१) मू. नि. पृ.-४ पं. २२-२४ “एवं हि तत्र परामर्शः - परामश्रोऽस्ति” ॥ चित्सुखी - (पृ. ५८-५९) किं च ‘न किंच्दिवेदिषम्’ इति परमार्शसिद्ध - सौषुप्तिकानुभवोत्र प्रमाणम् । न च ज्ञानाभावविषयोऽयम् अनुभवः । अभाव - प्रतीतेर धर्मिप्रतियोगिबोध - पराधीनतया तदभावे तस्यानुभवितुम् अयोग्यत्वात् ॥ २) मू. नि. पृ.-५ पं. १-५ तत्र कदाचित् गृहणापाये……… ..अभ्युपेतव्यं भवति ।। पञ्चपादिका विवरणम् (मद्रास १०६-१०७)
न तावत् सुषुप्तादौ स्वयंप्रकाश-ब्रह्मस्वकपानवभासः पुरुषान्तर संवेदनवत्, द्रष्टुर् भिन्नत्वात् इति शक्यं वक्तुम् एकत्वश्रुतेः ।। नापि मिथ्याज्ञान-प्रतिबन्धात् तत्र तस्य अभावात् ।। नापि तत्संस्कारप्रतिबन्धात् भ्रान्ति संस्कारणां तत्त्वावभास-प्रतिबन्धकत्वाभावात्, सत्स्वपि रजत भ्रमसंस्कारेषु शुक्तिकावबोध-दर्शनात् । नापि ग्रहम-प्रतिबन्धात् । स्वरूप-ग्रहणस्य नित्यत्वात्, स्वयंप्रकाशमाने संवेदने तद्विषय कादाचित्काग्रहणस्य अप्रतिबन्धकत्वात् ।। (अनुवर्तते) तस्मात् सुषुप्तादौ स्वप्नानवभासव्यवहार अग्रहण-मिथ्याज्ञान -तत्संस्कार - कर्मभ्यः अन्देव किञ्चित् प्रतिबन्धकम् अज्ञान कल्पयति (इत्यर्थः)।। ३) मू. नि. पृ.२०- पं. १९-२२ ननु जीवन्मुक्तानां निस्संशयं……………. | तस्मान्नोक्तदोषः ।।
२४६
मूलाविद्यानिरास: भामत्याम् (प्र. प्रत्यभिज्ञायां - ४४६ - ४) …………….निर्विचिकित्से अनाद्यविद्योपादान-देहाद्यतिरिक्तप्रत्यगात्म तत्त्वावबोधे जातेऽपि अविद्या-संस्कारनुवृत्तौ अनुवर्तन्ते संसारिकाः प्रत्ययाः, तद्व्यवहारश्च । तयापि, तान् अयं व्यवहारप्रत्ययान् मिथ्येति मन्यमानः विद्वान् न श्रद्धते ।। ४) मू. नि. पृ. २१ पं. १५-१६ दृश्यते हि…………………..औष्ण्यलिङ्गात् ।। पञ्चपादिका पृ १९ (मद्रास) “मन्द प्रदीपे वेश्मनि तमसोऽपि ईषदनुवृत्तिरिति । तथा छायायामपि औष्ण्यं तारतम्येन उपलभ्यमानम् आतपस्यापि तत्र अवस्थानं सूचयति ।।” ५) मू. नि. पृ. २१ पं. - १७ पृ. २२ पं.६ पं. विवरणं (मद्रास) ५१-५४ ___ “उपचयापचयाद्यवस्थाभेद विशेष - विशिष्टं रूपवत्तया च उपलभ्यमानं तमः कथं द्वयीम् अभावविधाम् आसीदेत् ।”.
……….ननु रूपवतो द्रव्यस्य स्पर्शवत्वनियमात् तद्रहितं तमः कथं रूपवद् द्रव्यम् अवगम्यते?
नैष दोषः । (वायोरन्यत्र स्पर्शवद् द्रव्यस्य रूपवत्वनियमेऽपि) रूपरहितस्य स्पर्शवतो वायोरभ्युपगमात् तद्वत् (दर्शननियमादेव) स्पर्शहीनस्य रूपवत् तमसः सिद्धेः । (धूमस्य च रूपवतः चक्षुप्रदेशादन्यत्र स्पर्शानुपलब्धिः, तद्वत्, सर्वस्पर्शहीनं तमः किं न स्यात् ।) सवितृकिरण विततेऽपिदेशे प्रदीपालोकजन्मविनाशयोः प्रागभावप्रध्वंसाभावेतरेतराभावेषु
२४७ तमो बुद्ध्यदर | सनात्, नालोकाभावमात्रं तमः । सर्वालोकाभावश्चेत्, सर्वालोकासन्निधाने तर्हि न निवर्तेत | | ६) मू. नि. पृ. २२ पं. १७-१९ ( पृ. २३ १३-१४) ननु तमसः……….. …………….दृश्यते इति ।। चित्सुखी (निर्णयसागर प्रकाशनम् - २९) “आलोक-विरोधिनः तमसश्च आलोकाभावव्यञ्जनीयतया तनिरपेक्ष चक्षुर-विषयोपपत्तेः ।।” ७) मू. नि. २३ पं.५-९ ननु तादाम्यं नाम…..
युज्यते एव विरोधः ।। पं. पादिका - (मद्रास) १९-२० “कोऽयं विरोधः ?. यदि तावत् सहानवस्थानलक्षणो विरोधः, ततः प्रकाशभावे तमसो भावानुपपत्तिः । तदसत् दृश्यते हि मन्दप्रदीपे वेश्मनि तमसोऽपि ईषदनुवृत्तिः । एतेन सहावस्थानं उक्तं वेदितव्यम् ।।
उच्यते - परस्परानात्मता-लक्षणो “विरोधः” । न जाति - व्यक्त्योरिव परमार्थतः परस्परसम्भेदः सम्भवति इत्यर्थः तेन इतरेतर भावस्य इतरेतरसम्भेदात्मक-त्वस्य अनुपपत्तिः ।।” ८) मू.नि. पृ. २३ पं. १५-१६ नन्वेवं.
…………घटाभाववत् || चित्सुखी - २९ (निर्णयसागर प्रकाशनं)
आलोकाभावस्यापि, रूपवद् अभावतया, घटाभाववत् आलोकनिरपेक्ष
२४८
मूलाविद्यानिरास: - चक्षुर् - विषयत्वं न स्यात् ।। ९) मू. नि. २३ पं. २१-२२ यत्तु प्रकाश. त्वगिन्द्रियवदिति ।। चित्सुखी २२ चक्षुः आलोक - जन्य-कपिद्रव्य-साक्षात्कार-जनकम्, रूपिद्रव्यग्राह केन्द्रियत्वात्, त्वगिन्द्रियवत् ।। १०) मू. नि. पृ. २६ पं.७-८ पृ. २७ पं.५-११ यत्तावदुक्तं…………………………………………..मानमिति ।। यत्त्वाहुर्भावविद्यावादिनः.
…भावाज्ञानायोगात् ।। पञ्चपादिका विवरणम् - ७४-७५ “आत्मनि भावरूपमज्ञानं साधयति - अवश्यमेषा अविद्याशक्तिः इति | “अवश्यं”, इति “एषा” च प्रमाणद्वयवत्तामाह । प्रत्यक्षं तावत् “अहमज्ञः, मामन्यं च न जानामि” इति अपरोक्षावबास दर्शनात्, “अहं सुखी” इति वत् । अभवास्य षष्ठ प्रमाणगोचरत्वात् । प्रत्यक्षाभाववादिनोऽपि न आत्मनि न ज्ञानाभावावगमः सम्भवति । “मयि ज्ञानं नास्ति’ इति प्रतिपत्तौ आत्मनि धर्मिणि प्रतियोगिनि च अर्थे अवगते, तत्र ज्ञानसद्भावात, ज्ञानाभाव-प्रतिपत्ययोगात् । अनवगतेऽपि धादौ सुतरां अभावानव गमात् । षष्ठ प्रमाणगोचरे फललिङ्गभावानुमेयेऽपि ज्ञानाभावे आत्मादौ अवगते, अनवगतेऽपि आत्मनि ज्ञानाभाव-प्रतिपत्ययोगात् ।।”
२४९