१ विषयावतरणम्

प्रथमः खण्डः

(विषयावतरणम्) अवस्थारहितं मूढस्क्र्यवस्थमिति कल्पितम् । आस्तां पुरस्तात्तत्तेजो मूलाविद्या निरासकृत् ॥

पीठिका १. वेदान्तप्रक्रियासूचनम् - निर्विशेषानवच्छिन्नशुद्धचैतन्यस्वरूपे सर्वात्मनि मिथ्याभूतस्यानात्मनः संसर्गमारोप्यमाणमबुधैरपोद्य वस्तुस्व रूपस्य निर्विचिकित्सं निश्चयार्थं निखिलनिगमारम्भ इति भगवता भाष्यकारेण सोपपत्तिकं प्रस्थानत्रयेऽपि प्रदर्शितम् । तत्र सर्वेऽपि वेदान्ता जाग्रव्यवहारे विषयविषयिविभागमादायात्मानं विविञ्चन्ति । झटित्यवगत मिथ्याभावे स्वप्रे पुनस्तस्यैवात्मनः स्वयंज्योतिष्ट्वं प्रतिपादयन्ति । जाग्रत्स्वप्रप्रपञ्चयोः सर्वसमतासूचनेन च विषयमिथ्यात्वं प्रतिष्ठापयन्ति । अथापि विषयसाहचर्यं नैवात्मा विजहातीत्यतः सविशेषो विषयावच्छिन्न एवेति कांश्चिन्मन्दमतीन प्रतिभायात् । तन्निराकरणाय सर्वविषयमलवर्जितां सषप्तिमपन्यस्य आत्मनो निस्सङत्वंढीकर्वन्तीत्येवमवस्थात्रितयपरीक्षणेन कृतार्थयन्ति जिज्ञासूनात्मतत्त्वावेदनेन ।।

२. प्रकरणविषयादि - एषैव प्रक्रिया वेदान्ताभियुक्तैरादृता निर्दुष्टा चेति स्पष्टमेव सूक्ष्ममतीनाम् । अथ स्यादुच्छेदात् संप्रदायाध्वनोऽस्याद्वैतस्य

मूलाविद्यानिरासः

(प्रथमः निस्संशयं तत्त्वं निश्चेतुमशक्नुवानः स्वयमजानद्भिरेव द्वैतिपरिणतैरद्वैता चार्यमन्यैः कैश्चिदन्यथान्यथा प्रतिपाद्यमानेन प्रक्रियाभासेन मोमुह्यमानो दरीदृश्यतेऽद्यतनजिज्ञासुगण इत्यतो भाष्यत्रये तत्र तत्र प्रकीर्णान् विचारानेकत्र पुजीकृत्य द्वैतवासनादूषितान्तःकरणैः प्रोच्यमानविषयाणां सारासारविवेचनपूर्वकं वेदान्तार्थप्रक्रियातत्त्वनिर्धारणार्थमिदं प्रकरणं प्रस्तूयते ।।

जिज्ञासुप्रतिपत्तिः ३. सुषुप्तिकालेऽपि प्रपञ्चोऽस्ति - अत्र भवति जिज्ञासोः प्रतिपत्ति: यद्यपि जाग्रति विद्यमानं विषयजातं स्वप्ने नोपलभ्यते, सुषुप्तौ च सर्वविधविषयाननुभूतिः सकलजनसाधारणी, तथापि नैतावता निष्प्रपञ्च त्वमात्मनः सेद्धमर्हति । तथाहि - सुप्तोत्थिताः सर्वेऽपि यथापूर्वमेव प्रपञ्चमुपलभन्ते जाग्रति । न कश्चिदपि संशेते - इदमेव वा स्यान्मदीयं गृहं यस्मिन्नहं ह्यो रात्रौ सुष्वाप किमन्यदेव वेति । व्यवहारे चान्यैः सह न कदापि विसंवादो भवति कस्यचिदपि सुप्तिपूर्वतनजाग्रत्यनुभूतस्य विषयस्य तादवस्थ्यविषये । सुषुप्तिं गते हि सत्येकस्मिन् पुरुषे न सर्वेऽपि प्रसुप्ता भवन्तीति न तदानीं जगद्विच्छित्तिः स्यात् । अपि च यदि सुषुप्तौ सर्वोऽप्ययं प्रपञ्चः समुच्छिद्येतात्यन्तमेव, कथमिदमुपपद्येत यज्जागरिते नियतं प्रपञ्चोपलम्भनमिति ? न हि प्रतिजागरमभूतपूर्वमेव जगत्प्रत्यग्र मुत्पद्यत इति शक्यतेऽभ्युपगन्तुं, सकलप्रमाणविरोधेन अभावादपि भावोत्पत्तिः स्वीकृता मा भूदिति । न चैतदुचितं तदेवेदमिति निश्चित तद्भावावगमकस्य प्रत्यभिज्ञानस्योपेक्ष्यत्वापादनमसति बाधके ।खण्ड:)

जिज्ञासुप्रतिपत्तिः तस्मान्न्यायपरिशुद्धा न भाति सुषुप्ते प्रपञ्चो न विद्यत इत्युक्तिः ।।

४. जाग्रत्स्वप्रयोः प्रपञ्चो दृश्यते - नापि स्वप्ने प्रपञ्चस्याभावः । दृश्यते हि यः कोऽपि प्रपञ्चाभासस्तत्रापि । न च वाच्यं - जागरितेऽपि प्रपञ्चाभास एव, न त्वस्ति पारमार्थिकः प्रपञ्चः, मानाभावात्, तथा च न भ्रान्तिसिद्धेन प्रपञ्चेन सद्वितीयत्वमात्मन इति । जागरितं स्वप्रतुल्यमिति प्रतिज्ञामात्रेण हि न सर्वजनानुभवसिद्धं तयोर्वेषम्यमपह्नोतुं शक्यते । जाग्रति विद्यमानौ देशकालनिमित्तसम्पत्तिरबाधश्चेत्येतौ जाग्रदवस्थायाः स्वप्रतो वैलक्षण्यं स्फुटं गमयतः । अपि च निरिन्द्रियस्थानेऽवस्थितान्तःकरणे दोषसंस्कारनिमित्तजप्रत्ययप्रवाह एव स्वप्नस्तदन्यज्जागरणमिति तयोर्लक्षणभेदोऽपि सुप्रतिपदः । तथा हि श्रुतिः - न तत्र रथाः (बृ. ४ ३-१०) इत्यादिः स्वप्नस्य मिथ्यात्वप्रतिपादिका। स्मृतिश्च - इन्द्रियाणामुपरमे मनोऽनुपरतं यदि । सेवते विषयानेव तद्विद्यात् स्वप्रदर्शनम् ॥ (मो.ध. २७५-२४) इति । न च क्वचिदप्येवं शास्त्रेषु जागरितस्यापि मिथ्यात्वं प्रतिपादितमुपलभ्यते, नाप्यनुभूयते, येन भवेदपि तस्य स्वप्रतुल्यत्वम् । अथवा पुनरस्तु जाग्रत्स्वप्नयोर्भेदकलक्षणे न स्त एवेति । तथाप्यनुभवारुढत्वादेव सुखदुःखभेदवत्तयोर्भेदः केन वार्यते ? तस्माद्वैलक्षण्यात्स्वप्नजागरितयोर्न स्वप्नसाम्याजागरितेऽपि प्रपञ्चाभास: शक्यानुमानः । मा भूत्तुहिनसाधाद्दहनोऽपि तद्धर्मा इति । तस्मात्स्वप्ने प्रपञ्चाभासः प्रबोधे तु तथ्य एव प्रपञ्चः प्रतीयत इत्यभ्युपगन्तव्यम् । ततश्च सिद्धं सप्रपञ्चत्वमात्मनः स्वप्रे, निर्विवादमेव च जागरिते ॥

y

५. अवस्थात्रयपरीक्षणमेव नालं तत्त्वज्ञानाय - तदेवं सर्वथापि

मूलाविद्यानिरासः

(प्रथमः जगदात्मसम्बन्धस्य न कदाचिद्विगमो दृष्टोऽनुमीयते वेति मुधैवोच्यते परीक्षणमात्रेणावस्थात्रिकस्य निष्प्रपञ्चशुद्धात्मा प्रसिध्यतीति । अपि चास्मिन् पक्षे सुषुप्तिमात्रेण संसारपरिमुक्तो भवेत्सर्वोऽप्यागोपाल पण्डितमिति किमधिकारिका स्याद्वेदान्तश्रवणमननादितृष्णा ? न हि स्वत एव निवर्तिष्णोः संसारस्य निवारणेहा भवत्यमूढस्येति । न चैवं मोक्षप्रत्याशां सम्भावयामः, सुषुप्तौ मुक्तस्यापि जागरिते पुनस्तेनैव नवीनेन वा प्रपञ्चबन्धेन सितत्वदर्शनात् । तस्माद्युक्त्यपेतत्वाच्छास्त्रवैया पादकत्वाच्च मन्यामहे न समञ्जसमिदं दर्शनमिति ।।

एकीयसमाधानम् ६. आत्मनः कारणाविद्यासम्बन्धोऽस्ति सुषुप्तौ - अत्रास्मदीया केचित्समाधानमाहुः - सत्यमाह भवान् यजगदिदं निश्शेषं सुषुप्तौ न प्रविलीयत इति । यतः सततमसावात्मा संसारदशायामनाद्यविद्याप्रतिबद्ध दृष्टिर्नैव कर्तृत्वभोक्तृत्वे स्वस्य जातुचिजहाति । यद्यपि सर्वपरिच्छेदशून्य इव दृश्यते सुषुप्तौ तथापि तदानीमपि विद्यत एवास्य मिथ्याभूताज्ञान सम्बन्धः । तच्चाज्ञानं ज्ञानबाध्यमिति कृत्वा यद्यपि मिथ्येत्युच्यते, तथापि यावन्मुक्त्यनुवर्तिष्णुत्वात् न सुषुप्तिमात्रेण कस्यचित् कैवल्यप्राप्तिः प्रसञ्जयितुं शक्यते । तस्याज्ञानस्य मायाविद्याप्रकृतिबीजाद्यनेकव्यपदेश भाजः कारणावस्था कार्यावस्थेति च द्वे रूपे स्तः । सुषुप्तौ च कारणावस्थामाप्रोत्यविद्या । यत्सत्यं सा न तत्र गृह्यत इति । तथापि व्यञ्जकाभावादेवायमग्रहो न त्वविद्यमानत्वहेतोरिति सुप्तोत्थितानां परामर्शादवगम्यते । एवं हि तत्र परामर्शः - स्वापेन किञ्चिदवेदिष्मेति ।

खण्डः )

एकीयसमाधानम् न चायं परामर्शः केवलं ज्ञानाभावविषयकः, प्रतियोगिज्ञानस्याप्यभावात् सुषुप्तौ । किञ्च ‘मामप्यहं न ज्ञातवान्’ इत्यात्मविषयकस्याज्ञानस्य परामर्शोऽस्ति । तत्र कादाचित्कग्रहणाभावे सत्यपि नित्यस्वयंज्योतिषोऽन वगमहेतोरसत्त्वात्, विपरीतग्रहणरूपमिथ्याज्ञानस्य सुषुप्तावभावात्, केवलमिथ्याज्ञानसंस्काराणां तत्त्वज्ञानप्रतिबन्धकसामर्थ्याभावाच्च ज्ञानविरोधिभूतं भावरूपं सूक्ष्मावस्थापन्नं किञ्चिदावरणं विद्यत इत्यवश्यमभ्युपेतव्यं भवति ॥

७. जागरितेऽपि प्रत्यक्षमनुभूयते स्थूलावस्थापन्नं भावाज्ञानम् - एवं जाग्रदवस्थायामपि ‘मामप्यहं न जानामी’ति प्रत्ययबलात् प्रत्यक्षमुपलभ्यते किञ्चिदावरणम् । तत्र तु स्पष्टमेव यत् प्रत्यक्षप्रतिभासो ज्ञानाभावविषयको न भवतीति । प्रत्यक्षप्रमाणागम्यो ह्यभावः, तस्य षष्ठप्रमाणवेद्यत्वात् । यस्तु षष्ठं प्रमाणं नानुमन्यते तस्याप्यभावस्य न प्रत्यक्षत्वं घटते । तथा हि - अभावस्य धात्मा प्रतियोगि च ज्ञानं विज्ञायते न वा ? यदि विज्ञायेते, तदा तस्मिन्नेवात्मनि ज्ञानाभावग्रहणं न सम्भवति, अथ न विज्ञायेते, धर्मिप्रतियोगिज्ञानसापेक्षस्य का कथा ज्ञानाभावग्रहणस्य ? तदेवमुभयथापि नोपपद्यते प्रत्यक्षत्वमभावस्य । तस्माजागरिते यत्प्रत्यक्षतोऽनुभूयते तद्भावरूपमज्ञानमिति सिद्धम् ॥

८. ज्ञानविरोधित्वमेवाज्ञानशब्दप्रवृत्तिनिमित्तम् - वर्णितदिशा जाग्रत्यनुभूयमानमावरणं स्थूलरूपम्, तस्य तत्कार्यभूतप्रपञ्चस्यापि प्रत्यक्षमवगमात् । तथा स्वप्ने वासनासहितमनःकल्पितप्रपञ्चाभासस्य विद्यमानत्वादविद्या स्थूलैव । अस्यास्तु निद्रारूपागन्तुकदोषसहकृतत्वं

मूलाविद्यानिरास:

(प्रथमः विशेषः । सुषुप्तौ च सा सूक्ष्मा भवतीति दिष्टमधस्तात् । यदित्थं कार्याविद्या सूक्ष्मतामापन्ना सती कारणविद्यामूलाविद्यादिव्यपदेशभागिनी भवति सुषुप्ते, तदेतत् कर्मविक्षेपसंस्कारसचिवलयलक्षणाविद्यावशेषत्वमिति कथ्यते कैश्चित् । उपपादितप्रकारेण कार्यकारणान्यतररूपत्वेन विज्ञायमानमा वरणमविद्यादिशब्दवाच्यं ज्ञानविरोधित्वादज्ञानमिति भाष्यते ॥

९. अविद्यापरिहारप्रकार: - इदं चाज्ञानं वेदान्तवाक्यश्रवणादिजनित ब्रह्मात्मैक्यज्ञानादेवापसरति । तदपसत्यनन्तरं च यज्ज्ञानी प्रपञ्चं समुपलभते तदविद्यालेशाख्याविद्यासंस्कारनिबन्धनम् । स च संस्कार: प्रारब्धकर्मफलभोगान्त आत्माकारचरमवृत्तिविनाश्यः । देहपातादूर्ध्वं तु विदेहकैवल्याख्यं निर्विशेषचैतन्यैक्यं निरुपचरितमवश्यमात्मज्ञानी प्राप्स्यति । अस्मिंश्च पक्षे जागरिताद्यवस्थात्रयपरीक्षणं सप्रयोजनम् । अनेन हि चिन्तनेन सर्वस्याप्यनात्मनः सकाशात् परमात्मतत्त्वं विविच्य ज्ञापयितुं शक्यम् । विशिष्य च सुषुप्तिचिन्तनेन दृश्यसंसर्गनाशात्स्वरूप प्राप्तिरिति दृष्टान्तः प्रसिध्यति । यद्यपि न सुषुप्त्यवस्थाने पुनरावृत्तिरहितः परमात्मभावः प्रकल्पते, तथापि विपरीतज्ञाननिवृत्तेरुपयोगः प्रख्याप्यते तदवस्थानिरूपणेनेत्येवमर्थवती भवति चिन्ता । न च श्रवणमननादि वैयर्थ्यमस्ति, अन्तरा तद्व्यापारं सम्यग्ज्ञानस्यानुदयात्, सम्यग्ज्ञानेनैव च निरवशेषपरिमोषणादज्ञानस्येति सर्वमनवद्यमिति ।।

वादे प्रमाणवाक्योपन्यासक्रमः

१०. विचारावश्यकता - अथ पूर्वोक्तयोः शङ्कासमाधानयोः सारासारता विचारयिष्यते । प्रथमं तावत् कथायां प्रमाणवाक्योदाहरणस्थलादिक

खण्ड:)

वादे प्रमाणवाक्योपन्यासक्रमः मधिकृत्य किञ्चिदुच्यते । यतो ह्यधुनातनाः केचिदनवलम्ब्यैव नियमस्थितिं कांचित् स्वेष्टानुरोधेन युक्तिं वचनं वा कथायां प्रवेशयन्तो दरीदृश्यन्ते । यदा हि वाग्व्यवहारं प्रवर्तयतोर्वादिप्रतिवादिनोरेक: स्वाभिप्रायमेवाश्रित्य किंचिदातिष्ठते, प्रतिवादी पुनरभिप्रायान्तरमालम्ब्य पूर्वस्य वचसि यत्किञ्चिद्दूषणमभिदधाति, तदा तयोरन्यतरस्यापि पक्षः सम्यक्त्वेन न व्यवतिष्ठते, नापि यत्किंचित्तत्त्वतो निर्धारितं भवति । तस्माद्वादे प्रमाणवाक्यविनिवेशः कथं करणीय इत्यवश्यं निश्चेयमेतत् ।।

ननु किमत्र निश्चेतव्यमस्ति ? वेदान्तविचारत्वात्प्रकृतस्य विषयस्य, यद्वेदान्तवाक्यैस्तात्पर्येणोपवर्ण्यते तदेव तत्त्वं भवतीत्यवधार्यताम् । श्रुतेहि नित्यत्वेन पौरुषेयत्वाभावात् प्रमादविप्रलिप्सादिपुरुषदोषराहित्येन प्रामाणान्तरानधिगते विषये प्रामाण्यमवश्यं तस्या अङ्गीकार्यम् । तथा च वादिनोर्मध्ये यः श्रुतिसम्मतं पक्षमाश्रयते तस्यैव पक्षस्य साधुता तदितरस्य तु न तथात्वमिति व्यवस्था सुस्था भविष्यतीति भवेदेवं यदि नित्यत्वे पौरुषेयत्वे वा वादिविप्रतिपत्तिर्न स्यात् । न चैषा नास्ति, पूर्वेषामिव अधुनातनानामपि वादिनां बहुलं विप्रतिपत्तिदर्शनात् । एवं हि वादिनोऽधु नातना वदन्ति - नित्यत्वे श्रुतिः प्रमाणीक्रियते श्रुतिप्रामाण्याय च नित्यत्वसिद्धिरपेक्षितेति परस्परापेक्षणं स्फुटं वेदनित्यत्ववादे । पौरुषेयत्वमपि किं पुरुषसम्बन्धमात्रात्प्रमाणत्वविघातकमुताहो प्रमाणान्तरोपलब्धप्रकाशकत्वादिति विवेक्तव्यम् । न तावत् पुरुषसंबन्ध मात्रमपराध्यति । श्रुतेरपि वामदेवादिसंबन्धस्येष्टत्वात् । अथ प्रमाणान्तरोप नीतप्रकाशकत्वादेवाप्रामाण्यं, तर्हि परमेश्वरप्रेरिता एव महात्मनो बैबल् ग्रन्थप्रणेतार इत्युपयन्तो क्रैस्तीयाः प्रमाणान्तरानधिगतविषयांश्च स्वर्गादीन्

मूलाविद्यानिरासः

(प्रथमः बैबल् - मूलप्रमाणकत्वेन व्याहरन्तो भवन्ति प्रबलप्रतिवादिनो वेदवादिन इति अरिदुर्गरक्षणेऽयं यत्नः स्यादिति । अस्तु वा कथंचिद् नित्यत्वे वेदस्यापौरुषेयत्वे च वादिनामविप्रतिपत्तिः । तथापि परमार्थवस्तुतत्त्वविषये विवदमानयोः कथंकारं निर्णयस्तावतेति वक्तव्यम् । ननूक्तं श्रुतिसंमतपक्षस्यैव साधुत्वमिति । न तद्युक्तम्, निर्धारणाभावात् । अयमेव श्रुतिसंमतः पक्ष इति निर्धारित हि त्वदुक्तरीत्या निर्णयः प्रकल्पते । यदा तु विचिकित्स्यते कतरः अनयोः श्रुत्यभिमत इति, तदा को व्यवस्थापक: प्रसिध्येदुभयसंमतः ? अत एव ह्यौपनिषदपक्षावलम्बनमड़ीकुर्वाणैरेव शङ्कर-भास्कर-श्रीकण्ठ-रामानुज-विज्ञानभिक्षु-मध्व-वल्लभ-बलदेव-’ प्रभृतिभिरादृतानि प्रस्थानान्यवष्टभ्य तत्तदनुयायिभिरद्यापि तत्त्वविषये व्युद्यते । तत्रैषां कतम औपनिषदः पक्ष इत्यत्र कः संभाव्येत प्राशिवाकः? अपि चैषां तीर्थकराणामयमेवाभिप्राय इति निस्संशयं निश्चेता कोऽभ्युपगम्यताम् ? यावता तत्तद्विनेयेष्वेव भूयसी विप्रतिपत्तिर्विद्यत इति नाविदितमिवेदं सिद्धान्तलेशसङ्ग्रहादिग्रन्थपरिशीलिनाम् । न च वाच्यं - अतितात्पर्यं तावत् पुरुषमतिवैरूप्यान्नान्यथा भवितुमर्हति, उपक्रमोपसंहारादिलिङ्गैस्संप्रधार्यत्वात्तस्य । तीर्थकरानुयायिनो यद्यपि विप्रतिपद्यन्ते प्रक्रियावान्तरभेदेषु, तथापि विद्यत एवैकवाक्यता तेषां सिद्धान्ततत्त्व इति । यतः सर्वोऽपि भाष्यकारः षड्विधलिङ्गैरेव स्वसिद्धान्तं स्मृतिपुराणेतिहासोपबृंहितश्रुत्यभिमतं मन्यते । विनेयाः खल्वपि स्वसिद्धान्ते यद्यप्येककण्ठा इव, तथापि स्वेतरप्रक्रियया सिद्धान्तो नैव प्रसिध्यतीति परस्परदोषोद्भावनव्यग्रा भवन्तीति कतमया प्रक्रियया तत्त्वं सिद्धान्ति तमभ्युपगच्छेम? स्यादेतत् प्राचीनाः खलु केवलमात्मैक्यसिद्धौ सन्नद्धाः ।

खण्ड:)

वादे प्रमाणवाक्योपन्यासक्रमः तदुपायत्वेन व्यवहारसिद्धविषयावलम्बनेन विरचितेषु विविधप्रक्रिया विशेषेषु तेषामनादर एव । अतः परस्परविप्रतिषेधो नास्ति प्रक्रियाभेदानाम् । यदाहुश्चिरन्तनाः - यया यया भवेत्पुंसां व्युत्पत्तिः प्रत्यगात्मनि । सा सैव प्रक्रियेह स्यात् साध्वी सा चानवस्थिता ।। (बृ. वा. १-४-४०२) इति । अनवस्थिता नानाविधेत्यर्थः । तस्मात् स्वप्नायमानेनेदमुच्यते विप्रतिपत्तिरस्त्यद्वैतमतानुयायिनामिति, व्यवहारे निर्भराभावमाचार्याणां विभिन्नप्रस्थानदर्शिनामजानतेति । तथापि खलु सर्वैरप्येवंवदद्भिाव हारिकविषयेष्वनाश्वासे कारणं प्रदर्शनीयं भवति । अन्यथा जिज्ञासूनां परमार्थव्यवहारविभागे बीजमजानतां कया प्रणालिकया तासां सर्वासामेक वाक्यता स्यात् प्रक्रियाणामिति सन्देहे, विरोधस्य स्फुटत्वात्, आचार्यैश्च स्वप्रकारेतरस्मिन् दोषोद्भावनाच्च, सर्वत्र विपरीतं कस्मान तथेति चिन्ताया दुरन्तत्वात् कस्मिन्नपि सिद्धान्तविधाभेदे न स्यात् प्रत्यय इति सुस्पष्टम् । एक एव हि स्यात्सम्यग्दर्शनमार्गः परस्परविरुद्धप्रस्थानानामेषाम् । यथोक्तम् - पूर्वे समुद्रे यः पन्था न स गच्छति पश्चिमम् । एकः पन्था हि मोक्षस्य तन्मे विस्तरतः शृणु (मो. ध. २७४-४) इति । अथवा पक्षप्रतिपक्षग्रहणेन विवदमानैस्तैः सर्वेषां सिद्धान्तानामसिद्धिरेव प्रख्याप्यत इति चेद्यः कश्चित्तटस्थः सङ्गिरेत, तदा कस्तस्य निवारकः स्यात् ? न च न विद्यत एव तादृशोदासीनपक्षग्राही, यतः क्रैस्त-महम्मद-झोरोआस्तर जिन-बुद्धप्रभृतीनाप्तत्वेन परिग्रहीतारस्तत्तदुक्तिष्वभिनिविशमाना इदमेव तत्त्वमिति परानपि ग्राहयन्तः स्वोचितविविधयुक्त्युपन्यासिनः परश्शतमुपलभ्यन्ते अस्मिन्नेव भारते वर्षे । अस्ति च - स्वतन्त्रयुक्ति चालका: स्पेन्सर-हक्स्ली-ह्यं बार्ली-बार्सनादिपाश्चात्यविपश्चिद्दर्शित

मूलाविद्यानिरासः

(प्रथमः दिशमनुरुन्धाना अवश्यमुदासीना वैदिकानामवान्तरविवादविषयेषु नानुमन्यन्ते कमपि विषयं स्वतन्त्रविचारपीड्यमिति । अथ मन्येत - नैव ते श्रुतिबाह्या आदर्तव्या भवन्त्यास्तिकैः । बन्धमोक्षादयो ह्यर्था वेदान्तसिद्धा एव न तु तद्बहिर्भूताः । अत एव स्वतन्त्रयुक्तिप्रधाना अपि मोक्षकथातो बहिष्कार्याः, शुष्कतर्कस्यानागमिकस्य प्रतिष्ठाविरहदोष दूषितस्य शिष्टैर्विगर्हितत्वादिति । तच्चिन्त्यम् । यदा ह्यास्तिकानामेव जिज्ञासूनां विचिकित्सा भवति - कथं विद्मो वयमयमेव शास्त्रार्थ इति तीर्थदृशां विप्रतिपत्तिं पश्यन्त इति, तदा शास्त्रार्थविचारप्रचारे बद्धादरैरवश्यं दर्शयितव्यं भवति शास्त्रबाह्यपक्षस्य दुष्टत्वम् । तथा बाबैरपि तार्किकैश्चालितमन्तःकरणमास्तिकानामेव यदा दोदूयते - कथं परैः शास्त्रेषूद्भाव्यमाना दोषा उद्धरणीया इति, तदवश्यं परीक्षणीयं भवति शिष्टैर्वेदबाह्यमपि दर्शनं तदसारताप्रकटनाय शिष्यानुग्रहहेतोः । एवमास्तिकानामेव विनेयानां कृते प्रतिवक्तव्या भवन्ति श्रुतिबाह्या अपि तार्किकादयः । अन्यथा हि कथं पूर्वोक्तभाष्यकारा अपि बौद्धस्या द्वादादि मतेन श्रौतदर्शने विरोधमाशङ्कय तत्परिहाराय प्रवर्तेरन्निति ।

१. स्थापयध्वमिमं मार्ग प्रयत्नेनापि हे द्विजाः । स्थापिते वैदिके मार्गे सकलं सुस्थितं भवेत् ।। यो हि स्थापयितुं शक्यों न कुर्यान्मोहितो नरः । तस्य हन्ता स पापी स्यादिति वेदान्तनिश्चयः ।। यः स्थापयितुमुधुक्तः श्रद्धयैवाक्षमोऽपि सन् । सर्वपापविनिर्मुक्तः साक्षाज्ज्ञानमवाप्नुयात् ।।

ज्ञा. २०-५४, ५५, ५६ - सू. सं. ज्ञा. २. बौद्धस्याद्वाद्यादिमतेन इति प्रथममुद्रणे ॥

११

खण्डः )

वादे प्रमाणवाक्योपन्यासक्रमः तस्माच्छास्त्रार्थस्यनिर्धारणे कथायां कथं कार्यो वाक्योपन्यास इति मीमांस्यमेवैतत् ॥

११. वाक्ययुक्त्यनुभवानां कथाप्रवेशनक्रमः - तत्र यदा शास्त्र प्रामाण्यविषय एव विप्रतिपत्तिरस्ति तदा स्पष्टमेव यदास्तिकेनापि वादिना विप्रतिपन्नं प्रति युक्तय एवोपन्यसितव्या वाक्यनिरपेक्षमिति । यथा सूत्रभाष्ये - आत्मन आकाशः सम्भूतः (ते. २-१) इत्यादिश्रुतिभ्य आकाशस्य वस्तुत्वप्रसिद्धिः इत्युक्त्वा - विप्रतिपन्नान् प्रति तु शब्दगुणानु मेयत्वं वक्तव्यम् (सू. भा. २-२-२४) इत्युक्तिः । यत्र तु गृहीत्वा शास्त्रप्रामाण्यं तत्तात्पर्यमात्रे विवादः, तत्र प्रदर्श्य लिङ्गादीन्युपक्रमोप संहारादीनि च वाक्यवित्समयमनुरुध्य तात्पर्यं निर्णतव्यं भवति । अयमेव प्रकारः पूर्वमीमांसायां स्वीकृतो वृद्धैः । यत्र पुनः शास्त्रतात्पर्यमेव न परं किंत्वनुभवोऽप्यनुसर्तव्यो भवति यथात्मतत्त्वजिज्ञासायां तत्र शास्त्रोप न्यासतः पूर्वमनुभवाश्रयणमेवाभ्यर्हितम्, अनुभवावसानत्वाज्जिज्ञासायाः । यथा हि शास्त्रैकसमधिगम्यास्तित्वे स्वर्गादौ तदापरोक्ष्यायैतज्जन्मप्रयुक्त शरीरे जायमानोऽनुभवः साक्षान्नोपयुज्यते, तथा जीवतः स्वात्मज्ञानेऽपि स्वानुभवो नोपयुज्यत इत्यशक्यं वक्तुम्, अतिप्रसङ्गात् । तस्मादनुभवार्थ

३. न धर्मजिज्ञासायामिव श्रुत्यादय एव प्रमाणं ब्रह्मजिज्ञासायाम्, किं तु श्रुत्यादयोऽनु भवादयश्च यथासम्भवमिह प्रमाणम् ।। सू. भा. १-१-२ ४. कर्मफले हि स्वर्गादौ अनुभवानारूढे स्यादाशङ्का भवेद्वा न वेति ।। सू. भा. ३-३-३२ ॥ न दृष्टपूर्वं प्रत्यक्षं परलोकं विदुर्बुधाः ।।

आगमांस्त्वनतिक्रम्य श्रद्धातव्यं बुभूषता ।।

शां. रा. २८-४२॥

मूलाविद्यानिरासः

(प्रथमः त्वाद्वेदान्तविचारस्य न किञ्चिदपि वचनमात्रबलादनुभवविरुद्धं स्वी कार्यम् । अत एव हि भाष्यकारैः प्रस्थानत्रयेऽपि - वचनं ज्ञापकं न कारकम् (बृ.भा. १-४-१०, तै. भा. १-११, प्र. भा. ६-२) इति न्यायमवष्टभ्य वचनमनुभवविरुद्धमप्यर्थं प्रत्याययितुं नालमिति प्रतिपादितम् । वादे च तस्मादनुभवाविरुद्धा एव युक्तयोऽप्युपन्यसनीयाः । यदा तु तर्कोपोद्बलनाय वाक्यमप्युपन्यस्यते वाक्योपसर्जनत्वेन वा तर्क, तदा वाक्यं प्रतिवादिना प्रबलतरवाक्येनैव प्रत्युत्तरणीयं यथा केवल युक्त्यनुभवौ युक्त्यनुभवाभ्यामेव शङ्कितांशबाधकाभ्यां प्रत्युत्तरयितव्यौ । यथा पूज्यपादैः शारीरकभाष्ये पूर्वस्मिन् ग्रन्थे वाक्याश्रयणेन साङ्ख्यादि दर्शनं निराकृत्य द्वितीयाध्याये द्वितीयपादावतारघट्टकेऽभिहितम् - साङ्ख्यादयः स्वपक्षस्थापनाय वेदान्तवाक्यान्यप्युदाहृत्य स्वपक्षानु गुण्येनैव योजयन्तो व्याचक्षते । तेषां यद्व्याख्यानं तद्व्याख्यानाभासं न सम्यग्व्याख्यानमित्येतावत् पूर्वं कृतम् । इह तु वाक्यनिरपेक्षः स्वतन्त्रस्त युक्तिप्रतिषेधः क्रियत इति विशेषः । (सू. भा .२-२-१) इति । इदमत्र बोद्धव्यं भवति - यद्युक्त्यनुदये प्रमाणवाक्यानुधावनं, वाक्याप्रतिभाने युक्तिप्रदर्शनं चेत्येतत प्रयत्नतः परिहरणीयमिति । यदा हि प्रमाणवाक्योप न्यसनम्, तदानतिशङ्कनीयत्वं प्रमाणस्याभ्युपगम्य तत्क्रियते । तच्च प्रबलतरवाक्येनैव शक्यनिरसनम् । युक्तिमात्रोपन्यासकाले तु वाक्योप दर्शनं न समञ्जसम् । न हि वाक्यशतमपि वाक्यमित्येतावता युक्तिविरुद्धमविद्यमानं वस्तु विद्यमानं कर्तुमुत्सहत इति ॥

५. त्रुटितमिदं पदं प्रथममुद्रणे ॥खण्ड:)

वादे प्रमाणवाक्योपन्यासक्रमः १२. वाक्याधुक्त्यनुभवयोर्विशेषः - यद्यपि चिरन्तनाभियुक्ताभ्युपगत प्रमाणान्यङ्गीकृत्य कथां प्रवर्तयतोर्न कोऽपि प्रतिबन्धकः । तथा च शब्दस्याप्यभियुक्तगृहीतप्रामाण्याद्वाग्व्यवहारे निर्दुष्ट एव प्रवेश इति निष्प्रयोजन इवोक्तव्यवस्थाप्रकारः । तथाप्यभियुक्ता एव विप्रवदन्ते शब्दप्रमाणविषय इत्येतन विस्मर्तव्यम् । शब्दप्रामाण्यविषये हि न केवलं नव्याः किं तु प्राचीना अप्याचार्या विप्रतिपद्यन्ते स्म बहुलम् । आस्तिक दर्शनकारैर्यत्सत्यमेव तत्प्रामाण्यमङ्गीकृतमिति । तथापि शब्दस्य नित्यत्वा नित्यत्वे पौरुषेयत्वापौरुषेयत्वे प्रत्यक्षानुमानयोः शब्देन विरोधे सति शब्दप्राबल्यदौर्बल्ये चेत्येवमादिविशेषस्थलेषु परस्परविरुद्धा प्रतिपत्ति रस्त्येवास्तिकानामपीत्यादावेव शब्दोपन्यासे तादृशविशेषविषये वादिनोर्वि संवादे सति वादस्यैवानारम्भो दुष्परिहरणीयः स्यात् । तस्माद्युक्त्यनुभवौ परिशिष्येते न केनापि परीक्षकेण निरस्तौ शक्यनिरासौ वा । सर्वत्रापि हि भूतवस्तुविषयकविचारे युक्तय एव साधनीक्रियन्ते सर्वैरपि यदि तेऽभ्युपगच्छन्ति सर्वाण्यपि प्रमाणानि यदि वा नाभ्युपगच्छन्ति । यत्तु तर्कस्याप्रतिष्ठानात्प्रतिषिद्धः सोऽपीति । न तन्मनोहरम्, सार्वदिकानुभवं विनापि स्वाभ्यूहमात्रेण यस्तर्कः तेनातादृशस्य विरोधः शङ्कयो न भवतीत्येव चिरन्तनैरुदीरितत्वात् । न हि सर्वस्य तर्कस्याप्रतिष्ठितत्वं साधयितुं शक्यम्, तत्साधनेऽपि तर्कस्यापेक्षितत्वात् । एतेन - नैषा तर्केण मतिरापनेया (क. १-२-९), न तर्कशास्त्रदग्धाय (मो. ध. २४६-१७), तर्कविद्यामनुरक्तो निरर्थिकाम् (मो. ध. १७०-४७), हैतुकान् बकवृत्तींश्च वाङ्गात्रेणापि नार्चयेत् (म. स्मृ. ४-३०) इत्यादि वचनान्युदाहृत्य तर्कमनाद्रियमाणाः परिहता भवन्ति । सर्वत्रापि केवलस्तर्क इत्येव प्रयुज्य

१४

मूलाविद्यानिरासः

(प्रथमः मानस्य शुष्कतर्कस्यैव निराकरणात् । तर्कसामान्यनिराकरणपक्षस्यैव कक्षीकारे हि वेदान्तमीमांसाशास्त्रस्यैव तर्कात्मकस्य न स्यादराम्भणीय त्वम् । तस्मान्न तर्कः सर्वथा प्रतिषिद्धः । अनुभवश्च विशिष्य सर्वेणाप्य वश्यमङ्गीकार्यः, अन्यथा वस्तुतत्त्वनिर्णयानवकाशात् । अनुभवानुसारि विषयत्वमेव हि तत्त्वशब्दाभिधेयम् । अत एव प्रमाणान्यप्यनुभवसंवादीन्येव यथार्थज्ञानकरणत्वेनोपादीयन्ते प्रतिपत्तृभिः परीक्षकैश्च । न चेदं शङ्कनीयम् - अनुभवोऽप्येकरूपतो न भवत्येकान्ततः । इतरथा भ्रान्तिसम्यग्ज्ञानयोरि तरेतरत्वमपि स्यादिति । उभयवादिसम्मत एवानुभवोऽनुभवान्तरबाधायोग्यः पर्यवसानस्थानमिति स्वीकारात् । यथा चैतादृशानुभवस्वरूपसिद्धिस्तथाग्रे स्फुटीभविष्यति । तस्मादनुभवोऽपि सर्वपरीक्षकसम्मतोऽस्तीति सिद्धम् । तदेवं शब्दप्रमाणे वादिविप्रतिपत्तेर्दर्शनात्, युक्त्यनुभवयोश्च सर्वैरप्यवश्याश्रयणीयत्वात् सिद्धमिदं यद्वादे युक्तय एवानुभवोपष्टम्भिताः प्रथमतः प्रयोक्तव्या इति ॥

१३. वादे वाक्योपन्यासस्थलम् - निर्णीते तु वादविषये प्रमाण वाक्योपन्यास उभयवादिसम्मतः समञ्जसः स्यात् । यद्यपि विज्ञाते तत्त्वे शास्त्रोपदेशो व्यर्थ एव कृत्याभावात्, अविज्ञाते च तस्मिन् पूर्वोक्तमुद्रया निष्फलस्तदुपन्यास इत्युभयथापि शास्त्रवाक्योपन्यासो निरवकाश इव,

६. न च विप्रतिपद्यन्ते वादिनोऽनुभवात्मनि । तत्र चेत्स्याद्विसंवादः केनान्येन चिकित्स्यते ।।

बृ. वा. १-४-१३९८ अनुभवमात्रशरणत्वात्सर्वतार्किकप्रस्थानानाम् ॥

नै. २-५७ ।

खण्डः )

वादे प्रमाणवाक्योपन्यासक्रमः तथापि वादान्ते तदुपन्यासेन प्रतिवादिनाहं जित इत्याकारकोद्वेगस्य वादिनि परिहारः प्रयोजनं भविष्यति । ‘यस्मान्नायं पक्ष प्रतिवादिकपोलकल्पितः, कस्तर्हि ? श्रुत्यनुगृहीतोऽभियुक्तैः पूर्वतरैश्च परिगृहीत एव । अतो नास्त्युद्वेगकारणम्’, इति मनः समाधानं समुपजायते । अपि च वादमध्येऽपिन सर्वथा शास्त्रबहिष्कारः । शास्त्रसम्मतत्वेनाभिमतमार्गेणैव हि तयंत उभाभ्यामपि । यदा तु शास्त्रवाक्यमभिज्ञवाक्यं वा गृह्यते विचारमध्ये, तदा प्रतिवादी तद्वाक्यविषयस्य प्रमाणोपनीतत्वं मूलप्रामाण्यादेवाङ्गीकरोतु मा नाम वा’, न तन्मात्रेण तेन किञ्चिद पराद्धमिति युज्यते मन्तुमित्येतावदिहोच्यते । यद्यदुपन्यस्यते वादिना भवतु तदाप्तवाक्यस्थमन्यदेव वा, तस्य सर्वस्याप्यर्थस्य सोपपत्तिकत्वमाक्षेप्तुं स्वतन्त्रेण भवितव्यं प्रतिवादिना । अन्यथा हि प्रमाणकारणवियुक्तमपि यत्किञ्चिदुपन्यस्य सर्वः सर्वमपि समर्थयितुं शक्नुयादेवेति वादव्यवस्थापरिप्लव एव प्रसज्येतेति । तस्माद्वादिनोर्मध्ये यस्तर्क मनुभवानुसारिणमप्यनादृत्य, ईश्वरशासन-श्रुत्याप्तवाक्य-योग महिममन्त्ररहस्यादिकमुपन्यस्य तद्वलादेव स्वपक्षं सबलं मन्यते, तस्य दर्शनं कुदर्शनमिति ज्ञेयम् ॥

७.आगमोपपत्तिभ्यां हि निश्चितोऽर्थः श्रद्धेयो भवत्यव्यभिचारादिति ॥ बृ. भा. ४-५अव. ८. सोऽयं न्याय्योऽपि वेदान्तार्थः शास्त्राचार्यप्रसादलभ्योऽप्यनपेक्षितशास्त्राचार्यप्रसादोऽन न्यापेक्षसिद्धस्वभावत्वात् ।। नै. ४-१९ ९. न च वेदोक्तितो वेदः श्रद्धेयार्थ इहोच्यते । किंत्वमानत्वहेतूनां वेदवाक्येष्वसम्भवात् ।।

बृ. वा. २-४-३२५

मूलाविद्यानिरासः

(प्रथमः १४.शब्दप्रामाण्यम् - नन्वेवं शास्त्रस्यानुवादकत्वादप्रामाण्यापत्तिः । तथाप्तवाक्यानामपि । अनधिगताधिगन्तृ हि प्रमाणं भवति । तत्र यदि तत्त्वार्थो निर्णीत एव तर्कतः प्राक्, कथमनन्तरं व्याप्रियमाणमश्नुवीत वाक्यं स्वातन्त्र्येण प्रामाण्यमिति ? अश्नुत एवेति ब्रूमः, श्रुत्यनुगृहीत त्वात्तर्कस्य । यो हि तत्त्वनिर्णायकस्तर्कः सोऽपि श्रुत्यनुगृहीत एवेति नानुवादकत्वं श्रुतेर्भवति तर्कापेक्षया । अत एव हि तात्पर्यलिङ्गेषूपपत्तिमपि पेठुः पूर्वाचार्याः । भगवत्पादैश्चाभाषि - श्रुत्यनुगृहीत एव ह्यत्र तर्कोऽनु भवाङ्गत्वेनाश्रीयते । (सू. भा. २-१-६) इति । वार्तिककारैश्चानु कीर्तितम्-अन्वयव्यतिरेक पुरस्सरं वाक्यमेवावाक्यार्थरूपमात्मानं प्रतिपादयतीति (नै. ३-३९) । तस्मात्तर्कस्यापि श्रुत्युपजीवकत्वा नास्त्यप्रामाण्यं श्रुतेः । अपि च मृषैवेदं वचनं युक्त्युररीकरणे शास्त्रस्याप्रामाण्यमापतेदिति । यस्मात्तर्कपरिशुद्धमेव प्रमाणं नाम भवति । यदाहुस्तर्कविदो न्यायभाष्यकाराः - तत्त्वज्ञानविषयाभ्यनुज्ञालक्षणानु ग्रहोद्भावितात् प्रसन्नादनन्तरं प्रमाणसामर्थ्यात्तत्त्वज्ञानमुत्पद्यत (न्या. भा. १-१-४०)इति । एवमविशेषेण सर्वप्रमाणानामपि शेषभूतत्वात्तर्कस्य’ न तदपेक्षामात्रेणाप्रामाण्यं शङ्गितुं युज्यते । न हि तर्कोऽपि प्रमाणम,

१०. लक्षणादूहाद्भावितान् इति पाठान्तरम् । ११. सर्वप्रमाणशेषत्वं युक्तीनामुपवर्णितम् । शास्त्रान्तरेष्वपि तथा नातः स्वातन्त्र्यखण्डनम् ।।

बृ. वा. ३-१-७ १२. न चागमस्य स्वातन्त्र्यं युक्त्युक्तेरपनुद्यते । अर्थान्तरत्वं युक्तीनां प्रमाणेभ्यो यतस्ततः ।।

बृ. वा. ३-१-६

१७

खण्ड:)

वादे प्रमाणवाक्योपन्यासक्रमः येनानुवादकत्वं प्रसज्येत तद्युक्तस्य शब्दस्य । सर्वत्र चाप्रमाणत्वे कारणमबोधनं संशयितबोधनं विपरीतबोधनं वा न पुनर्युक्त्युपेतत्वमपि । तस्माद्युक्तिमत्त्वं नाम शास्त्रस्य न दूषणम्, अपि तु भूषणमेवेति प्रत्येतव्यम् । तदेवं श्रुतेः स्वविषये प्रामाण्यमप्रतिहतं तर्कापेक्षया । अनुमानप्रमाणविषये तु नास्त्येवावसरः शङ्कायाः तदविषयत्त्वादागमार्थस्य । तस्मान्न शब्दस्या प्रामाण्यं तर्कापेक्षया । यत्पुनरनुभवसापेक्षत्वं, न तेनाप्रामाण्यमीषदपि शक्यशङ्कम् । यतः सर्वेषामपि प्रमाणानामिदमेव प्रमाणत्वं नाम यद्यथार्थानुभवकरणत्वम् । न ह्यनुभवानरूढमर्थं तद्विरुद्धं वा बोधयच्छास्त्र माचार्यो वा प्रमाणं भवेदत्र विषये, अनुभवावसानत्वाच्छास्त्राचार्योपदेशाना मिति । यदाहुः - आगमाद्दर्शनं पूर्वमागमाचार्यतो मतिः । त्रयाणामपि सङ्गानाच्छास्त्राचार्यात्मनां स्थिरम् (बृ. वा. २-४-२१९) इति । स्मृतिश्चात्र भवति - न्यायतन्त्राण्यनेकानि तैस्तैरुक्तानि वादिभिः । हेत्वागमसदाचारै र्यदुक्तं तदुपास्यताम् (मो. ध. २१०-२२) इति । उक्तलक्षणमात्मान मुक्तलक्षणमीश्वरम् । एकं पश्यन्ति ये विप्रास्तर्कतश्च प्रमाणतः ।। तथा स्वानुभवेनैव गुरूक्त्या च प्रमाणतः । त एव ज्ञानसम्पन्नास्त्रिर्वः शपथयाम्यहम् ।। (सू. सं. य. (२)११-३६, ३७) इति च । तस्मान्नेदं शनीयं शास्त्रस्याप्रामाण्यमापतेद्यदि तर्कोऽनुभवो वा तेनापेक्ष्येतेति ॥

१५. वाक्यविचारोपसंहारः - तस्माद्वादे तर्क एवादेयः प्रथमतः, वाक्योपन्यासश्च पश्चात् । तर्क विना शपथमात्रेण न कश्चित् पक्षः १३ प्रमाणव्यवस्थायाश्चानुभवमात्राश्रयत्वात् ।। नै. १-८९ आत्मविज्ञानस्य फलपर्यन्तत्वान्न तद्विषयस्य शास्त्रस्य प्रामाण्यं शक्यं प्रत्याख्यातुम् ।। सू. भा. (१-१-४)

१८

मलाविद्यानिरासः साध्यते बाध्यते वेत्यतः प्रथितयशसामपि तीर्थदृशां, पवित्रतमानामपि ग्रन्थानां वा नामग्रहणमात्रेण प्रतिवादिवाक्स्तम्भनप्रयतनं स्वपक्षस्य युक्त्यनुभवबाह्यताप्रकटनमेवेति सिद्धम् । इत्थं सामान्यतो दर्शित: समयबन्धप्रकारः कथायां वाक्यानयनविषये। अनयैव दिशा विचारं प्रवर्तयामोऽग्रेतनग्रन्थसन्दर्भेण । न वयं प्रमाणेयत्तासङ्कोचे शब्दप्रामाण्या नादरजनने वा बद्धादराः, किं तु वाक्यबलात्समीचीनानुभवसिद्धमपि नातिशङ्कनीयमित्येव विज्ञापयाम इति बोध्यं सुधीभिः ॥

वाक्यमित्येव यद्वाक्यं समुदाह्रियते बलात् । न तत् प्रमाणं स्वीकार्यं शक्रेणाप्यभ्युदीरितम् ॥

संशोत्यबोधविधुरं विपरीतबोधशङ्काकलङ्करहितं विमलं सदर्थम् । पूर्णानुभूतिकलितप्रबलोपपत्तिपूतं यतोऽभिदधते निगमाः प्रमाणम् ॥

इति श्रीमत्पूज्यपादशङ्करभगवच्चरणस्मरणपरिचयाप्तवेदान्तप्रवेशेन श्रीबोधानन्देन्द्रसरस्वतीशिष्येण सच्चिदानन्देन्द्रसरस्वत्याख्येन भिक्षुणा (सुब्रह्मण्येन) विरचिते श्रीमति शङ्करहदये मूलाविद्यानिरासे

विषयावतरणं नाम

प्रथमः खण्डः