उपोद्घातः

निश्चप्रचमिदं वेदान्तार्थनिरूपणनिष्णातानां विद्वद्वरेण्यानां यत् श्रीशङ्करभगवत्पादैः परमार्थतत्त्वं स्वीयप्रस्थानत्रयभाष्येषु सार्वत्रिकानुभव युक्त्याधारण समस्तवेदार्थविषयं निरूपितं तत् सर्वदेशकालावस्थास्वपि अबाध्यम् । तदीयं भाष्यं प्रसन्नगम्भीरं करतलन्यस्तामलकवत् अद्वितीयं वेदान्तविषयं परमार्थतत्त्वं यथानुभवं हृदयमारोपयदपि कैश्चिदर्वाचीन व्याख्यातृभिरन्यैश्च श्रीरामानुजादिभाष्यकारैः श्रीशङ्करभगवत्पादभाष्या शयमजानद्भिः मिथ्याव्याख्यानमृषाध्यारोपेण च सन्दूषितम् । श्रीशङ्कर भगवत्पादानुयायित्वेन प्रख्यातमहद्भिः कैश्चिदर्वाचीनव्याख्यानकारैः यत् व्याख्यातं तत् क्वचित् भाष्याक्षरबहिर्भूतत्वेनैव व्याख्यातं तेनैव कारणेन चान्येषां, शङ्करभाष्यप्रतिपक्षभूतानां रामानुजादीनां लब्धावकाशमगमत् । अतस्तेषां अपव्याख्यानानां दूरीकरणार्थं श्रीसच्चिदानन्देन्द्रसरस्वती स्वामिभिः प्रप्रथमः प्रयत्नः कृतः । इदं चान्यत् वाचकमहोदयैः अवगन्तव्यं यत् व्याख्यानप्रस्थानेषु नैकोऽप्यंशः ग्राह्यत्वेनास्तीति न मन्तव्यम् । यतः अनेके भाष्योक्ताः प्राकृतबुद्ध्यगम्याः विषयाः ये सन्ति ताननितरसाधारण रूपेण स्पष्टीकुर्वन्तः युक्तिभिश्च समर्थयन्तः अस्माकं महदुपकुर्वन्तो वर्तन्त इत्यत्र न कापि संशीतिरस्ति । तथापि अतिसुन्दरं भाष्यं प्रचलितमूलाविद्यादिवादेन पङ्कीकृतमिति सखेदं अभिदध्महे । तमिमं पळू दूरीकर्तुं “मूलाविद्यानिरासः” अथवा “शङ्करहृदयमिति” ग्रन्थः. श्रीचरणैः निरमायि । तस्यास्य प्रथमसंस्करणं १९२९ तमे क्रिस्ताब्दे अभवत् । इदानीं तु द्वितीयमुद्रणस्य संदर्भः सजात: यस्मात्

सर्वत्रावनिप्रदेशे अन्तर्जालद्वारा (internet) मूलाविद्या विषये अतीव चर्चा प्रचलति जिज्ञासु-जन-मनांसि च प्रक्षुब्धानि। तस्मात्, बहूनां जिज्ञासूनां प्रार्थनानुरोधेन पुनर्मुद्रणे समितिवर्याः बद्धादरा अभवन् । विशिष्य चात्र मूलाविद्यावादस्य असारतां वेदान्त-प्रक्रियायाः असाधारणतां अवस्थात्रयवादस्य चोत्कृष्टतां निरतिशया-साधारणरीत्या आविष्कृतमित्यत्र न पृथक् विद्वत्प्रकाण्डानां वक्तव्यमव-शिष्यते । आमूलचूडं सकृत् ग्रन्थमिममवलोक्य सहृदयचणाः अनुभवन्त्वस्य ग्रन्थस्य माहात्म्यं सर्वात्मभूतं परमार्थतत्त्वं चेति सप्रश्रयं प्रार्थयामहे । ये चेदानींतनाः मूलाविद्यानिरासवादं नाङ्गीकुर्वन्ति तेऽपि श्रीचरणैर्दर्शितानुभवसम्मतयुक्ती भाष्यवाक्यानि चाविगणय्यैव केवलार्वाचीनव्याख्यानेष्वेव शाङ्करभाष्यादपि अधिकां श्रद्धामनुरुन्धा-नास्सन्तः मूलाविद्यामभ्युपयन्ति । परं तु भगवत्पादप्रस्थानत्रयभाष्ये न कुत्रापि किञ्चिदपि तस्या अवकाशोऽस्तीति श्रीचरणैरत्र दर्शितम् । अन्तरेणैव मूलाविद्यावादं साक्षादद्वैतमवगन्तुं भाष्यवाक्यानि च व्याख्यातुं शक्यमिति चात्र दर्शितम् । तस्यास्य ग्रन्थाध्ययनेन यदि केषांचित् मूलभाष्याध्ययने सन्मार्गे आदरः सञ्जायेत तेनैवात्मानं धन्यत्वेन मन्यन्ते श्रीचरणा इत्यत्र श्रीचरणवाण्येव नः प्रमाणम् ॥

इदं चान्यदावेदयामो वाचकान् यदस्मिन् द्वितीये मुद्रणे काश्चन टिप्पणयसंयोजिताः । ग्रन्थशरीरे प्रमाणत्वेन परामृष्टानां भाष्यवाक्यानां अन्येषां श्लोकानां च संख्या दत्ताः । मूलाविद्यावादिनां यन्मतं ग्रन्थशरीरेऽनूदितं श्रीचरणैः तेषां च संख्या अस्माभिर्यावत्यो लब्धाः ताश्च दत्ताः । केषांचन पक्षा अभिप्रायमात्रद्योतका इति मत्वा तेषां

संख्या न प्रत्ताः । यद्यप्यस्मिन् द्वितीयमुद्रणे प्रथममुद्रणात् त्र्यधिकत्वेन प्रघट्टखण्डा दृश्यन्ते तथापि न कोऽपि प्रघट्टविशेषोऽत्र नूतनतया संयोजितः किं तु मुद्रणदोषात् तत्र न्यूनसंख्या दृश्यन्ते, अशुद्धिसंख्यापरिशोधनेन त्वत्र युक्ताः संख्या: संदृष्टाः । तथैव विषयानुक्रमणिकातः ग्रन्थस्थविषया विभन्नत्वेनावभासन्ते तथापि तैस्तेषामर्थविशेषाभावात् यथापुरस्तात् मुद्रापिताः । इतोप्यन्ये ये केचन मुद्रणदोषाः पदशब्दवाक्यदोषाश्च स्युः तेषां प्रकटनेन येऽस्माकमुपकुर्यु तेभ्यः सकाशं प्रणम्य, तान् च दोषान् आगामि संस्करणे संस्कुर्म इति सप्रश्रयं निवेदयामः ॥

सम्प्रार्थ्यन्ते चैतदपि वाचकमहोदयाः यत् नैष ग्रन्थ व्याख्यानप्रस्थान ग्रन्थखण्डव्यसनितया ख्यातिलाभपूजाद्यर्थत्वेन वा व्यरचि । किंतु येयं ब्रह्मविद्या सनातनमहर्षिभिः सम्प्रदायकर्तृभिः परिशुद्धसम्प्रदायपरंपरया प्राप्ता सा कथं नु नाम मुमुक्षुजनमनश्चकोरस्य तृण्णिवारकहेतुभूतचन्द्रिका भवेदिति सर्वलोकानुग्रहकरणरसिकतमैः श्रीचरणैः निरमायि । भाष्य व्याख्यानयोः तुलनात्मकदृष्ट्या जिज्ञासमानानां मुमुक्षूणां के के प्रधानविषयाः विप्रतिपन्नाः इत्यत्र श्रीचरणानां अनेके ग्रन्थाः महते उपकाराय भवन्तीत्यत्र नास्ति सज्जनविदुषां तद् ग्रन्थपरिचयवतां विप्रतिपत्तिः । यद्यपि श्रीचरणानां जीवितकाले एव अनेका विद्वद्गोष्ठ्यः तैरेव आयोजिता: तदानींतना अपि केचन विद्वांसः अन्वमोदन्त केचन नेत्यत्र वेदान्त विद्वद्गोष्ठ्यादि ग्रन्थाः नः प्रमाणम् । इतोऽपि निपुणतरेणैतस्मिन् विषये अधिजिगमिषवः ये जिज्ञासवः सन्ति ते श्रीचरणैरेव रचिताः “सुगमा”, “सूत्रभाष्यार्थतत्वविवेचनी”,“वेदान्तप्रक्रियाप्रत्यभिज्ञा”, “माण्डूक्य रहस्यविवृतिः”, “पञ्चपादिकाप्रस्थानम्” इत्येवमादयो ग्रन्था अव लोकनीयाः । अवलोक्य च ते यथाभाष्यार्थविषयं निश्चिन्वन्तु इत्यावेद्यन्ते वाचकमहोदया इत्यलमतिपल्लवितेन ॥

इति सज्जनविधेयः
म. सु. चन्द्रमौलिः अवधानी