अत एव सुषुप्तौ सत्सम्पत्तिदृष्टान्ताथैव, नात्यन्तिकीत्येतदप्ययुक्तम् । उक्तरीत्या वाक्य विशेषस्य सिद्धान्त एवाञ्जस्यात् ।।
१५०. सुषुप्तादुत्थानं श्रुत्या किमर्थं श्राव्यते ? कथं तर्हि सुषुप्तौ निरुपचरितसत्सम्पत्तौ सत्यां पुनः प्रबोधे यथापूर्वमाविद्यकस्वरूपप्राप्तिः श्राव्यमाणा सङ्गच्छत इति । उच्यते - सदात्मतां ज्ञात्वा सत्सम्पत्तिं गच्छतो मुक्तिः, न त्वज्ञात्वेति वक्तुं सुषुप्ते व्याघ्रादीनामात्मभावं जागरिते च स्वाज्ञानभावितस्वरूपप्राप्ति३३ च श्रावयति । अस्यामेवोपनिषद्यष्टमाध्याये अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय (छां.८-३-४) इत्यादिना ज्ञानिनं सम्प्रसादशब्देनानूद्य परंज्योतिरुपसम्पद्य (छां. ८-३-४) १३३. यस्माच्चैवमात्मनः सद्रूपमज्ञात्वैव सत्सम्पद्यन्ते । अतस्त इह लोके यत्कर्मनिमित्तां यां यां जाति प्रपन्ना आसुर्व्याघ्रादीनाम्…………. ।। छां. भा.६-९-३* १३४. सुषुप्तिकाले स्वेनात्मना सता सम्पन्नः सन् सम्यक् प्रसीदतीति जाग्रत्स्वप्रयोर्विषयेन्द्रिय-संयोगजातं कालुष्यंजहातीति सम्प्रसादशब्दो यद्यपि सर्वजन्तूनां साधारणः । तथाप्येवंवित्स्वर्ग लोकमेतीति प्रकृतत्वात्, एष सम्प्रसाद इति सन्निहितवद्यत्ननिशेषात्स………. ।। छा. भा. ८-३-४
१८४
मूलाविद्यानिरासः
(चतुर्थः इत्युक्तिरेवमेवार्थवती भवति । अहरहर्वा एवंवित्स्वर्ग लोकमेति (छा. ८-३-३) इत्युपक्रम्य नैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्तेऽपहतपात्मा ह्येष ब्रह्मलोक: (छां.८-४-१) इति प्रत्यक्षवदभिवर्णनं सर्वमर्थवादतां नीतं स्यात्सुषुप्ति श्चेदविद्यायुता । तस्मान्नैतदपेक्षितव्यं सति सम्पद्येति वाक्यमविद्याप्रति पादकमिति । तस्मादसदेवैतदुच्यते सुषुप्तावन्तःकरणरहितायामप्यवस्थाय मविद्यासद्भावं श्रावयन्ती श्रुतिर्भावाविद्यायां प्रमाणम्, श्रुत्यन्तराणि च चेतनानामज्ञानश्रावकाणि तत्र मानमिति ।।
१५१. कैवल्यश्रुतिवचनम्, तुरीयस्थानवर्णनम्, सुषुप्तिनिन्दावचनं च भावाविद्याप्रापकमिति शङ्का - ननु चास्त्येव श्रुत्यन्तरं सौषुप्ताज्ञान प्रतिपादकम् । सुषुप्तिकाले सकले विलीने तमोऽभिभूतः सुखरूपमेति ॥ (कै. १३) इति शुद्धात्मनश्च सुषुप्तव्यतिरिक्तस्थानवत्त्वबोधकानि वचनानि पर शतं विद्यन्ते । न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् (मां.७) इति प्राज्ञविषय प्रज्ञानघनत्वादिप्रतिषेधपूर्वकं तुरीयोपदेशः, एवमेवैष सम्प्रसादोऽस्मा च्छरीरात्समुत्थाय परंज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते (छां. ८-१२-३) इति सम्प्रसादशब्दोदितसुषुप्तस्यापि कारणशरीरभूताया अविद्यायाः समुत्थानश्रवणम्, अत ऊवं विमोक्षायैव ब्रूहि (बृ. ४-३ ३३) इति सुषुप्तोपन्यासात्परमपि प्राग्वदेव जनकस्य प्रश्नः, इत्यादिवचनानि सुषुप्तातिरिक्तं स्थानं स्पष्टं प्रतिबोधयन्ति । अपि च सुषुप्तस्थानं लयलक्षणाविद्याविशिष्टमिति तत्र तत्र गर्हितं श्रुत्यन्तेषु स हाप्राप्येव देवानेतद्भयं ददर्श, नाह खल्वयमेवं सम्प्रत्यात्मानं ज्ञानात्ययमहमस्मीति
खण्ड:)
सुषुप्तेरविद्यासंसर्गाभावे श्रुतिप्रामाण्यम्
१८५ नो एवेमानि भूतानि विनाशमेवापीतो भवति । नाहमत्र भोग्यं पश्यामीति । (छां. ८-११-१) इन्द्रः खलु सुषुप्तादन्यमात्मानं बुभुत्सुः पुनरपि पञ्चवर्षाणि ब्रह्मचर्यमुवासेति श्रूयते । ततऊर्ध्वमुत्तमपुरुषसंज्ञितं प्रजापति स्तुरीयमात्मानमस्मा उपदिदेशेति च । यत्सत्यं तत्र तत्र श्रुत्यन्तेषु सुषुप्तस्यापि क्वचिच्छुद्धरूपता बोध्यत इवेति तथापि तद्वाक्यान्तरस्य निरवकाशस्या वैयर्थ्याय द्वैताग्रहणदृष्टान्तत्वेनैव कथञ्चिन्नेयम् । उक्तं हि भाष्यकारेण बृहदारण्यके - तच्चैतत्सर्वं विमोक्षपदार्थस्य दृष्टान्तभूतम् (बृ. भा. ४-३-३४) इति । तस्मात्सुषुप्तेऽविद्याबोधकवाक्यानां सत्त्वात्, सुषुप्तव्यतिरिकेणैव शुद्धात्मस्थितेः सुषुप्तिनिन्दापूर्वकमुपदेशात्, सुषुप्तब्रह्म वादिनीनां श्रुतीनामन्यार्थत्वसम्भवाच्च मन्यामहे नात्यन्तमविद्यादोष विनिर्मुक्तं सुषुप्तस्थानमिति । अतः कथं नागमिकः सुषुप्ताविद्यावाद इति ॥
१५२. सुषुप्तिकाले’ इत्यस्य वाक्यस्य तात्पर्यम् - तदेतत्सर्वम समीक्षिताभिधानम् । तथा हि - यत्तावदुच्यते सुषुप्तिकाले (कै. १३) इत्यादिवाक्यमविद्याबोधकमिति । तदसत् । कथम् ? आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ज्ञाननिर्मथनाभ्यासात् पापं दहति पण्डितः (कै. ११) इति ज्ञानाभ्यासः प्रस्तुतः । अन्ते च - मय्येव सकलं जातं मयि सर्व प्रतिष्ठितम् । मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् (कै. १९) इत्यद्वितीयब्रह्मात्मज्ञानमेवोपसंहरिष्यते । तत्कथमिहैवाकस्मादन्तराले भावाज्ञानोपदेशः सङ्गच्छेत ? अथ मन्यसे - यथाभूतार्थवादानां प्रधानपर
१३४अ. ‘निरवकाशस्य वैयर्थ्याय’ इति प्रथममुद्रणे ।। १३५. ‘द्वैतग्रहणदृष्टान्तत्वेनैव’ इति प्रथममुद्रणे ।।
१८६
मूलाविद्यानिरासः
(चतुर्थः त्वेऽपि स्वार्थपरता न दोषाय, तथेहापि सौषुप्तभावाविद्यासद्भावप्रत्यायने न कोऽपि दोषः । तमोऽभिभूतं स्वं विषयं द्वारतः प्रतिपादयत्प्रधानभूतज्ञाना भ्यासेऽपि वाक्यान्तरार्थे तात्पर्यवद्भविष्यतीदं वाक्यमित्यविरोध इति । तदपि मनोरथमात्रम् । प्रमाणान्तराविरोधेनैव ह्यवान्तरवाक्यार्थो विद्यमान इति कल्प्यते । अत्र तु विद्यमानवादे आश्रीयमाणे प्रधानभूत एवार्थो बाध्येत । यतः सुषुप्तावपि यदि विद्यमानता भावाविद्यायाः, तदा तन्निवृत्तिबोधक-वाक्यान्तरस्याभावात्तात्पर्यतो विवक्षितं ब्रह्मात्मैकत्वमेव पीड्येतेति वृद्धिमिच्छतो मूलविनाशः ॥
अपि च सुषुप्तिकाले तमसाभिभवनमत्र विधीयत इति कथमध्यवसितो भवान् ? न हि सुषुप्तिकाल एव जीवस्तमसाभिभूयते जागरिते तु शुद्ध एवेति मन्यन्ते भवदीयाः । ननु यद्यपि समानमविद्याभिभूतत्वमवस्था त्रयेऽपि । तथापि सुषुप्ते विक्षेपांशापहारेणावरणबीजरूपेणावशेषोऽस्ति विशेषः । तमशब्देन चात्रावरणस्वरूपमेव विवक्षितम् सुषुप्तिकाले सकले विलीने (कै. १३) इति विशेषणदर्शनात् । अतो मत्पक्षे सुतरामुपपद्यते विधानमिति । एतदपि न परिशुध्यति । सुषुप्तिकाले इत्येतद्धि सकले विलीने इत्यनेन सम्बध्यते, आनन्तर्यात् । न “तमोऽभिभूतः" इत्यनेन । तेन हि सम्बन्धे तमसाभिभूयते सुखरूपं चैतीत्युभयपरत्वं वाक्यस्य प्रसज्येत । न हीदं वाक्यमात्मनः सुषुप्तिकाले तमोभिभूतत्वं प्रतिपादयिष्या मीति प्रवृत्तम्, किं तर्हि, सर्वमलवर्जितं रूपं दर्शयिष्यामि यथास्याद्वयब्रह्म स्वरूपता प्रतिपादिता स्यादिति । तदयं वाक्यार्थः - योऽयं तमोऽभिभूतो जीवः स स्वव्यतिरिक्ते सकलेऽपि विलीने सति सुषुप्तौ नानात्वस्याभावात्त
१८७
खण्ड:)
सुषुप्तेरविद्यासंसर्गाभावे श्रुतिप्रामाण्यम् दध्यासप्रयुक्तं दुःखं परित्यज्य नैजं सुखरूपमेतीति ॥
१५३. सौषुप्तसुखे विचार: - अत्र मन्यन्ते केचित् - नास्ति किल सुषुप्ते सुखरूपत्वमात्मनः, तत्राविद्यासंवलितत्वादात्मनः, सुखस्वरूपत्वे मानाभावाच्च । न च सुखमहमस्वाप्समिति परामर्शस्तत्र मानत्वं व्रजति । तत्र सुखमिति न विषयपरामर्शः । सुखमिति विषयश्चेदभविष्यद्विशेषतः तत्स्मरणमभविष्यत् । न त्वेतदस्ति । प्रत्युत न किञ्चिदपि चेतितं मयेति परामर्शोऽस्ति । न च सप्तोत्थितस्य गात्रलाघवादिना लिनेन तदनुमीयत इति साम्प्रतम् । यस्मादनुभूतश्चेत् स्मर्येत किं तत्र लिङ्गेन ? गात्रगौरवादिरपि कदाचिद्भवति । तेनायं न भवत्यनुमापकमित्यपि बोध्यम् । तस्मानास्ति सुखरूपतेत्यतो दुःखाभावे सुखत्वोपचार इति । अपरे तु मेनिरे - दुःखाभावो विद्यमानोऽपि न शक्यतेऽनुभवितुम् । तस्मान्नायं पक्षः समीचीनः । कथं तर्हि सुखपरामर्शोपपत्तिरिति चेत् । किमत्र कथम्? सम्भवत्येव हि सुखानुभवः । यत्तूक्तं सुखमविद्यावृतं नानुभवपदवीमारोढुमर्हतीति । तदयुक्तम्, साक्षिचैतन्यांशस्यानावृतत्वात् । ननु जागरिते तर्हि तस्यानवभासः किनिबन्धनः ? न सर्वथानवभासस्तत्रापि । मिथ्याज्ञान विक्षिप्ततया तु न स्पष्टमवभासत इत्येतावान्विशेषः । अतो न दुःखाभा वोऽनुभूयते सुषुप्ते । नाप्ययं परामृश्यते सुप्तोत्थितेन । सुखमेव त्वनुभूतं स्मर्यमाणं स्वविरोधि दुःखाभावं गमयत्यर्थापत्त्या, यदि दुःखमभविष्यत् सुखानुभवो नाभविष्यदिति । ननु सुखानुभवस्य साक्षिचैतन्यस्याविनाशिनः संस्काराभावे कथं तदनुस्मरणं स्यात् ? शृणु । अज्ञानगतचैतन्याभास जन्मोपाधित्वात्सुखानुभवस्य, अज्ञानस्य चावस्थाभेदेन चैतन्याभासानां
१८८
(चतुर्थः
मूलाविद्यानिरासः भिन्नत्वात्तदप्यवकल्पते । एवं च चैतन्याभासजन्मनाशोपपत्तेरज्ञान विशिष्टाश्रयस्यात्मनः सुखानुभव: सुषुप्ते, तत्स्मरणं च जागरिते भवत इति ।।
तदेतन्मतद्वयमप्यसारम् । सुप्तोत्थितस्मरणबलेन सौषुप्तिकानुभवा नुमानस्यायुक्तत्वात् । दर्शितं चैतद्यथा तथा भावाज्ञानपरामर्शपराकरणाव सरे । स्मरणस्य नियतमनुभवपूर्वत्वाभावात्, सुषुप्ते चानुभवविशेषस्या सम्भवादयं स्मरणाभासो विकल्प एवेति । अभ्युपगम्यापि स्मरणत्वं ब्रूमः - सुखमस्वाप्समित्येव परमार्थो न तु सुखमन्वभूवमिति । अतोऽव गम्यते न सुखमिति विषयः, किं तर्हि निद्राविघातकसामग्रयभाव एवेति । ननु नायमभावोऽनुभूतचरः, कथं स्यादयं परामर्शविषयः ? न बमो वयमभावोऽनुस्मर्यत इति । कथं तर्हि यदि निद्राप्रतिबन्धकारणमभविष्यत् तर्हि नूनमभविष्यन्मध्ये मध्ये विशेषविज्ञानम् । यन्न किञ्चिदप्यचेतये, तद्गम्यते नजागरांबभूवाहं किं तु गाढं प्रसुप्त एवेति सुषुप्तविघातकसामग्र्य भावानुमानमेतदिति । ननु नायं जामाता, कस्तर्हि ? दुहितुः पतिरेवेत्युक्ति मनुहरत्ययं प्रलापः । न ह्यनुभूतचरो विशेषविज्ञानाभावः, स एव कुतः अवसीयते यद्बलात्सुषुप्तिविघात कारणसामग्रयभाव उपपाद्यतेति चेत् । अहो तर्ककुशलता । सुषुप्तिरित्यवस्थामभ्यजानन्तो विशेषविज्ञानाभावे विप्रतिपद्यन्त इति । सर्वविधविज्ञानाभाव एव खलु सुषुप्तिरित्यभ्युपगम्यते, तस्मात्सुखमस्वाप्समिति क्रियाविशेषणमेवेति ज्ञेयम् ।।
१५४. सुखरूपमेतीत्यस्यार्थः - कथं तर्हि सुखरूपमेतीति श्रुतिः ? १३६. ‘विघात’ इति त्रुटितं प्रथममुद्रणे ।।
खण्ड:)
सुषुप्तेरविद्यासंसर्गाभावे श्रुतिप्रामाण्यम्
१८९ न दुःखाभावो न च सुखानुभवोऽभ्युपगम्यते, नापि सुखशब्दाहँ सुषुप्ते वस्त्वन्तरं पश्यामः । बाढम् । अत एव सुखरूपमात्मन एवेति निश्चीयते । ननु कथं सुखरूपमेतीति सुखावाप्तिवचनम्, न हि स्वरूपमेवाप्यते । मैवम् । स्वाप्ययवदुपपत्तेः । यथा खलु नित्यं स्वस्वरूप एव तिष्ठन्नात्मा जागरितादावुपाधिगतविशेषात्स्वरूपविभ्रष्ट इव, सुषुप्तौ पुनः सकलोपाधि विगमात् स्वरूपे विलीन इव च तदपेक्ष्यैव स्वं ह्यपीतो भवति (छां.६ ८) इति श्रुतिः । एवमेव सदा सुखरूप एव सन् सुषुप्तौ विक्षेपकाभावा त्सुखरूपमेतीत्युच्यते, ततो न विरोधः । न चैवं शङ्कावादिमतादविशेषः, तस्यापि साक्षिचैतन्यसुखस्य नित्यं वर्तमानस्यैव निद्रायामप्यङ्गीकारादिति वाच्यम् । तस्य निद्रायां भावाज्ञानतद्गतचैतन्याभासप्रयुक्तसुखानुभवो, जागरिते तत्परामर्शश्चेत्यभ्युपगमः । अत्र तु तदुभयमपि नाङ्गीक्रियत इति विशेषात् । तदेवं तमोऽभिभूतः सुखरूपमेतीति श्रुतिर्न सुषुप्ते तमसः सत्त्वामाचष्टे, किं तु नानात्वाध्यासकृतदुःखपरित्यागपूर्वकमात्मनः स्वस्वरूपेणावस्थानमिति सिद्धम् ॥
१५५. तुरीयावस्थायाः श्रुतिप्रतिपाद्यत्वाङ्गीकारेऽपि प्रतिवादिसम्मता विद्यासिद्धिर्नास्ति - यत्पुनरुक्तं सुषुप्तावस्थादप्यात्मनो व्यतिरिक्तं स्थानान्तरगतं रूपं प्रतिपाद्यते श्रुतिष्विति । अत्रोच्यते - यदि तुर्यावस्था जागरितादिव्यतिरिक्ता श्रुत्या प्रतिपाद्यते प्रतिपाद्यतां नाम, किं तव तेन स्यात् ? नन्विदमत्र स्यात् । सुषुप्तात्मा भावाविद्यावृत एव, तुरीयात्मा तु न तथेति । यथाहः - नात्मानं न परांश्चैव न सत्यं नापि चानृतम् । प्राज्ञः १३७. यदपि तस्यामवस्थायां सुखमुक्तं तदप्यात्मन एव सुखरूपत्वविवक्षयोक्तम् ।। -
सू. भा. १-३-९
१९०
मूलाविद्यानिरासः
(चतुर्थः किञ्चन संवेत्ति तुर्य तत्सर्वदृक्सदा (मां. का.१-१२) इति ॥
__ अत्र पृच्छामः - यदि सुषुप्तादन्यत्तुरीयं स्थानं तर्हि वक्तुमर्हसि किं तुर्यानुभववान् कदापि जागाहोस्विन्नेति । यदि न जागर्ति तत्कथं तस्यानुभवं विदन्तु जिज्ञासवः, को वा स्यादुपदेशकस्तदवस्थास्वरूप स्येति ? अथ जागर्ति, तत्र को हेतुर्जागरणे तुरीयं स्थानं परित्यज्येति वक्तव्यम् । न तत्र स्थाने भावाज्ञानसद्भावः, अनभ्युपगमात् । न च कारणान्तरं सम्भाव्यते । ननु तुरीयावस्थायामप्यस्ति तिरोहितः कश्चिद ज्ञानांशः सूक्ष्मतां गतः । स एवोत्थाने जगत्प्रतिभासहेतुर्भविष्यति । हन्त तायातं तौल्यमेव सुप्तितुर्ययोः, उभयोरप्यज्ञानसत्त्वात्, उभाभ्यामपि च सकाशादुत्थानसाम्यादिति ॥
ननु वैधर्म्यमप्यस्ति । सुप्त्यनुभवो सर्वप्राणभृत्साधारणः, न तन्मात्राधि गमेनास्ति कस्यचित्संसारोपरमः । तुरीयानुभववतां तु निवृत्ताज्ञानकार्यत्वात् तेषामेव ब्रह्मज्ञानित्वमाञ्जसमिति । अहो विस्मरणशीलता । यदि निवृत्ता ज्ञानस्यापि तुरीयादुत्थानं सम्भवति । किंप्रयोजनस्तर्हि सुप्तेरुत्थानमा लिङ्गात्सौषुप्ताज्ञानानुमानप्रयासः ?
अथैतत्स्यात् - आशरीरपातमस्त्येव जगत्प्रतिभासनक्षममज्ञानं तुरीया मवस्थानमनुभूतवतोऽपि । निर्दग्धस्थूलाज्ञानांशत्वादेव तु तस्य सुप्त्यनुभव वद्भयो भेद इति । नैतदपि चारु, ब्रह्मज्ञानस्य मुख्यस्य कस्यचिदपि जीवतोऽसम्भवप्रसङ्गात् । न चेष्टापत्तिरियंजीवन्मुक्तेर्गौणत्वाभ्युपगमादिति वाच्यम् । मुख्यमुक्तौ प्रमाणाभावात्, युगपदेकस्मिन् पुरुषे विद्याविद्ययो खस्थित्यसम्भवस्य पूर्वं प्रदर्शितत्वात्, भावाज्ञाने स्थूलसूक्ष्मांशद्वयसत्त्वे
१९१
खण्ड:)
सुषुसेरविद्यासंसर्गाभावे श्रुतिप्रामाण्यम् प्रमाणाभावात्, अज्ञानांशवादस्याग्रे निरसिष्यमाणत्वाच्च । तदेवं तुरीया वस्थायाः श्रुतिप्रतिपाद्यत्वाभ्युपगमेऽपि न भावाविद्यावादिनां कञ्चन लाभं सम्भावयामः ॥
१५६. अवस्थारूपस्य तुरीयस्य नैव श्रुतिप्रतिपाद्यता - न च श्रुतिप्रतिपाद्यत्वमस्ति तुरीयस्थानस्य । माण्डूक्यश्रुतिस्तावन्न सुषुप्तिव्यति रिक्तस्थानबोधनार्था, विश्वादीनामात्मनः पादत्रयत्वकथनेनैव तुरीस्य व्यतिरिक्तत्वसिद्धेः । कल्पितप्राज्ञत्वनिषेधेनात्मस्वरूपकथनार्था त्वेषा श्रुतिः । यथा हि “रज्जुरेषा न सर्पः” इति वाक्ये सर्पप्रतिषेधस्तद्वदत्रापि “न प्रज्ञानघन"मित्यादिवाक्ये कल्पितप्राज्ञत्वप्रतिषेधः ॥
नन्वेवं प्राज्ञवत्तैजसविश्वयोरपि कल्पितत्वाविशेषः । बाढम् । तत्तु सुषुप्तौ निष्प्रपञ्चत्वदर्शनादेवावसेयम् । ननु सर्वदा निष्प्रपञ्च एवात्मा? सत्यम् । न तु तत्पराग्दृशां जागरिताद्यवस्थाभिमानवतां शक्यावधारणं प्रातीतिकप्रपञ्चस्याभावो यत्र दर्शनक्षमः, तां सुषुप्तिमनुपन्यस्य । यत्सत्यं सर्वदापि निष्प्रपञ्चस्वभाव एवायमात्मेति तथापि प्रमात्राद्यपेक्ष्य मिथ्यादृष्टिदूषिताशयाः प्रतियन्ति जाग्रत्स्वप्रयोरेव चैतन्यमस्ति न सुषुप्ते, सुषुप्ते न किञ्चिदवेदिष्मेति सकलजनप्रसिद्धेरिति । सुषुप्तावेव केवलम
१३८. अविद्याकामकर्मभिः संसारहेतुभिः संयुक्त एव स्वप इति न स्वमपीतो भवति । अनन्वागतं पुण्येनानन्वगतं पापेन, तीर्णो हि तदा सर्वान् शोकान् हृदयस्य भवति (बृ. ४-३-२२) तद्वा अस्यैतदतिच्छन्दा (बृ. ४-३-२१) एष एव परम आनन्दः (बृ. ४ ३-३३) इत्यादिश्रुतिभ्याः । सुषुप्त एव स्वं देवतारूपंजीवत्वविनिर्मुक्तं दर्शयिष्यामीत्याह॥ छां. भा. ६-८-१
१९२
मूलाविद्यानिरासः
(चतुर्थः स्यात्मनः क्रियाकारकफलात्मकजगत्संसर्गाभावः, प्रबोधे पुनर्वास्तविक एव सम्बन्ध इति च । तद्वैपरीत्येन३९ सुषुप्तेऽप्यलुप्तचैतन्यतां प्रबोधेऽपि निष्प्रपञ्चतां च व्युत्पादयितुं श्रुत्या प्रतिज्ञायते जागरिताद्यवस्थापरीक्षणम् । तत्र प्रपञ्चलेपाभावस्तावत्सुषुप्त्युपन्यासेनैव शक्योपपादनः । अतस्तन्मुखेन निष्प्रपञ्चतामवगमयित्वा प्राक्कल्पितांजागरिताद्यवस्थावत्त्वमपि श्रुतिनि षेधति नान्तःप्रज्ञम् (मां.७) इत्यादिनेति श्लिष्यते । प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्त (मां.७) इति निष्प्रपञ्चताया एवोपसंहाराच्चेयं श्रुतिरेवंपरेति निश्चीयते । एवं छान्दोग्येऽपि -एष सम्प्रसादोऽस्माच्छरी रात्समुत्थाय (छां.८-१२-३) इति वाक्यं न सुषुप्तादन्यत् स्थानमाचष्टे । किं तर्हि नात्मा देहेन्द्रियमनोबुद्धिसङ्घात इति प्रतिपादयिष्यदशरीरतां सुषुप्तौ प्रसिद्धामनूद्य दर्शयत्यात्मनः स्वाभाविकमशरीरत्वम् । एवं श्रुतिकृतं देहादिप्रविविक्तत्वज्ञानमेव शरीरात्समुत्थानं न त्ववस्थान्तर गमनम् । अतो नात्रापि तुरीयावस्थाप्रत्याशास्ति ।
१३९. अलुप्तदृष्टिरात्मायं यथोक्तः स्वप्रबोधयोः । प्राज्ञेऽपि च तथैवायं यद्वै तदिति वाक्यतः ॥
अतिकारकहेतुश्च यथात्मायं सुषुप्तिगः । कूटस्थदृष्टिमात्रत्वात्तथा स्वप्रप्रबोधयोः ॥ बृ. वा. ४-३-२९०७, १९०८ १४०. अस्माच्छरीरादुत्थाय सुषुप्तौ यः सुरर्षभाः । परंज्योतिःस्वरूपं तं शिवं सम्पद्यते सुराः ।। अभिनिष्पद्यते स्वेन रूपेणैव स्वभावतः ।। - सू. सं. ब्र. ६-१८, १९ १४१. अशरीरस्वभावस्यात्मनस्तदेवाहं शरीरंशरीरमेव चाहमित्यविवेकात्मभाव सशरीरत्वम्। तं पुनर्देहाभिमानादशरीरस्वरूपविज्ञानेन निवर्तितिताविवेकज्ञानमशरीरं सन्तं प्रियाप्रिये न स्पृशतः ।। छां. भा. ८-१२-१खण्ड:)
सुषुप्तेरविद्यासंसर्गाभावे श्रुतिप्रामाण्यम्
१९३ यत्पुनरुक्तं बृहदारण्यके अत ऊर्ध्वं विमोक्षायैव ब्रूहि (बृ. ४-३ ३३) इति वाक्यान्निश्चीयते सुप्तौ नात्यन्तिकनिवृत्तिरस्त्यज्ञानस्येतीति । तदेतदनाकलितश्रुत्यभिप्रायेणाभ्यूहितम् । जागरित एव बन्धमोक्षादि व्यवहारप्रदर्शनार्थो हि परो वाक्यसन्दर्भो दृश्यते । जागरितं हि सकललौकिकशास्त्रीयव्यवहारास्पदम् । तस्मात्तत्रैवाविद्याकृतबन्धमोक्ष व्यवहारः । तत्प्रतिपादनाय संसारमोक्षपदार्थो व्याख्यास्यन्ती श्रुतिः कथं सुषुप्तौ भावाविद्यासत्त्वं नः प्रत्याययितुं सुषुप्तातिरिक्तावस्थान्तरं वा ज्ञापयितुं व्याप्रियेतेति ॥
यदप्युक्तं सुषुप्तस्थानं श्रुत्या निन्द्यते नाहमत्र भोग्यं पश्यामि विनाशमे वापीतो भवति (छां. ८-११-१) इत्यादिवाक्यैरिति तत्र वाक्यस्य लोकदृष्टयनुवादित्वात्तात्पर्याभावो बोध्यः । विशेषविज्ञानाभावमेव खलु व्याचष्टे “नाहर खल्वयम्” इत्यादिवाक्यम् । विनाशाप्ययवचन मप्युपाधिविलयकृतविशेषविज्ञनापहाराभिप्रायकम् । अत एव च लोकदृष्टिसिद्धं ज्ञानाभावमपोद्य नित्याविलुप्तचैतन्यदृष्टेः सुषुप्तेऽपि सद्भावं शास्त्रीयदृष्टिमाश्रित्योपदेष्टं प्रजापतिराजिज्ञपदिन्द्रं"वसापराणि पञ्च वर्षाणि ब्रह्मचर्यम्” (८-११-३) इति । न च तत्तुरीयावस्थाबोधनार्थमिति साम्प्रतम् । तादृशावस्थाबोधकशब्दाभावादिति ध्येयम् । तदेवं नास्ति श्रुतिप्रतिपाद्यत्वं तुरीयावस्थाया इति स्थितम् ।। १४२. नाह खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि (छां. ८-११-१) इति सुषुप्तावस्थायां विशेषविज्ञानाभावमेव व्याचष्टे ।। -सू. भा. १-३-१९ १४३. यत्तु तत्र “विनाशमेवापीतो भवति” (छां.८-११-१) इति, तदपि विशेषविज्ञान विनाशाभिप्रायमेव - सू. भा. १-३-१९
१९४
मूलाविद्यानिरास:
(चतुर्थः १५७. सुषुप्तात्मनः शुद्धत्वबोधकवाक्यान्यनन्यपराण्यपि सन्ति - अपि च लिङ्गमात्रमेतत् सौषुप्ताविद्यासद्भावे यत्सुषुप्तातिरिक्तस्थानाभिधानं नाम श्रुतेः । तेन च श्रुतिः कल्प्या यया स्यादविद्यासद्भावबोधः । विद्यन्ते तु नैकाः श्रुतयः स्वरसत एव सुषुप्तात्मनो निरस्तसर्वाविद्यदिदोषत्वं बोधयन्त्यः । अत्र स्तेनोऽस्तेनो" भवति (बृ. ४-३-२२) अनन्वागतं पुण्येन (बृ. ४-३-२२) एषोऽस्य परमो लोकः (बृ. ४-३-३२) परंज्योतिरुपसम्पद्य (छां.८-३-४) सर्वस्याधिपतिः (बृ. ४-४-२२) प्राज्ञेनात्मना सम्परिष्वक्तः (बृ. ४-३-२१) - इत्यादीनि वचनानि साक्षादेव सकलदोषानागन्धितं शुद्धं सुषुप्तात्मानमवगमयन्ति सन्ति । तत्र युगपद विद्यासत्त्वमसत्त्वं च सुषुप्तौ श्रुत्यैव यदि बोध्येत तदा विरुद्धार्थाभिधानं
शास्त्रं कल्पितं स्यात् । तच्च न युक्तम् । दर्शिता चाविद्यालिङ्गानां गतिः ॥
ननुजाग्रत्स्वप्रसुषुस्यादिप्रपञ्च यत्प्रकाशते (कै.२७) इति कैवल्योप निषद्यादिपदेन तुरीयावस्थाभिहिता । सुबालोपनिषदि योऽयं विज्ञानघन उत्क्रामन् प्राणं वहति (१५-१) इत्युपक्रम्य जागरितं स्वप्नं सुषुप्तं तुरीयं च (१५-१) इति शब्दत एवोपात्ता । जाग्रत्स्वप्रः सुषुप्तिस्तुरीयमिति चतुर्विधावस्था (शा. ५) इति च शारीरकोपनिषदि स्पष्टमेवावस्था चातुर्विध्यमुक्तम् । तदेतत्सर्वं किमिति प्रद्विष्यते ? न च सुषुत्यादेरवै लक्षण्यात्तेष्वेव स्थानेष्वन्तर्भाव इति वाच्यम् । श्रुतिसिद्धत्वे सत्यव स्थान्तरस्य तदनुरोधेन तुरीयव्यावृत्तसुषुप्त्यादिलक्षणस्य सुषुप्त्यादिव्या वृत्तावस्थान्तरलक्षणस्य चावश्यं कल्पनीयत्वात् प्रमाणसिद्धस्य लक्षणेन
१४४. अत्र स्तेनेति शुद्धत्वं तथानन्वागतं श्रुतेः ॥ उ. १७-३८
१९५
खण्ड:)
सुषुप्तेरविद्यासंसर्गाभावे श्रुतिप्रामाण्यम् निवर्तनायोगाच्चेति चेत् । अत्रोच्यते - सुषुत्यादीत्यादिपदेन तुरीयावस्था भिहितेति न केनचिदुहितुं शक्यते तस्य तत्राप्रकृतत्वात् । त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च तद्भवेत् (कै. १७) इत्यादि वाक्यशेषबलेन ज्यवस्थावादस्यैवात्र स्वीकरणमिति स्पष्टं विज्ञायमानत्वाच्च । सुबालोप निषद्युपनिषदन्तरे च यद्यप्यवस्थात्वमुक्तं तुरीयस्य तथाप्यतत्परत्वा कथञ्चिन्नेयं वाक्यम् । अन्यथा सर्वोपनिषत्सिद्धान्तस्य निरवस्थात्मवाद स्यासिद्धिप्रसङ्गात् । श्रुत्युक्तित एव श्रुतिप्रामाण्ये स्वीक्रियमाणेऽल्लोप निषदादीनामपि प्रामाम्यादल्लादिसिद्धिरपि स्यादिति ध्येयम् । तस्मानास्ति तुरीयावस्थासिद्धिः श्रुतिप्रमाणेन । तत्सिद्धिसद्भावेऽपि सुषुत्यविद्यासद्भावो न सिध्यति, अधस्तादुदाहृतन्यायानुग्रहीतश्रुतिभ्य इत्यपि न प्रस्मर्तव्यम् ॥
एतेन द्वैताग्रहणदृष्टान्तार्थानि सुषुप्तिवाक्यानीति निरस्तम् । स्वरसतः शुद्धस्वरूपात्मानं प्रतिबोधयतामग्रहणमात्रपरत्वेन सङ्कोचे कारणाभावात् । यत्तु भगवत्पादीयं वचनमुदाहृतम् - “तच्चतत्सर्व विमोक्षपदार्थस्य दृष्टान्त भूतम्” । (बृ.भा. ४-३-३४) इति । तज्जागरित एवाविद्याकृतबन्धमोक्ष व्यवहारं दर्शयितुमित्यदोषः । एतदुक्तं भवति - सुषुप्तावस्थायां यथा स्वाभाविकेन वृत्तेन निष्प्रपञ्चो निरविद्यश्चात्मा तथा तज्ज्ञानेन विध्वस्ताविद्योऽपि जागरिते निष्प्रपञ्चो निरविद्य इति व्यवह्रियते । विद्यावस्थैव च मोक्षावस्थेति । यथोक्तं शारीरकभाष्ये - अविद्याप्रत्युप
स्थापितद्वैतसम्पृक्त आत्मा स्वप्रजागरितावस्थयोः कर्ता दुःखी भवति । स तच्छमापनुत्तये स्वमात्मानं परं ब्रह्म प्रविश्य विमुक्तकार्यकरण सङ्घातोऽकर्ता सुखी भवति सम्प्रसादावस्थायाम् । तथा मुक्तावस्थाया
तामहणमाः
(चतुर्थः
१९६
मूलाविद्यानिरास: मप्यविद्याध्वान्तं विद्याप्रदीपेन विधूयात्मैव केवलो निर्वृतः सुखी भवति (सू. भा. २-३-४०) इति ।।
तदेवं सुषुस्यविद्यावाक्यानामाभासितत्वात्, अविद्यामात्रबोधकवाक्यानां भावाविद्याविषयत्वे प्रमाणाभावात्, सुषुप्त्यतिरिक्तशुद्धावस्थायाः श्रुतिष्व प्रतिपादनात्, क्वचित्प्रतिपादनेऽपि सुषुप्तितुरीययोः समानयोगक्षेमत्वस्या निवारणीयत्वात्, साक्षादेव बह्वीभिः श्रुतिभिः सुषुप्तात्मनः शुद्धत्वाम्नानाच्च व्याविद्धाविद्यास्थितिरेव गाढनिद्रा, श्रुतिप्रमाणानुसारिण्येव भावाविद्या निरसनप्रक्रियेति च सिद्धम् ॥
सुषुप्तात्मनो निरविद्यत्वे सूत्रकारादिसम्मतिः १५८. सूत्रकारादिवचनविचारार्थं पूर्व पक्षः - अत्र विशङ्का भवति - यद्येवं श्रुतिसिद्धा सुषुप्तौ सर्वकल्मषविनिर्मुक्तिरात्मनः । कस्मात्तर्हि सूत्रकारस्तत्र तत्र सुषुतात्मनः परमात्मनोऽन्यत्वं सुषुप्तावव्यक्तोपाधित्वं चोचिवान् ? सुषुप्त्युत्क्रान्त्योर्भेदेन (ब्र. सू. १-३-४२) तदभावो नाडीषु तच्छुतेरात्मनि च (ब्र. सू. ३-२-५) पुंसत्वादिवत्त्वस्य सतोऽभिव्यक्ति योगात् (ब्र.सू. २-३-३१) इति । भाष्यकारश्च - सुषुप्तादुत्थानमविद्या त्मकबीजसद्भावकारितम् (सू. भा. २-३-३१) इह तु विद्यते विवेककारणं कर्म चाविद्या च (सू. भा. ३-२-९) इति स एवायमुपाधिः स्वापप्रबोध यो।जाङ्करन्यायेन (सू. भा. ३-२-९) इति तत्रैव । यथा हि सुषुप्तिसमाध्यादावपि सत्यां स्वाभाविक्यामविभागप्राप्तौ मिथ्याज्ञानस्या नपोदितत्वात्पूर्ववत्पुनः प्रबोधे विभागो भवति (सू. भा. २-१-९) इति च वदन्नज्ञानसत्त्ववादमेवोपोद्वलयल्लँक्ष्यते । नैष्कर्म्यसिद्धौ वार्तिककारश्च
खण्ड:)
सुषुप्तात्मनो निरविद्यत्वे सूत्रकारादिसम्मतिः
१९७ - यदि हि सुषुप्तेऽज्ञानं नाभविष्यत् (नै. ३-५८) इत्यादिना भावाविद्यासद्भावं कण्ठरवेण साधयामास । माण्डूक्यकारिकायां च करतलामलकितसकलागमार्थतत्त्वेनापि सम्प्रदायविदा भगवता श्रीगौड पादाचार्येण प्राज्ञः कारणबद्धस्तु (मां.का.१-११) इत्यादिना सुषुप्तेऽज्ञान सत्त्वमुक्त्वा तद्व्यतिरेकेण तुर्यात्मनः सर्वदृक्त्वमभिहितम् । तस्मादभि युक्तोक्तिविरुद्धमिव सुषुप्ताविद्यानिरसनं भातीति ।।
१५९. सूत्रकृदाशयः - अत्राभिधीयते - सूत्रकारस्तावत् सुषुप्त्युत्क्रा त्योर्भेदेन (ब्र. सू. १-३-४२) इत्युक्तस्थानयोर्जीवस्वरूपव्यतिरेकेण परमात्मनः श्रुत्या व्यपदेशाद्या श्रुतिरवस्थापरा लक्ष्यते, सा वस्तुतो निरवस्थब्रह्मात्मनिर्देशपरैवेत्याह । न हि सुषुप्तावस्थायामविद्यामङ्गीकृत्येदं जीवस्वरूपव्यतिरेकेण परमात्मव्यपदेशकथनम्, किं तु सुषुप्तादावष्य विद्यारहितमसंसारिस्वरूपमङ्गीकृत्य । अत ऊर्ध्वं विमोक्षायैव ब्रूहि (बृ. ४-३-१६) इति प्रश्नात् अनन्वागतं पुण्येन (बृ.४-३-२२) इत्यादिप्रति वचनाच्च विषयवाक्ये ॥
तदभावो नाडीषु (ब्र. सू. ३-२-७) इत्यादिना च परमात्मैव सुप्तिस्थान मित्युच्यते । न चात्र नाडीष्वात्मनि चेति समुच्चयः । नाडीपुरीतदाश्रयण द्वारा ब्रह्म सम्पद्यत इत्यभिप्रायात् । लोकसिद्धमेव पुरीतदाश्रयणमनूद्य ब्रह्मसम्पत्तेरेव प्रतिपाद्यमानत्वात् । न चात्मनीत्यधिकरणार्थता विवक्षिता स्वाप्ययात् (ब्र. सू. १-१-९) इति तादात्म्यसंसूत्रणात् । समनन्तरमेव अतः प्रबोधोऽस्मात् (ब्र. सू. ३-२-८) इति वक्ष्यति । आत्मनः सुप्ति स्थानत्वात्तत एवोत्थानमुपदिश्यते सुषुप्तिप्रकरण इत्यर्थः । अत एव
मूलाविद्यानिरासः
(चतुर्थः
१९८ स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि (ब्र. सू. ४-४-१६) इति तुल्यवदुभयोरपि सुषुप्तिकैवल्ययोर्विशेषविज्ञाननिराकरणं सङ्गच्छते । सुषुप्ते नियमेन स्वरूप एवाप्ययात् द्वितीयाभावेन विशेषविज्ञानाभाव उपपद्यत इति । अत एव परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः (ब्र. सू. ३ २-३१) इति पूर्वः पक्षः । स्थानविशेषात्प्रकाशादिवत् (ब्र. सू. ३-२ ३४) उपपत्तेश्च (ब्र. सू. ३-२-३५) इति सिद्धान्तसूत्रे । यथैकस्य प्रकाशस्योपाधियोगादुपजातविशेषस्योपाध्युपशमात्सम्बन्धव्यपदेशः, एवमेव स्थानविशेषादुद्भूतस्य विशेषविज्ञानस्योपाध्युपशमे य उपशमः स एव परमात्मना सम्बन्ध इति, एवमेव हि स्वमपीतो भवतीति श्रुतिरुपपद्यते नान्यथेति च सिद्धान्तसूत्रयोरभिप्रायः । तदेवं स्वरूपावशेषतां सुषुप्तौ ब्रुवाणः सूत्रकारः कथमविद्यावादिपक्षं कक्षीकुर्यात् ? पुंस्त्वादि वदिति सूत्रं तु तद्गुणसारत्वाधिकारगतं न परमार्थाभिलापकं सूत्रं प्रत्याख्यातुं प्रभवति । एवं हि सूत्रक्रमः - यावदात्मभावित्वाच्च न दोषस्तदर्शनात् (ब्र. सू. २-३-३०) पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् (ब्र. सू. २-३-३१) इति । अयमर्थः - यावदज्ञानकल्पितं संसारित्वं भवति तावद्व्यक्ताव्यक्तान्यतररूपमास्थाय तिष्ठतीव बुद्ध्युपाधिरिति । तत्सिद्धं सूत्रकारः क्वचिदपि सुषुप्तावविद्यां नानुजानातीति ॥
भाष्यकारसम्मतिः १६०. पूर्वपक्षोपन्यस्तानां सौषुसाविद्याभाष्यवाक्याभासानां तात्पर्यम् भाष्यकारोऽपि खलूक्तसूत्राण्येवमेव व्याचख्याविति न तिरोहितम् । यत्तूदाह्रियते वचनम् - अविद्यात्मकबीजसद्भावकारितमुत्थानम् (सू.
खण्ड:)
सुषुप्तात्मनो निरविद्यत्वे सूत्रकारादिसम्मतिः
१९९ भा. २-३-३१) इति । न तेन परमार्थतोऽपि सुषुप्तौ सत्त्वं बीजस्यानुमत मिति शक्यं प्रतिपत्तुम् । यावदविद्यात्मकं बीजं ज्ञानेनादग्धं तावदस्वाप्स प्रबुद्धवांश्चेति प्रतिपद्यते जीवः । तस्माजागरितायोत्थानं नाम मिथ्याज्ञान हेतुकमिति हि निगदत्याचार्यः । यदाह छान्दोग्यभाष्ये - यस्माच्चैवमात्मनः सद्रूपमज्ञात्वैव सत् सम्पद्यन्ते, अतस्त इह लोके यत्कर्मनिमित्तां यां यां जाति प्रपन्ना आसुर्व्याघ्रादीनां व्याघ्रोऽहं सिंहोऽहमित्येवम्, ते तत्कर्मज्ञान वासनाङ्किताः सन्तः सत्प्रविष्टा अपि तद्भावेनैव पुनराभवन्ति (छां. भा. ८-९-३) इति । न ह्यत्र सुषुप्ताज्ञाननिमित्तमेव सुषुप्तात्पुनरुत्थानमिति व्याख्यातुं शक्यते । “अज्ञात्वैव सम्पद्यन्ते" इति पूर्वकालवाचि क्त्वाप्रत्ययप्रयोगासङ्गतेः । न च प्राकृतानां सुषुप्तेऽज्ञानम्, विदुषां पुनर्नास्तीति कल्पयितुं शक्यम्, सुषुप्तेरेकरूपत्वात् । समानं हि सर्वप्राणिनां पर्यायेण जाग्रत्स्वमसुषुतिगमनम् (प्र. भा. ४-५) इति प्रश्नोपनिषद्भाष्यात् । सर्वप्राणिसाधारणा एव स्वापादयोऽनुकीर्त्यन्ते विद्याप्रकरणेऽपि प्रतिपिपादयिषितवस्तुप्रतिपादनानुगुण्येन, न तु विदुषो विशेषवन्तो विधित्स्यन्ते (सू. भा. ४-२-७) इत्यासृत्युपक्रमाधिकरणभाष्योक्तेश्च । तदेवमविद्यात्मकबीजसद्भावकारितमुत्थानमित्यविद्यानिमित्त एव जाग्रदा द्यभिमान इत्यर्थः । तत्रोक्तार्थं विशस्य किं कारणमविद्याया: सुषुप्ति संक्रमणमनुक्तमपि प्रक्रियताम् ।।
एतेन इह तु विद्यते विवेककारणं कर्म चाविद्या च (सू. भा. ३-२ ९) इति व्याख्यातम् । न हि कर्म सुषुप्तेऽस्तीति व्याख्यानं सम्भवतीति । स एवायमुपाधिः स्वापप्रबोधयोः (सू. भा. ३-२-९) इत्यत्रापि
(चतुर्थः
२००
मूलाविद्यानिरास: खल्वविद्ययात्मोपधित्वेन गृहीताया बुद्धेः सम्बन्धो यावदज्ञाननाशमनुवर्तत इत्येव व्याचक्षीत । अपि च मिथ्याज्ञानपुरःसरोऽयमात्मनो बुद्ध्युपाधि सम्बन्धः (सू. भा. २-३-३०) इत्यन्यत्र वचनात् । तस्मात् यदा मनो दार्वग्निवदविशेषविज्ञानरूपेण कृत्स्नं शरीरं व्याप्यावतिष्ठते तदा सुषुप्तो भवति (प्र. भा. ४-६) सुषुप्तप्रलयवद्वीजभावावशेषैवैषा सत्त्सम्मति: (सू. भा. ४-२-८) इत्येवमादीनि बीजसद्भाववादीनि न सुषुप्ते प्रलये वा बीजाविद्यां प्रापयन्ति, किं तु मिथ्याज्ञानवतां सत्सम्पत्तावपि विपरीतबुद्धिरनुवर्तत एवेति विद्यावश्यकतां बोधयन्ति, मिथ्याज्ञान निमित्तश्च बन्धो न सम्यग्ज्ञानादृते विस्रंसितुमर्हति (सू. भा. ४-२-८) अविद्यानिमित्तानां च कलानां न विद्यानिमित्ते प्रलये सावशेषत्वोपपत्ति: (सू. भा. ४-२-१६) इत्यादिवचनसान्निध्यबलादित्यवगन्तव्यम् ।।
१६१. सुषुप्तिसमाधिवाक्यं नाविद्यावगमकम्, किन्तु तत्प्रतिषेधकम् - यथा हि सुषुप्तिसमाध्यादावपि सत्यां स्वाभाविक्यामविभागप्राप्तौ (सू. भा. २-१-९) इति वचनं तु सुषुप्ताविद्यावादिनोऽत्यन्तविपरीतप्रयोजनम् । अविभागप्राप्तिः सुषुप्तौ स्वाभाविक्येव, न पुनरविद्यालेशोऽप्यत्रास्तीति हि भगवतः प्रतिपादनरीतिर्लक्ष्यते । यतः समनन्तरमेव ब्रवीति मिथ्याज्ञान स्यानपोदितत्वात्पूर्ववत्पुनः प्रबोधे विभागः (सू. भा. २-१-९) इति । ननु सुषुप्तौ यथा विद्यते मिथ्याभूतमज्ञानं जागरितविभागकारणम्, एवं प्रलयेऽपि स्थितिकालीनविभागकारणं मिथ्याज्ञानप्रतिबद्धा विभागशक्ति रनुमास्यते इत्येवंपरात्र लक्ष्यते वचनव्यक्तिः । मैवम्, सुषुप्तेऽज्ञानं विद्यते इति वचनाभावात् । एवं हि दृष्टान्तदाान्तिकयोस्त्रज्वी सङ्गतिः ।
खण्ड:)
सुषुप्तात्मनो निरविद्यत्वे सूत्रकारादिसम्मतिः
२०१ सुषुप्तिसमाध्यादौ न विद्यते कश्चिद्विभागः, तेन न परमार्थो भवितुमर्हति सः । तथापि जागरिते विभागो दृश्यत एव, तत्कस्य हेतोः ? मिथ्याज्ञानस्या नपोदितत्वात्, मिथ्याज्ञाननिमित्तत्वाद्विभागस्येत्यर्थः । यथैवं दृष्टान्ते नियमकारणाभावेऽपि मिथ्याज्ञानमात्राद्विभागः, एवमविभागेऽप्यपीतौ स्थितिकाले विभागो भविष्यतीति । वाक्यशेषश्चैवमेव समजसः यथा ह्यविभागेऽपि परमात्मनि मिथ्याज्ञानप्रतिबद्धो विभागव्यवहारः स्वप्रवद व्याहत: स्थितौ दृश्यते, एवमपीतावपि मिथ्याज्ञानप्रतिबद्धैव विभाग शक्तिरनुमास्यते (सू. भा. २-१-९) इति । अयमर्थः - परमात्मनि नास्ति कश्चिद्विभागः, अथ च मिथ्याज्ञानप्रतिबद्धः स्थितौ तस्मिन् विभाग: सन्दृश्यते स्वप्रवत् । एवमपीतावपि नास्ति काचिद्विभागशक्तिः, अथ च मिथ्याज्ञानवद्भिरनुमास्यत एवेति । यावन्मिथ्याज्ञानमनुवर्तते तावत्तत्प्रयुक्तः स्थितौ विभागतत्प्रयुक्ता च प्रलये विभागशक्तिरित्यर्थः । मिथ्याज्ञान प्रतिबद्धो विभागव्यवहारः, (सू. भा. २-१-९) मिथ्याज्ञानप्रतिबद्धैव च विभागशक्तिरनुमास्यते (सू. भा. २-१-९) इति वचनसामर्थ्यादेव
मवगम्यते ।।
ये त्वत्र स्वाभाविक्यामविभागप्राप्तौ (सू. भा. २-१-९) इति अविभागस्य स्वाभाविकत्वमविद्यामात्रसंमिश्रितत्वमिति व्याचख्युः । तेषां भाष्यकारहृदयाप्रवेश एवापराध्यतीत्यदोषः । बृहदारण्यके बालाक्यजातशत्रुसंवादे प्रकृतविषयविचारणाय प्रवृत्तो हि भाष्यकार: - क्वैष तदाभूदि (बृ. २-१-१६) ति स्वभावविजिज्ञापयिषया प्रकरणम्
१४५. ‘विभागस्य’ इति प्रथममुद्रणे ।।
२०२
मूलाविद्यानिरासः
(चतुर्थः (बृ. भा.२-१-१६) इति भूमिका रचयित्वा प्राह - तस्मादकर्मप्रयुक्तत्वात् तथास्वाभाव्यमेवात्मनोऽवगम्यते । यस्मिन् स्वाभाव्येऽभूत्, यतश्च स्वाभाव्यात्प्रच्युतः संसारी स्वभावविलक्षण इत्येतद्विवक्षया पृच्छति (बृ. भा. २-१-१६) इति । अत्र खलु स्पष्टमेवेदं यत्स्वभावशब्दोऽत्र नाविद्याभिधायी, किन्त्वात्मनो निरविद्यासंसारिस्वरूपवाचक इति ॥
किं च यथा हि सुषुप्तिसमाध्यादाविति यदि सुषुप्तावविद्यासद्भावं साधयति, तर्हि समाधावपि तत् साध्नुयादेवेति सुषुत्यतिरिक्तसमाध्यव स्थापि स्यादविद्यासम्बद्धा । तच्चानिष्टं श्रीमतामित्यहो परापशकुनाय स्वनासाच्छेदनम् ! तस्माद्भाष्यकारीयवचनानि प्रतिवाद्युपन्यस्तान्यविद्या निरासपराण्येव लक्ष्यन्त इत्यनवद्यम् ॥
१६२. सौषुप्ताविद्यानिवारकभाष्यवाक्यानामुदाहरणम् - सन्ति च भगवतो वाक्यान्तराणि निर्विचिकित्समविद्यानिवारकाणि तद्यथा दहराधिकरणे - सम्प्रसादशब्दोदितो जीवो जागरितव्यवहारे देहेन्द्रिय पज्जाराध्यक्षो भूत्वा तद्वासनानिर्मितांश्च स्वप्रान्नाडीचरोऽनुभूय श्रान्तः शरणं प्रेप्सुरुभयरूपादपि शरीराभिमानात्समुत्थाय सुषुप्तावस्थायां परंज्योतिराकाशशब्दितं परं ब्रह्मोपसम्पद्य विशेषविज्ञानवत्त्वं च परित्यज्य स्वेन रूपेणाभिनिष्पद्यते (सू. भा.१-३-२०) इत्युक्तम् । न चैवं मन्तव्यम् - उभयरूपादपीति विशेषणान्न कारणशरीरादस्ति प्रतिपादितं समुत्थान मिति । सर्वविधस्याप्यभिमानस्यासम्भवात्सुषुप्तौ । विस्पष्टमेव च बृहदा रण्यके न हि सुषुप्तिकाले शरीरसम्बन्धोऽस्ति (बु. भा. २-१-१९) इत्युक्तत्वाच्च । तैत्तिरीयकभाष्ये चोक्तम् - सुषुप्तेऽग्रहणमन्यासक्तखण्ड:)
सुषुप्तात्मनो निरविद्यत्वे सूत्रकारादिसम्मतिः
२०३ वदिति चेत् । न, सर्वाग्रहणात् । जाग्रत्स्वप्नयोरन्यस्य ग्रहणात् सत्त्वमेवेति चेत् । न, अविद्याकृतत्वाज्जाग्रत्स्वप्रयोः । यदन्यग्रहणं जाग्रत्स्वप्र योस्तदविद्याकृतम्, अविद्याभावेऽभावात् । सुषुप्तेऽग्रहणमप्यविद्याकृतमिति चेत् । न, स्वाभाविकत्वात् (तै. भा. २-८) इति । प्रश्नोपनिषद्भाष्ये च - एतस्मिन्कालेऽविद्याकामकर्मनिबन्धनानि कार्यकरणानि शान्तानि भवन्ति (प्र. भा. ४-७) इति । छान्दोग्यभाष्येऽपि - अविद्यकामकर्मभिः संसारहेतुभिः संयुक्त एव स्वन इति न स्वमपीतो भवति । ……सुषुप्त एव स्वं देवतारूपं जीवत्वविनिर्मुक्तं दर्शयिष्यामीत्याह (छां. भा. ६ ८-१) इति ॥
बृहदारण्यकभाष्ये पुनरविद्याप्रत्याख्यानं भूयो भूयः कृतमस्ति । यत्राविद्याकामकर्माणि न सन्ति (बृ. भा. ४-३-२१) अभयं रूपमित्य विद्यावर्जितमित्येतत् (बृ. भा. ४-३-२१) अन्यत्वप्रत्युपस्थापकहेतो रविद्याया अभावात् (बृ. भा.४-३-२१) अत्र चैतत्प्रकृतमविद्यकामकर्म विनिर्मुक्तमेव तद्रूपं यत्सुषुप्त आत्मनो गृह्यते प्रत्यक्षत इति (बृ. भा. ४ ३-२२)। यद्धि तद्विशेषदर्शनकारणमन्तःकरणं चक्षु रूपं च तदविद्ययाऽ न्यत्वेन प्रत्युपस्थापितमासीत् । तदेतस्मिन् काल एकीभूतम्, आत्मनः परेण परिष्वङ्गात् (बृ. भा. ४-३-२३) यत्र पुनः साविद्या सुषुप्ते वस्त्वन्तरप्रत्युपस्थापिका शान्ता (बृ. भा. ४-३-३२) अविद्यया हि द्वितीयः प्रविभज्यते, सा च शान्तात्र (बृ. भा. ४-३-३२) इति च । तदेवं पौनःपुण्येन सुषुप्ताविद्यानिराकरणं न कथञ्चनोपापत्स्यत यदि बीजरूपाविद्या तत्राभ्युपागंस्यत पूज्यपादैः ॥
२०४
मूलाविद्यानिरासः
(चतुर्थः १६३. बृहदारण्यकस्थस्य सुषुस्यविद्यानिराकरणभाष्यस्यैदंपर्यम् - स्यादेतत् - नैतद्भावाविद्याया निरसनम्, किं तु मिथ्याज्ञानस्यैव । तथा हि - नाविद्या स्वयमनर्थकारिणी, सुषुप्तादौ तत्सत्त्वेऽप्यनर्थादर्शनात्, सुखाविर्भावदर्शनाच्च । तत्कार्यरूपेण परिणममानमेवाज्ञानं मिथ्याज्ञानशब्द व्यपदेश्यं सदन) प्रसूते । तस्माद्वीजरूपेण सत्यप्यविद्या नास्तीत्युच्यतेऽ नर्थप्रसवाभावात् । स्पष्टानुभवविषयत्वतदभावाभ्यां च जाग्रत्स्वप्रयोर विद्यासत्त्वोक्तिः सुषुप्तौ तदभाववचनं च न विरुध्येते । सुषुप्ते ह्यहङ्काराभावा दविद्या न स्पष्टमनुभूयते, प्रबोधे तु स्वकार्यं निष्पाद्य “इदमहं न जाने मूढ एवास्मि” इति स्पष्टानुभवविषयत्वं गच्छतीत्येतावता क्वचिद्भाष्ये सुषुप्तिकालेऽविद्या नास्तीत्युक्तं विद्यामानमपि तदविद्यमानप्रायमिति कृत्वा । न पुनर्नास्त्येव परमार्थत इति, अन्यथा सुषुप्तिकैवल्ययो: लक्षण्याभाव प्रसङ्गात् । तस्माद्वीजरूपेण सविकल्पकानुभवाविषयत्वे नास्तित्वमेवाविद्याया भाष्यकाराभिप्रेतम् । सुषुप्तिदृष्टान्तश्चैतावतैव कैवल्यनिरूपणे प्रणीतो भाष्यकारेणेति ॥
तदसत्, अविद्याकामकर्मविनिर्मुक्तमेव तद्रूपं यत्सुषुप्त आत्मनो गृह्यते प्रत्यक्षतः (बृ. भा. ४-३-२२) इत्यवधारणविरोधात् । ननूक्तं मिथ्याज्ञानमेवात्राविद्येति । अन्यथाक्षरशोऽनुसरणे सुषुप्तौ प्रत्यक्षतः कस्यचिदपि रूपस्याग्रहणात् “गृह्यते प्रत्यक्षतः” इति न्यायासङ्गतमुक्तं स्यात् । अतः “प्रत्यक्षत” इति सुप्तोत्थितस्य तथा गृहीतत्वेन परामर्शा दित्यर्थः । अतोऽविद्येत्यभिव्यक्तकार्याविद्यारूपस्यैवाभिधानमिति युक्तमुत्पश्याम इति चेत् । न, कारणाविद्यायाः क्वचिदप्यनुपात्तत्वात्पूज्य पादैः । न हि क्वचिदध्यासरूपाविद्याव्यतिरेकेण तत्कारणभूतं भावाविद्याख्यं
२०५
खण्ड:)
सुषुप्तात्मनो निरविद्यत्वे सूत्रकारादिसम्मतिः वस्तु प्रस्थानत्रयेऽपि भाष्यकारेणोपात्तम् । अतो न भावाविद्यापरिशेषोऽयं सुषुप्ते ॥
अत एव च भावाविद्याया: सुषुप्तादन्यत्रानर्थकारित्ववचनं स्पष्टानु भवगोचरत्ववचनं च भाष्यबहिर्भूतत्वेन व्याख्यातं वेदितव्यम् । भावा विद्यायाः क्वचिदपि भाष्येऽङ्गीकृतत्वाभावेन तस्यानर्थकारित्वानुभव गोचरत्वादीनां षष्टेन्द्रियविषयप्रभेदविचारवद्भाष्यग्रन्थेऽवकाशलाभशङ्काया
अप्यनुदयात् । तस्मात्सर्वाविद्यानिषेध एवायं सुषुप्ते इत्यवगम्यते ॥ ___ उपक्रमसामर्थ्याच्चैतदेवं प्रतिपत्तव्यम् । सुषुत्युदाहरणकण्डिकाप्रारंभे हि भगवत्पादैरेवमुपक्रान्तम् - एकवाक्यतया तूपसंह्रियमाणं फलं नित्यमुक्तबुद्धशुद्धस्वभावताऽस्य नैकत्र पुजीकृत्य प्रदर्शितेति तत्प्रदर्शनाय कण्डिकारभ्यते । सुषुप्ते ह्येवंरूपतास्य वक्ष्यमाणा (बृ. भा. ४-३-१९) इति । सोऽयमुपक्रमो बाध्येत यधुपसंहारे निष्कारणमविद्याशब्दवृत्तिं संकुच्य कार्याविद्यानिराकरणपरमविद्यानिरासभाष्यं व्याख्यायेतेति । एवमयं स्वाभाविके स्व आत्मनि सर्वसंसारधर्मातीतो वर्तते स्वापकाले (बृ. भा. २-१-१९) इति च वाक्यान्तरम् ।।
अपि च बालाक्यधिकरणे समस्ति वाक्यान्तरं भाष्यकृताम् - सुषुसिकाले च परेण ब्रह्मणा जीव एकतां गच्छति, परस्माच्च ब्रह्मणः प्राणादिकं जगज्जायत इति वेदान्तमर्यादा। तस्माद्यत्रास्य जीवस्य निस्सम्बोधता स्वच्छतारूप: स्वाप उपाधिजनितविशेषविज्ञानरहितं स्वरूपम्, यतस्त द्धंशरूपमागमनं सोऽत्रपरमात्मा वेदितव्यतया श्रावित इति गम्यते (सू. भा.१-४-१८) इति । तस्मात्स्फुटमेतद्भाष्यविरोधमनालक्ष्यैव स्वसम्प्रदायं
२०६
मूलाविद्यानिरास:
(चतुर्थः नवीनमनुसत्याचार्यदेशीयाः स्वापे जीवब्रह्मविभागं लयलक्षणाविद्यां चाभ्युपजग्मुरिति । ‘एकतां गच्छति’ इति विभागनिषेधस्य च ‘स्वच्छतारूप’ इत्यविद्यानिषेधस्य च केनचिदपि निह्नोतुमशक्यत्वात् । यत्तु व्याख्यानम् - स्वच्छतारूपमिव रूपमस्येति स्वच्छतारूपो न तु स्वच्छतैव, लयविक्षेपसंस्कारयोर्भावात्, समुदाचरद्धृत्तिमद्विक्षेपाभावमात्रेणोपमानमिति । तन्न, श्रुतहान्यश्रुतकल्पनादोषात् । स्वच्छतारूपमिति यथाश्रुतग्रहणाभावे हि प्रकृतम्, यस्य वैतत् कर्म (कौ. ४-१८) इत्यादिवाक्यं नैव ब्रह्मवाक्यं भवेत् । ततश्च प्रतिज्ञातार्थोपरोध इति । तदेवं सुषुप्तौ सर्वमलरहितत्वस्य कण्ठोक्तत्वादधस्तादुदाहृतवाक्येऽप्यविद्यासामान्यमेव निराकृतमिति निश्चीयते ॥
यत्पुनरुक्तम् “गृह्यते प्रत्यक्षतः’’ (बृ. भा. ४-३-२२) इति न्यायासक्तमिति । तदपि न, स्वयंसंवेद्यत्वपरत्वात्प्रत्यक्षशब्दस्य । लोके हि यद्व्यवहितं दृष्टेस्तत्परोक्षमित्युच्यते । तद्वैपरीत्येन पुनरिहात्मभूतमव्यव हितमविद्यारहितं रूपं गृह्यत इति स्वयंप्रकाशत्वमेवात्मनः प्रत्यक्षत्ववाचो युक्त्योच्यते इति न दोषः । एतेन “गृह्यत” इति कर्मकर्तृत्वानुपपत्त्या सुप्तोत्थितपरामर्शपरत्वेन व्याख्यातव्यमिति यदुक्तम्, तदपि परिहतम् । तस्मादविद्यारहितमेव रूपं सुषुप्ते प्रत्यक्षतो गृह्यत इति सम्यगेव ।।
१६४. भाष्यसम्मत्युपसंहारः - प्रकरणेष्वपि भगवत्पादैस्तत्र तत्रोप दिष्ट एवाज्ञानाभावः सुषुप्ते । अविद्याप्रभवं सर्वमसत्तस्मादिदं जगत् । तद्वता दृश्यते यस्मात् सुषुसे न च गृह्यते (उ. १७-२०) इति सम्यतिप्रकरणे । पूर्वोक्तं यत्तमोबीजं तन्नास्तीति विनिश्चयः (उ.१७
खण्ड:)
सुषुप्तात्मनो निरविद्यत्वे सूत्रकारादिसम्मतिः
२०७ ६०) इति च । अवगतिप्रकरणे च - एषा अविद्या यन्निमित्तः संसारो जाग्रत्स्वप्नलक्षणः (उ. ग. २-११०) इति । दक्षिणामूर्त्यष्टके च - स्वप्रे जाग्रति वा य एष पुरुषो मायापरिभ्रामितः (८) इति । एवमेव प्रकरणान्तरेष्वपि । यत्र पुनर्वाक्याभासानि दृश्यन्ते विपरीताभिधायीनि, तान्यपि सुषुप्तिकल्पनमज्ञाननिमित्तमित्येवंपरतयैव योजयितव्यानि पौर्वापर्यसमालोचनसमथैरित्यलं बहुविस्तरेण ।।
१६५. कदाचिदाचारङ्गीकृतेवाविद्या, तत्रापि न भावाविद्यास्वीकार - यत्पुनरुच्यते नैष्कर्म्यसिद्धयादौ वार्तिककार: सुषुप्ताविद्यां साधया मासेति । अत्रोदाहरणमहत्येषाख्यायिका - कश्चित्किल धनाढ्यः श्रेष्ठी मुमूर्षुः स्वपुत्रानाहूय सप्रेमोवाच - “सप्तदश खलु मदीया मत्तमातङ्गाः । ममेदं चरमानुशासनं यज्येष्ठो युष्माकमनुभवत्वर्धं तत्सङ्ख्यायाः, द्वितीयस्तृतीयांशं भजतु, कनिष्ठः पुनर्नवमांशं हरतु” इति । एवं वदत एव तस्य किल प्राणा उदक्रामन् । ते ह पुत्राः पितुरुत्तरक्रियादिकं निर्वर्त्य यावत्पितुर्निदेशानुसारेण हस्तिनो विभाजयितुं प्रवर्तन्ते तावत्सप्तदशमित सङ्ख्यां द्वाभ्यां त्रिभिवभिर्वापवर्तयितुमशक्नुवानाः कथमिदं कार्य मित्यतीव खिन्नाः परस्परं विवदन्ते स्म । इत्थं भृशं कलहायमानास्ते न्यायस्थानमेत्य विवादकारणं प्राड्विाकाय न्यवेदयन् । तेन पुनर्निपुण मतिना पृष्टाः - “यद्यहं मदीयमेकं हस्तिनं दद्याम्, तर्हि किं यूयं तदपि स्वीकृत्य पितुडूंथे मेलयित्वा पितुरभीष्टप्रकारेण गजांस्तत्तदंशसङ्ख्याकान् हर्तुमनुमन्यध्वे” इति । अतीव हृष्टास्ते ऊचुरस्त्वेवमिति । तदा यावज्येष्ठो हरति स्वांशमष्टादशानाम्, द्वितीयस्तृतीयांशम्, कनिष्ठश्च नवमांशम्,
२०८
मूलाविद्यानिरास:
(चतुर्थः तावन्मिलित्वा तेषां गजाः सप्तदशैव सम्पन्नाः । ततः प्रोवाच न्यायनिर्णेता - यतः खलु भवतामन्यतमस्यापि नास्तीदानीमपरितोषकारणं पितुर्निदेशस्य परिपूर्तेः, तस्मान्मदीयोऽयं हस्ती मामकीन एव संवृत्त इति । यथायं दृष्टान्तस्तथात्राप्यनुसन्धेयम् । अस्ति खलु सप्तदशकं लिङ्गशरीरं नाम । तस्यास्य वृत्तिं स्थानत्रयेऽपि द्रष्टुमीहन्तो न प्रभवन्ति तथा कर्तुम्, यत्कारणं तस्य लिङ्गस्य वृत्तिः सुषुप्ते न सम्भवति । तथापि योऽयं महानाग्रहः सुषुप्तावपि तेन भाव्यमिति, स केवलमविद्यानिबन्धन इति वेदान्ताभियुक्तै रुपदिश्यते । न चात्राविद्या नाम किञ्चिन्नव्यं वस्तु निर्मितं निरूपकैः । किं तर्हि व्यपदेशमात्रमेव । यथा न्यायनिर्णयार्थ प्रत्त इवाभूद्धस्ती प्राडिवाकेन, न तु तथ्यतोऽपि प्रत्त एवायं वादिभ्यः । तथा श्रद्धालूनामस्ति वस्तु किञ्चित्सर्वत्रानुगतमवस्थात्रयेऽपीत्यभिनिविशमानानां सोपानक्रमे णोपदेष्टुमविद्येति नाममात्रं किञ्चिदुपदिष्टं क्वचित् वृद्धैः । अस्ति काचिदविद्या सुषुप्तौ यस्याः कार्यमिदं सर्वं जगदिति । तां गृण्हन्तु तावत् । विदिते तु परमार्थे विज्ञायेतावश्यं यन्नाममात्रमभूदविद्येति । वस्तुगत्या पुनर्या न विद्यते सैवाविद्येति । अत्राह - समायातस्तर्हि घट्टकुटीवृत्तान्तः । किमर्थस्तर्हि भवतां भावाविद्यानिरसनप्रयास इति ? उच्यते - भावानभिज्ञो भवान् । न ह्यस्माभिरुक्तं भावाविद्यामपि सुषुप्तावूरीकृतवन्त आचार्या इति, किं तर्हि विद्याभावमेवेति ।।
१६६.नैष्कर्म्यसिद्धयभिहितसौषुप्ताविद्याविचार - नैष्कर्म्यसिद्धि वाक्यमप्येवंपरमेव, ग्रन्थकृता क्वचिदपि कारणाविद्याया अनभिहितत्वात् । इत्थं शत्र प्रतिपादनरीतिः - यत्साक्षिकौ जाग्रत्स्वप्नसुषुप्तानामागमापायौ
खण्ड:)
सुषुप्तात्मनो निरविद्यत्वे सूत्रकारादिसम्मतिः
२०९ स आगमापायविभागरहित आत्मेत्यनुमानेनैवात्मस्वभावस्य प्रतिपत्तुं शक्यत्वाद्वाक्यस्य निर्विषयत्वप्रसङ्ग इत्याशङ्किते, जाग्रदाद्यागमापायरूप लिङ्गव्यवधानादात्मप्रतिपत्तेः साक्षात्त्वं न सम्भवति, साक्षात्प्रतिपत्तिकारणं तु वाक्यमेवेति परिहार उक्तः । ततः पुनरपि शडूते पूर्वपक्षी - “यद्येवं तन्तरेणापि वाक्यश्रवणं निरस्ताशेषविकल्पमागोपालाविपालपण्डितं सुषुप्ते वस्तु सिद्धमतो नार्थो वाक्यश्रवणेने"ति । अत्रोत्तरम् - नैतदेवम् । किं कारणम् ? सर्वानर्थबीजस्यात्मानवबोधस्य सुषुप्ते सम्भवात् । यदि हि सुषुप्तेऽज्ञानं नाभविष्यत् अन्तरेणापि वेदान्तवाक्यश्रवणमनननिधि ध्यासनान्यहं ब्रह्मास्मीत्यध्ववसायात् । सर्वप्राणभृतामपि स्वरसत एव सुषुप्तिप्रतिपत्तेः सकलसंसारोच्छित्तिप्रसङ्गः (नं. ३-५८) इति । अत्र निरस्ताशेषविकल्पं वस्तु निद्रायां न विद्यत इति नोच्यते, किं तर्हि तत्र तज्ज्ञानाभावान्न सुषुप्तिप्राप्तिमात्रात्सकलसंसारनिवृत्तिस्ततो वाक्यश्रवण मेषितव्यमिति । अत एव तत्रात्मज्ञानाभावो नास्तीति शङ्कित्वा परिहरति - ननु यदि तत्राज्ञानमभविष्यद्रागद्वेषघटाज्ञानादिवत्प्रत्यक्षमभविष्यत् । यथेह लोके घटं न जानामीत्यज्ञानमव्यवहितं प्रत्यक्षम् (नै. ३-५८) इत्यादिना । तदिदमज्ञानं सुषुप्तावनुमतं न भावाज्ञानमिति तु स्पष्टमेव घटाज्ञानदृष्टान्तसामर्थ्यात् ॥
इतश्चैतदेवं विज्ञेयं यत्कारणस्मिन्नेव प्रकरणेऽज्ञानं प्रकृत्यैवं चोद्यपरिहारावुपलभ्येते - अज्ञानं हि नाम ज्ञानाभावस्तस्य चावस्तुस्वा भाव्यात्कुतः संसारकारणत्वम् ? नह्यसतः सजन्मेष्यते इति चोद्यम् । अत्रोच्यते - अज्ञात एव सर्वोऽर्थः प्राग्यतो बुद्धिजन्मनः । एकेनैव सता
२१०
मूलाविद्यानिरासः
(चतुर्थः संश्च सन्नज्ञातो भवेत्ततः (नै.३-७) इति परिहार । यदि हि वार्तिककारस्य भावाविद्या सम्मता स्यात् तर्हि नाज्ञानमभावः, किं तु भाववस्तु ततो न दोष इति वदेत् । न पुनरज्ञातसद्वस्त्वेव कारणमिति । अतोऽवगम्यते मूढबुद्ध्यनुसारेणाभ्युपगम्यमानमप्यज्ञानं न भावरूपं किन्त्वनवबोधमात्रं नित्यनिवृत्ताविद्यात्मनि मूढः कल्पितमिति । अत एव विद्वदृष्टिमवष्टभ्य पदे पदे विचारशून्यमूढबुद्धिसिद्धत्वमेव वर्णयत्यविद्यायाः । अविचारित प्रसिद्धाविद्या (न. ३-११३), अतिदुःस्थोऽप्रबोधोऽत्र (नै.३-११०), नानुत्पन्नमदग्धं वा ज्ञानमज्ञानमस्त्यतः । (नै. ४-५८) इति । अतः सुषुप्ताज्ञानवचनं विषयवासितदुर्धियां दृष्टिमनुरुध्येति नैष्कर्म्यसिद्धावेव विस्पष्टं भवति ॥
१६७. सौषुप्ताज्ञाननिराकरणं चोपलभ्यते नैष्कर्म्यसिद्धौ - वस्तुतस्तु सौषुप्ताज्ञानं न केवलं नाभिहितम्, किं तु ग्रन्थकृतोऽत्यन्तमनभिमत मित्यत्राप्यस्ति प्रमाणम् । यत्कारणं प्रकृतग्रन्थशेषेणाचार्येणेत्थमुक्तम् - इदं ज्ञानं भवेज्ज्ञातुर्ममज्ञानं तथाहमः । अज्ञानोपाधिनेदं स्याद्विक्रियातोऽहमो मम (नै. ३-६०) अस्यार्थः - यदा वस्तुनि ज्ञानं जातं तदनन्तरं नास्ति ज्ञानकृत्यमिति ज्ञानोत्पत्तेः पूर्वरूपमेव ज्ञेयस्येदंज्ञानविषयत्वं ज्ञातुश्च ज्ञातृत्वं नाम । तस्मादज्ञानोपाधिनैव ज्ञातुर्जेयविषयकमिदंज्ञानम् । ममेति ज्ञानं पुनर्न केवलमज्ञानमपेक्षते, किन्त्वहङ्कारविक्रियामपि । न ह्यहमो विकारं विना ज्ञातृज्ञेययोरहं ममेति ज्ञानविषयत्वं क्वचिदृष्टमिति । तत्रैव दाढार्थं व्यतिरेकदृष्टान्तप्रदर्शनपरं श्लोकान्तरम् - विक्रियाज्ञानशूयत्वानेदं न च ममात्मनः । उत्थितस्य सतो ज्ञानं नाहमज्ञासिषं यतः (नै.३-६२)
खण्ड:)
सुषुप्तात्मनो निरविद्यत्वे सूत्रकारादिसम्मति
२११ इति । इदमुक्तं भवति - ज्ञातृत्वाहन्ताविरहितस्यात्मनः सुषुप्ते विक्रियाशून्य त्वादज्ञानशून्यत्वाच्च न भवति ममेति, इदमिति वा ज्ञानम् । यतः सुप्तोत्थितस्य नाहं किञ्चिदज्ञासिषमिति ज्ञानं जायते, अतः सर्वैरवश्य मभ्युपगन्तव्यमज्ञानाहङ्कारविकारशून्यमेव सौषुप्तं स्थानमितीति । ये त्वत्र - कथमज्ञानशून्यत्वं सुषुप्तेऽप्यज्ञानस्य साधितत्वादित्याशङ्कय तत्राज्ञोऽह मिति स्फुटतरव्यवहाराभावात्तथोच्यते । उत्थितस्यैव सतो नाहमज्ञासिष मित्यज्ञानं सम्भवतीति यत इति योजनां कृत्वा परिहारं मूलाज्ञानमङ्गीकृत्य वर्णयांबभूवुः । तेषां श्रुतस्याज्ञानशून्यत्वस्य हानिः, अश्रुतस्य स्फुटतर व्यवहाराभावात्तथाव्यपदेश इत्यस्य कल्पनम्, नाज्ञासिषमिति सषुप्ति विषयकसर्वज्ञानाभावबोधकवाक्यस्य स्वारस्यं विहायाज्ञानार्थक त्वकल्पनक्लेशो ग्रन्थकर्बभीष्टव्यतिरेकदृष्टान्तासिद्धिश्चेत्येते दोषा मुखपिधानं कुर्वन्ति ॥
ननु तवापि व्याख्यानं न निर्दूषणम् । न किञ्चिदज्ञासिषमिति स्मरणबलाच्चेत्सुषुप्तावज्ञानं साध्यते, कथं तर्हि तत एव सुषुप्तावज्ञान मस्तीति ब्रुवतः पक्षः परित्यक्तः स्मृतिरनुभवपूर्विकेति नायमेकान्त इत्युपपादयता भवता? अपि च वाक्यश्रवणमन्तरेण न ब्रह्मात्मताध्यवसाय इति वक्तुं सुषुप्तौ निगदितमज्ञानं वार्तिककृता । तच्चेन्निराक्रियेत स एव वाक्यश्रवणप्रयोजनाभावः पुनरापद्येतेति । उच्यते - न हि वयं सुप्तोत्थित परामर्शाज्ज्ञानाभावं साधयामः, कथं तहनुभवादेव । न हि किञ्चिज्ज्ञायते सुषुप्तौ केनचिदिति । उत्थितस्य सतो ज्ञानमिति (नै. ३-६२) वाक्यं तु यत्र विद्यते विशेषविज्ञानं जाग्रति तत्र सुप्तोत्थितपुरुषमात्रस्य सुषुप्ते
२१२
मूलाविद्यानिरासः
(चतुर्थः नाहमज्ञासिषं किञ्चिदित्येवं खलु जायते मतिः । तेन सुषुप्तौ विशेषविज्ञान स्यानुमानमपि न सम्भवति, ततो नास्त्येवाज्ञानं तत्रेत्येवंपरतया व्याख्येयम् । यद्वा कथमज्ञानविक्रियाशून्यत्वं सुषुप्तात्मनः ? नाहमज्ञासिषमिति स्मरणबलादेव सुषुप्तेऽप्यहमोऽज्ञानस्य चानुमानादेव सुप्रतिपदत्वादित्या शङ्कय परिहारः - “उत्थितस्य सतो ज्ञानमि’‘ति । अयमर्थः - उत्थितस्य हीदं ज्ञानम्, जागरितावच्चिन्नज्ञातुरिति । तेन जागरितावच्छिन्नज्ञातुर्धर्मेण शुद्धात्मनि विकाराज्ञानानुमानं न समीचीनमित्यभिप्रायः ॥
यत्तूच्यतेऽज्ञानशून्यत्वे वाक्यश्रवणप्रयोजनाभावप्रसङ्गः इति । तत्र परिहारं स्वयमेवाचार्यो वक्ष्यति - अपविद्धद्वयोऽप्येवं तत्त्वमस्यादिना विना । वेत्ति नैकलमात्मानं नान्वेष्यं तत्र कारणम् (नै. ३-६५) इति । दशमज्ञान रहितस्य दशमत्वे स्वतःसिद्धेऽपि दशमस्त्वमसीति वाक्यश्रवणं यथार्थवत्, तथा द्वैतसंसर्गशून्यस्यापि तत्त्वमस्यादिवाक्यश्रवणमर्थवद्भवति । तदर्थ त्त्वाय वस्तुसतीमविद्यां कल्पयितुं नावश्यकमित्यर्थः । तस्मात्सम्यगेवास्म दीयं श्लोकव्याख्यानम् । तदित्थं वार्तिकारेण सर्वानर्थबीजस्य (नै. ३ ५८) इत्यादिना सुषुप्तावङ्गीक्रियमाणमज्ञानं न मूलाज्ञानम्, किं तु लौकिकैरारोप्यमाणमग्रहणमिति सिद्धम् ॥
१६८. बृहदारण्यकवार्तिके तैत्तिरीयवार्तिके च सौषुप्ताविद्या कण्ठरवेणैव निरस्ता - अपि च नैवात्र विवदितव्यम् । यतो बृहद्वार्तिके प्राहाचार्यः - एतदस्य स्वतो रूपं यदत्रोपप्रदर्शितम् । अविद्याकाम कर्मादिविविक्तं यत्सुषुप्तगम् ॥ (बृ. वा. ४-३-१२०५) इति । तत्तु द्वितीयं नेहास्ति तमोऽनर्थस्य कारणम् । दृष्ट्यादिरूपसम्भेदाद्यत्पश्येज्जागरेखण्ड:)
सुषुप्तात्मनो निरविद्यत्वे सूत्रकारादिसम्मतिः
२१३ यथा ॥ (बृ. वा. ४-३-१५१९) इति च । तैत्तिरीयके च - निर्धूता शेषभेदो ४५अऽयमवाक्यार्थात्मकस्तथा। सुषुप्ते गम्यतेऽस्माभिर्नानृतं श्रुतिगौरवात् (तै. वा. २-६६४) इति । समानप्रकरणत्वाद्यद्यदत्र विचारे भाष्यसमालोचने न्यवेदि तत्सर्वमिहाप्यनुसन्धेयम् । तत्सिद्धमेतद्वार्तिक कारस्यापि सम्मतैवास्मदीया प्रक्रियेति ॥
१६९. श्रीगौडपादाचार्यसम्मति: - यदप्युच्यते - प्राज्ञः कारणबद्धस्तु (मां. का. १-११) इत्यादिना सुषुप्तेऽज्ञानसत्त्वमुक्त्वा तद्व्यतिरेकेण तुरीयमुपदिशति कारिकाकृदिति । तदप्येतेन परिहतप्रायम् । विश्वादिभेदे नात्मा विकल्प्यते सादिभिरिव रज्जुरित्येवंपरत्वात्प्रकरणस्य । एतदत्रा चार्याकूतम् - प्राज्ञः कारणबद्धस्तु (मां.का.१-११), अग्रहणकल्पनमेव सुषुप्तात्मनः स्वरूपानिर्धारणे हेतुः, यथा विश्वतैजसयोरन्यथाग्रहणसमुच्चितं तत् । तस्मात्प्रातिस्विकावस्थाभिमानकल्पितं बन्धं विवेकेन विधूय स्वेनैव निष्प्रपञ्चरूपेणावधारणीय आत्मेति । तदेवं प्राज्ञे कल्पितमेवाज्ञानं न वस्तुसदित्येवाचार्याभिप्रायः । अत एव प्राह - तुर्य तत्सर्वदृक्सदा (मां. का.१-१२) इति । सदा जागरितस्वप्रसुषुप्तिकल्पनाकालेऽपीत्यर्थः । अत एव च - विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते (मां. का.१-१५) इति । विपर्यास अवस्थाकल्पनम्, तयोः स्वप्रनिद्रयोः ॥
१७०. सुषुप्तेऽन्यो न तत्सम इति कारिकाया अर्थः - ननु सुषुप्तेऽन्यो न तत्समः (मां.का. ३-३४) इति सुषुप्तिसमाध्योर्वक्ष्यति भेदम् । समाधिश्च
१४५अ. ‘निर्धूताशेषबोधोऽयम्’ इति प्रथम मुद्रणे ॥ १४६. व्यवस्थस्यैवात्म नस्तुरीयत्वेन प्रतिपिपादयिषितत्वात्, तत्त्वमसीतिवत् ॥ मां. भा. - ७
२१४
मूलाविद्यानिरासः
(चतुर्थः तुर्यावस्था निदिध्यासनलभ्या चेति केचित्प्रचक्षते । नैतदेवम् । अत्र हि विवेकसमर्थानाम् आत्मसत्यानुबोधेन (मां. का. ३-३२) इत्यादिना मनोनिरोधः फलतयोच्यते । यदा मनसः सिध्यत्यमनीभावस्तदा द्वैतं नोपलभ्यते । अमनस्ता च जागरिताद्यवस्थास्वव्यभिचरितस्वरूपत्वादात्मैव सत्यमिति निर्धारणात् । एवंसिद्धमनोनिरोधफलकं यद्वैतादर्शनं तत्प्राकृतजनसामान्यतः सुषुप्तिसिद्धद्वैतादर्शनेन न तुल्यम्, अपि तु आत्यन्तिकमेव, यस्मादत ऊर्ध्वं द्वैतसत्यत्वबुद्धिर्वन्ध्यप्रसवा भवतीति । भाष्यकारीयं च वचनमत्रैवमेव विज्ञेयम् । यस्मात्सुषुप्तेऽन्यः प्रचारोऽविद्या मोहतमोग्रस्तस्यान्तीनानेकानर्थप्रवृत्तिबीजवासनावतो मनस आत्म सत्यानुबोधहुताशविप्लुष्टाविद्यानर्थप्रवृत्तिबीजस्य निरुद्धस्यान्य एव प्रशान्तसर्वक्लेशरजसः स्वतन्त्रः प्रचारः । अतो न तत्समः (मां. का. भा. ३-३४) इति हि भाष्यम् । अयमाशयः - यथा विस्मृतरज्जुसर्पज्ञान स्यावधृतरज्जुयाथात्म्येन बाधितरज्जुसर्पज्ञानस्य च विशेषोऽस्ति, एवं सुषुप्तिलभ्यमनोलयस्य विवेकलभ्यमनोनिरोधस्य चास्ति महदन्तरमिति । तस्मादत्र नास्ति सुषुप्ताविद्यावादस्यावकाशः ॥
१७१. मनोनिरोधविधायककारिकातात्पर्यम् - यत्तु बोधोपायत्वेन निरोधं पृथगुपदेश्यति - मनसो निग्रहायत्तमभयं सर्वयोगिनाम् (मां. का.३-४०) इत्यादिना । तत्रायमभिसन्धिः - सुषुप्तिगमनं स्वाभाविकमिति तदालोचनयैव मन्दानाबाह्यासक्तचेतसामद्वितीयात्मतत्त्वं सहसा विज्ञातुं १४७. ये त्वतोऽन्ये योगिनो मार्गगा हीनमध्यमदृष्टयो मनोऽन्यदात्मव्यतिरिक्तमात्मसम्बन्धि पश्यन्ति तेषामात्मसत्यानुबोधरहितानां मनसो निग्रहायत्तमभयं सर्वेषां योगिनाम् ॥ मा.
का. भा. ३-४०
खण्डः)
सुषुप्तात्मनो निरविद्यत्वे सूत्रकारादिसम्मतिः
२१५ शक्यम् । तत उत्थाने जागरिते यथापूर्वं द्वैताभिमानस्य विजृम्भमाणत्वात् । निर्विशेषप्रत्ययानवकाशाच्च सुषुप्ते । निरुद्धे तु चित्ते बाह्यविषयक चिन्तनपरित्यागपूर्वकं प्रयत्नसम्पादितत्वान्निरोधस्य विषयसम्बन्धराहित्य मात्मनो निराबाधं बोद्धं शक्यतेति । एतेन समाधेस्तुरीयत्वमाचार्यानभि मतमिति दर्शितं भवति, कादाचित्कत्वोक्तेः समाधेः - निष्पन्नं ब्रह्म तत्तदा (मां. का. ३-४६) इति । तस्मादुपायनिर्देशपरत्वात्याज्ञवाक्यस्य निरोधवाक्यस्य च, सुषुप्त्यविद्यानिरसनं नासम्मतं भगवत इति सिद्धम् ॥
१७२. भावाविद्यावादिनां सूत्रकारभाष्यकाराभ्यां विरोधः - स्थितमेतत् सूत्रकाराद्यभियुक्तोक्तवर्मन्येव वर्ततेऽस्मदीयं दर्शनमिति । तद्वैपरीत्येन स्थितं प्रतिवादिमतमित्यत्रास्ति गमकम् । दिङ्गात्रमिह दर्शयिष्यामस्तद्यथा - जन्माद्यस्य यतः (ब्र. सू. १-२-२) प्रकृतिश्च प्रतिज्ञादृष्टान्तानुप रोधात् (ब्र. सू. १-४-२३) इति च सूत्रकार । भाष्यकारश्च - यत इतीयं पञ्चमीजनिकर्तुः प्रकृतिरिति विशेषस्मरणात्प्रकृतिलक्षण एवापादाने द्रष्टव्या । निमित्तत्वं त्वधिष्ठात्रन्तराभावादधिगन्तव्यम् (सू. भा. १-४ २३) इति । अत्र जगतो निमित्तमुपादानं च ब्रह्मैवेति प्रतीयते । तत्र सुषुप्तौ विद्यमान आत्मैवालं जगदात्मना विवर्तायेति स्थिते, अविद्यैवजगदुपादान बीजमिति दुराग्रहः । ननु तस्मादेतद्ब्रह्म नामरूपमन्नं च जायते (मुं. १ १-९), मायां तु प्रकृति विद्यात् (श्वे. ४-१०) इत्युभयश्रुत्युपपत्त्यर्थं मायासंशब्दिताविद्याया आत्मनश्चोपादानत्वमस्तु रज्वां संयुक्तसूत्र द्वयवत् । न । मायिनं तु महेश्वरम् (श्वे. ४-१०), मम माया (गी.७ १४) इति श्रुतिस्मृतिभ्यां तदधीनत्वादर्थवत् (ब्र. सू. १-४-३) इति
२१६
मूलाविद्यानिरासः
(चतुर्थः सूत्राच्च मायायाः पृथक्कारणत्वकल्पनायोगात्, गौरवाच्च । न च “ब्रह्म विवर्तोपादानमविद्या तु परिणाम्युपादानमिति स्वीक्रियते, अतो नोक्तदोष” इति मन्तव्यम्, अविद्यायाः परिणामित्वे मानाभावात् । जगदात्मना परिणताया अविद्यायाः पुनरपि पूर्वभावस्वीकरणासम्भवाच्च दध्याद्यात्मना परिणतक्षीरादिवत् । मृदादिवत्सम्भविष्यतीति चेत् । न, मृदादेरेकस्य तत्त्वादप्रच्युतस्य पूर्वविपरीतासत्यरूपावभासित्वाद्विवर्तोपादानत्वस्यैव स्वीकर्तुमुचितत्वात् । ननु माया द्वारकारणमित्येवास्तु । न, तस्या अपि कारणापेक्षणप्रसङ्गात् । न चेष्टापत्तिः, अनादित्वप्रतिज्ञाहानेः । अत्र केचिदाहुः - ततोऽन्नमभिजायते (मुं. १-१-८) इति श्रुत्या सादित्व मप्यस्तु । यथांशुतन्त्रतन्त्वारब्धोऽपि किल पटोंऽशुतन्त्र प्रतीयते, एवं ब्रह्मपरतन्त्रत्वादविद्यायास्तत्कार्यमपि जगद्ब्रह्मपरतन्त्रं भविष्यतीति । न, ब्रह्मण एवाविद्याहेतुत्वे न स्यात्ततो निर्मोक्षप्रत्याशा । सति हि कारणे न निर्निमित्तं कार्यनाशः । नाशे वा पुनरुत्पत्तेर्नास्ति निवारक इति । अथैतद्दोषक्लेशजिहीर्षया मायैव साक्षादुपादानं जगतः, ब्रह्म तूपचारात्त थेत्यास्थीयते जगदुपादानमायाश्रयत्वाद्ब्रह्मण इति । हन्त पुनरायातः सूत्रभाष्यविरोधः पुरोदितः ॥
नन्वविद्यापरिणामोक्तिर्न भाष्यविरुद्धा अविद्याकल्पितेन च नामरूप लक्षणेन रूपभेदेन व्याकृताव्याकृतात्मकेन तत्त्वान्यत्वाभ्यामनिर्वचनीयेन ब्रह्म परिणामादिसर्वव्यवहारास्पदत्वं प्रतिपद्यते (सू. भा. २-१-२७) इत्युक्तेः । मैवम्, अविद्याकल्पितेनेत्युक्तौ परिणामित्वमेवाविद्याया
१४८. अनिर्मोक्षप्रसक्तिः स्याद्यद्यविद्या परात्मनः ॥ बृ. वा. २-३-१३१
२१७
खण्ड:)
सुषुप्तात्मनो निरविद्यत्वे सूत्रकारादिसम्मतिः उक्तमिति मन्तुमनुचितत्वात् । अविद्याप्रतिबद्धव्यावहारिकदृष्ट्या परिणामोक्तिः, परमार्थदृष्ट्या तु न परिणाम इति युदाहृतभाष्यार्थः । ननु ब्रह्मण एकरूपत्वात्सावयवमृदादिदृष्टान्तप्रणयनं परिणाम्युपादानान्तर सद्भावं गमयति । मैवम् । मृदादेविवर्तोपादानत्वेनैवोक्तोत्तरत्वात् । अपि च छान्दोग्यभाष्य एतदाशङ्कय परिहतम् - निरवयवस्य सतः कथं विकारसंस्थानत्वमुपपद्यते ? नैष दोषः, रज्वाद्यवयवेभ्यः सदिसंस्था नवदद्धिपरिकल्पितेभ्यः सदवयवेभ्यो विकारसंस्थानोपपत्तेः (छां. भा. ६-२-२) इति । यदि हि भाष्यकारस्याविद्यापरिणामित्वमिष्टमभविष्यत्तदा “नैष दोषः, अविद्याया एव परिणामित्वाभ्युपगमात्, ब्रह्मणस्तु तवारैव विकारसंस्थानत्वोपचारात्” इत्येवावक्ष्यत् । तदेवमविद्यां जगदुपादानत्वेन वाञ्छतां प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् (ब्र. सू. १-४-२३) आत्मकृतेः परिणामात् (ब्र.सू.१-४-२६) इत्यादिसूत्रविरोधस्तद्भाष्य विरोधश्चेति स्फुटम् ॥
एवं सुषुप्तावपि जीवब्रह्मविभागं स्वीकुर्वताम् - तदभावो नाडीषु तच्छुतेरात्मनि च (ब्र. सू. ३-२-७) अतः प्रबोधोऽस्मात् (ब्र. सू. ३ २-८) इति सूत्रतद्भाष्यविरोधः । सुषुप्तिकाले च परेण ब्रह्मणा जीव एकतां गच्छति (सू. भा. १-४-१८) इत्यादिभाष्यवाक्यैरुदाहृतैर्विरोध स्फुट एवेति न पुनरिहोपन्यस्यते ।।
१७३. गौडपादसुरेश्वराचार्यवचनविरुद्धं च भावाविद्यावादिमतम् - एवं कारिकाकारमतं वार्तिककारमतं च विरुणद्धीदं सुषुप्ताविद्यामतम् । द्वैतप्रपञ्चस्य जातिरेव नास्ति, अस्तीति तु मृषाबुद्धिरिति हि श्रीगाडपादैर्वि
२१८
मूलाविद्यानिरासः
(चतुर्थः स्तरेण प्रतिपादितम् । तद्विरोधेनाचार्यदेशीयैः प्रपञ्चस्य जन्माभ्युपगतम् । न च व्यवहारदृष्ट्यैवायमभ्युपगमः जातिस्तु देशिता बुद्धैरजातेस्त्रसतां सदा (मां. का. ४-४७) इत्याचाचैरप्यङ्गीकृतैव जगज्जातिरिति वाच्यम् । अविद्यां सर्वत्राप्यवस्थायामभ्युपगच्छतां तस्या व्यावहारिकत्वोक्तेरसङ्गतः । सा च माया न विद्यते (मां. का. ४-८) इत्यादिना मायाया असत्त्वमाचार्येणोपदिष्टम् । तत्तु प्रतिवादिनां मते न सम्भवत्येवेत्यस्ति वैषम्यम् । तथा शरीरपातानन्तरमेव निरुपचरितं कैवल्यं ततः प्राक्तु न तथेति कारिकाप्रतिषिद्ध एवाभ्युपगमः । प्रागुत्पत्तेरजं सर्वं तेनासौ कृपणः स्मृतः (मां.का.३-१) इति कारिकाकारैः परिनिन्दितत्वादस्य वादस्य । उदाहृतान्येव वार्तिककारवचनानि सुषुप्तौ शुद्धात्मबोधकानि । तद्विरोधश्चा तिस्फुटः । प्रस्थानत्रये तद्भाष्ये वार्तिके कारिकाग्रन्थे वा भावरूपाविद्या प्रक्रिया न कटाक्षेणापि वीक्षितेत्येतत्तु न विस्मर्तव्यम् । तदेवं सक्षेपतो
वर्णितः सुषुप्ताविद्यावादिनामभियुक्तमतविरोधः ॥
तस्मात्सूत्रभाष्यवार्तिककारिकाकृतां वचनं न क्वचिद्विरुणद्धीदमस्म न्मतम्, प्रत्युत तैरेवानुगृहीतं सुषुप्ताविद्यानिरसनं विशदयामो वयमिति सर्वं निरवद्यम् ॥
१७४. सुषुप्त्यविद्यानिरसनं श्रुत्यादिसम्मतमित्यत्र युक्तिः - अथेदानीं पुरोदितप्रक्रिया श्रुत्यादिसम्मतेति सम्भावनाय युक्तिद्वयमुपन्यस्यते विशेषतः । अवस्थात्रयपरीक्षणान्यथानुपपत्तिस्तावत्प्रथमा युक्तिः । सर्वेषु हि वेदान्तेषु जाग्रदाद्यवस्थाः साक्षादाराद्वा विचार्यन्ते । कस्मै प्रयोजनाय कल्पेत तद्विचारः ? न तावदविद्यावत्त्वमात्मन्यवगमयितुं, तादृशज्ञानस्या
खण्ड:)
सुषुप्तात्मनो निरविद्यत्वे सूत्रकारादिसम्मति:
२१९ पुरुषार्थत्वात् । नापि स्थानत्रयेऽप्यादी द्वैतमलं तदुपादानभूतां चाविद्याम् तद्व्यतिरिक्तस्थितिज्ञापनार्थः स विचारः । बह्वीनामुपनिषदां सुषुप्ति निरूपणेनैवोपक्षयात्, स्थानान्तरवर्णननादरात्, सुषुप्तिविषये परम आनन्दः (बृ. ४-३-३३), परमो लोकः (बृ. ४-३-३२) इत्यादिविशेषणानाम विद्योपगमविरुद्धानामुपादानाच्च । चतुर्लक्षण्यां च सुषुप्तिसमन्तरमनुपन्यस्य तव्यतिरिक्तं स्थानं न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि (ब्र. सू. ३-२-११) इत्यनेन न केवलं स्वतः, किं नाम, स्थानतोऽपि नास्ति निर्विशेषतासविशेषतारूपोभयलिङ्गत्वमात्मन इति वदता स्थानत्रयमेवालं शुद्धात्मप्रतिपत्त्या इति सूचितत्वाच्च । यद्यपि क्वचित्तुरीयमुपदिष्ट मुपनिषत्सु । शारीरके च - अपि च संराधने प्रत्यक्षानुमानाभ्याम् (ब्र. सू. ३-२-२४), समाध्यभावाच्च (ब्र. सू. २-३-३९) इति समाधिसंराधनादिशब्दव्यपदेश्या तुरीया काचिदवस्था सूच्यते । तथाप्युप निषत्सु तुरीयं न स्थानान्तरमित्युच्यते, नापि सूत्रे समाधौ भावाविद्याविनाश उक्त इति न किञ्चिदेतत् । यस्तु मन्यते - आत्मदर्शनोक्तिबलादेव स्वीक्रियते तत्राविद्यानाशोऽपीति, तं प्रति कथमविद्यानाशेऽपि समाध्यव स्थासकाशादुत्थानं सिध्येत्, तत्सिद्धौ वा कथं समाधेः सुषुप्तिसकाशाद्विशेष इत्यादि पुरोदितं युक्तिजालं दुरुत्तरमत्राप्यावर्तनीयम् । अतो न समाधि सूत्रमात्रेण सुषुप्तिरविद्यायुता तद्रहिता वा भविष्यति, उभयोरप्यवस्थयो रविद्याविषये समानयोगक्षेमत्वादिति न विस्मर्तव्यम् । तस्मात्सिद्धमिदं यदवस्थात्रयचिन्ता नार्थवती स्यात्तेषां ये सुषुप्तावविद्यामास्थिषत । आस्माकीनप्रक्रियायां तु तयैव सर्वशङ्कातङ्कपरिहार इति ।।
२२०
मूलाविद्यानिरासः
(चतुर्थः १७५. गुरुज्ञानवासिष्ठगताद्वैतखण्डनान्यथानुपपत्तिः - अस्ति च निदर्शनान्तरं सुषुप्त्यविद्यानिरास एवाद्वितीयब्रह्मवादिनां सर्वेषां सम्मत आसीत्, सम्प्रदायविच्छित्त्या तु तार्किकसहयोगात् कारणान्तराद्वा विस्मृत्यैतां प्रक्रियां सुषुप्तेऽपि भावाविद्यामदृष्टश्रुतचरीमभ्युपगतवन्त आस्माकीना इत्यत्र । अस्ति गुरुज्ञानवासिष्ठं नाम केनचित्प्रच्छन्ननाम्ना वैदिकाद्वैतसिद्धान्तमसहमानेन प्रणीतो निबन्धः । यस्य खलु ज्ञानकाण्डा भिधस्य भागस्य पादचतुष्टयमस्ति । अत्र च ग्रन्थप्रणेत्रा विवर्तवादारूप ब्रह्मवादनित्यसिद्धाद्वैतवादादयः शिष्टसम्मताः परिनिन्दिताः -
जगद्विवर्तवादिभ्यो जीवारम्भादिवादिनः । उत्कृष्टाः स्युस्त तोऽप्यन्ये परारम्भादिवादिनः ॥ अनाप्त एव नीरूपं शिष्य स्योद्बोधयेदलम् । स्वेच्छाविहाराद्यासक्तो वित्तार्थी च प्रतारकः ॥ ब्रह्मत्वेनैव जीवस्यावस्थानं मोक्ष उच्यते । तस्य
चेत्प्राप्तपूर्वत्वमुपदेशो वृथा तदा ॥ इत्यादिना । परिणामवादश्रेष्ठत्वम् ब्रह्मणो विधिशेषत्वम् ब्रह्मणस्त्रिरूपत्वम्, विदुषोऽपि स्वाश्रमकर्मबद्धत्वम्, - इत्यादयो विषयाः, व्यवहारत्वम निर्णीयैव दुराग्रहमात्रेण व्यावहारिकदशायां द्वैतमेव, परमार्थदशायां त्वद्वैतमिति सर्वसङ्करवादश्चेत्येतत्सर्वं वासिष्ठकारोक्तं दुषणायानूद्यमानमपि मनःखेदमापादयेत् पूज्यपादश्रीशङ्करभगवत्पादमतानुयायिनामिति न प्रपञ्च्यते । अनेन खलु पण्डितापसदेन स्वात्मानं परांश्च वञ्चयितुम बिभ्यता भगवत्पादैर्वृहदारण्यकादिभाष्येषु समूलघातं घातिता अपि भर्तप्रपञ्चादिवृत्तिकारसम्मता द्वैताद्वैतवादविशेषाः परिशुद्धाद्वैतप्रद्वेषमात्रेण
खण्ड:)
सुषुप्तात्मनो निरविद्यत्वे सूत्रकारादिसम्मतिः
२२१ प्रकारान्तरेणोत्थापिताः । न तु क्वचिदपि नवीनं किञ्चिदुपपादनं कृतम्। स्वमतप्रशंसा चात्रैवं कृता -
अद्वैतिभिर्द्वतिभिश्च विशिष्टाद्वैतिभिश्च वा। यद्यत्प्रणीतं भाष्यादि तत्तत्सर्वमसङ्गतम् ॥ अस्मदीयैर्बुधश्रेष्ठद्वैताद्वैतात्म वादिभिः । यद्यत्प्रणीतं भाष्यादि तत्तत्सर्वं हि सङ्गतम् ।। इति ।
द्वितीयपादश्चास्य ग्रन्थस्य केनचिदप्पय्यदीक्षितनाम्ना विरचितयाधि करणकञ्चुकाख्यया व्याख्यया संवलितः । तत्र कोऽयं दीक्षित इति न ज्ञायते । विश्वस्यते तु बलवद्यदयं सुगृहीतनामभिरनेकाद्वैतग्रन्थसन्दर्भ प्रथितयशोभिर्दीक्षितवर्यैर्भिन्न एव सर्वथेति । भवत्विदं यथा तथा । अस्मिन् ग्रन्थे तु श्रीभगवत्पादीयभाष्यप्रतिपादिताः प्रायशः सर्वेऽप्यद्वैतोपदेशाः खण्डिता युक्त्याभासैः। अद्वैतवाक्यानि च वाक्याभासमात्राणीति प्रदर्शयितुमेवमुक्तम् -
अद्वैतवादिवाक्यानि कोटिशः सन्तु वा विधे ।
तानि सर्वाणि सामान्याहुर्बलानीति निर्णयः ॥ इति ॥ विशेषतश्च गाढनिद्रायामविद्या नास्तीति वदतां मतं ग्रन्थे सर्वत्र खण्डनायोपाददेऽसौ सम्प्रदायाविष्टचेता मीमांसकमहाशयः । तद्यथा -
ब्रह्मन् वेदान्तवाक्यानि सुतं ब्रह्मेति कानिचित् ।
तुरीयं कानिचिद्ब्रह्मेत्याहुः शृण्वत्र निर्णयम् ।। इत्युपक्रम्य -
२२२
(चतुर्थः
मूलाविद्यानिरास: तुरीये प्राज्ञसंज्ञोऽसौ जीवः शेते स्वमोचने ।, सुषुप्तिकाले सकले लीन इत्यत्र चात्मनः । तमोऽभिभूतशब्दान्न परमात्मेति हि स्फुटम् ॥
अस्यापहतपाप्मत्वाद्युपचर्यत एव हि। जाग्रत्स्वप्रगतस्थूलसूक्ष्मा विकृतयोऽत्र न ॥ बाह्याभ्यन्तरविज्ञानप्रतिषेधस्तथा भवेत् । उपचारानपेक्षं स तुर्य एव हि सिध्यति ॥ जीवत्रयपरामर्शस्तुर्यात्मात्यर्थ इष्यते । जीवद्वयपरामर्शः सुषुप्तात्यर्थ इत्यसत् ।। सुषुप्तादधिकं ब्रह्म ह्यसकृच्चावधार्यते । सुप्तिस्थानत्ववचने नाडीनां लक्षणावशात् । परस्यैवात्मनो वाच्यमित्याहुः केचन त्वसत् ॥
अवस्थात्रयशून्यत्वश्रवणाद्धि सहस्रशः । परस्य सुप्तिस्थानत्वशङ्का स्वप्रेऽपि नोद्भवेत् ॥ यदि स्यादात्मनः सुप्तिस्थानत्वं मुख्यया तदा। पशुपक्ष्यादयः सर्वे ब्रह्मनिष्ठा इति ह्यसत् ॥ सर्वापहासयोग्यत्वेऽप्यस्य लोकेषु सर्वशः ।
सुषुप्तब्रह्मवादस्य प्राबल्यं बत दृश्यते ॥ सुषुप्तस्य तु कैवल्यं परंज्योतिष्ट्वमप्यहो । वदन्ति केचित्तान् लोका वदन्ति विबुधोत्तमान् ।। नाडीसक्तस्य सुतस्य त्वंपदामुख्यरूपिणः । प्राह तत्पदलक्ष्यार्थब्रह्मतां सुप्तवाद्यहो॥खण्ड
:)
२२३
सुषुप्तात्मनो निरविद्यत्वे सूत्रकारादिसम्मति: निर्विशेषचिदानन्दपरब्रह्मत्वमेव हि । सुप्तस्याचक्षते पुत्र ते वेदान्तार्थदूषकाः ।। निर्विशेषचिदात्मत्वमुपास्यत्वादिकं तथा । सुप्तस्य चेत्स्याब्रह्मिष्ठाः पशुपक्ष्यादयोऽप्यहो ।
सुषुप्तब्रह्मवादस्य दुर्बलत्वेऽपि सर्वथा । कैश्चित्प्रपञ्चितो वादो यत्नोऽयं तन्निराकृतौ ॥
आप्ताभिनयवन्तस्ते सुषुप्तब्रह्मवादिनः । अभूतिनो ह्यनाप्ताः स्युः सर्वदा शिष्यवञ्चकाः ॥
असत्तमेदृशी व्याख्या सुषुप्तब्रह्मवादिनाम्। हिरण्यनिधिदृष्टान्तानन्विता सा हि नारद ॥ बृहदारण्यके प्रोक्ता सम्प्रसादाभिदा यतः । सुषुप्तस्येव जीवस्य नेतरस्य परात्मनः ॥ अतः सुषुप्तौ परं ब्रह्म निर्विशेषं प्रजा गताः । इति पक्षो निराकार्यः सुषुप्तब्रह्मवादिनाम् ॥ परमात्मनि ये शब्दाः प्रयुज्यन्ते तुरीयके । ते सर्वेऽपि श्रुतिस्मृत्योः सुषुप्ते सन्ति यद्यपि ॥ तथाप्यव्यवधानात्त उपचर्यन्त इत्यमुम् । अर्थनार्हसि विस्मर्तुं गार्ग्य बुद्धिमतां वर ॥ तैजसाख्यो यदा जीवः शेते नाड्यां पुरितति ।
तदा प्राज्ञाख्यजीवत्वं याति न ब्रह्मतां ध्रुवम् ॥ सुप्तावखण्डैकरसं निरञ्जनं ब्रह्मैव यान्तीत्यखिलाः प्रजा इमाः ।
२२४
मूलाविद्यानिरासः
(चतुर्थः वदन्ति ये तन्मतमेव कुत्सितं जीवत्रयोक्तेरवकाशहानितः ॥ सुषुप्तिसत्ता यदि पारमार्थिकी तदा न भेदोऽस्ति हि सुप्तमुक्तयोः । लब्धा गुणात्मैव विमुक्तबन्धनः स्वाज्ञानवार्ता कथमत्र युज्यते ॥ प्राणाप्ययो भवति यत्र स एव साक्षादद्वैतनिर्गुणचिदेकरसः परात्मा । प्राणो न नष्ट इह दृश्यत एव सुप्तौ तन्निर्गुणात्मधिषणां जहि सर्वथा त्वम् ॥
निर्णेतुं श्रुत्यनुक्तं कथमुचितमिति स्वान्तगा मास्तु
शङ्का सर्वत्राप्युत्तरत्र श्रुतिगदिततुरीयात्मनैर्गुण्यदृष्टेः । सर्वत्रान्यत्र तस्य स्वपरविषयकज्ञानशून्यत्वशब्दाद्धेयानन्दा
कृतित्वादपि च मृगवयःसर्वसाधारणत्वात् ॥ इति ॥ अलं बहुना कुदृष्टिनिबद्धश्लोकोदाहरणप्रयासेन । अत्र पदे पदे “सुप्तवादः सुषुप्तब्रह्मवादः” इति च नाम्नोल्लिख्य यज्जिहासितव्यत्वेन बहुधा विनिन्द्यते तत्कस्य मतमिति शङ्कायां प्रसिद्धेषु दर्शनेषु न कमपि सिद्धान्तं सुषुप्तौ ब्रह्मात्मतां बोधयन्तमुपलभामहे । अथ चासौ निबन्धकार “कैश्चिप्रपञ्चितो वादः सुषुप्तब्रह्मवादस्य प्राबल्यं बत दृश्यते । वदन्ति केचित्तान् लोका वदन्ति विबुधोत्तमान्” इति च ब्रुवन् कञ्चित्सिद्धान्तं सर्वत्र प्रसिद्धमेव मनसि निधाय रोषाविष्टचेतास्तत्प्रसिद्धिमसहमानो गालिदानेनैवात्मानं बहुमन्यत इति स्पष्टं गम्यते । वयं तु पश्यामो विवर्तवादादिचिरन्तनसम्मताद्वैतवादानेव विशेषतो यदयं दूषयति, तत्साह चर्यात्सुप्तिब्रह्मवादोऽप्यद्वैतिनामेवेति सम्मतोऽस्य खण्डनकारस्येति ।।
तदेवं गुरुज्ञानवासिष्ठगतसुप्तिब्रह्मवाददूषणान्यथानुपपत्तिापयति एतद्ग्रन्थनिर्माणकालेऽद्वैतवादः “सुषुप्तिब्रह्मवाद” इति प्रथां गतोऽभूद्वे
२२५
खण्ड:)
सुषुप्तात्मनो निरविद्यत्वे सूत्रकारादिसम्मतिः दान्तविद्वेषिणां द्वैताद्वैतिनां गोष्टीष्विति । कालान्तरे सम्प्रदायविच्छित्त्या परमतसंसर्गादद्वैतिमानिनोऽपि मतान्तरसंक्रान्तिमपि बोद्धुमक्षमा: कुटिलपथा प्रस्थिताः स्वयमप्यजानन्त एव गुरुद्रोहमिति च । इयमेव पापीयसी प्रक्रिया तत्सजातीया वा काचिदन्या भवेद्धेतुरतिशुद्धस्याप्य द्वैतराद्धान्तस्य शोचनीयतादशाप्राप्तौ तदनुयायिष्विदानीमिति मन्यामहे वयम् । अथवा प्रच्छाद्य परकीयपक्षतामात्मनः कैश्चित्प्रतारकैद्धैतवादोप देशव्याजेन स्वकीया एव कल्पना प्रतिष्ठापिता नामान्तरेण शाङ्करसिद्धान्त समाख्यां रूपं च दत्वा । कारणान्तरेण स्वसिद्धान्तमजानाना निर्विशङ्क नवीनप्रस्थानमेव स्वीचक्रुर्विमूढा आस्माकीना इत्यनुमीयते । अन्यथा हि कथं स्यात्प्रवेशस्तत्तादृशानां प्रस्थानत्रयभाष्येषु प्रतिषिद्धानामपि कल्पनानां पुनरालिङ्गनं भगवत्पादीयमानिभिरेवेति ।।
तत्र गुरुज्ञानवासिष्ठे प्रतिपादिताः पूज्यपादैनिषिद्धा अथ चाधुनिका द्वैताचार्यैरनुमोदिता वादा उदाहरिष्यन्ते व्युत्पित्सुसौकर्याय । आदौ तावत्सुषुप्ताविद्याभ्युपगमः, तुरीयावस्था समाध्याख्या निरविद्येति स्वीकार, तस्मादुत्थितस्य जगत्प्रतीतिमङ्गीकृत्य सुषुप्तौ जगद्बीजभूताविद्या नास्ति चेदुत्थाने न स्यात्प्रतिभानं जगत इति व्याहतवादः, श्रवणमात्रेण कस्यचिदप्यधिकारिणो न भवति कृतकृत्यया सर्वस्यापि तु निदिध्यासना भ्यासोऽपेक्षित इति कथनम, साक्षात्कृततत्त्वानामप्यस्ति देहादावात्मधीरिति विरुद्धव्यवहारः, समाधावप्युपगताविद्याविरहायां सूक्ष्मभेदाङ्गीकार, ब्रह्म वेद ब्रह्मैव भवति (मुं. ३-२-९) इति श्रुतिमनादृत्य भविष्यवृत्त्या तद्व्याख्यानम्, देहपातानन्तरमेव निरुपचरितं ब्रह्मावाप्तिरिति विदुषोऽपि
२२६
मूलाविद्यानिरासः
(चतुर्थः प्रारब्धकर्मबद्धत्वं विधिनिषेधादिगोचरत्वं चास्तीति च भाषणम्, श्रुतिसूत्रादिविरोधेनाविद्या ब्रह्म चजगत्कारणमित्याख्यानम्, व्यवहारत्व मनुपपाद्यैव व्यवहारपरमार्थदशाद्वयाभ्युपगमः - इत्येते प्रमुखा वादाः समाना आधुनिकाद्वैतिनां द्वैताद्वैतमताभिनिविष्टप्रच्छन्नस्वनाम्नो गुरुज्ञान वासिष्ठकर्तुश्च । तत्र भवत्वेतद्ग्रन्थप्रणेता तदन्यो वा यः प्रथमं ददर्श वादानेतान्, तमनुसृत्य परमास्माकीनाः श्रुतिस्मृतिन्यायपरिशुद्धं चिरन्तन पन्थानमतिक्रम्य कष्टां गतिमापुरित्यहो मोहस्य वैभवम् ।।
इदं त्विह प्रकृतं - यदधस्तादुक्तवासिष्ठग्रन्थकारः स्वसमानकालीनमद्वैतं निरस्य स्वाभिमतं मृतप्रायं द्वैताद्वैतमुज्जीवयिष्यन् विशेषतः सुषुत्यविद्या निरासमवधीरयामासेत्येतन्महदिदं लिङ्गं तदात्वेऽद्वैतिनः सुषुप्तात्मानं निर्मलमेवास्थिषतेत्यत्रेति ॥
अवस्थात्रयपरीक्षणमेव वेदान्तोदितासाधारणप्रक्रियेत्यत्रोपपत्तिः १७६. अवस्थात्रयविचारणमेव वेदान्तप्रक्रियेत्यत्र शङ्का - एवं श्रुत्यादिप्रामाण्येन स्थापितेऽप्यस्मिन् भवेत्केषाञ्चितिशयः - कथंजानीमहे वयमवस्थात्रयपरीक्षणमेव वेदान्तप्रक्रिया नान्येति ? अन्यथाऽन्यथा हि दृश्यते प्रातिस्विकमुपनिषत्प्रस्थानम् । गीताप्रस्थानं चान्यादृशमेव । अन्यादृशी च शारीरकसूत्राणां प्रवृतिः । पुराणेतिहासादयश्च यां काञ्चिदपि प्रक्रियामवलम्ब्य सर्गप्रतिसर्गादिकं वर्णयन्ति । आचार्यश्चबिम्बप्रतिबिम्ब वादावच्छेदवाददृष्टिसृष्टिवादानिर्वचनीयवादानाद्यविद्यावादतदेकत्ववादतना नात्ववादेत्यवान्तरभेदेष्वन्यतमसंयुतां स्वस्वाभिमतां प्रक्रियामालम्ब्य
खण्डः) अवस्थात्रयपरीक्षणमेव वेदान्तोदितासाधारणप्रक्रियेत्यत्रोपपत्तिः २२७ तत्त्वनिर्णयाय प्रवर्तितिमिति च सुप्रसिद्धमेतत् । तत्र यथान्यैः स्वेतरप्रकियया न सिद्धान्तः सिध्यतीत्युच्यते, तथावस्थात्रयप्रक्रियावादिभिरपीति को नु स्याद्विशेषोऽस्मिन् वादे ? अपि च वार्तिककारः प्राह - यया यया भेवेत्युंसां व्युत्पत्तिः प्रत्यगात्मनि । सा सैव प्रक्रियेह स्यात् साध्वी सा चानवस्थिता (बृ. वा. १-४-४०२) इति । तत्कथमिदं निश्चिनुयाम यदियमेव प्रक्रिया श्रुत्यादिसम्मतेति ? तस्माद्वक्तव्यं किञ्चिदपि विस्रम्भकारणमिति ॥
१७७. उपनिषत्प्रस्थानतात्पर्यम् - अत्रोच्यते - स्मर्यतां यदवादिष्म प्रकरणावतारघट्टके । यद्यप्युपनिषदो भिन्नभिन्नगतय इवाभासन्ते । तथापि सूक्ष्मतरावेक्षणेन विस्पष्टं विज्ञायते यदासां गतिसामान्यमन्योन्या कात्य॑निवारणायान्योन्यसमाकाङ्क्षितार्थसमर्पकत्वं चास्तीति । तत्र काश्चिद्विषयविषयिविभागेन विषयस्यानित्यत्वाशुचित्वजडत्वदुःखास्पद त्वादिकं तद्व्यतिरेकेण विषयिणश्च नित्यत्वशुद्धत्वज्ञानानंदस्वरूपत्वादिकं च प्रतिपादयन्ति श्रुतयः । अन्याश्च स्वप्नोपन्यासेन तत्रात्मनः स्वयंज्योतिष्ट्वं ख्यापयन्ति । अपराः पुनः सुषुप्तौ शुद्धात्मानं प्रदर्श्य ब्रह्मात्मैक्यं दृढीकुर्वन्ति । एवं यथाभागं विभज्यावस्थाः परीक्षयन्त्यः श्रुतयः प्रत्येक वीक्ष्यमाणा अस्यामेव प्रक्रियायां महातात्पर्यवत्यो दरीदृश्यन्ते । तत्र निदर्शनार्थं संक्षेपत उदाहरणम् - ईशावास्ये अनेजदेकं (४) इत्यात्म याथात्म्यमुपक्रम्य स पर्यगाच्छुक्रमकायमव्रणमस्नाविरं शुद्धमपापविद्धम् (८) इत्यवस्थात्रयप्रक्रियासूचनोपसंहारः । केनोपनिषदि च इन्द्रियादि साक्षित्वेन विविच्यात्मानं सकलविषयत्वस्थापनं कृतम्। काठके च
२२८
मूलाविद्यानिरासः
(चतुर्थः स्वप्रान्तं जागरितान्तं च (क. २-१-४) इत्यादिना प्रक्रियासूचनम् । य एषु सुतेषु जागर्ति (क.२-२-८), इन्द्रियाणां पृथग्भावम् (क.२-३ ६) इत्यादिना च । मुण्डके च - दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः । अप्राणो मनाः शुभ्रो ह्यक्षरात्परतः परः ॥ (२-१-२) इति प्रक्रियासूचनम् । तैत्तिरीयके च पञ्चकोशविमर्शव्याजेन साक्षादवस्थात्रय शोधनम् । ऐतरेयके तु त्रय आवसथास्त्रयः स्वप्राः (१-३-१२) इति विस्पष्टं प्रक्रियोपन्यस्ता । बृहदारण्यकच्छान्दोग्यप्रश्नमाण्डूक्येषु पुनः स्फुटतरमेव जोघुष्यते प्रक्रियेति सकृदृष्टिपातोऽवगाहयति । तदेवं द्वैतिवेदान्तिभिरप्यनतिशङ्कनीयप्रामाण्यानां दशोपनिषदां तात्पर्यमस्मदुक्त प्रक्रियया तत्त्वनिर्धारण इति न तिरोहितम् । यत्त दृश्यते तत्र तत्र प्रक्रियान्तरस्वीकारः तत्सर्वमप्युक्तदिशा जाग्रदाद्यन्यतमावस्थामधि कृत्यैवावान्तरविशेषकल्पनमित्यविरोधः । यथा ह्युपासनलोकान्तर जीवान्तरादिविचारस्फूर्तावप्युपनिषत्सु तत्र महातात्पर्यं न कल्प्यते केनचिदेकात्मवादिना । तथा जागरितादिव्यपदेशं विना जागरिताद्यन्यत मान्तर्गतविषयविचारणं प्रासङ्गिकमुपायान्तरं वावस्थात्रयबोधावतारायेत्य वश्यमङ्गीकरणीयम् । यत्सत्यं श्रुतेरुपाये कुत्राप्यभिनिवेशो न युक्तः । सर्वस्याप्युपायस्य मिथ्यात्वात् । उपेय एव तु तात्पर्यमेष्टव्यम्, तस्य प्रतिपादयिषितत्वात् । तथापि सर्वेऽप्युपायास्तत्त्वबोधनाय प्रकल्पिता एतत् प्रक्रियाद्वारभूताः । प्रत्येकं स्वात्मना त्वपर्याप्ता एवावबोधयितुं तत्त्वमिति सुधीभिराकलनीयम् ॥
१७८. सूत्रप्रस्थानगीताप्रस्थानयोर्गतिः - सूत्रप्रस्थानेऽपि तदनन्यत्व
खण्ड) अवस्थात्रयपरीक्षणमेव वेदान्तोदितासाधारणप्रक्रियेत्यत्रोपपत्तिः २२९ मारम्भणशब्दादिभ्यः (ब्र.सू.२-१-१४) इति जाग्रदृष्ट्या प्रागुररीकृतसृष्टिं कार्यकारणानन्यत्वन्यायाङ्गीकारेण निरस्य मायामात्रं तु कार्येनानभि व्यक्तस्वरूपत्वात् (ब्र.सू.३-२-३) इति स्वप्रमिथ्यात्वंजागरितमिथ्यात्वे दृष्टान्तसिद्ध्यर्थमुपन्यस्य तदभावो नाडीषु तच्छुतेरात्मनि च (ब्र. सू. ३-२-७) इति सुषुप्तौ स्वरूपसम्पत्तिमुक्त्वा न स्थानतोऽपि (३-२ ११) इत्यादिना जीवस्वरूपब्रह्मतत्त्वनिर्णयार्थं प्रववृते भगवान्बादरायण इति स्पष्टमेव । यद्यपिजीवस्य गत्युत्क्रान्त्यादिकमर्चिरादिमागं मुक्ताना मैश्वर्यादीयत्तामित्याद्यवस्थाप्रक्रियाबहिर्भूतमप्यधिकृत्य सूत्राणि क्वचित्पा वर्तन्त । तथापि तत्सर्वमपिजाग्रदवस्थापरिच्छिन्नदृष्टीनां प्रक्रियायां सुखेन प्रवेशार्थमिति बोद्धव्यम् । गीतासु यद्यपि नाभिलक्ष्यतेऽत्र दृष्टिः, तथापि कर्मयोगज्ञानयोगयोस्तत्त्वनिर्धारणार्थत्वात्तत्र जागरितव्यवहार एव विचा रितः । अत एव महाभूतन्यहङ्कारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः । (गी. १३-५-६) इति साव्यक्तं सर्वं क्षेत्रमेवेत्यभिधाय एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः । (गी. १३-१) इति विषयविषयिविभागः प्रदर्शितः । अतो नास्त्यत्र स्वतन्त्र प्रस्थानान्तरमिति ध्येयम् ॥
१७९. इतिहासपुराणादिवचनानि - एवमितिहासपुराणादिष्वपि प्रक्रियैषा दृश्यते विशेषतो विचारिता । तद्यथा महाभारते मोक्षधर्मपर्वणि यदिन्द्रियैस्तूपहितं पुरस्तात्प्राप्तान्गुणान्संस्मरते चिराय । तेष्विन्द्रियेषूपरतेषु पश्चात् स बुद्धिरूपः परमः स्वभावः ॥ यथेन्द्रियार्थान् युगपत्समन्तानोपेक्षते कृत्स्नमतुल्यकालम् । तथाचलं सञ्चरते स विद्वांसस्तस्मात्स एकः परमः
२३०
मूलाविद्यानिरासः
(चतुर्थः शरीरी ॥ रजस्तमः सत्त्वमथो तृतीयं गच्छत्यसौ स्थानगुणान्विरूपान् । तथेन्द्रियाण्याविशते शरीरी हुताशनं वायुरिवेन्धनस्थम् ॥ (मो. ध. २०३ १-२-३) इति जाग्रदादीनि स्थानानि परस्परविलक्षणानि गच्छन्नसावात्मा न तदुणभोक्तेत्युक्तम् । यथा चन्द्रो ह्यमावास्यामलिङ्गत्वान दृश्यते । न च नाशोऽस्य भवति तथाविद्धि शरीरिणम् ।। (मो. ध. २०३-२३) इति विशेषविज्ञानरूपोपाधिलयेऽप्यात्मा सुषुप्ते न शून्यशेष इति च सदृष्टान्तमाह। अध्यात्मरामायणे चोक्तम् – जाग्रदादिविनिर्मुक्तं सत्यज्ञानादिलक्षणम् । शुद्धं बुद्धं सदा शान्तमात्मानमवधारयेत् (अध्यात्मरामायणे ४-८-४१) इति दुःखहर्षभयक्रौधलोभमोहमदादयः । अज्ञानलिङ्गान्येतानि कुतः सन्ति चिदात्मनः ॥ देहाभिमानिनो दुःखं नदेहस्य चिदात्मनः । सम्प्रसादे द्वयाभावात्सुखमात्रं हि दृश्यते ॥ बुद्ध्याद्यभावात् संशुद्धे दुःखं तत्र न दृश्यते । इति च । ब्राह्मे च - जाग्रत्स्वप्रसुषुतैस्तु च्छादितं विश्वतैजसम् । स्वमायया स्वमात्मानं मोहयेद्द्वैतमायया । इति ॥ लैङ्गे च - नान्तःप्रज्ञो बहिष्प्रज्ञो चोभयत एव च । न प्रज्ञानघनस्त्वेवं न प्रज्ञोऽप्रज्ञ एव सः ॥ इति । भागवते च वैष्णवे - जाग्रत्स्वप्रः सुषुप्तं च गुणतो बुद्धिवृत्तयः । तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः ।। यहि संसृतिबन्धोऽयम् आत्मनो गुणवृत्तिदः । मयि तुर्ये स्थिते जह्यात्त्यागस्तद्गुणचेतसाम् ।। अहङ्कारकृतं बन्धमात्मनोऽर्थविपर्ययम् । विद्वानिर्विद्य संसारचिन्तां तुर्ये स्थितस्त्यजेत् ॥ यावन्नानार्थधीः पुंसो न निर्वर्तेत युक्तिभिः । जागर्त्यपि स्वपन्नज्ञः स्वप्ने जागरणं यथा । असत्त्वादात्मनोऽन्येषां भावानां तत्कृता भिदा । गतयो हेतवश्चास्य मृषा स्वसदृशो यथा ॥ यो जागरे बहिरनुक्षणधर्मिणोऽर्थान् भुङ्क्तेसमस्तकरणैर्हदि तत्सदृक्षान् । स्वप्ने सुषुप्त
खण्ड) अवस्थात्रयपरीक्षणमेव वेदान्तोदितासाधारणप्रक्रियेत्यत्रोपपत्तिः २३१ उपसंहरते स एकः स्मृत्यन्वयी त्रिगुणवृत्तिदृगिन्द्रियेशः (भागवते. ११ १३-२७-३२) इति । तथा सूतसंहितायाम् - जाग्रत्स्वप्रसुषुप्त्याख्या वस्थासाक्षिणमव्ययम् । चिद्रूपमात्मनः पश्यन् कथं बाध्येत कर्मणा ॥ (४२-१३) इति जाग्रत्स्वप्राभिधे काले प्रतीतं ग्रसतीश्वरः । स्वात्मनैव सुषुप्तौ तु पुनस्तत्सृजति प्रभुः यथा स्वप्रप्रपञ्चस्थं समस्तं वस्तुतः स्वयम् । तथा जाग्रत्प्रपञ्चस्थं वस्तुतः स्वयमेव हि (४५-१३-१४) इति च । एवमेव पुराणान्तरेष्वध्यात्मविचारेऽवस्थात्रय-प्रक्रिया समादृता दृश्यते । न च तत्र सुषुप्तौ भावाविद्या नाम काचिच्छक्तिर्विद्यत इति निर्भरेणोक्तम् । तदेवं श्रुतिस्मृतिपुराणेष्वियमेव प्रक्रिया विशेषतो दृश्यते प्रतिपादितेति निश्चीयते ॥
१८०. आचार्यरचितप्रक्रियाणां परस्परविरोधः - यत्पुनर्दृश्यते पुराणेष्ववच्छेदप्रतिबिम्बवादादिसंवादः । तत्र दृष्टान्तमात्रमद्वैतसम्भावनार्थ तयावस्थात्रयवादिनोऽपि नानिष्टम् । न हि क्वचिदाचार्यदेशीयैरारचित प्रक्रियाविशेषेषु तात्पर्य श्रुत्यादिषु लक्ष्यते । न चैषामाचार्याणां सर्वत्रास्त्यैककण्ठ्यम् । अवस्थात्रयविचारणं त्वद्वैतसिद्धान्तोपयोगीत्यत्र तु नास्ति क्वचिदपि विसंवाद इति विशेषः ।।
अपि चाद्वैतदर्शनयोगे नास्ति क्वचिदपि स्वयूथ्यविवादो विरोधो वा केनचिदिति मतान्तरेभ्यो विशेषो दर्शितः श्रीमद्गौडपादादिभिरभियुक्तैः - अस्पर्शयोगो वै नाम सर्वसत्त्वसुखो हितः । अविवादोऽविरुद्धश्च देशितस्तं नमाम्यहम् ।। (मां. का. ४-२) इति । तद्विपर्ययेण द्वैतदर्शनानुयायिनो परस्परं विरुध्यन्त इति चोक्तम् - स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता
(चतुर्थः
२३२
मूलाविद्यानिरास: दृढम् । परस्परं विरुध्यन्ते तैरयं न विरुध्यते ॥ (मां. का. ३-१७) इति तद्विरोधेनेह नवीनवेदान्ताचायैरेकजीववादनानाजीववादादिपरस्पर विरुद्धप्रक्रियारचनं कृतमस्तीतीदमेव महल्लिङ्गं यद्वैतिपरिणता एव तेऽपीति । भवत्प्रक्रियायामयं दोषो भवदीयायामयमिति परस्परं विवदद्भिस्तैरवस्थात्रयप्रक्रियैव केवलं न विवादस्थानीकृतेत्यतः सर्वतन्त्रसिद्धान्तन्यायेनाप्यस्मदर्शनं स्थापितं भवति ॥
१८१. एकजीववादे प्रतिपक्षिभिरुच्यमाना दोषाः - यथा च तेषामाधुनिकप्रस्थानानां परस्परविरोधेन रागद्वेषक्लेशास्पदत्वं तथा दिङ्गात्रमिह दर्शयिष्यामः । अविद्यावच्छिन्नो जीव एक एवेत्येके मन्यन्ते, अविद्या चैकैवेति च । अपरे पुनरनेकजीववादिनः प्रतिजीवमविद्याभेदं प्रचक्षते । तथा प्रपञ्चानेकत्वमपीष्यते तैः । तत्रैकजीववादे प्रतिवादिभिरेते दोषाः प्रदर्श्यन्ते - यद्येक एव जीवः कथं वामदेवादयो मुक्ता इति प्रवादः ? कथं वा यो यो देवानां प्रत्यबुध्यत स एव तदभवत् (१-४ १०) इत्यादिका श्रुतिः, यावदधिकारमवस्थितिराधिकारिकाणाम् । (ब्र. सू.३-३-३२) इति शारीरकसूत्रं च ? किं च वामदेवादीनां स्वाज्ञानविना शपूर्वकं मुक्तत्वे कथं प्रपञ्चभानम् ? न हि स्वोपादानस्जतविनाशेऽपि राजतं द्रव्यं प्रतीतिमश्नुवीतेति । एकमुक्तौ सर्वस्यापि मुक्तत्वात् कोऽन्योऽवशिष्यते जीवो यं प्रतीदानी शास्त्रमर्थवद्भवेत् ?
अथ मन्यते - एकमेव शरीरं सजीवमन्यानि तु स्वप्रदृष्टशरीरसदृशानि कल्पितानीति । तीदमवगमयितव्यं कथमेकमपि शरीरं सजीवं न शरीरान्तरतुल्ययोगक्षेममिति । विद्याशास्त्रर्थवत्त्वाय यावदविद्यं तस्याखण्ड) अवस्थात्रयपरीक्षणमेव वेदान्तोदितासाधारणप्रक्रियेत्यत्रोपपत्तिः २३३ कल्पितत्वमेकस्य जीवत्वं चाभ्युपगम्यत इति चेत्तर्हि दर्शितश्रुत्याद्यर्थत्वाय जीवान्तरं शरीरान्तरं च तथैव स्वीकुर्वता किमपराद्धमिति ?
यच्च सकिन्ते केचित् - हिरण्यगर्भ एवैको ब्रह्मप्रतिबिम्बो जीव: अन्ये तु मुख्यप्रतिबिम्बभूता इति, तत्सर्वश्रुतिस्मृतिविरुद्धं संविदनु सारिणामनादेयं च । न ह्यस्ति शास्त्रमनुभवो वा कस्यचित् “अहमस्मि जीवाभासो ब्रह्मप्रतिबिम्बः” इति । न च हिरण्यगर्भ एवान्यान्स्वप्रति बिम्बत्वेन कल्पयतीत्यत्रास्ति मानम् । अथ विध्वस्तसकलविकल्पं ब्रह्मैव स्वाविद्यया परिकल्पितांस्तत्तद्विकल्पान् पश्यत्संसरति । ब्रह्मकारान्त: करणवृत्तिलक्षणया विद्यया स्वतःसिद्धं ब्रह्मत्वं ज्ञाप्यते । ततश्च भ्रमनिवृत्तिरिति सर्वेऽपि व्यवहाराः स्वप्नवदुपपद्यन्त इति । तच्च न । यथा हि हेत्वभावेऽपि ब्रह्म स्वस्मिन् बन्धं शास्त्रं गुरुं मोक्षं चाचीक्लपत् । तथा भूयो भूयः कल्पयिष्यति चेत्कः प्रतिरुन्ध्यात्? विद्याविद्याव्यवहारश्च स्वप्रवच्चेत्स्वप्रात्पूर्वं नाविद्याहेतुरस्ति, ततश्च बन्धाभावः । अथानादिः सा। ततस्तस्यापि स्वप्रव्यवहारसमानयोगक्षेमत्वा “अविद्यया स्वप्रवद्व्यवहार” इति वाचोयुक्तिरनर्थिका ॥
यदपि केचिदाहुः - अविद्या नानांशा । तत्तदंशोपहितजीवभेदोऽप्यङ्गी क्रियते चेति । तदपि न । नानांशमङ्गीकुर्वतः कः प्रयासोऽविद्याया नानात्वाभ्युपगमे ? लाघवादेवमिति चेत् । न, मानाभावेऽप्यंशवत्त्वाभ्युपगमे लाघवाभावादिति ॥
१८२. नानाजीववादे तत्प्रतिपक्षिभिरारोप्यमाणा दोषा: - नानाजीववादे चैवमेव प्रतिवादिभिर्दोषा आविष्क्रियन्ते । प्रपञ्चस्याविद्याकृतत्वाद
२३४
मूलाविद्यानिरासः
(चतुर्थः विद्यायाश्च जीवाश्रयत्वाभ्युपगमात्, तस्याश्च अविद्याया नानात्वात्प्रतिजीवं भिन्नः स्यात् प्रपञ्चः । न चेष्टापत्तिः । न्यायाभावात्प्रतीतिविरोधाच्च । कीदृशो हि स्यात्प्रपञ्चः प्रपञ्चान्तराद्व्यतिरिक्त एकजीवकल्पितात् ? न हि कश्चिज्जीवो मत्प्रपञ्च एतावानिति कल्पयतीति शक्यं वदितुम् । किंचैकजीवकल्पितप्रपञ्चकुक्षावनिक्षिप्तो जैव एव न सम्भाव्यते, यः कल्पयिता भवन् भवेत्प्रपञ्चान्तरस्य । अनेन सर्वजीवाविद्यातः प्रपञ्च एक एव भवति तन्त्वनेककृतपटवदित्यादि निरस्तम् । सर्वेषामपि जवानां प्रपञ्चान्तर्भावात् । अन्यथा अनेककर्तृभोक्तृसंयुक्तजगतो ब्रह्मणः सकाशाज्जन्मेति वदद्भिरभियुक्तैः श्रुतिस्मृतिवादैश्च विरोधप्रसङ्गात् । अपि च जीवनानात्वे प्रपञ्चनानात्वे च कल्प्यमानेऽनेकेश्वरवादोऽभ्युपगतः स्यान्निष्प्रमाणकः । अपि चजीवानेकत्वेऽपि किमर्थः प्रपञ्चानेकत्ववादः? भ्रान्तिसिद्धजगत एकरूपत्वासम्भवादिति चेत् । भ्रान्तिसिद्धजीवान्त राणामपि तथैवेत्यलं मुधा कल्पनेन ॥
अथ मतिः - परमेश्वरमायाविनिर्मित एव प्रपञ्चः । जीवस्तु प्रातिस्विकया विद्यया विध्वस्यमानो बन्धो भूतभौतिकप्रपञ्चव्यतिरिक्त एवेति । तर्हि भूतभौतिकप्रपञ्चो मुक्तस्यापि प्रतीयेत । न च शङ्कनीयं “विद्यमानोऽपि मुक्तं प्रति न भाति प्रविलीननिखिलकरणत्वादन्धं प्रतीव रूपादि"रिति । तस्य मुक्तावपि विद्यमानत्वे सत्यत्वापातात् । अथेश्वर मायानिर्मितत्वादेव मिथ्या सोऽपि । तर्हि तादृशमायावैशिष्ट्ये स्वातन्त्र्यं चेन्नैपुण्यमस्वातन्त्र्यं चेज्जीवत्वापत्त्यानीश्वरत्वप्रसङ्गः । न चास्तीश्वरशासनं कर्तृत्वादिबन्ध एव जीवाविद्यया कल्पयितव्यो न पुनभौतिकप्रपञ्च
२३५
खण्डः) अवस्थात्रयपरीक्षणमेव वेदान्तोदितासाधारणप्रक्रियेत्यत्रोपपत्तिः तदीश्वरसद्भावादिरपीति । तस्मादसाध्वीयं कल्पनेति ॥
१८३. प्रतिबिम्बवाद्यवच्छेदवादिनोः कलहः - एवमेव प्रतिबिम्ब वादावच्छिन्नवादयोः परस्परं विवादः । तत्र घटाकाशवदुपाध्यवच्छिन्नो जीव इति केचित् । एतत्पक्षं प्रतिषेधन्त्यपरे प्रतिबिम्बवादिनः । दोषं च दर्शयन्ति वादे । कथम् ? अण्डान्तर्वर्तिब्रह्मणः सर्वात्मना जीवभावेना वच्छिन्नत्वादनवच्छिन्नस्य ब्रह्मणोऽण्डाद्बहिरेव सद्भावप्रसङ्गः । तत्र सर्वगतसर्वनियन्तृत्वादि ब्रह्मणो न स्यात्, अवच्छिन्नप्रदेशेष्वनवच्छिन्नस्य द्विगुणीकृत्य वृत्त्ययोगात् । स्वरूपापेक्षया तत्सर्वं न बहिलस्थितब्रह्मापेक्षयेति चेत्, न । यो विज्ञाने तिष्ठन् (बृ.३-७-२२) इत्यादौ जीवव्यतिरिक्तस्यैव ब्रह्मणो जीवसन्निधानेन विकारान्तरावस्थानश्रवणात् । प्रतिबिम्बपक्षे तु जलगतस्वाभाविकाकाशे सत्येव प्रतिबिम्बाकाशदर्शनादेकत्रैव द्विगुणीकृत्य वृत्त्युपपत्तेजीवावच्छेदेषु ब्रह्मणोऽपि नियन्तृत्वादिरूपेणावस्थानमुपपद्यत इति प्रतिबिम्बपक्ष एव श्रेयानिति ॥
१८४. प्रतिबिम्बवादे दोषाः - प्रतिबिम्बवादविरोधिनस्तु वदन्ति - यद्यपि बिम्बात्प्रतिबम्बस्य वस्त्वन्तरत्वं नाङ्गीकार्यम्, तथापि तदेव तदिति दुराग्रहः । आभास एव चैष जीवः परस्यात्मनो जलसूर्यकादिवत्प्रति पत्तव्यः, न स एव साक्षात् (सू. भा. २-३-५०) इति भाष्यात् । आभासस्य चाविद्याकृतत्वात्तदाश्रयस्य संसारस्याविद्याकृतत्वोपपत्तिः (सू. भा. २ ३-५०) इति च । यत्तु नेक्षेतोद्यन्तमादित्यं नास्तंयन्तं कदाचन । नोपरक्तं न वारिस्थम् (म.स्मृ.४-३७) इति शास्त्रात्पारमार्थिकमेव बिम्बैकरूप त्वमिति । तन्न । अर्थान्तरनिष्ठस्य वाक्यस्यार्थान्तरे तात्पर्याभावात् ।
२३६
मूलाविद्यानिरासः प्रकृतवाक्यस्य हि निषेधे तात्पर्यम्, न तु निषेध्यस्य
१४ास
(चतुर्थः वस्तुत्वेऽपीति ॥
यच्च - मिथ्यारजतस्य सत्यरजतैकरूपावभासित्वेऽपि बाधदर्श नान्मिथ्यात्वमिष्यते न तथेह बाधोऽस्तीति । तत्र यदि बाधो नामादर्शनम्, तर्हि दार्टान्तिकेऽपिजीवब्रह्मणोर्ब्रह्मैकत्वावगमेऽपि भेदप्रतिभासप्रसङ्गः । न च - तत्त्वमसीति न बाधः, बाधे हि सति ‘न तत्त्वमसि’ इति स्यात्, ‘न त्वमसि’ इति ४८आ भवेदिति - वाच्यम् । जीवत्वस्याबाधे वेदान्त
प्रामाण्यस्यैवापायप्रसङ्गात् ॥
यदपि - दर्पणदृष्टान्ते न सर्वोऽपि विवक्षितः, किं तर्हि यथैकमेक देशस्थमेव मुखं भ्रमाद्भिनं भिन्नदेशस्थं वावभासते तथा ब्रह्मण्यनेकत्वं विच्छेदावभासश्चेत्येतावानंश इति । तदपि न, उक्तरीत्या बिम्बैक्याव गमेऽपि विच्छेदावभासस्यानिवृत्तिवद्दार्टान्तिकेऽपि मिथ्यावभासानिवृत्ति प्रसङ्गात् । यद्युच्येत - दृष्टान्तेऽनिवृत्तिर्न प्रतिबिम्बकृता किं तूपाधेरज्ञाना जन्यत्वकृतेति । दर्पणप्रतिबिम्बो नैव जीवस्य प्रतिबिम्बतासम्पादनायालं भवेत् दृष्टान्तः । अज्ञानकृतोपाध्यवच्छिन्नस्य च नास्ति दृष्टान्तः ॥
किं च जीवः प्रतिबिम्बश्चेत् स्वस्य बिम्बात्मतामवगन्तुं नैव समर्थः स्यादृष्टान्तगतप्रतिबिम्बवत् । न चेदमचेतनत्वकृतं न प्रतिबिम्बत्वकृतमिति युक्तम् । प्रतिबिम्बस्य चेतनत्वस्य कुत्राप्यदृष्टत्वात् । रूपं रूपं प्रतिरूपो बभूव (बृ.२-५-१९) इत्यादिशास्त्रबलात्प्रतिबिम्बभूतस्यापि चेतनत्व मिति चेत् । न । शास्त्रस्य वस्तुनि सामर्थ्याधाने व्यापाराभावात् । बोधलक्षणं १४८अ. ‘निषेधस्येति प्रथममुद्रणे । १४८आ. ‘स्यात्, न त्वमसीति’ पदानि त्रुटितानि प्रथममुद्रणे ।
२३७
खण्डः) अवस्थात्रयपरीक्षणमेव वेदान्तोदितासाधारणप्रक्रियेत्यत्रोपपत्तिः हि प्रामाण्यं न कारकलक्षणमङ्गीक्रियते ॥
न चामूर्तस्य ब्रह्मणः प्रतिबिम्बो भवितुमर्हति जीवः । नन्वमूर्तस्य चाकाशस्य साभ्रनक्षत्रस्य जले प्रतिबिम्बवद्ब्रह्मणोऽपि सम्भवेत् । न, स्वयमाकाशस्य नीरूपस्य प्रतिबिम्बादर्शनात् । चाक्षुषप्रत्यक्षे च रूपस्यापेक्षितत्वात् । येषां तु नैल्याभ्रप्रमुखानां प्रतिबिम्बः, तत्र विद्यत एव रूपमित्यदृष्टान्तः । यत्ववाह कश्चित् - नीरूपस्यापि रूपस्य प्रतिबिम्बवद्ब्रह्मणोऽपि स्यादिति । स तु रूपस्यैव प्रतिबिम्बो रूपवत इति व्यवह्रियत इति प्रतिबोधनीयः । न ह्यत्रापि रूपस्येव ब्रह्मणोऽपि पदार्थान्तरपारतन्त्र्यमभ्युपगम्यते । तदेवं ब्रह्मणो नीरूपत्वात्प्रतिबिम्बा सम्भवः । वस्त्वन्तरेण विप्रकर्षानुपपत्तेश्च तथेत्यवगन्तव्यम् ।।
एवं च प्रतिबिम्बासम्भवात्, सम्भवेऽप्यचेतनत्वापातात् तस्याप्यैक्य ज्ञानेन बाधानभ्युपगमात्, तथाऽभ्युपगमे वा मुक्त्यवस्थायां बद्धस्याभाव प्रसड़ात, प्रतिबिम्बस्य संसर्गमात्रेण कल्पितत्त्वाङीकारेऽपि नास्ति दर्पणेऽन्यत् मुखमित्यसंसर्गविज्ञानानन्तरं बाधादर्शनादृष्टान्तत्त्वापगमाच्च मलीमस एव प्रतिबिम्बपक्ष इति केचित् । एवं वादातराण्यपि परस्पर विप्रतिषिद्धानि परिकल्पितान्यद्वैतवादिभिः । अवस्थात्रयप्रक्रिया तु
सर्ववाद्यभिमतेत्यस्ति विशेषः ।
१८५. वार्तिककारवचनतात्पर्यम् - अत्राह - किमर्थं तर्हि वार्तिक कारवचनम् यया यया भवेत्पुंसाम् (२-४-४०२) इत्यादि ? अत्र हि सर्वापि प्रक्रिया साध्वीत्युच्यते । अत्र ब्रूमः - जगदुत्पत्तिप्रतिपादक विधाभेदान् प्रकृत्येदमुच्यते, न तु वेदान्तप्रक्रिया या काचिदपि साध्वीति ।
२३८
मूलाविद्यानिरासः
(चतुर्थः अयं ह्यत्राशयः - सृष्टिक्रमे नास्त्यादरो वेदान्तानाम् । यया सृष्टिप्रक्रियया प्रत्यगात्मज्ञानमुदयमासादयति पुंसां सा सर्वाप्यङ्गीकरणीयैव । अत एव नानाविधा सृष्टिः पठ्यते श्रुत्यन्तरेष्विति । तथा च न्यायः - कारणत्वेन चाकाशादिषु यथा व्यपदिष्टोक्तेः (ब्र. सू. १-४-१४) इति । भाष्यं च - भवेदपि कार्यस्य विगीतत्त्वम्, अप्रतिपाद्यत्वात् । न ह्ययं सृष्ट्यादिप्रपञ्चः प्रतिपिपादयिषितः । न हि तत्प्रतिबद्धः कश्चित्पुरुषार्थो दृश्यते श्रूयते वा । न च कल्पयितुं शक्यते, उपक्रमोपसंहाराभ्यां तत्र तत्र ब्रह्मविषयैर्वाक्यैः साकमेकवाक्यतया गम्यमानत्वात् । दर्शयति च सृष्ट्यादिप्रपञ्चस्य ब्रह्मप्रतिपत्त्यर्थताम् (सू. भा.१-४-१४) इत्यादि । समनन्तरवार्तिकेना प्येतदेव हि स्पष्टीकरिष्यते - उद्भतिस्थितिहानीनां न क्वचित्सम्भवो यथा । मुख्यां वृत्तिं समाश्रित्य तथोदर्केऽपि वक्ष्यते ॥१-४-४०३ इति । तस्मान्न वार्तिकव्याजेन विरुद्धप्रक्रियाणामभ्यनुज्ञानमाशङ्कितव्यम् । यया प्रक्रियया बुभूत्सोनिजनिः सैवादर्तव्येति खलु वदत्याचार्यः । अवस्थात्रि तयपरिशीलनं च तादृश्यसाधारणी प्रक्रियेत्यपपादितम। अत एव ह्यव्याकृतनिरूपणेऽप्यवस्थात्रयपरीक्षणमाचार्यस्येति ॥
तदेवं सर्वेषामपि वेदान्तानामत्रैव तात्पर्यदर्शनात्, सूत्रकारभाष्यकार वार्तिककाराणां चाविसंवादात्, पुराणेतिहासादिषु प्रशंसितत्वात्, सिद्धान्त्येकदेशीयानां मतान्तरसिद्धान्तसमभ्यासजनितव्यामोहसम्भवात्, तेषां मिथो विप्रतिषेधदर्शनाच्च नास्मिन् दर्शनेऽनाश्वासः कार्यः । विस्रब्धं विनिश्चीयतामियमेव प्रक्रिया त्रय्यन्तनिष्णातानां प्रियतमेति ॥
खण्ड:)
२३९
शास्त्रानर्थक्यादिदोषपरिहार:
१८६. शङ्कावादिना प्रक्रियायां दोषकथनम् - नन्वेवमपि भवत्पक्षे शास्त्रोपदेशानर्थक्यादयो दोषा लक्ष्यन्ते । तथा हि - विनाप्युपदेशं सर्वजन्तुभिर्लभ्यत्वात्सुषुप्तावविद्याविगमस्य, किं प्रयोजनं पुनर्वेदान्त श्रवणम् ? अथ सुषुप्तौ विगमेऽपि भवति जागरिते पुनस्तत्सम्बन्धस्त त्परिहारार्थं च शास्त्रश्रवणमिति कल्प्यते । एवमपि को विस्रम्भः पुनरपि वाक्यश्रवणेन बाधिता सती साविद्या नाविशति श्रोतारमिति । स्वतो निवृत्ता हि सा सुषुप्त्यनन्तरंजागरिते दरीदृश्यते । तथा श्रवणानन्तरंबाधिताया: पुनरागमने पुनस्तत्परिहारार्थं श्रवणं चेत् कुञ्जरशौचानुकरणं प्राप्नुयात् ।।
किञ्चान्यत् - सुषुप्ताज्ञानवादिनां मते तावद्वेदान्तेषु सुषुत्युपन्यास: सार्थकः । तेन हि विक्षेपतिरस्कारेणानर्थनिवृत्तिरविद्यानिवृत्तेः प्रयोजनभूत सत्सम्पत्तिसूचनम्, निश्शेषमविद्याविलयाभावात्तन्निमित्तेन जागरितायो त्थानम्, निश्शेषोपघाताय च विद्योपदेश इत्येतत्सर्वमुपपादितं भवति । तव तु नास्ति किमपि सुषुप्त्युपन्यासेन श्रुत्यन्तविहितेन सम्भाव्यमानं प्रयोजनम्॥
अपि च सुषुप्तिश्चेन्निरविद्या तर्हि सुषुप्तिस्वरूपानिर्धारणरूपोऽपि दोषः प्रादुःष्यात् । ततश्चावस्थात्रयव्यवहारविलोपः । न हि सुषुप्तावविद्यां मुक्त्वाऽवस्थात्वे किञ्चिदुपाध्यन्तरं शक्यसम्भावनम् । अत एव गुरुज्ञानवासिष्ठे प्रोक्तम् - सुप्तावखण्डैकरसं निरञ्जनं ब्रह्मैव यान्तीत्यखिला: प्रजा इमाः । वदन्ति ये तन्मतमेव कुत्सितं जीवत्रयोक्तेरवकाशहानितः ।। तैजसाख्यो यदा जीवः शेते नाड्यां पुरीतति । तदा प्राज्ञाख्यजीवत्वं याति
२४०
___ मूलाविद्यानिरासः
(चतुर्थः न ब्रह्मतां ध्रुवम् ॥ इति । श्रुतिसम्मतं चैतत् सुषुप्तावस्थातत्स्थात्मनो: पृथक्करणम् । प्राज्ञस्तृतीयः पादः (मां. ५) इत्यादिदर्शनात् । तदेतत्सुषुप्तेरवस्थान्तरत्वं तद्गतस्य चात्मानस्तुरीयव्यतिरिक्तप्राज्ञत्वं च श्रुतिसम्प्रदायोभयसिद्धं लवणाम्बुधावेव निधीयेत निरविद्या चेन्निद्रावस्था स्वीक्रियेत । तदेवं शास्त्रोपदेशानर्थक्यादिदोषगणो दुष्परिहर प्रतिभात्यस्मिन् पक्ष इति चेत् ॥
१८७. शास्त्रानर्थक्यादिदोषपरिहारः - मैवम् । अनुक्तोपालम्भनात् । न हि वयं नित्यसिद्धामविद्यामात्मन्यङ्गीकुर्महे, येन तन्निवृत्तिपुनरा वर्तनादिचिन्ता स्यादर्थवती । कथं तर्हि सुषुप्तावविद्या नास्ति जागरित स्वप्रयोस्तु विद्यत इति वाचोयुक्तिः ? उच्यते । आदित्यवर्णं तमसः परस्तात् (श्वे. ३-८), तमसः परमुच्यते (गी. १३-१७) इत्यादि श्रुतिस्मृतिभ्यो तत्त्वतोऽविद्यासंस्पर्शविधुर एव सन्नात्मा जागरितस्वप्रयो रविद्यावानिव लक्ष्यते उपाधिजनितभ्रान्तिसम्मूढचेतोभिः । सुषुप्तौ तु सकलोपाधिशान्तौ स्वेनैव रूपेण भासत इत्यविद्यासंसर्गो नास्तीत्युच्यते । ननु तर्हि किमर्थं वेदान्तश्रवणम् ? नित्यनिवृत्ताविद्यस्य पुनरप्यविद्यानिवृत्यर्थं श्रवणमिति कथं शोभते? यद्येवं निवृत्ताविद्यमात्मानं प्रतिपन्नोऽसि नास्ति श्रवणेनार्थः । एवं वेदनार्थत्वादेव श्रवणस्य ॥
एतेन सुषुप्तौ स्वरसत एव विगमादविद्यानिवृत्यर्थं श्रवणं नोपपद्यत इत्याद्याक्षेपः कृतपरिहारो भवति । न हि वयं वास्तविकवृत्तेन काञ्चिद विद्यानिवृत्तिं, सुषुप्तिप्राप्तिमात्रेण वा मुक्तिं प्रतिजानीमहे येनायमुपालम्भः शोभेत । निरविद्यात्मप्रतिबोधेनैव हि शास्त्रजनितेन मोक्ष इत्यभ्युपगम्यते,
२४१
खण्ड:)
शास्त्रानर्थक्यादिदोषपरिहारः तत्र कुतः शास्त्रानर्थक्यशङ्केति । यच्चोक्तं को विस्रम्भः पुनरपि वाक्यश्रवणेन बाधिता सती नाविशति श्रोतारमिति । न तच्चोद्यमवतरति । ज्ञाते ह्यात्मनो निरविद्यत्वे भूयोऽपि तत्संसर्गाद्यारोपणं न शक्यशङ्कम्, निरूपितशुक्त्यादौ रजताद्यध्यारोपस्यादृष्टत्वात् ।।
१८८. उपनिषत्सु सुषुत्युपन्यासप्रयोजनम् - यत्पुनरुक्तं सुषुप्ताज्ञान वादिनां मते श्रुतिषु सुषुप्त्युपन्यासः सार्थकः, सिद्धान्ते तु नैवमिति । तदसत् । तेषां पक्षे सर्वेषामपि दोषाणामस्मत्प्रक्रियासञ्चारित्वेन चोदितानां सत्त्वात् । तथा हि - यदि तावज्जागिरतस्वप्रयोरलब्धपदां सत्सम्पत्ति सुषुप्तौ शास्ति शास्त्रमिति स्वीक्रियेत । ततः सुषुप्तिदृष्टान्तेन मुक्तिरप्यनित्या भवेत् । सत्सम्पत्तिसाम्यात् । ननु सुषुप्तौ विक्षेपमात्रं तिरस्क्रियते मुक्तौ तुन तथेति स्याद्वैलक्षण्यम् ? न तर्हि समस्ति सत्सम्पत्तिः सुषुप्ते, अविद्यया व्यवहितत्वाज्जीवस्य । अपि च जीवन्मुक्तानामपि जागरिते प्रपञ्च निर्भासोऽस्ति । तत्र यदि विक्षेपविलय एवापेक्षितः सत्सम्पत्तौ । तर्हि वरं प्राकृतजनस्य सुषुप्तिप्राप्तिन तु जीवन्मुक्तिरिति ज्ञानवैयर्थ्यं स्यात् । किञ्चान्यत् - अविद्याचित्सम्बन्धो वास्तविक एव स्यादस्मिन् पक्षे, अवस्थात्रयेऽपि विद्यमानस्य तस्य मिथ्यात्वोपपादकहेत्वभावात् । ततश्च शास्त्रानर्थक्यं सुस्थितम् । न हि शास्त्रमविद्यमानस्य मोक्षस्य कारक विद्यमानस्य चिदविद्यासम्बन्धस्य निवारकं वा भवेदिति । तस्माच्छास्त्रा नर्थक्यादिदोषाणां दुष्परिहरत्वादस्मिन् पक्षे सुषुप्त्युपन्यासस्य न किञ्चिद्विद्यते प्रयोजनम् । अस्मत्पक्षे तु विद्यमान एवाविद्याराहित्यं सुषुप्त्युपन्यासद्वारा शास्त्रेण ज्ञाप्यत इति महद्वैलक्षण्यमस्तीति ।
२४२
मूलाविद्यानिरासः
(चतुर्थः १८९. सुषुप्तेरवस्थात्वोपपत्तिः - यदप्युक्तं सुषुप्तेरवस्थात्वमेव न सिध्यति सा चेन्निरविद्या स्वीक्रियते । ततश्चावस्थात्रयव्यवहारविलोप प्रसङ्ग इति । तदपि न सम्यक् । सिद्धमेव ह्यस्मत्पक्षेऽपि सुषुप्तेरवस्थात्वं व्यावहारिकम् । यथा हिजागरितावस्था व्यावहारिक्येव कल्प्यते स्वप्रश्च, तथा सुषुप्तिरपि॥
जाग्रदृष्टिप्रधानैः परिकल्पित आत्मन्यङ्गीक्रियत एव यावद्व्यवहारम् । जाग्रत्प्रतिबद्धदृष्टयो हि प्रतिपत्तार एवं मन्यन्ते - अवस्था नाम कालिको विशेषः सर्वैरप्यस्माभिरनुभूयमानः । अस्मिन् हि जगति विद्यमाना जीवा: सर्वेऽपि स्वकर्मानुगुणं तत्र तत्रोपस्थितान् सुखदुःखभोगानुपभुजाना जाग्रदवस्थायामिन्द्रियैर्बाखैर्विषयोपलब्धिरूपं भोगमनुभवन्ति । स्वप्राव स्थायां केवलं तद्वासनानिर्मितान् विषयानन्तःकरणेन मनसैवानुभवन्ति । सुषुप्ते पुनरुभयरूपेऽपि करणग्राम उपरते सति विश्रान्तिसुखं स्वस्था अनुभवन्तीति । तदेतत्करणोपसंहारेण सन्मात्ररूपेणवस्थानं सुषुप्तिरिति व्यावहारिकदृष्ट्या प्रसिद्धं न क्वचिदपि निषिद्धमस्माभिः ॥
यदा पुनः परमार्थदृष्ट्या निरूप्यते तदा व्यपगच्छति सुषुप्तेः सुषुप्तित्वं यथा जागरितस्वप्रयोरपि तत्त्वम् । न हि कालो नाम कश्चित्स्वतन्त्रः पदार्थः सिध्यति जाग्रदाद्यवस्थानवच्छिन्नः । जाग्रत्स्वप्रयोः सममेव हि
।
१४९. यस्मिन्सुषुस्यवस्थेयं भातीव भवतीव च । तत्तद्धान्तेरधिष्ठानं वन्दे साक्षिणमीश्वरम् ।। (सू. य. ९-३८-२६) १५०. नास्य स्वापः प्रबोधो वा कुतः स्वप्रस्य संभवः । प्रत्यक्स्वभाव एवास्य जाग्रत्स्वप्र-सुषुप्तयः ।। (वा. २-१-२६४)२४३
खण्ड:)
शास्त्रानर्थक्यादिदोषपरिहारः तत्तदवस्थाप्रतिबद्धकालदेशनिमित्तानां तत्तत्कालादिप्रतिनियतक्रिया कारकफलानां चोपलब्धिः । सुषुप्तौ पुनः कालादेः कस्यचिदपि नोपलब्धिरस्तीति कुत एव सुषुप्तिः कालिको विशेषः स्यात् ? एवं जाग्रत्स्वप्रयोश्च साधारणः कश्चिदप्येकः कालो न विद्यत इति न तावपि कालिकौ विशेषाविति युज्यते परमार्थतः । तस्मादत्यल्पमिदमुच्यते सुषुप्तेरवस्थात्वं न स्यादिति । मिथ्याज्ञानमात्रं हि हेतुरवस्थात्रयाभिमाने ।।
तस्य तुरीयत्वाभिधानं च न जागरितादीनां सत्यत्वमपेक्ष्य । कथं तर्हि ? तदन्यावस्थानां काल्पनिकसत्त्वमपेक्ष्य । एतेन तुरीयातीतत्वमपि व्याख्या तम् । तथा च स्मृतिः - यस्मिन्क्लृसं तुरीयत्वं विधामापेक्षयैव तु । तं तुरीयत्वनिर्मुक्तं वन्दे चिद्धनमीश्वरम् इति यस्मिंस्तुरीयातीतत्वमध्यस्तं तदभावतः । तं वन्दे केवलं शुद्धं निर्विशेष महेश्वरम् ॥ (सू. य. ३८ २७-२८) इति च । अत एव विश्वादयोऽन्योन्यस्मिन् न सन्तीति प्रतिषिध्यन्ते, तुर्ये च त्रयोऽपि प्रतिषिध्यन्ते । न तु तुर्यस्य तथा क्वचन प्रतिषेधो दृश्यते वेदान्तेषु । तत्सिद्धमवस्थात्रितयं महाकल्लोलत्रितयमिव तुर्याख्ये शान्तसागरे विकल्पितमिति ॥
एतेन प्राज्ञस्तृतीयः पादः (मां. ५) इत्यपि व्याख्यातं भवति । तस्य काल्पनिकविषयत्वात् । तथा च भाष्यकाराः तामबीजावस्थां तस्यैव प्राज्ञशब्दवाच्यस्य तुरीयत्वेन देहादिसम्बन्धरहितां पारमार्थिकी पृथग्वक्ष्यति (मां. का. भा.१-२) इति । यत्तूदाहृतं वाक्यम्, “सुप्तावखण्डैकरसम्” इत्यादि, तदनाप्तप्रणीतत्वाच्छुतिस्मृतिन्यायविरोधाच्चोपेक्ष्यम् । तस्मान्नास्ति
२४४
मूलाविद्यानिरासः शास्त्रानर्थक्यादिदोषः कश्चिदपि । स्वदृष्टिदोषेण तु सर्वत्र दोषमुद्भाव यन्त्यविद्यापिनद्धाक्षा इत्यलं बहविस्तरेण ॥
एकं व्योम्नि विराजमानमपि तामिस्त्रात् परस्तात् सदा भास्वन्तं कुदृशस्तमोऽभिभवतो ग्रस्तं विदुश्छायया ।
सुप्तौ तद्वदपास्तसर्वमलमप्याभान्तमेव स्वयं दृष्ट्वा संवृतिमाहुरात्मनि कथं मायाविमोहं विना ॥ इति श्रीमत्पूज्यपादशङ्करभगवच्चरणस्मरणपरिचयातवेदान्तप्रवेशेन श्रीबोधानन्देन्द्रसरस्वतीशिष्येण सच्चिदानन्देन्द्रसरस्वत्याख्येन भिक्षुणा (सुब्रह्मण्येन) विरचिते श्रीमति शङ्करहृदये मूलाविद्यानिरासे
श्रुत्यादिप्रमाणोपन्यासो नाम
चतुर्थः खण्डः