२ एकीयमतसमालोचनम्

द्वितीयः खण्डः (एकीयमतसमालोचनम्)

एकदेशिपक्षे परमार्थसत्ताया असिद्धिः

१६. परमार्थसत्तानिरुक्तेरावश्यकता - वेदान्तप्रतिपाद्यनिष्प्रपञ्चा त्मविषये जिज्ञासुजनसंशयानुपन्यस्य तत्र सिद्धान्तैकदेशीयानां समाधानं प्रदर्शितम् । अनयोश्च शङ्कासमाधानयोः सारासारनिर्धारणार्थं तत्त्वाव धारणार्थं च ग्रन्थारम्भ इत्युक्तं पूर्वस्मिन् खण्डे । तत्रैकीयपक्षे परीक्ष्यमाणे सर्वन्यायविरोधित्वादनेकधा तत्र दोषा लक्ष्यन्ते । तान् क्रमशो दर्शयिष्यामः । प्रथमं तावत् परमार्थसत्ताया असिद्धिर्व्यक्तीक्रियते । अत्रेदं वक्तव्यम् - कथं स्वप्रजागरयोर्विलक्षणत्वं पूर्वपक्षिणोक्तं प्रतिक्षिप्तमिति । नैतत्प्रतिवक्तव्यम्, यतः स्वमस्य प्रातिभासिकत्वंजागृतेश्च व्यावहारिक त्वमिष्यतेऽस्माभिः । अतो वैलक्षण्येऽपि तयोर्न पारमार्थिकत्वमभ्युपेयत इत्यदोष इति चेत् । न, परमार्थस्यानिरुक्तेः । अयमेव परमार्थ इति निरुच्य हि जाग्रदाद्यवस्थानां तद्वैधर्म्य शक्यं परिज्ञातुम् । न च

तन्निर्वचनमस्ति भवताम् ॥ ___१७. संसारस्याविद्यकत्वाभ्युपगमेन परिहारे परस्पराश्रयः - अथ स्यात् - संसारस्यानाद्यविद्याकृतत्वात्तस्याश्च विद्यया प्रहाणसम्भवात् तत एव संसारमिथ्यात्वावगमे, आसंसारविमोक्षात् प्रतीयमानं जगद्व्याव हारिकमित्येव पर्यवस्यति । स्वप्नाश्रयस्तु प्रपञ्चः प्रतिदिनं बाध्यत इत्येतावान्विशेषोऽभ्युपगम्यत एवास्माभिस्ततो न विरोध इति । न,

२०

मूलाविद्यानिरासः

(द्वितीयः संसारस्यविद्याकृतत्वसिद्धौ विद्याविनाश्यत्वसिद्धिस्तत्सिद्धावेव चाविद्या कृतत्वसिद्धिरिति सिद्धयोः परस्परमुखनिरीक्षणप्रसक्तेः ।।

१८. विद्वदनुभवप्रामाण्यादपि नाविद्यकत्वं संसारस्य - नैषा प्रसक्तिरस्ति, विद्वदनुभवप्रामाण्यादिति चेत् । तथा ह्यभियुक्ता विद्वांसो मिथ्याभूतमेव प्रपञ्चं प्रतिजानते, ये जीवन्मुक्ता इति प्रख्याताः । तस्मादयुक्तमिदं परस्पराश्रयत्वप्रसजनमिति चेत् । न, वादिपरिकल्पि तानुभवमात्राद्वस्तुसिद्ध्यभ्युपगमे सर्वसिद्धान्तानामप्यभीष्टसिद्धिप्रसङ्गात् । न हि जीवन्मुक्तानुभवं सर्वेऽपि वादिनोऽनुमन्यन्ते । न चेदं परमार्थसत्ता स्वरूपमभियुक्तवचनैकगम्यम् । अपि च जीवन्मुक्ताः कस्यामवस्थाया मेतत् सङ्गिरन्ते ? न तावज्जाग्रदाद्यन्यतमायाम्, अभ्युपगमविरोधात् । जाग्रदादिसर्वसंसारदोषविनिर्मुक्ता हिजीवन्मुक्ता अभ्युपगम्यन्ते युष्माभिः । अभ्युपगम्य तथा चेदिदानीं पुनरुच्यते जाग्रदद्यन्यतमावस्थायां जीवन्मुक्ताः संसारदोषमुपदिशान्तीति, तदा कथं न व्याघातः ? तस्माज्जीवन्मुक्ता नार्हन्ति संसारदोषं स्वयं द्रष्टुं प्रागेवोपदेष्टुं परान् जाग्रदाद्यन्यतमावस्थायाम् । किं चान्यत् - जीवन्मुक्तानां जागरिते तत्त्वमुपदेष्टुमीहमानानां सुषुप्तावन्या वस्थायां वा स्यात् प्रपञ्चमिथ्यात्वावगमः ? न तावत् सुषुप्तौ, को हि स्याद्विशेषः सुषुप्त्योरज्ञात्मज्ञाभ्यामनुभूयमानयोर्येनाविद्वत्सुषुप्तावेव विद्यते कारणाविद्या, विदुषां पुनः सुषुप्तौ बाध्यत इत्युक्तिर्युक्त्युपेता स्यात् ? क्वचित्किञ्चिदपि चेद्विशेष उररीक्रियेत, तत एव सुषुप्तेः सुषुप्तित्व १४. समानं हि सर्वप्राणिनां पर्यायेण जाग्रत्स्वप्रसुषुप्तिगमनम्। (प्र. भा. ४-५) सर्वप्राणिसाधारणा एव स्वापादयोऽनुकीर्त्यन्ते विद्याप्रकरणेऽपि प्रतिपिपादयिषित वस्तुप्रतिपादनानुगुण्येन न तु विदुषो विशेषवन्तो विधित्स्यन्ते ।। (सू. भा. ४-२-७)

खण्ड:)

एकदेशिपक्षे परमार्थसत्ताया असिद्धिः मुच्छिद्येत । निर्विशेषत्वमेव हि सुषुप्तेरवस्थान्तरव्यावृत्तो धर्म इति प्रतीयते । अथ नाङ्गीक्रियते भेदः सुषुस्योरनयोः, तदा ज्ञानिसुषुप्तावपि ध्रुवमायास्यत्य विद्येति गतं सुषुप्तौ जीवन्मुक्तानामज्ञानमपबाध्यत इति कथया । तस्मादेतद्दोषद्वयं परिजिहीर॑णा वक्तव्यं भवति यदवस्थान्तर एव तदज्ञानं ध्वस्यत इति । न चास्ति काचित्तादृश्यवस्ता प्रसिद्धा ऊरीकृत्यापि तादृशीमवस्थां नेष्टं सिध्यति, यतो लौकिकैस्सावस्था नानुभूतचरा । तस्मान्न शक्नुवन्त्येतानविद्यावतः प्रतिबोधयितुं ज्ञानिनस्तदानीमिति ।।

१९. तुरीयावस्थानुभवादपि न तथा - ननु जाग्रदादिभिन्नायां तुरीयायामनुभवन्तु प्रपञ्चमिथ्यात्वम्, जागरे च प्रतिबोधयन्त्वस्मान् । अस्मिन् पक्षे को दोषः ? अयमेव दोषो यज्जागरमनुभवन्त एव तन्मिथ्यात्वमुदाहरन्ति । न हि स्वानुभवविरुद्धमप्युपदिशन्तः परीक्षका निर्दुष्टप्रमाणपदवी निर्देष्टुं पारयन्ति ।

२०. विदुषां अविद्यालेशसद्भावाजागरितादिप्रपञ्चप्रतिभासो युज्यत इति शङ्काया निरासः - ननु चजीवन्मुक्तानां निस्संशयमात्मतत्त्वावबोधे जातेऽपि मात्रयाऽविद्यासंस्कारोऽनुवर्तते । ततश्चोपपद्यते सांसारिकप्रत्यय तद्व्यवहाराणामप्यनुवृत्तिः । तान्मिथ्येति मन्यमानो विद्वान्न श्रद्धत्ते, तस्मान्नोक्तदोषः । नैतद्युक्तमिव । आत्मनः संसारित्वं यदि विद्वस्यमानो व्यवहरंश्च संसारिखदेव ज्ञान्यपि सन्, तदा कस्मान्न श्रद्धत्ते तत्सत्यत्वमपीति प्रष्टव्योऽसि । अविद्यासंस्कारानुवृत्तिरेव केवलं कारणं व्यवहारे, विद्यया तु तन्मिथ्यात्वावगम इति चेत् । अनिवृत्तायामविद्यायां कथं विद्वानिति ?

२१. जीवन्मुक्तेर्गौणत्वस्वीकारेऽपि न दोषानिस्तारः - अथोच्येत

मूलाविद्यानिरासः

(द्वितीयः - नाविद्याया निश्शेषविलयः संसारमिथ्यात्वावगमेऽपेक्ष्यते, कस्तर्हि, प्रारब्धकर्मोपादानभूताविद्याव्यतिरिक्ताविद्याविलयः । स चजीवन्मुक्तस्य संवृत्त इति सांसारिकप्रत्ययव्यवहारोभयानुवृत्तिस्तन्मिथ्यात्वानुसन्धानं च न विरुध्येते । अत एव साम्प्रदायिकाः - विदेहकालीन एव मुख्यो मोक्षः, स्थूलसूक्ष्मोभयरूपाया अप्यविद्यायास्तदानीमेव निश्शेषं ध्वस्ते रित्याहुः । जीवन्मुक्ते तु तनूकृता संस्कारापराभिधाना जाग्रदादिप्रतिभास प्रयोजिका काचिदविद्या वर्तते । तस्य चाविद्यालेशस्य तत्त्वानुसन्धानादेव प्रक्षयो भवतीति न शरीरपातोत्तरमपि कैवल्यानाप्तिप्रसङ्ग इति । अत्राप्यनुप पत्तिस्तदवस्थैव । कथम् ? विद्याविद्यायोरेकाधिकरणत्वायोगात् । न हि विरुद्धस्वभावयोस्तमप्रकाशयोरिव युज्यत एकत्र समावेशः ॥

कथं न युज्यते ? दृश्यते ह्यल्पदीपप्रदेशे तमसोऽपीषदनुवृत्तिः, छायायामप्यातपोऽनुमानगम्यतारतम्येनोपलभ्यमानौष्ण्यलिङ्गात् । मैवम् । प्रकाशाभावस्य तमसः प्रकाशस्थले दर्शयितुमशक्यत्वात् । ननु चोपचया पचयाद्यवस्थाभेदविशिष्टं रूपवत्तया चोपलभ्यमानं तमः कथमभावता मालम्बेत? न च रूपवद्व्यस्य स्पर्शवत्त्वनियमात्तमो न रूपिद्रव्यं भवितुं युक्तमिति शङ्कयम् । रूपरहितस्य वायोः स्पर्शो यथाभ्युपगम्यते, तथा स्पर्शहीनस्यापि तमसो रूपवत्त्वं किं न स्यात् ? न हि दृष्टेऽप्यनुपपत्तिः । अपि च सवितृकिरणव्याप्ते देशे यदा दीपप्रकाशजन्मविनाशौ स्याताम्, तदा दीपप्रकाशस्याभावेषु प्रागभावप्रध्वंसाभावेतरेतराभावरूपेषु न विद्यते १५. सम्यग्ज्ञानं यदाश्रित्य तन्मोहोऽपि तदाश्रयः ।

अबाधितं तमोऽत्रास्ते इत्युक्ति डवक्तृता ।।

बृ. वा. २-४-२०९खण्डः )

एकदेशिपक्षे परमार्थसत्ताया असिद्धिः

२३ तमस्त्वव्यवहारः । अथ स्यात् सकलप्रकाशाभाव एव तम इति, तर्हि सर्वप्रकाशसन्निधानं विना तमो न कदापि निवर्तेत । न चैतदस्ति । तस्मान्न प्रकाशाभाव एव तम इति युक्तमुत्पश्याम इति ॥

तदेतदनुभवापलापिनां वचनम्। प्रकाशसामान्यस्य ह्यभावस्तम इत्युक्तमस्माभिः । तत्र यत्र कुत्रचिद्यस्य कस्यचिदपि प्रकाशस्य सन्निधाने सति तत्र तमसोऽनुपलभ्यमानत्वात्केन तर्केण सिध्येद्भावत्वं तमसः ? तदेवं मन्दप्रकाशानुवृत्तिर्यत्रास्ति तत्रैव तमोऽनुवृत्तिः प्रक्षालितेक्षणैरपि न शक्यते साक्षात्कर्तुमिति कुतः सहावस्थानसङ्कथा ? न चेदमाशङ्कनीयम् - यत्र घटोऽस्ति तत्रैवाधिकरणे यस्य वस्तुनो व्याप्त्यसम्भवस्तस्याप्यनेन न्यायेन घटाभावत्वं भावत्वव्यावृत्तिश्च प्रसज्येयातामिति । यत्र प्रकाशसामान्यादर्शनं तत्र नियमेन तमसो दर्शनं यथा, तथोक्तदृष्टान्ते घटसामान्याभावस्थले तादृशवस्त्वप्रतीतेः । तस्मात्प्रकाशाभाव एव तमः ॥

ननु तमस आलोकविरोधित्वदालोकाभावव्यञ्जनीयत्वम्, अतो युज्यत इदं यत्प्रकाशसामान्यस्याभाव एव तमो दृश्यत इति । तदिदमतितुच्छम् । अभावस्य सविशेषत्वे प्रमाणाभावात् । अभावस्याभावान्तरव्यङ्ग्यता वाचोयुक्तेरविद्यमाननगरे वन्ध्यापुत्राभिषेकवचनसमानयोगक्षेमत्वात् । न हि तमसो भावत्वमद्यापि सिद्धम् । अभावस्य व्यञ्जकत्वं वा । कश्चायं तमआलोकयोर्विरोधो यमवलम्ब्यालोकाभावव्यञ्जनीयता तमस: स्वीक्रियत ? इति । न सहानवस्थायित्वम्, वैपरीत्यस्वीकारात् । नापि भावाभावरूपत्वम्, तदनङ्गीकारात् । सहावस्थानाङ्गीकारादेव न तदत्यन्ताभावसामानाधिकरण्यरूपोऽपि विरोधः । ननु बाध्यबाधकरूपो

मूलाविद्यानिरासः

(द्वितीयः विरोधोऽस्ति ? न तर्हि तयोर्युगपदेकत्र स्थितिः । अस्तु तर्हि परस्पर तादात्म्याभावरूपो विरोधः । तदपि न शुध्यति, घटपटयोरपि विरोधप्रसक्तेः । ननु तादात्म्यं नाम जातिव्यक्त्योरिव परस्परसम्भेदः । तद्वदिह परस्परसम्भेदो न सम्भवतीति युज्यत एव विरोधः । न च घटपटयोरपि तत्प्रसक्तिरिति शङ्कनीयम् । इष्टस्यैवापादनात् । इष्टमेवेदं नो यद्धटपटयोः परस्परतादात्म्यं न सम्भवतीति । मैवम् । जातिव्यक्त्यो दे मानाभावात् तन्निरूपणाधीननिरूपणवतस्तादात्म्यस्य दूरतोऽपास्तत्वात् । एकमेव हि वस्तु द्रव्यगुणक्रियाजातिव्यक्त्यादिरूपेण बहुधा विकल्प्यत इति स्थितिः । तदेवं नास्ति युष्माकं तमःप्रकाशयोर्विरोधसिद्धिः । तस्मान्न युज्यत आलोकविरोधित्वादालोकाभावव्यञ्जनीयत्वमिति । अत एवा लोकाभावव्यञ्जनीयतया तमस आलोकनिरपेक्षचक्षुर्विषयत्वमिति यदप्युच्यते तन्निरस्तम् । रूपिप्रात्यक्ष्येऽवश्यापेक्षणीयत्वादालोकस्य । नन्वेवं रूपवदभावत्वादालोकाभावस्यापि केवलचक्षविषयत्वं न स्यात. घटाभाववत् । मैवम् । अभावस्य विशेषाभावात् । नाभावस्य चक्षुर्विषयत्वं

सम्भवति, अभावत्वादेव ॥

तदित्थं नास्ति तमसः प्रत्यक्षता । तस्मात्तमः पश्यामीति लोक व्यवहारस्य मुख्यत्वानुपपत्तेरालोकाभाव एवायमौपचारिक प्रयोग इति मन्तव्यम् । यत्तु प्रकाशाजन्यरूपिद्रव्यसाक्षात्कारजनकमपि भवितुमर्हति चक्षुः, रूपिद्रव्यग्राहकेन्द्रियत्वात्त्वगिन्द्रियवदिति । तन्न । यथा हि रूपिद्रव्यग्राहकयोग्यत्वेऽपि त्वगिन्द्रियस्य न रूपग्राहकता, तथा न भवति १६. तस्मात् द्रव्यात्मकता गुणस्य । एतेन कर्मसामान्यविशेषसमवायानां द्रव्यात्मकता व्याख्याता ।। सू. भा. २-२-१७

खण्डः)

एकदेशिपक्षे परमार्थसत्ताया असिद्धिः चक्षुर्विषये । रूपग्रहणस्थल एव त्वालोकापेक्षेति किं केन सङ्गतम् ? तस्मान्नाभावत्वमनुपपन्नं तमसः । गुणक्रियावत्त्वभ्रान्तिस्तु दर्पणगत प्रतिबिम्ब इव उपाधिकृता न विरुध्यत इत्यन्यत् ॥

अलं वा विवादेन तमसो भावत्वविषये । बाध्यबाधकभावरूप विरोधस्तु तमःप्रकाशयोः प्रत्यक्षसिद्ध इति न केनापि युगपदेकत्र सहभाव: शक्यशङ्कः । तथा चोपपादितमधस्तात् । तस्मान्नैष दृष्टान्तः ॥

एवं छायातपयोः शीतोष्णयोर्वा नास्त्येव सहावस्थितिः । छायायां तावदौष्ण्यदर्शन छायातपयोरेकत्र स्थितिरित्ययुक्तम्, आतपस्य संस्था नान्तरत्वात् । औष्ण्यस्य संस्थानविशेषो ह्यातपो नाम । न चास्ति छायायाः शैत्यधर्मसमवायः येन शीतोष्णयोः स्यादपि सहभावः, छायाया अपि तमोवदवस्तुत्वात् । किञ्च शीतम्, उष्णमिति च परस्परव्यावृत्त स्वरूपवस्तुद्वयवाचकशब्दाविति वक्तुमेव न शक्यते । अपेक्षा वशादेकस्यैव वस्तुन उभयवाच्यतादर्शनात् । एकापेक्षया हि यद्भवत्युष्ण मिति तदेव वस्त्वन्तरापेक्षया शीतमिति भवति । भवतु वेदं यथा तथा । तथापि यत्र यदा बुद्धिरुष्णमिदमिति, तत्रैव तदैव नोत्पद्यते कस्यचिच्छीत मिदमिति बुद्धिः । तस्माददृष्टान्तः शीतोष्णव्यवहारोऽपि विरुद्धयोः

१७. न हि विधिशतेनापि तमप्रकाशयोरेकत्र सद्भावः शक्यते कर्तुं किमुत लिङ्गैः केवलैरिति । मुं. भा. अव। १८. विद्योत्पत्तौ अविद्याया ह्यस्तत्वात्तदाश्रयेऽविद्यानुपपत्तेः । न ह्यग्निरुष्णः प्रकाशश्चेति विज्ञानोत्पत्तौ यस्मिन्नाश्रये तदुत्पन्नं तस्मिन्नेवाश्रये शीतोऽग्निप्रकाशो वेत्यविद्याया उपपत्तिर्नापि संशयोऽज्ञानं वा ॥ ई. भा. १८

मूलाविद्यानिरासः

(द्वितीयः सहावस्थाने । तस्मादनुभवविरुद्धमिदं मिथो विरुद्धस्वभावयोर्विद्याविद्ययो रात्मैकविषयोरेकाश्रयतोत्प्रेक्षणम् ॥

२२. अद्वैते प्रमाणाभावश्चास्मिन् पक्षे - अपि च सर्वस्यापि प्राकृतजनस्यागामिकर्मणोऽप्रवृत्तफलत्वात्, सञ्चितस्य च समुदाचर इत्तिकत्वाभावाच्च प्रारब्धफले कर्मण्येव सत्यत्वबुद्धिस्तत्फलोपभोगकाले कर्मतत्साधनतदधिष्ठानेषु मामकीनत्वबुद्धिश्चोपावर्तेते । तानि चेत् कर्मतत्साधनतदधिष्ठानानि जीवन्मुक्तस्यापि सन्ति, तदेदमवश्यमङ्गीकृतं भवति यज्जीवन्मुक्तो नाम शास्त्रश्रद्धामात्रकलितव्यवहारमिथ्यात्वो न त्वनुभूततद्वैतथ्य इति । यत्तूक्तं विदेहताकालेऽस्तं यात्यविद्येति, न तत्र मानमुपलभामहे । वेदान्तवचनप्रामाण्यमस्तीति चेत् । न, पारोक्ष्य प्रसङ्गाद्विद्याफलस्य । यदि हि देहपातानन्तरमेव स्यादविद्यास्तमयः पारोक्ष्यमेवाभिलिङ्गेत तदानीं मुक्तिः । ततश्च वेदान्तविज्ञानमपरोक्षानु भवरूपमिति" कथा वृथा भवेदिति । तस्मादविद्यानिवारणस्यानिरूपणात् परमार्थसत्ता न सिध्यत्येकीयपक्ष इति सुस्थम् ॥

१९. दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता ।। क. १-२-४ विपरीते

अन्योन्यव्यावृत्तरूपे विवेकाविवेकात्मकत्वात्तम प्रकाशाविव ।। क. भा. १-२-४ न च विद्याविद्ये एकस्य पुरुषस्य सह भवतो विरोधात्तमप्रकाशाविव ।। बृ. भा. ३-५-१ ॥

२०. न हि तत्त्वमसीत्यस्य वाक्यस्यार्थस्तत्त्वं मृतो भविष्यसीत्येवं परिणेतुं शक्यः ।। सू. भा. ३-३-३२ २१. अनुभवारूढमेव च विद्याफलं न क्रियाफलवत्कालान्तरभावीत्यसकृदवोचाम ॥ सू. भा. ३-४-१५

खण्ड:)

२७ भावाज्ञानस्वरूपासिद्धिः २३. जागरिते नास्ति भावाविद्यानुभवः, न जानामीति सिद्धमन्यथा अभ्युपगम्य भावरूपाविद्यामिदमवोचाम यत् परमार्थसत्ता प्रतिपक्षे दुरुपपादेति । न च सा सेद्धमर्हति कथं नार्हति ? यावता तिसृष्वप्य वस्थासु सास्तीति प्रत्यक्षादिभिरवगमिता । नेत्युच्यते, उक्तहेतुभिस्तद सिद्धेः ॥

कथम् ? यत्तावदुक्तं जाग्रदवस्थायां “मामहं न जानामी"ति प्रत्यक्षावभासो भावाज्ञाने मानमिति । तन्न, उक्तानुभवस्यान्यथापि सिद्धेः । विद्यते हि ज्ञानाभावमिथ्याज्ञानसंशयज्ञानरूपमज्ञानत्रयम् । तेषामन्यतम विषय एव किं न स्यादुक्तानुभवः ? तथा हि - व्यवहारे तत्र तत्र कस्मिंश्चिद्विषये श्रुतिपथं गते सत्येवं मतिर्जायते - नाहमिदंजाने, नाहमदो जाने, किंत्वेतावदेव मया दृष्टं ज्ञातं चेति । सोऽयं ज्ञानाभावो नाम क्वचिद्विषयविषयकः तदन्यविषयकज्ञातत्वबुद्धिनिबन्धनः । तथा कदाचिदेवं मनीषा समुन्मिषति - रजतमिदमिति, सर्पोऽयमिति, तोयमिद मिति । सा च मनीषा तदुत्तरकालीनया विमर्शपूर्वकं जायमानया बुद्ध्या बाध्यते - ममैषा भ्रान्तिरुद्धभूव, न त्विदं रजतं, किं तर्हि ? शुक्तिरेवेति, नायं सर्पः, किं नाम ? रज्जुरेवेति, नेदं तोयमपि तु मरीचय एवेति च । तदिदं मिथ्याज्ञानं नामातस्मिंस्तद्वद्धिरूपम् । क्वचित्पुनरनिश्चिततद्भवरूपं द्विकोटिकं ज्ञानमुत्पद्यते यथा -स्थाणुर्वा स्यादयं पुरुषो वेति । सोऽयं

२२. यदि ज्ञानाभवो यदि संशयज्ञानं यदि विपरीतज्ञानं वोच्यतेऽज्ञानमिति सर्वं हि तज्ज्ञानेनैव निवर्त्यते ।। बृ. भा. ३-३-१ (एतद्भाष्यकृतमज्ञानशब्दार्थपरिगणनं लिङ्गमज्ञानत्रैविध्ये ।।)

२८

मूलाविद्यानिरासः

(द्वितीयः संशयो नाम । वर्णितस्वरूपत्रयस्याज्ञानानुभवस्य व्यवहारावस्थाविद्यमान यत्किञ्चिद्विशेषविज्ञानसहसत्ताकस्य संस्कारः सामान्यतो हेतुर्भवत्यहमज्ञ इति व्यवहारे । तत्रैवं सति न शक्यते वक्तुं “अहमज्ञ” इति व्यवहारेण सिद्धयति जागरिते भावाज्ञानमिति । यत्त्वाहुर्भावाविद्यावादिनः - न जानामीत्यनुभवो न मिथ्याज्ञानविषयः, मिथ्याज्ञानस्य ज्ञानत्वाधिकरणत्वात्, नापि ज्ञानाभावविषयः, ज्ञानरूप आत्मनि तदभावस्यासम्भवात्, न वा संशयविषयः, “न जानामीति” निर्भासात् । नाप्यन्तःकरणवृत्तिज्ञाना भावस्तद्विषयः, अभावप्रतियोगिज्ञाने तदज्ञाने च तादृशाभावज्ञानायोगात्, यद्विषये कदापि ज्ञानं न भविष्यति तत्रापि न जानामीत्यनुभवाच्च । पारिशेष्यात् तस्यानुभवस्य भावाज्ञानमेव विषयो भविष्यतीति । तदेतद युक्तम्, उक्तरीत्या निश्चितज्ञानसापेक्षस्य ज्ञानाभावादित्रिकस्य तादृशानुभवविषयत्वे बाधकाभावात् । न हि पश्यामः कुत्राप्युक्तप्रत्ययत्रयं मुक्त्वान्यं कञ्चिदज्ञानपदार्थम् । न च “न जानामीति” निर्भासस्य संशयमिथ्याज्ञानगोचरत्वानुपपत्तिः । सम्यग्ज्ञानं ह्यत्र ज्ञानशब्दार्थः । तस्मान्न जानामीति तदभाववत् तदन्यत्तद्विरुद्धं वा ज्ञानं यथा सम्भवं गोचरयेत्तत्र किमपि बाधकं नोपलभामहे ॥

२४. त्वदुक्तं न जानामीत्यत्र त्वदुक्तस्य प्रमाणविषयत्वे विचार: ननु त्वदुक्तं न जानामीति’ व्यवहारस्तावत् त्वदुक्तार्थविषयकं प्रमाणज्ञानं मम नास्ति, किं तु संशयितमेव मे ज्ञानमित्येवंपरतया नेतुं न शक्यते । २३. तामसो हि प्रत्यय आवरणात्मकत्वादविद्या, विपरीतग्राहकः, संशयोपस्थापको वा अग्रहणात्मको वा, विवेकप्रकाशभावे तदभावात् । तामसे चावरणात्मके तिमिरादिदोषे सत्यग्रहणादेरविद्यात्रयस्योपलब्धेः ॥ गी. भा. १३-२

खण्ड:)

भावाज्ञानस्वरूपासिद्धिः “त्वदुक्तविषयकं प्रमाणज्ञानं मम न विद्यत” इति यदिदं ज्ञानं तत्खलु प्रमाणज्ञानमेव । तद्विषयान्तर्गतत्वाच्च त्वदुक्तार्थविषयस्यापि प्रमाणानी तत्वमेवायास्यतीति कथं तत्रैव प्रमाणज्ञानाभावः सम्भवेत् ? न च तस्या ज्ञातत्वं बोधयतः प्रमाणज्ञानाव्यतिरिक्तं प्रमाणज्ञानं मम नास्तीत्येवर्थ विवेचनेऽप्युक्तदोषानिस्तारं सम्भावयामः । तादृशप्रमाणज्ञानं नास्तीत्य स्यापि प्रमात्वादेवोक्तदोषपिशाचिकावेशादिति चेत् । मैवम् । “त्वदुक्त विषयकं प्रमाणज्ञानं मम नास्तीत्य"स्य प्रमाणत्वेऽपि, त्वदुक्तविषयस्य प्रमाणविषयत्वे मानाभावात् । यद्विषये खलु कदापि ज्ञानं न भविष्यति, तत्रापि न जानामीत्यनुभवो वर्तते, यथा शशशृङ्गं न जानामीति । न हि तत्र न जानामीति विशिष्टव्यवहारोत्थापकानुभवस्य प्रमात्वेऽपि, शशीयशृङ्गस्यापि प्रमाणज्ञानविषयत्वमस्ति । यद्यपि शशशृङ्गादिशब्दजन्या प्रतीतिः शुक्तिरजतादिज्ञानवन्न भ्रान्तिरिष्यते, नापि घटादिज्ञानवत् प्रमेति । तथा च शशशृङ्गज्ञानस्य विकल्पमात्रत्वेन विशिष्टव्यवहारस्यापि प्रमात्वं नेष्टमिति शक्यं प्रतिसमाधातुम् । तथापि “शशशृङ्गं न जानामी"त्यत्र यथा विशिष्टं ज्ञानं तद्विपर्ययविरहं तथा शशशृङ्गज्ञानमपीति न केन चिच्छक्यसमुत्थानम् । अतो न किञ्चिदेतत् । तस्माच्छब्दतः सामान्यतो ऽवगम्य प्रमाणतो विशेषं निर्दिधारयिषोरेवायं व्यवहार इति सम्यक् । नन्विदमयुक्तं भाति । विशेषस्य हि ज्ञातत्वे न जानामीत्यनुपपन्नम् । अज्ञातत्वे तु जिज्ञासैव नावकल्पते । अतो भावरूपाज्ञानमेवोक्त स्थलेऽभ्युपगन्तव्यं भवतीति चेत् । अज्ञातस्य जिज्ञासानहत्वमिति कोऽयमपूर्वो नियमः ? यावता सर्वत्राज्ञातस्यैव वस्तुनः स्वरूपं प्रमाणतो ज्ञातुं सर्व प्रयतत इति स्थितिः । ननु सर्वथाप्यज्ञातस्य कथं जिज्ञासाविषय

३०

मूलाविद्यानिरास:

(द्वितीयः त्वं घटते? बाढं न घटते । अत एव सामान्यतोऽवगतस्य विषयत्वमुक्त मधस्तात् । विशेषस्य सर्वथाप्यज्ञातत्वाद्विषयत्वानुपपत्तिस्तदवस्थेति चेत् । न, विशेषस्य सामान्यासम्बद्धस्यासत्त्वात्, सामान्यस्य चावगतत्वे जिज्ञासोपपत्तेः । एतेन यदि ज्ञानाभावः “इदं नजानामीति” प्रतीतेविषयः, तदा ज्ञातेऽपि विषये तथा प्रतीतिः स्यात्, विषयज्ञानं विना विषयविशिष्ट ज्ञानस्यासम्भवादिति चोद्यमपि प्रत्युक्तं भवति । सामान्यतो ज्ञातस्यैव न जानामीति प्रतीतिविषयत्वात् सामान्यविशेषादिकल्पनान्येकस्मिन्नेव वस्तुनि व्यपेक्षाविशेषाद्भवतीत्येतदपि निवेदितं प्राक् । तस्मान्न जानामीति न मानं भवति भावाज्ञाने न वा त्वदुक्तं न जानामीति व्यवहारः । न च मामप्यहं न जानामीति व्यवहारात् तत्सिद्धिः । तत्रापि हि मम विशेषरूपं न जानामीत्येवार्थो न पुनर्न जानाम्येवेति ॥

२५. “न किञ्चिदपि जानामी’‘त्यस्यार्थः - ननु च “मूढोऽहं, त्वदुक्तं मामन्यद्वा किञ्चिदपि न जानामी"त्यनुभवे सति न किञ्चिदपि विषयान्तरमवशिष्यते यज्ज्ञानापेक्षया व्यवहार उपपाद्येत । मैवम् । तादृशस्यानुभवस्यैवासम्भवात् । सर्वोऽपि हि विशेषानुभवस्तद्वयति रिक्तयत्किञ्चिज्ज्ञानसापेक्ष एव । सजातीयविजातीयपदार्थान्तरेभ्यो निवत्यैव हि स्वविषयं विशेषविज्ञानं नामोपजायते । तस्मान्नैकलस्यैव विषयानुभवस्य स्मरणस्य कल्पनस्य वा संकलेतरानुभवादिनिरपेक्षस्य सम्भवोऽस्ति । अतो न सार्वविषयमज्ञानं न किञ्चिज्जानामीति, अपि तु यत्किञ्चिज्ज्ञानसापेक्षमेव । यत्किञ्चिजानात्येव ह्यत्यन्तमूढोऽपि, यथाहमसौ नामामुष्य पुत्र इत्यादिकम् । विशेषज्ञानं तु न विद्यते किंस्वरूपोऽहं परमार्थतः, कुत आयातः, क्व गन्तास्मि प्रेत्येत्यादिविषयकम् । तस्माद्विव

३१

खण्ड:)

भावाज्ञानस्वरूपासिद्धिः क्षितविशेषाभावालम्बन एव न किञ्चिदपि जानामीत्यनुभवः । तथा विपरीतसंशयज्ञानयोरप्यज्ञानत्वं युज्यते । अस्मिंस्तु पक्षे न किञ्चिज्जाना मीति व्यवहारस्यार्थः - न यथार्थं किञ्चिज्जानामि, किं तु विपरीतं संशयितमेव वा मे ज्ञानमिति । अत्रापि यस्मिन् कस्मिंश्चिद्विषये याथातथ्यतो ज्ञाते, तस्मिंस्तथा ज्ञातत्वेनाभिमाने सत्येव वा तदतिरिक्तविषये व्यवहारः । न तु सर्वत्र विपरीतग्रहाभिमानः संशयो वा शक्य इत्यनुसन्धेयम् । तदित्थं सामान्यतोऽवगतविशेषतोऽनिर्धारितात्मस्वरूपेण मुग्धेन प्रयुक्तं वाक्यं “नाहं मामन्यद्वा किञ्चिदपि जानामी"ति रूपं भावरूपाविद्यां साधयितुं नालमिति स्थितिः ॥

२६. सुषुप्तौ तु भावाविद्यायाः सुतरामसिद्धिः - तस्मान्न जागरिते भावाज्ञानसिद्धिः । सुषुप्तौ तु तस्य सुतरामसिद्धिः । न हि जातुचिदनुभूता भावाविद्या तस्यामवस्थायां शक्यानुभवा वा। ननु व्यञ्जकाभावा देवायमननुभवो नाभावहेतुरित्युक्तम् । सत्यमुक्तम्, न तु तद्युक्तम् । न हि विद्यते किञ्चिद्विनिगमकं किमविद्याभावादेवोत व्यञ्जकाभावात्तस्या अननुभव इत्यत्र । न चास्ति व्यञ्जकस्य कस्यचिदवकाशः सुषुप्तौ, यस्मिन् सति निश्चिनुयाम कतरदत्र युक्तमिति । संशयमात्रेणापि परपक्षः प्रतिषिध्यते । न च व्यञ्जकमन्यदपेक्ष्यैव सर्वत्र वस्तूपलब्धिः । अन्यथा मनस उपलब्धिरेव न स्यात् । न हि तत्रापि ग्राह्यग्राहकव्यतिरिक्तं किञ्चिद्व्यञ्जकं शक्यशङ्कम् । अथोच्येत मनसः स्वच्छद्रव्यत्वान्नास्ति व्यञ्जकान्तरापेक्षणम् । अविद्यायास्तु तमोरूपाया अस्ति तदपेक्षेति । २४. यत्र वस्त्वन्तरेण गृह्यते वस्त्वन्तरं तत्र ग्राह्यग्राहकव्यतिरिक्तं करणान्तरं स्यादिति नैकान्तेन नियन्तुं शक्यते ।। बृ. भा. ४-३-७

मूलाविद्यानिरासः

(द्वितीयः न, तमोद्रव्यस्य सुतरामालोकसङ्गमासहिष्णुत्वाव्यञ्जकसत्त्वेऽप्य सिद्ध्यापत्तेः । न हि शार्वरादिकं तमो दिदृक्षुर्दीपहस्तो भवति कश्चिदमूढः । तस्मान्मनोरथमात्रमेतद्व्यञ्जकापेक्षणमविद्यायाः । न च स्वयंज्योतीरूपस्य व्यवधानान्तररहितं स्वात्माश्रयं भावाज्ञानमनुभवितुं व्यञ्जकान्तरकल्पनं पेशलं भवति । व्यञ्जकस्यापि हि व्यञ्जनसामर्थ्यमात्मन” एव । तस्मान्नास्त्येतद्व्यञ्जकाभावादननुभव इति । अथाङ्गीक्रियत एवानुभवः, तदापि नेष्टसिद्धिः । यतः सुषुप्तेः स्वाभाविकत्वात् सर्वस्यपि जन्तोस्तस्यां च विशेषानुभवे सति सुषुप्तित्वभङ्गाच्च तादृशाविद्या नास्त्येव सुषुप्तावित्येव स्याधुक्ततरः पक्षः । यद्यप्यविद्यावादिनः साक्षिवेद्यतामेवाविद्याया: स्वीकुर्वन्ति । तथा च तत्पक्षे सुषुप्ते विशेषानुभवाभावेन सुषुप्तित्वभङ्गो नापादयितुं शक्यत इव । तथापि “सुषुप्तावहमविद्यामन्वभूवम्” इति कस्यापि सुप्तोत्थितस्य परामर्शानुदयेन तस्याः साक्ष्यनुभूतत्वे सर्वसम्प्रति पत्त्यभावाच्च न तत्र तदनुभवः सेत्स्यति । विशेषानुभवस्तु नाभ्युपगम्यते न वा शक्याभ्युपगमः । तस्मादनुभवाभावो भावाज्ञानं निरस्यति ॥

२७. सुप्तोत्थितस्य “मूढोऽहमासमि’‘ति परामर्शान्नाविद्यानुमानम् - ननु तथापि सुप्तोत्थितपरामर्शादनुमीयते तस्यानुभवस्य तत्काले सत्त्वम् । न, सुप्तोत्थितव्यवहारस्य जाग्रत्स्वापतुलनारूपमनोव्यापारजन्यत्वात् । “न किञ्चिदप्यवेदिष"मिति परामर्शवाक्यस्य यथा जागरेऽयमहमस्मीमे देवदत्तादय इति प्रपञ्चज्ञानम्, तथा सुप्तौ नासीदित्यर्थः । अथ मन्यसे प्रतियोगिज्ञानमन्तरा ज्ञानाभावस्यानुभवासम्भवादननुभूतस्य चोत्थितेन २५. तच्च स्वविषयव्यञ्जनसामर्थ्यं श्रोत्रस्य चैतन्ये ह्यत्मज्योतिषि नित्येऽसंहते सर्वान्तरे सति भवति नासतीत्यतः श्रोत्रस्य श्रोत्रमित्याधुपपद्यते ।। के. भा. १-२खण्ड:)

भावाज्ञानस्वरूपासिद्धिः पराम्रष्टुमयोग्यत्वान्न स्मर्यते ज्ञानाभावः । किं तु ज्ञानविरोधिनो भावा ज्ञानस्यानुभूततया स्मर्यमाणस्यानुपपत्त्यैव प्रमीयते ज्ञानाभावोऽपी त्यङ्गीकार्यमिति । तदसत् । सर्वाभावस्मरणान्न किञ्चिदवेदिषमिति । नन्वभावस्यानुभूतत्वे तदानीं तत एवानुभवित्रादिविकल्पसद्भावप्रसङ्गः । ततश्च सुषुप्तित्वोच्छेदश्च स्यात् । तस्याननुभूतत्वे वा कथं स्मरणमिति चेत् । अत्रोच्यते सर्वाभावोऽनुभूयत इति कोऽर्थ इति विचारणीयमस्ति । न तावत् सर्वाभावो नाम कश्चित्पदार्थः शक्याभ्युपगमः । तदनुभवितुर्हि सत्त्वे न सर्वाभावः । असत्त्वे च निस्साक्षिकस्य तादृशाभावस्यैवासिद्धिः । न चास्ति तादृशाभावेऽनुमानस्य प्रवृत्तिः । तस्मादनुभवितुः स्वरूपे सिद्धे सत्यनुभाव्यो नासीदित्येवार्थः परामर्शवाक्यस्य । अन्यथा भावरूपो धर्म एव कश्चिदभ्युपगम्येत चेत् सुषुप्तात्मनि प्रबुद्धात्मनि चाज्ञानमिति, तदा तस्मिन् विक्रियाप्युपररीक्रियेतेत्यपराद्धान्तः स्यात् । नन्ववस्थाविशेषो व्यावहारिक इष्यत एवास्माभिः, कथं तावता सिद्धान्तोपरोध इति ? न । व्यावहारिकातिरिक्तायाः परमार्थसत्ताया दुर्भणत्वाद्भवन्मते तात्त्विक एव स्याद्विकारः । स चानिष्टो निर्विकारात्मवादिनः । एतेनेदमप्यपास्तम् - न भावरूपिण्येवाविद्या वस्तुतः । शशशृङ्गादिवत्तुच्छताव्यावृत्त्यर्थमेव तु भावत्ववाचोयुक्तिः, ततो नैष दोष इति । तुच्छव्यावृत्ताया अपि तस्या अपारमार्थिकत्वासिद्धेः । या ह्यविद्या भावविलक्षणाङ्गीक्रियते, साप्यव स्थात्रयेऽपि दण्डायमाना जीवन्मुक्तेष्वपि विद्यमानांशा इत्येव स्वीक्रियते ।

२६. धर्म्यसिद्धिः प्रतिज्ञायां हेतुश्चानाश्रयो भवेत् । न चास्ति कश्चिदृष्टान्तः सर्वशून्यत्ववादिनः ।।

बृ. वा. १-२-२१

३४

मूलाविद्यानिरासः

(द्वितीयः तथा च ज्ञानेन तन्निवारणस्य पूर्ववदुर्भणत्वात्, तस्या अप्यपारमार्थिकत्वं न सेद्धमर्हतीति भाववैलक्षण्याभ्युपगमो वृथा प्रयासकर एव स्यात् । तस्माज्जागरस्वापतुलनायां यथा जागरे प्रमातृविषयादिकमनुभूयते तथा सुषुप्तौ नासीदित्येव पराम्रष्टुरभिप्राय इति गम्यते ॥

२८. प्रतियोगिज्ञानं नापेक्षितमभावज्ञाने सर्वत्र - यत्तूच्यते प्रतियोगि ज्ञानमन्तरा न शक्योऽभावानुभव इति । तदसत्, दृष्टान्तभावाद्विपक्षेऽपि । यथा - इह समाजे नास्ति कश्चिदेस्किमो नामा विदेशीयो जन इति केनाप्युक्ते सत्याजन्मनोऽप्यदृष्टचरतादृशजनोऽपि व्युत्पित्सुर्यदि जानीते सभ्यास्सर्वे कार्णाटिका इति निस्संशयम्, तदा स्यादेवास्यापि पुरुषस्या नाकलितप्रतियोगिनोऽपि तादृशविलक्षणजनाभावज्ञानम् । तस्मान्नेदं तन्त्रं यत् प्रतियोगिज्ञानमवश्यमेवापेक्ष्यतेऽभावज्ञान इति । स्यादेतत् - ज्ञाततया ज्ञाततया वा प्रतियोगी ज्ञानविषय एव भवति सर्वत्राभावज्ञाने । अत्र चाज्ञाततया ज्ञानविषयो भवति खल्वेस्किमो जन इत्यदोष इति । हन्त तर्हि न परमभावज्ञाने क्व तर्हि भावज्ञानेऽपि सर्वत्र प्रकृतविषयव्यावृत्तस्य कस्यचिज्ज्ञानमपेक्ष्यत एव ज्ञाततयाऽज्ञाततया वा। कस्यचिदप्यन्य विषयस्याज्ञाने हि ज्ञानमेव नोदीयादिति केन सङ्गत स्यात्प्रतिज्ञानम् - अभावज्ञानं सर्वत्र प्रतियोग्यनुभवमाकाङ्क्षत इति ? एतेन - जागरितेऽपि मामहं न जानामीति प्रतिभासो नाभावविषयकः, प्रतियोगिभूतज्ञानस्य धर्मिणश्चात्मनो ज्ञातत्वे तत्रैवाभावासङ्गते । अज्ञातत्वे तु तयोस्तदपेक्ष स्याभावज्ञानस्य तत एव प्राप्त्यभावात् - इति यदाशङ्कितम्, तदपि प्रत्याख्यातं भवति । अत एवोक्तविधयाऽभावज्ञनस्य प्रतियोग्यपेक्षा

खण्ड:)

भावाज्ञानस्वरूपासिद्धिः

३५ हीनत्वात्, यद्विषये कदापि ज्ञानं न भविष्यति तत्रापि न जानामीति व्यवहतिरुपपद्यते ।।

२९. अननुभूतस्यापि स्मरणमस्ति - यच्चोच्यते स्मरणमनुभूतपूर्वस्यै वेति, नायमप्येकान्तः । यावता स्वप्ने सहस्रशः स्मृतय उद्भाव्यन्ते, न तु तेषां विषयाः सर्वेऽनुभूतचरा एव । ननु जाग्रदवस्थादृष्टसजातीयमेव स्वप्ने स्मर्यते न विजातीयम् । निद्रादोषात्तु विषयाणामन्यथान्यथा सम्बन्धनं भवति । तद्यथा - स्वप्ने कश्चित्पश्यति स्वशिरश्छिन्नं स्वहस्ते निक्षिप्तम् । अत्र यद्यपि स्वशिरः स्वेनैव द्रष्टुं न शक्यते न वा स्मरणार्हो हस्ते निक्षेपः, तस्य पूर्वानुभवाभावात् । तथापि शिरश्छेदो हस्ते निक्षेपश्चेत्येतादृशाः प्रत्येकमनुभूतपूर्वा एव जागरे । तांश्च निद्रादोषात्कथञ्चित् सम्बध्य तथा पश्यति स्वप्नदृक् । एतेनाननुभूतपूर्वाभासाः सर्वा अपि स्मृतयो व्याख्याता वेदितव्याः । एवं चावश्यं भाविनी व्याप्तिः - सर्वापि स्मृतिरनुभूतपूर्वविषयिण्येवेतीति । नेत्युच्यते । जागरेऽननुभूतस्यापि शीर्षच्छेदहस्तनिक्षेपसम्बन्धस्य त्वयैवोद्घाटितत्वात् । न हि संश्लेषोऽनुभूत पूर्वः, अथ च स्मर्यते । ननु संश्लेषो न स्मर्यते ? न, कदाचिदेवमपि स्मरणसम्भवे बाधकाभावात् । “अहं पुरा मम मस्तकं छातं ममैव पाणौ न्यस्तं चाद्राक्षमिति स्वप्ने जायेतैव क्वचित्स्मृतिः, मिथ्याभूताया इत्थमेव भाव्यमिति नियन्तुमशक्यत्वात् । यद्युच्येत - स्वप्ने स्मृतिरेव तावन्न सम्भवति । सर्वविधस्यापि स्वप्रस्य केवलं जाग्रद्वासनामयत्वात् २७. दृष्टानुभूतमप्यर्थं कदाचिद्विस्मरत्यलम् ।

कदाचिदप्यदृष्टं तु चेतः पश्यति दृष्टवत् ।।

यो. ४-४७-३१.

मूलाविद्यानिरासः

(द्वितीयः तत्रानुभूतेरेवानवकाशात् । अनुभूति विना तु न स्मृतिरित्यतो वर्णितं ज्ञानं विभ्रममात्रमिति । तत्रानुभूतिं विना न स्मृतिरिति नियमस्याद्याप्यसिद्धतया तद्बन स्वप्ने स्मृत्यभावसाधनानुपपत्तेः स्वप्रे स्मृतिरूपज्ञानस्य सार्व लौकिकानुभवसिद्धस्य प्रतिज्ञामात्रेणोपलापो न युक्तः । अपि च जाग्रत्स्वप्रयोर्भदे स्वप्रस्य च वासनामयत्वे च निश्चिते खलुजाग्रत्यनुभूतमेव स्वप्ने स्मर्यत इति नियमः शक्यप्रतिज्ञः । तदेव तु निरसिष्यतेऽनुपदम् । ततश्च नियमभङ्गस्तदवस्थः ॥

३०. ज्ञानाभावस्यापि नानुभव: सुषुसौ - तस्मात् अभावज्ञानस्य प्रतियोगिप्रतिभानसापेक्षत्वं स्मरणस्य चानुभूतपूर्वविषयत्वं चेति हेतुद्वयमनैकान्तिकम् । अतश्च सुप्तप्रबुद्धपरामर्शाद्भावाज्ञानानुमानं नवीनानामविद्धमार्गानुसरणनिदानमिति सिद्धम् । अस्तु वा तवयमपि निर्दुष्टम् । तथापि न भावाज्ञानं सिध्यति सुषुप्तौ । कुत एतत् ? अज्ञानस्य भवदभिमतस्य ज्ञानविरोधित्वेनैवाङ्गीकारात् तत्र विरोधनिरूपकज्ञानस्य ज्ञातत्वेऽज्ञातत्वे वा अभावाज्ञानपक्षे य आपादितो व्याघातः स एव स्यात्, नत्वभिमतसिद्धिः । यत्तु भावाज्ञानं प्रमाणवृत्तिनिवर्यं न तु साक्षिनिवर्त्यम् । विरोधनिरूपकज्ञानस्येव तस्यापि साक्षिवेद्यत्वात्, अतो न दोष इति । तत्र साक्षिवेद्यत्वस्य सर्वसम्प्रतिपत्त्यभावात् प्रमाणवृत्ति निवर्त्यत्वस्य चाऽद्याप्यसिद्धेः, उक्तदोषादनिस्तारः । एवं स्मरणस्यानुभूत विषयत्वाङ्गीकारेऽपि नेष्टसिद्धिः । किञ्च ज्ञानाभावप्रमित्यर्थं किल भवतोपन्यस्तं भावाज्ञानस्य स्मर्यमाणत्वान्यथानुपपत्तिरूपं प्रमाणमड़ी करणीयम् । न तु वयं सुषुप्तौ ज्ञानाभावस्य तदन्यस्य वा कस्यचिदप्यनुभवं प्रतिजानीमहे । प्रत्युत तत्र विशेषानुभवोऽशक्य एवेति ब्रूमः । तस्माद्भाव

खण्डः )

भावाज्ञानस्वरूपासिद्धिः स्याभावस्य वा कस्यचिदप्यनुभवस्यानभ्युपगमात् कथं सिद्धवदानीयेतेह भावाज्ञानम् ? न च - “न किञ्चिदवेदिषमि"ति स्मरणस्यानुभूतपूर्व विषयकत्वे मानाभावस्य त्वयैव दर्शितत्वात् तद्बलेन न किञ्चिदपि से मर्हति । तथा च सुषुप्तौ सर्वविषयाभावः कथं प्रमीयताम् - इत्याशङ्कयम् । तत्रापि तात्पर्याभावात् । न हि वयं न किञ्चिदवेदिषमिति स्मृतिबलादेव सुषुप्ते विषयाभावं ब्रूमः । कथं तर्हि विषयानुपलब्धेः कस्या अप्युपलब्धेरनवकाशत्वाच्च तत्र तथेति । त्वदभ्युपगमरीत्या तु स्मरणमङ्गीकृत्य त्वं बोध्यसे - दृष्टार्थविषया चेत् स्मृतिः, तर्हि न वैषम्येन भाव्यं दृष्टस्मृत्योः । न किञ्चिदवेदिषमिति स्मृतिमभ्युपगच्छसि, तथा च सर्वाग्रहणमेव पूर्वरूपं सिध्यति, न भावाज्ञानग्रहणमिति ॥

३१. न किञ्चिदज्ञासिषमित्यस्य सुषुप्तिविषयकस्मरणत्वाभावे युक्तिः - किं चान्यत् स्मरणमनुभूतपूर्वविषयकमिति यत्र यत्र ज्ञातं तस्य सर्वस्यापि स्थानस्य विषयविषयिभावानुभवानुकूलत्वमेव दृष्टम् । न तु तद्विपरीतं क्वचिन्निर्वर्णितम् । तथा च दृष्टसामान्यादनुमास्यतः कथमकस्माद्वि सजातीयभूमावप्यनुमा सम्भवति ? अन्यथा चक्षू रूपग्राहकमिति कृत्वा सर्वमपीन्द्रियत्वसाम्यात्तद्भिन्नमिन्द्रियं रूपग्राहकमेव भवितुमर्हतीति कस्मान्नानुमिनुयाः ? तस्मान्न किञ्चिदज्ञासिषमिति न सुषुप्तिगविषयं स्मरणम्, न वा तस्य स्मरणत्वेऽपि तथाभूतानुभवपूर्वकत्वं युक्तिसिद्धम् । सुषुप्त्यनुभवविरुद्धं च तत् स्मरणाभासमिति कथञ्चिन्नेयमन्यथा, न तु भावाज्ञानकल्पकत्वेनेति सिद्धम् ॥

३८

मूलाविद्यानिरासः

(द्वितीयः जागरितप्रपञ्चोपलम्भार्थं न भावाज्ञानमङ्गीकार्यम् ३२. जाग्रत्स्वप्नयोः कार्यकारणभावो नास्ति - स्यादेतत् - स्वप्रस्य वासनामयत्वाज्जाग्रद्भिन्नत्वं तावत् स्पष्टम् । तथा च यद्यपि स्वप्रप्रपञ्चस्य जाग्रत्प्रपञ्चवासनारूपकारणं विद्यते । तथापि सुषुप्तावभावतां गतस्य जागरितप्रपञ्चस्य पुनरुद्भवे कारणं नास्ति तस्य - यन्मते भावाज्ञानं नाङ्गीक्रियते । भवितव्यं तु तेन, अन्यथा निर्लेपमभावतां गतः प्रपञ्चः पुनरपि निष्कारणमेव समुत्पततीत्यापद्येत । तस्माज्जागरितप्रपञ्चस्य पुनरुदये हेतोरभावो मा प्रसञ्जीत्यतः सुषुप्तावभ्युपगन्तव्यमज्ञानमिति । अत्र भवान् प्रष्टव्यः - जागरितवासनानिमित्त एव स्वप इति कथमध्यव सितोऽसीति ? । यधुच्येत - स्वप्राः खलु यथा दृश्यन्तेऽन्यथान्यथा न तथा जागरितानीत्येकरूपतालिङ्गान्निश्चीयते जाग्रदवस्थायास्तथात्वम् । जाग्रदृष्टसजातीयविषयानेव तु स्वप्नदृक् पश्यतीत्यतोऽवगम्यते स्वप्रस्य जाग्रत्कार्यत्वमिति । तदा भवति प्रश्न: - कदावधार्यते स्वप्रस्य चलत्वम्? किं स्वप्नानुभवकाले कालान्तरे वेति । किञ्चातः ? एतत्ततो भवति - यदि स्वप्रवेलायामेव स्वप्रोऽत्यन्तचल इति निश्चयो यथा जागरितं स्थिरमिति जागरितकाले, तदा स्यादपि पृथग्जातीयत्वं तयोः । अथ स्वप्रसमनन्तरभाविन्यामवस्थायां प्रतिपद्यसे तच्चलत्वम्, तदानुभवकाले स्थास्नुत्वबुद्धिः सदृशैवोभयोरिति किं केन सङ्गतम्? देशकालनिमित्त

२८. ननु स्वप्ने दृष्टाः प्रतिबुद्धस्यानृता भवन्ति विषयाः ? सत्यमेव, जाग्रदोधापेक्षं तु तदनृतत्वं न स्वतः । तथा स्वप्रबोधापेक्षं च जाग्रदृष्टविषयानृतत्वं न स्वतः ॥ छां. भा. ८-५-४

खण्ड:) जागरितप्रपञ्चोपलम्भार्थं न भावाज्ञानमङ्गीकार्यम् ३९ सम्पत्तिश्च तत्तदवस्थोचिता विद्यत एवोभयत्रापि । यत्सत्यं जाग्रत्त्वेनाभि मतायामवस्थायां विद्यमाना देहेन्द्रियबुद्धिमनआदयो न त एव२९ भवितुमर्हन्ति स्वप्नत्वेन विज्ञायमानायामप्यवस्थायाम् । अन्यथा हि तयोरन्यतरस्यां विद्यमानानां तेषामपरस्यामपि सप्रयोजनता स्यात्, न तु तदस्तीति । तथापि नैव तयोरवस्थयो कार्यकारणभावो” अभ्युपगन्तु

शक्यते । न हि विद्यमानादसतः सम्भवोऽभ्युपगम्यते केनचित् । जागरितं विद्यमानं स्थिरमित्युक्तं भवता । स्वप्रश्च चलो मिथ्यास्वरूपः । तत्र कथं विद्यमानाज्जागरितादविद्यमानं स्वप्रदर्शनमुत्पतेत् ? न चाविद्यमानात्र स्वप्नादेव जागरितमुत्पत्तुमर्हति । एवमुररीकृत्यापि जागृतेः स्थेयस्त्वं न सिध्यति जाग्रत्स्वप्रयोः कार्यकारणभावः ॥

३३. जागृतेः स्थिरत्वं नोपपन्नम् - न चार्हति स्थिरं भवितुं जागरितम् । नन्वनुभूयते स्थिरत्वं जागरितस्य सर्वेणापि ? इदमेव मे गृहमिदमेव क्षेत्रमिमे एव च पुत्रमित्रादयो ह्योऽप्यासन् श्वोऽपि भविष्यन्तीति कृत्वा खलु सर्वः प्रवर्तते - इदमद्य मया लब्धमिमं प्राप्स्ये पुनरिति । यदि तु २९. स्वप्रे चावस्तुकः कायः पृथगन्यस्य दर्शनात् । यथा कायस्तथा सर्वं चित्तदृश्यमवस्तुकम् ।।

मां का ४-३६ ३०. कार्यकारणाभावः इति प्रथममुद्रणे ।। ३१. जाग्रत्स्वप्रयोरसतोरपि कार्यकारणभावशङ्कामपनयन्नाह ।। मां. का. भा. ४-४१ ३२. नास्त्यसद्धेतुकमसत्सदसद्धेतुकं तथा । सच्च सद्धेतुकं नास्ति सद्धेतुकमसत् कुतः ।। मां. का. ४-४० । यदपि मन्यसे जागरितात् सतः असन् स्वप्रो जायत इति, तदसत् । न भूताद्विद्यमानादभूत स्यासतः सम्भवोऽस्ति लोके ।। मां. का. भा. ४-३८

मूलाविद्यानिरास:

__ (द्वितीयः व्याहन्येत स्थिरत्वबुद्धिः सर्वत्रापि जाग्रद्विषये, ततो न केवलं लौकिक प्रवृत्त्यनुपपत्तिः सर्वशास्त्रोपदेशश्रवणादिप्रवृत्तयोऽपि व्यर्था भवेयुरस्थिरत्व निश्चयात् सर्वस्येति । अत्रोच्यते । नास्माभिरभिप्रेयते स्थैर्यबुद्धिर्जागरे नास्तीति, कथं पुनः, स्थिरत्वं न पारमार्थिकमिति । सर्वा हि प्रवृत्तयः प्रपञ्चे स्थास्नुत्वबुद्धिमात्रनिबन्धना न तु पारमार्थिकमपि स्थमानमपेक्षन्त इति का हानिर्व्यवहारस्य ? स्यादेतत् - यद्यपि स्थिरत्वबुद्ध्या प्रवृत्तिरवकल्पते, तथापि प्रवृत्तेर्व्यर्थता तदवस्था । न हि मनोरथकल्पितेन भोजनेन कस्यापि तृप्तिरुदीयादिति । तन्न । कस्मात् ? यथा हेतु: सत्यत्वबुद्ध्यैव गृह्यते, तथैव फलमपीति हेतुफलक्रियाकारकादि सत्यत्वबुद्धौ स्थितायां न केनचित् प्रवृत्तिवैफल्यं शङ्कितुं शक्यते । तस्मात् स्थिरत्वबुद्धिरस्ति जागरे स्थिरत्वं तु वितथमिति स्थितम् ।।

यत्तूच्यते - स्थिरत्वमेवानुभूयते, इदमेव वस्तु ह्योऽनुभूतवानहमिति प्रत्ययदर्शनादिति । अत्र भवति प्रश्न - स्वप्रेजागरिते च विषयप्रत्यभिज्ञाने समाने” सति स्वप्नवस्तूनां तदनुभवानां च मिथ्यात्वमुपेत्य जागरितवस्तूनां परं स्थिरत्वं सङ्गिरमाणस्यानुपपत्तिग्रस्तत्वं कथं न भवेदिति । ननु तथापि स्वप्नप्रत्यभिज्ञा बाध्यते न जाग्रत्प्रत्यभिज्ञा ? बाढम्, तथापि तत्काले

३३. अतो हेतुकल्पनाविज्ञानात् फलविज्ञानम्, ततो हेतुफलस्मृतिः, ततस्तद्विज्ञानं तदर्थक्रिया कारकतत्फलभेदविज्ञानानि, तेभ्यस्तत्स्मृतिः, तत्स्मृतेश्च पुनः तद्विज्ञानानीत्येवं बाह्याना ध्यात्मिकांश्चेतरेतरनिमित्तनैमित्तिकभावेनानेकधा कल्पयते ।। मां. का. भा. २-१६ ३४. ननु…………अत्यन्तचलो हि स्वप्नो जागरितं तु स्थिरं लक्ष्यते ? सत्यमेवमविवेकिनां स्यात् ।। मां. का. भा. ४-३८ ३५. विशेषाकारमात्रं तु सर्वेषां मिथ्याप्रत्ययनिमित्तम् ।। छां. भा. ८-५-४

खण्ड:) जागरितप्रपञ्चोपलम्भार्थं न भावाज्ञानमङ्गीकार्यम्

४१ बाध्यत्वाभावस्तु समान एवोभयत्र । अन्यथा स्वप्नकाल एव बाध्यत्वे तदात्व एव स्वप्रमतिरुत्पद्यतेति स्वप्नत्वमेव तस्याः स्थितेविहन्येत । इदमेव हि स्वप्नत्वं नाम स्वप्नस्य यत् स्वकाले बाध्यत्वेनानवभासमानत्वमथ चानन्तरप्रत्ययबाध्यत्वम् । तस्मात् सर्वापि दृश्यानुभवस्मृतिप्रत्यभिज्ञा क्षेत्रभूतास्थितिस्तत्काले तत्तत्स्थास्नुत्वविचारे सति स्थास्नुत्वबुद्ध्यैव गृह्यते । समनन्तरेण त्वनुभवेन बाध्यमाना चलेत्यध्यवसीयते । यद्यपि यथा स्वपोऽद्यतनजागरिते मिथ्येत्यध्यवसीयते तथाद्यतनजागरितस्य बाधो न कुत्राप्यनुभूयत इति वैलक्षण्यमिव भवति स्वप्राद्यतनजागरितयोः । तथापि मिथ्यात्वेनाध्यवसितस्वप्नोऽपि तत्काले जागरितत्वेन तत्पूर्वतन स्वप्नविलक्षणत्वेन कुत्राप्यवस्थायामबाध्यत्वेन चाभासिष्टेति नैव प्रस्मर्तव्यम् । तदेवं नास्ति स्थिरत्वं जागृतेः । कुतः पुनः कार्यकारणभावो जागरितस्वप्रयोः ?

३४. जागरितस्वप्रयोः बाह्यत्वमानसत्वकृतभिदा नास्ति - ननु च जागरितानुभाव्यो विषयः केवलं मानसो न भवति, कस्तर्हि, बाह्योऽपि । न हि जागरिते गृहादिकमनुभूयमानं नास्ति बहिरपि, यथा स्वप्ने दृश्यजातं बहिरुपलभ्यमानमिवात्मानं दर्शयदपि मनस्येव कल्पितं वर्तते । स्वने यः संवादो नाम वस्तुन एकत्वे स आभासमात्रः, मानसत्वात् तद्वस्तुनः । तत्र प्रत्यभिज्ञातृणां पुरुषाणामपि स्वप्रदृग्भिन्नानां तथात्वाच्च । अन्यथा हि स्वप्रदृग्यदा प्रतिबुध्यते तदा तेन समं तेऽपि प्रतिबुध्येरन्निति । जागरिते तु प्रतिपुरुषमेकधैवोपलभ्यमानं, न परं मनसि, कुत्र तर्हि बहिरपि सर्वैरविशेषाकारेण विज्ञायमानं सत् कथं स्वाप्नवस्तुसाम्यमात्मनः

मूलाविद्यानिरासः

(द्वितीयः समासादयेत् ? तस्मात् समानेऽपि प्रत्यभिज्ञासंवादादिके मानसत्वबाह्यत्व कृतो विशेषो व्यावर्तयति जागरितं स्वप्रात् । बाह्यत्वादेव जागरितस्य सत्यत्वम्, मानसत्वाच्च स्वप्नस्य तद्वासनाजन्यत्वमिति तयोरवस्थयो? सम्बन्धोऽपि न दुर्घट इवेति चेत् । मैवम्, कल्पितत्वविशेषात् । यदि बाह्यं यदि वा मानसं तदुभयमपि कल्पितमेव, स्वप्रेऽपि तादृशविभागस्य विद्यमानत्वात् । येन हि न्यायेन स्वप्रविषयाणां मानसत्वमङ्गीक्रियते, स एव जागरितवस्तूनामपि तथात्वमानयति । यथा हि स्वप्रदृग्विषया जागरिते नानुभूयन्ते तथा जाग्रद्विषया अपि स्वप्ने, अतो नास्त्यत्र किमपि वैषम्यम् । तस्माज्जडवाक्यमिदं मानसत्वाज्जागरितजन्यत्वं स्वप्नस्येति । वार्तमानिकत्वेन विभाव्यमानः सर्वोऽपि ह्यनुभवो भूतभाविपारम्परी तत्सध्रीची स्वप्ने जागरिते च सममेव प्रत्युपस्थापयति । कालत्रयबुद्ध्युप रक्तं सर्वमप्युभयोरवस्थयोर्मानसमेवोक्तदिशेति नैवास्ति विशेषः ।।

३५. स्थिरत्वानुभवाभासपरीष्टिः - अपि च मृषैवोच्यते स्थिरत्वमनु भूयते जागरितविषयस्येति । तथा हि.- इदमेव वस्तु ह्योऽन्वभूवमित्यत्र ह्योऽनुभूतं वस्तु स्मृतिमात्रे वर्तते, न त्वनुभूयते यथाद्यतनं प्रत्यक्षविषयं वस्तु । तयोरेतयोरेकत्वेन प्रत्यभिज्ञा व्यवहारे यद्यप्युपयोगिनी, तथापि तत्त्वपरीक्षायां साध्वीति नावकल्पते, उपष्टम्भकानुभवाभावात् । तस्मान्न

३६. चित्तकाला हि येऽन्तस्तु द्वयकालश्च ये बहिः । कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः ।। मां. का. २-१४ ३७. बाह्या एव मानसा मानसा एव च बाह्याः ॥ छां. भा. ८-५-४ ३८. निमेषं प्रति यामिन्यां यथान्यस्वप्नदृष्टयः । क्षणोत्पत्तिविनाश्न्यिस्तथैता लोकदृष्टयः ॥ यो. ५-७७-३७खण्डः ) जागरितप्रपञ्चोपलम्भार्थं न भावाज्ञानमङ्गीकार्यम् प्रत्यक्षतोऽनुभूतं वस्तुनः स्थैर्यम्, अपि तु स्वानुभवविवेचनासमर्थन्तैिरेवर लौकिकैस्तथा निश्चितमिति सिद्धम् । न हि स एवायं प्रपञ्च इति प्रमितौ प्रत्यभिज्ञापकः प्रपञ्च एव भवितमर्हति । यदि नाम प्रपञ्चोऽय मभविष्यत् सन्ततो वस्तुसंस्तदापि तस्य तथात्वे प्रत्यभिज्ञापकान्तर मपैक्षिष्यतैव, प्रपञ्चस्य स्वयंस्फुरणत्वाभावात् । न च न विच्छिद्यते प्रपञ्चसन्तानः, जागरितातिरिक्तावस्थायामत्यन्तमविद्यमानत्वात् । न चात्मा स्वयं तस्य प्रत्यभिज्ञाता, उक्तहेतोरेव । न हि तस्योच्छेदस्य द्रष्टा सन् स्वयमेव तदैक्यमपि विश्वसिति तदुपनायकानुभवाभावेऽपि । न चास्ति वस्त्वन्तरमात्मानात्मभ्यां व्यतिरिक्तम्, यत् स्यादभिज्ञापकमेकत्वस्य तस्मान्नास्ति प्रत्यभिज्ञानं प्रपञ्चस्य । यत्पुनराशङ्कयते स्वाप्रप्रत्यभिज्ञातारो मानसा इति युज्यतेऽवस्थायां तत्र प्रत्यभिज्ञाया मृषात्वमिति । तदुक्तोत्तरम्, जागरितप्रत्यभिज्ञातृणामपि तुल्यन्यायेन मानसत्वाविशेष इति । तस्मात्स्वप्ने प्रत्यभिज्ञानं स्वप्रदृश एव, जागरिते तु सर्वेषामपीत्येतदप्यसारम् । तदेवं स्थिरत्वानुभूतेराभासमात्रत्वान्नैतदुपपन्नं स्थिरत्वानेडनात्सर्वेषामपि जागरितप्रपञ्चः स्थिर इति ॥

एवं प्रध्वस्ते जागरितस्थिरत्ववादे स्वप्रजागरितयोर्भेदो न केनापि प्रदर्शयितुं शक्यते । मिथ्याप्रतीतिरूपत्वात् तत्काले स्थिरत्वबुद्धि समुत्पादकत्वसाम्यात्, जागरितबुद्ध्युपरक्तत्वेपि तथात्वे हेतोरभावा च्चोभयोरपि स्वप्रत्वमेव युक्तमास्थातुम् । तदेवं स्वप्रत्वसाम्यादुभयो

३९. तस्मात्स्वप्रे मृषाध्यारोपिता एवात्मभूतत्वेन लोका अविद्यमाना एव सन्तः तथा जागरितेऽपीति प्रत्येतव्यम् । बृ. भा. २-१-१८

४४

मूलाविद्यानिरासः

(द्वितीयः रप्यवस्थयोरपरस्परकारणत्वमेव युक्तं प्रतिपत्तुम् । तथा च यथा स्वप्न प्रपञ्चोऽनपेक्ष्यैव कारणं कल्पितकारणसापेक्ष वा जायते, तथैव जाग्रत्त्वेनाभिमतोऽपि प्रपञ्च इति न तस्य भावरूपाज्ञानोदीक्षा विद्यते । तस्मात्तदर्थमपि न कल्पनीयमज्ञानं सुषुप्तौ ।।

३६. स्वप्नादुत्थितिर्यथा, तथा सुप्तोत्थितिरप्यज्ञानं विना प्रकल्पते - इतश्च न कल्पनीयं भवत्यज्ञानम् । स्वप्रे तावन्न विद्यते जाग्रत्प्रपञ्चः । एवं च यथा स्थित्यन्तरत्वेऽपि स्वप्रस्य तत्राविद्यमानं प्रपञ्चं ततः प्रबुद्धः पश्यति, तथैव सुप्तोत्थितोऽपि द्रक्ष्यतीति किं तादृशाज्ञानकल्पनेन ? ननु स्वप्रेऽप्यज्ञानं विद्यत एव । कथं स्यादृष्टान्तादानम् ? मैवम्, मिथ्या ज्ञानादित्रितयव्यतिरिक्तस्य तस्य तत्राननुभवात्, तत्कल्पनाया अन्याय्य त्वान्निष्फलत्वाच्च । अपि च यदि नाम विद्यते स्वप्ने अज्ञानं कथमेतावता प्रबुद्धस्य जागरप्रपञ्चप्रतीतिः सम्भवेत् ? न हि जाग्रत्प्रपञ्चोऽपि स्वप्ने विद्यत इति युक्तम् । न च स्वाप्नमज्ञानं जाग्रत्प्रपञ्चकारणम्, वैपरीत्यस्यापि शक्यशङ्कत्वात् । दर्शितश्च प्राक् स्वप्रजागरितयोः कार्यकारणभावाभावः । न च स्वानाज्ञाननाशे जागरिताज्ञानस्यात्मलाभे च निमित्तं विद्यते । तदेवं नास्ति स्वप्नात्प्रबोधे प्रबुद्धस्य च जागरितप्रपञ्चप्रतीतौ वा कारणं यदा स्वप्रकल्पकाद्भिन्नं जाग्रव्यवहारकल्पकमज्ञानम् । यदा पुनः स्वप्ने जागरिते च वर्तमानमज्ञानमेकमेव, तदा स्वप्रजागरितयोरेकाज्ञानकार्यत्वाद्भिन्न प्रपञ्चप्रतीतौ हेतुरेव न स्यादिति महदनिष्टम् । न ह्यज्ञानमेव निमित्तान्तर ४०. स्वप्ने विपर्यासात् हस्त्यादीन् धर्मान् पश्यन्निव विकल्पयति । तत्रैव पश्यति न तु जागरितादुत्पद्यमानान् ।। मां. का. भा. ४-४१ ४१. जन्म मायोपमं तेषां सा च माया न विद्यते ।। मां. का. ४-५८

खण्ड:) जागरितप्रपञ्चोपलम्भार्थं न भावाज्ञानमङ्गीकार्यम् मनपेक्ष्य स्वाप्रप्रपञ्चं समुपसंहृत्य जाग्रत्प्रपञ्चात्मना अकस्मात्परिणमत इति शक्यमुत्प्रेक्षितुम्, स्वभाववादप्रधानवादान्यतरसाङ्कर्यप्रसङ्गात् । स्वप्रकल्पकाज्ञानानिवृत्तावपि स्वप्रबाधाङ्गीकारे भावाज्ञानानिवृत्तावपि तत्त्वज्ञानेन सकलसंसारबाधाभ्युपगमप्रसङ्गाच्च । अथ मतम् - यद्यपि स्वप्रजागरितयोरेकमेवाज्ञानं तथापि तस्याकारभेदवत्ताभ्युपगमात् समनन्तरोक्तदोषो न प्रसरति । स्वप्रकल्पकाज्ञानाकारे निवृत्तेऽपि जागरितव्यवहारो नानुपपन्नः । तद्धत्वज्ञानाकारस्य तत्र सत्त्वादिति । तदप्ययुक्तम्, तत्तदाकारनिवृत्तौ हेतोर्मुग्यत्वात् । अज्ञाने सन्त्याकारभेदा इत्युपपादयितुमशक्यत्वाच्च । निरसिष्यते च स्वावसरे अज्ञानाकार

भेदवादः । तस्मादभ्युपगम्याप्यज्ञानं स्वप्ने जागरितप्रपञ्चोपलम्भ: स्वप्नादुत्थितस्य नैवोपपादयितुं शक्यते । तत्समीचीन एव दृष्टान्तः स्वप्नादुत्थित इव सुप्तोत्थितोऽपि जागरितप्रपञ्चं द्रक्ष्यतीति ।।

३७. स्वानवस्तूनां प्रातिभासिकत्वे विचारः - एतेनैतदपि प्रत्युक्तं यदाहुः केचित् - स्वप्रजागरितयोर्यद्यप्येकैवाविद्या तथाप्यागन्तुकदोष जन्यत्वं स्वप्ने विशेषः । आगन्तुकदोषजन्यत्वं च प्रातिभासिकत्वप्रयोजक मित्युपपद्यते स्वप्रस्य प्रातिभासिकत्वं जागरितस्य च केवलाविद्याकार्यस्य व्यावहारिकत्वम् । तदेवं प्रातिभासिकस्य स्वप्रस्य बाधे जागरितप्रपञ्चो पलम्भो युज्यत एव । अत एव जागरितेऽपि प्रातिभासिकानां शुक्ति रजतादीनां बाधे न जाग्रत्प्रपञ्चस्य सकलस्य बाधः, दोषसहिता विद्याजनितरजतनाशेऽप्यविद्यानाशाभावादिति । अविद्याव्यतिरिक्तस्य तादृशस्य दोषस्य स्वप्रमात्रसत्त्वे जाग्रत्वेनाभिमतावस्थायामसत्त्वे च

४६

मूलाविद्यानिरासः

(द्वितीयः मानाभावात् । तुल्यमेव ह्यभयोरप्यवस्थयोर्यत्तत्काले जाग्रत्त्वेनाभासमान त्वम् । न च स्वप्रकाले स्वपत्वं निद्रादोषजन्यत्वं वा तस्य समनुभूयत इति यत्किञ्चिदेतत् । यदैवमसम्भावनीयमागन्तुकदोषजन्यत्वं स्वप्नस्य, कथमिदं शक्यते निर्धारयितुं यत्स्वप्नघटादय एव प्रातिभासिकसन्तो जागरितघटादयस्तु व्यावहारिका एवेत्यविद्यापरिणामित्वाविशेषेऽपि ? न च मृदाद्यवयवमपेक्ष्यैव जागरितघटादिरुत्पद्यत इत्यस्ति वैषम्यं प्रातिभासिकवस्तुनः सकाशादिति युक्तम् । यावता स्वप्रेऽपि तात्कालि कोऽस्त्येव कश्चिदवयवः कार्यस्य । किञ्चैवं सुषुप्तावपि मूलाविद्यामङ्गी कुर्वतां तत्रावस्थायां प्रातिभासिककार्योत्पादो दुर्वार एव स्यात् । न च तत्र निमित्तकारणस्यान्तःकरणस्याभावान्नोत्पद्यते प्रातिभासिकं वस्त्विति साम्प्रतम् । यस्मादनुपदं वर्णयिष्यमाणरीत्या सुषुप्तौ निमित्ताभावे तस्य निमित्तस्य न कदाप्यात्मलाभस्तत्र स्यादिति सुषुप्तिस्थानादनुत्थानमेव प्रसजेत् ॥

३८. प्रातिभासिकेषु रूपभेदकल्पनं निष्प्रमाणकम् - एतेन जागरिते शुक्त्याद्यवच्छिन्नचैतन्याश्रिततूलाविद्यापरिणामो मिथ्यारजतादिः, न तु मूलाविद्यापरिणाम इति प्रातिभासिकेष्वेव केषाञ्चिन्मूलाविद्याकार्यत्वं केषाञ्चित्कार्याणां तु तूलाविद्याकार्यत्वं चाभ्युपयन्तोऽपि परास्ताः । सर्वदापि रजताद्युत्पत्तिप्रसङ्गात् । न च दोषसहकृततूलाविद्यापरिणामस्य सर्वत्राभावान्नोक्तप्रसङ्गः। सर्वत्र भ्रमज्ञाने दोषसद्भावस्यादर्शनात् । न हि व्योमादिषु तलमलवत्त्वाद्यध्यासे दोषाद्यपेक्षा विद्यते । न चाविद्यैव तत्र दोष इति वाच्यम्, शुक्त्यादिष्वपि तथैव स्यादिति सर्वदा सर्वेषामपि रजतादिविभ्रमः स्यादित्युक्तदोषानुषङ्गात् । किञ्च मूलाविद्यायामिव

खण्डः ) जागरितप्रपञ्चोपलम्भार्थं न भावाज्ञानमङ्गीकार्यम्

४७ तुलाविद्यायामपि नास्ति प्रमाणमिति सर्वमेतदभित्तिचित्रम् । परीक्ष्यते चेदं स्वावसर इत्यलमत्र प्रसङ्गागतचिन्तनेन ।।

तदेवं स्वप्रस्य प्रातिभासिकत्वे जागरितस्य च व्यावहारिकत्वे हेतोर निरूपणात् नास्त्येवमपि तयोरवस्थयो।लक्षण्यम् । तस्मात् साधूक्तं - यथा स्वप्नाजागरितं गतस्य जागरितप्रपञ्चोपलम्भनं तथैवानपेक्ष्य भावरूपाज्ञानं जागरितप्रपञ्चोपलम्भनमस्तु सुप्तोत्थितस्येति ।।

३९. भावाविद्याङ्गीकारेऽपि प्रकृतदोषोऽपरिहार्यः - अपि च भावाज्ञानाङ्गीकारेऽपि प्रपञ्चोपलम्भविचारो न निष्कण्टकः । तथा हि - सुषुप्तिः किं सनिमित्ताभ्युपगम्येत किं वा निर्निमित्ता? यदि निर्निमित्ता, सर्वस्यापि सर्वदा सुषुप्तिप्राप्तिः सुषुप्त्यभावो वा प्रसज्येत । न चैतदिष्टम् । सनिमित्तत्वकल्पे पुनस्तन्निमित्तं किमज्ञानमुतान्यदेवेति चिन्तनीयम् । अज्ञानमेव चेन्निमित्तम्, तदा सर्वदैव सुषुप्तिप्रसङ्गः सर्वस्यापि, मुख्यमुक्ति पर्यन्तं सर्वस्मिन्नपि पुरुषेऽनुज्झित्वा जीवन्मुक्तमप्यज्ञानानुवर्तनस्याभ्युप गमात् । अथान्यदेव निमित्तमज्ञानात्, तदा किं सुषुप्तावप्यनुवर्तते तदाहोस्विनेति विचार्यमाणो उभयथाप्यनिष्टं प्रसरति । कथम् ? यद्यनुवर्तते सुषुप्तेरविमोक्षप्रसङ्गः, यदि नानुवर्तते ततः कुतो न भवति निद्राभङ्ग इति । न च मन्तव्यम् - दण्डादिनिमित्तापायेऽपि घटादीनामनपायो दृष्टस्ततः कुचोद्यमेतदिति । यस्मान्निद्रावस्थापि घटवद्रव्यमिति नाभ्युपगम्यते येन तस्योपादाननिमित्तादीनां मृद्धटदण्डादिदृष्टान्तसाम्येन निरूपणं समञ्जसः स्यात् । अथवा पुनरस्तु कथञ्चिन्निमित्तलोपेऽपि निद्राया नास्ति विपरिलोप इति । तदापि दोष आवृणोत्येव प्रपञ्चोपलम्भने निमित्तभूतस्याज्ञानस्य

४८

मूलाविद्यानिरास:

(द्वितीयः सुषुप्तौ लब्धप्रसरत्वेऽपि तत्कार्यभूतः प्रपञ्चः कञ्चित्कालं नोदेतीत्यत्र हेत्वभावरूपः । ननु सत्यप्युपादानकारणे मृदादिके यथा दण्डाद्य भावाद्धटाधुपजनो न भवति, तथेहापि स्यादिति । न । कुतः ? सुषुप्तेः कदाप्यनपायप्रसङ्गात् । यदि हि तत्र प्रपञ्चाभिव्यक्तिनिमित्तं न विद्यते, तदा तत्कथमात्मानं कालान्तरेऽपि लब्धुमीशेत ? अथ स्यात् - संस्काररूपं कर्मजातमस्ति तत्रेति । यथा हि वटबीजे वृक्षोत्पत्त्यनुकूल शक्तिर्वर्तते तथाप्यविकलानां पृथिव्यादीनां जलसेकादिकर्मणां च साहाय्यमपेक्ष्यैव तस्मादकरो जायते नान्यथा, यथा च सत्यपिजलसेकादौ स्वकाल एव बीजादङ्कुरो निर्गच्छति न यदा कदा वा, एवमेवेहापि कर्मसंस्कारसाचिव्ये सत्यपि कञ्चित्कालं न व्यक्तो प्रपञ्चः स्वावसर एव तूपलभ्यत इति । अत्र पृच्छामः - येयं स्वकार्योन्मुखता संस्कारस्य, सा किं निमित्तेति ? ननु स्वाभाविकीयं कर्मसंस्कारदोहदाविद्याबीजस्य प्रवृत्तिस्ततो नात्र हेतुरन्वेष्टव्यः । नैतदेवम् । यस्मादविद्यामङ्गीकृत्यापि सर्वदा प्रपञ्चोपलम्भनमनुपलम्भनं वा प्रसज्यत इत्येतावदस्माभिरिह प्रदर्शितम् । न तु त्वयाद्यापि भावाविद्या प्रसाधिता तत्स्वभावो वा। तदेवं स्थिते – अविद्यास्वभावोऽयं यः प्रपञ्चरूपेण परिणाम इत्यसिद्धमुपजीव्यासिद्धामविद्यां सुप्तौ साधयन्तं कथं नोपहसेयुः प्रमाणविचक्षणा इति । न च दृष्टत्वान्नासिद्धिः । त्वदभिमताविद्या यास्तत्परिणामस्य वा कुत्राप्यदृष्टत्वात् । तदेवं यदि भावाविद्याङ्गीक्रियते सुषुप्तौ, न तावन्मात्रेण जागरितप्रपञ्चोपलम्भनं सूपपादं भवति । तदर्थं तस्याः प्रपञ्चाकारेण परिणतिः स्वभाव इत्यप्यभ्यधिकमङ्गीकार्यं भवति ।

खण्डः) जागरितप्रपञ्चोपलम्भार्थं न भावाज्ञानमङ्गीकार्यम्

४९ तनिष्प्रमाणकद्वयकल्पनाद्वरं प्रपञ्चोपलम्भनस्यैवान्यथोपपादनमिति नोपेयं भवति तदुपपादनार्थमपि सुषुप्तावज्ञानम् ।।

अपि च प्रपञ्चो नाम कार्यकारणसङ्घात इत्यपि वक्तुं शक्यते । न हि प्रपञ्चादन्यत्र कार्यकारणभावोऽस्तीति कल्पयितुं शक्यते मानाभावात् । न च कार्यकारणभावज्ञानमन्तरा प्रपञ्चपदार्थः शक्यविज्ञानः । सर्वत्रापि प्रपञ्चे तदुपलम्भात् । एवं स्थिते प्रपञ्चस्य केनचिदपि कारणेन भवितव्य मित्यङ्गीकार एवान्याय्यः । ततश्च प्रपञ्चोत्पत्तिकारणमज्ञानं सुषुप्तावनी कार्यमिति नावकल्पते । यथा हि कालस्योत्पत्त्यर्थं प्राक्कालो नाङ्गीकार्य: देशस्योत्पत्त्यर्थं वा देशः, तथा कारणप्रत्ययानुगतस्य प्रपञ्चस्य कारणान्तरं नाकाङ्क्षितव्यम्, स्वात्माश्रयणादिप्रसङ्गात् । न च कालाकाशादीनि नित्यानीत्यभ्युपगम्यन्ते वेदान्तिभिर्येन दृष्टान्तासिद्धिः शङ्कयेत । आत्म विवर्वमिष्यते हि कालादीनाम् । ननु भावाज्ञानमपि प्रपञ्चान्तर्गतमेव । तेन यद्यपि कार्यकारणसङ्घातरूपः प्रपञ्चः, तथापि प्रपञ्चान्तर्गतस्या ज्ञानस्य तदन्यकारणत्वं न विरुद्धम् । यदि ह्यज्ञानसहितस्य सकलस्य प्रपञ्चस्य कारणमन्विष्येत, तत उक्तोपालम्भः शोभेत । न त्वेतदन्विष्यते, अतो यत्किञ्चिदेतदिति चेत् । नैतदेवम् । अज्ञानस्य प्रपञ्चान्तर्गतत्वे तस्यापि कारणापेक्षापत्तेः । न चानादित्वान्नापेक्षा, अज्ञानानादित्वस्य गगनारविन्दसौरभ्यतुल्यत्वमिति प्रागुपपादितत्वात् । तस्मात्प्रपञ्चोत्पत्त्यर्थं कारणाज्ञानमभ्युपगन्तव्यमिति निर्बन्धो व्यर्थः ।।

४०. जागरितप्रपञ्चमिथ्यात्वाच्च तदुपलम्भोपपत्त्यर्थमज्ञानाङ्गी

४२. एतेन दिक्कालमनःपरमाण्वादीनां कार्यत्वं व्याख्यातम् । । सू. भा. २-३-७

मूलाविद्यानिरासः

(द्वितीयः कारानवश्यकता - अपरं च सुषुप्तौ यथा स्वप्रप्रपञ्चो विलीयते तथा जागरितप्रपञ्चोऽपीति स्थिते सुषुप्तिं त्यक्त्वा प्रपञ्चं पश्यतोऽयमेव जाग्रत्प्रपञ्च इति गमकं किमस्ति येनास्य मिथ्यास्वप्नविलक्षणत्वं प्रतिज्ञायेत? प्रपञ्चितं च प्रागेव जागरितस्य व्यावर्तकधर्मो न विद्यते येनायं स्वप्राद्विविच्य ज्ञायतेति । इत्थं स्वप्रजागरितप्रविवेको निरुपपत्तिको मिथ्याभूतस्वप्रतुल्यमेव तु जागरितं सर्वथेति फलितम् । तत्कथं नु मिथ्याकल्पितैर्जागरितवस्त्वाभासोपलम्भनैः सुषुप्ते भावाज्ञानं प्रमीयेत धूमाभासेनेव वह्निः ?

स्यादेतत् - न वयं जागरितप्रपञ्चोपलम्भनलिङ्गेन सौषुप्ताज्ञानं तत्कारणमनुमिनुमः । किं तु तदुपलम्भनान्यथानुपपत्तिः सुषुप्तेऽज्ञानं कल्पयतीति ब्रूमः । यथा हि शुक्त्यादौ रजताद्यर्थभानं तद्बाधश्च मिथ्यार्थावभासोपादानभूतमिथ्याज्ञानमन्तरा नोपपद्येते, प्रकृतेऽप्येवं जाग्रत्प्रपञ्चोपलम्भनमन्यथानुपपद्यमानं सत्सौषुप्ताज्ञानं तदुपादानमुप पादयतीति । तदेतदसारम्, मिथ्यावस्तुन उपादानादिकाङ्क्षाविरहात् । न हि कार्यकारणादिभावेन व्यवस्थितं वस्तु, अथ च मिथ्येत्युपपद्यते । स्फुटयिष्यते चेदमग्रे मिथ्यावभासनिरूपणे । तस्मात्सर्वथापि जागरिते प्रपञ्चप्रतीतिसिद्ध्यर्थं सुषुप्तावविद्या न स्वीकार्येति दिक् ॥

जीवब्रह्मविभागसिद्ध्यर्थं न मूलाविद्या स्वीकार्या

४१. सषप्तावपिजीवब्रह्मविभागः स्वीकरणीय इति पक्षः - अत्राह - यदेतदभिहितं जागरितस्य व्यावहारिकसत्त्वम्, स्वप्नस्य च प्रातिभासिकसत्त्वं नात्रास्माकमत्यन्तमाग्रहः, अधिकारिविशेषविषयत्वात्

खण्ड:) जीवब्रह्मविभागसिद्ध्यर्थं न मूलाविद्या स्वीकार्या प्रक्रियायाः । अधिकारिभेदकल्पिता हि प्रक्रियाभेदाः शास्त्राचार्यैरनूद्यन्ते । तत्र केचित् स्थूलबुद्धयो मन्यन्ते जागरितस्य स्वप्रतोऽधिकसत्ता न्याय्येति, तदनुसारेणेदं व्यावहारिकप्रातिभासिकसत्ताभेदवचनम् । वस्तुतस्तु सर्वस्यापि दृश्यजातस्य स्वप्रवत् प्रातिभासिकसत्त्वमेवेति युक्तम्, दृष्टिसृष्टत्वात् । सुप्तप्रबुद्धदृष्टिरेव हि सृष्टिः, सुषुप्तेऽदृष्टिश्च लयः । तथा च श्रुतिः - एवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे वेदाः (बृ. २-१-२०) इत्यादिका । स्मृतिश्च - अविद्यायोनयो भावाः सर्वेऽमी बुद्धदा इव । क्षणमुद्भूय गच्छन्ति ज्ञानैकजलधौ लयम् ॥ (यो. ६(पू.) १२७-२०) इत्यादिः । तस्मात् प्रातीतिकसत्त्वात् सर्वस्य द्वैतजातस्यापि, न नः किञ्चिच्छिद्यते स्वप्रजागरयो(लक्षण्यासिद्धावपि । तथापि त्वा तत्त्व-साक्षात्कारं दृश्यानामुच्छेदाभावेन तेषां सुषुप्तावपि काचिदवस्था अवश्यं वाच्या भवति । अन्यथा हि - सुषुप्तौ जीवब्रह्मविभाग स्याप्रतीतत्वेनाविद्यमानतया प्रतिसुषुप्ति मुक्तिः, प्रबोधे पुनरावृत्तिश्चा पद्येयाताम् । न चैतदिष्टम् । तस्मात् सुषुप्तावेव मुक्त्यभावाय जीवब्रह्मविभागः स्वी-करणीयः । किं च बौद्धान प्रति प्रत्यभिज्ञानादिना विश्वस्य स्थायित्वं सूत्रभाष्यादिषु (सू. भा. २-२-२७) प्रतिपादितम् । तेन च विरोध: स्याद्यदि येन केनापि रूपेण विश्वस्थायित्वं नाङ्गीक्रियेत । अतस्तद विरोधाय च मूलाविद्यात्मना सुषुप्ते तस्य स्थितिरङ्गीकरणीया । अपि च जीवब्रह्मविभागस्य कार्यत्वे सुषुप्तौ तस्याभावाद्ब्रह्मण्येवाविद्यासायं स्यात् । तस्मात् तत्परिहाराय विभागोऽनादिरिति, सुषुप्तौ च विद्यत एव जीवब्रह्म विभाग इति, न चाविद्यातन्त्र इति च कल्पनीयम् । यथा ह्यात्माविद्ययोः सम्भन्दोऽविद्यातन्त्रो नाविद्योपादानः, तथा विभागोऽपि भविष्यतीति ।।

मूलाविद्यानिरासः

(द्वितीयः ४२. जीवब्रह्मविभागो नाविद्यातन्त्रः - तदेतदविचारसुन्दरम् । तथा हि - दृश्यानां तत्त्वसाक्षात्कारपर्यन्तमुच्छेदो न भवितुमर्हतीति तेषां काचनावस्था वाच्येति यदुक्तम्, तत्र कोऽभिप्रायः ? किमुच्छेदो नाम वास्तविक एव नाश आहोस्वित् सम्यग्ज्ञानेन बाधः ? नाद्यः, सर्वदृश्य जातस्य मिथ्यात्वाङ्गीकारात् । द्वितीये तु सर्ववस्तूनां प्रातीतिकं सत्त्वं स्वीकृत्यापि प्रतीतिव्यतिरिक्तस्थले काञ्चनावस्थामप्रतीतामपि सम्भाव यतः कथं न व्याघातः ? न चैवं वाच्यम्, दृष्टिसृष्टिरेव न मिथ्यात्वप्रयोजिका सर्वत्र । जीवब्रह्मविभागाद्यनादिषु दृश्यत्वादिकमन्यदेव तत्र हेतुर्भविष्य तीति । तथापि ह्यप्रतीतस्य जीवब्रह्मविभागस्य कल्पनं निष्प्रमाणकं व्यर्थं च स्यात् । ननु कथं निष्प्रमाणकं व्यर्थं वा ? दर्शितं खलु प्रमाणं सुप्तप्रबोधस्यान्यथानुपपत्तिः । प्रयोजनं च क्षणिकमतप्रवेशनिवारणम् । मैवम्, दृष्टिसृष्टयभ्युपगमेन सुप्तप्रबोधकारणगवेषणे कारणाभावात् । स्वप्रवदेव सर्वं प्रतीयते न तु वास्तविकमिति ह्यभ्युपगम्यते । सुप्तप्रबोधोऽपि तथैव भविष्यति । नन्वेवमपि जगतः स्थायित्वं कथमुपपाद्यताम् ? न कथमपि, वादेऽस्मिंस्तस्यानवकाशात् । आयातं तर्हि क्षणिकमतेन साङ्कर्य भाष्यविरोधश्चेति चेत् । न । अनिष्टनिवारणाय त्वत्प्रक्रियैव निष्प्रमाणिकापि स्वीकार्येति राजशासनाभावात् । यथा त्वत्रोक्तविरोधाभावस्तथाग्रे दर्शयिष्यामः । ननु तथापिजीवब्रह्मविभागोऽविद्यातन्त्रोऽङ्गीकरणीय एव । अन्यथा हि ब्रह्मण्येवाविद्यासाडूर्यं स्यादिति चेत् । मैवम् । परस्पराश्रय प्रसङ्गात् । जीवस्य ब्रह्मण्यविद्येति विभागमपेक्ष्यैव ह्यविद्या स्वात्मानं लभते । तत्कथमविद्यानन्त्रो विभागः स्यात् ? तस्यास्माद्भेद इत्यत्र भेदस्य भेदपुरस्सरत्ववदस्तु विभागपुरस्सराप्यविद्या विभागकल्पिकेति तुखण्डः) जीवब्रह्मविभागसिद्ध्यर्थं न मूलाविद्या स्वीकार्या ५३ नोद्भाव्यम्, तत्राप्यसंप्रतिपत्तेः । भेदस्य परस्परातिरेकत्वमन्तरेणासिद्धि रतिरेकत्वस्य भेदपुरस्सरत्वमिति परस्परसंश्रयो यथा, तथा अत्राप्यविद्या विभागयोरितरेतरसंश्रयणस्य स्फुटत्वात् समानयोगक्षेमत्वमेवोभयोरपि पक्षयोः ॥

४३. अनादिरविद्येत्यपि न सम्यक् - ननु नैष दोषः प्रकृते, अविद्याविभागप्रवाहस्य बीजाङ्करवदनादित्वादिति चेत् । मैवम्, अनादित्व ब्रह्मास्त्राश्रयणस्योत्तरापरिज्ञानमूलत्वात् । वस्तुतः कस्यचिदप्यनादित्वस्य दुरूपपादनीयत्वाच्च । उपदर्शितदृष्टान्तात् स्यादिति चेत् । तदपि नोचितम्, दृष्टान्तोदाहरणमात्रेण कस्यचिदप्यर्थस्यासिद्धेः । किं च दृष्टान्तं प्रसाध्य ह्यनन्तरं तत्साम्यात् प्रकृते किंचिदतिदेष्टव्यं भवति, न च सम्भवत्यत्र दृष्टान्तः । बीजस्याङ्करस्य वानादित्वं हि कदापि न दृष्टम् । नापि बीज तदङ्कुरव्यक्तिमन्तरेण बीजाङ्करसन्ततिर्नाम विद्यते क्वचित् । तस्मादृष्टान्ते नैव कस्यचिदप्यनादित्वम् । अथ स्यात्, - अविद्यैवात्रानादिर्न पुनरविद्याविभागप्रवाहः । अविद्यातन्त्रो हि विभागोऽस्माकमिष्टः । अविद्यायाश्च सादित्वे तन्निमित्तस्याप्यपेक्षा स्यानिमित्तान्तरे, एवं तस्याप्य न्यापेक्षेत्यनवस्थानमेव पर्यवस्येत् । अविद्योच्छेदानपेक्षो निर्निमित्तश्च मोक्ष इति पक्षे तु मोक्षकथाप्रसङ्ग एव न स्यादिति - जीव ईशो विशुद्धा चित् तथा जीवेशायोर्भिदा। अविद्यातच्चितोर्योगः षडस्माकमनादयः ॥ इति प्राचां वचनमनुरुध्य मूलाविद्यायाः स्वरूपतोऽनादित्वमेव स्वीक्रियत इति चेत् । यद्येवमुभयपक्षेऽपि दोषं पश्यति भवान्, भवत्वेवम् ।

४३. बीजाङ्कराख्यो दृष्टान्तः सदा साध्यसमो हि सः ।। मां. का. ४-२०

५४

मूलाविद्यानिरासः

(द्वितीयः भवत्कल्पितस्तु पक्षो निर्दूषण इति न सम्प्रतीमः । यस्मादादिरहिताविद्या नोच्छेत्तुमर्हतीत्यनिर्मोक्षप्रसङ्ग एवात्रापि स्यात् । न ह्यनादिरथ चोच्छेदार्ह इति क्वचिदृष्टान्तोऽस्ति । ननु प्रागभावोऽनादिरप्यन्तवान् दृष्टो लोके प्रतियोगिजन्मना । यथा हि सौगतानां तत्त्वभावनाप्रचयेनानादिवासना सन्तानानां निवृत्तिः, यथा वा तार्किकाणां मिथ्याज्ञानप्रवाहोऽनादिरपि निवर्तते, यथा वा साङ्ख्यानां विवेकेनानादेरप्यविवेकस्यान्तो भवति, मीमांसकानां च धर्मतत्त्वज्ञानप्रागभावनाशो यथा, तथानादिरपीयमविद्या विनश्येद्विद्योदयादूर्ध्वमिति । न, परतन्त्रदोषप्रदर्शनमात्रेण स्वदोषानिवृत्तेः । अनादित्ववादस्यैव चात्र विचारणीयत्वादृष्टान्तानुपपत्तिः । न च सर्वैरपि वादिभिरवश्यमाश्रयितव्यत्वाददोषतैव न्याय्यमस्येति विभावनीयम् । वेदान्तिनामनादिवादस्यानपेक्षणात् । यथा चानपेक्षा तथाग्रे स्फुटयिष्यते । प्रागभावदृष्टान्तस्तु नैवात्र सङ्गतः । अविद्यां खलु भावरूपां रोचयन्ते भवन्तः । अभावस्य निर्विशेषत्वाच्चैतदेवं प्रतिपत्तव्यम् । न हि प्रागभावाद्यनन्तानभावविशेषान् कल्पयन्तोऽनुसतव्या भवन्ति तार्किकाः, तादशाभावेषु स्वरूपतो लक्षणतो वा विशेष दर्शयितमशक्यत्वात् । अपि चाभावस्यापि यद्युत्पत्तिविनाशादिभावधर्मता स्वीक्रियेत, तदा

४४. अनादेरन्तवत्त्वं च संसारस्य न सेत्स्यति ॥ मां. का. ४-३० न ह्यनादिस्सन्नन्तवान् कश्चित्पादार्थो दृष्टो लोके ॥ मां. का. भा. ४-३० ४५. निर्विशेषोऽप्यभावः क्रियागुणयोगाद्व्यादिवद्विकल्प्यते ॥ तै. भा. १ अव ४६. एकस्याभावो द्वयोरभावः सर्वस्याभावः प्रागभावः प्रध्वंसाभाव इतरेतराभावोऽत्यन्ताभाव इति लक्षणतो न केनचिद्विशेषो दर्शयितुं शक्यः ॥ गी. भा. १८-४८

खण्ड:) जीवब्रह्मविभागसिद्ध्यर्थं न मूलाविद्या स्वीकार्या ५५ परिप्लवेतैव भावाभावविभागसङ्कथेत्यहो जम्बुकाद्रीतस्य व्याघ्रमुख प्रवेशाध्यवसायः । तस्मात् प्रागभाववदित्यदृष्टान्तः ।।

एतेनेदमपि परिहतं भवति - न भावरूपिण्येवाविद्या वस्तुतः, शश शृङ्गादितुच्छव्यावृत्त्यर्थमेव तु तस्यां भावत्ववाचोयुक्तिः । तस्माद्भावा विद्याया अपि सद्वैलक्षण्यादेव प्रागभाववद्भाविनी निवृत्तिरिति । यदि हि सद्वैलक्षण्यानिवृत्तिरित्युच्यते, तर्हि वक्तव्यमसद्वैलक्षण्यात्कस्मान्न भवेद निवृत्तिरपीति । ननु ज्ञानेनाज्ञानं निवर्त्यत इति विशेषव्याप्तिः । अनादिर्न निवर्तत इति च सामान्या । अतो भवेत् प्राबल्यं भावाज्ञाननिवर्तकव्याप्तेरिति चेत् । मैवम्, अज्ञानत्वसिद्धौ ज्ञाननिवर्त्यत्वसिद्धिस्तत्सिद्धावेव चाज्ञानत्वसिद्धिरिति परस्परपिशाचिकावेशप्रसङ्गात् । न हि त्वदभिमत मज्ञानमद्यापि सिद्धमस्ति । न च मिथ्याज्ञानादीनि न सन्त्युभयसिद्धान्य ज्ञानपदभाजि, यान्यार्जवेनैव भजेरन्विशेषव्याप्तेविषयताम् । तस्मात्त्व दभ्यूहिताविद्याया अनिर्मोक्षस्तदवस्थ एव । तस्मादविद्याया अनादित्वा सम्भवात्परस्पराश्रयदोषः सुस्थ एवेति नाविद्यानन्त्रो जीवब्रह्मविभाग: सिध्यतीति ॥

४४. विभागस्य सुषुप्तावपि स्वीकारे तस्य मिथ्यासत्त्वं न सम्भवति: - यत्पुनः सुषुप्तावपि विभागसिद्ध्यर्थमविद्या कल्प्यत इति, तद्दिष्टहतस्य दुष्टव्याघ्रस्योत्थापनार्थं सजीवनमन्त्रः पुरश्चर्यते । यतो विभाग एव बन्ध इति कृत्वा मुमुक्षुर्यतते तद्विस्तूंसनाय । स च विभागः सुषुप्तौ न

४७. न ह्यभाव उत्पलादिवद्विशेषणसहभावी । विशेषणवत्त्वे भाव एव स्यात् ॥ तै. भा. १ - अव

५६

मूलाविद्यानिरास:

(द्वितीयः केनाप्यनुभूतचरो नापीच्छति कश्चित्तदनुभवं निद्रायामपि जाग्रति यथा, तस्यानिष्टरूपत्वात् । तस्यास्य विभागस्य सिद्धिं किं पुरुषार्थं लिप्सवः केन वा लिङ्गेनानुमास्यन्ति भवन्तः ? यदा हि सुषुप्तावपि विभागस्यानुवर्तनम्, तदा विभागस्यार्थगतत्वमेवायास्यति न तु मिथ्याविद्यमानतेति दूरनिरस्ता ततो विनिर्मोक्षप्रत्याशा ।।

ननु कथमर्थगतो विभागः ? अविद्यातन्त्रः खल्विष्यतेऽस्माभिः सः । अविद्यासम्बन्धवच्च विभागस्याप्यविद्याविशिष्टाश्रयत्वं न दोषाय भवतीति चेत् । न, विभागस्याविद्यातन्त्रत्वमविद्यायाश्च विभागपुरस्सरत्वमित्यन्यो न्याश्रयः स एव खलु दुरात्मा पूर्वोक्त आवर्तते । किं चेदमुच्यतेऽविद्या सम्बन्धवदिति सिद्धवत्कृत्य ? सिद्धे हि तादृशसम्बन्धे घटेत दृष्टान्तः । भवदभिमता चाविद्या नाद्यापि प्रसाधिता, कुतः पुनस्तस्या आत्मसम्बन्ध सङ्कथेति । अविद्यासम्बन्धश्च तात्त्विको वा स्यान्मिथ्या वा ? यदि तात्त्विकस्तर्हि नैव मुच्येतात्मा तत्सम्बन्धादित्यनिष्टं कल्पितं स्यात् । अथ मिथ्या स इति । तत्कुतोऽवसीयत इति वक्तव्यम् । संसार्यसंसारि साधारणेयमविद्या न कमप्यामरणं मोचयतीति ह्युक्तं भवद्भिः ।।

ननु जीवन्मुक्तो नाविद्याग्रस्तः, किं तु तत्संस्कारमात्रशेषः प्रपञ्चं पश्यतीत्युपदिष्टमस्माभिः । नेत्युच्यते । प्रपञ्चप्रतिभासस्य यद्यविद्या कारणम्, तदा संस्कारशब्दाभिलप्याप्यविद्यैव भवति नान्येति नामान्तर ग्रहणमात्रेण को वा लाभः स्यात् ? अथोच्येत - अविद्यासंस्कार: स्थूलाविद्यावन्न जन्मान्तरदायी, किं तर्हि प्रारब्धफलोपभोगेनैवोपक्षीयते ।

खण्ड) सुषुप्तौ स्वरूपानवभासव्यवहारतोऽपि न भावाज्ञानसिद्धिः तस्मान्न दोष इति चेदिति । तच्च न, प्रमाणाभावात् । न ह्यस्ति प्रमाणमविद्यानाशानन्तरमपि तत्संस्कारः कञ्चित्कालं तिष्ठति, तत्त्वानु सन्धानाच्च प्रक्षीयत इति । यदा च कृतवेदान्तश्रवणानामप्यनुवर्तते तत्त्वज्ञानिनामपि सतामविद्यासंस्कारः, तत इदं भवति - नाविद्यातत्कार्य प्रध्वंसाय तत्त्वज्ञानमेषितव्यं तत्सूतेरनन्तरमपि निरवशेषतस्तदनपायात्, अपितु कारणान्तरमेव संसारनिवर्तकमिति । अतो नास्ति भवन्मतेऽविद्या सम्बन्धो मिथ्यारूपः । सत्यसम्बन्धस्तु नेष्यते ॥

तदित्थमुभयथापि सम्बन्धासिद्ध्या तं सम्बन्धं दृष्टान्तीकृत्य जीवब्रह्म विभागमविद्यातन्त्रमेष्टुं न शक्यते । तथा चार्थगत एव स्याद्विभागः स चानिष्ट इति । तस्मान्न जीवब्रह्मविभागसिद्ध्यर्थमपि स्वापे भावाविद्या स्वीकार्येति स्थितमेतत् ।।

सुषुप्तौ स्वरूपानवभासव्यवहारतोऽपि न भावाज्ञानसिद्धिः ४५. आत्मा नास्ति न प्रकाशते इति व्यवहारान्यथानुपपत्तिः कारणाविद्यायां प्रमाणमिति पक्षानुवादः - अथास्त्वपरः पक्षः - सुषुप्तिगताविद्या न सती, विद्यया तस्या अपसारात् । नाप्यसती, प्राग्विद्याप्राप्ति तदनुभवस्य दुरपह्नवत्वात् । नात्मनो भिन्ना, स्वतो निरूपणार्हस्य स्वरूपस्याभावात् । नाप्यभिन्ना, चैतन्यस्वरूपस्यात्मन

४८. इतिकारः त्रुटितः प्रथममुद्रणे ।। ४९. कामहेतौ हि विध्वस्ते न कश्चिदवशिष्यते । संस्कारोऽथवाप्यन्यः सर्वस्याज्ञानमूलतः ।।

बृ. वा. ४-४-३७९

५८

मूलाविद्यानिरास

(द्वितीयः आवरकत्वात् । एवं सदसदादिरूपेण निर्वक्तुमशक्या कारणाविद्या कथं त्वदुक्तं विकल्पं सहेत ? न चैवं निर्वचनाभावे भावत्वमेव तस्या नावकल्पेतेति चोदनीयम्, भावानवबोधात् । अज्ञानस्य हि भावत्वं न परमार्थसत्त्वं किन्त्वभाववैलक्षण्यमेव विवक्षितम् । तदेवं सदसदादि रूपेणानिर्वचनीयाविद्या । तस्याः सत्त्वं यद्यपि नानुभूयते । यद्यपि स्वप्रप्रपञ्चाविशेषाज्जागरितप्रपञ्चोऽपि मिथ्यैव, तथा च न तद्वितानार्थं कारणाविद्यानुमानं श्लक्ष्णम् । यद्यपि सुषुप्तिः सनिमित्तत्वनिनिमित्तत्ववादि विकल्पं न सहते । यद्यपि च स्वापे निर्विषयानुभवो विद्यत एव सार्वजनीनः । किं बहना. यद्यपि सर्वविधविकल्पासहा कारणाविद्या, तथापि सुषुप्तौ स्वयंज्योतीरूपस्यात्मनोऽनवभासव्यवहारान्यथानवक्लृप्त्या साङ्गीकार्यैव भवति । सुषुप्तौ हि न भासते ममात्मेति व्यवहरति लोकः । स चानवभासो न मिथ्याज्ञानात्, तस्य तत्राभावात् । नाप्यग्रहणात्, कादाचित्कस्य तस्य स्वरूपानवभासकत्वायोगात् । नापि मिथ्याज्ञान संस्कारात् । संस्काराणां तथा प्रतिबन्धकत्वे प्रमाणाभावात् । तस्मान्नास्ति न प्रकाशत इति व्यवहारान्यथानुपपत्तिः कारणाविद्यां कल्पयतीति न किञ्चिदपहीनमिति ॥

४६. सुषुप्तिविषयकजाग्रव्यवहारान्न सौषुप्ताज्ञानसिद्धिः - अत्रोच्यते - नास्ति ममात्मेति तावन्न कदापि व्यवहारो भवति । न हि कस्यचिदपि भवति प्रत्ययो नाहमस्मीति । न प्रकाशत इति तु देहादिरूपेण गृहीते आत्मनि भासमाने एव वेदान्तोदितस्वरूपेणाऽभासमानत्वादज्ञानकृतो व्यवहारः । स च व्यवहार प्रबोधे भवति न तु सुषुप्ताविति कथं तादृश व्यवहारादज्ञानं सिध्येत सुषुप्तौ ? व्यवहारस्य ह्यभिज्ञाभिवदनमुपादान

खण्डः) सुषुप्तौ स्वरूपानवभासव्यवहारतोऽपि न भावाज्ञानसिद्धिः ५९ मर्थक्रियेति चातुर्विध्यमङ्गीक्रियते । चतुर्विधोऽप्ययं व्यवहारो जागरिते स्वप्ने वा सम्भवति । न त्वन्यतमस्याप्यस्य व्यवहारप्रकारस्य सम्भवोऽस्ति सुषुप्ते । तस्मान्न दृष्टार्थापत्त्या प्रमीयते सौषुप्ताज्ञानम् ।।

ननु तथापि जागरितव्यवहारान्यथानुपपत्त्यैव स्वीकार्यं भवति तादृशा ज्ञानम् । सुषुप्तिविषय एव हि व्यवहारः प्रचलति जागरे - मम सुषुप्तौ नात्मा प्रकाशते स्मेति । व्यवहारश्चायं स्मृतिरूप इति भावाज्ञानानु भवोऽनुमीयताम् । न, अन्याय्यत्वात् । अन्याय्यं हि भवत्यवस्थान्तरगत स्मृतेरवस्थान्तरगतानुभवानुमानम्, मा भूदभ्रान्तयोय॑धिकरणयोरनुभवयो रेकतरेणापरनिराकरणस्यापि न्याय्यत्वमिति । यथा हि कश्चिदनुमिमीते - यत इदानीमहं क्षुत्क्षामकण्ठस्ततो नाहमभुजि तदात्वे किञ्चिदपीति, तद्वदेवायमवस्थान्तरानुभवमाश्रित्य सुषुप्तिस्वरूपनिश्चयोऽपीति । ननु विषम उपन्यासः । नाहमभुञ्जीति स्मरणमतीतकालविषयकं नास्ति दृष्टान्ते । प्रकृते तु सुषुप्तिविषयकमेव विद्यते स्मृति हमात्मानमद्राक्षं सुषुप्त इति । तन्न्याय्यमेवानुमानमिति पश्यामः । नैतत्साधु, जाग्रदाश्रयस्य सुषुप्तिविषयकपरामर्शस्य स्मृतित्वे बाधकयुक्तरुक्तत्वात्, स्मृतेरनुभवानु मानमन्याय्यमिति पूर्वमेव प्रसाधितत्वाच्च ॥

४७. भावरूपाज्ञाने नास्त्येवानुमानं क्वचिदपि कुतः सुषुप्तौ ? - अपि च दृष्टमेव हि तज्जातीये व्यक्त्यन्तरेऽनुमीयत, न तु जातुचिदपि सुषुप्तौ भावाज्ञानं दृष्टचरम् । अवस्थासाम्यात् स्वप्रादिषु दृष्टमिति हेतोरेवाश्रयणाद्यद्यनुमीयेत, तदा तत्साम्यात् सप्रपञ्चत्वमपि किं नानुमिमीथाः ? न चास्ति दृष्टं भावाज्ञानं स्वप्रजागरयोरपि, प्रत्यक्ष

६०

मूलाविद्यानिरासः

(द्वितीयः स्यान्यतैवोपपादितत्वात् । ननु सुषुप्तिविषयकस्मरणोपपत्त्यर्थं समान्यतोऽनुमितस्य भावरूपाज्ञानलक्षणविशेषे पर्यवसानं भविष्यत्यतो दृष्टमेवानुमेयमित्यनुपपन्नो निर्बन्धः । किं च - विवादाध्यासितं प्रमातृ विशेषनिष्टं प्रमाणज्ञानं तन्निष्ठप्रमाभावाद्यतिरिक्तानादेर्निवर्तकं भवितुमर्हति । प्रमाणत्वात् तदन्यप्रमातृविशेषनिष्ठप्रमाणज्ञानवत् । न च दृष्टान्तोऽप्यप्रसिद्ध साध्यम् । चैत्रनिष्ठं हि प्रमाणं मैत्रनिष्ठप्रमाभावाद्यतिरिक्तस्य तत्प्रागभावस्य निवर्तकमिति सुप्रसिद्धम् । मैत्रनिष्ठं तु प्रमाणं न तन्निष्ठप्रमाभावाद्यतिरिक्तस्य कस्यचित्पागभावस्यानादेर्निवर्तकमिति, तत्र प्रमाणत्वनिर्वाहायावश्यं स्वीकार्यं भवत्यनादिज्ञाननिवर्यं किञ्चित् । तदेवं सामान्यतोऽनुमितमेव भवत्वभिमताज्ञानमिति चेत् । मैवम्, स्मरणस्यान्यतैवोपपादितत्वात्तदुप पत्त्यर्थं सामान्यतोऽनुमित्यनुदयात् । यत्तु रचनमनुमानस्य प्रमातृविशेषनिष्ठं प्रमाणमज्ञानमित्यादि, तत्र प्रष्टव्यो भवान् - प्रमात्रन्तरनिष्ठं प्रमाणम भावाद्यनिवर्तकमिति कुतो निरणायीति । ननु नाहं तत्प्रमाणज्ञानम भावाद्यनिवर्तकमिति निर्णेतुं प्रवृत्तः, किं तु विवादाध्यासितप्रमातृ विशेषनिष्ठप्रमाभावाद्यतिरिक्तानादेर्निवर्तकमिति । स चानादिः प्रागभावरूप इत्युभयसम्मत इति चेत् । न, तत्राप्यभावादित्रिकस्यैव निवर्त्यत्वदर्शनात् । न हि प्रमात्रन्तरे अभावादिव्यतिरिक्तमनादिं दर्शयति भवान् । ननु तथापि चैत्रनिष्ठं प्रमाणेन निवर्त्य मैत्रनिष्ठाभावादिव्यतिरिक्तम् । मैत्रे तु तदेव साध्यत इति किमत्रापहीनम् ? नैतदेवम्, मैत्रप्रमाणस्यापि मैत्रनिष्ठप्रमा भावादिनिवर्तकत्वेनैव चारितार्थ्यसम्भवात्, चैत्रनिष्ठस्य स्वनिष्ठतदभावादि निवर्तकत्वेनैव यथा । यदि हि मैत्रनिष्ठस्य प्रमाणस्य दृष्टं निवर्त्यमेव न समभविष्यत्, तदा प्रमाणस्य प्रमाणत्वनिर्वाहायादृष्टमपि किञ्चिदकल्प

खण्ड) सुषुप्तौ स्वरूपानवभासव्यवहारतोऽपि न भावाज्ञानसिद्धिः ६१ यिष्यत । न त्वेवं न सम्भवति । चैत्रे मैत्रनिष्ठातिरिक्तनिवर्तकत्वं तु चैत्रस्य मैत्रातिरिक्तत्वात्, न पुनः सर्वत्र प्रमाणस्य मैत्रनिष्ठप्रमाभावा द्यतिरिक्तनिवर्त्यापेक्षणादिति न किञ्चिदत्र चित्रम् । अपि चाभ्युपगम्यापि मैत्रानिष्ठप्रागभावाद्यतिरिक्तं प्रष्टव्योऽसि - कथमध्यवसितोऽसि तस्य भावत्वमिति । न तावज्ज्ञाननिवर्त्यत्वात्, प्रागभावस्यापि निवर्त्यत्वेन त्वयैवात्रोदाहरणात् । नापि परिशेषात्, भावाज्ञानस्य प्रमाणान्तरेणा सिद्धत्वात् । एतेन यदाहुः - विवादपदमनादेर्भावस्य न निवर्तकं पदार्थत्वात्सम्मतवदिति प्रत्यनुमानं न भवति, अनादेरभावातिरिक्तस्य सम्प्रतिपन्नातिरिक्तस्य प्रतिवादिनोऽप्रसिद्धत्वादिति । तदप्यनवकाशी कृतम् । ज्ञानाभावादिनिवर्तनमेव प्रमाणज्ञानकृत्यमित्यङ्गीकारात् । तस्माद्यावन्नोपपाद्यते प्रसिद्धप्रमाप्रागभावादिनिवर्तकत्वेनैव प्रमाणत्वं न सेत्स्यतीति, तावदज्ञानानुमानं न समीचीनं भवति । अपि व्यतिरिक्तानादेनि वर्तको घटत्वाद्धटान्तरवदित्यनुमानेन किं तन्निवर्यो भावपदार्थः सिध्यति? न चेदत्र को विशेषः ? उक्तश्च अविद्याया अनादित्वेऽभावस्य प्राग भावादिविभागत्त्वे च दोषः ॥

यदप्यनुमानम् - विगीतो विभ्रम एतज्ज्ञानकारणाबाध्यातिरिक्तोपादानः, विभ्रमत्वात, देवदत्तादिविभ्रमवदिति । तत्राप्यतिरिक्तत्वमेवान्यथोपपाद नीयम् । आभाससाम्यं चानुमानस्य दर्शयितुं सुशकं पूर्ववत् । तस्माद्विभ्रमो पादानत्वेनापि न भावाज्ञानसिद्धिः ॥

अस्तु तीदमनुमानम्, - विवादपदं प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्त स्वविषयावरणस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकम्, अप्रकाशितार्थ

६२

मूलाविद्यानिरासः

(द्वितीयः प्रकाशकत्वात्, अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावदिति । मैवम् - अन्धकारस्याप्यभावत्वस्य शक्योपपादनत्वात् । प्रकाशकत्वस्य चोभय साधारणस्य निरूपणानहत्वात् । यत्तु प्रकाशकत्वं प्रकाशकपदवाच्यत्वं साधारणमिति, तदतीवोपहास्यम् । अयं मदीयदारिद्रयापनोदनसामर्थ्यवान् कुबेरत्वात् अलकाधिपतिवत्, - इत्यनुमानस्यापि समीचीनत्वापत्तेः । न च प्रकाशकशब्देन शास्त्रे सर्वदेशकालयोर्वा व्यवह्रियमाणत्वं विवक्षितमित्यदोषः । परिभाषामात्रेण सिद्धस्य नदीत्वादेरपि (पा. स. १-४-३) समीचीनानुमानहेतुत्वप्रसक्तेः । दारुहस्तिनोऽपि सर्वदेशकाल योर्हस्तित्वेन व्यवह्रियमाणस्य तथात्वापत्तेश्च । तस्मादप्रकाशितार्थ प्रकाशकत्वादिति न साधुर्हेतुः । मिथ्याप्रतीतिमात्रशरीरत्वाद्वा तमसः प्रमाणज्ञानस्य मिथ्याज्ञाननिवर्तकत्वमप्यस्तु, न त्वेतेन मिषेण भावाज्ञानस्यावकाशः सम्भवति । यत्तूच्यते मिथ्याज्ञानविषयस्य तत्कालमात्रसत्त्वेन तस्यानिर्वचनीयस्य मानगोचरत्वभाव इति । तत्परिभाषामात्रसिद्धतादृशानिर्वचनीयानभ्युपगमादेव निरसनीयम् । निरसिष्यते चेदं मिथ्यावस्तुप्रतिभासपरीक्षणावसर इत्यनवद्यम् । तदेवं ज्ञानाभावादित्रितयं वा तदन्यतममेव वा यथासम्भवं सम्भवति प्रमाणनिवर्त्यम् । स्फुटीकरिष्यते च यथा चैतत्तथा । तस्मादेत दप्यननुमानम्॥

प्रमाणा

तदेवं नास्ति सामान्यतोऽप्यनुमानं कुतो विशेषे पर्यवसानम्, कुतस्तरां चजाग्रत्स्मरणोपपत्त्यर्थं सुषुप्ते तत्सिद्धिः? तस्मान्नास्ति जाग्रव्यवहारतोऽपि सुषुप्तेऽनवभासः, तत्सिद्धयर्थं वा सुषुप्ते भावाज्ञानसिद्धिरिति सिद्धम् ।।खण्ड:) सुषुप्तौ स्वरूपानवभासव्यवहारतोऽपि न भावाज्ञानसिद्धिः ६३

४८. सौषुप्तानुभवविरुद्धा भावाज्ञानसाधिका युक्तिः - अपरं च - सुषुप्तौ भावाज्ञानमन्यद्वा किञ्चिन्नास्तीत्येवमनुभवः, किञ्चिदपि नास्तीति न युज्यते जाग्रत्स्मरणान्यथानुपपत्तेरिति युक्तिः । न च शङ्किताप्रतिष्ठान कलङ्कया युक्त्याऽव्यभिचारिण्यनुभूतिर्बाधयितुं योग्या । न हि व्यवहारे प्रामाणिकत्वेनावगतमपि वस्तु कयाचिद्युक्त्या प्रत्याख्यानमर्हति । किं पुनर्वक्तव्यं यदर्थं प्रमाणगवेषणं सर्वत्र तं यथार्थानुभवं तर्केण नान्यथयितुमौपयिकमिति । तस्मादपि नाज्ञानसिद्धिः ॥

४९. सुषुप्तौ कस्मान्न भवति स्वात्मविज्ञानम् ? - किं च कारणं सुषुप्ते नात्मज्ञानं सम्भवतीति प्रविवेक्तव्यमस्ति । किमज्ञानसत्त्वादेवात्मज्ञानं नोदेत्युत ज्ञानकरणाभावादाहोस्वित् कारणान्तरादेवेति । कश्चात्र विशेषः? यद्यज्ञानसत्त्वात्ततो नोदीयादेव ज्ञानं कदापि, सर्वस्यापि विमुक्तिपर्यन्त मज्ञानित्वाभ्युपगमादज्ञानस्य च ज्ञानप्रतिबन्धकत्वात् । अथ करणाभावात्, तदा मुक्तस्यापि सर्वकार्यकरणवियोगादात्मज्ञानानुपपत्तिः । न च कारणान्तरमुपलभेमहि । तस्माज्ज्ञानाभावः किं निमित्तक इति विचार्य मेतत् ॥

ननु ज्ञानोपदेशपर्यन्तं न कस्यचिज्ज्ञानोदयः । ततश्च नोक्तशावतार इति । तर्हि ज्ञानोपदेशस्याभाव एव हेतु ज्ञानादिकमित्युक्तं भवति । तच्च न्यायविरुद्धम्, अभावादपि भावकार्यजन्मप्रसङ्गात् । नन्वभावो न

५०. प्रमाणप्रवृत्त्यप्रवृत्तिपूर्वकौ सम्भवासम्भवाववधार्यते न पुनः सम्भवासम्भवपूर्विके प्रमाणप्रवृत्त्यप्रवृत्ती ।। सू. भा. २-२-२८ ५१. ‘ज्ञानकारणाभावादि’ति प्रथममुद्रणे ।।

६४

मूलाविद्यानिरासः

(द्वितीयः हेतुः, किं तर्हि तद्विशिष्टमज्ञानमेव । मैवम् । सुषुप्तौ ज्ञानोपदेशस्यैवानव काशात् । तस्मात्सर्वथा नोपदेशाभावः कारणं सुषुप्ते ज्ञानानुदये ।।

एवं तर्हि कारणाभावादनुदय इति वदामः । जाग्रति हि विद्यन्ते ज्ञानसाधनभूतान्यन्तःकरणादीनि । तेषामभावाच्च सुप्तौ नोपजायते ज्ञानमिति श्लिष्यते । नैतद्युक्तमिव । तथा सति हि बीजरूपेणापि करणसम्बन्ध रहितस्य कैवल्यमनुभवतः सुतरां न घटते ज्ञानम् । ज्ञानिन एव तु मुक्तत्वं प्रतिज्ञायते । ननु विद्यन्त एव जीवन्मुक्तस्यापि करणानि ? बाढम्, तस्य तु न मुख्यवृत्त्या मुक्तत्वमङ्गीक्रियते भवद्भिः । विदेहकालीन एव मुख्यो मोक्ष इति किलास्थीयते । तस्मिंस्तु मोक्षे वियुक्तकरणस्य ज्ञानाभावो न निवार्यो भवति । इष्टापत्तिरिति चेत् । ज्ञानं विनापि मुक्त्यभ्युपगमप्रसङ्गः । ननु - ज्ञातत्वमुपलक्षणमेव मुक्तात्मनः । मुक्तेः खलु प्रागपि विज्ञातो विज्ञात एव भवति । न हि लोके पचनलवणादिक्रियायामतिवृत्तायां देवदत्तः पाचको लावको वा न भवति, न वा तथा न व्यवह्रियते । एवमिहापीति चेत् । मैवम्, जीवन्मुक्तस्य विदेहकैवल्यस्वरूपानुभवा भावात् । तदनुपपत्तेः । अथाभिलप्यते - भाविकत्वाज्ज्ञानापेक्षा नास्ति कैवल्यस्य । यथा ह्यग्निरुष्ण एव भवति नानुष्णः, तथा मुक्तेर्वस्तु मद्धर्मत्वादनपेक्ष्यापि ज्ञानं तथात्वमिष्यत इति । तीदानीमपि तथैवास्त्विति किमर्थं ज्ञानोपदेश एष्टव्यः ? स्यादेतत् - मुमुक्षोरेव ज्ञानापेक्षा न मुक्तस्य । यस्मात्स्वयंप्रकाशत्वादात्मनो नान्यापेक्षा विद्यते स्वप्रतिभासाय । अज्ञानादेव केवलमाख्यायते न ख्यात्यात्मा ज्ञानं विनेति । वस्तुतो नात्मानं न वेत्त्यात्मा जातुचित्, नित्यबोधस्वरूपत्वादिति । हन्त तर्हि स्वापेऽपि

६५

खण्ड:)

विद्याविधानान्यथानुपपत्त्या नाज्ञानसिद्धिः तथैव भवत्विति कृतं कारणान्तरगवेषणेनेति ।।

ननु सुषुप्तौ न विद्यतेऽहमस्मि नित्यबोधस्वरूप आत्मेति विशेषविज्ञानो दयः । तादृशमेव तु विज्ञानमात्मज्ञानशब्दाभिलप्यम् । तद्विनाश्यमेव चाज्ञानमित्यभ्युपेमो वयम् । ततश्च तादृशाज्ञानानुदयान्यथानुपपत्त्या मूला ज्ञानमनुमिमीमह इति चेत् । हन्त तर्हि वितनुमुक्तस्यापि तुल्ययोगक्षेमतया तदनुदयतादवस्थ्याट्टकुटीप्रभातवृत्तान्तानुहरणम् । अपि च - विशेष विज्ञानस्य द्वैतनिबन्धनत्वात्, स्वापे च द्वैताभावात्, कथमुद्भवेदात्मानु भवोऽहमात्मेदृश इति, यत्र सर्वप्रकारस्यापि विशेषानुभवस्य व्यासेधः ? न हि जातुचिन्मूडोऽपि सुषुप्तौ यं कञ्चिद्विशेषानुभवं प्रतीक्षते । तस्मादेतदपि न विचारचारु यद्विशेषत आत्मानुभवाभावान्यथानुपपत्त्या मूलाज्ञान प्रकल्पनमिति ॥

तदित्थं सुषुप्तौ ज्ञानासम्भवस्य न शक्यते हेतुरुपपादयितुं प्रतिवादिना । तस्मादपि तद्बलान्नाज्ञानसिद्धिरिति सिद्धम् ।।

विद्याविधानान्यथानुपपत्त्या नाज्ञानसिद्धिः ५०. विद्योपदेशश्रुत्यर्थापत्ति वाज्ञाने प्रमाणमिति पक्षः - स्यादेतत् - ज्ञानादेव तु कैवल्यम्, ब्रह्मविदामोति परम् (ते. २-१) तमेव विदित्वाऽतिमृत्युमेति (श्वे. ३-७, ६-१५) - इत्यादिश्रुतिभिर्विद्या विधीयते मोक्षाय । तत्कथञ्चन नोपपद्यते तस्य यस्य पक्षे विद्यापनोद्या भावाविद्या नाभ्युपगम्यते । असत्यां हि तस्यां दण्डायमानायामवस्था त्रयेऽपि, कस्य संसारित्वं स्यात्, यत्कृते विद्योपदेश आजसः परिकल्प्येत?

६६

मूलाविद्यानिरासः

(द्वितीयः तस्माद्यस्या एव प्रहाणाय विद्योपदेशः, सा भावरूपाविद्यावश्य मभ्युपेयेति ॥

५१. विद्योपदेशोऽन्यथैवोपपादनीयः - अत्रेदं चिन्तनीयम् - विद्योप देशोपपादनार्थं किमिति भावाविद्या स्वीकार्येति । न ह्यभीष्टसिद्धिनिबन्धना वस्तुसिद्धिः । यदि खलु स्वतोऽविद्या नास्त्येव, तर्हि विद्योपदेशतोऽपि सा सेर्मो कथमपि नार्हति । तस्मादयुक्तमिदमुच्यते - विद्योपदेशेन सार्थकेन भाव्यम, ततो भावाविद्यासद्भावोऽङ्गीकार्य इति । तथाप्यभ्युपगम्य ब्रम: सुषप्तौ तावन्न कदापि विद्योपदेशः सम्भवति । तथा च तदपनोद्यमज्ञानं नावश्यकमभ्युपगन्तुम् । यत्र तुजागरितेऽस्ति विद्योपदेशः, तत्र श्रुतार्थापत्त्या प्रमिताया अविद्यायाः पुरस्ताद्दर्शितनीत्या न ज्ञानाभावाद्यतिरिक्तत्वमस्ति । दर्शितं हि प्राग्यद्यत्परो भावाविद्यालिङ्गत्वेनोद्भावयति तत्सर्वं मिथ्याज्ञान ज्ञानाभावसंशयज्ञानान्यतमविषयमेवेति ॥

५२. ज्ञानाभावादिरूपाज्ञानस्य ज्ञानपरिहार्यत्वे शङ्का - ननु कथमन्यतमविषयम् ? ज्ञानापनोद्यमेव हि श्रुतार्थापत्त्या किञ्चिदावरणं प्रकल्पते । तत्र ज्ञानाभावादित्रिकस्य नोक्ताविद्यारूपत्वम् । यतस्तेषा मन्यतमस्यापि ज्ञानापनोद्यत्वं न सम्भवति । किं कारणम् ? ज्ञानापनोद्यत्वं हि नाम नियमेन तद्बाध्यत्वम् । अन्यथोत्तरज्ञानापनोद्यस्य पूर्वज्ञानस्याप्य ज्ञानत्वप्रसङ्गः । न हि पूर्वं ज्ञानं नियमेन ज्ञानापनोद्यं भवति । तथा संशयविपरीतज्ञानयोरपि नास्ति नियमेन ज्ञानापनोद्यत्वम् । संशयस्य कदाचिद्विपरीतनिश्चयात्, तादृशनिश्चयस्य च पुनः कुतश्चिद्धेतो: संशयादेव निवृत्तौ बाधकाभावाच्च । ज्ञानत्वाधिकरणत्वाच्चानयोरज्ञान

६७

६७

खण्डः )

विद्याविधानान्यथानुपपत्त्या नाज्ञानसिद्धिः शब्दव्यपदेश्यत्वं न सम्भवति ।।

__ एवमेव ज्ञानाभावस्यापि न सम्भवति नियमेन ज्ञानापनोद्यत्वम्, संशय विपर्ययान्यतरेणैव तदपनोदनसम्भवात् । अभावत्वादेवास्य नावरकत्वम ततश्च नाञ्जसमस्य ज्ञानापनोद्यत्वमित्यपि मन्तव्यम् । अपि च प्रतियोग्युत्पत्तिमात्रविरोधिनो ज्ञानाभावस्य ज्ञानापनोद्यत्वमवकल्पते । यावद्धि ज्ञानमपनोदकत्वेन पदं लभते तावदपनोद्यमेव नास्तीति किमस्ति तत्रापनोद्यं येन कल्प्येतापनोद्यापनोदकभावः ? न चैवं भावाज्ञानस्यापि ज्ञानोत्पत्तिमात्रेण विनाशाङ्गीकारात्तत्रापि न व्याप्नुयाल्लक्षणमिति शङ्कयम्, ज्ञानोत्पत्त्यनन्तरं विलम्बं न सहत इत्यभिप्रायकत्वाज्ज्ञानसमकाल विनाश्यत्ववाचोयुक्तेः ॥

इतश्चैतदेवं प्रतिपत्तव्यम् - ज्ञानाभावो यद्यज्ञानम्, ततो ज्ञानं कीदृशमिति प्रविवेक्तव्यं भवति । न तावच्चैतन्यम्, तस्याभावप्रतियोगित्वासम्भवात् । नाप्यन्तःकरणवृत्तिरूपं तत् । तथा हि सत्यौपचारिकमेव ज्ञानं स्यादित्य ज्ञानशब्दो न मुख्यवृत्तो भवेत् । अस्तु वा कथंचिन्मुख्यत्वमपि । तथापि ज्ञानाभावशब्देन तदुपादानभूतबुद्धिस्वरूपेणावस्थानमेवाभिलप्येत । ततश्च नाभावत्वं तस्य भवेत् । अथ मन्यसे चैतन्यवृत्त्युभयव्यतिरिक्तमेव ज्ञानमात्मगुण इति । तत्र प्रष्टव्योऽसि - किं ज्ञानविशेषस्य कस्यचिदभावो वाज्ञानमुत ज्ञानसामान्यभावो वेति । न तावद्विशेषाभावः, “मूढोऽहं न किञ्चिज्जानामी"ति सामान्याकारज्ञानस्यानुभूयमानत्वात् । ननु कल्प्यतां तत्राप्यनुभवे विशेषपर्यवसायित्वम् ? न वयमुत्सहामहे तथा कल्पयितुम्, असत्यपि बाधके सामान्यबुद्धेर्विशेषविषयत्वकल्पनायां सामान्यबुद्धेरेव

६८

मूलाविद्यानिरास:

(द्वितीयः विलोपप्रसङ्गात् । न चेष्टापत्तिः, विषयसामान्याभावाधिकरणाया: सुषुप्ते रेवासिद्धिप्रसङ्गात् । सत्यपि घटादिविषयविशेषे तत्सामान्यनिषेधस्यापि समीचीनत्वापाताच्च । तस्मान्न विशेषाभावोऽज्ञानम् । अस्तु तर्हि ज्ञानसामान्याभाव एव तदिति । न, धर्मिप्रतियोगिनोतियोरज्ञातयोर्वा तादृशाभावस्य दुर्ज्ञानत्वात् । अथ स्यादनुपलब्धिरेवाभावं गमयतीति । तदप्यसत्, अनुपलब्धेरेवोक्तरीत्या प्रतियोगिधर्मिज्ञानसापेक्षाया असम्भ वात् । तस्मान्न ज्ञानाभाव एवाज्ञानं, किं तर्हि भावान्तरमेवेति ॥

५३. भावाज्ञाने ज्ञानापनोद्यत्वं सुतरां न सम्भवति - अत्र वयं पृच्छामः - किमपनोदशब्देनात्यन्तिकलयो विवक्ष्यते, किं वा शक्ति रूपेणावस्थानम् । यदि पूर्वः कल्पः, तर्हि किमपराद्धं ज्ञानाभावादिभिः? न हि संति ज्ञाने तेषामनुपमर्दः । न चास्मिन्पक्षे भावाज्ञानस्य ज्ञानापनोद्यत्वं सम्भवि । अभ्युपगम्यते हि ज्ञानजनेरूर्ध्वमपि तस्य सत्त्वं जीवन्मुक्तेषु । अथैतद्दोषमीमार्जयिषया द्वितीयः कल्प्यते, तदा ज्ञानापनुन्नेनापि सद्वितीय त्वमात्मन इत्यद्वैतसिद्धान्तहानप्रसङ्गः, ज्ञानव्यतिरिक्तबाधकान्तरायोगात् । तादृशबाधकसत्त्वे वा भावाज्ञानस्य मिथ्यात्वं पारिभाषिकमेव न तु वस्त्वनुपातीति स्यात् । न हि ज्ञानाबाध्यो मिथ्येति युक्तम् ॥

ननु ज्ञानाभावादीनां परस्पराभिभूतत्वमपि दृष्टम् । न च तेषां प्रातिस्विकमवस्थात्रयेऽप्यनुगतं स्वरूपमस्ति । विद्यया च तदेवाज्ञानं हातव्यत्वेन स्वीकार्यं यद्दण्डायमानं वर्तते सर्वदा यावद्विद्योत्पत्ति । तथा च बादरायणीयं सूत्रम् - यावदात्मभावित्वाच्च न दोषस्तदर्शनात् (ब्र. सू. २-३-३०) - इति । असत्यां हि तादृश्यामविद्यायां कस्य स्यात्संसारित्वं

खण्ड:)

विद्याविधानान्यथानुपपत्त्या नाज्ञानसिद्धिः यत्कृते स्याद्विद्योपदेशः सप्रयोजन ?

तत्किमिदानीं संसारमोक्षयोः शास्त्रोपदेशस्य चार्थवत्त्वं प्रापयिषुर्भवा न्वास्तविकवृत्तेनैव भावाविद्यासत्त्वमवस्थात्रयेऽप्यभ्युपगमयितुं प्रवृत्तोऽ स्ति ? हन्त तर्हि कृत्योत्थापनमिदं स्वविघाताय । यस्माद्वस्तुसती सा वराक्यविद्या नैव विद्यापनोद्या भवेत् ॥

यत्तूक्तम् ज्ञानाभावास्तमयस्य ज्ञानोत्पत्तिनान्तरीयकतया नापनोद्यत्वं सम्भवतीति । भावाज्ञानेऽपि तत्समानमेव । यदि हि ज्ञानोत्पत्त्यनन्तरं क्षणमात्रमपि तवाज्ञानं तिष्ठत्यसत्यपि तद्ध्वंसप्रतिबन्धके, सत्यपि च विरोधिनि ज्ञाने, तत एव हीयेत ज्ञानाज्ञानयोर्विरोधः । न च प्रारब्धकर्म सद्भावो विनाशप्रतिबन्धक इति साम्प्रतम् । कर्मणोऽप्यज्ञानकार्यत्वेन तस्य ज्ञानापनोद्यत्वभावे हि ज्ञानाज्ञानयोर्विरोध एव विप्लवेत । न च युज्यते ज्ञानस्य भाविजन्मप्रतिबन्धकत्वमेव भावाज्ञानविरोधित्वम्, न तु प्रारब्धफलस्यापि कर्मणो विनाशकत्वमपीति । तथा सति ज्ञाने सत्यपि मुक्तिर्भवित्री न वेति सन्देहानपगमप्रसक्तेः । निश्चिते वा मुक्तिफल सद्भावे ब्रह्मज्ञानस्यानुभवपर्यवसायित्वं न स्यादिति दुर्वार: स्याद्दोषः । अपि च - ज्ञानं चेत्प्रमाणं तविश्यमपाकुर्वदेवाज्ञानमात्मलाभ मश्नुवीत । इदमेव हि प्रमाणानां प्रमाणत्वं नाम यत्स्वप्रमेयगताज्ञान निवारकत्वम् । न च प्रमाणबुद्ध्युपजनेरूचं प्रमाणव्यापारं किञ्चिदपेक्ष्यैव

५२. स्वप्रमेये प्रमाणं सत्प्रवृत्तं स्वात्मलाभतः । अज्ञानाद्यनिरासेन नास्ति लोके प्रबोधकम् ।।

बृ. वा. ४-४-७८६

७०

मूलाविद्यानिरासः

(द्वितीयः भवत्यज्ञानापनुत्तिलक्षणा क्रियेत्युत्प्रेक्षितुं शक्यते । न हि यथा कुठारोत्पत्तेरूर्ध्वमपि तव्यापारः काष्ठच्छेदादिरुत्पत्तिव्यतिरेकेण विद्यते, तद्वदत्रापि स्यादित्युपपन्नम् ॥

५४. अज्ञानमित्यत्र ज्ञानशब्दस्य वृत्तिपरत्वे न दोषः - यदप्युक्तम् - ज्ञाने वृत्तिरूपेऽङ्गीक्रियमाण औपचारिकस्स्यादज्ञानशब्दः, बुद्धिमात्रं वा स्याज्ज्ञानाभावशब्दाभिलप्यमिति । तदसत्, वृत्तावेव ज्ञानशब्दस्य मुख्यवृत्तित्वात् । न ह्यात्मा वेदान्तिनां नये ज्ञानादिशब्दवाच्यः, तस्मिन् सर्वविधशब्दप्रवृत्तिनिमित्ताभावात् । वृत्तिविषयेणैव त्वात्मा ज्ञानशब्देन लक्ष्यते । न च वृत्त्यभावस्य बुद्धिमात्रावशेषरूपत्वेऽभावत्वहानिः । सर्वत्रैवमेवाभावबुद्धेर्भावविषयत्वं दर्शयितुं शक्यत्वात् । शक्यते हि वक्तुं घटाभावः पटादिरेव नान्य इति । तस्मान्नाभावरूपाज्ञानवादिनैव परिहर्त व्योऽयं दोषः । येन तु तत्र घटपटव्यतिरेकेण घटानुपलब्धिगम्यो घटाभावोऽपि स्वीक्रियते, तेन वृत्तिवृत्तिमतोर्व्यतिरेकेण वृत्त्यनुपलब्धि गम्योऽपि वृत्त्यभावः स्वीकर्तव्यो भवतीति यत्किञ्चिदेतत् ॥

न चाज्ञानशब्दो ज्ञानाभावे पूर्वैप्रयुक्तचरः । सर्पान् कुशाग्राणि तथोदपानं ज्ञात्वा मनुष्याः परिवर्जयन्ति । अज्ञानतस्तत्र पतन्ति मूढा ज्ञाने फलं

५३. क्रियाप्रभेदविरहाज्ज्ञानं वा निखिलं तमः । हन्त्यात्मलाभमात्रेण न तदन्या तमोहृत्तिः ।। बृ. वा. १-४-८६५ निष्पन्नोऽपि कुठारादिः प्रयोगविरहाद्यथा ।

द्वैधीभावाय नैवालं तथा नैव प्रमाणधीः ॥ बृ. वा. १-४-८६७ ५४. न ज्ञानशब्दवाच्यमपि तद्ब्रह्म । तथापि तदाभासवाचकेन बुद्धिधर्मविषयेण ज्ञानशब्देन तल्लक्ष्यते ।। तै. भा. २-१

खण्ड:)

व्यावहारिक्यपि मूलाविद्या न स्वापे स्वीकार्या

७१ पश्य यथा विशिष्टम् (मो. ध. २०१-१७) इत्यादौ तथा प्रयोगदर्शनात् । ज्ञानस्यात्मगुणत्वपक्षे चोक्तदोषस्तदनभ्युपगमादेव प्रमार्जितो वेदितव्यः । तस्माज्ज्ञानाभावपक्षेऽपि ज्ञानापनोद्यत्वमज्ञानस्य सुस्थम् । अनयैव दिशा मिथ्याज्ञानसंशयज्ञानयोरपि ज्ञानापनेद्यत्वं शक्योपपादम् ।।

५५. ज्ञाननिवर्त्यमित्यत्र निवर्त्यपदार्थः - यत्पुनरुक्तं ज्ञानाभावादीनां परस्पराभिभूतत्वमपि दृष्टं, न च तेषामवस्थात्रयेऽप्यनुगतं स्वरूपमस्तीति । नैष दोषः । परस्पराभिभूतत्वेऽपि तेषामात्यन्तिकनिवृत्तेर्ज्ञानं विना सम्भावनाभावात् । न चाननुगतं स्वरूपम्, वर्णितरूपनिवर्त्यत्वस्यैव स्वरूपत्वात् । न चैवं परस्पराश्रयणम्, विद्यानिवर्त्यत्वादविद्याया विद्यायाश्च तन्निवर्तकत्वादिति शङ्कनीयम्, वस्तुतो विद्योदयव्यतिरेकेणाज्ञाननिवृत्ते रनङ्गीकारात् । ननु तर्हि निवाभाव एव । नैतदपि, ज्ञानाभावादिव्यव हारस्यैव तत्त्वात्, विद्योदयमात्रेणैव च तन्निवृत्तिनिर्वाहात् । न चावस्था त्रयेऽप्यनुगतस्वरूपाभावादनिवर्त्यतातादवस्थ्यम् । अवस्थात्रयेऽपि सत्त्वेऽत एव निवर्त्यत्वाभाव इत्युक्तपरिहारात् तस्माज्ज्ञानाभावमिथ्याज्ञान संशयज्ञानव्यतिरेकेण न ज्ञानापनोद्यं तद्विरोधि विद्यते । तस्मात्र विद्याविधानान्यथानुपपत्त्या भावाज्ञानसत्त्वावगम इति सिद्धम् ॥

व्यावहारिक्यपि मूलाविद्या न स्वापे स्वीकार्या ५६. मूलाविद्यायां प्रमाणाभावेऽपि साक्षिवेद्यत्वेन तत्सिद्धिरिति

५५. अज्ञानमिथ्यासंशीतिव्यतिरेकेण नापरम् । प्रत्यर्थि मेयविषये मानस्येहास्ति किञ्चन ।।

बृ. वा. ४-४-७८७

७२

मूलाविद्यानिरासः

(द्वितीयः शङ्का - उक्तमेतन्मूलाविद्यासद्भावे न प्रत्यक्षं नानुमानं न चार्थापत्ति व च शब्दः प्रमाणं भवतीति । यद्यपि मिथ्यावस्तुप्रतिभासतद्वाधानुपपत्तिः प्रमाणमित्याचक्षते नवीनवेदान्तिनः । यद्यपि च तम आसीत् (ऋ. १० १२७-३) इत्यादिभिः श्रुतिभिरविद्यासत्त्वमवगम्यत इति ते स्वगोष्ठीषु व्यवहरन्ति । तथापि मिथ्यावस्तुनो मिथ्यात्वादेव प्रथनोपपत्तिरित्युक्तसमा धानत्वात्, श्रुतिपरिप्रापिताया अविद्याया नवीनसम्मतमूलाविद्यापरत्वे गमकाभावाच्च मूलाविद्या न विद्यमानमूलप्रमाणेत्येव निश्चीयते । वक्तव्यदोषश्च प्रतिवादिसम्मतानिर्वचनीयमिथ्यावस्तुख्यातिवादो मूलाविद्याप्रमापक श्रुतिसद्भाववादश्चाग्रे । तस्मान्नास्त्येव प्रमाणम विद्यायाम् ॥

स्यादेतत् - यद्यपि प्रत्यक्षानुमानार्थापत्तिशब्दलक्षणप्रमाणान्युपन्य स्यन्तेऽविद्यासद्भावे । तथापि नात्रास्माकं निर्भरः । न हि वयंप्रमाणगम्या मविद्यामाचक्ष्महे, किं तु साक्षिवेद्याम् । न चैवं प्रमाणागम्यायां तस्यां प्रमाणोपन्यासो व्यर्थ एव, असद्व्यावृत्त्यर्थत्वात् । असतो व्यावृत्तैव ह्येषा साक्षिणा गृह्यते । कः पुनरसौ साक्षी ? अविद्यावृत्तिप्रतिबिम्बितचैतन्यम् । यद्यप्यविद्यानुभवरूपं स्वरूपं सुषुप्ताविव अवस्थान्तरेऽप्यस्ति, तथापि सुषुप्तिरूपाया अज्ञानवृत्ते शे तद्विशिष्टाज्ञानस्य साक्षिणानुभूयमानत्वाभावेन संस्कारजन्याविद्यावृत्त्यैव तादृशाज्ञानभानात्, स्मरणत्वमपि घटते न किञ्चिदवेदिषमित्यस्य । तदेवं मूलाज्ञानस्वरूपमात्रं साक्षिवेद्यम्,

तद्गतभावत्वादिकं तु प्रमाणेनोपनीतमित्यविरोध इति ॥

५६. प्रमाण ‘गम्यायाम्’ इति प्रथममुद्रणे ॥खण्ड:)

व्यावहारिक्यपि मूलाविद्या न स्वापे स्वीकार्या

७३ ५७. अविद्या साक्षिवेद्योत्येतदपि न सम्यक् - एतदपि नोपपद्यते, अविद्यास्वरूपस्यैवासिद्धौ तद्गतवृत्तितत्प्रतिबिम्बितचैतन्ययोः सुतरा मसिद्धेः । न च साक्षिणैव सिद्धिः । अविद्येत्येव साक्षिवेद्यायास्तस्यास्त्व दभ्यूहिते पर्यवसानायोगात् । न हि साक्षी त्वदभ्यूहितस्वरूपामविद्या मावेदयति । प्रमाणानि तूपन्यस्तानि न तद्विशेषस्वरूपसमर्पणे प्रगल्भन्ते । तथा च प्रदर्शितं पूर्वस्मिन् ग्रन्थभागे। अपि चाविद्यायाः स्वरूपत एवासिद्धाया वृत्तिरङ्गीकरणीया, तत्र च चैतन्यप्रतिबिम्बनं स्वीकार्यम, तद्वेद्यत्वेनैव चाविद्याप्रतीतिः प्रतिपादनीयेति च विचित्ररूपिणीयं भवतः प्रतिपादनरीतिः ॥

५८. मूलाविद्या व्यावहारिकीत्यपि न साधु, व्यावहारिकत्व लक्षणस्यैवासिद्धः - ननु मूलाविद्या यद्यपि न परमार्थदृष्ट्या सिध्यति स्वापे, तथापि व्यावहारिक्येव सेति नोद्भविता दोषा भवन्ति । एतदप्ययुक्तम्, व्यावहारिकदृष्टेरनिरूपणात् । व्यावहारिकमिति हि किमिदमुच्यते ? परमार्थदृष्ट्या बाध्यत्वमथ च प्रतीयमानत्वं व्यावहारिक त्वमिति चेत् । परमार्थदृष्टिरेव कीदृशीति परीक्षामधिकरोति । यधुच्येत - शास्त्रीया दृष्टिः सम्यग्दृष्टित्वात्पारमार्थिकीति, तत्र पर्यनुयोगो भवति कथं विज्ञायते तथात्वमिति ? शास्त्रोपदेशानुग्रहात् पश्चादपि ज्ञानिनां मूर्धाभिषिक्तं मन्यस्याप्याप्राणोत्क्रमणं वरीवर्ति संस्काराख्यमज्ञानमिति महानाग्रहो भवताम् । तत्कथं शक्यताध्यवसातुं यच्छास्त्रीया दृष्टिः समीचीनेति ? नन्वतीन्द्रियवस्तुषु शास्त्रमेव नः प्रमाणमिति तदृष्टिरेव सम्यग्दृष्टिरित्यभ्युपगच्छामः । लोकदृष्टिस्तु न तथा । अतो न मृष्यामहे

७४

मूलाविद्यानिरासः

(द्वितीयः तामिति चेत् । स्यादेवमपि तस्य यस्य मते वेदान्तशास्त्र कालान्तर भाविफलकम् । न तु तथा शक्यतेऽभ्युपगन्तुम्, कर्मशास्त्रं ज्ञानशास्त्रमिति च विभागे हेत्वभावप्रसङ्गात् । उभयोरपि देहपातानन्तरभाव्यदृष्टफल साधनत्वप्रकाशकत्वे हि न विशेषः कश्चन स्यादनयोर्येन सिध्येद्विभागः । तस्माच्छास्त्रीया दृष्टिः सम्यग्दृष्टिरिति न सम्यग्भाति । ततश्च व्यावहारिक दृष्टेः सिद्ध्यभावः ॥

अभिज्ञाभिवदनमादानमर्थक्रियेति चातुर्विध्येन वर्ण्यमानो व्यवहारः, तद्विषयत्वं व्यावहारिकत्वमिति चेत् । तत्र प्रातिस्विकानामभिज्ञादीनां विषयत्वं मिलितानां वेति विकल्प्यम् । प्रातिस्विकपक्षे तावदर्थक्रिया कारित्वं व्यावहारिकत्वमित्युक्तं स्यात् । तथा चेत्किं ब्रह्मणो नास्ति, तर्हि को भेदो व्यावहारिकपारमार्थिकयोरिति ? अथ नास्ति, कथं ब्रह्मज्ञानार्थं प्रवृत्तिः ? किं च अभिज्ञादिविषयं व्यावहारिकमिति वदन् द्वैतिना चेत्पृच्छ्यते पारमार्थिकमेव किं न स्यादिति तस्य किमुत्तरं देयमस्ति? अत एव समुच्चयपक्षोऽप्यसमीचीनः । किं चाभिज्ञादिचतुर्विधव्यवहारोऽपि सम्भवति स्वप्ने । तथापि स्वाप्नपदार्था व्यावहारिका नाभ्युपगम्यन्ते । तस्मान्नाभिज्ञादिविषयत्वं व्यावहारिकत्वम् ॥

नापि बाध्यत्वेनाशक्यव्यवस्थापनत्वं तत् । बाधस्याशक्यप्रदर्शनत्वेन यदेव व्यावहारिकमित्युच्यते तदेव पारमार्थिकमिति किं न स्यादिति पर्यनुयोगसम्भवात् । आत्मनोऽपि बाधस्याशक्यप्रदर्शनत्वात्तस्यापि व्याव हारिकत्वापत्तेश्च ॥

५७. न च देशकालनिमित्तापेक्षो मोक्षः कर्मफलवद्भवितुमर्हति ।। सू. भा. ४-१-१३

खण्डः) व्यावहारिक्यपि मूलाविद्या न स्वापे स्वीकार्या

एवमेव आत्मभिन्नं सर्वं व्यावहारिकम् असत्यमेव व्यावहारिकम्, अद्वैतविरोधि सर्वमपि व्यावहारिकम्, अविद्यादशायां प्रतीतं व्यावहारिकम् इत्यादिलक्षणैः प्रतिज्ञामात्रपर्यवसायिभिर्न कथंचन परमार्थसत्तातिरिक्ता व्यावहारिकी सत्ता सेद्धं पारयति । विपरीतमेव कस्मान्नेति चोद्यस्य सर्वत्र सुलभत्वात् ।।

न चैवं प्रत्यवस्थातुं साम्प्रतम् - अनादिभावरूपाज्ञानतदधीनयोरन्यतरं व्यावहारिकम्, व्यावहारिकस्य सर्वस्य मोक्षहेत्वात्मैक्यज्ञानेन निवर्त्यत्वमेव स्वरूपमिति । यस्मादज्ञानस्य भावत्वम्, भेदस्य तदधीनत्वं च प्रागेव प्रत्याख्याम । मोक्षहेतुभूतज्ञानमपि तादृशाज्ञाननिवर्तकमिति नाद्याप्युभय सम्प्रतिपन्नम् । न हि त्वयापि ज्ञाने सत्यपि तादृशाज्ञानसद्भावो लेशतोऽपि न भविष्यतीत्युच्यते । तत्कुतो व्यावहारिकत्वस्थापने व्यसनमिति ॥

एतेन ब्रह्मज्ञानेतराबाध्यत्वमेव व्यावहारिकत्वमित्यपि निरस्तम् । ब्रह्मज्ञानसिद्ध्या तदितरतावाचोयुक्तरपार्थकत्वात् । ब्रह्मैव सत्यं तदितर मिथ्येतीदमेव हि ब्रह्मज्ञानम् । न चेदं सम्भवि यस्य मते सुषुप्तावविद्या स्वीक्रियते । ब्रह्मज्ञानबाध्यत्वस्य दुरुपपादनत्वाच्चैतदेवं प्रतिपत्तव्यम् । नहि तदपबाध्यो व्यवहार इति युज्यते,जीवन्मुक्तौ सत्यपि ज्ञाने व्यवहारा बाधात् । न च वाच्यम् - चरमवृत्तिरेव ब्रह्मज्ञानं तद्बाध्यश्च व्यवहार इति । ब्रह्मज्ञानबाध्यत्वस्य विश्वासमात्रग्राह्यत्वापातात् । स्वकालेऽ बाध्यत्वेन प्रतीयमानस्यापि स्वप्रस्य प्रबोधे बाधदर्शनाच्च ब्रह्मज्ञाने तराबाध्यत्वमपि दुनिमिति ज्ञेयम् । अनेनेदमप्यपहस्तितम् - आशुतर बाधयोग्यं प्रतिभासिकम्, विलम्बितं बाध्यमानं व्यावहारिकं बाधायोग्यं

मूलाविद्यानिरासः

(द्वितीय तु पारमार्थिकमिति बाधात्पूर्वं कस्यचिदपि बाध्यत्वबुद्धया झटिति बाध्यत्वबुद्धया वा गोचरणीयत्वाभावात् । स्वप्नेऽपि हि तत्काले स्थिरत्वबुद्धिरेवोदेतीति ।।

यत्पुनराह कश्चित् - परिणामवत्त्वमेव व्यावहारिकत्वम्, आत्मनः कूटस्थत्वादेव च पारमार्थिकत्वमिति । तत्तुच्छम् । न हि व्यावहारिकस्यैक बुद्धिबोध्यस्य मिथ्यात्वे हेतुरस्ति । न वा निष्प्रपञ्चात्मस्थिति: शक्योपपादना तत्र पक्षे, परिणामिनित्यस्य प्रपञ्चस्य बाधे हेतोरभावात् । तस्मादलक्षणमेतत् ॥

अस्तु तर्हि “मूलाविद्यातिरिक्तदोषाजन्यत्वं व्यावहारिकत्वम्”। नैतदपि रम्यम्, अविद्यायाः स्वरूपस्याद्याप्यसिद्धेः । दोषान्तरमप्यस्ति लक्षणे । कुत एतत् ? प्रातिभासिकं सर्वमप्यविद्यातिरिक्तदोषजन्यं भवतीति तद्वारणाय प्रवृत्तौ - अविद्यारूपदोषमात्रजन्यं व्यावहारिकं भवतीत्येवं वक्तव्यम् । अविद्या यद्यपि व्यावहारिकी तथापिनजन्मप्रसक्तिरस्यामिति तस्यामव्याप्तिपरिहाराय प्रवृत्तौ - अजन्यं व्यावहारिकमित्यपरं लक्षणं वक्तव्यम् । एवं स्थिते मूलाविद्यातिरिक्तदोषाजन्यत्वमिति लक्षणेऽति व्याप्तिवारणस्थले - अजन्यम् इत्यस्य प्रकारान्तरेण जन्यत्वमर्थः । अव्याप्तिनिवारणस्थले पुनः सर्वथा जन्यत्वाभावोऽर्थः । इत्थं चाजन्य शब्दस्य प्रवृत्तिनिमित्तभेदान्नास्त्येवात्र लक्षणमुभयसाधारणमिति कुतः सिद्धिर्व्यावहारिकसत्त्वनिर्वचनस्य ? स्यादेतत् - अविद्याप्यात्मनो विवर्तः । तस्मादात्मजन्यत्वमस्त्येवास्यामपि । तदत्रापि प्रकारान्तरेण जन्यत्वमे वार्थोऽस्तु, किमनेन मुधा दोषोद्भावनेनेति । तदपि नोपपद्यते । अविद्याया

खण्डः )

सुषुप्त्यविद्यावादे दोषान्तराणि अनादित्वस्याभ्युपेगतस्य प्रहाणेः । न च वाच्यं आत्मातिरिक्तजन्यत्वाभाव एवानादितेति । सर्वस्याप्यात्मजन्यत्वादनादित्वप्रसङ्गात् । ननु च भोः सर्वस्याविद्याव्यतिरिक्तवस्तुनः आत्माविद्यारूपोभयकारणजन्यत्वमस्ति, अविद्यायां तु न तथेति विशेषः । मैवम्, अविद्याजन्यत्वसिद्धौ व्यावहारिक त्वसिद्धिः, तत्सिद्धौ च तत्सिद्धिरिति परस्परालम्बनदोषग्रासात् । जीवेश्वरा दीनामनादित्वमभ्युपगम्यते त्वया, न च तेषामुक्तलक्षणलक्षितमनादित्वम् । तस्मानास्त्येतदुक्तलक्षणे सर्वत्राजन्यशब्दस्य प्रकारान्तरेण जन्यत्वमेवार्थ इति । अतो न भवत्येतदपि निर्दुष्टं लक्षणम् ॥

न च लक्षणान्तरं सम्भावयामो भवत्पक्षे । तदेवं सुषुप्तौ व्यावहरिक्येव मूलावियेत्येतदप्यसङ्गतं वचनं व्यावहारिकत्वस्यैवानिरुक्तरित्यास्तां विस्तरः ॥

सुषुप्त्यविद्यावादे दोषान्तराणि

५९. द्वैतबन्धस्य मिथ्यात्वे हेत्वभावः - तदेवं भावरूपाविद्याया: स्वरूपासिद्धिः, अभ्युपगताया अपि तस्या बन्धमोक्षाद्यनुपपादकत्वम्, विद्यया च तदुच्छेदानुपपत्तिः, परमार्थव्यवहारविभागबीजाभावश्चेत्येते दोषा आचार्यदेशीयानां पक्षे वर्णिताः । अज्ञानसिद्धये चोपनीता हेतवश्चा भासिताः । एतेन भावाविद्याया अनिर्वचनीयत्वं यदुररीक्रियते तदनिर्वच नीयमेव भवत्येतत्प्रक्रियायामिति सिद्धम् । न हीदृश्या अविद्यायाः शून्याद्भेदं भाविकं सम्भावयेदत्यन्तमूडोऽपीति ततश्च द्वैतबन्धस्य मिथ्यात्वे हेत्वभावात् प्रतिज्ञामात्रमद्वैतमितीत्यवश्यं मन्वीरन् बुभुत्सवः ।।

७८

मूलाविद्यानिरासः

(द्वितीयः ६०. अवस्थानां पौर्वापर्यकल्पनमयुक्तम् - अपि च दोषान्तराण्यपि सन्त्यस्मिन्वादे । तत्र दिङ्गात्रं दर्शयामः । तत्रायं प्रथमो दोषो यदवस्थानां पूर्वोत्तरत्वप्रकल्पनं परस्परं कार्यकारणभावकल्पनं चेति । सुषुप्तिस्तावत्, तदुत्तरकालं जागरणम्, जागरणोत्तरकालश्च स्वप्न इति स्वापजागर स्वप्रानामुत्तरोत्तरस्य पूर्वपूर्वसमनन्तरभावित्वम्, तत्तत्कार्यत्वं चाभ्युपगम्यते भवद्भिः । अन्यथा हि स्वापाज्जागरप्रपञ्चोद्भावे कारणगवेषणम्, स्वप्नस्य जागरितवासनाजन्यत्वप्रतिज्ञानं च किमुपजीव्योत्थाप्यतेति । वयं त्वत्र प्रतिपद्यामहे - नायं साधुरभ्युपगमः, प्रमाणाभावात् । न ह्यस्ति प्रमाणं सुषुप्त्यनन्तरं जागरेणैव भाव्यमिति, स्वप्नोद्भवस्य निवारकाभावात् पूर्वोपदर्शितमुद्रया स्वप्रजागरयोर्भेदकलक्षणाभावाच्च । अत एव जागृतेरनन्तरं स्वप्न इत्यपि न सम्भवति । तस्मान्नास्ति नियमो यदवश्यं सुषुप्ताज्जागृतिरेवानन्तरभाविनी जागृतिश्च स्वप्नतः समन्तरपूर्वैर्वेति ॥

एतेन सुषुप्त्यादीनां कार्यकारणभावोऽपि निराकृतो भवति । यस्मात् कारणं कार्यस्य समनन्तरपूर्ववृत्तीति नियमोऽभ्युपगम्यते कारणवादिभिः । दर्शितस्तु नैयत्याभावोऽवस्थानां पौर्वापर्यस्येति । ननु यद्यपि स्वप्रजागरित योनियतानुपूर्व्यभावः, तथापि, सुषुप्तिपूर्वकत्वाज्जागरितस्वप्नयोस्तत्रापि सिद्धः कार्यकारणभावः किं कारणं प्रद्विष्यते ? तत्र शृणु । सुप्तिं कारमिति जागरितं कार्यमिति च ये ब्रूयुः, ते तयोरवस्थयोरनुगतः कालोऽस्तीति मध्ये च तयोरसुप्त्यजागरितरूपान्तरालमस्तीति चाप्यभ्यनुजानीयुः । नत्वेषोऽभ्युपगमो न्याय्यः । तथा हि - न तावदवस्थयोरन्तरालं किञ्चिदनु भूयते सम्भाव्यते वा । तद्ध्यन्तरालं भवत्कीदृशं भवेत्, विषयसहितं तद्रहितं वा? आद्ये जागरितस्वग्नयोरन्यतरत्वम् । द्वितीये तु सुषुप्तेरव्यतिरेक

७९

खण्डः )

सुषुप्त्यविद्यावादे दोषान्तराणि एव प्राप्नोति । न चास्त्यन्य प्रकारः । तस्मान्न सम्भव्यभ्यन्तरमवस्थयोः ।।

नन्ववस्थानां गमागमरूपत्वात् तदाधारभूतः कालः सर्वास्वप्यवस्था स्वनुस्यूतोऽनुमीयताम् । न हि कालस्याभावः शक्यसम्भावन इति । नैतदेवम् । यस्मात्सुषुप्तौ नानुभूयते केनचिदपि कालः । गमागमत्वं क्रमिकत्वं चावस्थानामित्येतदनुभवविरुद्धत्वाद् भ्रान्तिरेवेति निर्णेतव्यम् । न त्वनुभवमप्यनादृत्य गाढनिद्रायामपि कालसत्त्वं कल्पयितुं युक्तम् । यत्सत्यं कालावच्छिन्नमनसः कालाभावो दुरवधारण इति, कालशब्दप्रत्ययौ विना व्यवहार एव नात्मानमासादयतीति च । तथापि सुषुप्तौ कालाभावस्य दृष्टत्वान्न साध्वनुमानमवस्थात्रयानुगतः काल इतीति स्पष्टमेव सूक्ष्म मतीनाम् । अपि च स्वप्ने यः कालाभासः स न भवितुमर्हति जाग्रत्काल एवेति सर्वसम्प्रतिपन्नमेतत् । न च स्वप्रे स्वाप्रकालाधारः परोऽखण्ड कालोऽनुभूयते । तस्मान्न सम्भावनीयः समानकालाधारत्वमवस्थात्रयस्य । परित्यक्ते तु समानकालाश्रयत्वे नैव सम्भवति सुषुत्यादीनां कार्यकारण भावः ॥

तदित्थं सुषुप्तादीनां परस्परसापेक्षताया असिद्धत्वात् जाग्रत्प्रपञ्चोप लम्भसिद्ध्यर्थं सुषुप्ताविद्यास्वीकारो, “न किञ्चिदवेदिषम्” इत्यस्य सौषुप्तस्मरणत्वाभ्युपगम: स्वप्रप्रपञ्चस्य जाग्रद्वासनारूपत्वाङ्गीकार श्चेत्येतत् त्रितयमपि निरुपपत्तिकमिति यत्प्रागेवादर्शितं तदपि दृढीकृतं भवति । अवस्थात्रयानुगतस्य कालस्य अवस्थात्रिके परस्परकार्य कारणत्वस्य वा सिद्धिमन्तरा उक्ताङ्गीकारानुपपत्तेः ।।

६१. सुषुसेरज्ञानकारणकत्वे तत्स्वरूपत्वे च दोषः - अपि च

मूलाविद्यानिरासः

(द्वितीयः सौषुप्ताज्ञानवादिनः पर्यनुयोज्या भवन्ति - अविद्या यदि प्रपञ्चकारणं तर्हि प्रपञ्चकुक्षौ तिस्रोऽप्यवस्था निक्षिप्येरन वा । आद्ये सत्यपि कारणे मूलाज्ञाने कुतो निद्रा सदा न भवतीति । न प्रतिबन्धकसत्त्वात्, तथा हि सति तन्नोदकाभावे भावे वा सुषुप्तेरेव न स्यादवकाशः । प्रतिबन्धक नोदकस्याभावे हि तस्य लब्धप्रसरत्वात् सुषुप्तेरवश्यं स्यात्प्रतिबन्धः । भावे च तस्यैव द्वितीयत्वादात्मनः सुषुप्त्यभावः । द्वितीये तु कल्पे सुषुप्ते रज्ञानं कारणं न वेति विचिकित्सायां पूर्वोक्तमुद्रयानारतं सुषुप्तिरेव प्रसजेत् सुषुत्यभावो वा स्यात् । अथवा सुषुप्तेर्निनिमित्तत्वं दुष्परिहारणीयं भवति । तच्च पूर्वमेव दूषितम् ॥

अथ सुषुप्तमेवाज्ञानमितीष्यते, हन्त तर्हि सुषुप्तिविगमे विरमेदपि भावाज्ञानम्, अहमस्वाप्समिति व्यवहारस्यान्यथानुपपत्तेः । यदि मनुषे कारणावस्थां परित्यज्य कार्यावस्थां प्राप्स्यत्यविद्या जागरस्वप्नयोः, ततश्चोपपन्नः समुदीरितव्यवहार इति । तत्र पृच्छामः - कारणाविद्या जागरितस्वप्रयोर्यदिन विद्यते तर्हि सुषुप्ते सत्यपि सा कथं केन प्रत्यभिज्ञायेत, कथंतरां तत्स्वरूपंजागरितेऽत्यन्तमप्रसिद्ध जागरितप्रपञ्चोपलम्भलिड़ा दनुमीयेतेति ॥

ननु कार्यकारणोभयरूपाप्यविद्या विद्यत एव जाग्रत्स्वानयोः । न हि घटत्वमापद्यमाना मृत्स्वात्मनो मृत्त्वमपजहातीति चेत् । न तर्हि कारणा ज्ञानमेव सुषुप्तिः, तस्यावस्थान्तरेऽपि सत्त्वात् । न च कारणाज्ञानमात्रं सुषुप्तिरिति वक्तुं युक्तम् । कारणाज्ञानस्य कार्याज्ञानसाहचर्यस्याप्यभ्युप गमात् सुषुप्तिजागरितयोर्मुद्धटयोरिवैकस्मिन्नेव पुरुषे सह सम्भवप्रसङ्गात् ।।

खण्ड:)

८१

सुषुप्त्यविद्यावादे दोषान्तराणि ६२. सुषुप्तिस्वरूपमपि दुर्निरूपम् - कीदृशीं च सुषुप्तिमभिप्रेत्य तस्यामज्ञानसत्त्वमुररीकुर्वन्ति भवन्त इतीदमपि विचारणीयम् । ननु किमस्ति विचारणीयम् ? इन्द्रियमनआदीनां व्यापारोपरमे स्थूलसूक्ष्मोभयरूप प्रपञ्चस्य कारणात्मनावस्थानमेव सेति चेत् । अत्रैव विमर्शनीयम् - किमवस्थानक्रियारूपा सुषुप्तिराहोस्वित् तत्फलरूपा, उत यदात्मनाव स्थितिस्तदेवेति । न प्रथमः, परिणामस्य तादृशस्य केनाप्यनुपलब्धेः । न हि सुषुप्तिरूपः परिणामोऽयमित्यनुभविता कश्चिदस्ति । यद्यस्तीत्युच्येत तर्हि सुषुप्तित्वमेवास्या स्थितेर्भज्येत, सुषुप्तौ सकलविशेषज्ञानविरह इत्युभयसम्प्रतिपत्तेः । न द्वितीयः कल्पः, तादृशस्य फलस्य निर्वचना नर्हत्वात् । नो खलु तत्फलं द्रव्यगुणकर्माद्यन्यतममिति निर्वक्तुं शक्यम् । ततः प्रतिज्ञामात्रमेव सुषुप्तिरवस्थानक्रियाफलमिति । नाप्यन्तिमः पक्षः क्षोदक्षमः । यदात्मनावस्थितिर्मता तत्कारणं किमविद्यातो भिद्यते किं वा नेति विचारे किं स्वरूपिणी स्यादविद्या पूर्वस्मिन् कल्पे ? अथाविद्यैव तत्कारणम्, तदपि न, पूर्वोक्तदोषात् । अपि च यद्यविद्यैव कारणं सुषुप्तिश्च, सुषुप्ति भावरूपाविद्येति किमिति नानुभवति सर्वो लोकः ? उक्तश्चायमर्थः सुषुप्तेः कारणत्वं न न्याय्यमनुमन्तुमिति ।

नन्वभावालम्बना वृत्तिनिद्रा भविष्यति, तत्र तन्त्रान्तरसंवादसद्भावादिति चेत् । मैवम्, वृत्तिमतः स्वरूपावधारणाभावात् । यदि मन्यसे तत्स्वरूप मज्ञानमेवेति नानवधारणमिति, तायातमज्ञानवृत्तिरूपायां सुषुप्तौ तवृत्तिमतोऽज्ञानस्य सत्त्वमिति वाचोयुक्तेर्निरर्थकत्वम् । यदपि तार्किकैः सह सन्धिं कृत्वा वृत्तिवृत्तिमतोः समवायसम्बन्धः स्वीक्रियते तदाप्यज्ञानस्य स्वरूपाद्यसिद्धिस्तदवस्थैवेति सर्वमेतदभित्तिचित्रमेवेति पर्यवसास्यति ।

८२

मूलाविद्यानिरास

(द्वितीयः तस्मात्स्वरूपस्यानिरूपणात् सुषुप्तेः, तत्र भावाविद्याप्रतिज्ञानं प्रतिज्ञामात्र मेवेति सिद्धम् ॥

६३. अवस्थालक्षणाभावश्चास्मिन् पक्षे- अपि च किं नामावस्थात्वं यस्मिन् सिद्धे सुषुप्तिरप्यवस्था स्यात्, तथा चाविद्याधिकरणत्वे संशय भूमिरिति ? न तावद्विकारित्वम् । कस्य हि सा विकृतिः स्यात् ? न मनसः, सुषुप्तौ तत्सत्त्वे मानाभावात् । नाप्यात्मनः, अनभ्युपगमात् । नाप्यनुभवस्थानत्वमवस्थात्वम्, सुषुप्तौ स्थानत्वबुद्धेरभावात् । नाप्यनु भवकालत्वं तत्त्वमिति साम्प्रतम्, सुषुप्तौ तद्बुद्धेरप्यभावात् । न चान्यदस्ति लक्षणमवस्थात्रयसाधारणम्, येन सुषुप्तिमवस्थां सम्प्रधारयामः ।।

ननु लोकसिद्धवावस्था किमनया विडम्बनया? न हि कश्चिदत्यन्त मूढोऽपि सुषुप्तिमवस्थां न मन्यत इति चेत् । हन्त भोः किमिति सर्वलोकसिद्धामविद्यां परित्यज्यादृष्टश्रुतचरीमभ्युपगतवानसि ? ननु लोकसिद्धमेव स्वीकार्यमिति कुतोऽयं निर्बन्धः ? विचारसिद्धं भावाज्ञानमपि स्वीकुर्म एव, तत्र कः प्रतिबन्धः ? मैवम्, तथापि लोकसिद्धाज्ञानं कुतो न स्वीक्रियत इति वक्तव्यत्वात् । न न स्वीक्रियते किं तु ज्ञानबाध्याज्ञानत्वेन न स्वीक्रियते विचारासहत्वादिति चेत् । तर्हि लोकसिद्धमेव सुषुप्तेरवस्थात्वं विचार्यताम् । तद्यदि विचारबाध्यं तदपि त्याज्यं भविष्यति, इतरथा तूपगन्तव्यमिति समानम् ।।

एतेन यदुच्यते कैश्चिदाधुनिकैस्तदपि निरस्तं वेदितव्यम् । इत्थं किल तेषां पाश्चात्यदार्शनिकानामभ्युपगमः - अवस्था नाम विकार एव । आत्मा च विकारस्रोतोरूप एव । तस्य न विद्यते आदिरन्तो वा । एष चखण्डः )

सुषुप्त्यविद्यावादे दोषान्तराणि प्रवाहो गङ्गादिस्रोतांसीव स्वमार्गेऽनुभवान् नवनवानात्मसात्कुर्वाणस्ततो भवत्युपचितः । तस्यास्य प्रवाहस्य परिणामप्रकारं निर्दिधारयिषुणा चित्तेन पूर्णप्रवाहं गोचरयितुमशक्नुवता इतस्ततो भागश आदाय वीक्ष्यते । वस्तुतस्तु नास्त्येव विच्छेदो जगत्प्रवाहस्य कुत्रचित् । त एते भागा निरूपणार्थं मनःकल्पिता अवस्थाशब्दभाजो भवन्ति । उक्तप्रवाहव्यतिरिक्तो नास्त्येवात्मा नाम कश्चित्कूटस्थरूपः अखण्डविकारप्रवाहेऽस्मिन् कस्यचिदपि कूटस्थसत्त्वस्य दुरूहत्वात् । तस्माद्यथा किल बुद्धिः खण्डश: प्रकल्पयत्यवस्थाः, तथा तदनुस्यूतमपि किञ्चिदात्माख्यं कूटस्थमस्तीति भ्राम्यति सैव बुद्धिः । वस्तुतस्त्वनादिरनन्तोऽखण्डप्रवाह एव तत्त्वमिति ॥

तदेतदापातरमणीयं क्षणिकविज्ञानसन्तानवादस्य सौगतैः प्राचीन: कल्पितस्य रूपान्तरेण पुनरागमनम् । सर्वमप्यखण्डप्रवाहपतितमिति हि प्रतिज्ञाय कथमिदं शक्येत वक्तुं बुद्धिरस्मिन् भागानवस्थाशब्दवाच्यान् प्रकल्पयतीति । अन्तर्भूतैव हि बुद्धिरपि स्वपरीक्षितव्यप्रवाहे, तत्कथं स्यात्समर्था स्वपरीक्षायामिति । किं चान्यत् - अहमहमिति सर्वजन्तुषु प्रथमानश्चैतन्यरूप आत्मा किं बुद्धेभिन्नः किं वा नेति विकल्पनायामाचे सोऽपि प्रवाहरूप एव स्यात्, कूटस्थद्रव्यस्यैवानभ्युपगमात् । तत्र कथं प्रभवेद्बुद्धिः परीक्षितुं तस्य भागं स्वयमप्यविच्छिनं प्रवहन्ती ? द्वितीयपक्षे तु भवति प्रश्न: - यदि नित्यविक्रियैव बुद्धेस्सर्वस्य प्रपञ्चस्य च स्वभावस्तदा तस्माद्विक्रियास्वभावाददृष्टाश्रुतचरंस्थेमानमाकलयन्ती बुद्धिः कथमात्मानं लब्धवतीति । यदि ब्रूषे - नाहं जाने केन प्रकृतिनियमेन विक्रियैषा भान्तिरूपस्थैर्यग्राहिकां बुद्धिं सुषुव इति, स्थितमेव तु वस्तुवृत्तं विवरीतुं प्रभवामीति । तथापि ब्रवीतु भवान् - कथमध्यवसितो यगुद्धिगृहीतं

८४

मूलाविद्यानिरासः

(द्वितीयः स्थिरत्वादिकं भ्रान्तिमात्रं विक्रिया तु स्वभाव इति । ननु बुद्ध्यपेक्षत्वात् स्थिरवस्तु विभ्रममात्रं बुद्धिव्यवधानमन्तरेण साक्षादेव ग्रहणान्नित्य स्यन्दनमेव तत्त्वमिति मन्ये इति । किमियं प्रवाहलक्षणा विक्रिया सदानुभूयते ? किं कारणं तर्हि सुषुप्तौ तस्या नानुभूतिस्तवापि ? अपि च यदापि चरस्थिरवस्तुरूपप्रवाहोपलम्भनम्, तदापि तत्साक्षी चरस्थिरोभय विलक्षणः स्वतःसिद्ध आस्थेय एव सर्वविक्रियावादिनापि, अन्यथा सर्वविक्रियात्वस्यैवासिद्धेः । न च साक्ष्यपि जगत्प्रवाहान्तःपाती परिणामविशेष इति साम्प्रतम्। प्राक्तथाविधपरिणामात् प्रवाहस्य निस्साक्षिकस्यैवाभ्युपगमप्रसङ्गात् । न चेष्टापत्तिः, निस्साक्षिकस्य कस्यचिदपि मनसा चिन्तयितुमशक्यत्वात् । किं चान्यत् जगदनारतं प्रहवतीत्यखण्डप्रवाहरूपं तत्त्वमभ्युपगच्छन् प्रष्टव्यो जायते - अयं प्रवाह: कुत्र कं स्थानविशेषं प्रतीति । यधुच्येत - स्वभावोऽयमपर्यनुयोज्य एवेति । नैतत्सम्भावनीयम्, जगदनन्तःपातिनोऽनन्ताकाशस्य निरुपपत्तिक स्यानुभूतिं विनैव स्वीकारप्रसक्तेः । अन्यथा प्रवाहशब्दस्यार्थशून्यत्वा पत्तेश्च । स्वाभाविके जगत्प्रवाहेऽन्तर्भूतानां पुरुषाणामस्वातन्त्र्यप्रसङ्गा द्धर्माधर्मादिव्यवस्थापरिप्लवश्च प्रसज्यतेऽस्मिन्दर्शन इति बह्वसमञ्जसं कल्पितं स्यात् । तस्मादसच्चिन्त्यमिदं बुद्धपरीक्ष्यजगत्प्रवाहत्वम्, तस्मिंश्च प्रवाहभागे बुद्धिरवस्थाः कल्पयतीत्येतदत्यन्तासम्भावितकल्पनमवस्था तत्त्वमविजानतां इत्यलं प्रसङ्गागतसौगतसजातीयप्रक्रियाप्रत्याख्यानेन ॥

यद्यपि भावाविद्यावादिनो जगत: प्रवाहरूपतां न मन्यन्ते, तथा चैतन्मतखण्डनं न प्रकृतोपयोगीव तथापि जाग्रत्स्वप्रसुषुप्तीनां पूर्वापरीभावं मन्यमानः कश्चिदनादिवादशरणतया बीजाङ्कुरन्यायेनावस्थानां प्रवाह

८५

खण्ड:)

सुषुप्त्यविद्यावादे दोषान्तराणि रूपतामपि यद्यङ्गीकुर्यात्, तस्य परिहारार्थं भविष्यतीति न दोषः । न चास्तिकानां भावाविद्यावादिनां श्रुतिस्मृत्यवष्टम्भादनादिवादो न दोषायेति शकुनीयम् । तेषां व्यवहारपरमार्थविभागसिद्ध्या सर्वस्यैव संसारस्य पारमार्थिकत्वेनैवानादिता स्यादित्युक्तदोषानुषङ्गात् । अपि च यथा जगत्प्रवाहवादिना तथा जगत्स्थैर्यवादिनाप्यवस्था नाम मनःकल्पितो यः कश्चित्कालिको विशेष इति वदितुं नैव पार्यते, सषुप्तौ मनसस्तदनु भावस्य वा अदर्शनादित्येतदपि समानं दूषणम् । तदास्तां विस्तरेण । इदं त्वत्र प्रकृतम् - निर्वचनाभावादवस्थात्वस्य सुषुप्तेरवस्थात्वमेव न सिध्यति । दूरतः प्रत्याशा तत्र भावरूपाविद्यासद्भावस्येति ॥

६४. द्वैतिभिरापाद्यमानमनुपपत्तिसप्तकं चात्र दुष्परिहरम् - दुष्पाणिग्राहश्चायं मूलाविद्यापक्षः । यतोऽस्मिन् वादे द्वैतिनोऽनुपपत्ति सप्तकं प्रसजतीत्याचक्षते । तच्च दुर्वारणं यथास्मिन् दर्शने तथा सक्षेपतो दर्शयिष्यामः । आद्या तावदाश्रयानुपपत्तिः । स्वयंप्रकाशे हि ब्रह्मण्यविद्या सम्भवहेतोरभावे जीवभावस्य च स्वेनैव परिकल्प्यत्वात्किमाश्रित्येयमविद्या जीवभ्रमं जनयेत् ? तिरोधानानुपपत्तिद्वितीया । स्वयंप्रकाशरूपे ब्रह्मणि स्वरूपातिरोधानं नाम न खलु युज्यतेऽविद्याकृतमपि । यदि स्यात्स्वरूप विच्छेद एव प्रसज्येतेति । अथ तृतीयास्वरूपानुपपत्तिर्नाम । इयं ह्यविद्या न सती, अनभ्युपगमात् नाप्यसती, असद्धेतोर्धमजनकस्य शङ्कावादिभि रनङ्गीकारात् । अत्यन्तासतः शशविषाणादेर्धमजनकत्वादृष्टेश्च । यदि मन्यते - तस्मादेवेयमनिर्वचनीयेति स्वीक्रियते, ततो न सदसद्विकल्प दोष इति । ततः प्रतीतिविरोधः । सर्वा हि प्रतीतिः सदसदाकारैवेति, सदसद्विलक्षणवस्तुनि किं स्यात्प्रमाणम् ? न चैवं वाच्यम्, आत्मा सन्

मूलाविद्यानिरासः

(द्वितीयः ततोऽन्यदसत्, उभयस्मादपि विसजातीयमनिर्वचनीयमिति । आत्मसत्त्व मेव ह्यन्यासाधारणं न प्रतिष्ठापितमद्यापि भवता । सेयमनिर्वच नीयतानुपपत्तिचतुर्थिका स्वरूपानुपपत्तिः । प्रमाणानुपपत्तिरत्र पञ्चमी । न हि प्रत्यक्षादिकमविद्याविषये प्रमाणं भवति । यद्यदानीयते प्रमाणत्वेन । तत्सर्वमपि खलु त्वदनिष्टज्ञानाभावरूपाज्ञानविषयत्वेनैव नेतुं शक्यते । यत्तु भवदभिमतमनुमानम् - प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषया वरणस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकम्, अप्रकाशितार्थप्रकाशकत्वात्, अन्धकारे प्रथमोत्पन्नप्रभावदिति । न तत्समीचीनमिव, स्वप्रागभाव व्यतिरिक्तेति विशेषणदाने कारणाभावात् । न हि प्रागभावो न निवर्त्यते । दृष्टान्ते वैषम्यसद्भावाच्च । ज्ञानं विना हि न केवलस्य दीपस्य प्रकाशक त्वमस्ति । विवादाध्यासितं प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तपूर्वकं न भवितुमर्हति, प्रमाणज्ञानत्वात्, भवदभिमताज्ञानसाधनप्रमाणज्ञानवदित्यादि प्रतिप्रयोगसंभवाच्चैतदनुमान न समीचीनम् । तदेवं लक्षणप्रमाणशून्य त्वादज्ञानस्वरूपानुपपत्तिः पुरोक्ता सुप्रतिष्ठापिता । भवत्यन्याप्यनुपपत्तिरत्र । यतो निवर्तकमप्यविद्याया नोपपद्यते । यदपि ब्रह्मात्मैकत्वज्ञानं श्रुतिबोधितमस्या निवर्तकमिति, तत्स्वसम्प्रदाये श्रद्धां वहतो मनोरथमात्रम् । यस्माद्भेदवादिभिः श्रुतेस्तात्पर्यमन्यदेवेति वर्ण्यते । अथास्या निवृत्त्यनुप पत्तिरुपव्याख्यायते । वेद्यवेदितृवेदनादेमिथ्यात्वाभ्युपगमाद्विद्यापि मिथ्यैवेत्यायाति । ततश्च यथा मिथ्याभूताया अविद्याया निर्वतकान्तर मुपेतव्यं तथा विद्याया अपि तन्निवर्तकस्यापीत्यनवस्था वा तदनिवृत्तिरेव वा स्यात् । न चेदं शङ्कयम् - ब्रह्मस्वरूपमेव ज्ञानं तज्ज्ञाननिवर्तकमिति । ब्रह्मणि तद्विनिवर्तके तिष्ठति सति ज्ञानस्यैवानुदयप्रसङ्गात् । ज्ञातापि

८७

खण्ड:)

सुषुस्यविद्यावादे दोषान्तराणि किमध्यस्तरूपो जीव एव उत ब्रह्मेति विचार्यमाणे उभयथापि दोष: प्रादुःष्यात् । अध्यस्तरूपस्य हि जीवस्य नाविद्यापरिमोषिज्ञानकर्तृत्वं सम्भवति । ब्रह्मणि तु सम्भवदपि ज्ञानं न मिथ्या भवेत् । यदा हि तदपि मिथ्यारूपं तदा तस्याप्यविद्या मूलं भवति । तथा चाविद्याया निवर्तकानुपपत्तिदौस्थ्यमेव स्यादिति । अथ तस्या अविद्याया निवृत्ति रभ्युपेयते । तत्रापि भवति पुनश्चिन्ता दुरन्तानिवर्तकज्ञानस्य कर्ता को भवेदिति ? तस्मादेतद्रूषणपरिहाराय ब्रह्मणि ज्ञानं न मिथ्येत्यङ्गीकार्य भवति । ततश्च स्वाभिमतहानिः । न हि ब्रह्मव्यतिरिक्तं किञ्चिदपि सत्यमास्थीयते मूलाविद्यावादिना । अपि च न कोऽपि ज्ञाता स्वनाशहेतुभूते ज्ञाने स्वयं प्रयतते । एवमपि नोपपद्यते निवृत्तिः । इत्येवमधस्तात्समासतो दर्शितमनुपपत्तिसप्तकं द्वैतिभिरुद्भाव्यमानं मूलाविद्याप्रक्रियायाम् । न चैतस्माद्दूषणसप्तकात्परिमोक्षं पश्यामो भावाविद्यामवस्थात्रयेऽप्यनु गतामाश्रियमाणस्य । तस्मादपि न युक्तियुक्तेयं प्रकृता प्रक्रियेति सिद्धम् ।।

सौषुप्तस्मरणात् प्रबोधजगतो बीजं समुत्रीयते मानैश्चाक्षमुखैः प्रयत्य परमोत्साहेन संवर्यते । जीवब्रह्मविभागसिद्धिफलकं सुप्तौ न किं स्यादहो मूलाज्ञानविदो विदुर्न तु परे सिद्धान्तमेनं शुभम् ॥

इति श्रीमत्पूज्यपादशङ्करभगवच्चरणस्मरणपरिचयाप्तवेदान्तप्रवेशेन श्रीबोधानन्देन्द्रसरस्वतीशिष्येण सच्चिदानन्देन्द्रसरस्वत्याख्येन भिक्षुणा (सुब्रह्मण्येन) विरचिते श्रीमति शङ्करहृदये मूलाविद्यानिरासे एकीयमतसमालोचनं नाम द्वितीयः खण्डः