श्रीशङ्करभगवत्पादकृते प्रस्थानत्रयभाष्ये जाग्रत्यपि दैवदुर्विपाकान्मो मुह्यन्ति केचित्, परस्परविरुद्धांश्च प्रक्रियाभासान् पूज्यपादाभिमत प्रक्रियात्वेन प्रकाश्य व्यामोहयन्ति परानपि, कलुषीकुर्वन्तः सुनिर्मलं वेदान्तसिद्धान्तम् - इति मन्वानेन मया शङ्करहृदयापराभिधोऽयं मूलाविद्यानिरासाख्यो ग्रन्थः संवत्सरसप्तकात्यागेव व्यरचि । मुद्रणव्यय पर्याप्तधनसम्पत्यभावेनास्य प्रकाशने परं न प्राभवम् । दैवयोगेन पुनरीशवीय १९२७ तमवत्सरे देवराजबहदूरधर्मसहायकनिध्यन्तर्गतवाङ्मयशाखा (Devaraja Bahadur Charity Funds Literary Section) प्रदापितशतत्रयरूप्यकमितेन बहुमानधनेन, तत्पूर्वमेवान्यैर्महाशयैर्ग्रन्थे स्मिन्नन्यत्रकृतनामोल्लेखैर्यथारुचि विश्राणितेन शतरूप्यकमितेन पोषकद्रव्येण च प्रोत्साहितोऽहं कथञ्चित् अवशिष्टं मुद्रापणधनं संगृह्य
ग्रन्थमिमं देवनागराक्षरैरङ्कयित्वेदानी पाठकसविधे समर्पयामि ॥
शङ्करहृदयप्रकाशनलालसया कृतेऽस्मिन् समुद्यमे प्रचलित वेदान्तमतावलम्बिनः काश्चिदत्र प्रतिपादनरीतयो विरुद्धार्थप्रतिपादकत्वेन प्रतिभायुः | तथापि प्रार्थ्यन्ते पण्डिता यदेतद् ग्रन्थं निष्पक्षपातधिया सादरं विलोक्य पूर्वपक्षे प्रबलतरयुक्तीनामत्राविचारितानां प्रदर्शनेन सिद्धान्ते शक्यसमुपस्थापनानामाक्षेपान्तराणामानयनेन वा स्वाभिप्रायाविष्करणाय, येनाह यतिष्ये तत्परीक्षणायास्य ग्रन्थस्य परिशिष्टार्धे यथायोग्यमिति ||
सर्वत्र लब्धप्रतिष्ठायामपि सम्प्रत्यांग्लभाषायां गैर्वाण्यैव वाण्या स्वाशयाविष्करणे प्रायतं, भरतखण्डस्थपण्डितेष्वियमेव सर्वसाधारणी
भाषेति हेतोः । समग्रमिमं ग्रन्थं महता परिश्रमेणातिविशदसुन्दराक्षरैलिखित्वा मुद्रणाय सिद्धं कृतवतां श्रीमतां होसकेरे श्रीनिवासमूर्तिनां वेदान्तशिरोमणीनां तथा ग्रन्थाशयवैशद्यायावश्यकर्तव्यावापोद्वापादिसूचनेन मुद्रितपुस्तकस्था शुद्धिशोधनेन च साहयकमाचरितवतां ब्रह्मश्री वेङ्कटेशशास्त्रिणां तर्कविद्वान् वेदान्तविद्वांश्चेति बिरुदद्वयधारिणां ब्रह्मश्री विठ्ठलशास्त्रिणां वेदान्तविशारदवेदान्तशिरोमणीत्युपपदद्वयधारिणां मद्राससकलविद्या निलयतोऽधिगतपौरस्त्यविद्याप्रावीण्यप्रशस्तिपत्राणां (Certificate of proficiency in Oriental Learning) चोपकारजातं मुहुर्मुहुः स्मरामि कृतज्ञः । अथापि ग्रन्थेऽवशिष्टानां दृष्टिदोषात्प्रमादाद्वा समुपजातानां स्खलितानां बोधनेन मामुपकुर्वन्तु दोषज्ञा इत्यभ्यर्थये ।
भगवदनुग्रहेण समाप्तिं गतेऽस्मिन् पूर्वार्धे धनसाहाय्येन विहितोपकाराणां बहदूरधर्मसहायकसङ्घाध्यक्षाणां पोषकद्रव्यप्रदातॄणां चातीव कृतज्ञोऽस्म्यहम् । अस्य च प्रबन्धस्य विषयगौरवेण हृष्टचेतोभिः प्रारम्भादापरिसमाप्ति वितीर्णप्रोत्साहनैरांग्लभाषात्मकप्रस्तावनया च ग्रन्थमिमं सनाथीकृतवद्भिः प्राच्यपाश्चात्येत्युभयविधेऽपि तत्त्वविचारक्रमे कृतपरिश्रमैः श्रीयुतैः कावेरीपट्टनं कृष्णशर्मभिर्महाशयैरत्यन्तमाधमयं नीतोऽस्म्यहमित्यावेदयते ॥
सुब्रह्मण्यशर्मा
(सच्चिदानन्देन्द्रसरस्वती भिक्षुः)