Source: TW
Source: TW
[TODO: परिष्कार्यम्] [[P1]] [[P2]]
शुद्धिसूचिका (द्रष्टुं नोद्यम्)
| दृष्टम् | पङ्क्तिः | शुद्धपाठः |
|---|---|---|
| ६. | ३. | इत्युपक्रम्य |
| ११. | २९. | मन्त्रस्यायमर्थः |
| १४. | २०. | विष्णोर्यज्ञशब्दस्य |
| १६. | १३. | सर्वदेवकर्तृक० |
| " | १६. | मनुष्येषु |
| २३. | २४. | ०विष्ण्वर्चक० |
| २४. | १८. | दर्शनात् |
| २५. | ११. | ०वचनाभ्यां |
| २६. | २१. | ०ऽर्जुनेन |
| ४६. | १५. | कस्यचिच्छ्रुति० |
श्रीः ॥
विष्णु-द्वेषकर-महा-शैव-मत-मर्दनम्
महा-महोपाध्याय-विरुदाङ्कितैः श्री-राम-सुब्रह्मण्य-शास्त्रिभिः प्रणीतम्
कुम्भघोण-प्रान्त-गत-मेल्लूर्य्यामाभिजनैः श्रीमत्-पिच्चु-अय्यर्-आख्य-प्रभुभिः
तञ्जानगरस्थ- श्री-कृष्ण-विलास-मुद्रालये प्रकाशितम्
१९१२
मूल्यम् — ८ आणकाः [[P3]] ॥ श्रीः ॥
॥ विष्णु-द्वेषकर-महा-शैव-मत-मर्दनम् ॥
प्रतिज्ञा
विश्वास-प्रस्तुतिः
द्राविड-हरदत्ताद्यैः शैवैः शास्त्रार्थ-विप्लवो जनितः ।
तम् अहं दूरी कर्तुं करोमि रामस्य पादयोर् नमनम् ॥ १ ॥
En - Gemini 2.5
By Shaivites like Dravida Haradatta and others, a confusion (or disorder) in the meaning of the scriptures has been caused. To remove that, I offer obeisance to the feet of Rama.
मूलम्
द्राविड-हरदत्ताद्यैः शैवैः शास्त्रार्थ-विप्लवो जनितः ।
तम् अहं दूरीकर्तुं करोमि रामस्य पादयोर् नमनम् ॥ १ ॥
विश्वास-प्रस्तुतिः
नास्माकं शिव-तत्त्वे द्वेषः कश्चित् प्रसिद्धे ऽनुसिद्धे ।
हरि-तत्त्वे द्वेष-मतिर् येषां तन्-मर्दनो ऽयम् आरम्भः ॥ २ ॥
En - Gemini 2.5
We have no hatred towards the well-known and established principle of Shiva. This endeavor is for crushing those whose minds are hateful towards the principle of Hari (Vishnu).
मूलम्
नास्माकं शिव-तत्त्वे द्वेषः कश्चित् प्रसिद्धेऽनुसिद्धे ।
हरि-तत्त्वे द्वेष-मतिर् येषां तन्-मर्दनोऽयम् आरम्भः ॥ २ ॥
विश्वास-प्रस्तुतिः
यद्य् अप्य् अद्वैतम् एव श्रुति-शत-गदितं ब्रह्म, तत् स्याच् छिवो वा
विष्णुर् वा, नात्र काचित् क्षतिर् अपि गदितुं शक्यते मादृशैश्च ।
केचिद् दुर्-वाद-निष्ठा हरि-पर-भवनं शास्त्र-सङ्घे न चास्तीत्य्
एवं ग्रन्थं लिखित्वा कु-गतिम् उपगतास्, तन्-मतं खण्ड्यते ऽत्र ॥ ३ ॥
En - Gemini 2.5
Although Advaita (non-duality) alone is the Brahman spoken of by hundreds of scriptures, whether that be Shiva or Vishnu, no fault can be asserted here even by people like us. Some, being firmly established in perverse arguments, have attained a bad state (or destination) by writing books stating that there is no supremacy of Hari in the scriptures; their view is refuted here.
मूलम्
यद्यप्य् अद्वैतम् एव श्रुति-शत-गदितं ब्रह्म, तत् स्याच् छिवो वा विष्णुर् वा, नात्र काचित् क्षतिर् अपि गदितुं शक्यते [[मादृशैव/मादृशैः]] ।
केचिद् उर्-वाद-निष्ठा हरि-पर-भवनं शास्त्र-[[संत्रे/तन्त्रे]] न चास्तीत्य् एवं ग्रन्थं लिखित्वा कु-गतिम् उपगतास्, तन्-मतं खण्ड्यतेऽत्र ॥ ३ ॥
विश्वास-प्रस्तुतिः
वेदान्ते भारतादौ हरि-हर-विषये वाक्य-बृन्दैर् निषिद्धा
बुद्धिर् भेदावलम्बा कथम् इह घटते भेद-वादः कथंचित् ।
एतस्मिन्न् एवम् ऐक्ये बहुभिर् इह जनैर् विष्णुतो रुद्र-देवे
ह्य् आधिक्यं साध्यते ऽतः किम् अपि विलिखितं द्वेष-बुद्ध्या न रुद्रे ॥ ४ ॥
En - Gemini 2.5
In Vedanta, Mahabharata, etc., in matters concerning Hari and Hara (Vishnu and Shiva), the intellect clinging to difference is prohibited by numerous statements. How can the doctrine of difference somehow exist here? Even with such unity, by many people here, superiority of Rudra (Shiva) over Vishnu is established; therefore, something is written here not out of animosity towards Rudra.
मूलम्
वेदान्ते भारतादौ हरि-हर-विषये वाक्य-बृन्दैर् निषिद्धा
बुद्धिर् भेदावलम्बा कथम् इह घटते भेद-वादः कथंचित् ।
एतस्मिन्न् एवम् ऐक्ये बहुभिर् इह जनैर् विष्णुतो रुद्र-देवे
ह्य् आधिक्यं साध्यतेऽतः किम् अपि विलिखितं द्वेष-बुद्ध्या न रुद्रे ॥ ४ ॥
विश्वास-प्रस्तुतिः
वैतण्डिक-रीतिं ताम् अवलम्ब्यास्मिन् प्रवृत्तो ऽस्मि ।
न हि मे शिव-पर-भावे बुद्धिर् नास्तीति शङ्कनं न्याय्यम् ॥ ५ ॥
En - Gemini 2.5
I have resorted to that method of disputation (vaitandika-rīti) in this (work). It is not fair to suspect that I have no reverence for Shiva.
मूलम्
वैतण्डिक-रीतिं ताम् अवलम्ब्यास्मिन् प्रवृत्तोऽस्मि ।
न हि मे शिव-पर-भावे बुद्धिर् नास्तीति [[शङ्कानं/शङ्कनं]] न्याय्यम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
हरि-हर-तत्त्व-विवेके हरिवंशे नारदेन संप्रोक्ते ।
तत्त्व-मतिर् जाता चेद् वैशेष्यं तत्र कः कुर्यात् ॥ ६ ॥
En - Gemini 2.5
If a clear understanding of the principles of Hari and Hara has arisen from what was truly declared by Narada in the Harivamsa, then who can create a distinction there?
मूलम्
हरि-हर-तत्त्व-विवेके हरिवंशे नारदेन संप्रोक्ते ।
तत्त्व-मतिर् जाता चेद् वैशेष्यं तत्र कः कुर्यात् ॥ ६ ॥
पुराणानादरणीयता
(from P4 onwards)
विश्वास-प्रस्तुतिः
[[प्४]] वेद-गत-कर्म-काण्डार्थ-निर्णयार्थं प्रवृत्तायां जैमिनीय-षोडश-लक्षण-धर्म-मीमांसायां,
वेद-गत-स-परिकर-ब्रह्म-स्वरूप-प्रतिपादक-ज्ञान-काण्डार्थ-निर्णयार्थं प्रवृत्तायां शारीरक-संज्ञायां वैयासिक्यां चतुर्-लक्षण-ब्रह्म-मीमांसायां च
श्रुत्यर्थ-निर्णायकोपबृंहण-लेखन-प्रकरणे “स्मृतेश् च”, “स्मर्यते च”, “स्मरन्ति च”, “प्रमाणम् अनुमानं स्यात्” इति सूत्रैः स्मृतेर् वेदोपबृंहणतया लेखनवत्,
“पुराणाच् च” इति सूत्रं कृत्वा पुराणस्य वेदोपबृंहणत्वालेखनान्
मीमांसा-शास्त्र-द्वय-रीत्या पुराणं वेद-गत-कर्म-काण्ड–ज्ञान-काण्डोपबृंहण-विषये ऽनादरणीयम् इति स्पष्टम् ।
En - Gemini 2.5
It is clear that in the Mimamsa-Shastra-dvaya (two Mimamsa treatises) – the Jaiminiya Dharma Mimamsa, which consists of sixteen chapters, and which was undertaken for determining the meaning of the Karma-kanda (ritualistic section) of the Vedas, and the Vaiyasaki Brahmasutras (or Shariraka Mimamsa), which consists of four chapters, and which was undertaken for determining the meaning of the Jnana-kanda (knowledge section) of the Vedas, which elucidates the nature of Brahman with all its accessories – just as Smriti is written as an auxiliary to the Veda by the sutras “Smritischa”, “Smaryate cha”, “Smaranti cha”, and “Pramanam Anumanam Syat” in the section on writing auxiliaries for the meaning of the Vedas, by making the sutra “Puranacchha” and thereby writing Puranas as auxiliaries to the Veda, Puranas are to be disregarded in the context of augmenting the Karma-kanda and Jnana-kanda of the Vedas.
मूलम्
[[प्४]] वेद-गत-कर्म-काण्डार्थ-निर्णयार्थं प्रवृत्तायां जैमिनीय-षोडश-लक्षण-धर्म-मीमांसायां, वेद-गत-स-परिकर-ब्रह्म-स्वरूप-प्रतिपादक-ज्ञान-काण्डार्थ-निर्णयार्थं प्रवृत्तायां शारीरक-संज्ञायां वैयासिक्यां चतुर्-लक्षण-ब्रह्म-मीमांसायां च श्रुत्यर्थ-निर्णायकोपबृंहण-लेखन-प्रकरणे “स्मृतेश् च”, “स्मर्यते च”, “स्मरन्ति च”, “प्रमाणम् अनुमानं स्यात्” इति सूत्रैः स्मृतेर् वेदोपबृंहणतया लेखनवत्, “पुराणाच् च” इति सूत्रं कृत्वा पुराणस्य वेदोपबृंहणत्वाल् लेखनान् मीमांसा-शास्त्र-द्वय-रीत्या पुराणं वेद-गत-कर्म-काण्ड-ज्ञान-काण्डोपबृंहण-विषयेऽनादरणीयम् इति स्पष्टम् ।
विश्वास-प्रस्तुतिः
“एतेन शिष्टापरिग्रहा व्याख्याताः”,
“अपरिग्रहाच् चात्यन्तम् अनपेक्षा”
इति शारीरकाद्
द्वितीयाध्याय-प्रथम-द्वितीय-पादीय-सूत्रोक्त-न्याय-रीत्या
मीमांसा-शास्त्र-द्वय-कर्तृ-शिष्टाग्रगण्य-जैमिनि-बादरायणाभ्यां वेदोपबृंहण-विषयेऽपरिगृहीतत्वात्
तद्-विषये पुराणं शिष्टानाम् अनादरणीयम् एव ।
En - Gemini 2.5
By the principle stated in the sutras “Etena Shishtaparigraha Vyākhyātāḥ” and “Aparigrahāt Chātyantam Anapekṣā” from the first and second pādas of the second chapter of the Shariraka (Brahmasutras), since the Puranas are not accepted as auxiliaries to the Vedas by Jaimini and Badarayana, the foremost among the discerning scholars who authored the two Mimamsa schools, the Puranas are indeed to be disregarded by the discerning in this matter.
मूलम्
“एतेन शिष्टापरिग्रहा व्याख्याताः”, “अपरिग्रहाच् चात्यन्तम् अनपेक्षा” इति शारीरकाद् द्वितीयाध्याय-प्रथम-द्वितीय-पादीय-सूत्रोक्त-न्याय-रीत्या मीमांसा-शास्त्र-द्वय-कर्तृ-शिष्टाग्रगण्य-जैमिनि-बादरायणाभ्यां वेदोपबृंहण-विषयेऽपरिगृहीतत्वात् तद्-विषये पुराणं शिष्टानाम् अनादरणीयम् एव ।
विश्वास-प्रस्तुतिः
अत एव
इतिहास-पुराणाभ्यां वेदं समुपबृंहयेत्
इत्यत्र वेदोपबृंहणांशे पुराणस्याभासत्व-द्योतनार्थं द्वन्द्व-समासेऽल्पाच्कं पुराण-पदम् अनिपत्य
बह्व्-अच्कम् इतिहास-पदम्
“अभ्यर्हितं पूर्वम्” इति वार्त्तिक-रीत्या पूर्वं निवेशितं
पश्चाच् च पुराण-पदम् ।
En - Gemini 2.5
For this very reason, in the phrase “Itihāsa-Purāṇābhyāṁ Vedaṁ Samupabṛṁhayet” (One should augment the Veda with Itihasa and Purana), to indicate the apparent nature of the Purana in the context of Vedic augmentation, the word Purāṇa (having fewer syllables) does not precede in the dvandva compound, but rather the word Itihāsa (having more syllables) is placed first according to the vārttika “Abhyarhitaṁ Pūrvam” (the more revered comes first), and then the word Purāṇa is placed.
मूलम्
अत एव > इतिहास-पुराणाभ्यां वेदं समुपबृंहयेत् इत्यत्र वेदोपबृंहणांशे पुराणस्याभासत्व-द्योतनार्थं द्वन्द्व-समासेऽल्पाच्कं पुराण-पदम् अनिपत्य बहुाच्कम् इतिहास-पदम् “अभ्यर्हितं पूर्वम्” इति वार्त्तिक-रीत्या पूर्वं निवेशितं पश्चाच् च पुराण-पदम् ।
विश्वास-प्रस्तुतिः
यद् विना धर्म-शास्त्रेण प्रायश्चित्तं विधीयते ।
न तेन शुद्धिम् आप्नोति
प्रायश्चित्ते कृतेऽपि सः
इति माधवीयोद्धृतेन शातातप-वचनेन,
धर्म-शास्त्र-रथारूढा
वेद-खड्ग-धरा द्विजाः ।
क्रीडार्थम् अपि यद् ब्रूयुः
स धर्मो नेतरः स्मृतः
इति पराशर-स्मृति-वचनेन च
पाप-निवर्तक-धर्मांश इव,
वेदोपबृंहणांश इव च
तद्-इतर-सर्वांशस्याप्रामाण्याभावेऽपि
तद्-अंशे पुराणम् अ-विश्वसनीयम् एव ।
En - Gemini 2.5
By the statement of Shatatapa, quoted in Madhaviya, “That which is prescribed as penance without Dharma-shastra; one does not attain purity by it, even if the penance is performed,” and by the statement of Parashara Smriti, “Twice-born ones, mounted on the chariot of Dharma-shastra and holding the sword of Veda, whatever they declare even for sport, that is remembered as Dharma, not otherwise,” even though there is no lack of authority for all other parts of the Puranas, as in the part related to sin-removing dharma and the part related to Vedic augmentation, in those parts, the Purana is indeed unreliable.
मूलम्
यद् विना धर्म-शास्त्रेण प्रायश्चित्तं विधीयते । न तेन शुद्धिम् आप्नोति प्रायश्चित्ते कृतेऽपि सः इति माधवीय-धृतेन शातातप-वचनेन, धर्म-शास्त्र-रथारूढा वेद-खङ्ग-धरा द्विजाः । क्रीडार्थम् अपि यद् ब्रूयुः स धर्मो नेतरः स्मृतः इति पराशर-स्मृति-वचनेन च पाप-निवर्तक-धर्मांश इव वेदोपबृंहणांश इव च तद्-इतर-सर्वांशस्याप्रामाण्याभावेऽपि तद्-अंशे पुराणम् अविश्वसनीयम् एव ।
विश्वास-प्रस्तुतिः
अन्यथा च्छान्दोग्य-मधु-विद्यायाम्
“इतिहास-पुराणं पुष्पम्” इत्यत्र द्वन्द्व-समासे
पुराणस्यानभ्यर्हित-पुष्पत्वापर-पर्याय-दुर्गन्ध-पुष्पत्व-द्योतनार्थं
पुराण-पदस्य पर-निपात इतिहास-पदस्य पूर्व-निपातश् च
कथं कृतः संगच्छते ?
En - Gemini 2.5
Otherwise, in the Chandogya Madhu Vidya, in the expression “Itihāsa-Purāṇaṁ Puṣpam” (Itihasa and Purana are flowers), how would the posterior placement of the word Purana and the prior placement of the word Itihasa in the dvandva compound be appropriate, to indicate that Purana is an unvenerable flower, which is a synonym for a foul-smelling flower?
मूलम्
अन्यथा च्छान्दोग्य-मधु-विद्यायाम् “इतिहास-पुराणं पुष्पम्” इत्यत्र द्वन्द्व-समासे पुराणस्यानभ्यर्हित-पुष्पत्वापर-पर्याय-दुर्गन्ध-पुष्पत्व-द्योतनार्थं पुराण-पदस्य पर-निपात इतिहास-पदस्य पूर्व-निपातश् च कथं कृतः संगच्छते ।
विश्वास-प्रस्तुतिः
अन्यथा “अल्पाच्तरम्” इति शास्त्र-रीत्या
पुराण-पदम् एव पूर्वनिविष्टं स्यात् ।
En - Gemini 2.5
Otherwise, according to the rule “alpāch-taram” (the one with fewer syllables), the word Purana itself would have been placed first.
मूलम्
अन्यथा “अल्पाच्-तरम्” इति शास्त्र-रीत्या पुराण-पदम् एव पूर्वनिविष्टं स्यात् ।
विश्वास-प्रस्तुतिः
न हि तथा दृश्यते ।
En - Gemini 2.5
Indeed, it is not seen as such.
मूलम्
न हि तथा दृश्यते ।
अप्रसिद्धोपनिषदः
विश्वास-प्रस्तुतिः
किं च,
अष्टोत्तर-शतोपनिषदां वेदत्व-स्वीकारेऽपि
उपनिषदां मध्ये
ईश-केन-कठ-प्रश्न-मुण्ड-माण्डूक्य-तैत्तिरीयैतरेय -छान्दोग्य-बृहदारण्यक-संज्ञिकानां दशोपनिषदां वेद-गत-ज्ञान-काण्डान्तर्भावः,
न तु श्वेताश्वतर-कैवल्याथर्वशिखाथर्वशिरः-प्रभृति-उपनिषदाम् ।
En - Gemini 2.5
Furthermore, even if the one hundred and eight Upanishads are accepted as Vedas, among the Upanishads, the ten Upanishads named Isha, Kena, Katha, Prashna, Mundaka, Mandukya, Taittiriya, Aitareya, Chandogya, and Brihadaranyaka are included in the Jnana-kanda (knowledge section) of the Veda, but not the Shvetashvatara, Kaivalya, Atharvashikha, Atharvashiras, and other such Upanishads.
मूलम्
किं च, अष्टोत्तर-शतोपनिषदां वेदत्व-स्वीकारेऽपि उपनिषदां मध्ये ईश-केन-कठ-प्रश्न-मुण्ड-माण्डूक्य-तैत्तिरीयैतरेय-छान्दोग्य-बृहदारण्यक-संज्ञिकानां दशोपनिषदां वेद-गत-ज्ञान-काण्डान्तर्भावः, न तु श्वेताश्वतर-कैवल्याथर्वशिखाथर्वशिरः-प्रभृति-उपनिषदाम् ।
विश्वास-प्रस्तुतिः
वेद-गत-कर्म-काण्डानन्तर्भावस् तु स्पष्ट एव ।
[[प्५]]
En - Gemini 2.5
Their non-inclusion in the Karma-kanda (ritualistic section) of the Veda is, however, clear.
मूलम्
वेद-गत-कर्म-काण्डानन्त- [[प्५]] र्भावस् तु स्पष्ट एव ।
विश्वास-प्रस्तुतिः
न तत्र प्रमाणं वक्तव्यम् ।
En - Gemini 2.5
No proof needs to be stated there.
मूलम्
न तत्र प्रमाणं वक्तव्यम् ।
विश्वास-प्रस्तुतिः
मुक्तिकोपनिषद्य् आञ्जनेयं प्रति
माण्डूक्यम् एकम् एवालं
मुमुक्षूणां विमुक्तये ।
तथाप्य् अलब्धं चेज् ज्ञानं
दशोपनिषदं पठ ।
ज्ञानं लब्ध्वा चिराद् एव
मामकं धाम यास्यसि ॥
तथापि दृढता नो चेद्
विज्ञानस्याञ्जनासुत ।
द्वात्रिंशद्-आख्योपनिषदं
समभ्यस्य निवर्तय
इति श्री-राम-वाक्यानि दृश्यन्ते ।
En - Gemini 2.5
In the Muktikopanishad, Sri Rama’s statements to Anjaneya are seen: “The Mandukya Upanishad alone is sufficient for the liberation of those desirous of moksha. Yet, if knowledge is not attained, study the ten Upanishads. Having attained knowledge, you will quickly reach My abode. Yet, O son of Anjana, if there is no firmness in knowledge, then study the Upanishad named Dvatrimshat (Thirty-Two) and turn back (from worldly pursuits).”
मूलम्
मुक्तिकोपनिषद्य् आञ्जनेयं प्रति माण्डूक्यम् एकम् एवालं मुमुक्षूणां विमुक्तये । तथाप्य् अलब्धं चेज् ज्ञानं दशोपनिषदं पठ । ज्ञानं लब्ध्वा चिराद् एव मामकं धाम यास्यसि ॥ तथापि दृढता नो चेद् विज्ञानस्याञ्जनासुत । द्वात्रिंशद्-आख्योपनिषदं समभ्यस्य निवर्तय इति श्री-राम-वाक्यानि दृश्यन्ते ।
विश्वास-प्रस्तुतिः
तैश् च दशोपनिषदां ब्रह्म-ज्ञानार्थत्वं,
दशोपनिषज्-जनित-ब्रह्म-ज्ञानस्य दार्ढ्याभावे द्वात्रिंशत्-संज्ञकोपनिषदो दशोपनिषज्-जन्य-ज्ञान-दार्ढ्यार्थत्वम्,
अन्यासाम् उपनिषदां ब्रह्म-ज्ञान-तद्-दार्ढ्य-कामनावद्भिः परित्याज्यत्वं चोक्तम् ।
En - Gemini 2.5
And by these (statements), it is said that the Ten Upanishads are for Brahman-knowledge, if the Brahman-knowledge generated by the Ten Upanishads is not firm, then the Upanishad named Dvatrimshat is for the firmness of the knowledge generated by the Ten Upanishads, and that other Upanishads are to be abandoned by those desirous of Brahman-knowledge and its firmness.
मूलम्
तैश् च दशोपनिषदां ब्रह्म-ज्ञानार्थत्वं, दशोपनिषज्-जनित-ब्रह्म-ज्ञानस्य दार्ढ्याभावे द्वात्रिंशत्-संज्ञकोपनिषदो दशोपनिषज्-जन्य-ज्ञान-दार्ढ्यार्थत्वम्, अन्यासाम् उपनिषदां ब्रह्म-ज्ञान-तद्-दार्ढ्य-कामनावद्भिः परित्याज्यत्वं चोक्तम् ।
विश्वास-प्रस्तुतिः
तेन दशोपनिषदाम् एव वेद-गत-ज्ञान-काण्डत्वं प्रतीयते,
श्वेताश्वतराद्यानां दशोपनिषद्-उत्तर-भाविनीनां ज्ञान-काण्डत्वाभावश् च ।
En - Gemini 2.5
Thereby, it is understood that only the Ten Upanishads constitute the Jnana-kanda of the Veda, and there is an absence of Jnana-kanda status for the Shvetashvatara and others that appear later than the Ten Upanishads.
मूलम्
तेन दशोपनिषदाम् एव वेद-गत-ज्ञान-काण्डत्वं प्रतीयते, श्वेताश्वतराद्यानां दशोपनिषद्-उत्तर-भाविनीनां ज्ञान-काण्डत्वाभावश् च ।
द्वात्रिंशद्-आख्योपनिषदम्
विश्वास-प्रस्तुतिः
अत्र “द्वात्रिंशद्-आख्योपनिषदम्” इत्यत्र
द्वात्रिंशद्-आख्योपनिषत्-पदस्य द्वात्रिंशत्-संख्याका उपनिषदो नार्थ-कोटि-प्रविष्टाः;
तथात्वे दशोपनिषदं पठेत्य्-अत्रेव द्वात्रिंशोपनिषदं समभ्यस्येत्य् एव निर्देशापत्तेः,
आख्या-पद-वैयर्थ्यापत्तेश् च ।
En - Gemini 2.5
Here, in the phrase “Dvatrimshad-akhyopanishadam” (the Upanishad named Dvatrimshat), the word “Dvatrimshad-akhyopanishat” does not refer to thirty-two Upanishads as a numerical count; for if it did, there would have been a direct injunction like “study thirty-two Upanishads” just as in “study the ten Upanishads,” and the word “akhya” (named) would become redundant.
मूलम्
अत्र द्वात्रिंशद्-आख्योपनिषदम् इत्यत्र द्वात्रिंशद्-आख्योपनिषत्-पदस्य द्वात्रिंशत्-संख्याका उपनिषदो नार्थ-कोटि-प्रविष्टाः; तथात्वे दशोपनिषदं पठेत्यत्रेव द्वात्रिंशोपनिषदं समभ्यस्येत्य् एव निर्देशापत्तेः, आख्या-पद-वैयर्थ्यापत्तेश् च ।
विश्वास-प्रस्तुतिः
अतः
‘द्वात्रिंशद् इत्याख्या संज्ञा यस्याः सा द्वात्रिंशद्-आख्या,
सा चोपनिषद् द्वात्रिंशद्-आख्योपनिषत्’
इति समास-रीत्या द्वात्रिंशत्-संज्ञिका काचिद् उपनिषद् अस्ति ब्रह्म-ज्ञान-दार्ढ्योत्पादिकेत्य् उक्तं भवति ।
En - Gemini 2.5
Therefore, by the grammatical analysis “Dvatrimshat is the name of that which is Dvatrimshad-akhya, and that Upanishad is Dvatrimshad-akhyopanishat,” it is said that there is a particular Upanishad named Dvatrimshat which generates firmness in Brahman-knowledge.
मूलम्
अतः ‘द्वात्रिंशद् इत्याख्या संज्ञा यस्याः सा द्वात्रिंशद्-आख्या, सा चोपनिषद् द्वात्रिंशद्-आख्योपनिषत्’ इति समास-रीत्या द्वात्रिंशत्-संज्ञिका काचिद् उपनिषद् अस्ति ब्रह्म-ज्ञान-दार्ढ्योत्पादिकेत्य् उक्तं भवति ।
विश्वास-प्रस्तुतिः
(१. गीतोपनिषत् ।
गीतोपनिषदि द्वात्रिंशत्-समाख्या-प्रवृत्ति-निमित्तानां द्वात्रिंशत्-तत्त्वानां सत्त्वं प्राधान्येन दृश्यते ।
तथैव ‘भूमिर् आपः’ इत्याद्य्-उक्ताष्ट-विध-जड-प्रकृतीनां+++(=??)+++, चित्-प्रकृतेः, तादृश-प्रकृति-द्वयाश्रय-भगवतः ‘इन्द्रियाणां मनः’ इत्य् उक्तैकादशेन्द्रियाणाम्, ‘चातुर्वर्ण्यं मया’ इत्य् उक्त-वर्ण-चतुष्टयस्य,
‘शमो दमस् तथा शौचम्’ इत्य् उक्त-चतुर्वर्ण-स्वाभाविक-धर्म-चतुष्टयस्य
‘सत्त्वं रजस् तम इति गुणाः प्रकृति-संभवाः’ इत्य् उक्त-गुण-त्रयस्य च प्राधान्येन प्रतिपादनात् ।)
En - Gemini 2.5
(1. The Gita Upanishad. In the Gita Upanishad, the presence of the causes of the name Dvatrimshat (thirty-two) and the thirty-two tattvas (principles) is predominantly seen. Similarly, the predominant exposition of the eight types of inert nature like ‘Bhumi, Apah’ (earth, water), the conscious nature, the Lord who is the abode of these two natures, the eleven sense organs mentioned as ‘Indriyanam Manah’ (mind among the senses), the four varnas mentioned as ‘Chaturvarnyam Maya’ (the four-fold order by Me), the four natural dharmas of the four varnas mentioned as ‘Shamo Damas tatha Shaucham’ (tranquility, self-restraint, purity), and the three gunas (qualities) mentioned as ‘Sattvam Rajas Tamah Iti Gunah Prakriti-sambhavah’ (Sattva, Rajas, and Tamas, these are qualities born of nature).)
मूलम्
(१. गीतोपनिषत् । गीतोपनिषदि [[द्वाविंशत्समाख्या/द्वात्रिंशत्-समाख्या]]-प्रवृत्ति-निमित्तानां [[द्वाविंशत्तत्त्वानां/द्वात्रिंशत्-तत्त्वानां]] सत्त्वं प्राधान्येन दृश्यते । तथैव ‘भूमिर् आपः’ इत्याद्य् उक्ताष्ट-विध-जड-प्रकृतीनां चित्-प्रकृतेः तादृश-प्रकृति-द्वयाश्रय-भगवतः ‘इन्द्रियाणां मनः’ इत्य् उक्तैकादशेन्द्रियाणाम् ‘चातुर्वर्ण्यं मया’ इत्य् उक्त-वर्ण-चतुष्टयस्य ‘शमो दमस् तथा शौचम्’ इत्य् उक्त-चतुर्वर्ण-स्वाभाविक-धर्म-चतुष्टयस्य ‘सत्त्वं रजस् तम इति गुणाः प्रकृति-संभवाः’ इत्य् उक्त-गुण-त्रयस्य च प्राधान्येन प्रतिपादनात् ।)
विश्वास-प्रस्तुतिः
ज्ञान-काण्ड एव ब्रह्म-काण्डः ।
En - Gemini 2.5
The Jnana-kanda is itself the Brahma-kanda.
मूलम्
ज्ञान-काण्ड एव ब्रह्म-काण्डः ।
प्रौढीवादः
विश्वास-प्रस्तुतिः
उपरितन-श्वेताश्वतराद्युपनिषदां
तत्-तद्-भाष्यकारैर् ब्रह्म-प्रकरणे लेखनं तु प्रौढि-वाद-मात्रेण
पुराणानाम् उपबृंहणत्वेन लेखनवद् अवगन्तव्यम् ।
En - Gemini 2.5
The inclusion of the Shvetashvatara and other later Upanishads by their respective commentators in the chapter on Brahman should be understood as merely a rhetorical flourish, just like the inclusion of Puranas as auxiliaries.
मूलम्
उपरितन-श्वेताश्वतराद्युपनिषदां तत्तद्-भाष्यकारैर् ब्रह्म-प्रकरणे लेखनं तु प्रौढि-वाद-मात्रेण पुराणानाम् उपबृंहणत्वेन लेखनवद् अवगन्तव्यम् ।
आश्रम-बाह्याधिकारः
विश्वास-प्रस्तुतिः
तत्रापि श्वेताश्वतरोपनिषद्-अध्ययन-श्रवण-तद्-अर्थ-विचारणादौ
कैवल्योपनिषद्-अध्ययन-श्रवण-तद्-अर्थ-विचारणादौ
चाश्रम-बाह्यस्यैवाधिकारः;
न त्व् आश्रम-प्रविष्टानां ब्रह्मचारि-गृहस्थ-वानप्रस्थ-संन्यासिनाम्,
श्वेताश्वतरोपनिषद्-गत-षष्ठाध्यायीय-
“अत्याश्रमिभ्यः परमं [[प्६]] पवित्रं
प्रोवाच सम्यग् ऋषि-संघ-जुष्टम्”
इति,
कैवल्योपनिषद्-गत-द्वितीय-खण्डीय-
“अत्याश्रमी सर्वदा
सकृद् वा जपेत् ।
अनेन ज्ञानम् आप्नोति
संसारार्णव-नाशनम्”
इति च वाक्य-प्रामाण्याद् इत्य् अलम् ।
En - Gemini 2.5
Even there, in the study, listening, and contemplation of the meaning of the Shvetashvatara Upanishad, and similarly in the study, listening, and contemplation of the meaning of the Kaivalya Upanishad, only those outside the ashramas (orders of life) have the right; not the Brahmacharis (celibate students), Grihasthas (householders), Vanaprasthas (forest dwellers), and Sannyasis (renunciates) who have entered the ashramas, as is evident from the authoritative statements: “To the atyāśramis (those beyond ashramas), he (the Rishi) properly declared the supreme sacred knowledge, worshipped by hosts of Rishis” from the sixth chapter of the Shvetashvatara Upanishad, and “The atyāśrami should always (or at least once) chant. By this, he attains knowledge that destroys the ocean of samsara” from the second section of the Kaivalya Upanishad. Enough said.
मूलम्
तत्रापि श्वेताश्वतरोपनिषद्-अध्ययन-श्रवण-तद्-अर्थ-विचारणादौ कैवल्योपनिषद्-अध्ययन-श्रवण-तद्-अर्थ-विचारणादौ चाश्रम-बाह्यस्यैवाधिकारः; न त्व् आश्रम-प्रविष्टानां ब्रह्मचारि-गृहस्थ-वानप्रस्थ-संन्यासिनाम्, श्वेताश्वतरोपनिषद्-गत-षष्ठाध्यायीय- “अत्याश्रमिभ्यः परमं [[प्६]] पवित्रं प्रोवाच सम्यग् ऋषि-संघ-जुष्टम्” इति, कैवल्योपनिषद्-गत-द्वितीय-खण्डीय- “अत्याश्रमी सर्वदा सकृद् वा जपेत् । अनेन ज्ञानम् आप्नोति संसारार्णव-नाशनम्” इति च वाक्य-प्रामाण्याद् इत्य् अलम् ।
पुराणान्य् अस्मृतिः
विश्वास-प्रस्तुतिः
एतेन पुराणम् अपि स्मृतिर् इति कैश्चिद् उक्तम् अपास्तम् ।
En - Gemini 2.5
By this, the statement by some that Purana is also Smriti is refuted.
मूलम्
एतेन पुराणम् अपि स्मृतिर् इति कैश्चिद् उक्तम् अपास्तम् ।
विश्वास-प्रस्तुतिः
श्रुति-स्मृति-पुराणानां
विरोधो यत्र दृश्यते ।
तत्र श्रुतिर् बलिष्ठा स्याद्
द्वयोर् मध्ये स्मृतिर् वरा ॥
श्रुति-स्मृति-पुराणेषु
विरुद्धेषु परस्परम् ।
पूर्वं पूर्वं बलीयः स्याद्
इति वेद-विदो विदुः
इति व्यास-स्मृति-वचन-विरोधापत्तेः ।
En - Gemini 2.5
Because it would lead to a contradiction with the statement from Vyasa Smriti: “Where there is a contradiction among Shruti, Smriti, and Puranas, there Shruti is stronger; among the two, Smriti is superior. When Shruti, Smriti, and Puranas contradict each other, the earlier one is stronger – thus know the knowers of Veda.”
मूलम्
श्रुति-स्मृति-पुराणानां विरोधो यत्र दृश्यते । तत्र श्रुतिर् बलिष्ठा स्याद् द्वयोर् मध्ये स्मृतिर् वरा ॥ श्रुति-स्मृति-पुराणेषु विरुद्धेषु परस्परम् । पूर्वं पूर्वं बलीयः स्याद् इति वेद-विदो विदुः इति व्यास-स्मृति-वचन-विरोधापत्तेः ।
विश्वास-प्रस्तुतिः
एतेन “इतिहास-पुराणनाम् एकत्वम्” इति कैश्चिद् उक्तम् अपास्तम्;
“इतिहास-पुराणं पुष्पम्”,
“इतिहास-पुराणाभ्यां वेदं समुपबृंहयेत्” इति श्रुति-स्मृत्योर् इतिहास-पुराणयोर् भेद-व्याप्त-द्वन्द्व-समास-निर्देशानुपपत्तेः ।
En - Gemini 2.5
By this, the statement by some that Itihasas and Puranas are one and the same is refuted; because the dvandva compound which pervades difference in the expressions “Itihāsa-Purāṇaṁ Puṣpam” and “Itihāsa-Purāṇābhyāṁ Vedaṁ Samupabṛṁhayet” in Shruti and Smriti, referring to Itihasa and Purana, would be inappropriate.
मूलम्
एतेन इतिहास-पुराणनाम् एकत्वम् इति कैश्चिद् उक्तम् अपास्तम्; “इतिहास-पुराणं पुष्पम्”, “इतिहास-पुराणाभ्यां वेदं समुपबृंहयेत्” इति श्रुति-स्मृत्योर् इतिहास-पुराणयोर् भेद-व्याप्त-द्वन्द्व-समास-निर्देशानुपपत्तेः ।
विशिष्टाद्वौत-भाष्ये
विश्वास-प्रस्तुतिः
विशिष्टाद्वैत-भाष्ये पुराण-वचनस्य क्वचित्-क्वचित् स्मृति-कोटौ गणनं,
पुराणस्य स्मृतित्वं,
+++(वादायाङ्गीकारं)+++ कृत्वा चिन्तया ।+++(4)+++
En - Gemini 2.5
In the Vishishtadvaita commentary, the occasional inclusion of a Purana statement in the category of Smriti is to be understood as an assumption of the Purana’s Smriti-status for the sake of argument.
मूलम्
विशिष्टाद्वैत-भाष्ये पुराण-वचनस्य क्वचित्-क्वचित् स्मृति-कोटौ गणनं पुराणस्य स्मृतित्वं कृत्वा चिन्तया ।
विश्वास-प्रस्तुतिः
अन्यथा तद्-भाष्ये
“तद्-उपर्य् अपि बादरायणः संभवात्” इति-सूत्रीये
‘संकीर्ण-ब्राह्मण-मन्त्रार्थ-वाद-मूलेषु धर्म-शास्त्रेतिहास-पुराणेषु’
इति ग्रन्थे
विधि-वाक्यात्मक-वेद-गत-ब्राह्मण-मूलक– धर्म-शास्त्र-शब्दित-स्मृत्य्- अपेक्षया
वेद-गत-मन्त्र-मूलकेतिहासापेक्षया च
पृथक्त्वेनार्थ-वाद-मूलकत्वेन पुराणस्य कथनानुपपत्तेः ।
En - Gemini 2.5
Otherwise, in that commentary, in the text ‘in Dharma-shastras, Itihasas, and Puranas, which are based on mixed Brahmanas, Mantras, and Arthavadas’ in the context of the sutra “Tad-upari api Badarayanaḥ Sambhavāt”, the separate mention of Puranas as having Arthavada as their source, distinct from Dharma-shastras (which are Smritis based on Brahmanas, the injunctive parts of the Veda) and Itihasas (based on Mantras from the Veda), would be inappropriate.
मूलम्
अन्यथा तद्-भाष्ये “तद्-उपर्य् अपि बादरायणः संभवात्” इति-सूत्रीये ‘संकीर्ण-ब्राह्मण-मन्त्रार्थ-वाद-मूलेषु धर्म-शास्त्रेतिहास-पुराणेषु’ इति ग्रन्थे विधि-वाक्यात्मक-वेद-गत-ब्राह्मण-मूलक-धर्म-शास्त्र-शब्दित-स्मृत्यपेक्षया वेद-गत-मन्त्र-मूलकेतिहासापेक्षया च पृथक्त्वेनार्थ-वाद-मूलकत्वेन पुराणस्य कथनानुपपत्तेः ।
विश्वास-प्रस्तुतिः
धर्म-शास्त्रस्य स्मृतित्वं च
“श्रुतिस् तु वेदो विज्ञेयो
धर्म-शास्त्रं तु वै स्मृतिः”
इति मनु-स्मृति-वचन-सिद्धम् ।
En - Gemini 2.5
The status of Dharma-shastra as Smriti is established by the statement of Manu Smriti: “Shruti is to be known as Veda, and Dharma-shastra is indeed Smriti.”
मूलम्
धर्म-शास्त्रस्य स्मृतित्वं च “श्रुतिस् तु वेदो विज्ञेयो धर्म-शास्त्रं तु वै स्मृतिः” इति मनु-स्मृति-वचन-सिद्धम् ।
विश्वास-प्रस्तुतिः
पुराणे स्वार्थ-तात्पर्य-रहितार्थ-वाद-मूलकत्वोक्त्या वेदोपबृंहणांशे ऽनभ्यर्हितत्वं च
तद्-भाष्य-काराभिमतम्
इति स्पष्टम् अवगम्यते ।
En - Gemini 2.5
By stating that Puranas are based on Arthavadas (eulogistic passages) which lack independent purport, it is clearly understood that the commentators also hold the view that Puranas are unvenerable in the context of augmenting the Vedas.
मूलम्
पुराणे स्वार्थ-तात्पर्य-रहितार्थ-वाद-मूलकत्वोक्त्या वेदोपबृंहणांशेऽनभ्यर्हितत्वं च तद्-भाष्य-काराभिमतम् इति स्पष्टम् अवगम्यते ।
शाङ्करे
विश्वास-प्रस्तुतिः
एवम् एवाद्वैत-भाष्य-कृताम् अभिप्रायः;
तदीयाद्वैत-भाष्ये
“भावं तु बादरायणोऽस्ति हि”
इति-सूत्रीयेण
‘मन्त्रार्थ-वाद-मूलकम् इतिहास-पुराणम् अपि
देवता-विग्रहादि प्रपञ्चयितुम् अलम्’
इति ग्रन्थेन पुराणस्यार्थ-वाद-मूलकत्वोक्तेः ।
En - Gemini 2.5
This is also the opinion of the Advaita commentators; because in their Advaita commentary, in the context of the sutra “Bhāvaṁ Tu Bādarāyaṇo ‘sti Hi,” it is stated by the text ‘Itihasas and Puranas, which are based on Mantras and Arthavadas, are also capable of elaborating on the forms of deities, etc.,’ which declares the Puranas to be based on Arthavadas.
मूलम्
एवम् एवाद्वैत-भाष्य-कृताम् अभिप्रायः; तदीयाद्वैत-भाष्ये “भावं तु बादरायणोऽस्ति हि” इति-सूत्रीयेण ‘मन्त्रार्थ-वाद-मूलकम् इतिहास-पुराणम् अपि देवता-विग्रहादि प्रपञ्चयितुम् अलम्’ इति ग्रन्थेन पुराणस्यार्थ-वाद-मूलकत्वोक्तेः ।
विश्वास-प्रस्तुतिः
स्तुत्य्-अपर-पर्यायस्यार्थ-वादस्य स्वार्थ-तात्पर्याभावः
“स्तुतये ऽनुमतिर् वा” इति सूत्राद्
अद्वैत-विशिष्टाद्वैत-भाष्ययोः स्पष्टः ।
En - Gemini 2.5
The absence of independent purport for Arthavada, which is synonymous with eulogy, is clear from the sutra “Stutaye ’numatiḥ Vā” in both Advaita and Vishishtadvaita commentaries.
मूलम्
स्तुत्यपर-पर्यायस्यार्थ-वादस्य स्वार्थ-तात्पर्याभावः “स्तुतयेऽनुमतिर् वा” इति-सूत्राद् अद्वैत-विशिष्टाद्वैत-भाष्ययोः स्पष्टः ।
१०-उपनिषद्-ग्राह्यता
कृत्वा चिन्तया ग्रहणम्
विश्वास-प्रस्तुतिः
श्वेताश्वतरोपनिषद्-वाक्यानाम् अद्वैत-विशिष्टाद्वैत-भाष्ययोर् ग्रहणम् अपि
तद्-वाक्यानां ज्ञान-काण्ड-वेद-रूपत्वं - कृत्वा चिन्तया,
न तु मुख्यतो ज्ञान-काण्डत्वम् अस्तीति ।
En - Gemini 2.5
Even the acceptance of the statements from the Shvetashvatara Upanishad in the Advaita and Vishishtadvaita commentaries is done by assuming, for the sake of argument, that those statements are part of the Jnana-kanda of the Veda, and not because they are primarily Jnana-kanda in nature.
मूलम्
श्वेताश्वतरोपनिषद्-वाक्यानाम् अद्वैत-विशिष्टाद्वैत-भाष्ययोर् ग्रहणम् अपि तद्-वाक्यानां ज्ञान-काण्ड-वेद-रूपत्वं कृत्वा चिन्तया, न तु मुख्यतो ज्ञान-काण्डत्वम् अस्तीति ।
विश्वास-प्रस्तुतिः
कृत्वा-चिन्तया ऽपि ग्रहणाग्रहणे
अद्वैति-विशिष्टाद्वैति-भाष्य-कृद्-अभिमते एव;
“विधिर् वा धारणवत्” इति सूत्रे भाष्य-द्वयेऽपि
“यदि वेतरथा ब्रह्म-चर्याद् एव प्रव्रजेत्”
इति वाक्यस्याभावं कृत्वा चिन्तया
“विधिर् वा धारणवत्” [[प्७]] इति-सूत्र-प्रवृत्तिर्
इत्य् अर्थस्य कथनाद्
इत्य् अलम् ।
En - Gemini 2.5
Even the acceptance or non-acceptance for the sake of argument is the view of the Advaita and Vishishtadvaita commentators; in both commentaries on the sutra “Vidhir Va Dharanavat,” it is stated that the sutra “Vidhir Va Dharanavat” applies by assuming the absence of the statement “Yadi vetaratha brahmacharyād eva pravrajet” (or otherwise, one should renounce directly from brahmacharya) for the sake of argument. Enough said.
मूलम्
कृत्वा-चिन्तयापि ग्रहणाग्रहणे अद्वैति-विशिष्टाद्वैति-भाष्य-कृद्-अभिमते एव; “विधिर् वा धारणवत्” इति सूत्रे भाष्य-द्वयेऽपि “यदि वेतरथा ब्रह्म-चर्याद् एव प्रव्रजेत्” इति वाक्यस्याभावं कृत्वा चिन्तया “विधिर् वा धारणवत्” [[प्७]] इति-सूत्र-प्रवृत्तिर् इत्य् अर्थस्य कथनाद् इत्य् अलम् ।
धर्म-विद्या-स्थानत्वम्
विश्वास-प्रस्तुतिः
इदं तु बोध्यम्— याज्ञवल्क्य-स्मृति-रीत्या ऽपि
ईशादि-दशोपनिषदाम् एव वेदत्वं,
ऋग्वेदादि-गत-कर्म-काण्डवद् धर्म-विद्या-स्थानत्वं च;
न तु दशोपनिषद्-भिन्नोपनिषदाम्,
“पुराण-न्याय-मीमांसा-
धर्म-शास्त्राङ्ग-मिश्रिताः ।
+++(१० उपनिषदः, + ४ कर्म-काण्डानि →)+++ वेदाः स्थानानि विद्यानां
धर्मस्य च चतुर्दश”
इति याज्ञवल्क्य-स्मृति-प्रथमाध्याय-वचन-प्रामाण्यात् ।
En - Gemini 2.5
This, however, should be understood: even according to Yajnavalkya Smriti, only the Ten Upanishads, such as Isha and others, are considered Vedas and places of Dharma and Vidya (knowledge) like the Karma-kanda of Rigveda etc.; not the Upanishads different from the Ten Upanishads, as per the authoritative statement from the first chapter of Yajnavalkya Smriti: “Puranas, Nyaya, Mimamsa, Dharma-shastras, Angas, mixed with Vedas – these fourteen are the seats of Vidyas and Dharma.”
मूलम्
इदं तु बोध्यम्— याज्ञवल्क्य-स्मृति-रीत्यापि ईशादि-दशोपनिषदाम् एव वेदत्वं, ऋग्-वेदादि-गत-कर्म-काण्डवद् धर्म-विद्या-स्थानत्वं च; न तु दशोपनिषद्-भिन्नोपनिषदाम्, “पुराण-न्याय-मीमांसा-धर्म-शास्त्राङ्ग-मिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश” इति याज्ञवल्क्य-स्मृति-प्रथमाध्याय-वचन-प्रामाण्यात् ।
विश्वास-प्रस्तुतिः
न ह्य्
अस्मिन् वचने
वेद-गत-मिश्रण-प्रतियोगि-पुराणादि-दशकं, वेद-चतुष्टयं च मिश्रीकृत्य चतुर्दशत्वं,
तेषु धर्म-स्थानत्वं, विद्या-स्थानत्वं चोक्तम्
इति शङ्क्यम्;
मिश्रण-प्रतियोगिनम्+++(→पुराणादि)+++ आदाय
मिश्रणानुयोगि-पद+++(→“वेदाः”)+++-समानाधिकरण– चतुर्दश-पदोक्त-चतुर्दशत्व-संपादने
तत्-समानाधिकरण-“स्थान”-पदोक्त-स्थानत्वस्य तत्र +++(सर्वत्र)+++ संपादने देवदत्त-यज्ञदत्त-मिश्रितम् एक-विष्णुमित्रं गृहीत्वा
देवदत्त-यज्ञदत्त-मिश्रिता विष्णुमित्रास् +++(इति)+++ त्रयः पण्डिताः शिष्टा
इति
“देवदत्त-मिश्रितो यज्ञदत्तो द्वाव्” इत्य्-आदि-निर्देशस्यापि प्रामाणिकत्वापत्तेः ।+++(5)+++
En - Gemini 2.5
It should not be suspected that in this statement,
the ten (branches) beginning with Purana, which are mixed with the Vedas, and the four Vedas, when mixed, are said to constitute fourteen,
and that they are places of Dharma and Vidyas;
for if one were to consider the mixed elements along with the principal subject to establish the fourteen-ness indicated by the word “chaturdasha” in apposition to the principal subject, and to establish the status of ‘place’ indicated by the word “sthana” in apposition to it, it would lead to the absurdity of considering statements like
“Devadatta, Yajnadatta, and one Vishnumitra are mixed, and hence Devadatta, Yajnadatta, and mixed Vishnumitra are three learned scholars”
or “Devadatta mixed with Yajnadatta are two” as authoritative.
मूलम्
न ह्य् अस्मिन् वचने वेद-गत-मिश्रण-प्रतियोगि-पुराणादि-दशकं वेद-चतुष्टयं च मिश्रीकृत्य चतुर्दशत्वं तेषु धर्म-स्थानत्वं विद्या-स्थानत्वं चोक्तम् इति शङ्क्यम्; मिश्रण-प्रतियोगिनम् आदाय मिश्रणानुयोगि-पद-समानाधिकरण-चतुर्दश-पदोक्त-चतुर्दशत्व-संपादने तत्-समानाधिकरण-स्थान-पअदोक्त-स्थानत्वस्य तत्र संपादने देवदत्त-यज्ञदत्त-मिश्रितम् एक-विष्णुमित्रं गृहीत्वा देवदत्त-यज्ञदत्त-मिश्रिता विष्णुमित्रास् त्रयः पण्डिताः शिष्टा इति देवदत्त-मिश्रितो यज्ञदत्तो द्वाव् इत्य् आदि-निर्देशस्यापि प्रामाणिकत्वापत्तेः ।
विश्वास-प्रस्तुतिः
न ह्य् अनुयोगि-पद+++(→“वेदाः”)+++-समानाधिकरण-पदोक्त-धर्माणाम्
अनुयोगि-विशेषण-“मिश्रित”-विशेषण -मिश्रण-विशेषणेषु शाब्दान्वयः कुत्रापि दृश्यते ।
En - Gemini 2.5
Indeed, the syntactic connection of the attributes stated by the word in apposition to the principal subject, with the mixed attributes that modify the principal subject, is nowhere seen.
मूलम्
न ह्य् अनुयोगि-पद-समानाधिकरण-पदोक्त-धर्माणाम् अनुयोगि-विशेषण-मिश्रित-विशेषण-मिश्रण-विशेषणेषु शाब्दान्वयः कुत्रापि दृश्यते ।
विश्वास-प्रस्तुतिः
तस्माच् चत्वारि कर्म-काण्डानि
दशोपनिषदश् च मिलित्वा
चतुर्दश-संख्याका वेदाः ।
En - Gemini 2.5
Therefore, the four Karma-kandas and the Ten Upanishads together constitute fourteen Vedas.
मूलम्
तस्माच् चत्वारि कर्म-काण्डानि दशोपनिषदश् च मिलित्वा चतुर्दश-संख्याका वेदाः ।
विष्णुर् हि साक्षान्-मुक्ति-दाता
नान्यः पन्था
विश्वास-प्रस्तुतिः
मुक्ति-दातृत्वं विष्णोर् एव,
न तु विधि-शिवादीनाम्;
वेदाहम् एतं पुरुषं महान्तम्
आदित्य-वर्णं तमसः परस्तात् ।
तम् एवं विद्वान् अमृत इह भवति
नान्यः पन्था विद्यतेऽयनाय
इति सर्व-संप्रतिपन्न-पठ्यमान-पुरुष-सूक्त-श्रुतौ
मोक्ष-हेतु-ज्ञान-विषयत्वस्य महा-पुरुष-शब्दित-नारायणे कथनात्
“नान्यः पन्थाः” इत्यत्र सिद्धोपायान्तर-निषेध-परत्वे
मोक्ष-हेतु-ज्ञान-विषय–महा-पुरुषान्यस्य मोक्षोपायत्व-प्रतिषेधाच् च ।
En - Gemini 2.5
The bestower of liberation is Vishnu alone, not Brahma, Shiva, etc.; because in the Purusha Sukta Shruti, which is universally accepted and recited, it is stated that the object of knowledge leading to liberation is Narayana, denoted by the word Mahapurusha (“I know that great Purusha, effulgent like the sun, beyond darkness. Knowing Him thus, one becomes immortal here; there is no other path for liberation”), and in “nānyaḥ panthāḥ” (there is no other path), when it is understood as a prohibition of other established means, it prohibits any other means of liberation than Mahapurusha, who is the object of knowledge leading to liberation.
मूलम्
मुक्ति-दातृत्वं विष्णोर् एव, न तु विधि-शिवादीनाम्; वेदाहम् एतं पुरुषं महान्तम् आदित्य-वर्णं तमसः परस्तात् । तम् एवं विद्वान् अमृत इह भवति नान्यः पन्था विद्यतेऽयनाय इति सर्व-संप्रतिपन्न-पठ्यमान-पुरुष-सूक्त-श्रुतौ मोक्ष-हेतु-ज्ञान-विषयत्वस्य महा-पुरुष-शब्दित-नारायणे कथनात् “नान्यः पन्थाः” इत्यत्र सिद्धोपायान्तर-निषेध-परत्वे मोक्ष-हेतु-ज्ञान-विषय-महा-पुरुषान्यस्य मोक्षोपायत्व-प्रतिषेधाच् च ।
विश्वास-प्रस्तुतिः
अतो विष्णुर् एव मोक्ष-हेतु-ज्ञान-विषयो
मोक्षोपायश् चेति सिद्धम् ।
En - Gemini 2.5
Therefore, it is established that Vishnu alone is the object of knowledge leading to liberation and the means to liberation.
मूलम्
अतो विष्णुर् एव मोक्ष-हेतु-ज्ञान-विषयो मोक्षोपायश् चेति सिद्धम् ।
विश्वास-प्रस्तुतिः
अस्यां श्रुतौ “इह”-शब्द-निर्देशाद्
विष्णु-निष्ठस्यास्मिन्न् एव जन्मनि मोक्षः
न त्व् अन्य-निष्ठस्येति सिध्यति ।+++(5)+++
En - Gemini 2.5
In this Shruti, from the mention of the word “iha” (here), it is established that liberation occurs in this very birth for one devoted to Vishnu, but not for one devoted to others.
मूलम्
अस्यां श्रुतौ इह-शब्द-निर्देशाद् विष्णु-निष्ठस्यास्मिन्न् एव जन्मनि मोक्षः न त्व् अन्य-निष्ठस्येति सिध्यति ।
श्वेताश्वतर-कैवल्ये
विश्वास-प्रस्तुतिः
एतेन ज्ञान-काण्ड-बहिर्-भूत-श्वेताश्वतरोपनिषदि
“यो देवानां प्रभवश् चोद्भवश् च
विश्वाधिपो रुद्रो महर्षिर्
हिरण्य-गर्भं जनयाम् आस
पूर्वं स नो बुद्ध्या शुभया संयुनक्तु”,
“विश्वस्यैकं परिवेष्टितारम्
ईशं तं ज्ञात्वा अमृता भवन्ति”,
[[प्८]]
“तम् एवं विदित्वाति मृत्युम् एति
नान्यः पन्था विद्यतेऽयनाय”,
“य एतद् विदुर् अमृतास् ते भवन्ति
अथेतरे दुःखम् एवापियन्ति”,
“रुद्र यत् ते दक्षिणं मुखं
तेन मां पाहि नित्यम्”
इत्य्-आदिभिर् वचनैः,
“उमा-सहायम्”
इत्य् उपक्रम्य प्रवृत्तेन कैवल्योपनिषद्-वचनेन
शिवस्य मोक्ष-हेतु-ज्ञान-विषयत्वं मोक्ष-दातृत्वं च कथितम्
इत्य् उक्तम् अपास्तम्;
त्वद्-उदाहृत-वचनेषु
शिवस्य मोक्ष-हेतु-ज्ञान-विषयकत्व-कथनेऽपि
इहेति-पदाभावेन पुरुष-सूक्तोक्त-मोक्ष-हेतु-ज्ञान-विषय-विष्णाव् एतज्-जन्मनि मोक्ष-दातृत्ववच्
छिवस्य तद्-असिद्ध्या
प्रत्युत इह-पद-घटित-पुरुष-सूक्त-श्रुत्या शिवादीनाम् एतज्-जन्मनि मोक्ष-दातृत्व-प्रतिषेधाच् च
जन्मान्तरे मोक्ष-हेतु-विष्णु-ज्ञान-जनन-द्वारा शिव-ज्ञानस्य मोक्ष-हेतुत्व-सिद्ध्या
साक्षाच् छिव-ज्ञानस्य मोक्ष-हेतुत्वासिद्ध्या
अग्निहोत्रादि-कर्मणाम् इव
मोक्ष-प्रयोजकत्व एव विश्रान्त्या
शिवस्य मोक्ष-दातृत्वासिद्धेः ।+++(4)+++
En - Gemini 2.5
By this, the assertion that in the Shvetashvatara Upanishad, which is outside the Jnana-kanda, by statements like “He who is the source and origin of the gods, the ruler of the universe, Rudra, the great Rishi, who first created Hiranyagarbha, may he unite us with auspicious intellect,” “Knowing Him, the one who envelops the universe, the Lord, they become immortal,” “Knowing Him thus, one transcends death; there is no other path for liberation,” “Those who know this become immortal; others indeed go to suffering,” and “O Rudra, with that auspicious face of yours, protect me always,” and by the statement in the Kaivalya Upanishad, which begins with “He who is accompanied by Uma,” the knowability of Shiva as the cause of liberation and his being the bestower of liberation are stated, is refuted; because even though the knowability of Shiva as the object of knowledge leading to liberation is stated in the verses you cited, due to the absence of the word “iha” (here), Shiva’s bestowing liberation in this very birth, like Vishnu, the object of knowledge leading to liberation as stated in the Purusha Sukta, is not established. On the contrary, the Purusha Sukta Shruti, which contains the word “iha,” prohibits the bestowing of liberation in this very birth by Shiva and others. And since the status of Shiva-knowledge as a cause of liberation is established indirectly by generating Vishnu-knowledge, which causes liberation in another birth, and not directly, and since Shiva’s role as a bestower of liberation is confined only to being a promoter of liberation, like the Agnihotra and other rituals, it is not established that Shiva directly bestows liberation.
मूलम्
एतेन ज्ञान-काण्ड-बहिर्-भूत-श्वेताश्वतरोपनिषदि “यो देवानां प्रभवश् चोद्भवश् च विश्वाधिपो रुद्रो महर्षिर् हिरण्य-गर्भं जनयामास पूर्वं स नो बुद्ध्या शुभया संयुनक्तु”, “विश्वस्यैकं परिवेष्टितारम् ईशं तं ज्ञात्वा अमृता भवन्ति”, “तम् एवं विदित्वाति मृत्यु- [[प्८]] म् एति नान्यः पन्था विद्यतेऽयनाय”, “य एतद् विदुर् अमृतास् ते भवन्ति अथेतरे दुःखम् एवापियन्ति”, “रुद्र यत् ते दक्षिणं मुखं तेन मां पाहि नित्यम्” इत्यादिभिर् वचनैः “उमा-सहायम्” इत्य् उपक्रम्य प्रवृत्तेन कैवल्योपनिषद्-वचनेन शिवस्य मोक्ष-हेतु-ज्ञान-विषयत्वं मोक्ष-दातृत्वं च कथितम् इत्य् उक्तम् अपास्तम्; त्वद्-उदाहृत-वचनेषु शिवस्य मोक्ष-हेतु-ज्ञान-विषयकत्व-कथनेऽपि इहेति-पदाभावेन पुरुष-सूक्तोक्त-मोक्ष-हेतु-ज्ञान-विषय-विष्णाव् एतज्-जन्मनि मोक्ष-दातृत्ववच् छिवस्य तद्-असिद्ध्या प्रत्युत इह-पद-घटित-पुरुष-सूक्त-श्रुत्या शिवादीनाम् एतज्-जन्मनि मोक्ष-दातृत्व-प्रतिषेधाच् च जन्मान्तरे मोक्ष-हेतु-विष्णु-ज्ञान-जनन-द्वारा शिव-ज्ञानस्य मोक्ष-हेतुत्व-सिद्ध्या साक्षाच् छिव-ज्ञानस्य मोक्ष-हेतुत्वासिद्ध्या अग्निहोत्रादि-कर्मणाम् इव मोक्ष-प्रयोजकत्व एव विश्रान्त्या शिवस्य मोक्ष-दातृत्वासिद्धेः ।
विश्वास-प्रस्तुतिः
यदि च परम्परया मोक्ष-हेतोर् अपि तद्-दातृत्वम् अभिमतं
तदा
तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति
यज्ञेन दानेन तपसानाशकेन
इति श्रुत्या
ब्रह्म-ज्ञान-द्वारा मोक्ष-हेतुतया प्रतिपादित-यज्ञादीनां
मोक्ष-प्रदत्वं कुतो न भवेत् ।+++(5)+++
En - Gemini 2.5
And if the bestowing of liberation is accepted even for an indirect cause of liberation, then why would not the Yajnas (sacrifices) and others, which are stated by the Shruti “Tam etam Vedānuvachanena Brāhmaṇā Vividiṣanti Yajñena Dānena Tapasānāśakena” (Brahmins desire to know Him through Vedic study, sacrifice, charity, and austerity) to be causes of liberation through Brahman-knowledge, also bestow liberation?
मूलम्
यदि च परम्परया मोक्ष-हेतोर् अपि तद्-दातृत्वम् अभिमतं तदा तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन इति श्रुत्या ब्रह्म-ज्ञान-द्वारा मोक्ष-हेतुतया प्रतिपादित-यज्ञादीनां मोक्ष-प्रदत्वं कुतो न भवेत् ।
विश्वास-प्रस्तुतिः
साक्षान्-मोक्ष-हेतुत्वस्य यज्ञादिष्व् अ-संभवेन मोक्ष-दातृत्वास्वीकारे
शिव-तज्-ज्ञानयोर् अपि तत्-तुल्यम् ।
En - Gemini 2.5
If the direct causality of liberation is impossible for Yajnas and others, and therefore their being bestowers of liberation is not accepted, then the same applies to Shiva and knowledge of Shiva.
मूलम्
साक्षान्-मोक्ष-हेतुत्वस्य यज्ञादिष्व् असंभवेन मोक्ष-दातृत्वास्वीकारे शिव-तज्-ज्ञानयोर् अपि तत्-तुल्यम् ।
विश्वास-प्रस्तुतिः
शिव-तज्-ज्ञानयोर् मोक्षोपायत्व-स्वीकारे
तम् एवं विद्वान् अमृत इह भवति
नान्यः पन्था विद्यतेऽयनाय
इति श्रुति-विरोधो दुष्परिहरः ।
En - Gemini 2.5
If Shiva and the knowledge of Shiva are accepted as means to liberation, then the contradiction with the Shruti “Knowing Him thus, one becomes immortal here; there is no other path for liberation” becomes difficult to overcome.
मूलम्
शिव-तज्-ज्ञानयोर् मोक्षोपायत्व-स्वीकारे तम् एवं विद्वान् अमृत इह भवति नान्यः पन्था विद्यतेऽयनाय इति श्रुति-विरोधो दुष्परिहरः ।
शंकराज् ज्ञानम्
विश्वास-प्रस्तुतिः
अत एव
शंकराज् ज्ञानम् अन्विच्छेन्
मोक्षम् इच्छेज् जनार्दनात्
इति मुनि-वचनेन
+++(“अन्विच्छेद्” इत्यत्र)+++ निहीनार्थक-कर्म-प्रवचनीयानु-शब्द-बोधित-निहीनत्वं परम्परया मोक्ष-हेतुत्व-पर्यवसितं शंकर-ज्ञाने कथितम्;
निहीनं ज्ञानं शंकराद् इच्छेद् इत्य् अर्थः । +++(4)+++
En - Gemini 2.5
For this very reason, by the sage’s statement “One should seek knowledge from Shankara, and liberation from Janardana (Vishnu),” the inferiority indicated by the Karma-pravacaniya particle ‘anu,’ culminating in indirect causality of liberation, is stated for the knowledge of Shankara; the meaning is that one should desire inferior knowledge from Shankara.
मूलम्
अत एव शंकराज् ज्ञानम् अन्विच्छेन् मोक्षम् इच्छेज् जनार्दनात् इति मुनि-वचनेन निहीनार्थक-कर्म-प्रवचनीयानु-शब्द-बोधित-निहीनत्वं परम्परया मोक्ष-हेतुत्व-पर्यवसितं शंकर-ज्ञाने कथितम्; निहीनं ज्ञानं शंकराद् इच्छेद् इत्य् अर्थः ।
विश्वास-प्रस्तुतिः
अन्यथा शंकर-ज्ञानाद् एव मोक्ष-सिद्धौ
“मोक्षम् इच्छेज् जनार्दनात्” इत्यस्य
पद-सन्दर्भ-रूप-वाक्यस्यैवाप्रामाण्यापत्तेः ।
En - Gemini 2.5
Otherwise, if liberation is attained solely from the knowledge of Shankara, then the entire statement “Mokṣam icchej Janardanāt” (One should desire liberation from Janardana) would become unauthoritative.
मूलम्
अन्यथा शंकर-ज्ञानाद् एव मोक्ष-सिद्धौ “मोक्षम् इच्छेज् जनार्दनात्” इत्यस्य पद-संदर्भ-रूप-वाक्यस्यैवाप्रामाण्यापत्तेः ।
विश्वास-प्रस्तुतिः
वरं हि वाक्य-वैयर्थ्य-परिहारार्थं पदस्य
गौणार्थ-वर्णनम् अपि
इति पूर्व-तन्त्रे दशमाध्याये
‘यद्यपि चतुरवत्ती यजमानस्
तथापि पञ्चावत्तैव वपा कार्या’
इत्य्-अत्र शाबर-भाष्य-शास्त्र-दीपिकादौ न्यायः प्रदर्शितः ।
En - Gemini 2.5
Indeed, it is better to interpret a word with a secondary meaning to avoid the redundancy of a statement, as demonstrated in the tenth chapter of Purva-tantra (Mimamsa Sutras) in Shabarabhashya, Shastradipika, etc., in the context of ‘Although the sacrificer performs with four oblations, the omentum should still be offered with five oblations.’
मूलम्
वरं हि वाक्य-वैयर्थ्य-परिहारार्थं पदस्य गौणार्थ-वर्णनम् अपीति पूर्व-तन्त्रे दशमाध्याये ‘यद्यपि चतुरवत्ती यजमानस् तथापि पञ्चावत्तैव वपा कार्या’ इत्यत्र शाबर-भाष्य-शास्त्र-दीपिकादौ न्यायः प्रदर्शितः ।
विश्वास-प्रस्तुतिः
किमु वक्तव्यं
“मोक्षम् इच्छेज् जनार्दनात्” इति-वाक्य-वैयर्थ्य-परिहारार्थं
कर्म-प्रवचनीयस्यानोर् निहीनत्व-रूप-मुख्यार्थम् आश्रित्यानोर् उपपत्ति-कल्पने ।
En - Gemini 2.5
What more needs to be said about justifying the use of ‘anu’ by resorting to its primary meaning of inferiority, in order to avoid the redundancy of the statement “Mokṣam icchej Janardanāt” (One should desire liberation from Janardana)?
मूलम्
किमु वक्तव्यं “मोक्षम् इच्छेज् जनार्दनात्” इति-वाक्य-वैयर्थ्य-परिहारार्थं कर्म-प्रवचनीयस्यानोर् निहीनत्व-रूप-मुख्यार्थम् आश्रित्यानोर् उपपत्ति-कल्पने ।
विश्वास-प्रस्तुतिः
“विद्वान् अमृत इह भवति
नान्यः पन्था विद्यतेऽयनाय”
इति श्रुतेः
“शंकराज् ज्ञानम् अन्विच्छेत्”
इत्य् उक्त-ज्ञाने साक्षान्-मोक्ष-हेतुत्व-स्वीकारे [[प्९]] विरोध-प्रसङ्गाच् च ।
En - Gemini 2.5
Furthermore, if direct causality of liberation is accepted for the knowledge mentioned as “Shankarat jnanam anvicchet” (one should seek knowledge from Shankara), it would lead to a contradiction with the Shruti “Knowing Him thus, one becomes immortal here; there is no other path for liberation.”
मूलम्
“विद्वान् अमृत इह भवति नान्यः पन्था विद्यतेऽयनाय” इति श्रुतेः “शंकराज् ज्ञानम् अन्विच्छेत्” इत्य् उक्त-ज्ञाने साक्षान्-मोक्ष-हेतुत्व-स्वीकारे [[प्९]] विरोध-प्रसङ्गाच् च ।
हरिवंशे शिवोक्तम्
विश्वास-प्रस्तुतिः
अत एव पञ्चम-वेदान्तर्गत-हरिवंश-पर्वणि
कैलास-यात्रायां देवान् ऋषींश् च प्रति
श्री-कृष्ण-संनिधौ—
“यूयं मां तत्त्वतो ध्यात्वा
ततो जानीत केशवम् ।
उपास्योऽयं हरिर् विप्रा
उपायोऽस्मि हरेः स्मृतौ”
इति शिवेनैव मोक्ष-हेतु-विष्णु-ज्ञान-हेतुत्वं स्व-ध्यानस्योक्तं संगच्छते ।
En - Gemini 2.5
For this very reason, in the Harivamsa Parva, which is included in the Fifth Veda, during the journey to Kailasa, in the presence of Sri Krishna, Shiva himself said to the gods and Rishis, “You all, meditating upon me truly, then know Keshava (Vishnu). This Hari is to be worshipped, O Vipras; I am remembered as a means for Hari,” which is consistent with his own meditation being a means for knowledge of Vishnu, who is the cause of liberation.
मूलम्
अत एव पञ्चम-वेदान्तर्गत-हरिवंश-पर्वणि कैलास-यात्रायां देवान् ऋषींश् च प्रति श्री-कृष्ण-संनिधौ— “यूयं मां तत्त्वतो ध्यात्वा ततो जानीत केशवम् । उपास्योऽयं हरिर् विप्रा उपायोऽस्मि हरेः स्मृतौ” इति शिवेनैव मोक्ष-हेतु-विष्णु-ज्ञान-हेतुत्वं स्व-ध्यानस्योक्तं संगच्छते ।
विश्वास-प्रस्तुतिः
शिव-ज्ञानस्य साक्षान्-मोक्ष-हेतुत्वे
उक्त-शिव-वचनं विरुध्येत ।
En - Gemini 2.5
If Shiva-knowledge were a direct cause of liberation, the aforementioned statement of Shiva would be contradicted.
मूलम्
शिव-ज्ञानस्य साक्षान्-मोक्ष-हेतुत्वे उक्त-शिव-वचनं विरुध्येत ।
विश्वास-प्रस्तुतिः
अत एव हरिवंशे तत्रैव श्री-कृष्ण-संनिधौ
“मुक्तिं प्रार्थयमानं माम्
एवम् आह त्रिलोचनः ।
मुक्ति-प्रदाता सर्वेषां
विष्णुर् एव न संशयः”
इति शिवोक्तं वचनं घण्टा-कर्णेनानूदितम् ।
En - Gemini 2.5
For this very reason, in the Harivamsa, there in the presence of Sri Krishna, the statement made by Shiva to Ghantakarna, “Trilochana (Shiva) said this to me, who was praying for liberation: ‘Vishnu alone is the bestower of liberation for all, there is no doubt’,” was reiterated by Ghantakarna.
मूलम्
अत एव हरिवंशे तत्रैव श्री-कृष्ण-संनिधौ “मुक्तिं प्रार्थयमानं माम् एवम् आह त्रिलोचनः । मुक्ति-प्रदाता सर्वेषां विष्णुर् एव न संशयः” इति शिवोक्तं वचनं घण्टा-कर्णेनानूदितम् ।
विश्वास-प्रस्तुतिः
शिवस्यापि साक्षान्-मोक्ष-हेतुत्वे
तद् अपि वचनं विरुध्येत ।
En - Gemini 2.5
If Shiva also were a direct cause of liberation, that statement too would be contradicted.
मूलम्
शिवस्यापि साक्षान्-मोक्ष-हेतुत्वे तद् अपि वचनं विरुध्येत ।
भगवद्-गीता
विश्वास-प्रस्तुतिः
अत्रोपनिषदं पुण्यां
कृष्ण-द्वैपायनोऽब्रवीत्
इत्यादि-पर्व-वचन-रीत्या
महाभारत-सार-भूतायां भगवद्-गीतोपनिषदि
माम् एव ये प्रपद्यन्ते
मायाम् एतां तरन्ति ते
इत्य् एव-कार-घटित-श्लोकेन
श्री-कृष्ण-प्रपन्नस्यैव माया-तरणाख्यो मोक्षः
न तु विधि-शिवादि-प्रपन्नस्येति स्पष्टम् एवोक्तं प्रतीयते ।
En - Gemini 2.5
According to the statements of the Parva (chapters) like “Here, the sacred Upanishad was declared by Krishna Dvaipayana,” in the Bhagavad-Gita Upanishad, which is the essence of the Mahabharata, it is clearly understood that liberation, which is the transcending of Maya, belongs only to those who surrender to Sri Krishna, as stated by the verse containing the particle “eva” (only): “Those who take refuge in Me alone, they cross over this Maya,” and not to those who surrender to Brahma, Shiva, etc.
मूलम्
अत्रोपनिषदं पुण्यां कृष्ण-द्वैपायनोऽब्रवीत् इत्यादि-पर्व-वचन-रीत्या महाभारत-सार-भूतायां भगवद्-गीतोपनिषदि माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते इत्य् एव-कार-घटित-श्लोकेन श्री-कृष्ण-प्रपन्नस्यैव माया-तरणाख्यो मोक्षः न तु विधि-शिवादि-प्रपन्नस्येति स्पष्टम् एवोक्तं प्रतीयते ।
विश्वास-प्रस्तुतिः
तच्-छ्लोकीयेन
‘कथं पुनर् दैवीम् एतां त्रि-गुणात्मिकां मायाम् अतिक्रामन्तीति;
उच्यते—
दैवी देवस्य ममेश्वरस्य विष्णोः
स्वभाव-भूता हि यस्मात्
यथोक्ता गुणमयी मम माया दुरत्यया
दुःखेन अत्ययोऽतिक्रमणं यस्याः सा दुरत्यया ।
तत्रैवं सति सर्व-धर्मान् परित्यज्य
माम् एव मायाविनं स्वात्म-भूतं सर्वात्मना ये प्रपद्यन्ते,
ते मायाम् एतां सर्व-भूत-चित्त-मोहिनीं तरन्ति अतिक्रामन्ति,
संसार-बन्धान् मुच्यन्त इत्य् अर्थः’
इति श्रीमच्-छंकर-भगवत्-पाद-भाष्येण
माम् एवेत्य् एव-कार-संघट्टनाद्
भगवद्-व्यतिरिक्त-विधि-शिवादि-देवतान्तर-प्रपदनं
न माया-तरणाय भवतीति स्पष्टम् एवोक्तम् ।
En - Gemini 2.5
In the commentary of Shrimat Shankara-Bhagavatpada on that very verse, by the juxtaposition of the particle “eva” in “Mam eva” (Me alone), it is clearly stated that surrender to other deities like Brahma, Shiva, etc., apart from the Lord, does not lead to transcending Maya; as it says,
‘How then do they overcome this divine Maya, which is composed of three gunas? It is answered— Because My Maya, which is divine, belonging to Me, the Lord Vishnu, and made of gunas as described, is difficult to overcome, meaning its transcendence is difficult. In such a situation, those who, abandoning all dharmas, surrender completely to Me alone, who am the wielder of Maya and their own inner Self, they cross over this Maya, which deludes the minds of all beings, and are liberated from the bonds of samsara.’
मूलम्
तच्-छ्लोकीयेन ‘कथं पुनर् दैवीम् एतां त्रि-गुणात्मिकां मायाम् अतिक्रामन्तीति; उच्यते— दैवी देवस्य मम् ईश्वरस्य विष्णोः स्वभाव-भूता हि यस्मात् यथोक्ता गुणमयी मम माया दुरत्यया दुःखेन अत्ययोऽतिक्रमणं यस्याः सा दुरत्यया । तत्रैवं सति सर्व-धर्मान् परित्यज्य माम् एव मायाविनं स्वात्म-भूतं सर्वात्मना ये प्रपद्यन्ते, ते मायाम् एतां सर्व-भूत-चित्त-मोहिनीं तरन्ति अतिक्रामन्ति, संसार-बन्धान् मुच्यन्त इत्य् अर्थः’ इति श्रीमच्-छंकर-भगवत्-पाद-भाष्येण माम् एवेत्य् एव-कार-संघट्टनाद् भगवद्-व्यतिरिक्त-विधि-शिवादि-देवतान्तर-प्रपदनं न माया-तरणाय भवतीति स्पष्टम् एवोक्तम् ।
विश्वास-प्रस्तुतिः
न मां दुष्कृतिनो मूढाः
प्रपद्यन्ते नराधमाः ।
माययापहृत-ज्ञाना
आसुरं भावम् आश्रिताः
इत्य् अनन्तर-श्लोकीये
‘यदि त्वां प्रपन्ना मायाम् एतां तरन्ति
तर्हि कस्मात् त्वाम् एव सर्वे न प्रपद्यन्त?इति; उच्यते— न माम् इति ।
मां परमेश्वरं दुष्कृतिनः पाप-कारिणः मूढा न प्रपद्यन्ते ।
नराणां मध्ये अधमा निकृष्टाः
ते च माययापहृत-ज्ञानाः
आसुरं भावं हिंसानृतादि-लक्षणम् आश्रिताः’
इति श्रीमच्-छंकर-भगवत्-पाद-भाष्ये
‘कस्मात् त्वाम् एव सर्वे न प्रपद्यन्ते’
इत्य् अंशेन एव-कार-घटनाद्
देवतान्तर-संबन्धे मोक्ष-विरोधि पापम् एव निमित्तम्
इति च स्पष्टम् उक्तम् ।
En - Gemini 2.5
In the subsequent verse, “The evildoers, the foolish, the lowest among men, do not take refuge in Me; their knowledge stolen by Maya, they cling to the demonic nature,” and in the commentary of Shrimat Shankara-Bhagavatpada on it, by the mention of the particle “eva” in the phrase ‘Kasmāt tvām eva sarve na prapadyante’ (Why do not all surrender to You alone?), it is clearly stated that the question is raised as to why all do not surrender to the Lord alone as the cause of liberation without resorting to other deities, and that resorting to other deities apart from the Lord is indeed the cause of sin which is an impediment to liberation.
मूलम्
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययापहृत-ज्ञाना आसुरं भावम् आश्रिताः इत्य् अनन्तर-श्लोकीये ‘यदि त्वां प्रपन्ना मायाम् एतां तरन्ति तर्हि कस्मात् त्वाम् एव सर्वे न प्रपद्यन्त इति; उच्यते— न माम् इति । मां परमेश्वरं दुष्कृतिनः पाप-कारिणः मूढा न प्रपद्यन्ते । नराणां मध्ये अधमा निकृष्टाः ते च माययापहृत-ज्ञानाः आसुरं भावं हिंसानृतादि-लक्षणम् आश्रिताः’ इति श्रीमच्-छंकर-भगवत्-पाद-भाष्ये ‘कस्मात् त्वाम् एव सर्वे न प्रपद्यन्ते’ इत्य् अंशेन एव-कार-घटनाद् देवतान्तर-संबन्धे मोक्ष-विरोधि पापम् एव निमित्तम् इति च स्पष्टम् उक्तम् ।
विश्वास-प्रस्तुतिः
‘प्रशान्तात्मा विगत-भीः’
इति गीता-श्लोकीय-शंकर-भगवत्-पाद-भाष्ये
‘कश्चिद् रागी स्त्री-चित्तः
न तु स्त्रियम् एव परत्वेन गृह्णाति,
किं तु राजानं महादेवं वा ।
अयं तु मच्-चित्तो मत्-परश् च’
इत्य्-अनेन
कामुक-स्त्री-चित्त-पुरुष-गृहीत-परत्वकत्वं महादेवस्य,
न तु भगवन्-निष्ठ-पुरुष-गृहीत-परत्वकत्वम्
इति कथनेन
महादेवस्य कामुक-पुरुष-मात्र-भजनीयत्वं
न तु मुमुक्षु-भजनीयत्वम्
इति सिद्धम् ।
En - Gemini 2.5
In Shankara-Bhagavatpada’s commentary on the Gita verse ‘Prashāntātmā Vigatabhīḥ’ (one with a tranquil mind, free from fear), by the statement ‘Someone who is passionate and woman-minded does not consider a woman as supreme, but rather a king or Mahadeva. But this one (the devotee of Vishnu) is mindful of Me and devoted to Me,’ it is established that Mahadeva is considered supreme only by lustful, woman-minded men, and not by those devoted to the Lord, thereby proving that Mahadeva is to be worshipped only by lustful men, not by those desirous of liberation.
मूलम्
‘प्रशान्तात्मा विगत-भीः’ इति गीता-श्लोकीय-शंकर-भगवत्-पाद-भाष्ये ‘कश्चिद् रागी स्त्री-चित्तः न तु स्त्रियम् एव परत्वेन गृह्णाति, किं तु राजानं महादेवं वा । अयं तु मत्-चित्तो मत्-परश् च’ इत्यनेन कामुक-स्त्री-चित्त-पुरुष-गृहीत-परत्वकत्वं महादेवस्य, न तु भगवन्-निष्ठ-पुरुष-गृहीत-परत्वकत्वम् इति कथनेन महादेवस्य कामुक-पुरुष-मात्र-भजनीयत्वं न तु मुमुक्षु-भजनीयत्वम् इति सिद्धम् ।
निगमनम्
विश्वास-प्रस्तुतिः
तथा च उदाहृत- “तम् एवं विद्वान्” इति-श्रुति-हरिवंश-वचन– भगवद्-गीता-श्लोक– तदीय-शंकर-भगवत्-पाद-भाष्यैः
मुमुक्षूपास्यो विष्णुर् एव
न विधि-शिवादिर् इति स्पष्टम् एव प्रतिपादितम् !
En - Gemini 2.5
Thus, by the aforementioned Shruti “Tam evaṁ Vidvān” (Knowing Him thus), the statement in Harivamsa, the Bhagavad-Gita verse, and its commentary by Shankara-Bhagavatpada, it is clearly established that Vishnu alone is to be worshipped by those desirous of liberation, and not Brahma, Shiva, or others!
मूलम्
तथा च उदाहृत- “तम् एवं विद्वान्” इति-श्रुति-हरिवंश-वचन-भगवद्-गीता-श्लोक-तदीय-शंकर-भगवत्-पाद-भाष्यैः मुमुक्षूपास्यो विष्णुर् एव न विधि-शिवादिर् इति स्पष्टम् एव प्रतिपादितम् !
विश्वास-प्रस्तुतिः
न ह्य् एवं महा-भारते भगवत्-पाद-भाष्येषु वा
शिवस्य मुमुक्षूपास्यत्व-समर्पकं वाक्यं दृश्यते ।
En - Gemini 2.5
Indeed, no statement supporting Shiva as an object of worship for those desirous of liberation is found in the Mahabharata or in the commentaries of Bhagavatpada.
मूलम्
न ह्य् एवं महा-भारते भगवत्-पाद-भाष्येषु वा शिवस्य मुमुक्षूपास्यत्व-समर्पकं वाक्यं दृश्यते ।
शिव-पूजा-पर-वाक्य-निर्वाहः
विश्वास-प्रस्तुतिः
एतेन केनचिद् गौड-मुण्डिना
यानि शिव-पूजा-पराणि महा-भारत-वचनानि लिखितानि,
तानि सर्वाण्य् अप्य् अनुक्तोपालम्भनत्वात् परास्तानि ।
En - Gemini 2.5
By this, all those Mahabharata statements pertaining to Shiva worship, which were written by some Gauda-mundin (a derogatory term implying one with shaven head or a fool from Gauda country), are refuted because they are reproofs of what was not stated.
मूलम्
एतेन केनचिद् गौड-मुण्डिना यानि शिव-पूजा-पराणि महा-भारत-वचनानि लिखितानि, तानि सर्वाण्य् अप्य् अनुक्तोपालम्भनत्वात् परास्तानि ।
विश्वास-प्रस्तुतिः
न हि तेषु वचनेषु
मुमुक्षुणा मोक्षार्थं शिवाराधनं कर्तव्यम्,
अनेन मोक्षार्थं शिव आराधित
इति वा कथितम् अस्ति ।
En - Gemini 2.5
Indeed, in those statements, it is not said that a person desirous of liberation should worship Shiva for liberation, or that Shiva was worshipped by this person for liberation.
मूलम्
न हि तेषु वचनेषु मुमुक्षुणा मोक्षार्थं शिवाराधनं कर्तव्यम्, अनेन मोक्षार्थं शिव आराधित इति वा कथितम् अस्ति ।
विश्वास-प्रस्तुतिः
प्रत्युत
पाप-क्षयार्थाश्वमेध-राजसूयादि– जन्य-फल-समान-फलार्थम् एव
शिव-पूजनादिकं प्रतिपादितम् अस्ति ।
En - Gemini 2.5
On the contrary, Shiva worship and the like are taught only for results similar to those obtained from Ashvamedha and Rajasuya sacrifices, which are for the removal of sins.
मूलम्
प्रत्युत पाप-क्षयार्थाश्वमेध-राजसूयादि-जन्य-फल-समन्-फलर्थम् एव स्हिव-पूजनादिकं प्रतिपादितम् अस्ति ।
विश्वास-प्रस्तुतिः
मोक्ष-व्यतिरिक्त-फलापेक्षिणा +अमुमुक्षुणा
तत्-तत्-फलार्थं शिवाराधनं कार्यम् एव ।
En - Gemini 2.5
Indeed, a person not desirous of liberation, who desires results other than liberation, should perform Shiva worship for those specific results.
मूलम्
मोक्ष-व्यतिरिक्त-फलापेक्षिणा अमुमुक्षुणा तत्तत्-फलार्थं शिवाराधनं कार्यम् एव ।
विश्वास-प्रस्तुतिः
तत् तु न प्रतिषिध्यते ।
En - Gemini 2.5
That, however, is not prohibited.
मूलम्
तत् तु न प्रतिषिध्यते ।
त्र्यम्बकं यजामहे
विश्वास-प्रस्तुतिः
एतेन “त्रियम्बकं यजामहे” इति मन्त्रे
शिवोद्देश्यक-यजने मोक्ष-हेतुत्वम् अस्तीति लिखितम् अपास्तम् -
En - Gemini 2.5
By this, the assertion that the worship of Shiva, whose objective is Shiva, as mentioned in the mantra “Tryambakam Yajamahe,” is a cause of liberation, is refuted.
मूलम्
एतेन “त्रियम्बकं यजामहे” इति मन्त्रे शिवोद्देश्यक-यजने मोक्ष-हेतुत्वम् अस्तीति लिखितम् अपास्तम् ।
विश्वास-प्रस्तुतिः
शिव-पूजादि-रूप-शिव-यजनस्य कर्म-कोटि-प्रविष्टस्य
ब्रह्म-ज्ञान-भिन्नत्वेन +++(साक्षान्-)+++मोक्ष-हेतुत्वासिद्धेः;
अन्यथा “नान्यः पन्था अयनाय विद्यते” इति श्रुति-विरोधापत्तेः ।
En - Gemini 2.5
Because Shiva worship, which falls into the category of karma (ritualistic action), is different from Brahman-knowledge, its being a cause of liberation is not established; otherwise, it would lead to a contradiction with the Shruti “There is no other path for liberation.”
मूलम्
शिव-पूजादि-रूप-शिव-यजनस्य कर्म-कोटि-प्रविष्टस्य ब्रह्म-ज्ञान-भिन्नत्वेन मोक्ष-हेतुत्वासिद्धेः; अन्यथा “नान्यः पन्था अयनाय विद्यते” इति श्रुति-विरोधापत्तेः ।
विश्वास-प्रस्तुतिः
श्री-शंकराचार्य–श्री-रामानुजाचार्य– श्रीमध्वाचार्य-प्रभृतिभिर् भाष्य-कारैर्
ज्ञान-व्यतिरिक्तस्य मोक्ष-हेतुत्वानङ्गीकारात्
“तम् एतं वेदानुवचनेन” इत्य्-आदि-श्रुत्या वेदानुवचन-यज्ञादीनां
ज्ञान-द्वारा मोक्ष-प्रयोजकत्वेन निर्देशवत्
तत्-कोटि-प्रविष्टस्य शिव-यजनस्यापि
ज्ञान-द्वारा परम्परया मोक्ष-प्रयोजकत्वम् एव
“त्रियम्बकं यजामहे” इति श्रुत्या प्रतिपादितम्
इति स्वीकर्तव्यम् ।
En - Gemini 2.5
Since commentators like Sri Shankaracharya, Sri Ramanujacharya, and Sri Madhvacharya do not accept anything other than knowledge as a cause of liberation, it must be accepted that the Shruti “Tryambakam Yajamahe” also states that Shiva worship, which falls into that category, is an indirect cause of liberation through knowledge, just as the Vedic study, sacrifices, etc., are stated by the Shruti “Tam etam Vedānuvachanena” and others to be promoters of liberation through knowledge.
मूलम्
श्री-शंकराचार्य-श्री-रामानुजाचार्य-श्रीमध्वाचार्य-प्रभृतिभिर् भाष्य-कारैर् ज्ञान-व्यतिरिक्तस्य मोक्ष-हेतुत्वानङ्गीकारात् “तम् एतं वेदानुवचनेन” इत्यादि-श्रुत्या वेदानुवचन-यज्ञादीनां ज्ञान-द्वारा मोक्ष-प्रयोजकत्वेन निर्देशवत् तत्-कोटि-प्रविष्टस्य शिव-यजनस्यापि ज्ञान-द्वारा परम्परया मोक्ष-प्रयोजकत्वम् एव “त्रियम्बकं यजामहे” इति श्रुत्या प्रतिपादितम् इति स्वीकर्तव्यम् ।
अवतार-कृत-पूजा
विश्वास-प्रस्तुतिः
एतेन
“जन्म-कर्म-तपो-योगास्
तयोस् तव च पुष्कलाः ।
ताभ्यां लिङ्गेऽर्चितो देवस्
त्वया ऽर्चायां युगे युगे॥”इति द्रोण-पर्वण्य् अश्वत्थामानं प्रति व्यास-वचनेन [[प्११]]
“अत्र पूर्वं महादेवः
प्रसादम् अकरोत् प्रभुः”इति श्रीमद्-रामायण-वचने च
श्री-राम-कृष्णयोः शिवाराधकत्वोक्त्या
शिवस्योत्कर्षः प्रतीयत
इत्य् उक्तम् अपास्तम्;
“न मे पार्थास्ति कर्तव्यं
त्रिषु लोकेषु किंचन ।
नानवाप्तम् अवाप्तव्यं
वर्त एव च कर्मणि॥”
इति भगवद्-गीता-वचनेन
“अहम् आत्मा हि भूतानां
विश्वेषां पाण्डु-नन्दन ।
तस्माद् +++(जीव-)+++आत्मानम् एवाग्रे
रुद्रं संपूजयाम्य् अहम् ॥
यद्य् अहं नार्चयेयं वै
ईशानं वरदं शिवम् ।
+++(जीव-द्वारा)+++ आत्मानं नार्चयेत् कश्चिद्
इति मे भाषितं मनः ॥
मया प्रमाणं हि कृतं
लोकस् तद् अनुवर्तते ।
प्रमाणानीह पूज्यानि
ततस् तं पूजयाम्य् अहम् ॥
न हि मे केनचिद् देयो
वरः पाण्डव-नन्दन”
इति शान्ति-पर्व-मोक्ष-धर्म– नारायणीय-गत– श्री-कृष्ण-वचनैः—
स्वेन शिव-पूजनाद्य्-अकरणे
शिवस्यान्यैः पूज्यत्वं न सिध्येत्;
अतः शिवस्यान्य-पूज्यत्व-सिद्ध्य्-अर्थं
भगवता शिव-पूजनाख्यं प्रमाणं कृतं
न तु स्वार्थम्;
न हि भगवतः कर्तव्यं किंचिद् अस्ति;
यत् क्रियते कर्म
तत् लोक-संग्रहार्थम् एव कृतम्—
इत्य् अवगमेन भगवत्-कृत-शिव-पूजा– तद्-वर-ग्रहणादेर् विडम्बन-मात्रतया तेन शिवोत्कर्षासिद्धेः ।
En - Gemini 2.5
By this, the statement that Shiva’s superiority is perceived from the mention of Sri Rama and Krishna as Shiva worshippers in Vyasa’s statement to Ashwatthama in Drona Parva: “Your births, actions, austerities, and yogas are abundant, as are Mine; by those, the god was worshipped in the linga by you, and in the image by Me in every age,” and in the Ramayana statement: “Here, formerly, Mahadeva, the Lord, bestowed grace,” is refuted; because by the Bhagavad-Gita statement: “O Partha, I have no duty in the three worlds whatsoever, nor anything to attain that is not attained; yet I engage in action,” and by Sri Krishna’s statements in Shanti Parva, Mokshadharma, Narayaniya: “Indeed, I am the Self of all beings, O son of Pandu. Therefore, I worship Rudra, my own Self, first. If I do not worship Ishana, the bestower of boons, Shiva, then no one would worship the Self – this is My thought. Indeed, I have set a precedent, and the world follows it. Precedents are to be honored, therefore I worship Him. No boon is to be given to Me by anyone, O son of Pandu,” it is understood that if the Lord Himself did not perform Shiva worship etc., Shiva’s worshipability by others would not be established; therefore, for the sake of establishing Shiva’s worshipability by others, the Lord set a precedent of Shiva worship, not for His own sake; for the Lord has no duty whatsoever; whatever action is performed by Him is done only for the welfare of the world – by this understanding, Shiva’s superiority is not established by the Lord’s Shiva worship, receiving boons from him, etc., as these are merely a semblance (of action).
मूलम्
एतेन “जन्म-कर्म-तपो-योगास् तयोस् तव च पुष्कलाः । ताभ्यां लिङ्गेऽर्चितो देवस् त्वयार्चायां युगे युगे” इति द्रोण-पर्वण्य् अश्वत्थामानं प्रति व्यास-वचनेन “अत्र पूर्वं महादेवः प्रसादम् अकरो- [[प्११]] त् प्रभुः” इति श्रीमद्-रामायण-वचने च श्री-राम-कृष्णयोः शिवाराधकत्वोक्त्या शिवस्योत्कर्षः प्रतीयत इत्य् उक्तम् अपास्तम्; “न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तम् अवाप्तव्यं वर्त एव च कर्मणि” इति भगवद्-गीता-वचनेन “अहम् आत्मा हि भूतानां विश्वेषां पाण्डु-नन्दन । तस्माद् आत्मानम् एवाग्रे रुद्रं संपूजयाम्य् अहम् ॥ यद्य् अहं नार्चयेयं वै ईशानं वरदं शिवम् । आत्मानं नार्चयेत् कश्चिद् इति मे भाषितं मनः ॥ मया प्रमाणं हि कृतं लोकस् तद् अनुवर्तते । प्रमाणानीह पूज्यानि ततस् तं पूजयाम्य् अहम् ॥ न हि मे केनचिद् देयो वरः पाण्डव-नन्दन” इति शान्ति-पर्व-मोक्ष-धर्म-नारायणीय-गत-श्री-कृष्ण-वचनैः— स्वेन शिव-पूजनाद्य् अकरणे शिवस्यान्यैः पूज्यत्वं न सिध्येत्; अतः शिवस्यान्य-पूज्यत्व-सिद्ध्यर्थं भगवता शिव-पूजनाख्यं प्रमाणं कृतं न तु स्वार्थम्; न हि भगवतः कर्तव्यं किंचिद् अस्ति; यत् क्रियते कर्म तत् लोक-संग्रहार्थम् एव कृतम्— इत्य् अवगमेन भगवत्-कृत-शिव-पूजा-तद्-वर-ग्रहणादेर् विडम्बन-मात्रतया तेन शिवोत्कर्षासिद्धेः ।
विश्वास-प्रस्तुतिः
हि यस्माद् अहं कृष्णः
सर्व-प्राणिनाम् आत्मा
तस्माद् आत्मानम् एवाग्रे पूजयामि
इत्य् अन्वय-बलेन
सर्व-प्राण्य्-अन्तर्यामिणः श्री-कृष्ण-भगवद्-रूपस्यात्मनः श्री-कृष्ण-कृत-पूजन-कर्मत्वं प्रतीयते,
हि-शब्द-तस्माद्-इति-शब्दोक्त– पूजा-प्रयोजक-हेतुत्वस्य
अहं-शब्दिते कृष्ण एव विश्रान्तेः ।
En - Gemini 2.5
Indeed, since I, Krishna, am the Self of all beings, by the power of syntactic connection, it is understood that the worship performed by Sri Krishna is directed towards the Self, which is the form of Sri Krishna, the inner Self of all beings, and the causality of worship indicated by ‘hi’ and ’tasmat’ rests solely in Krishna, denoted by ‘aham’.
मूलम्
हि यस्माद् अहं कृष्णः सर्व-प्राणिनाम् आत्मा तस्माद् आत्मानम् एवाग्रे पूजयामीत्य् अन्वय-बलेन सर्व-प्राण्य्-अन्तर्यामिणः श्री-कृष्ण-भगवद्-रूपस्यात्मनः श्री-कृष्ण-कृत-पूजन-कर्मत्वं प्रतीयते, हि-शब्द-तस्माद् इति-शब्दोक्त-पूजा-प्रयोजक-हेतुत्वस्याहं-शब्दिते कृष्ण एव विश्रान्तेः ।
विश्वास-प्रस्तुतिः
आत्मानम् इत्यस्य विशेषणं रुद्रम् इति
रुद्र-विभूतिकम् आत्मानम्
इति लभ्यते ।
En - Gemini 2.5
The epithet ‘Rudra’ for ‘Ātmānam’ (the Self) means the Self endowed with the vibhuti (manifestation/power) of Rudra.
मूलम्
आत्मानम् इत्यस्य विशेषणं रुद्रम् इति रुद्र-विभूतिकम् आत्मानम् इति लभ्यते ।
विश्वास-प्रस्तुतिः
एव-कारेण श्री-कृष्णात्म-व्यतिरिक्तस्य तद्-विभूति-रुद्रस्य स्वातन्त्र्येण पूजा-कर्मत्वं व्यवच्छिद्यते ।+++(4)+++
En - Gemini 2.5
By the particle “eva” (alone), the independent status of Rudra, who is a manifestation of Sri Krishna’s Self, as an object of worship is excluded.
मूलम्
एव-कारेण श्री-कृष्णात्म-व्यतिरिक्तस्य तद्-विभूति-रुद्रस्य स्वातन्त्र्येण पूजा-कर्मत्वं व्यवच्छिद्यते ।
विश्वास-प्रस्तुतिः
आत्म-विशेषणतया सिद्धं
शिवस्य भगवत्-पूजन-कर्मत्वम् अनुवदति
“यद्य् अहम्” इति श्लोकः ।
En - Gemini 2.5
The verse “Yadyaham” (If I…) reiterates Shiva’s status as an object of worship by the Lord, which is established as an attribute of the Self.
मूलम्
आत्म-विशेषणतया सिद्धं शिवस्य भगवत्-पूजन-कर्मत्वम् अनुवदति “यद्य् अहम्” इति श्लोकः ।
सञ्जयोक्तिः
विश्वास-प्रस्तुतिः
एतम् एव भगवद्-अभिप्रायम्
उद्योग-पर्वणि
“ईशन्न् अपि महा-योगी
सर्वस्य जगतो हरिः ।
कर्माण्य् आरभते कर्तुं
कीनाश इव दुर्बलः ॥
तेन वञ्चयते लोकान्
माया-योगेन केशवः ।
एतम् एव प्रपद्यन्ते
न ते मुह्यन्ति मानवाः”
इति धृतराष्ट्रं प्रति व्यास-प्रसाद-लब्ध-दिव्य-दृष्टिः संजयोऽप्य् अकथयत् ।
En - Gemini 2.5
This very intention of the Lord was also stated by Sanjaya, who had attained divine sight by the grace of Vyasa, to Dhritarashtra in the Udyoga Parva: “Though being the Lord, the great Yogi Hari, the Lord of the entire universe, He begins to perform actions like a weak farmer. By that (action), Keshava deceives the worlds through His yoga of Maya. Those human beings who surrender to Him alone are not deluded.”
मूलम्
एतम् एव भगवद्-अभिप्रायम् उद्योग-पर्वणि “ईशन्न् अपि महा-योगी सर्वस्य जगतो हरिः । कर्माण्य् आरभते कर्तुं कीनाश इव दुर्बलः ॥ तेन वञ्चयते लोकान् माया-योगेन केशवः । एतम् एव प्रपद्यन्ते न ते मुह्यन्ति मानवाः” इति धृतराष्ट्रं प्रति व्यास-प्रसाद-लब्ध-दिव्य-दृष्टिः संजयोऽप्य् अकथयत् ।
विश्वास-प्रस्तुतिः
“तेन वञ्चयते लोकान्”
इति शिव-पूजादि-कृष्ण-कर्मणो विडम्बन-मात्रत्वं
संजयः समसूचयत् ।
En - Gemini 2.5
Sanjaya clearly indicated that Krishna’s actions like Shiva worship are merely a semblance, by the phrase “tena vañcayate lokān” (by that, he deceives the worlds).
मूलम्
“तेन वञ्चयते लोकान्” इति शिव-पूजादि-कृष्ण-कर्मणो विडम्बन-मात्रत्वं संजयः समसूचयत् ।
व्यासः
विश्वास-प्रस्तुतिः
महाभारतस्यान्ते भगवान् श्री-वेदव्यासः
“कीर्तिं प्रथयता तेन
पाण्डवानां महात्मनाम् ।
क्रीडां च वासुदेवस्य
देव-देवस्य चक्रिणः”
इत्य्-आदिना भगवत्-कर्मणः सर्वस्यापि क्रीडा-रूपत्वम् अवोचत् ।
En - Gemini 2.5
At the end of the Mahabharata, Bhagavan Sri Vedavyasa stated that all actions of the Lord are of the nature of sport, by phrases like “by Him, the glory of the great-souled Pandavas was spread, and the sport of Vasudeva, the God of gods, the wielder of the discus.”
मूलम्
महाभारतस्यान्ते भगवान् श्री-वेदव्यासः “कीर्तिं प्रथयता तेन पाण्डवानां महात्मनाम् । क्रीडां च वासुदेवस्य देव-देवस्य चक्रिणः” इत्यादिना भगवत्-कर्मणः सर्वस्यापि क्रीडा-रूपत्वम् अवोचत् ।
शिवादि-कृत-भगवत्-पूजायां व्यत्यासः
विश्वास-प्रस्तुतिः
[[प्१२]] न ह्य् एवं महा-भारते
“स-ब्रह्मकाः स-रुद्राश् च
सेन्द्राः सर्वे महर्षयः ।
अर्चयन्ति सुर-श्रेष्ठं
देवं नारायणं प्रभुम्”
इति नारायणीय-वचनेन,
“पादेन कमलाभेन
ब्रह्म-रुद्रार्चितेन च ।
पस्पर्श पुण्डरीकाक्षो ह्य्
आपाद-तल-मस्तकम्”
इत्य् आश्वमेधिक-वचनेन,
“महादेवः सर्व-मेधे हुत्वात्मानं देव-देवो बभूव ।
विश्वाल् लोकान् अव्याप्य विष्टभ्य कीर्त्या
विराजते द्युतिमान् कृत्ति-वासाः”
इति राज-धर्म-वचनेन च
शिव-कृत-भगवद्-आराधनस्य विडम्बनत्व-बोधकं किम् अपि वचनं दृश्यते ।
En - Gemini 2.5
Indeed, no statement indicating the mock nature of Shiva’s worship of the Lord is found in the Mahabharata, such as in the Narayaniya statement: “All the great Rishis, along with Brahma, Rudra, and Indra, worship the best of gods, Lord Narayana,” or in the Ashvamedhika statement: “The lotus-eyed one touched (him) from head to toe with his lotus-like foot, which is worshipped by Brahma and Rudra,” or in the Raja-Dharma statement: “Mahadeva, having offered himself in Sarvamedha, became the God of gods. Enveloping all worlds and pervading them, he, wearing deer-skin, shines with glory.”
मूलम्
[[प्१२]] न ह्य् एवं महा-भारते “स-ब्रह्मकाः स-रुद्राश् च स-इन्द्राः सर्वे महर्षयः । अर्चयन्ति सुर-श्रेष्ठं देवं नारायणं प्रभुम्” इति नारायणीय-वचनेन, “पादेन कमलाभेन ब्रह्म-रुद्रार्चितेन च । पस्पर्श पुण्डरीकाक्षो ह्य् आपादतलमस्तकम्” इत्य् आश्वमेधिक-वचनेन, “महादेवः सर्व-मेधे हुत्वात्मानं देव-देवो बभूव । विश्वाल् लोकान् अव्याप्य विष्टभ्य कीर्त्या विराजते द्युतिमान् कृत्ति-वासाः” इति राज-धर्म-वचनेन च शिव-कृत-भगवद्-आराधनस्य विडम्बनत्व-बोधकं किम् अपि वचनं दृश्यते ।
विश्वास-प्रस्तुतिः
पौराणिकं तु वचनं नाभ्यर्हितम्
इति श्रुति-स्मृति-गत-द्वन्द्वाभ्यां
प्राग् एवोपपादितम् इत्य् अलम् ।
En - Gemini 2.5
However, Puranic statements are not venerable, as has been already established by the dvandva compounds found in Shruti and Smriti. Enough said.
मूलम्
पौराणिकं तु वचनं नाभ्यर्हितम् इति श्रुति-स्मृति-गत-द्वन्द्वाभ्यां प्राग् एवोपपादितम् इत्य् अलम् ।
विश्वास-प्रस्तुतिः
कर-चरण-नेत्रादि-सर्वावयवोपेत-शरीरस्य
विष्णु-दैवत्य–सर्व-मेध-यागे
ऽग्नौ प्रक्षेपं कृत्वा
देव-देवत्वं सर्व-लोक-व्यापनं च शिवो लब्धवान्
इति भारत-वचनं कथयति ।
En - Gemini 2.5
A statement in the Mahabharata says that Shiva attained the status of God of gods and pervasiveness of all worlds by offering his body, endowed with all limbs like hands, feet, eyes, etc., into the fire in the Sarvamedha sacrifice dedicated to Vishnu.
मूलम्
कर-चरण-नेत्रादि-सर्वावयवोपेत-शरीरस्य
विष्णु-दैवत्य–सर्व-मेध-यागे
ऽग्नौ प्रक्षेपं कृत्वा
देव-देवत्वं सर्व-लोक-व्यापनं च शिवो लब्धवान्
इति भारत-वचनं कथयति ।
चक्र-प्राप्तिः
विश्वास-प्रस्तुतिः
शरीरस्यैकावयवेन
तत्रापि वामेन लोचनेनोत्पाटितेन शिवार्चनं कृत्वा
विष्णुना चक्रं लब्धम्
इति क्वचिद् वचनं कथयति ।
En - Gemini 2.5
Another statement says that Vishnu obtained the discus by worshipping Shiva with one part of his body, specifically by plucking out his left eye.
मूलम्
शरीरस्यैकावयवेन तत्रापि वामेन लोचनेनोत्पाटितेन शिवार्चनं कृत्वा विष्णुना चक्रं लब्धम् इति कचिद् वचनं कथयति ।
विश्वास-प्रस्तुतिः
तत्र विचार-शीलाः पण्डिता
द्वयोर् मध्य आधिक्यं विदां कुर्वन्तु ।
En - Gemini 2.5
There, let the discerning scholars understand the superiority between the two.
मूलम्
तत्र विचार-शीलाः पण्डिता
द्वयोर् मध्य आधिक्यं विदां कुर्वन्तु ।
पुष्टि-वर्धनः
विश्वास-प्रस्तुतिः
इदं तु बोध्यम्— त्रियम्बकं यजामहे सुगन्धिं पुष्टि-वर्धनम् ।
उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय मा मृतात्
इति मन्त्रे
पुष्टि-वर्धनम् इति हेतु-गर्भ-विशेषण-स्वारस्याच्
छिव-यजनं पुष्ट्यर्थम् इति सिध्यति ।
En - Gemini 2.5
This, however, should be understood: In the mantra “Tryambakam yajamahe Sugandhim pushti-vardhanam. Urvārukam iva bandhanān mṛtyor mukṣīya mā mṛtāt” (We worship Tryambaka, the fragrant, increaser of prosperity. May I be liberated from death, as a cucumber from its stalk, not from immortality), it is established that Shiva worship is for prosperity, by the natural implication of the qualifying epithet ‘pushti-vardhanam’ (increaser of prosperity), which contains a reason.
मूलम्
इदं तु बोध्यम्— त्रियम्बकं यजामहे सुगन्धिं पुष्टि-वर्धनम् । उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय मा मृतात् इति मन्त्रे पुष्टि-वर्धनम् इति हेतु-गर्भ-विशेषण-स्वारस्याच् छिव-यजनं पुष्ट्यर्थम् इति सिध्यति ।
विश्वास-प्रस्तुतिः
“मुक्षीये"ति मध्यम-पुरुष-स्वारस्यात् “त्वम्” इति पदम् अस्ति ।
En - Gemini 2.5
From the natural implication of the middle person singular “mukṣīya” (may you be liberated), the word “tvam” (you) is implied.
मूलम्
मुक्षीयेति मध्यम-पुरुष-स्वारस्यात् त्वम् इति पदम् अस्ति ।
विश्वास-प्रस्तुतिः
तथा च
पुष्ट्य्-अर्थं सुगन्धिं त्र्यम्बकं वयं यजामहे;
त्वं +++(मोक्ष-दो विष्णुः)+++ मृति-युक्तान् मृत्यु-शब्दित-संसाराद् बन्धनात्
उर्वारुकम् इव मा मां मुक्षीय मोचय
इस्ति मन्त्रार्थः प्रतीयते - +++(5)+++
En - Gemini 2.5
Thus, the meaning of the mantra is understood as: “For prosperity, we worship the fragrant Tryambaka; may you liberate me from the bondage of samsara, denoted by death, which is associated with mortality, just as a cucumber from its stalk.”
मूलम्
तथा च पुष्ट्यर्थं सुगन्धिं त्र्यम्बकं वयं यजमहे; त्वं मृति-युक्तान् मृत्यु-शब्दित-संसाराद् बन्धनात् उर्वारुकम् इव मा मां मुक्षीय मोचयेति मन्त्रार्थः प्रतीयते ।
विश्वास-प्रस्तुतिः
यज्-जनक-कर्मत्वं यस्य कथितं
तद्-भिन्नस्यैव मोक्ष-दातृत्वम् उत्तम-पुरुष-मध्यम-पुरुषाभ्यां प्रतीयते,
“अहं देवदत्तं परिचरामि
त्वम् आपदो मोक्षय”
इत्य्-आदौ लोके तथैवावगमात् ।
En - Gemini 2.5
From the use of the first person and middle person, it is understood that the bestower of liberation is different from the one whose generative action is stated, just as it is understood in common usage, e.g., “I serve Devadatta, you liberate me from difficulties.”
मूलम्
यज्-जनक-कर्मत्वं यस्य कथितं तद्-भिन्नस्यैव मोक्ष-दातृत्वम् उत्तम-पुरुष-मध्यम-पुरुषाभ्यां प्रतीयते, “अहं देवदत्तं परिचरामि त्वम् आपदो मोक्षय” इत्यादौ लोके तथैवावगमत् ।
विश्वास-प्रस्तुतिः
तथा च शिवस्य पुष्टि-वर्धकत्वम् एव,
मोक्ष-दातृत्वं तु तद्-अन्यस्येत्य् उक्त-मन्त्र-स्वारसिकार्थ इति ।
En - Gemini 2.5
Thus, Shiva is indeed the increaser of prosperity, but the bestower of liberation is someone else – this is the natural meaning of the said mantra.
मूलम्
तथा च शिवस्य पुष्टि-वर्धकत्वम् एव, मोक्ष-दातृत्वं तु तद्-अन्यस्येत्य् उक्त-मन्त्र-स्वारसिकार्थ इति ।
श्वेताश्वतर-वाक्य-गौणता
विश्वास-प्रस्तुतिः
यत् तु
श्वेताश्वतरोपनिषदि
“यो वै देवानां प्रभवश् चोद्भवश् च
विश्वाधिपो रुद्रो महर्षिः
हिरण्य-गर्भं जनयामास
पूर्वं स नो बुद्ध्या शुभया संयुनक्तु”इति मन्त्रेण
हिरण्य-गर्भस्य रुद्र-जन्यत्वं प्रतीयते
अतो न रुद्र-जनको हिरण्य-गर्भ
इति, तन् न;
तैत्तिरीये
“प्रजापतौ हर आसीत्”
इति श्रुत्या
बृहदारण्यके [[प्१३]]
“तच्-छ्रेयो-रूपम् अत्यसृजत,
तत् क्षत्त्रं,
यान्य् अत्र देव-क्षत्त्राणि,
इन्द्रो वरुणः सोमो रुद्रः पर्जन्यो मृत्युर् ईशानः”
इति वाक्येन,
साम-वेद-मन्त्र-ब्राह्मणे प्रपद-मन्त्रे
“विरूपाक्षोऽसि दन्ताञ्जिस्
त्वं देवेषु ब्राह्मणः,
अहं मनुष्येषु ब्राह्मणः,
ब्राह्मणो वै ब्राह्मणम् उपधावति
उप त्वा धावामि”
इत्य् आरभ्य प्रवृत्तेन
“तस्मै विरूपाक्षाय ब्रह्मणः पुत्राय नमः”
इति वाक्येन,
शतपथे च काण्व-शाखीये
“अभूद् धेदम् अप्रतिष्ठा” इत्य् आरभ्य
“भूतानां च प्रजापतिः संवत्सरायादीक्षत,
भूतानां पतिर् गृहपतिर् आसीत्,
उषाः पत्नी”
इत्य्-आदिम् उक्त्वा
“भूतानां पतिः संवत्सरे उषसि रेतोऽसिञ्चत्,
संवत्सरे कुमारोऽजायत,
सोऽरोदीत्, तं प्रजापतिर् अब्रवीत्,
कुमार किं रोदिषि,
यच् छ्रमात् तपसोऽधिजातोऽसि,
सोऽब्रवीत्, अनपहत-पाप्मा वा अहम् अनाहित-नामा, नाम मे धेहि, पाप्मनोऽपहत्या इति,
तं प्रजापतिर् अब्रवीत्, रुद्रोऽसीति,
तद् अस्य तन्-नामाकरोत्,
अग्निस् तद्-रूपम् अभवद्,
अग्निर् वै रुद्रो,
यद् अरोदीत्, तस्माद् रुद्रः।
… सोऽब्रवीत्, भवोऽसीति, शर्वोऽसीति, ईशानोऽसीति, पशुपतिर् असि +इति, उग्रोऽसीति, भीमोऽसीति, महादेवोऽसीति”
इति श्रुत्या च
रुद्रस्य चतुर्मुख-जन्यत्व– पर-ब्रह्म-जन्यत्व– क्षत्त्रियत्व-ब्राह्मणत्वानाम् उक्तत्वात् ।
En - Gemini 2.5
As for the assertion that in the Shvetashvatara Upanishad, by the mantra “He who is the source and origin of the gods, the ruler of the universe, Rudra, the great Rishi, who first created Hiranyagarbha, may he unite us with auspicious intellect,” Hiranyagarbha is understood to be born of Rudra, and therefore Rudra is not born of Hiranyagarbha – that is not so; because in the Taittiriya (Aranyaka) by the Shruti “Prajāpatau Hara āsīt” (Hara was in Prajapati), in the Brihadaranyaka by the statement “He created that which is superior form, that is Kshatra, those divine Kshatriyas here are Indra, Varuna, Soma, Rudra, Parjanya, Mrityu, Ishana,” in the Samaveda Mantra-Brahmana, in the Pra-pada mantra, starting with “You are Virupaksha, Dantāñji, you are a Brahmana among gods, I am a Brahmana among men; a Brahmana indeed approaches a Brahmana, I approach you,” and continuing with the statement “Salutations to that Virupaksha, the son of Brahma,” and in the Shatapatha of the Kanva recension, starting with “Indeed, this was unsupported,” and then stating “And Prajapati of beings performed initiation for a year; the lord of beings was the householder, Ushas was his wife,” and then saying “The lord of beings deposited semen in Ushas in a year, a boy was born in a year, he cried; Prajapati said to him, ‘Kumar, why do you cry, since you are born from labor and austerity?’ He said, ‘Indeed, I am one whose sins are not removed, whose name is not placed, give me a name, for the removal of sin.’ Prajapati said to him, ‘You are Rudra,’ and gave him that name. Agni became his form, Agni is indeed Rudra, because he cried, therefore he is Rudra. He said, ‘You are Bhava,’ ‘You are Sharva,’ ‘You are Ishana,’ ‘You are Pashupati,’ ‘You are Ugra,’ ‘You are Bhima,’ ‘You are Mahadeva’,” by these Shrutis, the birth of Rudra from Chaturmukha (Brahma), his birth from Para-Brahman, and his being a Kshatriya and a Brahmana are stated.
मूलम्
यत् तु श्वेताश्वतरोपनिषदि “यो वै देवानां प्रभवश् चोद्भवश् च विश्वाधिपो रुद्रो महर्षिः हिरण्य-गर्भं जनयामास पूर्वं स नो बुद्ध्या शुभया संयुनक्तु” इति मन्त्रेण हिरण्य-गर्भस्य रुद्र-जन्यत्वं प्रतीयते अतो न रुद्र-जनको हिरण्य-गर्भ इति, तन् न; तैत्तिरीये “प्रजापतौ हर आसीत्” इति श्रुत्या बृहदारण्यके “तच्-छ्रेयो- [[प्१३]] रूपम् अत्यसृजत, तत् क्षत्त्रं, यान्य् अत्र देव-क्षत्त्राणि, इन्द्रो वरुणः सोमो रुद्रः पर्जन्यो मृत्युर् ईशानः” इति वाक्येन, साम-वेद-मन्त्र-ब्राह्मणे प्र-पद-मन्त्रे “विरूपाक्षोऽसि दन्ताञ्जिस् त्वं देवेषु ब्राह्मणः अहं मनुष्येषु ब्राह्मणः ब्राह्मणो वै ब्राह्मणम् उपधावति उप त्वा धावामि” इत्य् आरभ्य प्रवृत्तेन “तस्मै विरूपाक्षाय ब्रह्मणः पुत्राय नमः” इति वाक्येन, शतप्थे च काण्व-शाखीये “अभूद् धेदम् अप्रतिष्ठा” इत्य् आरब्य “भूतानां च प्रजापतिः संवत्सरायादीक्षत, भूतानां पतिः गृहपतिः आसीत्, उषाः पत्नी” इत्यादिम् उक्त्वा “भूतानां पतिः संवत्सरे उषसि रेतोऽसिञ्चत्, संवत्सरे कुमारोऽजायत, सोऽरोदीत् तं प्रजापतिर् अब्रवीत्, कुमार किं रोदिषि, यच् छ्रमात् तपसोधिजातोऽसि, सोऽब्रवीत्, अनपहत-पाप्मा वा अहम् अनाहित-नामा नाम मे धेहि, पाप्मनोऽपहत्या इति, तं प्रजापतिर् अब्रवीत्, रुद्रोऽसीति, तद् अस्य तन्-नामाकरोत्, अग्निस् तद्-रूपम् अभवद् अग्निर् वै रुद्रो यद् अरोदीत् तस्माद् रुद्रः सोऽब्रवीत्, भवोऽसीति, शर्वोऽसीति, ईशानोऽसीति, पशुपतिर् असि इति, उग्रोऽसीति, भीमोऽसीति, महादेवोऽसीति” इति श्रुत्या च रुद्रस्य चतुर्मुख-जन्यत्व-पर-ब्रह्म-जन्यत्व-क्षत्त्रियत्व-ब्राह्मणत्वानाम् उक्त्वात् ।
विश्वास-प्रस्तुतिः
“अहं प्रसादजस् तस्य
कस्मिंश् चित् कारणान्तरे ।
त्वं चैव क्रोधजस् तात
पूर्व-सर्गे सनातनात्”
इति रुद्रं प्रति मोक्ष-धर्म-नारायणीय-चतुर्-मुख-वचन-रीत्या कल्प-भेदेन च तेषां रुद्रे संभवाविरोधः ।
En - Gemini 2.5
According to Chaturmukha’s (Brahma’s) statement to Rudra in the Mokṣadharma Narayaniya, “I am born from his grace, due to some other cause. And you, O son, are born from eternal wrath in a previous creation,” there is no contradiction in the possibility of these (different origins/natures) for Rudra due to different kalpas (aeons).
मूलम्
“अहं प्रसादजस् तस्य कस्मिंश् चित् कारणान्तरे । त्वं चैव क्रोधजस् तात पूर्व-सर्गे सनातनात्” इति रुद्रं प्रति मोक्ष-धर्म-नारायणीय-चतुर्मुख-वचन-रीत्या कल्प-भेदेन च तेषां रुद्रे संभवाविरोधः ।
विश्वास-प्रस्तुतिः
त्वद्-उक्त-श्वेताश्वतर-वाक्यस्य
दशोपनिषद्-अनन्तर्गततया अविश्वसनीयत्वम् एव ।
En - Gemini 2.5
The Shvetashvatara statement cited by you is indeed unreliable because it is not included in the Ten Upanishads.
मूलम्
त्वद्-उक्त-श्वेताश्वतर-वाक्यस्य दशोपनिषद्-अनन्तर्गततया अविश्वसनीयत्वम् एव ।
नमोभी रौद्रतापकरणम्
विश्वास-प्रस्तुतिः
तमु॑ ष्टुहि॒ यः स्वि॒षुः सु॒धन्वा॒
यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्य॑ ।
यक्ष्वा॑ म॒हे सौ॑मन॒साय॑ रु॒द्रं
नमो॑भिर् दे॒वम् असु॑रं दुवस्य ॥
इति ऋक्-संहिता-मन्त्रेण
हिंस्रत्वापर-पर्यायासुराद्
रुद्रस्य रुद्र-सौमनस्यार्थं
रुद्र-स्तुति-याग-नमस्काराः कार्या
इत्य् अर्थ-कथनात्
रुद्र-स्तुति-नमस्-कारादयः
स्वस्मिन् हिंस्रत्वाभाव-रूप-रुद्र-सौमनस्यार्थं,
न तु ते रुद्रोत्कर्ष-प्रयुक्ता
इति सिध्यति ।
En - Gemini 2.5
By the Rig-Samhita mantra “Praise him, who has good arrows, a good bow, who destroys all disease. We worship Rudra for peace of mind, propitiate the god, the fierce one, with salutations,” by the explanation that praises, sacrifices, and salutations to Rudra are to be performed for Rudra’s benevolence, which is the absence of fieriness in him, who is a demon synonymous with fierceness, it is established that Rudra’s praises, salutations, etc., are for his own benevolence, which is the absence of fierce nature in him, and not because they imply Rudra’s superiority.
मूलम्
तम् उष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य । यक्ष्वामहे सौमनसाय रुद्रं नमोभिर् देवम् असुरं दुवस्य इति ऋक्-संहिता-मन्त्रेण हिंस्रत्वापर-पर्यायासुराद् रुद्रस्य रुद्र-सौमनस्यार्थं रुद्र-स्तुति-याग-नमस्काराः कार्या इत्य् अर्थ-कथनात् रुद्र-स्तुति-नमस्कारादयः स्वस्मिन् हिंस्रत्वाभाव-रूप-रुद्र-सौमनस्यार्थं, न तु ते रुद्रोत्कर्ष-प्रयुक्ता इति सिध्यति ।
विश्वास-प्रस्तुतिः
अत एव रुद्राध्यायादौ कथित-नमस्कार-बाहुल्यं
तत्-कर्तृकानिष्ट-निवृत्ति-पूर्वक-सौमनस्य-सिद्ध्यर्थं;
न तूत्कर्ष-गमकं,
नमस्-कारस्योत्कर्ष-प्रयुक्तत्वे “असुरम्” इति विशेषण-वैयर्थ्यापत्तेः ।+++(4)+++
En - Gemini 2.5
For this very reason, the abundance of salutations mentioned in Rudradhyaya and other texts is for the attainment of benevolence (peace of mind) preceded by the removal of undesirable outcomes for the performer of those salutations; it is not indicative of superiority, for if salutations were indicative of superiority, the epithet “asuram” (fierce, demonic) would become redundant.
मूलम्
अत एव रुद्राध्यायादौ कथित-नमस्कार-बाहुल्यं तत्-कर्तृकानिष्ट-निवृत्ति-पूर्वक-सौमनस्य-सिद्ध्यर्थं; न तूत्कर्ष-गमकं, नमस्कारस्योत्कर्ष-प्रयुक्तत्वे असुरम् इति विशेषण-वैयर्थ्यापत्तेः ।
विश्वास-प्रस्तुतिः
एतेन
नमस्कार-बाहुल्य-दर्शनाच्
छिवस्य सर्वोत्कर्ष-सिद्धिर्
इत्य् उक्तम् अपास्तम् ।
En - Gemini 2.5
By this, the statement that Shiva’s supreme superiority is established by seeing the abundance of salutations (to him) is refuted.
मूलम्
एतेन नमस्कार-बाहुल्य-दर्शनाच् छिवस्य सर्वोत्कर्ष-सिद्धिर् इत्य् उक्तं अपास्तम् ।
विश्वास-प्रस्तुतिः
मन्त्रस्यायम् अर्थः - स्विषुः = सुसायकः, सुधन्वा शोभनधनुष्मान् यः विश्वस्य भेषजस्य सर्वोषधस्य । द्वितीयार्थे षष्ठी ।
English
Meaning of the mantra is this -
स्विषुः He who has good arrows, सुधन्वा, he who has a beautiful bow, who is the medicine for the whole world, the panacea for all ills.
The genitive case is used here with the sense of the accusative.
मूलम्
मन्त्रस्यायम् अर्थः - स्विषुः सुसायकः सुधन्वा शोभनधनुष्मान् यः विश्वस्य भेषजस्य सर्वोषधस्य । द्वितीयार्थे षष्ठी ।
विश्वास-प्रस्तुतिः
क्षयति नाशयति तम् असुरं रुद्रं स्तुहि,
महे उत्सवे यक्ष्वा यज;
नमोभिः नमस्कारैः दुवस्य परिचरेति ।
English
Praise that Rudra who destroys, who annihilates the asura; worship him in the great festival (or sacrifice); serve him with salutations, with prostrations.
मूलम्
क्षयति नाशयति तम् असुरं रुद्रं स्तुहि, महे उत्सवे यक्ष्वा यज; नमोभिः नमस्कारैः दुवस्य परिचरेति ।
असुरता
विश्वास-प्रस्तुतिः
यत् तु
असुरम् इत्य् अस्य
प्राण-दातारम् इत्य् अर्थ
इति हर-दत्ताचार्यकृत–चतुर्-वेद-तात्पर्य-संग्रह-व्याख्यात्रा लिङ्ग-भूभुजोक्तं तन् न;
English
However, that which was stated by the commentator of the Caturvedatātparyasaṅgraha authored by Haradattācārya, namely Liṅgabhūbhuj, that the word ‘asura’ means ’the giver of life (prāṇa)’, is not correct;
मूलम्
यत्तु असुरमित्यस्य प्राणदातारमित्यर्थ इति हरदत्ताचार्यकृतचतुर्वेदतात्पर्यसंग्रहव्याख्यात्रा लिङ्गभूभुजोक्तं तन्न;
विश्वास-प्रस्तुतिः
असुर-शब्दस्य मुख्यार्थ-त्यागापत्तेः,
संभवति मुख्यार्थत्वे गौण-यौगिकार्थ-कल्पनस्यान्याय्यत्वात् ।
English
Because it would lead to the abandonment of the primary meaning of the word ‘asura’; and when the primary meaning is possible, it is unjust to imagine a secondary or etymological meaning.
मूलम्
असुरशब्दस्य मुख्यार्थत्यागापत्तेः, संभवति मुख्यार्थत्वे गौणयौगिकार्थकल्पनस्यान्याय्यत्वात् ।
विश्वास-प्रस्तुतिः
अत एव ऋक्-संहितायाम् अम्भ्रणी-सूक्ते
‘अहं रुद्राय धनुर् आतनोमि
ब्रह्मद्विषे शरवे हन्त वा उ’
इति मन्त्रे
रुद्रस्य ब्रह्म-द्विट्त्वं शरुत्वापर-पर्याय-हिंस्रत्वं च
असुर-स्वभावता-नियामकम् उक्तं संगच्छते ।+++(4)+++
English
For this very reason, in the Ambhraṇīsūkta of the Ṛksaṃhitā, in the mantra ‘ahaṃ rudrāya dhanurātanomi brahmadviṣe śarave hanta vā u’ (I bend the bow for Rudra, for the hater of brahman, for the arrow, to slay indeed), Rudra’s nature as an enemy of brahman and his violence, synonymous with being a ‘śaru’ (arrow/destroyer), are stated as determinants of his asuric nature, which is fitting.
मूलम्
अत एव ऋक्संहितायामम्भ्रणीसूक्ते ‘अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्त वा उ’ इति मन्त्रे रुद्रस्य ब्रह्मद्विट्त्वं शरुत्वापरपर्यायहिंस्रत्वं च असुरस्वभावतानियामकमुक्तं संगच्छते ।
विश्वास-प्रस्तुतिः
शरु हिंसायाम् ।
English
The root ‘śaru’ means violence.
मूलम्
शरु हिंसायाम् ।
विश्वास-प्रस्तुतिः
अत एव रुद्राध्याये
शिवस्यासुर-स्वभावत्व-सूचनार्थं
प्रथमतो मन्यु-पदं
रुद्रेण मन्योः स्वस्मिन्न् अप्रेरणार्थं,
नमनं च ‘नमस्ते रुद्र मन्यवे’ इत्य्-अनेन कथितम् ।
English
For this very reason, in the Rudrādhyāya, to indicate Śiva’s asuric nature, first the word ‘manyu’ (wrath) and the bowing by Rudra to his own wrath for not inciting it within himself are stated in the verse ’namaste rudra manyave’ (Salutations to your wrath, O Rudra).
मूलम्
अत एव रुद्राध्याये शिवस्यासुरस्वभावत्वसूचनार्थं प्रथमतो मन्युपदं रुद्रेण मन्योः स्वस्मिन्नप्रेरणार्थं नमनं च ‘नमस्ते रुद्र मन्यवे’ इत्यनेन कथितम् ।
अन्यस्मै नमः
विश्वास-प्रस्तुतिः
किं च
‘सोमं वो अद्य रुद्राय शिक्वसे,
क्षयद्-वीराय नमसा दिदिष्टन,
एभिः शिवस्ववानेव यावभिः,
दिवः सिषक्ति स्वयशा निकामभिः’
इति पठ्यमान-श्रुत्या
रुद्रोद्देश्यक-नमस्-कारादिकम् अपि
अन्यस्यैव, न रुद्रस्येति प्रतीयते ।
English
Furthermore, from the recited śruti ‘somaṃ vo adya rudrāya śikṣase, kṣayadvīrāya namasā didiṣṭana, ebhiḥ śivastravāneva yāvabhiḥ, divaḥ siṣakti svayaśā nikāmabhiḥ’, it appears that the salutation and other acts directed towards Rudra are indeed for someone else, not Rudra.
मूलम्
किं च ‘सोमं वो अद्य रुद्राय शिक्वसे, क्षयद्वीराय नमसा दिदिष्टन, एभिः शिवस्ववानेव यावभिः, दिवः सिषक्ति स्वयशा निकामभिः’ इति पठ्यमानश्रुत्या रुद्रोद्देश्यकनमस्कारादिकमपि अन्यस्यैव न रुद्रस्येति प्रतीयते ।
विश्वास-प्रस्तुतिः
अस्यार्थः — हे जनाः शिक्वसे शक्ताय क्षयद्वीराय विनश्यद्वीराय रुद्राय क्रियमाणं वः नमसा सह नमस्कारेण सह स्तोत्रं दिवः दीव्यन्त इति दिवः प्रकाशमानदेवान्प्रति दिदिष्टन प्रयच्छत, एभिर्येर्हेतुभिः, यता हेतोरिति यावत् ।
English
Its meaning is: O people, offer your praise, along with salutations, which is being performed for Rudra—the powerful (śikṣase), the one with destroying heroes (kṣayadvīrāya)—to the shining gods of heaven (divaḥ); for these reasons (ebhir hetubhiḥ), which is to say, on account of which reason (yato hetoriti yāvat).
मूलम्
अस्यार्थः — हे जनाः शिक्वसे शक्ताय क्षयद्वीराय विनश्यद्वीराय रुद्राय क्रियमाणं वः नमसा सह नमस्कारेण सह स्तोत्रं दिवः दीव्यन्त इति दिवः प्रकाशमानदेवान्प्रति दिदिष्टन प्रयच्छत, एभिर्येर्हेतुभिः, यता हेतोरिति यावत् ।
विश्वास-प्रस्तुतिः
शिवः यावभिः यावद्भिः निकामभिः नितरां फलविशिष्टैः स्ववानेव काम्यमानसर्वफलनिष्ठस्वत्ववानेव, स्वयशा एव न त्वन्यस्मै काम्यं स्त्रयशो वा सिषक्ति ददातीति ।
English
Śiva, by whatever abundant and exceedingly fruitful means, is the owner of all desired fruits, possessing them himself; he of self-glory bestows or gives the desired glory to himself, not to another.
मूलम्
शिवः यावभिः यावद्भिः निकामभिः नितरां फलविशिष्टैः स्ववानेव काम्यमानसर्वफलनिष्ठस्वत्ववानेव, स्वयशा एव न त्वन्यस्मै काम्यं स्त्रयशो वा सिषक्ति ददातीति ।
विश्वास-प्रस्तुतिः
अन एत्र ‘आकाशात्पतितं तोयं यथा गच्छति सागरम् ।
English
For this very reason, ‘As water that has fallen from the sky goes to the ocean,
मूलम्
अन एत्र ‘आकाशात्पतितं तोयं यथा गच्छति सागरम् ।
विश्वास-प्रस्तुतिः
सर्वदेवनमस्कारः केशवं प्रति गच्छति’ इति च्छन्दोग गृह्यपरिशिष्टोक्तिः संगच्छते ।
English
so the salutation to any god goes to Keśava’—this statement from the Chāndogya Gṛhyapariśiṣṭa is consistent.
मूलम्
सर्वदेवनमस्कारः केशवं प्रति गच्छति’ इति च्छन्दोग गृह्यपरिशिष्टोक्तिः संगच्छते ।
विश्वास-प्रस्तुतिः
किं च ‘यस्मै नमस्तस्मै त्वा जुष्टं नियुनज्मि’ इति यजुर्वेदश्रुत्या यच्छब्दार्थस्य नमस्वित्वं प्रतीयते ।
English
Moreover, by the Yajurveda śruti ‘yasmai namastasmai tvā juṣṭaṃ niyunajmi’ (To whom salutation is offered, to him I appoint you, pleased), it is understood that the meaning of the word ‘yad’ (whoever/whichever) is the object of salutation.
मूलम्
किं च ‘यस्मै नमस्तस्मै त्वा जुष्टं नियुनज्मि’ इति यजुर्वेदश्रुत्या यच्छब्दार्थस्य नमस्वित्वं प्रतीयते ।
विश्वास-प्रस्तुतिः
यच्छब्दार्थस्तु ‘यत्तत्पदमनुत्तमम्’ इति यत्पदस्य सहस्रनामाध्याये विष्णुनामत्वोक्त्या विष्णुरेव न त्वन्यः पूर्वप्रकृतः यस्मै नम इति एतद्वाक्यपूर्ववाक्येषु यच्छब्दपरामर्शयोग्यस्य कस्यचिद्देवस्यानुक्तेः ।
English
And the meaning of the word ‘yad’ is indeed Viṣṇu, because the word ‘yat’ is stated to be a name of Viṣṇu in the chapter of a thousand names (‘yat tat padam anuttamam’ - That which is the supreme state), and not any other previously mentioned deity, since in the sentences preceding ‘yasmai namaḥ’, no specific god worthy of being referred to by the pronoun ‘yad’ is mentioned.
मूलम्
यच्छब्दार्थस्तु ‘यत्तत्पदमनुत्तमम्’ इति यत्पदस्य सहस्रनामाध्याये विष्णुनामत्वोक्त्या विष्णुरेव न त्वन्यः पूर्वप्रकृतः यस्मै नम इति एतद्वाक्यपूर्ववाक्येषु यच्छब्दपरामर्शयोग्यस्य कस्यचिद्देवस्यानुक्तेः ।
विश्वास-प्रस्तुतिः
न च बोधायनाश्वलायनोक्तस्मार्तशूलगवकर्माङ्गमन्त्रेषु ‘ईशानाय त्वा जुष्टमुपाकरोमि’ इत्यादिषु रुद्रो बोध्यत इति शङ्कयम् ;
English
And it should not be doubted that in the mantras which are part of the Smārta Śūlagava ceremony, as stated by Bodhāyana and Āśvalāyana, such as ‘īśānāya tvā juṣṭamupākaromi’ (To Īśāna I offer you, pleased), Rudra is to be understood;
मूलम्
न च बोधायनाश्वलायनोक्तस्मार्तशूलगवकर्माङ्गमन्त्रेषु ‘ईशानाय त्वा जुष्टमुपाकरोमि’ इत्यादिषु रुद्रो बोध्यत इति शङ्कयम् ;
विश्वास-प्रस्तुतिः
‘ईशानाय’ इत्यादिमन्त्राणां ‘यस्मै नमः’ इत्येतद्वाक्यपूर्वस्थत्वाभावेन यच्छब्दप्रतिपादनयोग्यस्येशानस्य पूर्वप्रकृतत्वासंभवात् ।
English
Because the mantras ‘īśānāya’ and so on do not precede the sentence ‘yasmai namaḥ’, it is impossible for Īśāna, who would be fit to be denoted by the word ‘yad’, to have been previously mentioned.
मूलम्
‘ईशानाय’ इत्यादिमन्त्राणां ‘यस्मै नमः’ इत्येतद्वाक्यपूर्वस्थत्वाभावेन यच्छब्दप्रतिपादनयोग्यस्येशानस्य पूर्वप्रकृतत्वासंभवात् ।
विश्वास-प्रस्तुतिः
‘यस्मै नमः’ इति श्रुत्युक्तनमस्कारोद्देश्यत्वं विष्णोरेवेति निप्प्रत्यूहम् ।
English
It is unopposed that the state of being the object of salutation mentioned in the śruti ‘yasmai namaḥ’ belongs to Viṣṇu alone.
मूलम्
‘यस्मै नमः’ इति श्रुत्युक्तनमस्कारोद्देश्यत्वं विष्णोरेवेति निप्प्रत्यूहम् ।
विश्वास-प्रस्तुतिः
किं च ‘यस्मै नमस्तच्छिरः’ इत्यारभ्य ‘स वा एष दिव्यः शाकरः शिंशुमारः’ इनि तैत्तिरीयश्रुतौ विष्णोः शिंशुमारहृदयत्वेन निगदात् अवनीन्द्रप्रजापत्यादीनां शिरोव्यतिरिक्ततत्तदवयवत्वकथनात् नमनशेषी यच्छब्दार्थः शिरस्त्वेन कथितो दृश्यते ।
English
Furthermore, in the Taittirīya śruti, starting with ‘yasmai namas tacchiraḥ’ (To whom salutation, that is the head) and ending with ‘sa vā eṣa divyaḥ śākaraḥ śiṃśumāraḥ’ (He is indeed this divine Śākara Śiṃśumāra), because it is stated that Viṣṇu is the heart of the Śiṃśumāra (celestial dolphin/porpoise constellation) and that Avani, Indra, Prajāpati, and others are its various limbs other than the head, the meaning of the word ‘yad’, which is the recipient of the salutation, is seen to be described as the head.
मूलम्
किं च ‘यस्मै नमस्तच्छिरः’ इत्यारभ्य ‘स वा एष दिव्यः शाकरः शिंशुमारः’ इनि तैत्तिरीयश्रुतौ विष्णोः शिंशुमारहृदयत्वेन निगदात् अवनीन्द्रप्रजापत्यादीनां शिरोव्यतिरिक्ततत्तदवयवत्वकथनात् नमनशेषी यच्छब्दार्थः शिरस्त्वेन कथितो दृश्यते ।
विश्वास-प्रस्तुतिः
स च ‘यत्तत्पदमनुत्तमम्’ इति भगवन्नामसहस्त्रप्रसिद्धयत्तत्पदनामधेयो भगवानेत्र न तु रुद्रः सूर्यादिर्वा; तच्छ्रुतौ पूर्ववाक्येषु तेषामप्रस्तुतत्वात् ।
English
And he is the Lord Himself, named ‘Yat-tat-pada’ as is famous in the thousand names of the Lord (‘yat tat padam anuttamam’ - that which is the supreme state), and not Rudra or Sūrya or others; because in the preceding sentences of that śruti, they are not the topic of discussion.
मूलम्
स च ‘यत्तत्पदमनुत्तमम्’ इति भगवन्नामसहस्त्रप्रसिद्धयत्तत्पदनामधेयो भगवानेत्र न तु रुद्रः सूर्यादिर्वा; तच्छ्रुतौ पूर्ववाक्येषु तेषामप्रस्तुतत्वात् ।
विश्वास-प्रस्तुतिः
परमात्मोपासनस्थानानां मध्ये हृदयस्थानस्योत्तमत्वेन शरीरावयवानां मध्ये शिरस उत्तमाङ्गत्वेन विष्णोस्तदुभयरूपत्वकथनं युक्तमेव ।
English
Among the places for meditation on the Supreme Self, the heart is the best; among the parts of the body, the head is the highest limb. Thus, stating that Viṣṇu has the form of both is indeed appropriate.
मूलम्
परमात्मोपासनस्थानानां मध्ये हृदयस्थानस्योत्तमत्वेन शरीरावयवानां मध्ये शिरस उत्तमाङ्गत्वेन विष्णोस्तदुभयरूपत्वकथनं युक्तमेव ।
विश्वास-प्रस्तुतिः
एकस्योभयावयवत्वास्वीकारे शिवस्य परब्रह्मत्ववादिनापि शिंशुमारपुच्छत्वेन निरूपितनपुंसकब्रह्मशब्दार्थपरमात्मन एव नमस्वियच्छब्दार्थशिवरूपत्वं वक्तव्यम् ।
English
If one does not accept that a single entity can be both limbs, then even one who argues for Śiva’s status as the Supreme Brahman must state that the Supreme Self, which is the meaning of the neuter word ‘Brahman’ and described as the tail of the Śiṃśumāra, is itself in the form of Śiva, who is the meaning of the word ‘yad’ and the recipient of salutations.
मूलम्
एकस्योभयावयवत्वास्वीकारे शिवस्य परब्रह्मत्ववादिनापि शिंशुमारपुच्छत्वेन निरूपितनपुंसकब्रह्मशब्दार्थपरमात्मन एव नमस्वियच्छब्दार्थशिवरूपत्वं वक्तव्यम् ।
विश्वास-प्रस्तुतिः
अन्यथा शिरोरूपावयवत्वेन पुच्छरूपावयवत्वेन च रूपितयोः शिवपरमात्मनोः परस्परं भेदापत्त्या नमस्विनः शिवस्य परमात्मत्वानुपपत्तेः ।
English
Otherwise, with Śiva and Paramātman being described as the limb in the form of the head and the limb in the form of the tail respectively, a difference between them would arise, and consequently, the status of Śiva, the recipient of salutations, as the Supreme Self would be untenable.
मूलम्
अन्यथा शिरोरूपावयवत्वेन पुच्छरूपावयवत्वेन च रूपितयोः शिवपरमात्मनोः परस्परं भेदापत्त्या नमस्विनः शिवस्य परमात्मत्वानुपपत्तेः ।
विश्वास-प्रस्तुतिः
यत्तु ‘यस्मै नमः’ इति यच्छब्देन अनुक्तदेव एव नमस्वितया ग्रहीतव्यः स च शिव एवेति, तन्न;
English
As for the argument that in ‘yasmai namaḥ’, by the word ‘yad’, an unmentioned god should be taken as the object of salutation, and that he is Śiva alone—that is not correct;
मूलम्
यत्तु ‘यस्मै नमः’ इति यच्छब्देन अनुक्तदेव एव नमस्वितया ग्रहीतव्यः स च शिव एवेति, तन्न;
विश्वास-प्रस्तुतिः
स्कन्दविनायकादीनामनुक्तत्वाविशेषे शिवस्यैव तत्र ग्रहणमित्यस्यानुचितत्वात् ।
English
Because, since Skanda, Vināyaka, and others are also equally unmentioned, the assumption that only Śiva should be taken there is inappropriate.
मूलम्
स्कन्दविनायकादीनामनुक्तत्वाविशेषे शिवस्यैव तत्र ग्रहणमित्यस्यानुचितत्वात् ।
विश्वास-प्रस्तुतिः
‘सवै वो वरं वृणा इति, वृणीष्वेति, स एतमेव वरमवृणीत, पशूनामाधिपत्यम्, तदस्यैतत्पशुमान्नामेति, अहमेव पशूनामधिपतिरसानीति, तस्माद्रुद्रः पशूनामधिपतिः’ इति शिवस्य पराधीनैश्वर्यप्रतीतिः ।
English
From the passage, ‘“Choose a boon from us,” “Choose,” so he chose this very boon, lordship over creatures (paśus), so this name of his is Paśumān, “May I be the lord of creatures,” therefore Rudra is the lord of creatures,’ Śiva’s sovereignty appears to be dependent on another.
मूलम्
‘सवै वो वरं वृणा इति, वृणीष्वेति, स एतमेव वरमवृणीत, पशूनामाधिपत्यम्, तदस्यैतत्पशुमान्नामेति, अहमेव पशूनामधिपतिरसानीति, तस्माद्रुद्रः पशूनामधिपतिः’ इति शिवस्य पराधीनैश्वर्यप्रतीतिः ।
विश्वास-प्रस्तुतिः
यत्क्तूक्तं हरदत्ताचार्येण श्रुतिषु शित्रस्येश्वरत्वोक्त्या जीवानामनीश्वरत्वोक्त्या जीवसका शादीश्वरस्य शिवस्य पाशुपत्यवरप्रार्थनादेरनुपपन्नत्वात् ‘पशुपतये नमः’ इत्यादिनित्यसिद्धपाशुपत्यानुवादश्रुतेश्च नित्यसिद्धपाशुपत्यत्रो धक्पुराणवचनविरोधाच्च पाशुपत्यवरप्रार्थना पर श्रुतिवाक्यद्वयमर्थवाद इनि, तन्नः
English
As for what was stated by Haradattācārya, that because the śrutis declare Śiva’s lordship and the jīvas’ lack of lordship, the request for the boon of lordship over creatures (pāśupatya) by Śiva, who is the Lord from the perspective of the jīvas, is untenable, and because of the śruti ‘paśupataye namaḥ’ which merely reiterates an eternally established lordship, and also because it contradicts the Purāṇic statements that establish his eternal lordship, therefore the two śruti sentences concerning the request for the boon of lordship are mere arthavāda (eulogy)—that is not correct:
मूलम्
यत्क्तूक्तं हरदत्ताचार्येण श्रुतिषु शित्रस्येश्वरत्वोक्त्या जीवानामनीश्वरत्वोक्त्या जीवसका शादीश्वरस्य शिवस्य पाशुपत्यवरप्रार्थनादेरनुपपन्नत्वात् ‘पशुपतये नमः’ इत्यादिनित्यसिद्धपाशुपत्यानुवादश्रुतेश्च नित्यसिद्धपाशुपत्यत्रो धक्पुराणवचनविरोधाच्च पाशुपत्यवरप्रार्थना पर श्रुतिवाक्यद्वयमर्थवाद इनि, तन्नः
विश्वास-प्रस्तुतिः
‘स ईश्वरो
English
‘He is the Lord’
मूलम्
‘स ईश्वरो
विश्वास-प्रस्तुतिः
मन्त्रस्यायम् अर्थः—
स्विषुः [[प्१४]] रुद्रो भूत्वा”
इति तैत्तिरीय-श्रुतौ
रुद्र-शब्दो नाग्नि-परः,
लक्षणापत्तेः अग्नौ तत्-पद-शक्ति-ग्राहक-कोशादि-प्रमाणाभावात्।
“रुद्रो वा एष यद् अग्निः” इति श्रुत्या
“यो रुद्रः एषः अग्निः”
इति प्राथम्य-वा-शब्दावगतोद्देश्य-पर- रुद्रोद्देशेनाग्नित्व-विधानात्
रुद्रस्याग्नित्व-संभवेऽपि
अग्नौ रुद्र-शब्द-प्रवृत्तौ प्रमाणं नास्त्य् एव ।
En - Gemini 2.5
The meaning of the mantra is: The word Rudra in the Taittiriya Shruti “sviṣuḥ Rudro bhūtvā” (becoming Rudra, the good archer) does not refer to Agni (fire), because it would require a metaphorical interpretation (lakṣaṇā), and there is no dictionary or other authoritative text to establish the direct meaning of that word as Agni. Although Rudra can be Agni due to the Shruti “Rudro vā eṣa yad agniḥ” (Rudra is indeed this Agni), which, by the primary and ‘va’ particles, establishes Agni-ness as an attribute of Rudra (the subject), there is no evidence for the word Rudra primarily applying to Agni.
मूलम्
मन्त्रस्यायम् अर्थः— स्विषुः [[प्१४]] रुद्रो भूत्वा” इति तैत्तिरीय-श्रुतो रुद्र-शब्दो नाग्नि-परः, लक्षणापत्तेः अग्नौ तत्-पद-शक्ति-ग्राहक-कोशादि-प्रमाणाभावात् “रुद्रो वा एष यद् अग्निः” इति श्रुत्या “यो रुद्रः एषः अग्निः” इति प्राथम्य-वा-शब्दावगतोद्देश्य-पर-रुद्रोद्देशेनाग्नित्व-विधानात् रुद्रस्याग्नित्व-संभवेऽपि अग्नौ रुद्र-शब्द-प्रवृत्तौ प्रमाणं नास्त्य् एव ।
विश्वास-प्रस्तुतिः
तथा च मृत्-पिण्डो घटो भूत्वेत्यत्र मृत्-पिण्डोपादेयस्य घटस्य मृत्-पिण्ड-शब्दः मृत्-पिण्ड-तादात्म्य-प्रयुक्त औपचारिकः ।
En - Gemini 2.5
Thus, in the phrase “mṛt-piṇḍo ghaṭo bhūtvā” (the lump of clay becoming a pot), the word “mṛt-piṇḍa” (lump of clay) for the pot, which is a modification of the lump of clay, is secondary (aupacārika), used due to its identity with the lump of clay.
मूलम्
तथा च मृत्-पिण्डो घटो भूत्वेत्यत्र मृत्-पिण्डोपादेयस्य घटस्य मृत्-पिण्ड-शब्दः मृत्-पिण्ड-तादात्म्य-प्रयुक्त औपचारिकः ।
विश्वास-प्रस्तुतिः
तथा ईश्वरस्यैव सतो रुद्र-भावोक्त्या ईश्वरोपादेयस्य रुद्रस्य ईश्वर-शब्दः ईश्वर-तादात्म्य-प्रयुक्तो न तु मुख्य इत्य् अवगम्यते ।
En - Gemini 2.5
Similarly, by the statement of Rudra’s nature as being that of Ishvara (the Lord), it is understood that the word Ishvara for Rudra, who is a modification of Ishvara, is used secondarily due to his identity with Ishvara, and not primarily.
मूलम्
तथा ईश्वरस्यैव सतो रुद्र-भावोक्त्या ईश्वरोपादेयस्य रुद्रस्य ईश्वर-शब्दः ईश्वर-तादात्म्य-प्रयुक्तो न तु मुख्य इत्य् अवगम्यते ।
विश्वास-प्रस्तुतिः
शिवस्येश्वरत्व-स्वीकारे उक्त-श्रुति-विरोधापत्त्या अनीश्वरत्वावश्यिकतया अनीश्वरस्य शिवस्य पाशुपत्य-वर-प्रार्थनादेर् उपपन्नतया तेन वर-प्रार्थना-श्रुत्योर् अर्थ-वादत्वासंभवात् “पशुपतये नमः” इति श्रुत्या प्रार्थना-सिद्ध-पाशुपत्यानुवादे बाधकाभावात् पुराणानभ्यर्हितत्वस्य प्राग् एवोपपादितत्वाच् च ।
En - Gemini 2.5
If Shiva were accepted as Ishvara (the Lord), it would contradict the aforementioned Shruti. Therefore, Shiva must necessarily be non-Ishvara. Since it is appropriate for non-Ishvara Shiva to pray for the boon of Pashupatya and other such things, and since the Shrutis mentioning boons and prayers cannot be mere eulogies (arthavadas), and since there is no contradiction in reiterating the established Pashupatya (lordship over creatures) through prayer as per the Shruti “Namah Pashupataye” (Salutations to Pashupati), and since the non-venerability of Puranas has already been established, (this argument stands).
मूलम्
शिवस्येश्वरत्व-स्वीकारे उक्त-श्रुति-विरोधापत्त्या अनीश्वरत्वावश्यिकतया अनीश्वरस्य शिवस्य पाशुपत्य-वर-प्रार्थनादेर् उपपन्नतया तेन वर-प्रार्थना-श्रुत्योर् अर्थ-वादत्वासम्भवात् “पशुपतये नमः” इति श्रुत्या प्रार्थना-सिद्ध-पाशुपत्यानुवादे बाधकाभावात् पुराणानभ्यर्हितत्वस्य प्राग् एवोपपादित्वाच् च ।
विश्वास-प्रस्तुतिः
किं च शिवस्य यज्ञ-रूपत्वम् अवश्यं स्वीकर्तव्यम्; “एतद् रुद्रस्य धनुः, रुद्रस्य त्व् एव धनुर् आर्तिनः, शिर उत्-पिपेष, स प्रवर्ग्योऽभवत्, तस्माद् यः स प्रवर्येण यज्ञेन यजते, रुद्रस्य सं शिरः प्रतिदधाति” इत्य् आरुण-केतुक-श्रुति-यज्ञस्यैवतच्-छिरः प्रतिदधातीति-छान्दोग्य-श्रुतिभ्यां परस्परार्थ-प्रत्यभिज्ञया रुद्र-यज्ञयोर् ऐक्यावगतेः “रुद्रो वै यज्ञः, विष्णुर् वै यज्ञः, प्रजापतिर् वै यज्ञः, इन्द्रो वै यज्ञः” इति बहु-ऋच-ब्राह्मणेन रुद्र-विष्णु-प्रजापतीन्द्र-साधारणस्य यज्ञ-शब्दस्य सामान्य-शब्दतया रुद्र-रूप-विशेषे प्रकृते पर्यवसानात् वैष्णव-पुं-सूक्तस्थत्वाद् धेतोः “यज्ञेन यज्ञम् अयजन्त” इत्यत्र सामान्य-शब्दस्यापि द्वितीयान्त-यज्ञ-शब्दस्य विष्णु-रूप-विशेष इव ।
En - Gemini 2.5
Furthermore, Shiva’s nature as Yajna (sacrifice) must necessarily be accepted; because from the mutually recognized meaning of the Aruna-ketuka Shruti “This is Rudra’s bow, indeed Rudra’s bow is that which causes pain; he broke off the head, it became Pravargya; therefore, whoever performs Yajna with Pravargya, restores Rudra’s head,” and the Chandogya Shruti “restores its head,” the identity of Rudra and Yajna is understood. And since the word Yajna is common to Rudra, Vishnu, Prajapati, and Indra, as stated in many Rig-Brahmanas (“Rudra is Yajna indeed, Vishnu is Yajna indeed, Prajapati is Yajna indeed, Indra is Yajna indeed”), the general term Yajna ultimately applies to the specific form of Rudra in the present context, just as the general term Yajna, even in its accusative case in “Yajñena Yañjam Ayajanta” (They worshipped Yajna with Yajna), applies to the specific form of Vishnu due to its presence in the Vaishnava Purusha Sukta.
मूलम्
किं च शिवस्य यज्ञ-रूपत्वम् अवश्यं स्वीकर्तव्यम्; “एतद् रुद्रस्य धनुः, रुद्रस्य त्व् एव धनुर् आर्तिनः, शिर उत्-पिपेष, स प्रवर्ग्योऽभवत्, तस्माद् यः स प्रवर्येण यज्ञेन यजते, रुद्रस्य सं शिरः प्रतिदधाति” इत्य् आरुण-केतुक-श्रुति-यज्ञस्यैवतच्-छिरः प्रतिदधातीति-छान्दोग्य-श्रुतिभ्यां परस्परार्थ-प्रत्यभिज्ञया रुद्र-यज्ञयोर् ऐक्यावगतेः “रुद्रो वै यज्ञः, विष्णुर् वै यज्ञः, प्रजापतिर् वै यज्ञः, इन्द्रो वै यज्ञः” इति बहु-ऋच-ब्राह्मणेन रुद्र-विष्णु-प्रजापतीन्द्र-साधारणस्य यज्ञ-शब्दस्य सामान्य-शब्दतया रुद्र-रूप-विशेषे प्रकृते पर्यवसानात् वैष्णव-पुं-सूक्तस्थत्वाद् धेतोः “यज्ञेन यज्ञम् अयजन्त” इत्यत्र सामान्य-शब्दस्यापि द्वितीयान्त-यज्ञ-शब्दस्य विष्णु-रूप-विशेष इव ।
विश्वास-प्रस्तुतिः
न च “यज्ञो वै विष्णुः” इति श्रुतेः विष्णोर् यज्ञ-शब्दस्य विशेष-शक्तिर् इति शङ्क्यम्; प्राथम्य-वै-शब्दाभ्यां यज्ञस्योद्देश्यत्वावगत्या यज्ञोद्देशेन विष्णुत्व-विधानावगतेः ।
En - Gemini 2.5
And it should not be suspected that the word Yajna has a special power (meaning) for Vishnu because of the Shruti “Yajño vai Viṣṇuḥ” (Yajna is indeed Vishnu); because by the priority and the particle ‘vai’, it is understood that Yajna is the subject, and Vishnu-ness is being enjoined (attributed) to Yajna.
मूलम्
न च “यज्ञो वै विष्णुः” इति श्रुतेः विष्णोर् यज्ञ-शब्दस्य विशेष-शक्तिर् इति शङ्क्यम्; प्राथम्य-वै-शब्दाभ्यां यज्ञस्योद्देश्यत्वावगत्या यज्ञोद्देशेन विष्णुत्व-विधानावगतेः ।
विश्वास-प्रस्तुतिः
“पर्वतो वह्निमान्” इत्यत्रोद्देश्य-पर्वते विधेय-विशिष्ट-बोधक-वह्निमच्-छब्दवत् उद्देश्य-यज्ञे विधेय-विष्णुत्व-विशिष्ट-वाचक-शब्द-सिद्धाव् अपि विधेय-वह्नि-विशिष्टत्वावच्छिन्नान्तर्गत-महानसादाव् उद्देशय-पर्वत-शब्दाप्रवृत्तिवत् विधेय-विष्णुत्वावच्छिन्ने लक्ष्मी-कान्ते उद्देश्य-यज्ञ-पदस्य नियमेन प्रवृत्त्य् असंभवेन यज्ञ-शब्दस्य विशेष-शक्तितो विष्ण्व्-अर्थकत्वासिद्धेः ।
En - Gemini 2.5
Just as in “Parvato Vahnimān” (The mountain possesses fire), although the word “Vahnimat” (possessing fire), which denotes the attribute of fire to the mountain (the subject), can be established as a word signifying that which is qualified by the predicate Vishnu-ness in the subject Yajna, yet, just as the word ‘mountain’ does not necessarily apply to the kitchen, which is included within that which is qualified by the predicate ‘fire’, similarly, it is impossible for the word Yajna (the subject) to invariably apply to Lakshmikanta (Vishnu), who is qualified by the predicate ‘Vishnu-ness’. Therefore, the word Yajna cannot primarily mean Vishnu through a special power.
मूलम्
“पर्वतो वह्निमान्” इत्य् अत्रोद्द्येश्य-पर्वते विधेय-विशिष्ट-बोधक-वह्निमच्-छब्दवत् उद्द्येश्य-यज्ञे विधेय-विष्णुत्व-विशिष्ट-वाचक-शब्द-सिद्धाव् अपि विधेय-वह्नि-विशिष्टत्वावच्छिण्णान्तर्गत-महानसादाव् उद्द्येशय-पर्वत-शब्दाप्रवृत्तिवत् विधेय-विष्णुत्वावच्छिण्णे लक्ष्मी-कान्ते उद्द्येश्य-यज्ञ-पदस्य नियमेन प्रवृत्त्य् असम्भवेन यज्ञ-शब्दस्य विशेष-शक्तितो विष्ण्व्-अर्थकत्वासिद्धेः ।
विश्वास-प्रस्तुतिः
एतेन “पुरुषो वै [[प्१५]] रुद्रः” इति श्रुताव् अपि पुरुष-शब्द-वाच्य-नारायणे रुद्र-शब्द-सिद्धाव् अपि विधेय-रुद्रत्व-विशिष्टे रुद्रे पुरुष-शब्दो मुख्य-वृत्त्या न प्रवर्तत इति सिद्धम् ।
En - Gemini 2.5
By this, it is established that even if the word Rudra in the Shruti “Puruṣo vai Rudraḥ” (Purusha is indeed Rudra) refers to Narayana, who is denoted by the word Purusha, the word Purusha does not primarily apply to Rudra, who is qualified by the predicate ‘Rudratva’ (being Rudra).
मूलम्
एतेन “पुरुषो वै [[प्१५]] रुद्रः” इति श्रुताव् अपि पुरुष-शब्द-वाच्य-नारायणे रुद्र-शब्द-सिद्धाव् अपि विधेय-रुद्रत्व-विशिष्टे रुद्रे पुरुष-शब्दो मुख्य-वृत्त्या न प्रवर्तत इति सिद्धम् ।
विश्वास-प्रस्तुतिः
पुरुष-शब्दस्य “तस्यैकत्वं महत्त्वं हि स एकः पुरुषः स्मृतः । महा-पुरुष-शब्दं हि बिभर्त्य् एकः सनातनः” इति पञ्चम-वेद-श्री-महा-भारत-नारायणीय-वचनेन पुरुष-शब्दस्य भगवति नारायणे शक्ति-ग्राहकेण हेतु-निर्देश-सहितेन नारायण-मात्र-रूढत्वम् ।
En - Gemini 2.5
For the word Purusha, its conventional meaning (rudhi) is exclusively Narayana in Lord Narayana, established by the statement in the Sri Mahabharata Narayaniya, which is the Fifth Veda, “Indeed, His oneness and greatness are such that He is remembered as the one Purusha. Indeed, the eternal one alone bears the name Mahapurusha,” which serves as an indicator of its denotative power along with the statement of reason.
मूलम्
पुरुष-शब्दस्य “तस्यैकत्वं महत्त्वं हि स एकः पुरुषः स्मृतः । महा-पुरुष-शब्दं हि बिभर्त्य् एकः सनातनः” इति पञ्चम-वेद-श्री-महा-भारत-नारायणीय-वचनेन पुरुष-शब्दस्य भगवति नारायणे शक्ति-ग्राहकेण हेतु-निर्देश-सहितेन नारायण-मात्र-रूढत्वम् ।
विश्वास-प्रस्तुतिः
अन्यत्र पुंसि निरूढ-लक्षणा ।
En - Gemini 2.5
In other cases (when referring to other males), it is a conventional metaphorical usage (nirūḍha-lakṣaṇā).
मूलम्
अन्यत्र पुंसि निरूढ-लक्षणा ।
विश्वास-प्रस्तुतिः
कोशोऽपि “पुरुषाव् आत्म-मानवौ” इत्यादि-निरूढ-लक्षणा-तात्पर्य-ग्राहकः; न तु रूढि-ग्राहकः, विष्णौ रूढि-ग्राहक-नारायणीय-वचन-विरोधापत्तेः ।
En - Gemini 2.5
Even dictionaries, with phrases like “Puruṣau ātma-mānavau” (Purusha means the Self and a human being), indicate the import of conventional metaphorical usage; they are not indicators of conventional meaning, because it would contradict the Narayaniya statement which is an indicator of conventional meaning for Vishnu.
मूलम्
कोशोऽपि “पुरुषाव् आत्म-मानवौ” इत्यादि-निरूढ-लक्षणा-तात्पर्य-ग्राहकः; न तु रूढि-ग्राहकः, विष्णौ रूढि-ग्राहक-नारायणीय-वचन-विरोधापत्तेः ।
विश्वास-प्रस्तुतिः
विष्णोस् तु यज्ञोपरि वर्तमानत्वम् एव न तु यज्ञत्वम्, “अधियज्ञोऽहम् एवात्र देहे” इति भगवद्-गीता-वचन-प्रामाण्यात् ।
En - Gemini 2.5
Vishnu’s nature, however, is being present above the Yajna, not being Yajna itself, as per the authoritative statement in the Bhagavad-Gita, “I alone am the Adhiyajña (the presiding deity of Yajna) in this body.”
मूलम्
विष्णोस् तु यज्ञोपरि वर्तमानत्वम् एव न तु यज्ञत्वम्, “अधियज्ञोऽहम् एवात्र देहे” इति भगवद्-गीता-वचन-प्रामाण्यात् ।
विश्वास-प्रस्तुतिः
एतेन वाजसनेय-शाखायाम् “विष्णोः शिरः प्रच्छिदतु” इति वाक्येन विष्णु-शिरसोऽपि प्रच्छेदनम् उक्तम् इति परास्तम्; “प्रच्छिदतु” इति लोटा प्रच्छेदनस्य प्रार्थना-विषयत्वोक्त्या “रुद्रस्य शिर उत्-पिपेष” इति-वत् तच्-छेदनस्य सिद्धत्वानुक्तेः ।
En - Gemini 2.5
By this, the assertion that the severing of Vishnu’s head is also stated in the Vajasaneyi branch by the statement “Viṣṇoḥ śiraḥ pracchidatu” (May Vishnu’s head be severed) is refuted; because by the use of the optative mood (lot) in “pracchidatu,” the severing is stated as an object of prayer, and its accomplished fact is not stated, unlike in “Rudraśya śira ut-pipeṣa” (He crushed Rudra’s head).
मूलम्
एतेन वाजसेनेयी-शाखायाम् “विष्णोः शिरः प्रच्छिदतु” इति वाक्येन विष्णु-शिरसोऽपि प्रच्छेदनम् उक्तम् इति परास्तम्; “प्रच्छिदतु” इति लोटा प्रच्छेदनस्य प्रार्थना-विषयत्वोक्त्या “रुद्रस्य शिर उत्-पिपेष” इति-वत् तच्-छेदनस्य सिद्धत्वानुवृत्तेः ।
विश्वास-प्रस्तुतिः
विष्णु-शिरः-प्रच्छेदनम् अपि विष्णु-द्वेषिणः कस्यचिद् आशंसितं भवेत् ।
En - Gemini 2.5
The severing of Vishnu’s head might also be desired by some enemy of Vishnu.
मूलम्
विष्णु-शिरः-प्रच्छिदनम् अपि विष्णु-द्वेषिणः कस्यचिद् आशंसितं भवेत् ।
विश्वास-प्रस्तुतिः
तद् अनुवदति “विष्णोः शिरः प्रच्छिदतु” इति श्रुतिः ।
En - Gemini 2.5
The Shruti “Viṣṇoḥ śiraḥ pracchidatu” (May Vishnu’s head be severed) reiterates that.
मूलम्
तद् अनुवदति “विष्णोः शिरः प्रच्छिदतु” इति श्रुतिः ।
विश्वास-प्रस्तुतिः
देवा यद् यज्ञं तन्वानाः, अबध्नन् पुरुषं पशुम् इत्यस्य पुरुषं प्रति पुरुषं नारायणम् उद्दिश्य देवाः पशुम् अबध्नन्न् इति योजना; पुरुष-शब्दस्योद्देश्य-परत्वानङ्गीकारे तद्-वाचक-पदान्तर-कल्पना-गौरवापत्तेः ।
En - Gemini 2.5
The interpretation of “Devā yad yajñaṁ tanvānāḥ, abadhnan puruṣaṁ paśum” (When the gods performed the sacrifice, they bound Purusha as the victim) is that the gods bound Purusha, Narayana, as the sacrificial animal, intending Him; if the word Purusha were not accepted as the subject, it would lead to the fault of positing another word to denote the subject.
मूलम्
देवा यद् यज्ञं तन्वानाः, अबध्नन् पुरुषं पशुम् इत्य् अस्य पुरुषं प्रति पुरुषं नारायणम् उद्दिश्य देवाः पशुम् अबध्नन्न् इति योजना; पुरुष-शब्दस्योद्देश्य-परत्वानङ्गीकारे तद्-वाचक-पदान्तर-कल्पना-गौरवापत्तेः ।
विश्वास-प्रस्तुतिः
तं यज्ञं बर्हिषि प्रौक्षन्, पुरुषं जातम् अग्रतः इत्यस्य पुरुषं प्रति यज्ञं तन्वाना अग्रतो जातम् “तस्माद् विराड् अजायत” इत्य् उक्त-हिरण्य-गर्भं बर्हिषि यागे प्रौक्षन्न् इति योजना; अग्रतो जातत्वस्यास्मिन् पुरुष-सूक्ते हिरण्य-गर्भ एवोक्तत्वात्, पुरुष-सूक्त-गत-मन्त्रार्थस्य पुरुष-सूक्ताग्र-जातम् आदायोपपत्तौ श्रुत्यन्तरोक्त-ग्रजातान्य-ग्रहणस्यायुक्तत्वात् ।
En - Gemini 2.5
The interpretation of “Taṁ yajñaṁ barhiṣi praukṣan, puruṣaṁ jātam agrataḥ” (They sprinkled that sacrifice on the sacred grass, Purusha, born at the beginning) is that the performers of the sacrifice sprinkled Hiranyagarbha, who was born at the beginning as stated by “Tasmād Virāḍ Ajāyata” (From him was born Viraj), in the sacrifice on the sacred grass, intending Purusha; since “born at the beginning” is stated only for Hiranyagarbha in this Purusha Sukta, and since the meaning of the mantra in the Purusha Sukta is consistent with taking “born at the beginning” as referring to the Purusha Sukta itself, it is inappropriate to refer to someone else born at the beginning mentioned in another Shruti.
मूलम्
तं यज्ञं बर्हिषि प्रौक्षन्, पुरुषं जातम् अग्रतः इत्य् अस्य पुरुषं प्रति यज्ञं तन्वाना अग्रतो जातम् “तस्माद् विराड् अजायत” इत्य् उक्त-हिरण्य-गर्भं बर्हिषि यागे प्रौक्षन्न् इति योजना; अग्रतो जातत्वस्यास्मिन् पुरुष-सूक्ते हिरण्य-गर्भ एवोक्तत्वात्, पुरुष-सूक्त-गत-मन्त्रार्थस्य पुरुष-सूक्ताग्र-जातम् आदायोपपत्तौ श्रुत्यन्तरोक्त-ग्रजातान्य-ग्रहणस्यायुक्तत्वात् ।
विश्वास-प्रस्तुतिः
यत् पुरुषेण हविषा इत्यत्र पुरुषेणेति तृतीया “अध्ययनेन वसति” इति-वत् फलस्य हेतुत्वार्थिका ।
En - Gemini 2.5
In “yat puruṣeṇa haviṣā” (with the oblation by Purusha), the instrumental case in “puruṣeṇa” (by Purusha) indicates a cause for the result, similar to “adhyayanena vasati” (he lives for the sake of study).
मूलम्
यत् पुरुषेण हविषा इत्य् अत्र पुरुषेणेति तृतीया “अध्ययनेन वसति” इति-वत् फलस्य हेतुत्वार्थिका ।
विश्वास-प्रस्तुतिः
अध्ययनार्थ-वासवत् पुरुषाप्त्यर्थं हविषा यज्ञम् अतन्वतेति वाक्यार्थः ।
En - Gemini 2.5
The meaning of the sentence is that they performed the sacrifice with oblation for the attainment of Purusha, just as one lives for the sake of study.
मूलम्
अध्ययनार्थ-वासवत् पुरुषाप्त्यर्थं हविषा यज्ञम् अतन्वतेति वाक्यार्थः ।
विश्वास-प्रस्तुतिः
एतेन पुं-सूक्ते पुरुष-शब्दितस्य विष्णोर् याग-पशुत्वं याग-प्रोक्षितत्वं याग-हविष्ट्वं चोक्तम् ।
En - Gemini 2.5
By this, in the Purusha Sukta, Vishnu, who is referred to as Purusha, is said to be the sacrificial animal, the one sprinkled for sacrifice, and the sacrificial oblation.
मूलम्
एतेन पुं-सूक्ते पुरुष-शब्दितस्य विष्णोर् याग-पशुत्वं याग-प्रोक्षितत्वं याग-हविष्ट्वं चोक्तम् ।
विश्वास-प्रस्तुतिः
अतो विष्णु-द्रव्यक-यागे शिव एवोद्देश्य इति हरदत्त-लिङ्ग-भृग्-उक्तम् अपास्तम् ।
En - Gemini 2.5
Therefore, the statement by Haradatta and the Linga-bearers that Shiva is the sole objective in a sacrifice where Vishnu is the substance is refuted.
मूलम्
अतो विष्णु-द्रव्यक्-यागे शिव एवोद्देश्य इति हरदत्त-लिङ्ग-भृग्-उक्तम् अपास्तम् ।
विश्वास-प्रस्तुतिः
[[प्१६]] भरत-शास्त्रे तन्-मुद्रया तत्तद्-देव-प्रदर्शन-प्रकरणे “वज्रिण्या मुद्रया शक्रं पद्मिन्या दर्शयेद् विधिम् । शङ्खिन्या केशवं रुद्रं शिरस्य् अञ्जलि-मुद्रया” इति श्लोकोऽस्ति ।
En - Gemini 2.5
In Bharata’s Shastra, in the section dealing with the depiction of various deities through their mudras (hand gestures), there is a verse: “One should show Indra with the Vajrini Mudra, Brahma with the Padmini Mudra, Keshav (Vishnu) with the Shankhini Mudra, and Rudra with the Anjali Mudra on the head.”
मूलम्
[[प्१६]] भरत-शास्त्रे तन्-मुद्रया तत्तद्-देव-प्रदर्शन-प्रकरणे “वज्रिण्या मुद्रया शक्रं पद्मिन्या दर्शयेद् विधिम् । शङ्खिन्या केशवं रुद्रं शिरस्य् अञ्जलि-मुद्रया” इति श्लोकोऽस्ति ।
विश्वास-प्रस्तुतिः
तेन वज्रं शक्रस्य चिह्नं, पद्मं चतुर्मुखस्य, शङ्खं विष्णोश् चिह्नम्; तत्तच्-चिह्न-मुद्रया तत्तच्-चिह्नवतः प्रदर्शनम् उक्तम् ।
En - Gemini 2.5
By this, Vajra is the symbol of Indra, Padma of the four-faced Brahma, and Shankha the symbol of Vishnu; the depiction of those who possess these respective symbols is stated through these respective symbol-mudras.
मूलम्
तेन वज्रं शक्रस्य चिह्नं, पद्मं चतुर्मुखस्य, शङ्खं विष्णोश् चिह्नम्; तत्तच्-चिह्न-मुद्रया तत्तच्-चिह्नवतः प्रदर्शनम् उक्तम् ।
विश्वास-प्रस्तुतिः
तत्-समभिव्याहाराद् अञ्जलि-बन्धस्य रुद्र-चिह्नत्वम् अवगम्यते ।
En - Gemini 2.5
From the context of that (verse), the Anjali-bandha (folding of hands) is understood to be a symbol of Rudra.
मूलम्
तत्-समभिव्याहाराद् अञ्जलि-बन्धस्य रुद्र-चिह्नत्वम् अवगम्यते ।
विश्वास-प्रस्तुतिः
तेन चिह्नेन रुद्रस्य प्रदर्शनोक्त्या शिवः शिरस्य् अञ्जलि-बन्ध-रूपं चिह्नं धत्ते, यथा वज्रम् इन्द्रः पद्मं हिरण्य-गर्भः शङ्खं विष्णुः स्व-स्व-देहावयवे धत्ते तद्वत् ।
En - Gemini 2.5
By the statement that Rudra is depicted with that symbol, Shiva holds the symbol of Anjali-bandha on his head, just as Indra holds the Vajra, Hiranyagarbha (Brahma) the Padma, and Vishnu the Shankha on their respective body parts.
मूलम्
तेन चिह्नेन रुद्रस्य प्रदर्शनोक्त्या शिवः शिरस्य् अञ्जलि-बन्ध-रूपं चिह्नं धत्ते, यथा वज्रम् इन्द्रः पद्मं हिरण्य-गर्भः शङ्खं विष्णुः स्व-स्व-देहावयवे धत्ते तद्वत् ।
विश्वास-प्रस्तुतिः
तथा च रुद्रः शिरस्य् अञ्जलि-बन्धं यम् उद्दिश्य करोति, स तावत् परम-पुरुष एव भवितुम् अर्हतीत्य् अवगम्यते ।
En - Gemini 2.5
And thus, it is understood that the one towards whom Rudra performs the Anjali-bandha on his head must indeed be the Supreme Purusha.
मूलम्
तथा च रुद्रः शिरस्य् अञ्जलि-बन्धं यम् उद्दिश्य करोति, स तावत् परम-पुरुष एव भवितुम् अर्हतीत्य् अवगम्यते ।
विश्वास-प्रस्तुतिः
“आकाशात् पतितं तोयम्” इत्यादि-स्मृत्या विष्णोर् एव सर्व-नमसां उद्देश्यत्वोक्त्या रुद्र-कृत-शिरस्य् अञ्जलि-बन्धस्यापि नमन-विशेषत्वेन नारायणोद्देश्यकत्व-पर्यवसानम् ।
En - Gemini 2.5
By the Smriti (verse) starting “Akashat patitam toyam” (water fallen from the sky), which states that Vishnu alone is the object of all salutations, the Anjali-bandha performed by Rudra on his head, being a special form of salutation, ultimately concludes to have Narayana as its object.
मूलम्
“आकाशात् पतितं तोयम्” इत्यादि-स्मृत्या विष्णोर् एव सर्व-नमसां उद्देश्यत्वोक्त्या रुद्र-कृत-शिरस्य् अञ्जलि-बन्धस्यापि नमन-विशेषत्वेन नारायणोद्देश्यकत्व-पर्यवसानम् ।
विश्वास-प्रस्तुतिः
दशोपनिषद्-बहिर्-भूतोपनिषदाम् अपि श्रुतिवद् विशेषतः प्रामाण्यम् अङ्गीकुर्वन्तः केचिन् नृसिंह-तापिन्याम् अनुष्टुब्-मन्त्र-राज-विवरणे तन्-मन्त्र-गत-नमामीति-पदस्य विवरणावसरे अथ कस्माद् उच्यते नमामीति यं सर्वे देवा मुमुक्षवो ब्रह्म-वादिनश् च नमन्ति तस्माद् उच्यते नमामीति सर्व-देव-कर्तृक-नमस्काराणां ब्रह्म-वादि-कर्तृकाणां मुमुक्षु-कर्तृकाणां सर्वेषां नमस्काराणां नृसिंह-रूपी भगवान् एव शेषी इत्य् उक्त्या अन्येषां नमस्कार-शेषित्वं नास्तीति वदन्तीत्य् अलम् ।
En - Gemini 2.5
Some, accepting the special authority of Upanishads outside the ten principal Upanishads as much as Shrutis, in the Nrisimha-Tapini Upanishad, during the explanation of the Anushtubh Mantra-Raja and the word “namami” within it, cite “Why is it said ’namami’? Because all gods, seekers of liberation, and Brahmavadins salute Him, therefore it is said ’namami’.” By this statement, they say that the Lord in the form of Nrisimha alone is the recipient of all salutations performed by all gods, Brahmavadins, and seekers of liberation, and that others are not recipients of salutations; enough of this.
मूलम्
दशोपनिषद्-बहिर्-भूतोपनिषदाम् अपि श्रुतिवद् विशेषतः प्रामाण्यम् अङ्गीकुर्वन्तः केचिन् नृसिंह-तापिन्याम् अनुष्टुब्-मन्त्र-राज-विवरणे तन्-मन्त्र-गत-नमामीति-पदस्य विवरणावसरे अथ कस्माद् उच्यते नमामीति यं सर्वे देवा मुमुक्षवो ब्रह्म-वादिनश् च नमन्ति तस्माद् उच्यते नमामीति सर्व-देव-कर्तृक-नमस्काराणां ब्रह्म-वादि-कर्तृकाणां मुमुक्षु-कर्तृकाणां सर्वेषां नमस्काराणां नृसिंह-रूपी भगवान् एव शेषी इत्य् उक्त्या अन्येषां नमस्कार-शेषित्वं नास्तीति वदन्तीत्य् अलम् ।
विश्वास-प्रस्तुतिः
“त्वं देवेषु ब्राह्मणोऽहं मनुष्येषु ब्राह्मणः” इति श्रुति-वाक्येन “विरूपाक्षोऽसि दन्ताञ्जिः” इति पूर्व-वाक्य-सहितेन शिवस्य ब्राह्मणत्वं प्रतीयते ।
En - Gemini 2.5
By the Shruti passage “You among gods are a Brahmana, I among men am a Brahmana,” combined with the preceding passage “You are Virupaksha, Dantaji,” the Brahmanahood of Shiva is perceived.
मूलम्
“त्वं देवेषु ब्राह्मणोऽहं मनुष्येषु ब्राह्मणः” इति श्रुति-वाक्येन “विरूपाक्षोऽसि दन्ताञ्जिः” इति पूर्व-वाक्य-सहितेन शिवस्य ब्राह्मणत्वं प्रतीयते ।
विश्वास-प्रस्तुतिः
“तच्-छ्रेयो-रूपम् अत्यसृजत, तत् क्षत्त्रं, यान्य् अत्र देव-क्षत्त्राणि इन्द्रो वरुणः सोमो यमो रुद्र ईशानः” इति बृहदारण्यक-श्रुत्या शिवस्य क्षत्त्रियत्वं प्रतीयते ।
En - Gemini 2.5
By the Brihadaranyaka Shruti “He created that highest form, that Kshatra, which here are the divine Kshatriyas: Indra, Varuna, Soma, Yama, Rudra, Ishana,” the Kshatriyahood of Shiva is perceived.
मूलम्
“तच्-छ्रेयो-रूपम् अत्यसृजत, तत् क्षत्त्रं, यान्य् अत्र देव-क्षत्त्राणि इन्द्रो वरुणः सोमो यमो रुद्र ईशानः” इति बृहदारण्यक-श्रुत्या शिवस्य क्षत्त्रियत्वं प्रतीयते ।
विश्वास-प्रस्तुतिः
यदा पर-ब्रह्मणः सकाशाच् छिवस्योत्पत्तिस् तस्मिन् कल्पे शिवस्य क्षत्त्रियत्वं, यस्मिन् कल्पे चतुर्मुखाच् छिवस्योत्पत्तिस् तस्मिन् ब्राह्मणत्वम् इत्य् अविरोधाय व्यवस्था कार्या; छन्दोग-प्र-पद-मन्त्रे ब्राह्मणत्वेनोक्तस्य शिवस्य तस्मिन्न् एव प्र-पद-मन्त्रे अन्ते “विरूपाक्षाय ब्रह्मणः पुत्राय” इति ब्रह्म-पुत्रत्वाभिधानात्, यत्र क्षत्त्रियत्वम् उक्तं शिवस्य तस्मिन् बृहदारण्यक-श्रुति-वाक्ये “तच्-छ्रेयो-रूपम् अत्यसृजत, तत् क्षत्त्रम्” इति पर-ब्रह्म-जन्यत्वाभिधानाच् च ।
En - Gemini 2.5
To avoid contradiction, an arrangement should be made such that when Shiva originates from Parabrahman, in that Kalpa (cosmic age) Shiva has Kshatriyahood, and in the Kalpa where Shiva originates from the four-faced Brahma, in that (Kalpa) he has Brahmanahood; because in the Chandoga-Pra-pada-mantra, Shiva, who is stated to be a Brahmana, is referred to as “Brahma’s son” at the end of the same Pra-pada-mantra, and where Shiva’s Kshatriyahood is stated, in that Brihadaranyaka Shruti passage, he is referred to as born from Parabrahman, “Tat Kshatram” (that Kshatra).
मूलम्
यदा पर-ब्रह्मणः सकाशाच् छिवस्योत्पत्तिस् तस्मिन् कल्पे शिवस्य क्षत्त्रियत्वं, यस्मिन् कल्पे चतुर्मुखाच् छिवस्योत्पत्तिस् तस्मिन् ब्राह्मणत्वम् इत्य् अविरोधाय व्यवस्था कार्या; छन्दोग-प्र-पद-मन्त्रे ब्राह्मणत्वेनोक्तस्य शिवस्य तस्मिन्न् एव प्र-पद-मन्त्रे अन्ते “विरूपाक्षाय ब्रह्मणः पुत्राय” इति ब्रह्म-पुत्रत्वाभिधानात्, यत्र क्षत्त्रियत्वम् उक्तं शिवस्य तस्मिन् बृहदारण्यक-श्रुति-वाक्ये “तच्-छ्रेयो-रूपम् अत्यसृजत, तत् क्षत्त्रम्” इति पर-ब्रह्म-जन्यत्वाभिधानाच् च ।
विश्वास-प्रस्तुतिः
न ह्य् एवं पठ्यमान-वेद-वाक्ये अवतार-रूप-विडम्बनेन [[प्१७]] विना मूलभूतस्य विष्णोर् अन्यत उत्पत्तिः, जीवत्व-व्याप्य-ब्राह्मणत्व-क्षत्त्रियत्वादि जीवत्व-गमकं श्रूयते येन तस्यापि जीवत्वं स्यात् ।
En - Gemini 2.5
Indeed, in the Vedic passages being recited, without a deceptive form of incarnation, there is no mention of the fundamental Vishnu originating from elsewhere, nor is Brahmanahood, Kshatriyahood, etc., which pervade jīvatva (state of being a living being) and indicate jīvatva, heard of Him, by which He would also be a jīva.
मूलम्
न ह्य् एवं पठ्यमान-वेद-वाक्ये अवतार-रूप-विडम्बनेन [[प्१७]] विना मूलभूतस्य विष्णोर् अन्यत उत्पत्तिः, जीवत्व-व्याप्य-ब्राह्मणत्व-क्षत्त्रियत्वादि जीवत्व-गमकं श्रूयते येन तस्यापि जीवत्वं स्यात् ।
विश्वास-प्रस्तुतिः
“विष्णुर् योनिं कल्पयतु” इति श्रुतिर् योनि-उत्पादकत्वं वदति न योनित्वं न योनि-रूपत्वं न योनि-मत्त्वं वा ।
En - Gemini 2.5
The Shruti “Vishnu Kalpha-Yatu Yonim” (May Vishnu create the womb) states that Vishnu is the producer of the womb, not that He is the womb, or in the form of the womb, or possesses the womb.
मूलम्
“विष्णुर् योनिं कल्पयतु” इति श्रुतिर् योनि-उत्पादकत्वं वदति न योनित्वं न योनि-रूपत्वं न योनि-मत्त्वं वा ।
विश्वास-प्रस्तुतिः
शैव-बहूकृत-श्वेताश्वतरोपनिषदि ज्ञान-काण्ड-बहिर्-भूतायाम् “त्वं स्त्री त्वं पुमान् असि, त्वं कुमार उत वा कुमारी, त्वं जीर्णो दण्डेन वञ्चसि, त्वं जातो भवसि विश्वतो-मुखः” इति मन्त्रेण प्रथमतः शिवस्य स्त्रीत्वम् उक्त्वा स्त्री-भावम् आपन्नस्यैव पश्चात् पुं-भावादिकम् उक्तम् ।
En - Gemini 2.5
In the Shvetashvatara Upanishad, highly regarded by Shaivas but outside the Gyanakanda (section on knowledge), the mantra “You are woman, You are man; You are youth, or also maiden; You, as an old man, totter with a staff; You are born with faces everywhere” first states Shiva’s femininity, and only after attaining the state of a female is His masculinity and so on mentioned.
मूलम्
शैव-बहूकृत-श्वेताश्वतरोपनिषदि ज्ञान-काण्ड-बहिर्-भूतायाम् “त्वं स्त्री त्वं पुमान् असि, त्वं कुमार उत वा कुमारी, त्वं जीर्णो दण्डेन वञ्चसि, त्वं जातो भवसि विश्वतो-मुखः” इति मन्त्रेण प्रथमतः शिवस्य स्त्रीत्वम् उक्त्वा स्त्री-भावम् आपन्नस्यैव पश्चात् पुं-भावादिकम् उक्तम् ।
विश्वास-प्रस्तुतिः
अतोऽपि शिवस्य स्त्री-रूपम् एव मूल-रूपम् इत्य् अवगम्यते ।
En - Gemini 2.5
Therefore, it is understood that Shiva’s original form is indeed feminine.
मूलम्
अतोऽपि शिवस्य स्त्री-रूपम् एव मूल-रूपम् इत्य् अवगम्यते ।
विश्वास-प्रस्तुतिः
किं च विष्णोः पुरुष-महा-पुरुष-पुरुषोत्तम-यज्ञ-पुरुष-पुराण-पुरुष-नाम-धेयस्य स्त्रीत्वं पुरुष-नाम-धेय-गन्ध-रहितस्य पुरुष-शब्द-घटित-नाम-धेय-रहित-शिवस्य पुंस्त्वं च शैव-शाक्त-पुराण-शैवागमानुसारेण वदन् कथं प्रमाणानुसारी वक्ता स्यात् ?
En - Gemini 2.5
Moreover, how can one who states, according to Shaiva, Shakta Puranas, and Shaiva Agamas, the femininity of Vishnu, who has names like Purusha, Mahapurusha, Purushottama, Yajna-purusha, and Purana-purusha, and the masculinity of Shiva, who is devoid of any trace of masculine names and names containing the word ‘purusha’, be a speaker adhering to valid proofs?
मूलम्
किं च विष्णोः पुरुष-महा-पुरुष-पुरुषोत्तम-यज्ञ-पुरुष-पुराण-पुरुष-नाम-धेयस्य स्त्रीत्वं पुरुष-नाम-धेय-गन्ध-रहितस्य पुरुष-शब्द-घटित-नाम-धेय-रहित-शिवस्य पुंस्त्वं च शैव-शाक्त-पुराण-शैवागमानुसारेण वदन् कथं प्रमाणानुसारी वक्ता स्यात् ?
विश्वास-प्रस्तुतिः
किं च विष्णोर् अवतार-विडम्बनेन विना रामायण-भारतादिषु योनिजत्वं न श्रूयते ।
En - Gemini 2.5
Furthermore, in Ramayana, Mahabharata, etc., the birth from a womb (yonijatvam) is not heard of Vishnu without the deceptive forms of His incarnations.
मूलम्
किं च विष्णोर् अवतार-विडम्बनेन विना रामायण-भारतादिषु योनिजत्वं न श्रूयते ।
विश्वास-प्रस्तुतिः
शिवस्य तु पठ्यमान-श्रुतौ शतपथ-ब्राह्मणान्तर्गताष्ट-मूर्ति-ब्राह्मणे हिरण्य-गर्भस्य प्रजापतेर् उषा पत्नीत्य् उक्त्वा भूतानां पतिः संवत्सर उषसि रेतोऽसिञ्चत्, संवत्सरे कुमारोऽजायत, सोऽरोदीत्, तं प्रजापतिर् अब्रवीत् कुमार किं रोदिषि, यच्-छ्रमाज् जातोऽसीति, सोऽब्रवीत्, अनपहत-पाप्मा वा अहम् अनाहित-नामा नाम धेहि पाप्मनोऽपहत्या इति, तं प्रजापतिर् अब्रवीत्, रुद्रोऽसीति, हरोऽसीति, शर्वोऽसीति, ईशानोऽसीति, पशुपतिर् असि इति, उग्रोऽसीति, भीमोऽसीति, महादेवोऽसीति इत्यादिना शुक्ल-शोणित-जन्यत्वं योनिजत्वं च स्पष्टम् एवोक्तम् ।
En - Gemini 2.5
However, concerning Shiva, in the Shatapatha Brahmana, within the Ashtamurti Brahmana of the recited Shruti, after stating that Usha is the wife of Hiranyagarbha Prajapati, it is clearly stated “The lord of beings, Samvatsara, poured semen into Usha; in a year, a boy was born; he cried. Prajapati said to him, ‘Boy, why do you cry, since you are born of toil?’ He said, ‘I am verily free from sin, without a name, give me a name for the removal of sin.’ To him Prajapati said, ‘You are Rudra, You are Hara, You are Sharva, You are Ishana, You are Pashupati, You are Ugra, You are Bhima, You are Mahadeva,’” and so on, clearly indicating His birth from semen and blood, and His womb-birth.
मूलम्
शिवस्य तु पठ्यमान-श्रुतौ शतपथ-ब्राह्मणान्तर्गताष्ट-मूर्ति-ब्राह्मणे हिरण्य-गर्भस्य प्रजापतेर् उषा पत्नीत्य् उक्त्वा भूतानां पतिः संवत्सर उषसि रेतोऽसिञ्चत्, संवत्सरे कुमारोऽजायत, सोऽरोदीत्, तं प्रजापतिर् अब्रवीत् कुमार किं रोदिषि, यच्-छ्रमाज् जातोऽसीति, सोऽब्रवीत्, अनपहत-पाप्मा वा अहम् अनाहित-नामा नाम धेहि पाप्मनोऽपहत्या इति, तं प्रजापतिर् अब्रवीत्, रुद्रोऽसीति, हरोऽसीति, शर्वोऽसीति, ईशानोऽसीति, पशुपतिर् असि इति, उग्रोऽसीति, भीमोऽसीति, महादेवोऽसीति इत्यादिना शुक्ल-शोणित-जन्यत्वं योनिजत्वं च स्पष्टम् एवोक्तम् ।
विश्वास-प्रस्तुतिः
विष्णोस् तु मूल-रूपस्य पठ्यमान-श्रुतौ योनिजत्वं कुत्रापि श्रूयते ।
En - Gemini 2.5
However, for Vishnu’s original form, birth from a womb is not heard anywhere in the recited Shruti.
मूलम्
विष्णोस् तु मूल-रूपस्य पठ्यमान-श्रुतौ योनिजत्वं कुत्रापि श्रूयते ।
विश्वास-प्रस्तुतिः
न च शिवो द्विविधः तुरीयस् तृतीयश् च तृतीयस्योत्पत्त्यादिकं योनिजत्वं चेति शङ्क्यम्; “एक एव रुद्रो न द्वितीयाय तस्थे” इति पठ्यमान-तैत्तिरीय-श्रुतौ एकत्व-रूप-विशेषण-संबन्ध्य्-एव-कारेण “शङ्खः पाण्डर एव” इति-वत् रुद्रे एकत्वायोग-व्यवच्छेदकेन एकत्व-विरोधि-द्वित्व-बहुत्व-प्रतिषेध-सिद्ध्या रुद्रे द्वित्वाद्य् असंभवाद् एकस्यैव रुद्रस्य शरीर-भेदेन रूप-भेदा एव “सहस्राणि सहस्रशो ये रुद्रा अधि भूम्याम्” इति प्रत्यक्ष-श्रुत्यानूद्यन्ते ।
En - Gemini 2.5
Nor should it be doubted that Shiva is twofold: the Turiya (fourth) and the Tritiya (third), and that the origin and womb-birth of the third are as mentioned; for in the Taittiriya Shruti “Eka eva Rudro na dvitiyaya tasthe” (Rudra is one, there is no second for Him), the word ’eva’ (only), associated with the attribute of oneness, just like in “Shankha pandara eva” (the conch is only white), negates the possibility of duality or plurality in Rudra by excluding anything that contradicts oneness, thereby establishing the impossibility of two or more Rudras, and thus the physical variations and forms of one and the same Rudra are merely recounted by the direct Shruti “Sahasrani sahasrasho ye Rudra adhi bhumyam” (Thousands upon thousands of Rudras are on the earth).
मूलम्
न च शिवो द्विविधः तुरीयस् तृतीयश् च तृतीयस्योत्पत्त्यादिकं योनिजत्वं चेति शङ्क्यम्; “एक एव रुद्रो न द्वितीयाय तस्थे” इति पठ्यमान-तैत्तिरीय-श्रुतौ एकत्व-रूप-विशेषण-संबन्ध्य्-एव-कारेण “शङ्खः पाण्डर एव” इति-वत् रुद्रे एकत्वायोग-व्यवच्छेदकेन एकत्व-विरोधि-द्वित्व-बहुत्व-प्रतिषेध-सिद्ध्या रुद्रे द्वित्वाद्य् असंभवाद् एकस्यैव रुद्रस्य शरीर-भेदेन रूप-भेदा एव “सहस्राणि सहस्रशो ये रुद्रा अधि भूम्याम्” इति प्रत्यक्ष-श्रुत्यानूद्यन्ते ।
विश्वास-प्रस्तुतिः
तथैव सायणाचार्यैर् ऋग्वेद-भाष्य-भूमिकायाम् एकस्यैव रुद्रस्य [[प्१८]] रूप-भेदाभिप्राया “सहस्राणि सहस्रशो ये” इति श्रुतिर् इत्य् उक्तम् ।
En - Gemini 2.5
Similarly, Sayana-Acharya in his Rigveda-Bhashya-Bhumika stated that the Shruti “Sahasrani sahasrasho ye” refers to the different forms of one and the same Rudra.
मूलम्
तथैव सायणाचार्यैर् ऋग्वेद-भाष्य-भूमिकायाम् एकस्यैव रुद्रस्य [[प्१८]] रूप-भेदाभिप्राया “सहस्राणि सहस्रशो ये” इति श्रुतिर् इत्य् उक्तम् ।
विश्वास-प्रस्तुतिः
“रुद्राणां शंकरश् चास्मि” इति रुद्र-विग्रहाणां बहूनाम् एक-रुद्र-चेतनाविष्टानां मध्ये सुखकर-शरीर-विशेषाविष्टत्वेन रूपेण एकस्यैव रुद्रस्य भगवद्-विभूतिषु प्राधान्यम् उक्तं; यथा एक-नारायणाविष्टानां द्वि-भुज-चतुर्-भुज-मत्स्य-कूर्मादि-विग्रहाणां मध्ये द्वि-भुज-श्री-रघुनाथ-शरीरस्याधिक्योक्तिस् तद्वद् इति ध्येयम् ।
En - Gemini 2.5
The statement “Among Rudras, I am Shankara” indicates the pre-eminence of one Rudra among the many forms of Rudra, who are imbued with the consciousness of a single Rudra, by virtue of His being embodied in a particularly pleasing form among the divine manifestations; this should be understood, just as the two-armed form of Shri Raghunatha is spoken of as superior among the two-armed, four-armed, Matsya, Kurma, and other forms animated by one Narayana.
मूलम्
“रुद्राणां शंकरश् चास्मि” इति रुद्र-विग्रहाणां बहूनाम् एक-रुद्र-चेतनाविष्टानां मध्ये सुखकर-शरीर-विशेषाविष्टत्वेन रूपेण एकस्यैव रुद्रस्य भगवद्-विभूतिषु प्राधान्यम् उक्तं; यथा एक-नारायणाविष्टानां द्वि-भुज-चतुर्-भुज-मत्स्य-कूर्मादि-विग्रहाणां मध्ये द्वि-भुज-श्री-रघुनाथ-शरीरस्याधिक्योक्तिस् तद्वद् इति ध्येयम् ।
विश्वास-प्रस्तुतिः
एतेन आ वो राजानम् अध्वरस्य रुद्रं होतारं सत्य-यजं रोदस्योः, अग्निं पुरा तनयित्नोर् अचित्ताद् धिरण्यरूपम् अवसे कृणुध्वम् इति ऋक्-साम-शाखीय-मन्त्रेण रुद्रस्याध्वर-राजत्वं प्रतीयते; अध्वरश् च विष्णुः, “यज्ञो वै विष्णुः” इति श्रुतेः; तथा च विष्णोर् अपि शिवो राजेति प्रतीयत इति शैवोक्तम् अपास्तम्, उक्त-मन्त्रस्य रुद्रे अध्वर-राजत्वाप्रतिपादकत्वात् ।
En - Gemini 2.5
By this, the Shaiva assertion that Rudra’s sovereignty over sacrifice (adhvara-rajatvam) is perceived from the Rig-Sama-Shakha mantra “O Rudra, your king of sacrifice, the sacrificer, the truth-worshiper of heaven and earth, make golden-formed Agni for protection before the senseless thunder,” and since sacrifice (adhvara) is Vishnu (“Yajna vai Vishnuḥ” - sacrifice is verily Vishnu, as per Shruti), and thus it is perceived that Shiva is also the king of Vishnu, is refuted, because the said mantra does not establish Rudra’s sovereignty over sacrifice.
मूलम्
एतेन आ वो राजानम् अध्वरस्य रुद्रं होतारं सत्य-यजं रोदस्योः, अग्निं पुरा तनयित्नोर् अचित्ताद् धिरण्यरूपम् अवसे कृणुध्वम् इति ऋक्-साम-शाखीय-मन्त्रेण रुद्रस्याध्वर-राजत्वं प्रतीयते; अध्वरश् च विष्णुः, “यज्ञो वै विष्णुः” इति श्रुतेः; तथा च विष्णोर् अपि शिवो राजेति प्रतीयत इति शैवोक्तम् अपास्तम्, उक्त-मन्त्रस्य रुद्रे अध्वर-राजत्वाप्रतिपादकत्वात् ।
विश्वास-प्रस्तुतिः
तथा हि— वः युष्माकं राजानं प्रशासितारम् ।
En - Gemini 2.5
Thus: “Vaḥ” means “your,” “Rājānam” means “ruler.”
मूलम्
तथा हि— वः युष्माकं राजानं प्रशासितारम् ।
विश्वास-प्रस्तुतिः
राजानम् इत्यस्य स-संबन्धिकत्वेन प्रति-संबन्ध्य्-अपेक्षायाम् उत्थितायाम् अव्यवहित-पूर्व-वर्ति-युष्मच्-छब्देन प्रति-संबन्धि-निर्देश-संभवे राजानम् इति पद-श्रवण-काले अनुपस्थितोत्तर-वर्त्य्-अध्वरस्येति पदेन राजानम् इति पदोत्थिताकाङ्क्षा-शमन-कल्पनस्यानुचितत्वात् ।
En - Gemini 2.5
Since “Rājānam” (king/ruler) is a relational term that implies a correlative, and if a correlative can be indicated by the immediately preceding word “yuṣmac” (your), then it is inappropriate to imagine that the expectation arising from the word “Rājānam” is satisfied by the word “adhvarasya” (of the sacrifice), which is not present at the time of hearing “Rājānam” but comes later.
मूलम्
राजानम् इत्यस्य स-संबन्धिकत्वेन प्रति-संबन्ध्य्-अपेक्षायाम् उत्थितायाम् अव्यवहित-पूर्व-वर्ति-युष्मच्-छब्देन प्रति-संबन्धि-निर्देश-संभवे राजानम् इति पद-श्रवण-काले अनुपस्थितोत्तर-वर्त्य्-अध्वरस्येति पदेन राजानम् इति पदोत्थिताकाङ्क्षा-शमन-कल्पनस्यानुचितत्वात् ।
विश्वास-प्रस्तुतिः
अध्वरस्य रुद्रं यज्ञ-संबन्धिनं रुद्रम् ।
En - Gemini 2.5
“Adhvarasya Rudram” means Rudra related to the sacrifice.
मूलम्
अध्वरस्य रुद्रं यज्ञ-संबन्धिनं रुद्रम् ।
विश्वास-प्रस्तुतिः
षष्ठ्याः संबन्धार्थकत्वस्य सुप्रसिद्धत्वात् ।
En - Gemini 2.5
Because the genitive case (sixth case) is well-known for expressing relationship.
मूलम्
षष्ठ्याः संबन्धार्थकत्वस्य सुप्रसिद्धत्वात् ।
विश्वास-प्रस्तुतिः
होतारं होम-कर्तारम् ।
En - Gemini 2.5
“Hotaram” means the performer of the oblation.
मूलम्
होतारं होम-कर्तारम् ।
विश्वास-प्रस्तुतिः
होमस्य होम-द्रव्यापेक्षायाम् अव्यवहितोपस्थित-रुद्रस्यैव कर्मत्वेनान्वयस्य न्याय्यत्वात् यज्ञ-संबन्धि-रुद्र-कर्मक-होम-कर्तारम् इत्यर्थः पर्यवसन्नः ।
En - Gemini 2.5
When the oblation requires an offering substance, it is proper for Rudra, who is immediately present, to be connected as the object of the action; thus, the meaning ultimately concludes to be “the performer of oblations whose action is directed towards Rudra, who is connected with the sacrifice.”
मूलम्
होमस्य होम-द्रव्यापेक्षायाम् अव्यवहितोपस्थित-रुद्रस्यैव कर्मत्वेनान्वयस्य न्याय्यत्वात् यज्ञ-संबन्धि-रुद्र-कर्मक-होम-कर्तारम् इत्यर्थः पर्यवसन्नः ।
विश्वास-प्रस्तुतिः
सत्य-यजम् अवितथ-यजनम्, रोदस्योः द्यावा-पृथिव्योः, हिरण्य-रूपम् अग्निं द्यावा-पृथिव्य्-अवस्थितम् अग्निम् इति यावत् ।
En - Gemini 2.5
“Satya-yajam” means truthful worship, “rodasyoḥ” means of heaven and earth, and “hiranya-rupam Agnim” means Agni (fire) situated in heaven and earth, that is to say.
मूलम्
सत्य-यजम् अवितथ-यजनम्, रोदस्योः द्यावा-पृथिव्योः, हिरण्य-रूपम् अग्निं द्यावा-पृथिव्य्-अवस्थितम् अग्निम् इति यावत् ।
विश्वास-प्रस्तुतिः
अचित्तात् न विद्यते चित्तं यस्य सः, जड इति यावत् ।
En - Gemini 2.5
“Acittāt” means one who has no consciousness, that is, inert.
मूलम्
अचित्तात् न विद्यते चित्तं यस्य सः, जड इति यावत् ।
विश्वास-प्रस्तुतिः
तनयित्नोः स्तनयित्नोः जडात् स्तनयित्नोः अवसे रक्षणार्थं पूर्वम् एवाकृणुध्वम् आराधयध्वम् इति मन्त्रार्थः ।
En - Gemini 2.5
The meaning of the mantra is: “For the protection of the thunderer, the inert thunderer, worship Him beforehand.”
मूलम्
तनयित्नोः स्तनयित्नोः जडात् स्तनयित्नोः अवसे रक्षणार्थं पूर्वम् एवाकृणुध्वम् आराधयध्वम् इति मन्त्रार्थः ।
विश्वास-प्रस्तुतिः
अनेन मन्त्रेण रुद्रस्याग्नि-कर्तृक-होम-कर्मत्वावगमेन शैवाभिमताध्वर-राजत्व-विरोधस्यैव प्रसक्तिर् न शैवाभिमतस्य सिद्धिः ।
En - Gemini 2.5
By this mantra, since Rudra is understood to be the object of the oblation performed by Agni, there is only a contradiction to the Shaiva-desired kingship over sacrifice, and not the establishment of what is desired by Shaivas.
मूलम्
अनेन मन्त्रेण रुद्रस्याग्नि-कर्तृक-होम-कर्मत्वावगमेन शैवाभिमताध्वर-राजत्व-विरोधस्यैव प्रसक्तिर् न शैवाभिमतस्य सिद्धिः ।
विश्वास-प्रस्तुतिः
किं च “यज्ञो वै विष्णुः” इति श्रुत्या यज्ञस्य विष्णु-शब्द-प्रतिपाद्यत्वेऽपि विष्णोर् यज्ञ-शब्द-प्रतिपाद्यत्वस्य पूर्वम् एव निराकृतत्वेन यज्ञ-शब्द-पर्यायाध्वर-शब्दस्य विष्णु-परत्वं नास्तीति निष्प्रत्यूहम् ।
En - Gemini 2.5
Moreover, even though sacrifice (Yajna) is denoted by the word Vishnu according to the Shruti “Yajno vai Vishnuḥ” (Sacrifice is verily Vishnu), since the denotability of Vishnu by the word Yajna has been refuted earlier, it is unimpeded that the word Adhvara, a synonym for Yajna, does not refer to Vishnu.
मूलम्
किं च “यज्ञो वै विष्णुः” इति श्रुत्या यज्ञस्य विष्णु-शब्द-प्रतिपाद्यत्वेऽपि विष्णोर् यज्ञ-शब्द-प्रतिपाद्यत्वस्य पूर्वम् एव निराकृतत्वेन यज्ञ-शब्द-पर्यायाध्वर-शब्दस्य विष्णु-परत्वं नास्तीति निष्प्रत्यूहम् ।
विश्वास-प्रस्तुतिः
एतेन महा-भारते उपमन्यूपाख्याने द्रोण-पर्वान्त्योपान्त्याध्याययोः सौप्तिक-पर्यायाश्वत्थामा-राधन-संतुष्ट-रुद्र-वचनेषु विष्णोः शिवाद् उ- [[प्१९]] त्पत्तिः, शिव-पूजादि-लक्षणं, शिवाराधनं, शिवाद् वर-ग्रहणं, सर्वोत्तमत्वेन शिव-स्तवनं, स्व-वाम-नेत्रार्चन-संतुष्ट-शिवाच् चक्र-ग्रहणं च प्रतिपादितम् अस्ति ।
En - Gemini 2.5
By this, in the Mahabharata, in the Upamanyu-Upakhyana (narrative of Upamanyu), in the penultimate and antepenultimate chapters of Drona Parva, and in the Sauptika Parva, in the statements of Rudra, who was pleased by Ashvatthama’s worship, the origin of Vishnu from Shiva, the characteristics of Shiva worship, the worship of Shiva, the receiving of boons from Shiva, the praise of Shiva as the best of all, and the receiving of the discus from Shiva, who was pleased by the worship of His own left eye, are all stated.
मूलम्
एतेन महा-भारते उपमन्यूपाख्याने द्रोण-पर्वान्त्योपान्त्याध्याययोः सौप्तिक-पर्यायाश्वत्थामा-राधन-संतुष्ट-रुद्र-वचनेषु विष्णोः शिवाद् उ- [[प्१९]] त्पत्तिः, शिव-पूजादि-लक्षणं, शिवाराधनं, शिवाद् वर-ग्रहणं, सर्वोत्तमत्वेन शिव-स्तवनं, स्व-वाम-नेत्रार्चन-संतुष्ट-शिवाच् चक्र-ग्रहणं च प्रतिपादितम् अस्ति ।
विश्वास-प्रस्तुतिः
तत्रैवान्यत्र साल्व-युद्धे कृष्ण-शरीरे शोणित-स्त्रवणं यम-सभायां दाशरथेः श्री-रघुनाथस्यापि यम-वश्यानां मध्येऽवस्थानं च कथितम् अस्ति ।
En - Gemini 2.5
In the same text, elsewhere, in the war with Salva, the flowing of blood from Krishna’s body and the presence of Shri Raghunatha, son of Dasharatha, among those subservient to Yama in Yama’s assembly, are also mentioned.
मूलम्
तत्रैवान्यत्र साल्व-युद्धे कृष्ण-शरीरे शोणित-स्त्रवणं यम-सभायां दाशरथेः श्री-रघुनाथस्यापि यम-वश्यानां मध्येऽवस्थानं च कथितम् अस्ति ।
विश्वास-प्रस्तुतिः
अतो विष्ण्वपेक्षया शिवस्योत्कर्ष इति शैवोक्तम् अपास्तं; श्रुति-भारतार्थ-विरुद्धत्वात् ।
En - Gemini 2.5
Therefore, the Shaiva assertion that Shiva is superior to Vishnu is refuted, as it contradicts the meaning of Shruti and other parts of Mahabharata.
मूलम्
अतो विष्ण्वपेक्षया शिवस्योत्कर्ष इति शैवोक्तम् अपास्तं; श्रुति-भारतार्थ-विरुद्धत्वात् ।
विश्वास-प्रस्तुतिः
प्रत्यक्ष-पठ्यमान-श्रुतौ श्री-विष्णोः “तस्माद् विराड् अजायत” इति निखिल-जगत्-कर्तृ-चतुर्मुख-जनकत्वोक्त्या निखिल-जगत्-स्रष्टृत्वं “विष्णुर् गोपा अदाभ्यः” इति निखिल-पालकत्वं “हरिं हरन्तम् अनुयन्ति देवाः” इत्यनेन हरन्तं जगत्-संहर्तारं हरिं देवा अनुयन्तीत्य् अर्थकेन निखिल-संहर्तृत्वं श्रूयते ।
En - Gemini 2.5
In the directly recited Shruti, concerning Shri Vishnu, “Tasmad virad ajayata” (From Him, Viraj was born) indicates His fatherhood of the four-faced creator of the entire world, thereby implying His creatorship of the entire world; “Vishnur Gopa Adabhyah” (Vishnu, the invincible protector) indicates His protectorship of the entire world; and “Harim harantam anuyanti devah” (The gods follow Hari, the destroyer of the world) implies His destructorship of the entire world, meaning the gods follow Hari, who destroys the world.
मूलम्
प्रत्यक्ष-पठ्यमान-श्रुतौ श्री-विष्णोः “तस्माद् विराड् अजायत” इति निखिल-जगत्-कर्तृ-चतुर्मुख-जनकत्वोक्त्या निखिल-जगत्-स्रष्टृत्वं “विष्णुर् गोपा अदाभ्यः” इति निखिल-पालकत्वं “हरिं हरन्तम् अनुयन्ति देवाः” इत्यनेन हरन्तं जगत्-संहर्तारं हरिं देवा अनुयन्तीत्य् अर्थकेन निखिल-संहर्तृत्वं श्रूयते ।
विश्वास-प्रस्तुतिः
उक्त-त्रयम् एव “यतो वै” इति-श्रुति- “जन्माद्यस्य यतः” इति सूत्र-सिद्धं ब्रह्म-लक्षणम् ।
En - Gemini 2.5
These three alone constitute the definition of Brahman, established by the Shruti “Yato vai” and the Sutra “Janmadyasya yataḥ”.
मूलम्
उक्त-त्रयम् एव “यतो वै” इति-श्रुति- “जन्माद्यस्य यतः” इति सूत्र-सिद्धं ब्रह्म-लक्षणम् ।
विश्वास-प्रस्तुतिः
न चैतल्-लक्षणं-विष्णोर् इव शिवादेः संप्रतिपन्न-श्रुतौ दृश्यते, येन तस्य ब्रह्मत्वं स्यात् ।
En - Gemini 2.5
And this definition is not seen in accepted Shrutis for Shiva and others, as it is for Vishnu, by which they would be Brahman.
मूलम्
न चैतल्-लक्षणं-विष्णोर् इव शिवादेः संप्रतिपन्न-श्रुतौ दृश्यते, येन तस्य ब्रह्मत्वं स्यात् ।
विश्वास-प्रस्तुतिः
यत् तु “हरिं हरन्तम्” इत्यत्र हरण-क्रियायां हरेः कर्मत्वम् इति, तन् न; विशेष्याध्याहारापत्तेः, संभवति श्रूयमाणस्य हरिम् इत्यस्य हरन्तम् इति यौगिक-विशेषण-पदापेक्षित-विशेष्यत्वे अध्याहारस्यायुक्तत्वात् ।
En - Gemini 2.5
As for the argument that in “Harim harantam” (Hari, the destroyer), Hari is the object of the action of destruction, that is not so; it would lead to the assumption of an unstated noun, and it is inappropriate to assume a noun when the heard “Harim” can properly serve as the noun required by the composite adjectival word “harantam.”
मूलम्
यत् तु “हरिं हरन्तम्” इत्यत्र हरण-क्रियायां हरेः कर्मत्वम् इति, तन् न; विशेष्याध्याहारापत्तेः, संभवति श्रूयमाणस्य हरिम् इत्यस्य हरन्तम् इति यौगिक-विशेषण-पदापेक्षित-विशेष्यत्वे अध्याहारस्यायुक्तत्वात् ।
विश्वास-प्रस्तुतिः
यद्यपि हरन्तम् इत्यस्य विशेष्याकाङ्क्षावत् कर्माकाङ्क्षाप्य् अस्ति, तथापि हरन्तम् इत्य् एतद्-घटक-हृ-धातोर् उपसर्जनस्य कर्माकाङ्क्षापेक्षया हरण-क्रिया-कर्तृ-पर-प्रत्यय-रूप-प्रधानस्य विशेष्याकाङ्क्षाया बलवत्त्वेन हरिम् इति श्रूयमाण-पदस्य प्रधानाकाङ्क्षा-शामकार्थ-परत्वस्यैव न्याय्यत्वं कर्माकाङ्क्षा-शामकं तु संकोचे प्रमाणाभावाद् औचित्याच् च जगद् एव ।
En - Gemini 2.5
Although “harantam” (destroying) has a desire for an object (karma) as well as a desire for a noun (visheṣya), the desire for a noun of the principal part, which is the suffix denoting the agent of the action of destruction (contained in “hṛ” धातु within “harantam”), is stronger than the desire for an object of the subordinate verb “hṛ”; therefore, it is more appropriate for the heard word “Harim” to be the meaning that satisfies the principal desire for a noun, and the object that satisfies the desire for an object is, due to the absence of any restrictive evidence and due to appropriateness, the entire world.
मूलम्
यद्यपि हरन्तम् इत्यस्य विशेष्याकाङ्क्षावत् कर्माकाङ्क्षाप्य् अस्ति, तथापि हरन्तम् इत्य् एतद्-घटक-हृ-धातोर् उपसर्जनस्य कर्माकाङ्क्षापेक्षया हरण-क्रिया-कर्तृ-पर-प्रत्यय-रूप-प्रधानस्य विशेष्याकाङ्क्षाया बलवत्त्वेन हरिम् इति श्रूयमाण-पदस्य प्रधानाकाङ्क्षा-शामकार्थ-परत्वस्यैव न्याय्यत्वं कर्माकाङ्क्षा-शामकं तु संकोचे प्रमाणाभावाद् औचित्याच् च जगद् एव ।
विश्वास-प्रस्तुतिः
परं ब्रह्म हरि-भावापन्नम् एव शिव-भावम् आपद्यते, परात् परतरं ब्रह्म तत् परात् परतो हरिः ।
En - Gemini 2.5
The Supreme Brahman, having attained the state of Hari, then attains the state of Shiva, as stated in the Shruti: “Brahman is superior to the superior, and Hari is superior to that superior.”
मूलम्
परं ब्रह्म हरि-भावापन्नम् एव शिव-भावम् आपद्यते, परात् परतरं ब्रह्म तत् परात् परतो हरिः ।
विश्वास-प्रस्तुतिः
तत् परात् परतरोऽधीशस् तन् मे मनः शिव-संकल्पम् अस्तु इति श्रुतेः ।
En - Gemini 2.5
“And Ishvara is superior to that superior; may my mind be of auspicious resolve.” This is from the Shruti.
मूलम्
तत् परात् परतरोऽधीशस् तन् मे मनः शिव-संकल्पम् अस्तु इति श्रुतेः ।
विश्वास-प्रस्तुतिः
अत्र ब्रह्म-पदं न चतुर्मुख-परं, पुंलिङ्गत्वापत्तेः ।
En - Gemini 2.5
Here, the word ‘Brahma’ does not refer to the four-faced Brahma, as it would then have to be masculine.
मूलम्
अत्र ब्रह्म-पदं न चतुर्मुख-परं, पुंलिङ्गत्वापत्तेः ।
विश्वास-प्रस्तुतिः
किं तु पर-ब्रह्म-परम् ।
En - Gemini 2.5
Instead, it refers to the Supreme Brahman.
मूलम्
किं तु पर-ब्रह्म-परम् ।
विश्वास-प्रस्तुतिः
तत्-पराद् इत्यत्र तद् इति भिन्न-पदं न समस्तं, समस्तत्वे पर-ब्रह्मापेक्षया हरि-हरयोर् उत्कर्षापत्तेः ।
En - Gemini 2.5
In “tat parat,” “tat” is a separate word, not a compound, because if it were a compound, Hari and Hara would be superior to Parabrahman.
मूलम्
तत्-पराद् इत्यत्र तद् इति भिन्न-पदं न समस्तं, समस्तत्वे पर-ब्रह्मापेक्षया हरि-हरयोर् उत्कर्षापत्तेः ।
विश्वास-प्रस्तुतिः
ब्रह्म परात् परतरम् इत्य् एकं वाक्यम् ।
En - Gemini 2.5
“Brahma parat parataram” (Brahman is superior to the superior) is one sentence.
मूलम्
ब्रह्म परात् परतरम् इत्य् एकं वाक्यम् ।
विश्वास-प्रस्तुतिः
तद्-ब्रह्म परात् परतरम् इत्य् एकं वाक्यम् ।
En - Gemini 2.5
“Tad Brahma parat parataram” (That Brahman is superior to the superior) is one sentence.
मूलम्
तद्-ब्रह्म परात् परतरम् इत्य् एकं वाक्यम् ।
विश्वास-प्रस्तुतिः
तत् हरि-भावापन्नं ब्रह्म ।
En - Gemini 2.5
That Brahman has attained the state of Hari.
मूलम्
तत् हरि-भावापन्नं ब्रह्म ।
विश्वास-प्रस्तुतिः
परात् परतरोऽधीश इति तृतीयं वाक्यम् ।
En - Gemini 2.5
“Parat parataro’dhishaḥ” (Ishvara is superior to the superior) is the third sentence.
मूलम्
परात् परतरोऽधीश इति तृतीयं वाक्यम् ।
विश्वास-प्रस्तुतिः
तस् तस्मात् मे मनः शिव-संकल्पं मङ्गल-संकल्पम् अस्त्व् इति साकाङ्क्षं चतुर्थं वाक्यम् ।
En - Gemini 2.5
“Tas Tasmat me manaḥ Shiva-sankalpam mangala-sankalpam astu” (Therefore, may my mind be of auspicious resolve) is the fourth sentence, which is incomplete and thus has an expectation (akanksha).
मूलम्
तस् तस्मात् मे मनः शिव-संकल्पं मङ्गल-संकल्पम् अस्त्व् इति साकाङ्क्षं चतुर्थं वाक्यम् ।
विश्वास-प्रस्तुतिः
[[प्२०]] “ईशानः सर्व-विद्यानाम्” इति श्रुतिः सर्व-विद्येशानत्व-सर्व-भूतेश्वरत्व-वेदाधिपतित्व-ब्राह्मणाधिपतित्व-विशिष्टः ब्रह्मा चतुर्मुखः मे शिवः मङ्गल-करोऽस्तु इति प्रार्थनां सदा सर्व-काले शिवः मङ्गल-करः ॐ भवामीति चतुर्मुखाङ्गीकारं च स्वरस-गत्या कथयति ।
En - Gemini 2.5
The Shruti “Ishanaḥ sarva-vidyanam” (Lord of all knowledge) spontaneously conveys the prayer “May Brahma, the four-faced one, who is endowed with lordship over all knowledge, lordship over all beings, lordship over the Vedas, and lordship over Brahmanas, be auspicious to me,” and also the acceptance of the four-faced Brahma “May Shiva (the auspicious one) always be auspicious, Om, I will be (auspicious).”
मूलम्
[[प्२०]] “ईशानः सर्व-विद्यानाम्” इति श्रुतिः सर्व-विद्येशानत्व-सर्व-भूतेश्वरत्व-वेदाधिपतित्व-ब्राह्मणाधिपतित्व-विशिष्टः ब्रह्मा चतुर्मुखः मे शिवः मङ्गल-करोऽस्तु इति प्रार्थनां सदा सर्व-काले शिवः मङ्गल-करः ॐ भवामीति चतुर्मुखाङ्गीकारं च स्वरस-गत्या कथयति ।
विश्वास-प्रस्तुतिः
ॐ इत्य् अङ्गीकार इति प्रसिद्धं लोके ।
En - Gemini 2.5
The word “Om” is famously known as an acceptance in the world.
मूलम्
ॐ इत्य् अङ्गीकार इति प्रसिद्धं लोके ।
विश्वास-प्रस्तुतिः
शिवः रुद्रः मे ब्रह्मास्त्व् इत्य् अर्थस् तु अनुपपन्न इति स्पष्टम् ।
En - Gemini 2.5
The meaning “May Shiva, Rudra, be my Brahma” is clearly inappropriate.
मूलम्
शिवः रुद्रः मे ब्रह्मास्त्व् इत्य् अर्थस् तु अनुपपन्न इति स्पष्टम् ।
विश्वास-प्रस्तुतिः
तस्माद् इयं श्रुतिर् न रुद्र-परेत्य् अलम् ।
En - Gemini 2.5
Therefore, this Shruti does not refer to Rudra; enough of this.
मूलम्
तस्माद् इयं श्रुतिर् न रुद्र-परेत्य् अलम् ।
विश्वास-प्रस्तुतिः
शतरूद्रीयं कल्प-विशेषे मन्यु-रूपं प्रजापति-पुत्रं रुद्रं क्षत्त्रियम् उक्त-रुद्र-रोदन-विप्रुडात्मक-रुद्रांश् च प्रतिपादयति ।
En - Gemini 2.5
The Shatarudriya, in a particular Kalpa, describes Rudra, the son of Prajapati in the form of Manyu (wrath), as a Kshatriya, and also other Rudras originating from the tears of the said Rudra.
मूलम्
शतरूद्रीयं कल्प-विशेषे मन्यु-रूपं प्रजापति-पुत्रं रुद्रं क्षत्त्रियम् उक्त-रुद्र-रोदन-विप्रुडात्मक-रुद्रांश् च प्रतिपादयति ।
विश्वास-प्रस्तुतिः
माध्यंदिने पठ्यमान-शतपथ-ब्राह्मणे नवमाध्याये प्रजापतेः वित्रस्तात् देवता उदक्रामन्, तम् एक एव देवो नाजहत्, मन्युर् एव सोऽस्मिन्न् अन्तर्-विततोऽतिष्ठत्, सोऽरोदीत्, तस्य यान्य् अश्रूणि प्रास्कन्दंस् तान्य् अस्मिन् मन्यौ प्रातिष्ठन्, स एव शत-शीर्षा रुद्रः समभवत् सहस्राक्षः, अस्माद् वै विभेमः, यद् वै नो कथं न हिंस्याद् इति, तस्माद् एतम् अन्नं समहरन्, शत-रुद्रीयं तेनैनम् अशमयम्, तद् यद् एतं शत-शीर्षाणं रुद्रम् एतेनाशमयन् तस्माच् छतरुद्रीयम् इत्य् आचक्षते, नमस्ते रुद्र मन्यव इति, स एवान्तर्-मृत्युर्-विततोऽतिष्ठत्, तस्माद् एतं नमस्करोति, उतोत इषवे नमः, बाहुभ्याम् उत ते नम इति, इष्वा च बाहुभ्यां च भीषयमाणोऽतिष्ठत्, स एष क्षत्त्रं देवः यः शत-शीर्षा समभवत्, विश इतरे ये विप्रुड्भ्यः समभवन्, शतेषुधयः, या अन्या विप्रुषोऽपतन्, ता असंख्याताः, सहस्राणि, इमाल् लोकान्, अनुप्राविशन्, तद् रुदितात् समभवन्, तस्माद् रुद्राः, शत-शीर्षा रुद्रो भीषयमाणोऽतिष्ठत्, नमो हिरण्य-वाहवे सेनान्ये दिशां च पतये नमः, ते घोरतराः, अशान्ततराः, ये उभयतो नमस्काराः, उभयत एवैनान् एतद् यज्ञेन नमस्कारेण शमयति इत्यादि-वाक्यानां स्वारस्याच् छतरुद्रीयोक्त-रुद्र-नमस्कारा अपि “मृत्युस् तस्मात् नमस्करोति” इष्वा च बाहुभ्यां च भीषयमाणोऽतिष्ठत्, ते घोरा अशान्ततराः, उभयत एवैनान्, नमस्कारेण शमयति” इत्यादि-वाक्य-स्वारस्येन मृत्यु-रूपत्व-भीषणत्व-घोरत्वाशान्ततरत्व-प्रयुक्ता न तूत्कर्ष-प्रयुक्ताः ।
En - Gemini 2.5
In the ninth chapter of the Shatapatha Brahmana, recited in the Madhyandina recension, due to the inherent meaning of passages like “From Prajapati, terrified, the deities departed; only one deity did not abandon him, that was Manyu, who remained spread within him; he cried; the tears that fell from him established themselves in this Manyu; he became the hundred-headed Rudra, the thousand-eyed; ‘Indeed, we fear this, lest he harm us,’ therefore they collected food for him, the Shatarudriya; with that they pacified him; because they pacified this hundred-headed Rudra with that, they call it Shatarudriya, ‘Namas te Rudra Manyave’ (Salutations to you, Rudra, to Manyu); he remained spread within as death; therefore one salutes him, ‘Uto ta ishave namaḥ, bahubhyam uta te namaḥ’ (And also to your arrow, salutations; and to your arms, salutations); he stood frightening with his arrow and arms; this god is Kshatra, who became the hundred-headed; others are Vaishyas, who originated from the drops; those with a hundred quivers; other drops that fell were countless, thousands, they entered these worlds; they originated from crying, therefore they are Rudras; the hundred-headed Rudra stood frightening; ‘Namo Hiranyabahave Senanye Disham cha Pataye namaḥ’ (Salutations to the golden-armed commander, and to the lord of the quarters); they are more terrible, more unpacified, who receive salutations from both sides; with this sacrifice and salutation, he pacifies them from both sides,” the salutations to Rudra mentioned in Shatarudriya are also prompted by His death-like nature, terrifying nature, frightful nature, and extremely unpacified nature, as indicated by the inherent meaning of passages like “Therefore, death salutes him,” “He stood frightening with his arrow and arms,” “They are frightful, more unpacified,” “from both sides, with salutation, he pacifies them,” and not by His superiority.
मूलम्
माध्यंदिने पठ्यमान-शतपथ-ब्राह्मणे नवमाध्याये प्रजापतेः वित्रस्तात् देवता उदक्रामन्, तम् एक एव देवो नाजहत्, मन्युर् एव सोऽस्मिन्न् अन्तर्-विततोऽतिष्ठत्, सोऽरोदीत्, तस्य यान्य् अश्रूणि प्रास्कन्दंस् तान्य् अस्मिन् मन्यौ प्रातिष्ठन्, स एव शत-शीर्षा रुद्रः समभवत् सहस्राक्षः, अस्माद् वै विभेमः, यद् वै नो कथं न हिंस्याद् इति, तस्माद् एतम् अन्नं समहरन्, शत-रुद्रीयं तेनैनम् अशमयम्, तद् यद् एतं शत-शीर्षाणं रुद्रम् एतेनाशमयन् तस्माच् छतरुद्रीयम् इत्य् आचक्षते, नमस्ते रुद्र मन्यव इति, स एवान्तर्-मृत्युर्-विततोऽतिष्ठत्, तस्माद् एतं नमस्करोति, उतोत इषवे नमः, बाहुभ्याम् उत ते नम इति, इष्वा च बाहुभ्यां च भीषयमाणोऽतिष्ठत्, स एष क्षत्त्रं देवः यः शत-शीर्षा समभवत्, विश इतरे ये विप्रुड्भ्यः समभवन्, शतेषुधयः, या अन्या विप्रुषोऽपतन्, ता असंख्याताः, सहस्राणि, इमाल् लोकान्, अनुप्राविशन्, तद् रुदितात् समभवन्, तस्माद् रुद्राः, शत-शीर्षा रुद्रो भीषयमाणोऽतिष्ठत्, नमो हिरण्य-वाहवे सेनान्ये दिशां च पतये नमः, ते घोरतराः, अशान्ततराः, ये उभयतो नमस्काराः, उभयत एवैनान् एतद् यज्ञेन नमस्कारेण शमयति इत्यादि-वाक्यानां स्वारस्याच् छतरुद्रीयोक्त-रुद्र-नमस्कारा अपि “मृत्युस् तस्मात् नमस्करोति” इष्वा च बाहुभ्यां च भीषयमाणोऽतिष्ठत्, ते घोरा अशान्ततराः, उभयत एवैनान्, नमस्कारेण शमयति” इत्यादि-वाक्य-स्वारस्येन मृत्यु-रूपत्व-भीषणत्व-घोरत्वाशान्ततरत्व-प्रयुक्ता न तूत्कर्ष-प्रयुक्ताः ।
विश्वास-प्रस्तुतिः
शतरुद्रीय-प्रतिपाद्यः शत-शीर्षा रुद्रः क्षत्त्रियः ।
En - Gemini 2.5
The hundred-headed Rudra described in the Shatarudriya is a Kshatriya.
मूलम्
शतरुद्रीय-प्रतिपाद्यः शत-शीर्षा रुद्रः क्षत्त्रियः ।
विश्वास-प्रस्तुतिः
अन्ये च विप्रुड्-रुद्रा वैश्याः ।
En - Gemini 2.5
And the other tear-drop Rudras are Vaishyas.
मूलम्
अन्ये च विप्रुड्-रुद्रा वैश्याः ।
विश्वास-प्रस्तुतिः
“स एष क्षत्त्रं देवः शत-शीर्षा, विश इतरे ये विप्रुड्भ्यः समभवन्” इति [[प्२१]] वाक्य-स्वारस्यात् ।
En - Gemini 2.5
Due to the inherent meaning of the passage “He is this god, Kshatra, the hundred-headed; others are Vaishyas, who originated from the drops.”
मूलम्
“स एष क्षत्त्रं देवः शत-शीर्षा, विश इतरे ये विप्रुड्भ्यः समभवन्” इति [[प्२१]] वाक्य-स्वारस्यात् ।
विश्वास-प्रस्तुतिः
एतेन शतरुद्रीयोक्तो न ब्रह्म-पुत्रः, किं तु तुरीयः; स च ब्राह्मणः; तस्य नमस्कारा उत्कर्ष-प्रयुक्ता इति पुराणादि-वचनम् अवलम्ब्य प्रतिपादनं हरदत्ताख्य-प्रभृतीनाम् अपास्तं, उक्त-पठ्यमान-श्रुति-विरोधेन तादृश-पुराणादीनाम् अप्रमाणत्वात् ।
En - Gemini 2.5
By this, the assertion of Haradatta and others, relying on Purana passages, that the Rudra mentioned in the Shatarudriya is not the son of Brahma, but rather the Turiya (fourth), and that He is a Brahmana, and His salutations are offered due to His superiority, is refuted, because such Puranas are not authoritative due to their contradiction with the recited Shruti.
मूलम्
एतेन शतरुद्रीयोक्तो न ब्रह्म-पुत्रः, किं तु तुरीयः; स च ब्राह्मणः; तस्य नमस्कारा उत्कर्ष-प्रयुक्ता इति पुराणादि-वचनम् अवलम्ब्य प्रतिपादनं हरदत्ताख्य-प्रभृतीनाम् अपास्तं, उक्त-पठ्यमान-श्रुति-विरोधेन तादृश-पुराणादीनाम् अप्रमाणत्वात् ।
विश्वास-प्रस्तुतिः
नेयं श्रुतिर् दशोपनिषद्-भिन्नोपनिषत्-तुल्या माध्यंदिन-शाखीयैर् इदानीम् अपि पठ्यमानत्वेन प्रत्यक्ष-वेदत्वात् ।
En - Gemini 2.5
This Shruti is not like an Upanishad different from the ten principal Upanishads, because it is still recited by those of the Madhyandina Shakha and is therefore a direct Veda.
मूलम्
नेयं श्रुतिर् दशोपनिषद्-भिन्नोपनिषत्-तुल्या माध्यंदिन-शाखीयैर् इदानीम् अपि पठ्यमानत्वेन प्रत्यक्ष-वेदत्वात् ।
विश्वास-प्रस्तुतिः
मन्यु-रुद्र एव विप्रुट्-परिणाम-रुद्र-शरीरेषु प्रविष्ट इति एकस्यैव रुद्रस्य शरीर-भेदा एव विप्रुड्-रुद्राः, न तु रुद्र-चेतन-भेदः ।
En - Gemini 2.5
Manyu-Rudra Himself entered the bodies of the Rudras born from drops, so the Rudras born from drops are merely different forms of the body of one and the same Rudra, and not a difference in Rudra’s consciousness.
मूलम्
मन्यु-रुद्र एव विप्रुट्-परिणाम-रुद्र-शरीरेषु प्रविष्ट इति एकस्यैव रुद्रस्य शरीर-भेदा एव विप्रुड्-रुद्राः, न तु रुद्र-चेतन-भेदः ।
विश्वास-प्रस्तुतिः
“एक एव रुद्रो न द्वितीयाय तस्थे” इति पठ्यमान-श्रुताव् एव रुद्र एकत्वायोग-व्यवच्छेदार्थक-विशेषण-संबन्ध्य्-एव-कार-श्रवणात् “शङ्खः पाण्डर एव” इति-वत् ।
En - Gemini 2.5
Because in the recited Shruti “Eka eva Rudro na dvitiyaya tasthe” (Rudra is one, there is no second for Him), the word ’eva’ (only), associated with the attribute of oneness which serves to exclude the inapplicability of oneness, is heard for Rudra, just as in “Shankha pandara eva” (the conch is only white).
मूलम्
“एक एव रुद्रो न द्वितीयाय तस्थे” इति पठ्यमान-श्रुताव् एव रुद्र एकत्वायोग-व्यवच्छेदार्थक-विशेषण-संबन्ध्य्-एव-कार-श्रवणात् “शङ्खः पाण्डर एव” इति-वत् ।
विश्वास-प्रस्तुतिः
महा-शैवाप्पय्य-दीक्षितेरित-तात्पर्य-संग्रहे विशालाक्षः स्थाणुर् दुहिण-तनयः संहरण-कृत् सरोजाक्ष-क्रोध-प्रभव इति वैशेषिक-पदम् ।
En - Gemini 2.5
In the Tatparya-Sangraha composed by the great Shaiva Appayya Dikshita, the phrases “Vishalakshaḥ Sthanuḥ,” “Duhina-tanayaḥ” (son of Brahma), “Samharaṇa-kṛt” (destroyer), and “Sarojaksha-krodha-prabhava” (born from the wrath of Vishnu) are considered specific (vaisheshika) terms.
मूलम्
महा-शैवाप्पय्य-दीक्षितेरित-तात्पर्य-संग्रहे विशालाक्षः स्थाणुर् दुहिण-तनयः संहरण-कृत् सरोजाक्ष-क्रोध-प्रभव इति वैशेषिक-पदम् ।
विश्वास-प्रस्तुतिः
विभूतित्व-ज्ञप्त्यै किम् अपि निहितं नाथ नियतं निकषोंक्तिस् ताभ्यां भवत इति बुद्धिं निरसितुम् इति श्लोकेन विशालाक्षत्व-स्थाणुत्व-ब्रह्म-पुत्रत्व-संहर्तृत्व-विष्णु-क्रोध-जन्यत्वान्यतमं भारते यस्य रुद्रस्योक्तं स विष्णु-चतुर्मुख-न्यूनो विभूति-रुद्रः तद्-रहितस् तुरीय-रुद्रो विष्ण्वादि-पूजितो भारते कथित इत्य् उक्तम् ।
En - Gemini 2.5
By the verse beginning “Vibhutitvajñaptyai kimapi nihitam natha niyatam nikashoktis tabhyam bhavata iti buddhim nirasitum,” which mentions that any one of the qualities such as having large eyes, being Sthanu (immovable), being the son of Brahma, being the destroyer, or being born from Vishnu’s wrath, attributed to Rudra in the Mahabharata, implies that He is a subordinate manifestation (vibhuti-rudra) inferior to Vishnu and the four-faced Brahma, while the Turiya (fourth) Rudra, who lacks these qualities, is stated to be worshipped by Vishnu and others in the Mahabharata.
मूलम्
विभूतित्व-ज्ञप्त्यै किम् अपि निहितं नाथ नियतं निकषोंक्तिस् ताभ्यां भवत इति बुद्धिं निरसितुम् इति श्लोकेन विशालाक्षत्व-स्थाणुत्व-ब्रह्म-पुत्रत्व-संहर्तृत्व-विष्णु-क्रोध-जन्यत्वान्यतमं भारते यस्य रुद्रस्योक्तं स विष्णु-चतुर्मुख-न्यूनो विभूति-रुद्रः तद्-रहितस् तुरीय-रुद्रो विष्ण्वादि-पूजितो भारते कथित इत्य् उक्तम् ।
विश्वास-प्रस्तुतिः
तद् अत्यन्तासंगतम् इत्य् एतत् विशालाक्षत्व-स्थाणुत्वादि-शून्य-रुद्रो भारते नास्ति तद्-वान् एक एव रुद्रो भारतेऽस्तीति प्रतिपादनेन निरूप्यते ।
En - Gemini 2.5
That is utterly inconsistent; it is demonstrated by stating that there is no Rudra devoid of Vishalakshatva, Sthanutva, etc., in the Mahabharata, but rather there is only one Rudra possessing these qualities.
मूलम्
तद् अत्यन्तासंगतम् इत्य् एतत् विशालाक्षत्व-स्थाणुत्वादि-शून्य-रुद्रो भारते नास्ति तद्-वान् एक एव रुद्रो भारतेऽस्तीति प्रतिपादनेन निरूप्यते ।
विश्वास-प्रस्तुतिः
तथा हि—द्रोण-पर्वण्य् उपान्त्याध्याये जन्म-कर्म-तपो-योगास् तयोस् तव च पुष्कलाः ।
En - Gemini 2.5
Thus: In the penultimate chapter of the Drona Parva, “Your births, actions, austerities, and yogas are abundant for both of you.”
मूलम्
तथा हि—द्रोण-पर्वण्य् उपान्त्याध्याये जन्म-कर्म-तपो-योगास् तयोस् तव च पुष्कलाः ।
विश्वास-प्रस्तुतिः
ताभ्यां लिङ्गेऽर्चितो देवस् त्वयार्चायां युगे युगे इत्य् अश्वत्थामानं प्रति व्यास-वचनेन कृष्णार्जुनाभ्याम् अश्वत्थाम्ना चार्चितस्य रुद्रस्यैकत्वं प्रतीयते ।
En - Gemini 2.5
By Vyasa’s statement to Ashvatthama, “The deity was worshipped in the Linga by those two, and by you in worship, age after age,” the oneness of Rudra, worshipped by Krishna, Arjuna, and Ashvatthama, is perceived.
मूलम्
ताभ्यां लिङ्गेऽर्चितो देवस् त्वयार्चायां युगे युगे इत्य् अश्वत्थामानं प्रति व्यास-वचनेन कृष्णार्जुनाभ्याम् अश्वत्थाम्ना चार्चितस्य रुद्रस्यैकत्वं प्रतीयते ।
विश्वास-प्रस्तुतिः
सौप्तिके सप्तमाध्याये उग्रं स्थाणुं शिवं रुद्रं सर्वम् ईशानम् ईश्वरम् ।
En - Gemini 2.5
In the seventh chapter of Sauptika Parva: “The fierce, unmoving, auspicious, roaring, all-pervading, controller, Lord.”
मूलम्
सौप्तिके सप्तमाध्याये उग्रं स्थाणुं शिवं रुद्रं सर्वम् ईशानम् ईश्वरम् ।
विश्वास-प्रस्तुतिः
प्रपद्ये शरणं देवं परमेण समाधिना इत्यादिना कृप-कृत-वर्माणौ प्रत्य् अश्वत्थाम-वाक्येन अश्वत्थामा-राध्य-रुद्रस्य स्थाणुत्वोक्त्या तत्रैव सप्तदशाध्याये नूनं स देव-देवानाम् ईश्वरेश्वरम् अव्ययम् ।
En - Gemini 2.5
“I seek refuge in the divine Lord with supreme meditation” - by this and other statements of Ashvatthama to Kripa and Kritavarma, the Sthanutva (immovability) of Rudra, worshipped by Ashvatthama, is stated; and in the seventeenth chapter of the same text, “Indeed, that son of Drona (Ashvatthama) approached the imperishable Lord of lords among the gods.”
मूलम्
प्रपद्ये शरणं देवं परमेण समाधिना इत्यादिना कृप-कृत-वर्माणौ प्रत्य् अश्वत्थाम-वाक्येन अश्वत्थामा-राध्य-रुद्रस्य स्थाणुत्वोक्त्या तत्रैव सप्तदशाध्याये नूनं स देव-देवानाम् ईश्वरेश्वरम् अव्ययम् ।
विश्वास-प्रस्तुतिः
जगाम शरणं द्रौणिर् एकस् तेनावधीद् बहून् एवं सिसृक्षुर् भूतानि ससर्ज प्रथमं विभुः ।
En - Gemini 2.5
“Drauni (Ashvatthama) went to Him for refuge, and alone he killed many. Thus, the omnipotent one, desirous of creating beings, first created.”
मूलम्
जगाम शरणं द्रौणिर् एकस् तेनावधीद् बहून् एवं सिसृक्षुर् भूतानि ससर्ज प्रथमं विभुः ।
विश्वास-प्रस्तुतिः
पितामहोऽब्रवीच् चैनं भूतानि सृज मा चिरम् ॥ हरिकेशस् तथेत्य् उक्त्वा भूतानां दोष-दर्शीवान् ।
En - Gemini 2.5
“The Grandfather (Brahma) said to Him, ‘Create beings without delay.’ Harikesha, having said ‘So be it,’ and seeing the faults of beings.”
मूलम्
पितामहोऽब्रवीच् चैनं भूतानि सृज मा चिरम् ॥ हरिकेशस् तथेत्य् उक्त्वा भूतानां दोष-दर्शीवान् ।
विश्वास-प्रस्तुतिः
दीर्घ-कालं तपस् तेपे मनोऽम्भसि महा-तपाः उदतिष्ठज् जलाज् ज्येष्ठः प्रजाश् चेमा ददर्श सः ।
En - Gemini 2.5
“The great ascetic performed austerity for a long time, in the mind-water. He, the eldest, rose from the water and saw these beings.”
मूलम्
दीर्घ-कालं तपस् तेपे मनोऽम्भसि महा-तपाः उदतिष्ठज् जलाज् ज्येष्ठः प्रजाश् चेमा ददर्श सः ।
विश्वास-प्रस्तुतिः
चुक्रोध भगवान् रुद्रो लिङ्गं स्वं [[प्२२]] चाप्य् अविध्यत ॥ तत् प्रविद्धं तथा भूमौ तथैव प्रत्यतिष्ठत” इत्यादिना युधिष्ठिरं प्रति कृष्ण-वचनेनाश्वत्थामा-राधित-रुद्रस्य ब्रह्म-पुत्रत्वोक्त्या च कृष्णाराधितस्यापि रुद्रस्य ब्रह्म-पुत्रत्वं स्थाणुत्वं च निष्प्रत्यूहम् ।
En - Gemini 2.5
“The venerable Rudra became angry and pierced His own Linga. That pierced Linga then stood firmly on the ground,” and so on, by Krishna’s statement to Yudhishthira, the sonhood of Brahma for Ashvatthama-worshipped Rudra is stated, and thus, the sonhood of Brahma and Sthanutva (immovability) of Rudra, who is also worshipped by Krishna, are unimpeded.
मूलम्
चुक्रोध भगवान् रुद्रो लिङ्गं स्वं [[प्२२]] चाप्य् अविध्यत ॥ तत् प्रविद्धं तथा भूमौ तथैव प्रत्यतिष्ठत” इत्यादिना युधिष्ठिरं प्रति कृष्ण-वचनेनाश्वत्थामा-राधित-रुद्रस्य ब्रह्म-पुत्रत्वोक्त्या च कृष्णाराधितस्यापि रुद्रस्य ब्रह्म-पुत्रत्वं स्थाणुत्वं च निष्प्रत्यूहम् ।
विश्वास-प्रस्तुतिः
तत्रैव द्रोण-पर्वोपात्याध्याये कृष्णस्य रुद्रार्चकत्वं रुद्र-स्तोतृत्वं रुद्राद् वर-ग्रहणं चोक्त्वा “स एष देवश् चरति मायया मोहयञ् जगत्” इति कृष्ण-कृत-रुद्रार्चन-रुद्र-स्तुति-वर-ग्रहणादिकं जगन्-मोहनार्थम् इत्य् उक्तम् ।
En - Gemini 2.5
In the same text, in the penultimate chapter of Drona Parva, after stating Krishna’s worship of Rudra, His praising of Rudra, and His receiving boons from Rudra, it is stated that “This god moves deluding the world with Maya,” implying that Krishna’s worship, praise, and boon-receiving from Rudra were for the purpose of deluding the world.
मूलम्
तत्रैव द्रोण-पर्वोपात्याध्याये कृष्णस्य रुद्रार्चकत्वं रुद्र-स्तोतृत्वं रुद्राद् वर-ग्रहणं चोक्त्वा “स एष देवश् चरति मायया मोहयञ् जगत्” इति कृष्ण-कृत-रुद्रार्चन-रुद्र-स्तुति-वर-ग्रहणादिकं जगन्-मोहनार्थम् इत्य् उक्तम् ।
विश्वास-प्रस्तुतिः
तद्-अध्यायान्ते “कृष्ण एव हि यष्टव्यो यज्ञैश् चैव सनातनः” इति कृष्णस्यैव हि यष्टव्यत्वम् एव-कारेण कृष्णान्य-रुद्रादेः यष्टव्यत्वाभाववत्त्वं चोक्तम् ।
En - Gemini 2.5
At the end of that chapter, it is stated, “Krishna alone is to be worshipped by sacrifices, and He is eternal,” thereby emphasizing that Krishna alone is to be worshipped, and, by the word ’eva,’ implying that Rudra and others, apart from Krishna, are not to be worshipped.
मूलम्
तद्-अध्यायान्ते “कृष्ण एव हि यष्टव्यो यज्ञैश् चैव सनातनः” इति कृष्णस्यैव हि यष्टव्यत्वम् एव-कारेण कृष्णान्य-रुद्रादेः यष्टव्यत्वाभाववत्त्वं चोक्तम् ।
विश्वास-प्रस्तुतिः
जगन्-मोहनार्थतां विनैव परमार्थत एव कृष्णर्चितत्वादि-स्वीकारे कृष्ण एव हि यष्टव्य इत्य् एव-कारेण कृष्णान्यस्य यष्टव्यत्व-निषेधः कथं संगच्छते ?
En - Gemini 2.5
If Krishna’s worship of Rudra etc. were truly accepted without the purpose of deluding the world, how would the prohibition of worshipping anyone other than Krishna, implied by the word ’eva’ in “Krishna alone is to be worshipped,” be consistent?
मूलम्
जगन्-मोहनार्थतां विनैव परमार्थत एव कृष्णर्चितत्वादि-स्वीकारे कृष्ण एव हि यष्टव्य इत्य् एव-कारेण कृष्णान्यस्य यष्टव्यत्व-निषेधः कथं संगच्छते ?
विश्वास-प्रस्तुतिः
एवं द्रोण-पर्वण्य् अन्त्याध्याये संग्रामे न्यहनं शत्रून् शरौघैर् विमलैर् अहम् ।
En - Gemini 2.5
Similarly, in the concluding chapter of Drona Parva, “In battle, I struck down enemies with pure arrows.”
मूलम्
एवं द्रोण-पर्वण्य् अन्त्याध्याये संग्रामे न्यहनं शत्रून् शरौघैर् विमलैर् अहम् ।
विश्वास-प्रस्तुतिः
अग्रतो लक्षये यान्तं पुरुषं पावक-प्रभम् ॥ भगवंस् तं ममाचक्ष्व को वै स पुरुषोत्तमः ।
En - Gemini 2.5
“I observe a fiery-splendored being going ahead. O Lord, tell me who that Purushottama (supreme being) is.”
मूलम्
अग्रतो लक्षये यान्तं पुरुषं पावक-प्रभम् ॥ भगवंस् तं ममाचक्ष्व को वै स पुरुषोत्तमः ।
विश्वास-प्रस्तुतिः
शूल-पाणिर् मया दृष्टस् तेजसा सूर्य-संनिभः इति व्यास-निकटेऽर्जुन-प्रश्नम् उपक्षिप्य ‘व्यास उवाच— प्रजापतीनां प्रथमं तेजसां पुरुषं प्रभुम् ।
En - Gemini 2.5
“I saw a trident-bearer, radiant like the sun.” After raising Arjuna’s question to Vyasa, ‘Vyasa said— “The foremost among creators, the Lord, the Purusha of splendors.”
मूलम्
शूल-पाणिर् मया दृष्टस् तेजसा सूर्य-संनिभः इति व्यास-निकटेऽर्जुन-प्रश्नम् उपक्षिप्य ‘व्यास उवाच— प्रजापतीनां प्रथमं तेजसां पुरुषं प्रभुम् ।
विश्वास-प्रस्तुतिः
ईशानं वरदं पार्थ दृष्टवान् असि शंकरम् ॥ महादेवं हरं स्थाणुं वरदं भुवनेश्वरम्’ इत्य् उपक्रम्य संग्रामे शात्रवान् निघ्नंस् त्वया दृष्टः पिनाक-धृक् ।
En - Gemini 2.5
“O Partha, you have seen Shankara, the ruler, the giver of boons, Mahadeva, Hara, Sthanu, the giver of boons, the lord of the world,” beginning thus, “In battle, you saw the Pinaka-bearer striking down enemies.”
मूलम्
ईशानं वरदं पार्थ दृष्टवान् असि शंकरम् ॥ महादेवं हरं स्थाणुं वरदं भुवनेश्वरम्’ इत्य् उपक्रम्य संग्रामे शात्रवान् निघ्नंस् त्वया दृष्टः पिनाक-धृक् ।
विश्वास-प्रस्तुतिः
सिन्धु-राज-वधार्थाय प्रतिज्ञाते त्वयानघ ॥ कृष्णेन दर्शितः स्वप्ने यस् तु शैलेन्द्र-मूर्धनि ।
En - Gemini 2.5
“O sinless one, you vowed to kill the king of Sindhu. The one shown by Krishna in a dream on the mountain peak.”
मूलम्
सिन्धु-राज-वधार्थाय प्रतिज्ञाते त्वयानघ ॥ कृष्णेन दर्शितः स्वप्ने यस् तु शैलेन्द्र-मूर्धनि ।
विश्वास-प्रस्तुतिः
एष वै भगवान् देवः संग्रामे याति तेऽग्रतः इत्य् अन्तेनार्जुन-संग्राम-दृष्ट-रुद्रस्य स्थाणुत्वं योगिनां परमं ब्रह्म व्यक्तं ब्रह्म-विदां निधिम् ।
En - Gemini 2.5
“This venerable deity goes before you in battle” - by this ending, the Sthanutva (immovability) of Rudra seen by Arjuna in battle is stated to be “the Supreme Brahman for Yogis, the manifest treasure of knowers of Brahman.”
मूलम्
एष वै भगवान् देवः संग्रामे याति तेऽग्रतः इत्य् अन्तेनार्जुन-संग्राम-दृष्ट-रुद्रस्य स्थाणुत्वं योगिनां परमं ब्रह्म व्यक्तं ब्रह्म-विदां निधिम् ।
विश्वास-प्रस्तुतिः
काल-केयं महात्मानं शुक्रं [[पूर्यगुणोदयम्/शूर्य-गुणोदयम्]] इति द्रोण-पर्वीयाशीतितमाध्यायोक्तार्जुन-स्वप्न-दृष्ट-कृष्ण-प्रदर्शित-रुद्र-रूपत्वं चोक्तम् ।
En - Gemini 2.5
And the form of Rudra, shown by Krishna in Arjuna’s dream, mentioned in the eightieth chapter of Drona Parva as “Kalakeya Mahatmanam Shukram Suryagunodayam,” is also stated.
मूलम्
काल-केयं महात्मानं शुक्रं [[पूर्यगुणोदयम्/शूर्य-गुणोदयम्]] इति द्रोण-पर्वीयाशीतितमाध्यायोक्तार्जुन-स्वप्न-दृष्ट-कृष्ण-प्रदर्शित-रुद्र-रूपत्वं चोक्तम् ।
विश्वास-प्रस्तुतिः
तेनार्जुन-स्वप्न-दृष्ट-रुद्रस्य स्थाणुत्वं संग्राम-पुरोवस्थित-रुद्रत्वं च सिध्यति ।
En - Gemini 2.5
By that, the Sthanutva (immovability) of Rudra seen by Arjuna in a dream, and His presence as Rudra in front of the battle, are established.
मूलम्
तेनार्जुन-स्वप्न-दृष्ट-रुद्रस्य स्थाणुत्वं संग्राम-पुरोवस्थित-रुद्रत्वं च सिध्यति ।
विश्वास-प्रस्तुतिः
संग्रामेऽर्जुन-पुरो-भाग-दृष्टस्य च मोक्ष-धर्म-द्विचत्वारिंशद्-अधिक-त्रिशततमाध्याये यस् तु ते सोऽग्रतो याति युद्धे संप्रत्य् उपस्थिते ।
En - Gemini 2.5
And concerning the one seen by Arjuna in the forefront of the battle, in the 342nd chapter of Mokshadharma, “He who goes before you in the battle that is now present.”
मूलम्
संग्रामेऽर्जुन-पुरो-भाग-दृष्टस्य च मोक्ष-धर्म-द्विचत्वारिंशद्-अधिक-त्रिशततमाध्याये यस् तु ते सोऽग्रतो याति युद्धे संप्रत्य् उपस्थिते ।
विश्वास-प्रस्तुतिः
तं विद्धि रुद्रं कौन्तेय देव-देवं कपर्दिनम् ॥ यश् च ते कथितः पूर्वं क्रोधजेति पुनः पुनः ।
En - Gemini 2.5
“Know him, O Kaunteya, to be Rudra, the God of gods, the Kapardin (one with matted hair). And he who was previously told to you repeatedly as born of wrath.”
मूलम्
तं विद्धि रुद्रं कौन्तेय देव-देवं कपर्दिनम् ॥ यश् च ते कथितः पूर्वं क्रोधजेति पुनः पुनः ।
विश्वास-प्रस्तुतिः
निहतास् तेन वै पूर्वं हतवान् असि वै रिपून् इत्य् अर्जुनं प्रति कृष्ण-वचनेन विष्णु-क्रोधजत्वं स्पष्टं कथितम् ।
En - Gemini 2.5
“Enemies were indeed slain by him previously, and you have verily slain them” - by Krishna’s statement to Arjuna, His origin from Vishnu’s wrath is clearly stated.
मूलम्
निहतास् तेन वै पूर्वं हतवान् असि वै रिपून् इत्य् अर्जुनं प्रति कृष्ण-वचनेन विष्णु-क्रोधजत्वं स्पष्टं कथितम् ।
विश्वास-प्रस्तुतिः
एवं मोक्ष-धर्मे चत्वारिंश- [[प्२३]] द्-अधिक-त्रिशततमाध्याये “अहम् आत्मा हि भूतानां विश्वेषां पाण्डु-नन्दन ।
En - Gemini 2.5
Similarly, in the 340th chapter of Moksha-dharma, “I am indeed the Self of all beings, O son of Pandu.”
मूलम्
एवं मोक्ष-धर्मे चत्वारिंश- [[प्२३]] द्-अधिक-त्रिशततमाध्याये “अहम् आत्मा हि भूतानां विश्वेषां पाण्डु-नन्दन ।
विश्वास-प्रस्तुतिः
तस्माद् आत्मानम् एवाग्रे रुद्रं संपूजयाम्य् अहम् ॥ न हि विष्णुः प्रणमति कस्मैचिद् विबुधाय वै ।
En - Gemini 2.5
“Therefore, I worship Rudra, who is Myself, first. Indeed, Vishnu does not bow down to any other deity.”
मूलम्
तस्माद् आत्मानम् एवाग्रे रुद्रं संपूजयाम्य् अहम् ॥ न हि विष्णुः प्रणमति कस्मैचिद् विबुधाय वै ।
विश्वास-प्रस्तुतिः
ऋते आत्मानम् एवैकं ततो रुद्रं नमाम्य् अहम्” इति (२३-२९) श्लोकाभ्यां कृष्णेनोक्तः ।
En - Gemini 2.5
“Except for the one Self, therefore I bow to Rudra” - thus spoken by Krishna in verses 23-29.
मूलम्
ऋते आत्मानम् एवैकं ततो रुद्रं नमाम्य् अहम्” इति (२३-२९) श्लोकाभ्यां कृष्णेनोक्तः ।
विश्वास-प्रस्तुतिः
आत्मत्वेन कृष्ण-पूजितत्व-तन्-नमस्कृतत्व-विशिष्ट-रुद्रो विष्णु-क्रोध-जन्य एव ।
En - Gemini 2.5
Rudra, who is worshipped and saluted by Krishna as His own Self, is indeed born from Vishnu’s wrath.
मूलम्
आत्मत्वेन कृष्ण-पूजितत्व-तन्-नमस्कृतत्व-विशिष्ट-रुद्रो विष्णु-क्रोध-जन्य एव ।
विश्वास-प्रस्तुतिः
तस्मिन्न् एवाध्यायोपक्रमे “नारायणाय विश्वाय निर्गुणाय गुणात्मने ।
En - Gemini 2.5
In the very beginning of that chapter, “To Narayana, the all-pervading, the attributeless, the self of attributes.”
मूलम्
तस्मिन्न् एवाध्यायोपक्रमे “नारायणाय विश्वाय निर्गुणाय गुणात्मने ।
विश्वास-प्रस्तुतिः
यस्य प्रसादजो ब्रह्मा रुद्रश् च क्रोध-संभवः ॥ एतौ द्वौ विबुध-श्रेष्ठौ प्रसाद-क्रोधजौ स्मृतौ ।
En - Gemini 2.5
“From whose grace Brahma is born, and Rudra is born from wrath. These two, the best of deities, are remembered as born from grace and wrath.”
मूलम्
यस्य प्रसादजो ब्रह्मा रुद्रश् च क्रोध-संभवः ॥ एतौ द्वौ विबुध-श्रेष्ठौ प्रसाद-क्रोधजौ स्मृतौ ।
विश्वास-प्रस्तुतिः
तदादेशित-पन्थानौ सृष्टि-संहार-कारकौ” इति (१२-१८) श्लोकाभ्यां रुद्रस्य चतुर्मुखस्येव नारायण-जन्यत्वम् उक्त्वा तस्यैव (२३-२९) श्लोकाभ्यां नारायणावतार-कृष्ण-पूजितत्व-नमस्कृतत्वोक्तेः ।
En - Gemini 2.5
“Following His commands, they are the creators and destroyers of the universe” (verses 12-18) - by these verses, stating Rudra’s origin from Narayana, just like the four-faced Brahma, and then by verses 23-29, His worship and salutation by Krishna, an incarnation of Narayana.
मूलम्
तदादेशित-पन्थानौ सृष्टि-संहार-कारकौ” इति (१२-१८) श्लोकाभ्यां रुद्रस्य चतुर्मुखस्येव नारायण-जन्यत्वम् उक्त्वा तस्यैव (२३-२९) श्लोकाभ्यां नारायणावतार-कृष्ण-पूजितत्व-नमस्कृतत्वोक्तेः ।
विश्वास-प्रस्तुतिः
कृष्ण-पूजितत्वम् अपि लोकार्थम् एव, न रुद्राद् वर-ग्रहणार्थम् ।
En - Gemini 2.5
Krishna’s worship (of Shiva) was also for the sake of the world, not for receiving boons from Rudra.
मूलम्
कृष्ण-पूजितत्वम् अपि लोकार्थम् एव, न रुद्राद् वर-ग्रहणार्थम् ।
विश्वास-प्रस्तुतिः
तस्मिन्न् एवाध्याये “न हि मे केनचिद् देयो वरः पाण्डव-नन्दन” इति (२७) श्लोकेन कृष्णे अन्याधीन-वर-दानस्य कृष्णेन प्रतिषिद्धत्वात् ।
En - Gemini 2.5
In the same chapter, by verse 27, “Indeed, no boon is to be given to me by anyone, O son of Pandu,” Krishna Himself prohibits the giving of boons dependent on others.
मूलम्
तस्मिन्न् एवाध्याये “न हि मे केनचिद् देयो वरः पाण्डव-नन्दन” इति (२७) श्लोकेन कृष्णे अन्याधीन-वर-दानस्य कृष्णेन प्रतिषिद्धत्वात् ।
विश्वास-प्रस्तुतिः
“स-ब्रह्मकाः स-रुद्राश् च स-इन्द्राः सर्वे महर्षयः ।
En - Gemini 2.5
“All the great sages, along with Brahma, Rudra, and Indra.”
मूलम्
“स-ब्रह्मकाः स-रुद्राश् च स-इन्द्राः सर्वे महर्षयः ।
विश्वास-प्रस्तुतिः
अर्चयन्ति सुर-श्रेष्ठं देवं नारायणं प्रभुम्” इति (३०) श्लोकेन उपसंहारे चतुर्मुखस्येव रुद्रस्यापि नारायणार्चकत्वोक्तेश् च ।
En - Gemini 2.5
“Worship the supreme deity, Lord Narayana” (verse 30) - and by this concluding verse, Rudra, like the four-faced Brahma, is also said to be a worshiper of Narayana.
मूलम्
अर्चयन्ति सुर-श्रेष्ठं देवं नारायणं प्रभुम्” इति (३०) श्लोकेन उपसंहारे चतुर्मुखस्येव रुद्रस्यापि नारायणार्चकत्वोक्तेश् च ।
विश्वास-प्रस्तुतिः
“मया प्रमाणं हि कृतं लोकस् तद् अनुवर्तते ।
En - Gemini 2.5
“Indeed, I have established a standard, and the world follows it.”
मूलम्
“मया प्रमाणं हि कृतं लोकस् तद् अनुवर्तते ।
विश्वास-प्रस्तुतिः
प्रमाणानीह पूज्यानि ततस् तं पूजयाम्य् अहम्” इति (२१) श्लोकेन कृष्णेनैव स्व-कृत-शिव-पूजादेर् लोकार्थत्व-स्फुटीकरणाच् च ।
En - Gemini 2.5
“Standards are to be worshipped here, therefore I worship Him” (verse 21) - and by this verse, Krishna Himself clarifies that His worship of Shiva and others was for the sake of the world.
मूलम्
प्रमाणानीह पूज्यानि ततस् तं पूजयाम्य् अहम्” इति (२१) श्लोकेन कृष्णेनैव स्व-कृत-शिव-पूजादेर् लोकार्थत्व-स्फुटीकरणाच् च ।
विश्वास-प्रस्तुतिः
रुद्रस्य कृष्णात्मत्वोक्तिः ‘अर्जुनः केशवस्यात्मा कृष्णश् चात्मा किरीटिनः ।
En - Gemini 2.5
The statement that Rudra is the Self of Krishna, similar to the passage in Vana Parva and other texts “Arjuna is the Self of Kesava, and Krishna is the Self of the Kirīṭin (Arjuna).”
मूलम्
रुद्रस्य कृष्णात्मत्वोक्तिः ‘अर्जुनः केशवस्यात्मा कृष्णश् चात्मा किरीटिनः ।
विश्वास-प्रस्तुतिः
एकात्मानौ द्विधा-भूतौ दृश्येते भुवि मानवौः’ इत्यादि-वन-पर्वादि-वचनैः अर्जुनस्येव कृष्णं प्रति रुद्रस्यापि विभूतित्वाभिप्राया, ‘पाण्डवानां धनंजयः’ इति गीतयार्जुनवत् ‘रुद्राणां शंकरश् चास्मि’ इति गीतया रुद्रस्यापि भगवद्-विभूतित्वोक्तेः ।
En - Gemini 2.5
“Two human beings, though one in Self, appear in two forms on earth” - this and other statements from Vana Parva imply that Rudra is a manifestation of Krishna, just as Arjuna is, and just as Arjuna is stated to be a manifestation of the Lord in the Gita “Among Pandavas, Dhananjaya,” so too is Rudra stated to be a manifestation of the Lord in the Gita “Among Rudras, I am Shankara.”
मूलम्
एकात्मानौ द्विधा-भूतौ दृश्येते भुवि मानवौः’ इत्यादि-वन-पर्वादि-वचनैः अर्जुनस्येव कृष्णं प्रति रुद्रस्यापि विभूतित्वाभिप्राया, ‘पाण्डवानां धनंजयः’ इति गीतयार्जुनवत् ‘रुद्राणां शंकरश् चास्मि’ इति गीतया रुद्रस्यापि भगवद्-विभूतित्वोक्तेः ।
विश्वास-प्रस्तुतिः
अन्यथा रुद्रस्य कृष्णं प्रति मुख्यात्मत्वोक्ति-स्वीकारे एतद्-अध्यायीय- “एतौ द्वौ विबुध-श्रेष्ठौ प्रसाद-क्रोधजौ स्मृतौ ।
En - Gemini 2.5
Otherwise, if Rudra is accepted as the primary Self of Krishna, then in this very chapter, “These two, the best of deities, are remembered as born from grace and wrath.”
मूलम्
अन्यथा रुद्रस्य कृष्णं प्रति मुख्यात्मत्वोक्ति-स्वीकारे एतद्-अध्यायीय- “एतौ द्वौ विबुध-श्रेष्ठौ प्रसाद-क्रोधजौ स्मृतौ ।
विश्वास-प्रस्तुतिः
तदादेशित-पन्थानौ सृष्टि-संहार-कारको ॥ स-ब्रह्मकाः स-रुद्राश् च स-इन्द्राः सर्वे महर्षयः ।
En - Gemini 2.5
“Following His commands, they are the creators and destroyers of the universe. All the great sages, along with Brahma, Rudra, and Indra.”
मूलम्
तदादेशित-पन्थानौ सृष्टि-संहार-कारको ॥ स-ब्रह्मकाः स-रुद्राश् च स-इन्द्राः सर्वे महर्षयः ।
विश्वास-प्रस्तुतिः
अर्चयन्ति सुर-श्रेष्ठं देवं नारायणं प्रभुम्” इत्य् उपक्रमोपसंहारोक्त-विष्णु-जन्यत्व-विष्ण्व्-अर्चकत्वोक्ति-विरोधापत्तेः ।
En - Gemini 2.5
“Worship the supreme deity, Lord Narayana” - there would be a contradiction with the statements of Vishnu’s origin and worship by Vishnu, as stated at the beginning and end of the chapter.
मूलम्
अर्चयन्ति सुर-श्रेष्ठं देवं नारायणं प्रभुम्” इत्य् उपक्रमोपसंहारोक्त-विष्णु-जन्यत्व-विष्ण्व्-अर्चकत्वोक्ति-विरोधापत्तेः ।
विश्वास-प्रस्तुतिः
उपक्रमोपसंहारानुरोधेन मध्य-वाक्यानाम् अर्थो वक्तव्य इत्यस्य पूर्व-तन्त्रादि-न्याय-सिद्धत्वात् ।
En - Gemini 2.5
Because the principle that the meaning of intermediate passages should be explained in accordance with the beginning and end is established by the Nyaya (logic) of Purva Mimamsa and other schools.
मूलम्
उपक्रमोपसंहारानुरोधेन मध्य-वाक्यानाम् अर्थो वक्तव्य इत्यस्य पूर्व-तन्त्रादि-न्याय-सिद्धत्वात् ।
विश्वास-प्रस्तुतिः
न हि शंकरो भगवद्-वि- [[प्२४]] भूतिर् एकादश-रुद्रान्तर्गतः, हरिवंशादाव् एकादश-रुद्र-परिगणने शंकरस्यागणनात् ।
En - Gemini 2.5
Indeed, Shankara, a manifestation of the Lord, is not included among the eleven Rudras, as Shankara is not enumerated in the list of eleven Rudras in Harivamsa and other texts.
मूलम्
न हि शंकरो भगवद्-वि- [[प्२४]] भूतिर् एकादश-रुद्रान्तर्गतः, हरिवंशादाव् एकादश-रुद्र-परिगणने शंकरस्यागणनात् ।
विश्वास-प्रस्तुतिः
स्थाणु-संज्ञा च भगवद्-उत्पन्न-ब्रह्म-मनु-दक्षाद्य्-एकविंशति-प्रजापत्य्-अन्तर्गतस्यैव प्रजापति-रुद्रस्य मोक्ष-धर्म-चतुस्-त्रिंशद्-अधिक-त्रिशततमाध्याये “ब्रह्मा स्थाणुर् मनुर् दक्षो भृगुर् धर्मस् तथा यमः”, “एक-विंशतिर् उत्पन्नास् ते प्रजापतयः स्मृताः ।
En - Gemini 2.5
The name Sthanu refers only to the Prajapati-Rudra who is included among the twenty-one Prajapatis like Brahma, Manu, Daksha, etc., born from the Lord, as stated in the 334th chapter of Mokshadharma: “Brahma, Sthanu, Manu, Daksha, Bhrigu, Dharma, and Yama,” “Twenty-one Prajapatis are remembered as having originated.”
मूलम्
स्थाणु-संज्ञा च भगवद्-उत्पन्न-ब्रह्म-मनु-दक्षाद्य्-एकविंशति-प्रजापत्य्-अन्तर्गतस्यैव प्रजापति-रुद्रस्य मोक्ष-धर्म-चतुस्-त्रिंशद्-अधिक-त्रिशततमाध्याये “ब्रह्मा स्थाणुर् मनुर् दक्षो भृगुर् धर्मस् तथा यमः”, “एक-विंशतिर् उत्पन्नास् ते प्रजापतयः स्मृताः ।
विश्वास-प्रस्तुतिः
तस्य देवस्य मर्यादां पूजयन्तः सनातनीम्” इति भगवद्-उत्पन्न-प्रजापतावेव निर्देशात् द्रोण-पर्वान्त्याध्याये स्थाणु-शब्द-निर्दिष्ट-रुद्रस्य “प्रजापतीनां प्रवरम्” इति प्रजापतित्वोक्तेश् च ।
En - Gemini 2.5
“Worshipping the eternal rule of that deity” - because of this specific mention of the Prajapati born from the Lord, and because the Rudra referred to as Sthanu in the concluding chapter of Drona Parva is stated to be “the foremost among Prajapatis” (Prajapatinam pravaram).
मूलम्
तस्य देवस्य मर्यादां पूजयन्तः सनातनीम्” इति भगवद्-उत्पन्न-प्रजापतावेव निर्देशात् द्रोण-पर्वान्त्याध्याये स्थाणु-शब्द-निर्दिष्ट-रुद्रस्य “प्रजापतीनां प्रवरम्” इति प्रजापतित्वोक्तेश् च ।
विश्वास-प्रस्तुतिः
राज-धर्मे दण्ड-नीत्य्-अध्याये “बहु-रूपो विशालाक्षः शिवः स्थाणुर् उमापतिः ।
En - Gemini 2.5
In the chapter on Rajadharma and Dandaniti, “Of many forms, large-eyed, Shiva, Sthanu, husband of Uma.”
मूलम्
राज-धर्मे दण्ड-नीत्य्-अध्याये “बहु-रूपो विशालाक्षः शिवः स्थाणुर् उमापतिः ।
विश्वास-प्रस्तुतिः
सृष्ट्यर्थं ब्रह्मणः पुत्रो ललाटाद् उत्थितः प्रभुः” इति ब्रह्म-पुत्र-रुद्रे स्थाणु-शब्दः, स्व-पुत्र-रुद्रं प्रति “अहं प्रसादजस् तस्य कस्मिंश् चित् कारणान्तरे ।
En - Gemini 2.5
“The son of Brahma, the Lord who rose from His forehead for creation” - the word Sthanu is used for this Rudra, the son of Brahma; and regarding His own son, Rudra, “I am born from His grace for some reason.”
मूलम्
सृष्ट्यर्थं ब्रह्मणः पुत्रो ललाटाद् उत्थितः प्रभुः” इति ब्रह्म-पुत्र-रुद्रे स्थाणु-शब्दः, स्व-पुत्र-रुद्रं प्रति “अहं प्रसादजस् तस्य कस्मिंश् चित् कारणान्तरे ।
विश्वास-प्रस्तुतिः
त्वं चैव क्रोधजस् तात पूर्व-सर्गे सनातनात्” इति मोक्ष-धर्म-नारायणीय-नाम-निर्वचनाध्याय-गत-चतुर्मुख-वचनेन पूर्व-युगे नारायणोत्पन्नस्यैव वर्तमान-युगे ब्रह्म-पुत्रत्वावगत्या स्थाणु-संज्ञा-संभवाद् उपपन्नः ।
En - Gemini 2.5
“And you, O dear one, are born of wrath from the eternal one in a previous creation” - by this statement of the four-faced Brahma in the chapter on the etymology of Narayana’s names in Mokshadharma, it is understood that one who originated from Narayana in a previous Yuga is now born as Brahma’s son in the current Yuga, and thus the appellation Sthanu is appropriate and possible.
मूलम्
त्वं चैव क्रोधजस् तात पूर्व-सर्गे सनातनात्” इति मोक्ष-धर्म-नारायणीय-नाम-निर्वचनाध्याय-गत-चतुर्मुख-वचनेन पूर्व-युगे नारायणोत्पन्नस्यैव वर्तमान-युगे ब्रह्म-पुत्रत्वावगत्या स्थाणु-संज्ञा-संभवाद् उपपन्नः ।
विश्वास-प्रस्तुतिः
यत्र विष्णुः प्रसादार्थं रुद्रम् आराधयत् पुरा ।
En - Gemini 2.5
Where Vishnu worshipped Rudra for grace in the past.
मूलम्
यत्र विष्णुः प्रसादार्थं रुद्रम् आराधयत् पुरा ।
विश्वास-प्रस्तुतिः
वरांश् च सु-बहूल् लेमे दैवतैश् च सु-दुर्लभान् ॥ उक्तं च त्रिपुरघ्नेन परितुष्टेन भारत ।
En - Gemini 2.5
And received many boons, very difficult to obtain even for the gods. And it was said by Tripuraghna (Shiva), who was pleased, O Bharata.
मूलम्
वरांश् च सु-बहूल् लेमे दैवतैश् च सु-दुर्लभान् ॥ उक्तं च त्रिपुरघ्नेन परितुष्टेन भारत ।
विश्वास-प्रस्तुतिः
अपि चास्मत्-प्रियतरो लोके कृष्ण भविष्यसि इति आरण्य-पर्व-तीर्थ-यात्रा-वचनेन कथित-रुद्राराधक-विष्णुः न मूल-विष्णुः किं त्व् अवतार-विष्णुः, “कृष्ण भविष्यसि” इति तस्य कृष्णत्वोक्तेः ।
En - Gemini 2.5
“And you will be dearer to us in the world, O Krishna” - by this statement from the Tirthayatra section of Aranyaka Parva, the Vishnu said to be the worshiper of Rudra is not the original Vishnu, but rather an incarnate Vishnu, because He is referred to as Krishna, “you will be Krishna.”
मूलम्
अपि चास्मत्-प्रियतरो लोके कृष्ण भविष्यसि इति आरण्य-पर्व-तीर्थ-यात्रा-वचनेन कथित-रुद्राराधक-विष्णुः न मूल-विष्णुः किं त्व् अवतार-विष्णुः, “कृष्ण भविष्यसि” इति तस्य कृष्णत्वोक्तेः ।
विश्वास-प्रस्तुतिः
कृष्णाराध्यत्वं तु कृष्णापेक्षया रुद्रस्यापकर्षस्यैव साधकं, रामाराध्य-भरद्वाज-शरभङ्गेन्द्रादिष्व् इव कृष्णाराध्योदङ्क-दुर्वासः-प्रभृतिषु तथा दर्शनात् ।
En - Gemini 2.5
However, being worshipped by Krishna is only an indicator of Rudra’s inferiority compared to Krishna, just as it is seen in Bharadvaja, Sharabhanga, Indra, etc., who were worshipped by Rama, and in Udanka, Durvasas, etc., who were worshipped by Krishna.
मूलम्
कृष्णाराध्यत्वं तु कृष्णापेक्षया रुद्रस्यापकर्षस्यैव साधकं, रामाराध्य-भरद्वाज-शरभङ्गेन्द्रादिष्व् इव कृष्णाराध्योदङ्क-दुर्वासः-प्रभृतिषु तथा दर्शनात् ।
विश्वास-प्रस्तुतिः
एवं कृष्णस्यावतारस्य धर्म-प्रजापति-पुत्रस्य नराग्रज-नारायणस्यावतारस्य च वर-दातापि राम-वर-दात्रिन्द्रवत् कृष्णाद्य्-अपकृष्ट एव, दुर्वास-आदिषु तथा दर्शनात् ।
En - Gemini 2.5
Similarly, the giver of boons to Krishna’s incarnation, and to the incarnation of Narayana, the elder brother of Nara, who is the son of Dharma Prajapati, is also inferior to Krishna and others, just like Indra who gave boons to Rama, as seen in Durvasas and others.
मूलम्
एवं कृष्णस्यावतारस्य धर्म-प्रजापति-पुत्रस्य नराग्रज-नारायणस्यावतारस्य च वर-दातापि राम-वर-दात्रिन्द्रवत् कृष्णाद्य्-अपकृष्ट एव, दुर्वास-आदिषु तथा दर्शनात् ।
विश्वास-प्रस्तुतिः
न च राज-धर्मे दुर्गातितरणाध्याये “यं विष्णुर् इन्द्रः शंभुश् च ब्रह्मा लोक-पितामहः ।
En - Gemini 2.5
Nor can it be argued that in the Rajadharma, in the chapter on Overcoming Difficulties, the verse “Whom Vishnu, Indra, Shambhu, and Brahma, the grandfather of the worlds.”
मूलम्
न च राज-धर्मे दुर्गातितरणाध्याये “यं विष्णुर् इन्द्रः शंभुश् च ब्रह्मा लोक-पितामहः ।
विश्वास-प्रस्तुतिः
स्तुवन्ति विविधैः स्तोत्रैर् देव-देवं महेश्वरम् ॥ तम् अर्चयन्ति ये शश्वद् दुर्गाण्य् अतितरन्ति ते” इति वचनं, आनुशासनिक-पर्वणि वसु-होम-मांधातृ-संवादे “ईश्वरश् चेतनः कर्ता पुरुषः कारणं शिवः ।
En - Gemini 2.5
“Praise with various hymns, the God of gods, Maheshvara. Those who constantly worship Him overcome difficulties” - this statement, and in the Anushasanika Parva, in the dialogue between Vasu, Homa, and Mandhatri, “Ishvara (the Lord), the conscious, the agent, Purusha (the supreme being), the cause, Shiva.”
मूलम्
स्तुवन्ति विविधैः स्तोत्रैर् देव-देवं महेश्वरम् ॥ तम् अर्चयन्ति ये शश्वद् दुर्गाण्य् अतितरन्ति ते” इति वचनं, आनुशासनिक-पर्वणि वसु-होम-मांधातृ-संवादे “ईश्वरश् चेतनः कर्ता पुरुषः कारणं शिवः ।
विश्वास-प्रस्तुतिः
विष्णुर् ब्रह्मा शशी सूर्यः शक्रो देवाश् च सान्वयाः ॥ सृजते ग्रसते चेदं तमो-भृतम् इदं जगत् ।
En - Gemini 2.5
“Vishnu, Brahma, the moon, the sun, Indra, and the gods along with their descendants. He creates and devours this world filled with darkness.”
मूलम्
विष्णुर् ब्रह्मा शशी सूर्यः शक्रो देवाश् च सान्वयाः ॥ सृजते ग्रसते चेदं तमो-भृतम् इदं जगत् ।
विश्वास-प्रस्तुतिः
अप्रज्ञातं जगत् सर्वं [[प्२५]] तदा ह्य् एको महेश्वरः” इति वचनं च त्रि-मूर्त्य्-उत्तीर्ण-तुरीय-शिवे प्रमाणम् इति वाच्यं; नीलकण्ठ-मिश्र-व्याख्याते उत्तर-देश-महा-भारत-कोशे त्वद्-उदाहृत-वचनादर्शनेन तद्-वचनानां प्रक्षिप्तत्वात् दाक्षिणात्य-कोश-सत्त्वोत्तर-देश-कोशासत्त्वाभ्यां तद्-वचनानाम् अस्तित्व-नास्तित्व-शङ्का-कलङ्कितत्वेन निश्चित-प्रमाणत्वाभावाच् च ।
En - Gemini 2.5
“The entire unmanifest world. Indeed, then, only Maheshvara exists alone” - these verses should not be considered as authoritative proof for a Turiya Shiva (the fourth state beyond the three) transcending the Trimurti (Brahma, Vishnu, Shiva); because these verses are not found in the Mahabharata texts of the northern region commented upon by Nilakantha Mishra, indicating their interpolation, and due to the presence of these verses in southern manuscripts and their absence in northern manuscripts, these verses are stained with doubt regarding their existence and non-existence, and therefore lack definitive authoritative proof.
मूलम्
अप्रज्ञातं जगत् सर्वं [[प्२५]] तदा ह्य् एको महेश्वरः” इति वचनं च त्रि-मूर्त्य्-उत्तीर्ण-तुरीय-शिवे प्रमाणम् इति वाच्यं; नीलकण्ठ-मिश्र-व्याख्याते उत्तर-देश-महा-भारत-कोशे त्वद्-उदाहृत-वचनादर्शनेन तद्-वचनानां प्रक्षिप्तत्वात् दाक्षिणात्य-कोश-सत्त्वोत्तर-देश-कोशासत्त्वाभ्यां तद्-वचनानाम् अस्तित्व-नास्तित्व-शङ्का-कलङ्कितत्वेन निश्चित-प्रमाणत्वाभावाच् च ।
विश्वास-प्रस्तुतिः
किं च द्रोण-पर्वणि अन्त्याध्याये अर्जुन उवाच—संग्रामे न्यहनं शत्रून् शरौघैर् विमलैर् अहम् ।
En - Gemini 2.5
Furthermore, in the concluding chapter of Drona Parva, Arjuna said, “In battle, I struck down enemies with pure arrows.”
मूलम्
किं च द्रोण-पर्वणि अन्त्याध्याये अर्जुन उवाच—संग्रामे न्यहनं शत्रून् शरौघैर् विमलैर् अहम् ।
विश्वास-प्रस्तुतिः
अग्रतो लक्षये यान्तं पुरुषं पावक-प्रभम् ॥ ज्वलन्तं शूलम् उद्यम्य यां दिशं प्रतिपद्यते ।
En - Gemini 2.5
“I perceive a fiery-radiant being going before me. Wielding a flaming spear, whichever direction he faces.”
मूलम्
अग्रतो लक्षये यान्तं पुरुषं पावक-प्रभम् ॥ ज्वलन्तं शूलम् उद्यम्य यां दिशं प्रतिपद्यते ।
विश्वास-प्रस्तुतिः
तस्यां दिशि विशीर्यन्ते शत्रवो मे महा-मुने ॥ तेन भग्नानरीन् सर्वान् मद्-भग्नान् मन्यते जनः ।
En - Gemini 2.5
“In that direction, my enemies disintegrate, O great sage. People consider all enemies broken by him as broken by me.”
मूलम्
तस्यां दिशि विशीर्यन्ते शत्रवो मे महा-मुने ॥ तेन भग्नानरीन् सर्वान् मद्-भग्नान् मन्यते जनः ।
विश्वास-प्रस्तुतिः
भगवंस् तन् ममाचक्ष्व को वै स पुरुषोत्तमः ॥ व्यास उवाच—प्रजापतीनां प्रथमं तेजसां पुरुषं प्रभुम् ।
En - Gemini 2.5
“O Lord, tell me who that Purushottama (Supreme Being) is.” Vyasa said, “The foremost among creators, the Lord, the Purusha of splendors.”
मूलम्
भगवंस् तन् ममाचक्ष्व को वै स पुरुषोत्तमः ॥ व्यास उवाच—प्रजापतीनां प्रथमं तेजसां पुरुषं प्रभुम् ।
विश्वास-प्रस्तुतिः
भुवनं भूर्-भुवं देवं सर्व-लोकेश्वरं प्रभुम् ॥ ईशानं वरदं पार्थ दृष्टवान् असि शंकरम् ।
En - Gemini 2.5
“The divine Lord, the earth and the firmament, the Lord of all worlds. O Partha, you have seen Shankara, the ruler, the giver of boons.”
मूलम्
भुवनं भूर्-भुवं देवं सर्व-लोकेश्वरं प्रभुम् ॥ ईशानं वरदं पार्थ दृष्टवान् असि शंकरम् ।
विश्वास-प्रस्तुतिः
तं गच्छ शरणं देवं वरदं भुवनेश्वरम् इत्यदिनार्जुन-प्रश्न-व्यास-प्रतिवचनाभ्यां युद्ध-कालेऽर्जुनस्य पुरतः शूलेन शत्रून् निघ्नन् दृष्टः पुरुषः शंकर इति स्पष्टम् उक्तम् ।
En - Gemini 2.5
“Go to that divine Lord for refuge, the giver of boons, the lord of the world” - by these questions of Arjuna and answers of Vyasa, it is clearly stated that the being seen by Arjuna in front of him, striking down enemies with a spear during the battle, is Shankara.
मूलम्
तं गच्छ शरणं देवं वरदं भुवनेश्वरम् इत्यदिनार्जुन-प्रश्न-व्यास-प्रतिवचनाभ्यां युद्ध-कालेऽर्जुनस्य पुरतः शूलेन शत्रून् निघ्नन् दृष्टः पुरुषः शंकर इति स्पष्टम् उक्तम् ।
विश्वास-प्रस्तुतिः
तादृशस्य युद्ध-भूमाव् अवस्थितस्य शूल-पाणि-रुद्रस्य परत्वाधायका बहवो गुणा अनन्तरं कथिताः ।
En - Gemini 2.5
Many qualities that establish the supremacy of such a trident-wielding Rudra, who was present on the battlefield, are then enumerated.
मूलम्
तादृशस्य युद्ध-भूमाव् अवस्थितस्य शूल-पाणि-रुद्रस्य परत्वाधायका बहवो गुणा अनन्तरं कथिताः ।
विश्वास-प्रस्तुतिः
तद् अनन्तरं एष देवो महादेवो योऽसौ पार्थ तवाग्रतः ।
En - Gemini 2.5
After that, “This god, Mahadeva, who is before you, O Partha.”
मूलम्
तद् अनन्तरं एष देवो महादेवो योऽसौ पार्थ तवाग्रतः ।
विश्वास-प्रस्तुतिः
संग्रामे शात्रवान् निघ्नंस् त्वया दृष्टः पिनाक-धृक् ॥ सिन्धु-राज-वधार्थाय प्रतिज्ञाते त्वयानघ ।
En - Gemini 2.5
“You saw the Pinaka-bearer striking down enemies in battle. O sinless one, you vowed to kill the king of Sindhu.”
मूलम्
संग्रामे शात्रवान् निघ्नंस् त्वया दृष्टः पिनाक-धृक् ॥ सिन्धु-राज-वधार्थाय प्रतिज्ञाते त्वयानघ ।
विश्वास-प्रस्तुतिः
कृष्णेन दर्शितः स्वप्ने यस् तु शैलेन्द्र-मूर्धनि ॥ एष वै भगवान् देवः संग्रामे याति तेऽग्रतः इत्य् उपसंहृतम् ।
En - Gemini 2.5
“The one shown by Krishna in a dream on the mountain peak. This venerable deity goes before you in battle,” thus it concludes.
मूलम्
कृष्णेन दर्शितः स्वप्ने यस् तु शैलेन्द्र-मूर्धनि ॥ एष वै भगवान् देवः संग्रामे याति तेऽग्रतः इत्य् उपसंहृतम् ।
विश्वास-प्रस्तुतिः
तेन चोपसंहारेण प्रस्तुतस्यार्जुन-दृष्टस्यार्जुन-दृष्ट-स्वाप्निक-रुद्रत्वं प्रतीयते ।
En - Gemini 2.5
By this conclusion, it is perceived that the Rudra presented as seen by Arjuna is the dream-Rudra seen by Arjuna.
मूलम्
तेन चोपसंहारेण प्रस्तुतस्यार्जुन-दृष्टस्यार्जुन-दृष्ट-स्वाप्निक-रुद्रत्वं प्रतीयते ।
विश्वास-प्रस्तुतिः
तद्-अध्याय-मध्ये चराचरस्य जगतः प्रभुः स भगवान् हरः ।
En - Gemini 2.5
In the middle of that chapter, “He, the venerable Hara, is the Lord of the movable and immovable world.”
मूलम्
तद्-अध्याय-मध्ये चराचरस्य जगतः प्रभुः स भगवान् हरः ।
विश्वास-प्रस्तुतिः
तस्मात् परतरं नान्यत् किंचिद् अस्ति महेश्वरात् इति संग्राम-दृष्ट-रुद्राद् उत्तमं वस्तु नास्त्य् एवेति स्पष्टं कथितम् ।
En - Gemini 2.5
“There is nothing superior to Maheshvara” - it is clearly stated that there is no superior entity than Rudra seen in battle.
मूलम्
तस्मात् परतरं नान्यत् किंचिद् अस्ति महेश्वरात् इति संग्राम-दृष्ट-रुद्राद् उत्तमं वस्तु नास्त्य् एवेति स्पष्टं कथितम् ।
विश्वास-प्रस्तुतिः
मोक्ष-धर्मे नारायणीये द्विचत्वारिंशद्-अधिक-त्रिशततमाध्याये यस् तु ते सोऽग्रतो याति युद्धे संप्रत्य् उपस्थिते ।
En - Gemini 2.5
In the 342nd chapter of Mokshadharma, in the Narayaniya section: “He who goes before you in the battle that is now present.”
मूलम्
मोक्ष-धर्मे नारायणीये द्विचत्वारिंशद्-अधिक-त्रिशततमाध्याये यस् तु ते सोऽग्रतो याति युद्धे संप्रत्य् उपस्थिते ।
विश्वास-प्रस्तुतिः
तं रुद्रं विद्धि कौन्तेय देव-देवं कपर्दिनम् ॥ कालः स एव कथितः क्रोधजेति मया तव ।
En - Gemini 2.5
“Know him, O Kaunteya, to be Rudra, the God of gods, the Kapardin (one with matted hair). He was told to you by me as Time, born of wrath.”
मूलम्
तं रुद्रं विद्धि कौन्तेय देव-देवं कपर्दिनम् ॥ कालः स एव कथितः क्रोधजेति मया तव ।
विश्वास-प्रस्तुतिः
निहतास् तेन वै पूर्वं हतवान् असि वै रिपून् ॥ अप्रमेय-प्रभावं तं देव-देवम् उमापतिम् ।
En - Gemini 2.5
“Enemies were indeed slain by him previously, and you have verily slain them. That god of gods, husband of Uma, of immeasurable power.”
मूलम्
निहतास् तेन वै पूर्वं हतवान् असि वै रिपून् ॥ अप्रमेय-प्रभावं तं देव-देवम् उमापतिम् ।
विश्वास-प्रस्तुतिः
नमस्व देवं प्रयतो विश्वेशं हरम् अक्षयम् ॥ यश् च ते कथितः पूर्वं क्रोधजेति पुनः पुनः इत्यदिना संग्राम-पुरो-भाग-दृष्ट-शत्रु-वध-युक्त-रुद्रस्य [[प्२६]] नारायण-क्रोध-जन्यत्वम् उक्तम् ।
En - Gemini 2.5
“Salute the god, the ruler of the universe, Hara, the imperishable, with devotion. And he who was previously told to you repeatedly as born of wrath” - by these passages, the Rudra seen in the forefront of battle, accompanied by the slaying of enemies, is stated to be born from Narayana’s wrath.
मूलम्
नमस्व देवं प्रयतो विश्वेशं हरम् अक्षयम् ॥ यश् च ते कथितः पूर्वं क्रोधजेति पुनः पुनः इत्यदिना संग्राम-पुरो-भाग-दृष्ट-शत्रु-वध-युक्त-रुद्रस्य [[प्२६]] नारायण-क्रोध-जन्यत्वम् उक्तम् ।
विश्वास-प्रस्तुतिः
तादृश-क्रोध-जन्यत्वस्यौपचारिकत्व-शङ्कां व्यावर्त्य वास्तवत्व-प्रदर्शनार्थं पुनः पुनर् इति क्रोध-जन्यत्वे पौनः-पुन्येन कथितत्वम् उक्तम् ।
En - Gemini 2.5
To dispel the doubt of such wrath-born nature being merely figurative and to demonstrate its reality, it is repeatedly stated as “again and again” regarding His wrath-born nature.
मूलम्
तादृश-क्रोध-जन्यत्वस्यौपचारिकत्व-शङ्कां व्यावर्त्य वास्तवत्व-प्रदर्शनार्थं पुनः पुनर् इति क्रोध-जन्यत्वे पौनः-पुन्येन कथितत्वम् उक्तम् ।
विश्वास-प्रस्तुतिः
तथा चोदाहृत-मोक्ष-धर्म-ग्रन्थेन संग्रामाग्र-वर्ति-शत्रु-हनन-युक्तार्जुन-दृष्ट-क्रोध-ज-रुद्रापेक्षया उत्कृष्ट-वस्त्व्-अन्तर-निषेधक-वाक्य-घटित-निकृष्ट-रुद्र-पर-स्थाणु-पद-घटित-द्रोण-पर्वान्त्याध्यायोपान्त्याध्याय-ग्रन्थस्यात्यन्त-विरुद्धार्थतयानादरणीयत्वं प्रक्षिप्तत्वं वा वक्तव्यम् ।
En - Gemini 2.5
Thus, the text of the penultimate and ultimate chapters of Drona Parva, which contains the word Sthanu referring to an inferior Rudra and includes passages prohibiting the existence of any entity superior to the wrath-born Rudra seen by Arjuna, who was engaged in slaying enemies in the forefront of the battle, is to be regarded as having a completely contradictory meaning compared to the cited Mokshadharma text, and therefore should be considered either unreliable or interpolated.
मूलम्
तथा चोदाहृत-मोक्ष-धर्म-ग्रन्थेन संग्रामाग्र-वर्ति-शत्रु-हनन-युक्तार्जुन-दृष्ट-क्रोध-ज-रुद्रापेक्षया उत्कृष्ट-वस्त्व्-अन्तर-निषेधक-वाक्य-घटित-निकृष्ट-रुद्र-पर-स्थाणु-पद-घटित-द्रोण-पर्वान्त्याध्यायोपान्त्याध्याय-ग्रन्थस्यात्यन्त-विरुद्धार्थतयानादरणीयत्वं प्रक्षिप्तत्वं वा वक्तव्यम् ।
विश्वास-प्रस्तुतिः
किं च प्रक्षिप्तत्वम् अन्त्याध्याय-ग्रन्थस्यैव कृत्स्नस्य न्याय्यम् ।
En - Gemini 2.5
Moreover, the interpolation of the entire concluding chapter is alone justifiable.
मूलम्
किं च प्रक्षिप्तत्वम् अन्त्याध्याय-ग्रन्थस्यैव कृत्स्नस्य न्याय्यम् ।
विश्वास-प्रस्तुतिः
अर्जुनेन व्यासेन च संग्राम-दृष्ट-रुद्रस्य स्वप्न-काले स्वप्न-दृङ्-मात्रानुभाव्य-स्वाप्निकार्जुन-दृष्ट-रुद्राभिन्नत्वस्य बाधितत्वेन प्रक्षिप्तत्व-योग्यत्वात् ।
En - Gemini 2.5
Because the identity of the Rudra seen in battle by Arjuna and Vyasa with the dream-Rudra seen by Arjuna in his dream, which is perceivable only by the dreamer, is contradicted, making it suitable for interpolation.
मूलम्
अर्जुनेन व्यासेन च संग्राम-दृष्ट-रुद्रस्य स्वप्न-काले स्वप्न-दृङ्-मात्रानुभाव्य-स्वाप्निकार्जुन-दृष्ट-रुद्राभिन्नत्वस्य बाधितत्वेन प्रक्षिप्तत्व-योग्यत्वात् ।
विश्वास-प्रस्तुतिः
न हि स्वप्न-दृष्टो रथ-तुरगादिः प्रतिबुद्धेन द्रष्टुं शक्यते ।
En - Gemini 2.5
Indeed, chariots, horses, etc., seen in a dream, cannot be seen by one who has awakened.
मूलम्
न हि स्वप्न-दृष्टो रथ-तुरगादिः प्रतिबुद्धेन द्रष्टुं शक्यते ।
विश्वास-प्रस्तुतिः
“बाध्यन्ते चैते रथादयः स्वप्न-दृष्टाः प्रबोधे” इति “वैलक्षण्याच् च न स्वप्नादिवत्” इति-सूत्र-भगवत्-पादीय-तद्-भाष्य-प्रामाण्यात् लोके स्वप्न-दृष्टस्य जाग्रति दर्शनाभावाच् च ।
En - Gemini 2.5
Because of the authority of the Bhagavatpada’s commentary on the sutra “Badhyante caite rathadayah svapna-drshtah prabodhe” (These chariots and others seen in dreams are contradicted upon awakening) and “Vailakshanyac ca na svapnadivat” (And because of difference, not like dreams, etc.), and because things seen in a dream are not seen in the waking state in the world.
मूलम्
“बाध्यन्ते चैते रथादयः स्वप्न-दृष्टाः प्रबोधे” इति “वैलक्षण्याच् च न स्वप्नादिवत्” इति-सूत्र-भगवत्-पादीय-तद्-भाष्य-प्रामाण्यात् लोके स्वप्न-दृष्टस्य जाग्रति दर्शनाभावाच् च ।
विश्वास-प्रस्तुतिः
स्वप्ने यद् यद् दृश्यते तत् सर्वं प्रातिभासिकं मिथ्या-भूतम् इति शंकर-भगवत्-पाद-भाष्ये “माया-मात्रं तु कात्स्न्येनानभिव्यक्त-स्वरूपत्वात्” इति सूत्रे स्पष्टं लिखितम् ।
En - Gemini 2.5
Whatever is seen in a dream is all apparent and illusory, as clearly written in Shankara-Bhagavatpada’s commentary on the sutra “Maya-matram tu kartsnyenanabhivyaktasvarupatvat” (It is merely illusion, because its nature is not fully manifested).
मूलम्
स्वप्ने यद् यद् दृश्यते तत् सर्वं प्रातिभासिकं मिथ्या-भूतम् इति शंकर-भगवत्-पाद-भाष्ये “माया-मात्रं तु कात्स्न्येनानभिव्यक्त-स्वरूपत्वात्” इति सूत्रे स्पष्टं लिखितम् ।
विश्वास-प्रस्तुतिः
विशिष्टाद्वैति-श्री-रामानुज-श्री-कण्ठादिभिर् अपि “संध्ये सृष्टिर् आह हि” इत्य् अधिकरण-भाष्ये स्वप्ने दृश्यमानं सर्वं दृष्ट-नष्ट-स्वभावं परमात्मनैव सृज्यते न तज्-जाग्रत्-पदार्थान्तर्गतम् इति वर्णितम् ।
En - Gemini 2.5
Even by Vishishtadvaitins like Shri Ramanuja and Shrikantha, in their commentary on the Adhikarana “Sandhye Sṛṣṭir aha hi” (In the intermediate state, there is creation, indeed, for so he says), it is described that everything seen in a dream is of the nature of being seen and then destroyed, and is created only by the Supreme Self, and is not part of the objects of the waking state.
मूलम्
विशिष्टाद्वैति-श्री-रामानुज-श्री-कण्ठादिभिर् अपि “संध्ये सृष्टिर् आह हि” इत्य् अधिकरण-भाष्ये स्वप्ने दृश्यमानं सर्वं दृष्ट-नष्ट-स्वभावं परमात्मनैव सृज्यते न तज्-जाग्रत्-पदार्थान्तर्गतम् इति वर्णितम् ।
विश्वास-प्रस्तुतिः
तथैव मध्व-भाष्येऽपि वासना-प्रभवं स्वाप्निकं वस्तु इत्य् अधिकरणे निर्णीतम् ।
En - Gemini 2.5
Similarly, in the Madhva-Bhashya, in the Adhikarana (topic) of “Vasana-Prabhavan Svapnikam Vastu” (Dream objects are born of impressions), it is determined that dream objects are born of latent impressions.
मूलम्
तथैव मध्व-भाष्येऽपि वासना-प्रभवं स्वाप्निकं वस्तु इत्य् अधिकरणे निर्णीतम् ।
विश्वास-प्रस्तुतिः
स्वाप्निकस्याभिमन्यु-वध-दिन-रात्राव् अर्जुन-संबन्धि-स्वप्न-काले कैलास-शिखरे तेन दृष्टस्य “योगिनां परमं ब्रह्म व्यक्तं वेद-विदां निधिम्” इति स्वप्नाध्याय-गत-वचन-बोधित-पर-ब्रह्मत्वादि-विशिष्ट-रूपेण परमात्म-सृष्टत्वावश्यिकतया काल्पनिक-पर-ब्रह्मत्वादि-गुण-युक्त-कल्पित-स्वप्न-दृष्ट-रुद्रस्यार्जुन-बोध-काल एव विनष्टत्वेन जाग्रति युद्ध-कालेऽर्जुनेन पुरो-दृष्टत्वम् असंभावितम् एव ।
En - Gemini 2.5
The dream-Rudra, seen by Arjuna on the peak of Kailasa during his dream on the night of Abhimanyu’s death, who is described as having the nature of Parabrahman and other qualities by the passage in the chapter on dreams, “Yoginam paramam brahma vyaktam veda-vidam nidhim” (the supreme Brahman of Yogis, the manifest treasure of knowers of the Vedas), must necessarily have been created by the Supreme Self in that specific form, and thus, that imaginary dream-Rudra, endowed with imagined qualities like Parabrahmanhood, having been destroyed at the very moment Arjuna woke up, his being seen in front of Arjuna during the waking state of battle is simply impossible.
मूलम्
स्वाप्निकस्याभिमन्यु-वध-दिन-रात्राव् अर्जुन-संबन्धि-स्वप्न-काले कैलास-शिखरे तेन दृष्टस्य “योगिनां परमं ब्रह्म व्यक्तं वेद-विदां निधिम्” इति स्वप्नाध्याय-गत-वचन-बोधित-पर-ब्रह्मत्वादि-विशिष्ट-रूपेण परमात्म-सृष्टत्वावश्यिकतया काल्पनिक-पर-ब्रह्मत्वादि-गुण-युक्त-कल्पित-स्वप्न-दृष्ट-रुद्रस्यार्जुन-बोध-काल एव विनष्टत्वेन जाग्रति युद्ध-कालेऽर्जुनेन पुरो-दृष्टत्वम् असंभावितम् एव ।
विश्वास-प्रस्तुतिः
तस्माद् द्रोण-पर्वान्त्याध्याय-कृत्स्न-ग्रन्थस्य प्रक्षिप्तत्वात् तत्-पर्यायार्जुन-स्वप्नाध्यायस्य तत्काल-सृष्ट-रुद्र-विषयकत्वेन च ताभ्यां स्वप्नाध्यायान्त्याध्यायाभ्यां रुद्रोत्कर्ष-प्रतिपादनं शैवानाम् अज्ञान-विलसितम् इत्य् अलम् ।
En - Gemini 2.5
Therefore, since the entire text of the concluding chapter of Drona Parva is interpolated, and the chapter on Arjuna’s dream, which is its equivalent, deals with a Rudra created at that very moment, the assertion of Rudra’s superiority based on these two chapters (on dream and the concluding chapter) is merely a display of the ignorance of the Shaivas; enough of this.
मूलम्
तस्माद् द्रोण-पर्वान्त्याध्याय-कृत्स्न-ग्रन्थस्य प्रक्षिप्तत्वात् तत्-पर्यायार्जुन-स्वप्नाध्यायस्य तत्काल-सृष्ट-रुद्र-विषयकत्वेन च ताभ्यां स्वप्नाध्यायान्त्याध्यायाभ्यां रुद्रोत्कर्ष-प्रतिपादनं शैवानाम् अज्ञान-विलसितम् इत्य् अलम् ।
विश्वास-प्रस्तुतिः
द्रोण-पर्वान्त्याध्याये यन् निर्दहति यत् तीक्ष्णो यद् उग्रो यत् प्रतापवान् ।
En - Gemini 2.5
In the concluding chapter of Drona Parva, “Because he burns, because he is sharp, because he is fierce, because he is powerful.”
मूलम्
द्रोण-पर्वान्त्याध्याये यन् निर्दहति यत् तीक्ष्णो यद् उग्रो यत् प्रतापवान् ।
विश्वास-प्रस्तुतिः
मांस- [[प्२७]] शोणित-मज्जादो रुद्र इत्य् उच्यते ततः इत्य् अस्ति ।
En - Gemini 2.5
“Therefore, he who consumes flesh, blood, and marrow is called Rudra” - thus it is stated.
मूलम्
मांस- [[प्२७]] शोणित-मज्जादो रुद्र इत्य् उच्यते ततः इत्य् अस्ति ।
विश्वास-प्रस्तुतिः
भारते आनुशासनिक-पर्वण्य् उपमन्यूपाख्यानं नाम किंचिद् अस्तीति शैवैर् उच्यते ।
En - Gemini 2.5
In the Anushasanika Parva of Mahabharata, there is a section called Upamanyu-Upakhyana, as stated by the Shaivas.
मूलम्
भारते आनुशासनिक-पर्वण्य् उपमन्यूपाख्यानं नाम किंचिद् अस्तीति शैवैर् उच्यते ।
विश्वास-प्रस्तुतिः
तस्मिन्न् उपाख्याने शिवम् आराध्य प्रद्युम्नो रुक्मिण्याम् उत्पादितः तथा साम्बोऽपि जाम्बवत्यां कृष्णेनोत्पादित इति कथितम् अस्ति ।
En - Gemini 2.5
In that narrative, it is stated that Pradyumna was born to Rukmini by worshipping Shiva, and similarly, Samba was born to Jambavati by Krishna.
मूलम्
तस्मिन्न् उपाख्याने शिवम् आराध्य प्रद्युम्नो रुक्मिण्याम् उत्पादितः तथा साम्बोऽपि जाम्बवत्यां कृष्णेनोत्पादित इति कथितम् अस्ति ।
विश्वास-प्रस्तुतिः
कृष्णाराध्यश् च शिव उपमन्युनाप्याराधितः ।
En - Gemini 2.5
Shiva, who is worshipped by Krishna, was also worshipped by Upamanyu.
मूलम्
कृष्णाराध्यश् च शिव उपमन्युनाप्याराधितः ।
विश्वास-प्रस्तुतिः
स च शिवो ब्रह्म-विष्णु-रुद्रापेक्षया तुरीयस् तेषाम् उत्पादकश् चेति कथितम् अस्ति; तच् चोपाख्यानं तत्-पूर्वोत्तर-दिसर्वोपाख्यानेषु भीष्म-वक्तृकेषु सत्सु कृष्ण-वक्तृकम् इति च दृश्यते ।
En - Gemini 2.5
And that Shiva is stated to be the Turiya (fourth) beyond Brahma, Vishnu, and Rudra, and their creator; and that narrative is also seen to be narrated by Krishna, while all other narratives before and after it are narrated by Bhishma.
मूलम्
स च शिवो ब्रह्म-विष्णु-रुद्रापेक्षया तुरीयस् तेषाम् उत्पादकश् चेति कथितम् अस्ति; तच् चोपाख्यानं तत्-पूर्वोत्तर-दिसर्वोपाख्यानेषु भीष्म-वक्तृकेषु सत्सु कृष्ण-वक्तृकम् इति च दृश्यते ।
विश्वास-प्रस्तुतिः
प्रद्युम्नोत्पत्तेर् द्वादशे वर्षे जाम्बवत्या साम्बोत्पत्त्यर्थं प्रेरितः कृष्णः शिवोपासनार्थम् उपमन्योर् आश्रमं गत्वा उपमन्योः सकाशाच् छिव-माहात्म्यं श्रुतवान् इति कथितम् अस्ति ।
En - Gemini 2.5
It is stated that in the twelfth year after Pradyumna’s birth, Krishna, prompted by Jambavati for the birth of Samba, went to Upamanyu’s ashram to worship Shiva and heard the greatness of Shiva from Upamanyu.
मूलम्
प्रद्युम्नोत्पत्तेर् द्वादशे वर्षे जाम्बवत्या साम्बोत्पत्त्यर्थं प्रेरितः कृष्णः शिवोपासनार्थम् उपमन्योर् आश्रमं गत्वा उपमन्योः सकाशाच् छिव-माहात्म्यं श्रुतवान् इति कथितम् अस्ति ।
विश्वास-प्रस्तुतिः
तद् एतद् उपमन्यूपाख्यानं प्रक्षिप्तम् इति बहवः कथयन्ति ।
En - Gemini 2.5
Many say that this Upamanyu-Upakhyana is interpolated.
मूलम्
तद् एतद् उपमन्यूपाख्यानं प्रक्षिप्तम् इति बहवः कथयन्ति ।
विश्वास-प्रस्तुतिः
तत्र च हेतून् अपि वदन्ति— उपमन्यूपाख्यानस्य महोपाख्यानत्वान् महा-भारत-महोपाख्यान-संग्रह-कर्तृभिः श्री-विद्यारण्य-स्वामिभिर् असंगृहीतत्वम् एको हेतुः ।
En - Gemini 2.5
And they also state reasons for this: one reason is that the Upamanyu-Upakhyana, being a major narrative, was not collected by Shri Vidyaranya Swami, the compiler of the major narratives of the Mahabharata.
मूलम्
तत्र च हेतून् अपि वदन्ति— उपमन्यूपाख्यानस्य महोपाख्यानत्वान् महा-भारत-महोपाख्यान-संग्रह-कर्तृभिः श्री-विद्यारण्य-स्वामिभिर् असंगृहीतत्वम् एको हेतुः ।
विश्वास-प्रस्तुतिः
आन्ध्र-भाषा-मय-महा-भारत-कर्त्रा तिक्कन्न-सोमयाजिनासंगृहीतत्वं द्वितीयः ।
En - Gemini 2.5
The second reason is that it was not collected by Tikanna Somayaji, the author of the Mahabharata in the Andhra language.
मूलम्
आन्ध्र-भाषा-मय-महा-भारत-कर्त्रा तिक्कन्न-सोमयाजिनासंगृहीतत्वं द्वितीयः ।
विश्वास-प्रस्तुतिः
“प्रद्युम्नः सूतिका-गेहाच् छम्बरेण यदा हृतः ।
En - Gemini 2.5
“When Pradyumna was abducted from the lying-in chamber by Shambara.”

तम् एव मासं साम्बोऽपि जाम्बवत्याम् अजायत” इति हरिवंश-वचन-विरुद्धोपक्रमकत्वं तृतीयः ।
En - Gemini 2.5
“In that very month, Samba was born to Jambavati” - having a beginning contradictory to this Harivamsa statement is the third reason.
मूलम्
तम् एव मासं साम्बोऽपि जाम्बवत्याम् अजायत” इति हरिवंश-वचन-विरुद्धोपक्रमकत्वं तृतीयः ।
विश्वास-प्रस्तुतिः
प्रेहि भीष्मं महा-बाहुं वृद्धं कुरु-पितामहम् ।
En - Gemini 2.5
“Go to Bhishma, the mighty-armed, the aged grandfather of the Kurus.”
मूलम्
प्रेहि भीष्मं महा-बाहुं वृद्धं कुरु-पितामहम् ।
विश्वास-प्रस्तुतिः
ज्ञानान्य् अल्पीभविष्यन्ति भीष्मे लोकान्तरं गते ॥ वेदोक्ताश् चैव ये धर्मा वेदान्तादि-गताश् च ये ।
En - Gemini 2.5
“Knowledge will diminish when Bhishma goes to another world. And whatever dharmas are stated in the Vedas and whatever are found in Vedanta and so on.”
मूलम्
ज्ञानान्य् अल्पीभविष्यन्ति भीष्मे लोकान्तरं गते ॥ वेदोक्ताश् चैव ये धर्मा वेदान्तादि-गताश् च ये ।
विश्वास-प्रस्तुतिः
तान् सर्वान् संप्रपश्यामि वर-दानात् तवाच्युत ॥ यच् च भूतं भविष्यच् च भवं च पर-मद्युते ।
En - Gemini 2.5
“All of them I see clearly by your boon, O Achyuta. And whatever is past, future, and present, O supremely resplendent one.”
मूलम्
तान् सर्वान् संप्रपश्यामि वर-दानात् तवाच्युत ॥ यच् च भूतं भविष्यच् च भवं च पर-मद्युते ।
विश्वास-प्रस्तुतिः
तत् सर्वम् अनुपश्यामि पाणौ फलम् इवार्पितम् ॥ यच् च यत्र च वक्तव्यं तद् वक्ष्यामि जनार्दन ।
En - Gemini 2.5
“All that I perceive as if placed in my hand like a fruit. And whatever is to be said and wherever, that I shall speak, O Janardana.”
मूलम्
तत् सर्वम् अनुपश्यामि पाणौ फलम् इवार्पितम् ॥ यच् च यत्र च वक्तव्यं तद् वक्ष्यामि जनार्दन ।
विश्वास-प्रस्तुतिः
तव प्रसादाद्धि शुभा मनो मे बुद्धिर् आविशत् इत्यादि-शान्ति-पर्व-गत-वचनैर् भीष्मस्थ-सर्व-तत्त्वज्ञत्वं श्री-कृष्ण-प्रसादात् सम्यग्-वेद-वेदान्तार्थ-ज्ञातृत्वं भूत-भविष्यद्-वर्तमान-सर्व-वस्तु-विषयक-ज्ञान-वत्त्वं चावगम्यते ।
En - Gemini 2.5
“Indeed, by your grace, an auspicious intellect has entered my mind” - by these passages from the Shanti Parva, Bhishma’s omniscience, his perfect knowledge of the meaning of the Vedas and Vedantas by the grace of Shri Krishna, and his knowledge of all past, present, and future things are understood.
मूलम्
तव प्रसादाद्धि शुभा मनो मे बुद्धिर् आविशत् इत्यादि-शान्ति-पर्व-गत-वचनैर् भीष्मस्थ-सर्व-तत्त्वज्ञत्वं श्री-कृष्ण-प्रसादात् सम्यग्-वेद-वेदान्तार्थ-ज्ञातृत्वं भूत-भविष्यद्-वर्तमान-सर्व-वस्तु-विषयक-ज्ञान-वत्त्वं चावगम्यते ।
विश्वास-प्रस्तुतिः
ईदृशस्य भीष्मस्य यथावच्-छिव-नाम-शिव-तत्त्वाज्ञातृत्वम् अवलम्ब्य भीष्मेण नियुक्तः श्री-कृष्णः शिव-नाम-शिव-तत्त्व-घटितम् उपमन्यूपाख्यानम् अवदद् इति उपमन्यूपाख्यानोपक्रम-वचनं विरुद्धत्वेनावभासमानं चतुर्थो हेतुः ।
En - Gemini 2.5
The fourth reason is that the introductory statement of the Upamanyu-Upakhyana, which appears contradictory, states that Shri Krishna, appointed by Bhishma, narrated the Upamanyu-Upakhyana, which contains Shiva’s names and the truth about Shiva, relying on the fact that Bhishma, despite being such a knower, did not properly know Shiva’s names and the truth about Shiva.
मूलम्
ईदृशस्य भीष्मस्य यथावच्-छिव-नाम-शिव-तत्त्वाज्ञातृत्वम् अवलम्ब्य भीष्मेण नियुक्तः श्री-कृष्णः शिव-नाम-शिव-तत्त्व-घटितम् उपमन्यूपाख्यानम् अवदद् इति उपमन्यूपाख्यानोपक्रम-वचनं विरुद्धत्वेनावभासमानं चतुर्थो हेतुः ।
विश्वास-प्रस्तुतिः
यदि शिव-तत्त्वादि-कं यथावद् भीष्मेणाज्ञातं तर्हि शिव-तत्त्वं वेद-वेदान्त-बहिर्-भूतम् एव स्यात् ।
En - Gemini 2.5
If the truth about Shiva was not properly known by Bhishma, then the truth about Shiva would indeed be outside the Vedas and Vedantas.
मूलम्
यदि शिव-तत्त्वादि-कं यथावद् भीष्मेणाज्ञातं तर्हि शिव-तत्त्वं वेद-वेदान्त-बहिर्-भूतम् एव स्यात् ।
विश्वास-प्रस्तुतिः
अनुपदोक्त-वचने वेद-वेदान्तार्थस्य कृत्स्नस्य श्री-कृष्ण-प्रसादाद् भीष्मेण सम्यग्-विदितत्वोक्तेः वेद-वेदान्तार्थ-प्रवचने सम्यङ् नियु- [[प्२८]] क्तेन भीष्मेणोपमन्यूपाख्यानस्याकथितत्वं पञ्चमः ।
En - Gemini 2.5
Since the recently cited passage states that Bhishma, by the grace of Shri Krishna, perfectly knew the entire meaning of the Vedas and Vedantas, the fact that Bhishma, who was properly appointed to expound the meaning of the Vedas and Vedantas, did not narrate the Upamanyu-Upakhyana is the fifth reason.
मूलम्
अनुपदोक्त-वचने वेद-वेदान्तार्थस्य कृत्स्नस्य श्री-कृष्ण-प्रसादाद् भीष्मेण सम्यग्-विदितत्वोक्तेः वेद-वेदान्तार्थ-प्रवचने सम्यङ् नियु- [[प्२८]] क्तेन भीष्मेणोपमन्यूपाख्यानस्याकथितत्वं पञ्चमः ।
विश्वास-प्रस्तुतिः
उपमन्यूपाख्याने पुत्रार्थं कृष्णेनाराधितत्वेन कथितस्य शिवस्य तुरीयस्य त्रि-मूर्त्य्-उत्पादकस्य शान्ति-पर्वणि मोक्ष-धर्मे नारायणीये एक-चत्वारिंशद्-अधिक-त्रिशततमाध्याये “ततो ब्रह्मा समभवत् स तस्यैव प्रसादजः ।
En - Gemini 2.5
In the Upamanyu-Upakhyana, Shiva, the Turiya, the creator of the Trimurti, is stated to have been worshipped by Krishna for a son; this contradicts the passage in the 341st chapter of Shanti Parva, Mokshadharma, Narayaniya, which states, “Then Brahma was born, he was born from His grace.”
मूलम्
उपमन्यूपाख्याने पुत्रार्थं कृष्णेनाराधितत्वेन कथितस्य शिवस्य तुरीयस्य त्रि-मूर्त्य्-उत्पादकस्य शान्ति-पर्वणि मोक्ष-धर्मे नारायणीये एक-चत्वारिंशद्-अधिक-त्रिशततमाध्याये “ततो ब्रह्मा समभवत् स तस्यैव प्रसादजः ।
विश्वास-प्रस्तुतिः
अह्नः क्षये ललाटाच् च सुतो देवस्य वै तथा ॥ क्रोधाविष्टस्य संजज्ञे रुद्रः संहार-कारकः” इति भगवत्-क्रोध-जन्यं रुद्रं प्रकृत्य “इति संचिन्त्य मनसा पुराहं रुद्रम् ईश्वरम् ।
En - Gemini 2.5
“And at the end of the day, a son was also born from the forehead of the deity, the destroyer Rudra, when He was filled with wrath” - referring to Rudra born from the Lord’s wrath, it continues, “Thus, formerly, I, with my mind, worshipped Rudra, the Lord, for a son.”
मूलम्
अह्नः क्षये ललाटाच् च सुतो देवस्य वै तथा ॥ क्रोधाविष्टस्य संजज्ञे रुद्रः संहार-कारकः” इति भगवत्-क्रोध-जन्यं रुद्रं प्रकृत्य “इति संचिन्त्य मनसा पुराहं रुद्रम् ईश्वरम् ।
विश्वास-प्रस्तुतिः
पुत्रार्थम् आराधितवान् अहम् आत्मानम् आत्मना” इति भगवत्-क्रोध-जन्य-रुद्रे पुत्रार्थं कृष्णाराधितत्वोक्ति-विरुद्धत्वं षष्ठो हेतुः ।
En - Gemini 2.5
“I worshipped Myself by Myself for a son” - this contradiction with the statement that Krishna worshipped Rudra, who was born from the Lord’s wrath, for a son, is the sixth reason.
मूलम्
पुत्रार्थम् आराधितवान् अहम् आत्मानम् आत्मना” इति भगवत्-क्रोध-जन्य-रुद्रे पुत्रार्थं कृष्णाराधितत्वोक्ति-विरुद्धत्वं षष्ठो हेतुः ।
विश्वास-प्रस्तुतिः
शश-शृङ्गायमाण-तुरीय-रुद्र-विषयकत्वम् उपमन्यूपाख्यानस्य प्रक्षिप्तत्वे सप्तमो हेतुः ।
En - Gemini 2.5
The seventh reason for the interpolation of the Upamanyu-Upakhyana is its subject matter being a Turiya-Rudra, which is like a rabbit’s horn (non-existent).
मूलम्
शश-शृङ्गायमाण-तुरीय-रुद्र-विषयकत्वम् उपमन्यूपाख्यानस्य प्रक्षिप्तत्वे सप्तमो हेतुः ।
विश्वास-प्रस्तुतिः
किं च उपमन्यूपाख्याने चतुर्दशाध्याये एक-न्यून-चतुः-शततमे श्लोके उक्तोपमन्यूपाख्यानान्तर्गत-शिव-नामाष्टोत्तर-सहस्र-गत- “स्थिरः स्थाणुः” इति प्रथम-श्लोके च उक्तोपाख्यान-प्रतिपाद्य-रुद्रे स्थाणुत्वोक्त्या तस्य विष्णु-क्रोध-जन्यत्व-ब्रह्म-पुत्रत्वाद्यावश्यिकतया तस्य विष्ण्वादि-जनकत्व-मूल-विष्ण्व्-आराध्यत्वादि-प्रतिपादक-श्लोकानां ग्रावाणः प्लवन्त इति-वद् असद्-अर्थ-वादत्वावश्यिकतया तद्-उपाख्यानस्याप्रक्षिप्तत्वाग्रहेऽपि न तेन शिवोत्कर्ष-सिद्धिः ।
En - Gemini 2.5
Furthermore, in the Upamanyu-Upakhyana, in the 14th chapter, in the 399th verse, and in the first verse “Sthiraḥ Sthāṇuḥ” from the Shiva-Nāmāṣṭottara-Sahasra (1008 names of Shiva) contained within the said Upakhyana, since the Sthanutva (immovability) of Rudra, who is the subject of the said narrative, is stated, and since His being born from Vishnu’s wrath and being Brahma’s son are necessarily implied, the verses in that narrative that describe Him as the creator of Vishnu and others, or as the object of worship for the original Vishnu, are necessarily mere eulogistic statements, like “stones float,” and therefore, even if one insists that the narrative is not interpolated, the superiority of Shiva is not established by it.
मूलम्
किं च उपमन्यूपाख्याने चतुर्दशाध्याये एक-न्यून-चतुः-शततमे श्लोके उक्तोपमन्यूपाख्यानान्तर्गत-शिव-नामाष्टोत्तर-सहस्र-गत- “स्थिरः स्थाणुः” इति प्रथम-श्लोके च उक्तोपाख्यान-प्रतिपाद्य-रुद्रे स्थाणुत्वोक्त्या तस्य विष्णु-क्रोध-जन्यत्व-ब्रह्म-पुत्रत्वाद्यावश्यिकतया तस्य विष्ण्वादि-जनकत्व-मूल-विष्ण्व्-आराध्यत्वादि-प्रतिपादक-श्लोकानां ग्रावाणः प्लवन्त इति-वद् असद्-अर्थ-वादत्वावश्यिकतया तद्-उपाख्यानस्याप्रक्षिप्तत्वाग्रहेऽपि न तेन शिवोत्कर्ष-सिद्धिः ।
विश्वास-प्रस्तुतिः
विष्णु-नाम-सहस्रे “विश्वं विष्णुः” इति द्वितीयस्य विष्णुर् इति नाम्नो विष्ण्व्-असाधारणत्ववत् स्थिरः स्थाणुर् इत्य् उपमन्यूपाख्यानान्तर्गताष्टोत्तर-सहस्र-पतित-स्थाणुर् इति-नाम्नः द्वितीयत्वाविशेषाच् छिवासाधारण-नामत्वावश्यिकतया तद्-उपाख्यान-तद्-गत-नाम-सहस्र-प्रतिपाद्य-रुद्रस्य स्थाणु-शब्द-मुख्यार्थत्वम् एवोचितं न तु गौणत्वम् ।
En - Gemini 2.5
Just as in the Vishnu Sahasranama, “Vishvam Vishnuḥ” (the universe, Vishnu), the second name “Vishnu” is unique to Vishnu, similarly, the name “Sthāṇu” which falls in the 108 names within the Upamanyu-Upakhyana, “Sthiraḥ Sthāṇuḥ,” being also a second name, must necessarily be unique to Shiva, and therefore, it is appropriate for Rudra, the subject of that narrative and that list of names, to be the primary meaning of the word Sthāṇu, and not a secondary meaning.
मूलम्
विष्णु-नाम-सहस्रे “विश्वं विष्णुः” इति द्वितीयस्य विष्णुर् इति नाम्नो विष्ण्व्-असाधारणत्ववत् स्थिरः स्थाणुर् इत्य् उपमन्यूपाख्यानान्तर्गताष्टोत्तर-सहस्र-पतित-स्थाणुर् इति-नाम्नः द्वितीयत्वाविशेषाच् छिवासाधारण-नामत्वावश्यिकतया तद्-उपाख्यान-तद्-गत-नाम-सहस्र-प्रतिपाद्य-रुद्रस्य स्थाणु-शब्द-मुख्यार्थत्वम् एवोचितं न तु गौणत्वम् ।
विश्वास-प्रस्तुतिः
एवं तद्-उपाख्याने “पश्य लिङ्गं भगाङ्कितम् ।
En - Gemini 2.5
Similarly, in that narrative, “Behold the Linga marked with the Yoni.”
मूलम्
एवं तद्-उपाख्याने “पश्य लिङ्गं भगाङ्कितम् ।
विश्वास-प्रस्तुतिः
लिङ्गाङ्काश् च भगाङ्काश् च तस्मान् माहेश्वराः प्रजाः” इति शिवस्य लिङ्ग-भगाङ्कत्वम् उक्तम् ।
En - Gemini 2.5
“Those marked with Linga and marked with Yoni are therefore the progeny of Maheśvara” - thus, Shiva’s association with Linga and Yoni marks is stated.
मूलम्
लिङ्गाङ्काश् च भगाङ्काश् च तस्मान् माहेश्वराः प्रजाः” इति शिवस्य लिङ्ग-भगाङ्कत्वम् उक्तम् ।
विश्वास-प्रस्तुतिः
लिङ्गस्य भगवेष्टितत्वोक्तिः सर्व-जन्तु-साधारणस्य लिङ्गस्य भगस्य च शिवासाधारणत्वोक्तिश् चासंगता जुगुप्सिता च ।
En - Gemini 2.5
The statement that the Linga is surrounded by the Yoni, and the assertion that both Linga and Yoni, which are common to all creatures, are unique to Shiva, are inappropriate and disgusting.
मूलम्
लिङ्गस्य भगवेष्टितत्वोक्तिः सर्व-जन्तु-साधारणस्य लिङ्गस्य भगस्य च शिवासाधारणत्वोक्तिश् चासंगता जुगुप्सिता च ।
विश्वास-प्रस्तुतिः
शूलाङ्कत्वं तु तस्य वक्तव्यम् “न वज्राङ्का न पद्माङ्का न चक्राङ्का यतः प्रजाः” इति समभिव्याहृत-श्लोक-पर्यालोचनया उचितत्वात् ।
En - Gemini 2.5
However, his being marked with a trident should be stated, as it is appropriate considering the accompanying verse “Because the progeny are not marked with a thunderbolt, nor with a lotus, nor with a discus.”
मूलम्
शूलाङ्कत्वं तु तस्य वक्तव्यम् “न वज्राङ्का न पद्माङ्का न चक्राङ्का यतः प्रजाः” इति समभिव्याहृत-श्लोक-पर्यालोचनया उचितत्वात् ।
विश्वास-प्रस्तुतिः
तथा च लिङ्ग-भगाङ्कत्व-बोधक-श्लोकानां तद्-उपाख्यान-गतानां यथासद्-अर्थत्वं तथा शिवस्य विष्ण्वादि-जनकत्व-बोधक-तद्-उपाख्यान-गत-वचनानाम् अपि भारत-प्रदेशान्तर-विरुद्धतया सद्-अर्थ-वादत्वम् एव [[प्२९]] युक्तम् इत्य् उत्पश्यामः ।
En - Gemini 2.5
And therefore, just as the verses in that narrative that describe the Linga and Yoni marks are to be understood as having an incorrect meaning, so too, the passages in that narrative that describe Shiva as the creator of Vishnu and others, being contradictory to other parts of the Mahabharata, are also to be understood as having an incorrect meaning (as mere eulogies); thus, we perceive.
मूलम्
तथा च लिङ्ग-भगाङ्कत्व-बोधक-श्लोकानां तद्-उपाख्यान-गतानां यथासद्-अर्थत्वं तथा शिवस्य विष्ण्वादि-जनकत्व-बोधक-तद्-उपाख्यान-गत-वचनानाम् अपि भारत-प्रदेशान्तर-विरुद्धतया सद्-अर्थ-वादत्वम् एव [[प्२९]] युक्तम् इत्य् उत्पश्यामः ।
विश्वास-प्रस्तुतिः
किं च मोक्ष-धर्मे पञ्चाशीत्य्-अधिक-द्विशततमाध्याये शिव-नाम-सहस्रं वदेति युधिष्ठिर-पृष्ट-भीष्माच् छिव-स्थिर-स्थाण्वादि-नाम-घटित-नाम-सहस्रस्य युधिष्ठिरेण श्रुततया प्रायेण तन्-नाम-घटित-नाम-सहस्रस्योपमन्यूपाख्यानोपक्रमे युधिष्ठिरेण पुनः प्रश्नानुपपत्तिः ।
En - Gemini 2.5
Moreover, in the 285th chapter of Mokshadharma, when Yudhishthira asked Bhishma to recite the thousand names of Shiva, Yudhishthira heard a thousand names including Sthira, Sthanu, etc., and therefore, it is generally inappropriate for Yudhishthira to ask about a thousand names containing those names again at the beginning of the Upamanyu-Upakhyana.
मूलम्
किं च मोक्ष-धर्मे पञ्चाशीत्य्-अधिक-द्विशततमाध्याये शिव-नाम-सहस्रं वदेति युधिष्ठिर-पृष्ट-भीष्माच् छिव-स्थिर-स्थाण्वादि-नाम-घटित-नाम-सहस्रस्य युधिष्ठिरेण श्रुततया प्रायेण तन्-नाम-घटित-नाम-सहस्रस्योपमन्यूपाख्यानोपक्रमे युधिष्ठिरेण पुनः प्रश्नानुपपत्तिः ।
विश्वास-प्रस्तुतिः
मोक्ष-धर्मे स्थिर-स्थाण्वादि-नाम-घटित-नाम-सहस्रम् उक्तवतो भीष्मस्योपमन्यूपाख्यानोपक्रमे युधिष्ठिरं प्रति शिव-नाम-तद्-गत-गुणाज्ञानोक्तिश् च प्रक्षिप्तत्वे हेतु-द्वयम् ।
En - Gemini 2.5
The statement by Bhishma, who had narrated the thousand names including Sthira, Sthanu, etc., in Mokshadharma, that he was unaware of Shiva’s names and their associated qualities when addressed by Yudhishthira at the beginning of the Upamanyu-Upakhyana, constitutes two reasons for its interpolation.
मूलम्
मोक्ष-धर्मे स्थिर-स्थाण्वादि-नाम-घटित-नाम-सहस्रम् उक्तवतो भीष्मस्योपमन्यूपाख्यानोपक्रमे युधिष्ठिरं प्रति शिव-नाम-तद्-गत-गुणाज्ञानोक्तिश् च प्रक्षिप्तत्वे हेतु-द्वयम् ।
विश्वास-प्रस्तुतिः
एवम् उपमन्यूपाख्यानस्य कु-दृष्टि-प्रक्षिप्तत्वे बहवो हेतवः सन्तीत्य् अलम् ।
En - Gemini 2.5
Thus, there are many reasons for the Upamanyu-Upakhyana being an interpolation by those with distorted views; enough of this.
मूलम्
एवम् उपमन्यूपाख्यानस्य कु-दृष्टि-प्रक्षिप्तत्वे बहवो हेतवः सन्तीत्य् अलम् ।
विश्वास-प्रस्तुतिः
तस्माद् भारत-रीत्या स्थाणुत्व-द्रुहिण-पुत्रत्व-विष्णु-क्रोध-प्रभवत्वादि-धर्म-रहितः शिवो नास्तीति निष्प्रत्यूहम् ।
En - Gemini 2.5
Therefore, according to the Mahabharata, it is unimpeded that there is no Shiva devoid of qualities like Sthanutva (immovability), being the son of Brahma, and being born from Vishnu’s wrath.
मूलम्
तस्माद् भारत-रीत्या स्थाणुत्व-द्रुहिण-पुत्रत्व-विष्णु-क्रोध-प्रभवत्वादि-धर्म-रहितः शिवो नास्तीति निष्प्रत्यूहम् ।
विश्वास-प्रस्तुतिः
भारते सभा-पर्वणि अष्टमाध्याये यम-सभा-वर्णने “रामो दाशरथिश् चैव लक्ष्मणश् च प्रतर्दनः ।
En - Gemini 2.5
In the Mahabharata, in the eighth chapter of the Sabha Parva, in the description of Yama’s assembly: “Rama, the son of Dasaratha, and Lakshmana, and Pratardana.”
मूलम्
भारते सभा-पर्वणि अष्टमाध्याये यम-सभा-वर्णने “रामो दाशरथिश् चैव लक्ष्मणश् च प्रतर्दनः ।
विश्वास-प्रस्तुतिः
जामदग्न्योऽथ रामश् च नाभाग-सगरौ तथा” इत्यादिना यम-सभायां यमोपासकानां मध्ये दाशरथि-रामस्यापि गणनाद् याम्य-पुण्य-भोगार्थम् एव यम-सभायां रामावस्थानम् ।
En - Gemini 2.5
“Jamadagnya Rama, and Nabaga, and Sagara” - by these and other statements, since Dasharathi Rama is also enumerated among the worshipers of Yama in Yama’s assembly, Rama’s presence in Yama’s assembly is solely for the purpose of enjoying the merits earned there.
मूलम्
जामदग्न्योऽथ रामश् च नाभाग-सगरौ तथा” इत्यादिना यम-सभायां यमोपासकानां मध्ये दाशरथि-रामस्यापि गणनाद् याम्य-पुण्य-भोगार्थम् एव यम-सभायां रामावस्थानम् ।
विश्वास-प्रस्तुतिः
अतो रामस्य पुण्य-कृताम् इव मरणानन्तरं याम्य-पुण्य-भोगार्थं यम-सभा-वर्तनम् इति कश्चिद् आह ।
En - Gemini 2.5
Therefore, someone says that Rama’s presence in Yama’s assembly, like that of righteous persons after death, is for the purpose of enjoying merits related to Yama.
मूलम्
अतो रामस्य पुण्य-कृताम् इव मरणानन्तरं याम्य-पुण्य-भोगार्थं यम-सभा-वर्तनम् इति कश्चिद् आह ।
विश्वास-प्रस्तुतिः
स वक्तव्यः— याम्य-भोगस्य शरीर-त्यागानन्तर-भावितया भूम्यां यस्मिन् शरीरेऽवस्थितिः तच्-छरीरं त्यक्त्वैव शरीरान्तरेण याम्य-भोगोऽनुभोक्तव्य इति सर्व-संप्रतिपन्नम् ।
En - Gemini 2.5
He should be told: It is universally accepted that the enjoyment of Yama’s realm occurs after the abandonment of the body, and that such enjoyment must be experienced with another body after abandoning the body in which one resided on earth.
मूलम्
स वक्तव्यः— याम्य-भोगस्य शरीर-त्यागानन्तर-भावितया भूम्यां यस्मिन् शरीरेऽवस्थितिः तच्-छरीरं त्यक्त्वैव शरीरान्तरेण याम्य-भोगोऽनुभोक्तव्य इति सर्व-संप्रतिपन्नम् ।
विश्वास-प्रस्तुतिः
रामस्य पूर्व-शरीर-त्यागो रामायण-भारतयोर् न श्रूयते ।
En - Gemini 2.5
The abandonment of Rama’s former body is not heard of in the Ramayana or Mahabharata.
मूलम्
रामस्य पूर्व-शरीर-त्यागो रामायण-भारतयोर् न श्रूयते ।
विश्वास-प्रस्तुतिः
श्री-रामायणे उत्तर-काण्डेऽन्त्य-सर्गे “विवेश वैष्णवं तेजः स-शरीरः स-हानुजः” इति शरीरेण सहैव वैष्णव-तेजः-प्रवेशः कथितः ।
En - Gemini 2.5
In the Shri Ramayana, in the concluding canto of the Uttara Kanda, it is stated that “He entered the Vaishnava radiance with his body, along with his younger brother,” meaning he entered the Vaishnava radiance along with his physical body.
मूलम्
श्री-रामायणे उत्तर-काण्डेऽन्त्य-सर्गे “विवेश वैष्णवं तेजः स-शरीरः स-हानुजः” इति शरीरेण सहैव वैष्णव-तेजः-प्रवेशः कथितः ।
विश्वास-प्रस्तुतिः
तद् अनुसारेण दाक्षिणात्य-ताल-पत्रात्मक-भारत-कोशे आरण्य-पर्वणि पुलस्त्य-तीर्थ-यात्रायाम् “गो-प्रतारं ततो गच्छेत् सरय्व्-आस् तीर्थम् उत्तमम् ।
En - Gemini 2.5
According to that, in a South Indian palm-leaf manuscript of the Mahabharata, in the Aranyaka Parva, during Pulastya’s pilgrimage, “Then one should go to Gopratara, the excellent sacred bathing place on the Sarayu River.”
मूलम्
तद् अनुसारेण दाक्षिणात्य-ताल-पत्रात्मक-भारत-कोशे आरण्य-पर्वणि पुलस्त्य-तीर्थ-यात्रायाम् “गो-प्रतारं ततो गच्छेत् सरय्व्-आस् तीर्थम् उत्तमम् ।
विश्वास-प्रस्तुतिः
यत्र रामो गतः स्वर्गं स-भृत्य-बल-वाहनः ॥ स-शरीरो दिवं यातस् तस्य तीर्थस्य तेजसा ।
En - Gemini 2.5
“Where Rama went to heaven with his servants, army, and vehicles. He went to heaven with his body by the power of that sacred place.”
मूलम्
यत्र रामो गतः स्वर्गं स-भृत्य-बल-वाहनः ॥ स-शरीरो दिवं यातस् तस्य तीर्थस्य तेजसा ।
विश्वास-प्रस्तुतिः
रामस्य च प्रसादेन व्यवसायेन चानघ ॥ तस्मिन्स् तीर्थे नरः स्नात्वा गो-प्रतारे नराधिप ।
En - Gemini 2.5
“And by Rama’s grace and effort, O sinless one. Having bathed in that sacred place, Gopratara, O king.”
मूलम्
रामस्य च प्रसादेन व्यवसायेन चानघ ॥ तस्मिन्स् तीर्थे नरः स्नात्वा गो-प्रतारे नराधिप ।
विश्वास-प्रस्तुतिः
सर्व-पाप-विशुद्धात्मा विष्णु-लोके महीयते” इत्यादिना रामस्य स्व-शरीरेण स्वर्ग-गमनम् उक्तम् ।
En - Gemini 2.5
“A person, purified of all sins, is glorified in Vishnu’s world” - by these passages, Rama’s going to heaven with His own body is stated.
मूलम्
सर्व-पाप-विशुद्धात्मा विष्णु-लोके महीयते” इत्यादिना रामस्य स्व-शरीरेण स्वर्ग-गमनम् उक्तम् ।
विश्वास-प्रस्तुतिः
तथा च पूर्व-शरीर-विशिष्टस्य कथं यमाधीन-याम्य-पुण्य-भोग-प्रसक्तिः ।
En - Gemini 2.5
And thus, how can there be any possibility of enjoying the merits dependent on Yama for one who is endowed with His former body?
मूलम्
तथा च पूर्व-शरीर-विशिष्टस्य कथं यमाधीन-याम्य-पुण्य-भोग-प्रसक्तिः ।
विश्वास-प्रस्तुतिः
अत एवेदानीम् अपि वर्तमानस्य परशुरामस्य चिर-जीविनो जामदग्न्यस्य यम-सभायाम् अवस्थानोक्तिर् अपि संगच्छते ।
En - Gemini 2.5
For this very reason, the statement about the presence of Parashurama and Jamadagnya, who are long-lived and still existing, in Yama’s assembly is also consistent.
मूलम्
अत एवेदानीम् अपि वर्तमानस्य परशुरामस्य चिर-जीविनो जामदग्न्यस्य यम-सभायाम् अवस्थानोक्तिर् अपि संगच्छते ।
विश्वास-प्रस्तुतिः
अन्यथा यमोपासनार्थम् एव यमादिष्ट-भोग्य-भोगार्थम् एव वा यम-सभायां रामावस्थानाभ्युपगमे सभा-पर्वण्य् एव दशमाध्याये कुबेर-सभा-वर्णने “उपासते [[प्३०]] महात्मानं तस्यां धनदम् ईश्वरम्” इत्य् आरभ्य “भगवान् भूत-संघैश् च वृतः शत-सहस्रशः ।
En - Gemini 2.5
Otherwise, if Rama’s presence in Yama’s assembly is accepted as being for the sole purpose of worshipping Yama or for enjoying the fruits ordered by Yama, then in the Sabha Parva itself, in the tenth chapter, in the description of Kubera’s assembly, starting with “They worship the great soul, the Lord of wealth, Ishvara, in it,” it is said, “The venerable one is surrounded by hundreds of thousands of hosts of beings.”
मूलम्
अन्यथा यमोपासनार्थम् एव यमादिष्ट-भोग्य-भोगार्थम् एव वा यम-सभायां रामावस्थानाभ्युपगमे सभा-पर्वण्य् एव दशमाध्याये कुबेर-सभा-वर्णने “उपासते [[प्३०]] महात्मानं तस्यां धनदम् ईश्वरम्” इत्य् आरभ्य “भगवान् भूत-संघैश् च वृतः शत-सहस्रशः ।
विश्वास-प्रस्तुतिः
उमापतिः पशुपतिः शूल-भृद् भग-नेत्र-हा ॥ मेदो-मांसाशनैर् घोरैर् रुद्रोऽधन्वा महा-बलः” इत्यादिना, तत्रैव सप्तमाध्याये इन्द्र-सभायाम् इन्द्रोपासक-मध्ये “मेधातिथिर् वामदेवः पुलस्त्यः पुलहः क्रतुः ।
En - Gemini 2.5
“Uma’s husband, Pashupati (Lord of beings), trident-bearer, destroyer of Bhaga’s eye. Rudra, of great strength, without a bow, who consumes fat and flesh with terrifying (followers)” - by these and other statements, and in the seventh chapter of the same text, in Indra’s assembly, among the worshipers of Indra, “Medhatithi, Vamadeva, Pulastya, Pulaha, Kratu.”
मूलम्
उमापतिः पशुपतिः शूल-भृद् भग-नेत्र-हा ॥ मेदो-मांसाशनैर् घोरैर् रुद्रोऽधन्वा महा-बलः” इत्यादिना, तत्रैव सप्तमाध्याये इन्द्र-सभायाम् इन्द्रोपासक-मध्ये “मेधातिथिर् वामदेवः पुलस्त्यः पुलहः क्रतुः ।
विश्वास-प्रस्तुतिः
मरुत्तश् च मरीचिश् च स्थाणुश् चात्र महा-तपाः” इत्यादिना शिवस्यापि परिगणनात् कुबेरेन्द्रोपासकत्व-तद्-अधीनत्व-तदादिष्ट-पुण्य-भोग्य-फल-भोक्तृत्वादेर् दुष्परिहरत्वापत्तेः ।
En - Gemini 2.5
“Marutta, and Marichi, and Sthanu, the great ascetic, are also here” - by these and other enumerations of Shiva, the inevitability of His being a worshiper of Kubera and Indra, being subordinate to them, and enjoying the fruits of merit ordained by them would arise.
मूलम्
मरुत्तश् च मरीचिश् च स्थाणुश् चात्र महा-तपाः” इत्यादिना शिवस्यापि परिगणनात् कुबेरेन्द्रोपासकत्व-तद्-अधीनत्व-तदादिष्ट-पुण्य-भोग्य-फल-भोक्तृत्वादेर् दुष्परिहरत्वापत्तेः ।
विश्वास-प्रस्तुतिः
यम-लोक इवेन्द्रादि-लोकेऽपि पुण्य-फल-भोगार्थम् एव येषाम् अवस्थानं कथितं तेषां मध्ये शिवस्याप्य् अवस्थानम् उक्तं दृश्यते ।
En - Gemini 2.5
Just as in Yama’s world, in the worlds of Indra and others too, the presence of certain beings is stated for the purpose of enjoying the fruits of merit, and among them, the presence of Shiva is also seen to be mentioned.
मूलम्
यम-लोक इवेन्द्रादि-लोकेऽपि पुण्य-फल-भोगार्थम् एव येषाम् अवस्थानं कथितं तेषां मध्ये शिवस्याप्य् अवस्थानम् उक्तं दृश्यते ।
विश्वास-प्रस्तुतिः
मरणेन पूर्व-शरीरं त्यक्त्वा शिवस्येन्द्र-कुबेरादि-सभागमनानुक्त्या न पुण्य-फल-भोगार्थं तत्-सभागमनम् इति चेत्, रामस्यापि तथैवेति संतोष्टव्यम् ।
En - Gemini 2.5
If it is argued that Shiva’s going to the assemblies of Indra, Kubera, etc., is not for the purpose of enjoying the fruits of merit, as it is not stated that He abandoned His former body by death, then it must be contented that it is likewise for Rama.
मूलम्
मरणेन पूर्व-शरीरं त्यक्त्वा शिवस्येन्द्र-कुबेरादि-सभागमनानुक्त्या न पुण्य-फल-भोगार्थं तत्-सभागमनम् इति चेत्, रामस्यापि तथैवेति संतोष्टव्यम् ।
विश्वास-प्रस्तुतिः
किं च आश्रम-वासिक-पर्वणि षोडशाध्याये दाक्षिणात्य-कोशे “भो भो राजन् न दग्धव्यम् एतद् विदुर-संज्ञकम् ।
En - Gemini 2.5
Furthermore, in the sixteenth chapter of the Ashramavasika Parva, in a South Indian manuscript, “O king, this body named Vidura should not be burnt.”
मूलम्
किं च आश्रम-वासिक-पर्वणि षोडशाध्याये दाक्षिणात्य-कोशे “भो भो राजन् न दग्धव्यम् एतद् विदुर-संज्ञकम् ।
विश्वास-प्रस्तुतिः
कलेवरम् इहैवं ते धर्म एष सनातनः ॥ लोकाः सांतानिका नाम भविष्यन्त्य् अस्य भारत ।
En - Gemini 2.5
“This body of yours here, this is the eternal Dharma. O Bharata, the worlds named Santanika will be his.”
मूलम्
कलेवरम् इहैवं ते धर्म एष सनातनः ॥ लोकाः सांतानिका नाम भविष्यन्त्य् अस्य भारत ।
विश्वास-प्रस्तुतिः
यति-धर्मम् अवाप्तोऽसौ नैष शोच्यः परंतप” इति युधिष्ठिरं प्रत्य् अशरीर-वाग्भिर् विदुरस्य भावि-सांतानिक-लोक-प्राप्ति-फलम् उक्तम् ।
En - Gemini 2.5
“He has attained the Dharma of an ascetic; he is not to be grieved for, O scorcher of foes” - by these disembodied voices to Yudhishthira, the future attainment of the Santanika world by Vidura is stated as a result.
मूलम्
यति-धर्मम् अवाप्तोऽसौ नैष शोच्यः परंतप” इति युधिष्ठिरं प्रत्य् अशरीर-वाग्भिर् विदुरस्य भावि-सांतानिक-लोक-प्राप्ति-फलम् उक्तम् ।
विश्वास-प्रस्तुतिः
सांतानिक-लोकश् च श्रीमद्-उत्तर-रामायणे— “यच् च तिर्यग्-गतं किंचिद् घ्राणम् एवानुचिन्तयत् ।
En - Gemini 2.5
And the Santanika world is described in the glorious Uttara Ramayana: “And whatever has gone astray, thinking only of the smell.”
मूलम्
सांतानिक-लोकश् च श्रीमद्-उत्तर-रामायणे— “यच् च तिर्यग्-गतं किंचिद् घ्राणम् एवानुचिन्तयत् ।
विश्वास-प्रस्तुतिः
प्राणांस् त्यक्ष्यति वै भक्त्या तत्-संताने निवर्त्स्यति” इति रामोपासकस्य सांतानिक-लोकोक्त्या विदुरो राम-भक्त इत्य् अवगम्यते ।
En - Gemini 2.5
“He will indeed abandon his life with devotion, and will return in that lineage” - by this statement about the Santanika world of a worshiper of Rama, Vidura is understood to be a devotee of Rama.
मूलम्
प्राणांस् त्यक्ष्यति वै भक्त्या तत्-संताने निवर्त्स्यति” इति रामोपासकस्य सांतानिक-लोकोक्त्या विदुरो राम-भक्त इत्य् अवगम्यते ।
विश्वास-प्रस्तुतिः
विदुरश् च “माण्डव्य-शापाद्धि स वै धर्मो विदुरतां गतः” इत्य् आश्रम-वासिक-पर्वाष्टाविंशत्य्-अध्याय-व्यास-वचनाद् यम-धर्म-राज इति स्पष्टम् ।
En - Gemini 2.5
And Vidura is clearly Yama-Dharma-Raja, from Vyasa’s statement in the twenty-eighth chapter of Ashramavasika Parva: “Indeed, by the curse of Mandavya, Dharma attained the state of Vidura.”
मूलम्
विदुरश् च “माण्डव्य-शापाद्धि स वै धर्मो विदुरतां गतः” इत्य् आश्रम-वासिक-पर्वाष्टाविंशत्य्-अध्याय-व्यास-वचनाद् यम-धर्म-राज इति स्पष्टम् ।
विश्वास-प्रस्तुतिः
तथा च यमस्य रामोपासकत्वात् स्वोपास्य-दाशरथि-रामस्य स्वोपास्यत्वार्थं यमेन प्रार्थितो दाशरथि-रामो यम-सभायां वर्तते, कुबेर-प्रार्थितो रुद्रः कुबेर-सभायाम् इवेति सर्वं समञ्जसम् ।
En - Gemini 2.5
And thus, since Yama is a worshiper of Rama, Dasharathi Rama, who is worshipped by Yama, resides in Yama’s assembly because Yama prayed for His presence as his worshipped deity, just as Rudra, who was prayed for by Kubera, resides in Kubera’s assembly - all this is consistent.
मूलम्
तथा च यमस्य रामोपासकत्वात् स्वोपास्य-दाशरथि-रामस्य स्वोपास्यत्वार्थं यमेन प्रार्थितो दाशरथि-रामो यम-सभायां वर्तते, कुबेर-प्रार्थितो रुद्रः कुबेर-सभायाम् इवेति सर्वं समञ्जसम् ।
विश्वास-प्रस्तुतिः
रामस्य याम्य-भोगार्थं यम-सभा-वर्तनं वदतः परं याम्य-यातनानुभव आ-चन्द्र-तारकं भवेद् एवेति निश्चयः ।
En - Gemini 2.5
It is certain that for one who says that Rama’s presence in Yama’s assembly is for the enjoyment of Yama’s realm, the experience of Yama’s torments will continue as long as the moon and stars exist.
मूलम्
रामस्य याम्य-भोगार्थं यम-सभा-वर्तनं वदतः परं याम्य-यातनानुभव आ-चन्द्र-तारकं भवेद् एवेति निश्चयः ।
विश्वास-प्रस्तुतिः
महा-भारतस्य विष्णु-सर्वोत्कर्ष एव परम-तात्पर्यम् ।
En - Gemini 2.5
The ultimate purport of the Mahabharata is indeed the supreme excellence of Vishnu.
मूलम्
महा-भारतस्य विष्णु-सर्वोत्कर्ष एव परम-तात्पर्यम् ।
विश्वास-प्रस्तुतिः
उपक्रमे “आद्यं पुरुषम् ईशानं पुरु-हूतं पुरु-ष्टुतम् ।
En - Gemini 2.5
In the beginning, “The primordial Purusha, the Lord, invoked by many, praised by many.”
मूलम्
उपक्रमे “आद्यं पुरुषम् ईशानं पुरु-हूतं पुरु-ष्टुतम् ।
विश्वास-प्रस्तुतिः
ऋतम् एकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ।
En - Gemini 2.5
“The truth, the one imperishable syllable, Brahman, manifest and unmanifest, eternal.”
मूलम्
ऋतम् एकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ।
विश्वास-प्रस्तुतिः
परावराणां स्रष्टारं पुराणं परम् अव्ययम् ।
En - Gemini 2.5
“The creator of the high and the low, the ancient, the supreme, the imperishable.”
मूलम्
परावराणां स्रष्टारं पुराणं परम् अव्ययम् ।
विश्वास-प्रस्तुतिः
मङ्गल्यं मङ्गलं विष्णुं वरेण्यम् अनघं शुचिम्” इति ब्रह्मत्व-जगत्-स्रष्टृत्व-निरतिशय-मङ्गल-रूपत्वादीनां विष्णौ कथनात्, उपसंहारे [[प्३१]] “कीर्तिं प्रथयता तेन पाण्डवानां महात्मनाम् ।
En - Gemini 2.5
“The auspicious, the auspicious, Vishnu, the most excellent, the sinless, the pure” - because of the mention of Brahmanhood, creatorship of the universe, unsurpassable auspiciousness, etc., for Vishnu; and in the conclusion, “By him, the great-souled Pandavas’ fame was spread.”
मूलम्
मङ्गल्यं मङ्गलं विष्णुं वरेण्यम् अनघं शुचिम्” इति ब्रह्मत्व-जगत्-स्रष्टृत्व-निरतिशय-मङ्गल-रूपत्वादीनां विष्णौ कथनात्, उपसंहारे [[प्३१]] “कीर्तिं प्रथयता तेन पाण्डवानां महात्मनाम् ।
विश्वास-प्रस्तुतिः
क्रीडां च वासुदेवस्य देव-देवस्य चक्रिणः ॥ यस् तु नारायणो नाम देव-देवः सनातनः” इति भगवत्-कर्मणः कृत्स्नस्य क्रीडात्वोक्तेः नारायणस्य देव-देवत्व-सनातनत्वोक्तेश् च ।
En - Gemini 2.5
“And the sport of Vasudeva, the God of gods, the wielder of the discus. And he who is named Narayana, the God of gods, the eternal” - because of the statement that all of the Lord’s actions are sport, and the statement of Narayana’s being the God of gods and eternal.
मूलम्
क्रीडां च वासुदेवस्य देव-देवस्य चक्रिणः ॥ यस् तु नारायणो नाम देव-देवः सनातनः” इति भगवत्-कर्मणः कृत्स्नस्य क्रीडात्वोक्तेः नारायणस्य देव-देवत्व-सनातनत्वोक्तेश् च ।
विश्वास-प्रस्तुतिः
मध्ये भारत-सार-भूतायां गीतायाम् “परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
En - Gemini 2.5
In the middle, in the Gita, which is the essence of the Mahabharata, “You are the Supreme Brahman, the Supreme Abode, the Supreme Purity.”
मूलम्
मध्ये भारत-सार-भूतायां गीतायाम् “परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
विश्वास-प्रस्तुतिः
पुरुषं शाश्वतं दिव्यम् आदि-देवम् अजं विभुम् ॥ आहुस् त्वाम् ऋषयः सर्वे देवर्षिर् नारदस् तथा ।
En - Gemini 2.5
“The eternal, divine Purusha, the primordial deity, the unborn, the omnipresent. All sages, as well as the divine sage Narada.”
मूलम्
पुरुषं शाश्वतं दिव्यम् आदि-देवम् अजं विभुम् ॥ आहुस् त्वाम् ऋषयः सर्वे देवर्षिर् नारदस् तथा ।
विश्वास-प्रस्तुतिः
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा ।
En - Gemini 2.5
“Asita, Devala, Vyasa, and you yourself tell me. I am the origin and dissolution of the entire world.”
मूलम्
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा ।
विश्वास-प्रस्तुतिः
मत्तः परतरं नान्यत् किंचिद् अस्ति धनंजय ॥ जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः ।
En - Gemini 2.5
“There is nothing whatsoever higher than Me, O Dhananjaya. Whoever thus truly knows My divine birth and action.”
मूलम्
मत्तः परतरं नान्यत् किंचिद् अस्ति धनंजय ॥ जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः ।
विश्वास-प्रस्तुतिः
त्यक्त्वा देहं पुनर्-जन्म नैति माम् एति सोऽर्जुन” इत्यादिभिर् भगवतो नारायणस्य कृष्णस्य पर-ब्रह्मत्व-पर-धामत्व-नारदादि-सकलर्षि-वेद्य-पर-तत्त्व-रूपत्व-कृत्स्न-जगत्-प्रभवाप्यय-स्थानत्व-भगवद्-व्यतिरिक्तोत्तम-रहितत्व-मोक्ष-हेतु-ज्ञान-विषय-दिव्य-जन्म-कर्मत्वादीनाम् अनितर-साधारणानां कथनात् ।
En - Gemini 2.5
“Abandoning the body, he does not take rebirth, he comes to Me, O Arjuna” - by these and other statements, the unparalleled attributes of the venerable Narayana Krishna, such as being the Supreme Brahman, the Supreme Abode, the Supreme Truth knowable by all sages including Narada, the origin and dissolution of the entire universe, having no superior apart from Himself, and having divine birth and action which are the object of knowledge leading to liberation, are narrated.
मूलम्
त्यक्त्वा देहं पुनर्-जन्म नैति माम् एति सोऽर्जुन” इत्यादिभिर् भगवतो नारायणस्य कृष्णस्य पर-ब्रह्मत्व-पर-धामत्व-नारदादि-सकलर्षि-वेद्य-पर-तत्त्व-रूपत्व-कृत्स्न-जगत्-प्रभवाप्यय-स्थानत्व-भगवद्-व्यतिरिक्तोत्तम-रहितत्व-मोक्ष-हेतु-ज्ञान-विषय-दिव्य-जन्म-कर्मत्वादीनाम् अनितर-साधारणानां कथनात् ।
विश्वास-प्रस्तुतिः
महा-भारते सहस्र-नाम-ध्याये “परमं यो महद्-ब्रह्म” इत्यादिना “जगन्-नाथस्य भूपतेर् विष्णोः” इत्यन्तेन पर-ब्रह्मत्व-परायणत्व-निरतिशय-मङ्गलत्व-निरतिशय-पवित्रत्वादीनां “यतो वा इमानि भूतानि जायन्ते”, “जन्माद्यस्य यतः” इति श्रुति-सूत्रोक्तस्य सर्व-जगद्-उत्पत्ति-हेतुत्व-प्रलय-हेतुत्वादेश् च ब्रह्मासाधारण-लक्षणस्योक्तेः ऋषि-पितरो देवा महा-भूतानि धातवः ।
En - Gemini 2.5
In the Sahasranama chapter of the Mahabharata, from “He who is the Supreme, the Great Brahman” to “Of Vishnu, the Lord of the world, the King,” the unparalleled attributes of Brahman, such as supreme Brahmanhood, supreme refuge, unsurpassed auspiciousness, unsurpassed purity, and being the cause of the origin and dissolution of the entire universe, as stated in the Shruti “Yato va imani bhutani jayante” (From whom indeed these beings are born) and the Sutra “Janmadyasya yataḥ” (From whom is the origin etc., of this), are declared: “Sages, ancestors, gods, great elements, minerals.”
मूलम्
महा-भारते सहस्र-नाम-ध्याये “परमं यो महद्-ब्रह्म” इत्यादिना “जगन्-नाथस्य भूपतेर् विष्णोः” इत्यन्तेन पर-ब्रह्मत्व-परायणत्व-निरतिशय-मङ्गलत्व-निरतिशय-पवित्रत्वादीनां “यतो वा इमानि भूतानि जायन्ते”, “जन्माद्यस्य यतः” इति श्रुति-सूत्रोक्तस्य सर्व-जगद्-उत्पत्ति-हेतुत्व-प्रलय-हेतुत्वादेश् च ब्रह्मासाधारण-लक्षणस्योक्तेः ऋषि-पितरो देवा महा-भूतानि धातवः ।
विश्वास-प्रस्तुतिः
जङ्गमा-जङ्गमं चेदं जगन्-नारायणोद्भवम् ॥ योगो ज्ञानं तथा सांख्यं विद्याः शिल्पादि-कर्म च ।
En - Gemini 2.5
“And this entire world, moving and unmoving, originates from Narayana. Yoga, knowledge, Samkhya, sciences, arts, and crafts.”
मूलम्
जङ्गमा-जङ्गमं चेदं जगन्-नारायणोद्भवम् ॥ योगो ज्ञानं तथा सांख्यं विद्याः शिल्पादि-कर्म च ।
विश्वास-प्रस्तुतिः
वेदाः शास्त्राणि विज्ञानम् एतत् सर्वं जनार्दनात् इति ऋषि-पितृ-देव-महा-भूत-जङ्गमा-जङ्गम-वेद-शास्त्रादि-कृत्स्न-हेतुत्वस्य पर-ब्रह्म-लक्षणस्य नारायणे कथनाच् च ।
En - Gemini 2.5
“The Vedas, Shastras, and sciences - all this is from Janardana” - and because of the statement of the attribute of Parabrahman, which is the cause of all things including sages, ancestors, gods, great elements, movable and immovable beings, Vedas, Shastras, etc., in Narayana.
मूलम्
वेदाः शास्त्राणि विज्ञानम् एतत् सर्वं जनार्दनात् इति ऋषि-पितृ-देव-महा-भूत-जङ्गमा-जङ्गम-वेद-शास्त्रादि-कृत्स्न-हेतुत्वस्य पर-ब्रह्म-लक्षणस्य नारायणे कथनाच् च ।
विश्वास-प्रस्तुतिः
एतेन विष्णोर् अवान्तर-कल्पे तत्-कल्पीय-पदार्थ-मात्र-स्रष्टृत्वं न तु कृत्स्न-जगत्-कारणत्वम् ।
En - Gemini 2.5
By this, the doubt that Vishnu’s creatorship is limited to the objects of a particular minor Kalpa (cosmic age) and not of the entire universe, and that He is not the creator of the world in the primal Kalpa, by which He would attain Parabrahmanhood, is refuted.
मूलम्
एतेन विष्णोर् अवान्तर-कल्पे तत्-कल्पीय-पदार्थ-मात्र-स्रष्टृत्वं न तु कृत्स्न-जगत्-कारणत्वम् ।
विश्वास-प्रस्तुतिः
न ह्य् आदि-कल्पे जगत्-स्रष्टृत्वं येन विष्णोः पर-ब्रह्मत्वं भवेद् इति शङ्का परास्ता ।
En - Gemini 2.5
The doubt that Vishnu is not the creator of the world in the primal Kalpa, by which He would attain Parabrahmanhood, is refuted.
मूलम्
न ह्य् आदि-कल्पे जगत्-स्रष्टृत्वं येन विष्णोः पर-ब्रह्मत्वं भवेद् इति शङ्का परास्ता ।
विश्वास-प्रस्तुतिः
“अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा” इति गीता-वचनेन “यतः सर्वाणि भूतानि भवन्त्य् आदि-युगागमे” इति सहस्र-नाम-ध्याय-गत-वचनेन कृत्स्न-जगत्-प्रभव-हेतुत्वाद् आदि-युगीय-पदार्थ-स्रष्टृत्वयोर् भगवति प्रतिपादनाद् इत्य् अलम् ।
En - Gemini 2.5
Because the Gita verse “I am the origin and dissolution of the entire world,” and the Sahasranama chapter verse “From whom all beings arise at the beginning of the Yuga,” state the Lord as the cause of the origin of the entire world and the creator of objects in the primal Yuga, respectively; enough of this.
मूलम्
“अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा” इति गीता-वचनेन “यतः सर्वाणि भूतानि भवन्त्य् आदि-युगागमे” इति सहस्र-नाम-ध्याय-गत-वचनेन कृत्स्न-जगत्-प्रभव-हेतुत्वाद् आदि-युगीय-पदार्थ-स्रष्टृत्वयोर् भगवति प्रतिपादनाद् इत्य् अलम् ।
विश्वास-प्रस्तुतिः
आश्वमेधीयानुगीता अर्जुनं प्रति भगवतोक्ता ।
En - Gemini 2.5
The Ashvamedhiya Anugita was spoken by the Lord to Arjuna.
मूलम्
आश्वमेधीयानुगीता अर्जुनं प्रति भगवतोक्ता ।
विश्वास-प्रस्तुतिः
सा भीष्म-पर्वीय-भगवद्-गीता- [[प्३२]] व्याख्या ।
En - Gemini 2.5
That is a commentary on the Bhagavad Gita of Bhishma Parva.
मूलम्
सा भीष्म-पर्वीय-भगवद्-गीता- [[प्३२]] व्याख्या ।
विश्वास-प्रस्तुतिः
अतो गीतार्थोऽनुगीतानुरोधेन नेय इति कश्चित् प्रललाप ।
En - Gemini 2.5
Therefore, someone prattled that the meaning of the Gita should be understood in accordance with the Anugita.
मूलम्
अतो गीतार्थोऽनुगीतानुरोधेन नेय इति कश्चित् प्रललाप ।
विश्वास-प्रस्तुतिः
तन् न ।
En - Gemini 2.5
That is not so.
मूलम्
तन् न ।
विश्वास-प्रस्तुतिः
अनुगीता-प्रथमाध्याये विदितं मे महा-बाहो संग्रामे समुपस्थिते ।
En - Gemini 2.5
In the first chapter of Anugita: “It is known to me, O mighty-armed, when battle was imminent.”
मूलम्
अनुगीता-प्रथमाध्याये विदितं मे महा-बाहो संग्रामे समुपस्थिते ।
विश्वास-प्रस्तुतिः
माहात्म्यं देवकी-पुत्र तच् च ते रूपम् ऐश्वरम् ॥ यत् तु तद् भवता प्रोक्तं तदा केशव सौहृदात् ।
En - Gemini 2.5
“The greatness, O son of Devaki, and that divine form of yours. But what was spoken by you then, O Keshava, out of affection.”
मूलम्
माहात्म्यं देवकी-पुत्र तच् च ते रूपम् ऐश्वरम् ॥ यत् तु तद् भवता प्रोक्तं तदा केशव सौहृदात् ।
विश्वास-प्रस्तुतिः
तत् सर्वं पुरुष-व्याघ्र नष्टं मे व्यग्र-चेतसः इत्यनेनार्जुनस्य गीतायां भगवता कथितं शिव-विरिञ्चादिभ्य आत्मभ्यो महत्त्व-विशिष्टात्मत्व-रूपं माहात्म्यं विदितं न तु विस्मृतम् ।
En - Gemini 2.5
“All that, O tiger among men, has been lost to me, whose mind was agitated” - by this, it is concluded that Arjuna knew the greatness spoken by the Lord in the Gita, which is of the nature of being the Supreme Self, superior to Shiva, Brahma, and others, and he had not forgotten it.
मूलम्
तत् सर्वं पुरुष-व्याघ्र नष्टं मे व्यग्र-चेतसः इत्यनेनार्जुनस्य गीतायां भगवता कथितं शिव-विरिञ्चादिभ्य आत्मभ्यो महत्त्व-विशिष्टात्मत्व-रूपं माहात्म्यं विदितं न तु विस्मृतम् ।
विश्वास-प्रस्तुतिः
यत् तु सौहार्द-मात्र-निमित्तकम् उक्तं तद् विस्मृतम् इत्य् उक्तम् इत्य् अवसीयते ।
En - Gemini 2.5
It is concluded that what was spoken merely out of affection was said to be forgotten.
मूलम्
यत् तु सौहार्द-मात्र-निमित्तकम् उक्तं तद् विस्मृतम् इत्य् उक्तम् इत्य् अवसीयते ।
विश्वास-प्रस्तुतिः
तेन च भगवतः सर्वोत्कृष्टत्व-बोधक-गीता-श्लोक-विषये अनुगीताया न व्याख्यानत्वं, तद्-अर्थस्य विदितत्वोक्त्यार्जुनेनापृष्टत्वात् ।
En - Gemini 2.5
Therefore, the Anugita is not a commentary on the Gita verses that convey the supreme excellence of the Lord, as Arjuna did not ask about that meaning, having already known it.
मूलम्
तेन च भगवतः सर्वोत्कृष्टत्व-बोधक-गीता-श्लोक-विषये अनुगीताया न व्याख्यानत्वं, तद्-अर्थस्य विदितत्वोक्त्यार्जुनेनापृष्टत्वात् ।
विश्वास-प्रस्तुतिः
यत् तु विस्मृतं तस्य पुनर्-वक्तव्यत्वेन तद्-विषये प्रश्नो वक्तव्यः ।
En - Gemini 2.5
As for what was forgotten, it should be stated again, and a question should be raised about it.
मूलम्
यत् तु विस्मृतं तस्य पुनर्-वक्तव्यत्वेन तद्-विषये प्रश्नो वक्तव्यः ।
विश्वास-प्रस्तुतिः
तद्-विषयेऽपि व्याख्यात्वं न युज्यते न च साद्य पुनर्-भूयः स्मृतिर् मे संभविष्यति ।
En - Gemini 2.5
Even in that regard, it is not appropriate to consider it a commentary, nor will that memory arise in me again today.
मूलम्
तद्-विषयेऽपि व्याख्यात्वं न युज्यते न च साद्य पुनर्-भूयः स्मृतिर् मे संभविष्यति ।
विश्वास-प्रस्तुतिः
न शक्यं तन् मया भूयस् तथा वक्तुम् अशेषतः ॥ परं हि ब्रह्म कथितं योग-युक्तेन तन् मया इति भगवत्-प्रतिवचनेन गीता सावधान-मनसा कथिता, अनुगीता तु न तथेत्य् अवगमेन तयोर् व्याख्याय-व्याख्यानत्वस्य सुदूर-पराहतत्वावगमात् अनुगीतानुरोधेन गीता-नयनं मूर्ख-बुद्ध्यनुरोधेन पण्डित-बुद्धि-नयन-तुल्यम् ।
En - Gemini 2.5
“Nor can that be spoken by me again completely. Indeed, that supreme Brahman was spoken by me when I was engaged in Yoga” - by this reply of the Lord, it is understood that the Gita was spoken with a concentrated mind, but the Anugita was not, and thus the relationship of commentary and commented text between them is far-fetched, and interpreting the Gita according to the Anugita is like guiding a scholar’s intellect according to a fool’s intellect.
मूलम्
न शक्यं तन् मया भूयस् तथा वक्तुम् अशेषतः ॥ परं हि ब्रह्म कथितं योग-युक्तेन तन् मया इति भगवत्-प्रतिवचनेन गीता सावधान-मनसा कथिता, अनुगीता तु न तथेत्य् अवगमेन तयोर् व्याख्याय-व्याख्यानत्वस्य सुदूर-पराहतत्वावगमात् अनुगीतानुरोधेन गीता-नयनं मूर्ख-बुद्ध्यनुरोधेन पण्डित-बुद्धि-नयन-तुल्यम् ।
विश्वास-प्रस्तुतिः
तस्माद् भगवद्-गीता-विरोधे कूर्म-पुराणीयेश्वर-गीता-वद् अनुगीतान्यथानेयैव, मनोऽवधानं विनैवानुगीताया भगवता कथितत्वाद् इत्य् अलम् ॥
En - Gemini 2.5
Therefore, in case of contradiction with the Bhagavad Gita, the Anugita must be interpreted otherwise, just like the Ishvara-Gita in the Kurma Purana, because the Anugita was spoken by the Lord without mental concentration; enough of this.
मूलम्
तस्माद् भगवद्-गीता-विरोधे कूर्म-पुराणीयेश्वर-गीता-वद् अनुगीतान्यथानेयैव, मनोऽवधानं विनैवानुगीताया भगवता कथितत्वाद् इत्य् अलम् ॥
विश्वास-प्रस्तुतिः
केचित् तु रावण-वध-जनित-पाप-निवृत्त्यर्थं रामेण रामेश्वराख्य-लिङ्ग-प्रतिष्ठापनं सेतु-मध्ये कृतम् इति वदन्तः कुत्रापि पुराणे असुर-राक्षसादि-वध-जनित-पाप-क्षयार्थं शिवेन प्रायश्चित्त-रूपतया किंचित्-कर्म कृतम् इत्य् अनुक्त्या शिवापेक्षया विष्णोर् अपकर्ष इति वदन्ति ।
En - Gemini 2.5
Some say that Rama installed the Linga named Rameshwara in the middle of the bridge for the removal of sins generated by killing Ravana, and since it is not mentioned anywhere in the Puranas that Shiva performed any expiatory rite for the removal of sins generated by killing Asuras, Rakshasas, etc., they claim that Vishnu is inferior to Shiva.
मूलम्
केचित् तु रावण-वध-जनित-पाप-निवृत्त्यर्थं रामेण रामेश्वराख्य-लिङ्ग-प्रतिष्ठापनं सेतु-मध्ये कृतम् इति वदन्तः कुत्रापि पुराणे असुर-राक्षसादि-वध-जनित-पाप-क्षयार्थं शिवेन प्रायश्चित्त-रूपतया किंचित्-कर्म कृतम् इत्य् अनुक्त्या शिवापेक्षया विष्णोर् अपकर्ष इति वदन्ति ।
विश्वास-प्रस्तुतिः
अपरे तु प्रायश्चित्त-हेमाद्रौ उत्तर-भागे कृच्छ्र-निरूपण-प्रकरणे देवलः— कृच्छ्रं माहेश्वरं नाम सर्व-पाप-प्रणाशनम् ।
En - Gemini 2.5
Others, however, in the Prayashchitta-Hemadri, in the northern section, in the chapter describing Kṛcchra (a severe penance), Devala states: “The penance named Maheshwara destroys all sins.”
मूलम्
अपरे तु प्रायश्चित्त-हेमाद्रौ उत्तर-भागे कृच्छ्र-निरूपण-प्रकरणे देवलः— कृच्छ्रं माहेश्वरं नाम सर्व-पाप-प्रणाशनम् ।
विश्वास-प्रस्तुतिः
पुरा कंदर्प-हननान् महा-दोषः समुत्थितः ॥ तद्-दोष-परिहारार्थं ब्रह्माणं पर्येपृच्छत ।
En - Gemini 2.5
“Formerly, a great sin arose from the killing of Kāmadeva. For the removal of that sin, (Shiva) approached Brahma and inquired.”
मूलम्
पुरा कंदर्प-हननान् महा-दोषः समुत्थितः ॥ तद्-दोष-परिहारार्थं ब्रह्माणं पर्येपृच्छत ।
विश्वास-प्रस्तुतिः
पञ्च-वाणस्य हननान् महान् दोषोऽयम् उत्थितः ॥ तद्-दोष-परिहारार्थं निष्कृतिर् देव कथ्यताम् ॥ ब्रह्मा— प्रातः स्नात्वा यथान्यायं दन्त-धावन-पूर्वकम् ।
En - Gemini 2.5
“This great sin has arisen from the killing of the five-arrowed (Kāmadeva). O God, tell me the expiation for the removal of that sin. Brahma (replied): ‘Having bathed in the morning according to injunction, after cleaning the teeth.’”
मूलम्
पञ्च-वाणस्य हननान् महान् दोषोऽयम् उत्थितः ॥ तद्-दोष-परिहारार्थं निष्कृतिर् देव कथ्यताम् ॥ ब्रह्मा— प्रातः स्नात्वा यथान्यायं दन्त-धावन-पूर्वकम् ।
विश्वास-प्रस्तुतिः
शुद्ध-वस्त्रम् अलंकृत्य पुण्ड्र-धारण-पूर्वकम् ॥ नित्य-कर्म समाप्यादौ संकल्पं पूर्वम् आचरेत् ।
En - Gemini 2.5
“Having adorned oneself with clean clothes, and wearing the sectarian mark (puṇḍra). Having first completed the daily rites, one should make a resolve beforehand.”
मूलम्
शुद्ध-वस्त्रम् अलंकृत्य पुण्ड्र-धारण-पूर्वकम् ॥ नित्य-कर्म समाप्यादौ संकल्पं पूर्वम् आचरेत् ।
विश्वास-प्रस्तुतिः
तावन् नारायणं देवं स्मृत्वा पाप-विमोचनम् ॥ [[प्३३]] यदा मन्दायते भानुस् तदा कापालम् उद्वहन् ।
En - Gemini 2.5
“So long, remembering the Lord Narayana, the dispeller of sins. When the sun becomes dim, then carrying a skull-bowl.”
मूलम्
तावन् नारायणं देवं स्मृत्वा पाप-विमोचनम् ॥ [[प्३३]] यदा मन्दायते भानुस् तदा कापालम् उद्वहन् ।
विश्वास-प्रस्तुतिः
श्रोत्रियाणां च विप्राणां गृहेषु त्रिषु संख्यया ॥ शाकं भैक्षं फलं वापि यथा-संभवम् आदरात् ।
En - Gemini 2.5
“And in three houses of Brahmins learned in the Vedas, he should respectfully bring, as far as possible, vegetables, alms, or fruits.”
मूलम्
श्रोत्रियाणां च विप्राणां गृहेषु त्रिषु संख्यया ॥ शाकं भैक्षं फलं वापि यथा-संभवम् आदरात् ।
विश्वास-प्रस्तुतिः
आनयित्वाथ देवाय समये विधि-पूर्वकम् ॥ भक्षयेत् तानि सर्वाणि वाग्यतोऽन्नम् अकुत्सयन् ।
En - Gemini 2.5
“Having brought them and offered them to the deity according to ritual at the proper time, one should consume all of them, restraining speech and not condemning the food.”
मूलम्
आनयित्वाथ देवाय समये विधि-पूर्वकम् ॥ भक्षयेत् तानि सर्वाणि वाग्यतोऽन्नम् अकुत्सयन् ।
विश्वास-प्रस्तुतिः
हस्तौ पादौ च प्रक्षाल्य द्विराचम्य ततः परम् ॥ सायंकाले स्वपेद् देव-समीपे नियतो वसन् ।
En - Gemini 2.5
“Having washed hands and feet, and after performing achamana twice, then in the evening, one should sleep near the deity, living in self-control.”
मूलम्
हस्तौ पादौ च प्रक्षाल्य द्विराचम्य ततः परम् ॥ सायंकाले स्वपेद् देव-समीपे नियतो वसन् ।
विश्वास-प्रस्तुतिः
परेद्युः प्रातरुत्थाय पूर्ववत् सर्वम् आचरेत् ॥ गौर् एका द्विज-वर्याय देया कर्म-फलाप्तये ।
En - Gemini 2.5
“The next day, rising in the morning, one should perform everything as before. A cow should be given to an excellent Brahmana for obtaining the fruit of the action.”
मूलम्
परेद्युः प्रातरुत्थाय पूर्ववत् सर्वम् आचरेत् ॥ गौर् एका द्विज-वर्याय देया कर्म-फलाप्तये ।
विश्वास-प्रस्तुतिः
पञ्च-गव्यं पिवेत् पश्चात् कृच्छ्रे माहेश्वरे त्व् इदम् ॥ कुरु त्वम् एवं भगवन् सर्व-पाप-विशुद्धये ।
En - Gemini 2.5
“Afterwards, one should drink Panchagavya; this is prescribed in the Maheshvara Krichchhra. O Lord, perform this for the purification from all sins.”
मूलम्
पञ्च-गव्यं पिवेत् पश्चात् कृच्छ्रे माहेश्वरे त्व् इदम् ॥ कुरु त्वम् एवं भगवन् सर्व-पाप-विशुद्धये ।
विश्वास-प्रस्तुतिः
एवं श्रुत्वा तदा देवो महेशानस् तथाकरोत् इति ग्रन्थेन मन्मथ-हनन-जनित-पाप-प्रायश्चित्तं नारायणाराधनात्मकं माहेश्वर-कृच्छ्रे शिवेनानुष्ठितम् इति हेमाद्रि-महा-निबन्धन-कार-धृत-देवल-स्मृति-वचनेन कथितम् अस्ति ।
En - Gemini 2.5
“Having heard this, the Lord Maheshana then did so” - by this text, it is stated by the Devala Smriti passage, cited by Hemadri, the great commentator, that Shiva performed an expiation for the sin generated by killing Kama, which was in the form of worshipping Narayana, as a Maheshvara Krichchhra (penance).
मूलम्
एवं श्रुत्वा तदा देवो महेशानस् तथाकरोत् इति ग्रन्थेन मन्मथ-हनन-जनित-पाप-प्रायश्चित्तं नारायणाराधनात्मकं माहेश्वर-कृच्छ्रे शिवेनानुष्ठितम् इति हेमाद्रि-महा-निबन्धन-कार-धृत-देवल-स्मृति-वचनेन कथितम् अस्ति ।
विश्वास-प्रस्तुतिः
न ह्य् एवं विष्णुना प्रायश्चित्तं पाप-क्षयार्थं कृतम् इति महा-निबन्धन-कार-धृत-स्मृति-वचनेन कथितं दृश्यते ।
En - Gemini 2.5
Indeed, it is not seen in any Smriti passage cited by the great commentator that Vishnu performed such an expiation for the removal of sins.
मूलम्
न ह्य् एवं विष्णुना प्रायश्चित्तं पाप-क्षयार्थं कृतम् इति महा-निबन्धन-कार-धृत-स्मृति-वचनेन कथितं दृश्यते ।
विश्वास-प्रस्तुतिः
पुराण-वचनं त्व् अविश्वसनीयम् ।
En - Gemini 2.5
Purana statements, however, are not reliable.
मूलम्
पुराण-वचनं त्व् अविश्वसनीयम् ।
विश्वास-प्रस्तुतिः
तस्माच् छिवापेक्षया विष्णुर् एवोत्कृष्ट इति प्राहुः ।
En - Gemini 2.5
Therefore, they say that Vishnu is superior to Shiva.
मूलम्
तस्माच् छिवापेक्षया विष्णुर् एवोत्कृष्ट इति प्राहुः ।
विश्वास-प्रस्तुतिः
अन्ये तु यक्षानुरूप-बलि-न्यायेन पुराणे विष्णुना पाप-क्षयार्थं लिङ्ग-स्थापनं प्रायश्चित्तं कृतम् इत्यस्य प्रातिभ-व्येन पुराण एव शिवेन प्रायश्चित्तं कृतम् इति मन्वानाः पौराणिकं प्रायश्चित्तादिकं शिवस्य कथयन्ति ।
En - Gemini 2.5
Others, however, assuming by the maxim of “sacrifice according to the Yaksha” (i.e., treating things on par) that if Vishnu performed penance by installing a Linga for the removal of sins in the Puranas, then Shiva also performed penance in the Puranas, narrate the Puranic expiations and so on for Shiva.
मूलम्
अन्ये तु यक्षानुरूप-बलि-न्यायेन पुराणे विष्णुना पाप-क्षयार्थं लिङ्ग-स्थापनं प्रायश्चित्तं कृतम् इत्यस्य प्रातिभ-व्येन पुराण एव शिवेन प्रायश्चित्तं कृतम् इति मन्वानाः पौराणिकं प्रायश्चित्तादिकं शिवस्य कथयन्ति ।
विश्वास-प्रस्तुतिः
तथा हि— वराह-पुराणे मुद्रिते षट्-त्रिंशद्-अधिक-शततमाध्याये भूमिं प्रति ‘वराह-मूर्तिर् भगवान् उवाच’ इत्य् आरभ्य प्रवृत्ते ग्रन्थे ‘शिवः— तव विष्णोः प्रसादेन मया तत् त्रि-पुरं हतम् ।
En - Gemini 2.5
Thus: In the printed Varaha Purana, in the 136th chapter, in the text beginning with ‘The venerable Varaha-murti said’ to Bhumi, it states: ‘Shiva: By your grace, O Vishnu, that Tripur was slain by me.’
मूलम्
तथा हि— वराह-पुराणे मुद्रिते षट्-त्रिंशद्-अधिक-शततमाध्याये भूमिं प्रति ‘वराह-मूर्तिर् भगवान् उवाच’ इत्य् आरभ्य प्रवृत्ते ग्रन्थे ‘शिवः— तव विष्णोः प्रसादेन मया तत् त्रि-पुरं हतम् ।
विश्वास-प्रस्तुतिः
निहता दानवास् तत्र गर्भिण्यश् च निपातिताः ॥ ३३ ॥ बाल-वृद्धा हतास् तत्र विस्फुरन्तो दिशो दश ।
En - Gemini 2.5
“The Danavas were killed there, and pregnant women were also slain. Children and old people were killed there, scattering in all ten directions.”
मूलम्
निहता दानवास् तत्र गर्भिण्यश् च निपातिताः ॥ ३३ ॥ बाल-वृद्धा हतास् तत्र विस्फुरन्तो दिशो दश ।
विश्वास-प्रस्तुतिः
तस्य पापस्य दोषेण न शक्नोमि विचेष्टितुम् ॥ ३४ ॥ प्रणष्ट-योग-मायश् च नष्टैश्वर्यश् च माधव ।
En - Gemini 2.5
“By the fault of that sin, I am unable to act. My Yoga-Maya is lost, and my power is gone, O Madhava.”
मूलम्
तस्य पापस्य दोषेण न शक्नोमि विचेष्टितुम् ॥ ३४ ॥ प्रणष्ट-योग-मायश् च नष्टैश्वर्यश् च माधव ।
विश्वास-प्रस्तुतिः
किं कर्तव्यं मया विष्णो पापावस्थेन संप्रति ॥ ३५ ॥ विष्णो तच्-छीघ्रं मे ब्रूहि शोधनं पाप-नाशनम् ।
En - Gemini 2.5
“What should I do now, O Vishnu, being in a sinful state? O Vishnu, quickly tell me that purification which destroys sin.”
मूलम्
किं कर्तव्यं मया विष्णो पापावस्थेन संप्रति ॥ ३५ ॥ विष्णो तच्-छीघ्रं मे ब्रूहि शोधनं पाप-नाशनम् ।
विश्वास-प्रस्तुतिः
येन वै कृत-मात्रेण शुद्धो मुच्येत किल्बिषात् ॥ ३६ ॥ एवं चिन्तात्मनस् तस्य मया रुद्रस्य भाषितम् ।
En - Gemini 2.5
“By merely performing which, one is purified and freed from sin. Thus, to Rudra, whose mind was full of worry, I spoke.”
मूलम्
येन वै कृत-मात्रेण शुद्धो मुच्येत किल्बिषात् ॥ ३६ ॥ एवं चिन्तात्मनस् तस्य मया रुद्रस्य भाषितम् ।
विश्वास-प्रस्तुतिः
कपाल-मालां गृहीत्वा शमलं गच्छ शंकर ॥ ३७ ॥ ममैवं वचनं श्रुत्वा भगवान् परमेश्वरः ।
En - Gemini 2.5
“Taking a garland of skulls, O Shankara, go to the cremation ground. Having heard my words thus, the venerable Parameshvara.”
मूलम्
कपाल-मालां गृहीत्वा शमलं गच्छ शंकर ॥ ३७ ॥ ममैवं वचनं श्रुत्वा भगवान् परमेश्वरः ।
विश्वास-प्रस्तुतिः
उवाच मां पुनर्-व्यक्तं मां बोधय जगत्-पते ॥ ३८ ॥ कीदृशः शमलो विष्णो यत्र गच्छामहे वयम् ।
En - Gemini 2.5
“Spoke to me again clearly, ‘Instruct me, O Lord of the world.’ ‘What kind of cremation ground is it, O Vishnu, to which we should go?’”
मूलम्
उवाच मां पुनर्-व्यक्तं मां बोधय जगत्-पते ॥ ३८ ॥ कीदृशः शमलो विष्णो यत्र गच्छामहे वयम् ।
विश्वास-प्रस्तुतिः
ततस् तस्य वचः श्रुत्वा शंकरस्य महे- [[प्३४]] श्वरः ॥ ३९ ॥ तत्-पाप-शोधनार्थाय मया वाक्यं प्रभाषितम् ।
En - Gemini 2.5
“Then, having heard the words of Shankara, Maheśvara (Vishnu). For the purification of that sin, I spoke these words.”
मूलम्
ततस् तस्य वचः श्रुत्वा शंकरस्य महे- [[प्३४]] श्वरः ॥ ३९ ॥ तत्-पाप-शोधनार्थाय मया वाक्यं प्रभाषितम् ।
विश्वास-प्रस्तुतिः
श्मशानं शमलं रुद्र पूतिको व्रण-गन्धिकः ।
En - Gemini 2.5
“A cremation ground is the Shamala, O Rudra, foul-smelling, like a wound. Living beings devoid of attachment reside there.”
मूलम्
श्मशानं शमलं रुद्र पूतिको व्रण-गन्धिकः ।
विश्वास-प्रस्तुतिः
स्वयं तिष्ठन्ति वै तत्र मनुजा विगत-स्पृहाः ॥ ४० ॥ तत्र गृह्य कपालानि रम तत्रैव शंकर ।
En - Gemini 2.5
“Indeed, men free from desire reside there on their own. There, taking skulls, amuse yourself there, O Shankara.”
मूलम्
स्वयं तिष्ठन्ति वै तत्र मनुजा विगत-स्पृहाः ॥ ४० ॥ तत्र गृह्य कपालानि रम तत्रैव शंकर ।
विश्वास-प्रस्तुतिः
तत्र वर्ष-सहस्राणि दिव्यान् एव दृढ-व्रतः ॥ ४१ ॥ ततो भक्षय मांसानि पाप-क्षय-चिकीर्षकः ।
En - Gemini 2.5
“There, for thousands of divine years, with firm vows. Then, desirous of destroying sin, consume meat.”
मूलम्
तत्र वर्ष-सहस्राणि दिव्यान् एव दृढ-व्रतः ॥ ४१ ॥ ततो भक्षय मांसानि पाप-क्षय-चिकीर्षकः ।
विश्वास-प्रस्तुतिः
हतानां चैव मांसानि ये च भोज्यास् तव प्रियाः ॥ ४२ ॥ एवं सर्वैर् गणैः सार्धं वस तत्र सु-निश्चितः ।
En - Gemini 2.5
“And the flesh of those killed, and whatever is pleasing to you to eat. Thus, along with all your ganas (attendants), reside there firmly resolved.”
मूलम्
हतानां चैव मांसानि ये च भोज्यास् तव प्रियाः ॥ ४२ ॥ एवं सर्वैर् गणैः सार्धं वस तत्र सु-निश्चितः ।
विश्वास-प्रस्तुतिः
पूर्णं वर्ष-सहस्रे तु स्थित्वा त्वं शमले पुनः ॥ ४३ ॥ गच्छाश्रम-पदं पश्चाद् गौतमस्य महा-मुनेः ।
En - Gemini 2.5
“Having stayed there in the cremation ground for a full thousand years, then afterwards, go to the hermitage of the great sage Gautama.”
मूलम्
पूर्णं वर्ष-सहस्रे तु स्थित्वा त्वं शमले पुनः ॥ ४३ ॥ गच्छाश्रम-पदं पश्चाद् गौतमस्य महा-मुनेः ।
विश्वास-प्रस्तुतिः
तत्र ज्ञास्यसि चात्मानं गौतमाश्रम-संस्थितः ॥ ४४ ॥ प्रसादाद् गौतम-मुनेर् भविता गत-किल्बिषः ।
En - Gemini 2.5
“There, residing in Gautama’s hermitage, you will know the Self. By the grace of Gautama Muni, you will become free from sin.”
मूलम्
तत्र ज्ञास्यसि चात्मानं गौतमाश्रम-संस्थितः ॥ ४४ ॥ प्रसादाद् गौतम-मुनेर् भविता गत-किल्बिषः ।
विश्वास-प्रस्तुतिः
सततं पाप-संपन्नं कपालं शिरसि स्थितम् ।
En - Gemini 2.5
“The skull, always associated with sin, placed on your head.”
मूलम्
सततं पाप-संपन्नं कपालं शिरसि स्थितम् ।
विश्वास-प्रस्तुतिः
ऋषिः पातयितुं शक्तो मत्-प्रसादान् न संशयः ॥ ४५ ॥ एवं रुद्रे वरं दत्त्वा तत्रैवान्तर्हितोऽभवम् ।
En - Gemini 2.5
“The sage is capable of making it fall, by My grace, there is no doubt. Thus, having given this boon to Rudra, I disappeared there itself.”
मूलम्
ऋषिः पातयितुं शक्तो मत्-प्रसादान् न संशयः ॥ ४५ ॥ एवं रुद्रे वरं दत्त्वा तत्रैवान्तर्हितोऽभवम् ।
विश्वास-प्रस्तुतिः
रुद्रोऽपि भ्रमते तत्र श्मशाने पाप-संवृते ॥ ४६ ॥ अतो न रोचते भूमे श्मशानं मे कदाचन ।
En - Gemini 2.5
“Rudra also roamed there in the cremation ground filled with sin. Therefore, O Earth, the cremation ground is never pleasing to me.”
मूलम्
रुद्रोऽपि भ्रमते तत्र श्मशाने पाप-संवृते ॥ ४६ ॥ अतो न रोचते भूमे श्मशानं मे कदाचन ।
विश्वास-प्रस्तुतिः
यत्र रुद्र-कृतं पापं स्थितं किल भयावहम् ॥ ४७ ॥ एतत् ते कथितं भद्रे श्मशानं मे जुगुप्सितम्’ इत्यादिना शिवेनापि त्रि-पुरासुरादि-वध-प्रायश्चित्तम् अनुष्ठितम् इत्य् अवगम्यते ।
En - Gemini 2.5
“Where the sin committed by Rudra, truly terrifying, resides. O auspicious one, this is what I have told you about the cremation ground, which is abhorrent to me” - by this and other passages, it is understood that Shiva also performed expiation for the sin of killing Tripurasura and others.
मूलम्
यत्र रुद्र-कृतं पापं स्थितं किल भयावहम् ॥ ४७ ॥ एतत् ते कथितं भद्रे श्मशानं मे जुगुप्सितम्’ इत्यादिना शिवेनापि त्रि-पुरासुरादि-वध-प्रायश्चित्तम् अनुष्ठितम् इत्य् अवगम्यते ।
विश्वास-प्रस्तुतिः
तस्मिन्न् एव मुद्रिते वराह-पुराणे सप्त-नवतितमाध्याये— ‘ब्रह्मणा तु यदा सृष्टः पूर्वं रुद्रो वरानने ।
En - Gemini 2.5
In the same printed Varaha Purana, in the ninety-seventh chapter: ‘When Rudra was first created by Brahma, O beautiful-faced one.’
मूलम्
तस्मिन्न् एव मुद्रिते वराह-पुराणे सप्त-नवतितमाध्याये— ‘ब्रह्मणा तु यदा सृष्टः पूर्वं रुद्रो वरानने ।
विश्वास-प्रस्तुतिः
तृतीये जन्मनि विभुः पिङ्गाक्षो नील-लोहितः ॥ तदा कौतूहलाद् ब्रह्मा स्कन्धे तं जगृहे प्रभुः ।
En - Gemini 2.5
“In His third birth, the omnipresent, reddish-eyed, blue-throated (Shiva). Then, out of curiosity, Brahma took Him on His shoulder, the Lord.”
मूलम्
तृतीये जन्मनि विभुः पिङ्गाक्षो नील-लोहितः ॥ तदा कौतूहलाद् ब्रह्मा स्कन्धे तं जगृहे प्रभुः ।
विश्वास-प्रस्तुतिः
स्कन्धारूढस् तदा रुद्रो ब्रह्मणोऽव्यक्त-जन्मनः ॥ जन्मतश् च शिरो यद्धि पञ्चमं तज् जहार ह ।
En - Gemini 2.5
“Then Rudra, seated on the shoulder of Brahma, whose origin is unmanifest. Indeed, He cut off the fifth head that was born.”
मूलम्
स्कन्धारूढस् तदा रुद्रो ब्रह्मणोऽव्यक्त-जन्मनः ॥ जन्मतश् च शिरो यद्धि पञ्चमं तज् जहार ह ।
विश्वास-प्रस्तुतिः
तस्मिन् निकृत्ते शिरसि प्राजापत्ये त्रि-लोचनः ॥ ब्रह्माणं प्रयतो भूत्वा रुद्रो वचनम् अब्रवीत् ॥ रुद्र उवाच— कथं कपालं मे देव करात् पतति सु-व्रत ।
En - Gemini 2.5
“When that fifth head of Prajapati was cut off, the three-eyed Rudra. Becoming humble, spoke to Brahma. Rudra said: ‘How, O God, O one of good vows, will the skull fall from my hand?’”
मूलम्
तस्मिन् निकृत्ते शिरसि प्राजापत्ये त्रि-लोचनः ॥ ब्रह्माणं प्रयतो भूत्वा रुद्रो वचनम् अब्रवीत् ॥ रुद्र उवाच— कथं कपालं मे देव करात् पतति सु-व्रत ।
विश्वास-प्रस्तुतिः
नश्यते च कथं पापं ममैतद् वद सु-व्रत ॥ ब्रह्मोवाच— इदम् एव व्रतं देव चर कापालिकं विभो ।
En - Gemini 2.5
“And how will this sin of mine be destroyed? Tell me, O one of good vows. Brahma said: ‘O God, O omnipresent one, perform this very Kapaalika vow.’”
मूलम्
नश्यते च कथं पापं ममैतद् वद सु-व्रत ॥ ब्रह्मोवाच— इदम् एव व्रतं देव चर कापालिकं विभो ।
विश्वास-प्रस्तुतिः
समयाचार-संयुक्तं कृत्वा स्वेनैव तेजसा ॥ एवम् उक्तस् तदा रुद्रो ब्रह्मणाव्यक्त-मूर्तिना ।
En - Gemini 2.5
“Having performed it with proper conduct and by your own power. Thus addressed by Brahma, whose form is unmanifest, Rudra then.”
मूलम्
समयाचार-संयुक्तं कृत्वा स्वेनैव तेजसा ॥ एवम् उक्तस् तदा रुद्रो ब्रह्मणाव्यक्त-मूर्तिना ।
विश्वास-प्रस्तुतिः
आजगाम गिरिं गन्तुं माहेन्द्रं पाप-नाशनम् ॥ तत्र स्थित्वा महादेवस् तच्-छिरो विभिदे त्रिधा ।
En - Gemini 2.5
“Went to the Mahendra mountain, the destroyer of sins. Having stayed there, Mahadeva split that head into three parts.”
मूलम्
आजगाम गिरिं गन्तुं माहेन्द्रं पाप-नाशनम् ॥ तत्र स्थित्वा महादेवस् तच्-छिरो विभिदे त्रिधा ।
विश्वास-प्रस्तुतिः
तस्मिन् भिन्ने पृथक्-केशान् गृहीत्वा भगवान् भवः ॥ यज्ञोपवीतं केशं तु महास्थ्नाक्ष-मणींस् तथा ।
En - Gemini 2.5
“When that was split, the venerable Bhava (Shiva), taking the separated hairs. And the sacred thread of hair, and the great bone-beads.”
मूलम्
तस्मिन् भिन्ने पृथक्-केशान् गृहीत्वा भगवान् भवः ॥ यज्ञोपवीतं केशं तु महास्थ्नाक्ष-मणींस् तथा ।
विश्वास-प्रस्तुतिः
कपाल-शकलं चैकम् असृक्-पूर्णं करे स्थितम् ॥ अपरं खण्डशः कृत्वा जटा-जूटे न्यवेशयत् ।
En - Gemini 2.5
“And one piece of skull, filled with blood, remained in his hand. He broke the other (pieces) into fragments and placed them in his matted hair.”
मूलम्
कपाल-शकलं चैकम् असृक्-पूर्णं करे स्थितम् ॥ अपरं खण्डशः कृत्वा जटा-जूटे न्यवेशयत् ।
विश्वास-प्रस्तुतिः
एवं कृत्वा महादेवो [[प्३५]] बभ्रामेमां वसुंधराम् ॥ सप्त-द्वीपावतीं पुण्यां मज्जंस् तीर्थेषु नित्यशः ।
En - Gemini 2.5
“Having done this, Mahadeva wandered over this earth, [P35] sacred with its seven continents, always bathing in holy places.”
मूलम्
एवं कृत्वा महादेवो [[प्३५]] बभ्रामेमां वसुंधराम् ॥ सप्त-द्वीपावतीं पुण्यां मज्जंस् तीर्थेषु नित्यशः ।
विश्वास-प्रस्तुतिः
समुद्रे प्रथमं स्नात्वा ततो गङ्गां व्यगाहत ॥ सरस्वतीं ततो गत्वा यमुना-संगमं ततः ।
En - Gemini 2.5
“First bathing in the ocean, then he entered the Ganga. Then going to the Saraswati, then to the confluence of the Yamuna.”
मूलम्
समुद्रे प्रथमं स्नात्वा ततो गङ्गां व्यगाहत ॥ सरस्वतीं ततो गत्वा यमुना-संगमं ततः ।
विश्वास-प्रस्तुतिः
शतद्रुं च ततो गत्वा देविकां च महा-नदीम् ॥ वितस्तां चन्द्र-भागां च गोमतीं सिन्धुम् एव च ।
En - Gemini 2.5
“And then going to the Sutlej, and also to the great river Devika. And to the Vitasta, Chandrabhaga, Gomati, and Sindhu.”
मूलम्
शतद्रुं च ततो गत्वा देविकां च महा-नदीम् ॥ वितस्तां चन्द्र-भागां च गोमतीं सिन्धुम् एव च ।
विश्वास-प्रस्तुतिः
तुङ्ग-भद्रां तथा गोदाम् उत्तरे गण्डकीं तथा ॥ नेपालं च ततो गत्वा ततो रुद्र-महालयम् ।
En - Gemini 2.5
“And Tungabhadra, and Godavari, and in the north, Gandaki. And then going to Nepal, and then to Rudra-Mahalaya.”
मूलम्
तुङ्ग-भद्रां तथा गोदाम् उत्तरे गण्डकीं तथा ॥ नेपालं च ततो गत्वा ततो रुद्र-महालयम् ।
विश्वास-प्रस्तुतिः
ततो दारु-वनं गत्वा केदार-गमनं पुनः ॥ भद्रेश्वरं ततो गत्वा गयां पुण्याम् अथागमत् ।
En - Gemini 2.5
“Then going to Daruvana, and then again to Kedara. Then going to Bhadreshvara, and then he came to the sacred Gaya.”
मूलम्
ततो दारु-वनं गत्वा केदार-गमनं पुनः ॥ भद्रेश्वरं ततो गत्वा गयां पुण्याम् अथागमत् ।
विश्वास-प्रस्तुतिः
तत्र फल्गु-कृत-स्नानः पितॄन् संतर्प्य यत्नतः ॥ एवं वेगेन सकलं ब्रह्माण्डं भूत-धारिणि ।
En - Gemini 2.5
“There, having bathed in the Phalgu, and having diligently offered oblations to the ancestors. Thus, with speed, the entire universe, O earth-bearing one.”
मूलम्
तत्र फल्गु-कृत-स्नानः पितॄन् संतर्प्य यत्नतः ॥ एवं वेगेन सकलं ब्रह्माण्डं भूत-धारिणि ।
विश्वास-प्रस्तुतिः
बभ्राम सर्व-देवेशः षष्ठेऽब्दे तस्य चापतत् ॥ परिधानं तु कौपीनं नग्नः कापालिकोऽभवत् ।
En - Gemini 2.5
“The Lord of all gods wandered, and in the sixth year, it fell from him. His garment was a loincloth, and he became a naked Kapalika.”
मूलम्
बभ्राम सर्व-देवेशः षष्ठेऽब्दे तस्य चापतत् ॥ परिधानं तु कौपीनं नग्नः कापालिकोऽभवत् ।
विश्वास-प्रस्तुतिः
पुनर् अब्द-द्वयं भ्रान्तस् तीर्थे तीर्थे हरः स्वयम् ॥ कपालं त्यक्तु-कामस्य तद्-धस्तात् तत् तु नापतत् ।
En - Gemini 2.5
“Again, Hara himself wandered for two years from sacred place to sacred place. When he desired to abandon the skull, it did not fall from his hand.”
मूलम्
पुनर् अब्द-द्वयं भ्रान्तस् तीर्थे तीर्थे हरः स्वयम् ॥ कपालं त्यक्तु-कामस्य तद्-धस्तात् तत् तु नापतत् ।
विश्वास-प्रस्तुतिः
ततोऽब्दम् एकं बभ्राम हिमवत्-पर्वते शुभे ॥ गत्वा हरि-हर-क्षेत्रं स्नात्वा देवाङ्गदे तथा ।
En - Gemini 2.5
“Then he wandered for one year in the auspicious Himalayas. Having gone to Harihara Kshetra and bathed in Devangada as well.”
मूलम्
ततोऽब्दम् एकं बभ्राम हिमवत्-पर्वते शुभे ॥ गत्वा हरि-हर-क्षेत्रं स्नात्वा देवाङ्गदे तथा ।
विश्वास-प्रस्तुतिः
सोमेश्वरं समभ्यर्च्यागतोऽसौ चक्र-तीर्थकम् ॥ तत्र स्नात्वा तथा नत्वा त्रि-जलेश्वर-संज्ञितम् ।
En - Gemini 2.5
“Having worshipped Someshvara, he came to Chakratirtha. There, having bathed and bowed to Trijaleshvara.”
मूलम्
सोमेश्वरं समभ्यर्च्यागतोऽसौ चक्र-तीर्थकम् ॥ तत्र स्नात्वा तथा नत्वा त्रि-जलेश्वर-संज्ञितम् ।
विश्वास-प्रस्तुतिः
अयोध्यायां तथा गत्वा वाराणस्यां ततोऽगमत् ॥ द्वादशाब्दैर् गतवतः सीमा-चारि-गणैस् तथा ।
En - Gemini 2.5
“And having gone to Ayodhya, then he went to Varanasi. After twelve years had passed, with the boundary-roaming ganas (followers).”
मूलम्
अयोध्यायां तथा गत्वा वाराणस्यां ततोऽगमत् ॥ द्वादशाब्दैर् गतवतः सीमा-चारि-गणैस् तथा ।
विश्वास-प्रस्तुतिः
बलात्-कारेण तद्-धस्तात् कपालं पातितं भुवि ॥ कपाल-मोचनं तीर्थं ततो जातं मलापहम् ।
En - Gemini 2.5
“The skull was forcibly made to fall from his hand onto the ground. Then the sacred place of Kapala-Mochana, the remover of impurities, came into existence.”
मूलम्
बलात्-कारेण तद्-धस्तात् कपालं पातितं भुवि ॥ कपाल-मोचनं तीर्थं ततो जातं मलापहम् ।
विश्वास-प्रस्तुतिः
गङ्गाम्भसि ततः स्नात्वा विश्वेशं पूज्य भक्तितः ॥ रुद्रो विशुद्धिम् आपन्नो मुक्तः स ब्रह्म-हत्याया ।
En - Gemini 2.5
“Then, having bathed in the waters of the Ganga and worshipped Vishvesha with devotion, Rudra attained purity and was freed from the sin of Brahmahatya (killing a Brahmin).”
मूलम्
गङ्गाम्भसि ततः स्नात्वा विश्वेशं पूज्य भक्तितः ॥ रुद्रो विशुद्धिम् आपन्नो मुक्तः स ब्रह्म-हत्याया ।
विश्वास-प्रस्तुतिः
कपाल-मोचनं नाम तीर्थं त्रैलोक्य-विश्रुतम् ॥ यत्राप्लुतो नरो भक्त्या ब्रह्म-हा तु विशुध्यति ।
En - Gemini 2.5
“The sacred place named Kapala-Mochana, famous in the three worlds. Where a person who bathes with devotion, even if he has committed Brahmahatya, becomes purified.”
मूलम्
कपाल-मोचनं नाम तीर्थं त्रैलोक्य-विश्रुतम् ॥ यत्राप्लुतो नरो भक्त्या ब्रह्म-हा तु विशुध्यति ।
विश्वास-प्रस्तुतिः
कपालं पतितं दृष्ट्वा रुद्र-हस्ताच् चतुर्मुखः ॥ आगतो देव-सहितो वाक्यं चेदम् उवाच ह ॥ ब्रह्मोवाच— भव रुद्र विरूपाक्ष लोक-मार्ग-व्यवस्थितः ।
En - Gemini 2.5
“Having seen the skull fall from Rudra’s hand, the four-faced Brahma. Came with the gods and spoke this word. Brahma said: ‘O Rudra, Virupaksha, abide in the path of the world.’”
मूलम्
कपालं पतितं दृष्ट्वा रुद्र-हस्ताच् चतुर्मुखः ॥ आगतो देव-सहितो वाक्यं चेदम् उवाच ह ॥ ब्रह्मोवाच— भव रुद्र विरूपाक्ष लोक-मार्ग-व्यवस्थितः ।
विश्वास-प्रस्तुतिः
व्रतानि कुरुते देव त्वत्-कृतानि हि पुत्रक ॥ स त्वत्-प्रसादाद् देवेश ब्रह्म-हापि विशुध्यति ।
En - Gemini 2.5
“Perform the vows, O God, that have been performed by you, O son. By your grace, O Lord of gods, even one who has committed Brahmahatya becomes purified.”
मूलम्
व्रतानि कुरुते देव त्वत्-कृतानि हि पुत्रक ॥ स त्वत्-प्रसादाद् देवेश ब्रह्म-हापि विशुध्यति ।
विश्वास-प्रस्तुतिः
यद् धृतं नग्न-कापालं यद् भ्रान्तं यत् त्वया कृतम् ॥ यत् कृतं शुद्ध-शैवं च तत् तन्-नाम्ना भविष्यति ।
En - Gemini 2.5
“What was worn (the naked skull), what was wandered, what was done by you. What was performed as pure Shaiva, that will be by your name.”
मूलम्
यद् धृतं नग्न-कापालं यद् भ्रान्तं यत् त्वया कृतम् ॥ यत् कृतं शुद्ध-शैवं च तत् तन्-नाम्ना भविष्यति ।
विश्वास-प्रस्तुतिः
मां पुरस्कृत्य देवस् त्वं पूज्यसे यैर् विधानतः ॥ तेषां शास्त्राणि सर्वाणि शास्त्रं पाशुपतं तथा ।
En - Gemini 2.5
“Those who worship you, O God, with me at the forefront, according to the injunctions. All their Shastras, and the Pashupata Shastra.”
मूलम्
मां पुरस्कृत्य देवस् त्वं पूज्यसे यैर् विधानतः ॥ तेषां शास्त्राणि सर्वाणि शास्त्रं पाशुपतं तथा ।
विश्वास-प्रस्तुतिः
कथयस्व महा-देव स-विधानं समासतः ॥ एवम् उक्तस् ततो रुद्रो ब्रह्मणाव्यक्त-मूर्तिना ।
En - Gemini 2.5
“Narrate them, O Mahadeva, along with their injunctions, in brief. Thus addressed by Brahma, whose form is unmanifest, Rudra then.”
मूलम्
कथयस्व महा-देव स-विधानं समासतः ॥ एवम् उक्तस् ततो रुद्रो ब्रह्मणाव्यक्त-मूर्तिना ।
विश्वास-प्रस्तुतिः
देवैर् जयेति संतुष्टः कैलास-निलयं ययौ ॥ ब्रह्मा चापि सुरैः सार्धं गतः स्वर्लोकम् उत्तमम् ।
En - Gemini 2.5
“Pleased with ‘Jaya’ (victory) from the gods, went to His abode on Kailasa. Brahma also, along with the gods, went to the excellent heavenly world.”
मूलम्
देवैर् जयेति संतुष्टः कैलास-निलयं ययौ ॥ ब्रह्मा चापि सुरैः सार्धं गतः स्वर्लोकम् उत्तमम् ।
विश्वास-प्रस्तुतिः
देवा अपि ययुः स्वर्गं स्व-स्थानं च यथागतम् ॥ एतद् रुद्रस्य माहात्म्यं मया ते परिकीर्तितम् [[प्३६]] तम् ।
En - Gemini 2.5
“The gods also went to heaven, to their respective places, as they had come. This greatness of Rudra has been recounted by me to you.”
मूलम्
देवा अपि ययुः स्वर्गं स्व-स्थानं च यथागतम् ॥ एतद् रुद्रस्य माहात्म्यं मया ते परिकीर्तितम् [[प्३६]] तम् ।
विश्वास-प्रस्तुतिः
चरितं यच् च देवस्य वित्तं समभवद् भुवि” इत्यादिना शिवेनापि ब्रह्म-शिरश्-छेद-प्रयुक्त-ब्रह्म-हत्याया मन्वाद्य्-उक्त-कपाल-धारण-पूर्वक-द्वादश-वार्षिक-प्रायश्चित्तं कृतम् इत्य् अवगम्यते ।
En - Gemini 2.5
“And the deeds of the deity that occurred on earth” - by these and other passages, it is understood that Shiva also performed the twelve-year expiation, involving carrying a skull, as enjoined by Manu and others, for the sin of Brahmahatya (killing a Brahmana) resulting from cutting off Brahma’s head.
मूलम्
चरितं यच् च देवस्य वित्तं समभवद् भुवि” इत्यादिना शिवेनापि ब्रह्म-शिरश्-छेद-प्रयुक्त-ब्रह्म-हत्याया मन्वाद्य्-उक्त-कपाल-धारण-पूर्वक-द्वादश-वार्षिक-प्रायश्चित्तं कृतम् इत्य् अवगम्यते ।
विश्वास-प्रस्तुतिः
एवं श्री-भागवते तृतीय-स्कन्धे कपिल-देव-हूति-संवादे यच्-छौच-निःसृत-सरित्-प्रवरोदकेन तीर्थेन मूर्ध्नि विधृतेन शिवः शिवोऽभूत् ।
En - Gemini 2.5
Similarly, in the third skandha of Shri Bhagavata, in the conversation between Kapila and Devahuti: “By the excellent waters of the river that flowed from His purification, which Shiva bore on His head as a sacred bathing place, Shiva became auspicious.”
मूलम्
एवं श्री-भागवते तृतीय-स्कन्धे कपिल-देव-हूति-संवादे यच्-छौच-निःसृत-सरित्-प्रवरोदकेन तीर्थेन मूर्ध्नि विधृतेन शिवः शिवोऽभूत् ।
विश्वास-प्रस्तुतिः
ध्यातुर् मनः-शमल-शैल-निसृष्ट-वज्रं ध्यायेच् चिरं भगवतश् चरणारविन्दम् इति कपिल-देव-वचनेन श्री-भगवच्-चरणारविन्द-शौच-जलेन मूर्ध्नि धृतेन मङ्गल-करत्वम् उक्तं शिवस्येति प्रतीयते ।
En - Gemini 2.5
“One should long meditate on the lotus feet of the Lord, which are like a thunderbolt hurled at the mountain of the meditator’s mental impurities” - by this statement of Kapila Deva, it is perceived that Shiva became auspicious by bearing the water that flowed from the purification of the venerable Lord’s lotus feet on His head.
मूलम्
ध्यातुर् मनः-शमल-शैल-निसृष्ट-वज्रं ध्यायेच् चिरं भगवतश् चरणारविन्दम् इति कपिल-देव-वचनेन श्री-भगवच्-चरणारविन्द-शौच-जलेन मूर्ध्नि धृतेन मङ्गल-करत्वम् उक्तं शिवस्येति प्रतीयते ।
विश्वास-प्रस्तुतिः
तत्रैव दशम-स्कन्धे यत्-पाद-पङ्कज-रजः-स्नपनं महान्तो वाञ्छन्त्य् उमापतिर् इवात्म-तमोपहत्यै !
En - Gemini 2.5
In the same text, in the tenth Skandha: “The bathing in the dust of whose lotus feet great souls desire for the destruction of their own darkness, like the husband of Uma (Shiva)!”
मूलम्
तत्रैव दशम-स्कन्धे यत्-पाद-पङ्कज-रजः-स्नपनं महान्तो वाञ्छन्त्य् उमापतिर् इवात्म-तमोपहत्यै !
विश्वास-प्रस्तुतिः
यर्ह्य् अम्बुजाक्ष न लभेय भवत्-प्रसादं जह्याम् ह्य् असून् व्रत-कृशान् शत-जन्मभिः स्याम् इति रुक्मिणी-पत्रिका-श्लोकेन हरि-चरणारविन्द-रजोऽभिषेकेणात्म-तमोपहननं रुद्रेण संपादितम् इति कथितम् ।
En - Gemini 2.5
“If, O lotus-eyed one, I do not obtain your grace, I would indeed abandon my life, weakened by vows, and would be born for a hundred births” - by this verse from Rukmini’s letter, it is stated that Rudra achieved the destruction of His own darkness by bathing in the dust of Hari’s lotus feet.
मूलम्
यर्ह्य् अम्बुजाक्ष न लभेय भवत्-प्रसादं जह्याम् ह्य् असून् व्रत-कृशान् शत-जन्मभिः स्याम् इति रुक्मिणी-पत्रिका-श्लोकेन हरि-चरणारविन्द-रजोऽभिषेकेणात्म-तमोपहननं रुद्रेण संपादितम् इति कथितम् ।
विश्वास-प्रस्तुतिः
एवं स्व-नाश-हेतु-भूतं वरम् इत्य् अज्ञात्वा स्व-दत्त-वरेण स्व-नाशम् अभिलक्ष्य परिभ्रमतो रुद्रस्य श्री-वैकुण्ठ-गतस्य रुद्र-प्राण-संरक्षणं श्री-भगवता कृतम् इति भागवते प्रतिपादितम्— श्री-शुक उवाच—शाप-प्रसादयोर् ईशा ब्रह्म-विष्णु-शिवादयः ।
En - Gemini 2.5
Similarly, in the Bhagavata, it is stated that the venerable Lord protected the life of Rudra, who had gone to Shri Vaikuntha, and was wandering about, aiming for His own destruction with a boon He himself had granted, not knowing that it would be the cause of His own destruction. Shri Shuka said: “Brahma, Vishnu, Shiva, and others are indeed the lords of curses and blessings.”
मूलम्
एवं स्व-नाश-हेतु-भूतं वरम् इत्य् अज्ञात्वा स्व-दत्त-वरेण स्व-नाशम् अभिलक्ष्य परिभ्रमतो रुद्रस्य श्री-वैकुण्ठ-गतस्य रुद्र-प्राण-संरक्षणं श्री-भगवता कृतम् इति भागवते प्रतिपादितम्— श्री-शुक उवाच—शाप-प्रसादयोर् ईशा ब्रह्म-विष्णु-शिवादयः ।
विश्वास-प्रस्तुतिः
सद्यः-शाप-प्रसादोऽङ्ग शिवो ब्रह्मा न चाच्युतः ॥ अत्र चोदाहरन्तीमम् इतिहासं पुरातनम् ।
En - Gemini 2.5
“Shiva and Brahma, O dear one, are quick to curse and bless, but not Achyuta (Vishnu). Here, they narrate this ancient history.”
मूलम्
सद्यः-शाप-प्रसादोऽङ्ग शिवो ब्रह्मा न चाच्युतः ॥ अत्र चोदाहरन्तीमम् इतिहासं पुरातनम् ।
विश्वास-प्रस्तुतिः
वृकासुराय गिरिशो वरं दत्त्वाप संकटम् ॥ वृको नामासुरः पुत्रः शकुनेः पथि नारदम् ।
En - Gemini 2.5
“Girisha (Shiva), having granted a boon to Vrikasura, fell into distress. Vrika, an asura named the son of Shakuni, on the path, saw Narada.”
मूलम्
वृकासुराय गिरिशो वरं दत्त्वाप संकटम् ॥ वृको नामासुरः पुत्रः शकुनेः पथि नारदम् ।
विश्वास-प्रस्तुतिः
दृष्ट्वाशुतोषं पप्रच्छ देवेषु त्रिषु दुर्मतिः ॥ स आह देवं गिरिशम् उपधावाशु सिध्यति ।
En - Gemini 2.5
“And, seeing Ashutosha (Shiva), the wicked-minded one asked among the three gods. He said, ‘Approach the god Girisha, and you will quickly succeed.’”
मूलम्
दृष्ट्वाशुतोषं पप्रच्छ देवेषु त्रिषु दुर्मतिः ॥ स आह देवं गिरिशम् उपधावाशु सिध्यति ।
विश्वास-प्रस्तुतिः
योऽल्पाभ्यां गुण-दोषाभ्याम् आशु तुष्यति कुप्यति ॥ दशास्य-बाणयोस् तुष्टः स्तुवतोर् वन्दिनोर् इव ।
En - Gemini 2.5
“He who quickly becomes pleased or angry with small merits and demerits. He was pleased with Dashasya (Ravana) and Bana (Banāsura), who were praising him like bards.”
मूलम्
योऽल्पाभ्यां गुण-दोषाभ्याम् आशु तुष्यति कुप्यति ॥ दशास्य-बाणयोस् तुष्टः स्तुवतोर् वन्दिनोर् इव ।
विश्वास-प्रस्तुतिः
ऐश्वर्यम् अतुलं दत्त्वा तत आप सु-संकटम् ॥ इत्यादिष्टस् तम् असुर उपाधावत् स्व-गात्रतः ।
En - Gemini 2.5
“Having given them incomparable power, he then fell into great difficulty. Thus instructed, that Asura (Vrika) approached him, offering his own limbs.”
मूलम्
ऐश्वर्यम् अतुलं दत्त्वा तत आप सु-संकटम् ॥ इत्यादिष्टस् तम् असुर उपाधावत् स्व-गात्रतः ।
विश्वास-प्रस्तुतिः
केदार आत्म-क्रव्येण जुह्वानोऽग्नि-मुखं हरम् ॥ देवोपलब्धिम् अप्राप्य निर्वेदात् सप्तमेऽहनि ।
En - Gemini 2.5
“Offering his own flesh to Hara, whose mouth is Agni, in Kedara. Not obtaining the perception of the deity, on the seventh day, out of despondency.”
मूलम्
केदार आत्म-क्रव्येण जुह्वानोऽग्नि-मुखं हरम् ॥ देवोपलब्धिम् अप्राप्य निर्वेदात् सप्तमेऽहनि ।
विश्वास-प्रस्तुतिः
शिरोऽवृश्चत् स्वधितिना तत्-तीर्थ-क्लिन्न-मूर्धजम् ॥ तदा महा-कारुणिकः स धूर्जटिर् यथा वयं चाग्निर् इवोत्थितोऽनलात् ।
En - Gemini 2.5
“He cut off his head with a sword, his hair wet from a sacred bath. Then, that immensely compassionate Dhurjati (Shiva), like us, rose from the fire.”
मूलम्
शिरोऽवृश्चत् स्वधितिना तत्-तीर्थ-क्लिन्न-मूर्धजम् ॥ तदा महा-कारुणिकः स धूर्जटिर् यथा वयं चाग्निर् इवोत्थितोऽनलात् ।
विश्वास-प्रस्तुतिः
निगृह्य दोर्भ्यां भुजोर् न्यवारयत् तत्-स्पर्शनाद् भूय उपस्कृताकृतिः ॥ तम् आह चाङ्गालम् अलं वृणीष्व मे यथाभिकामं वितरामि ते वरम् ।
En - Gemini 2.5
“Holding him with his two arms, he prevented him; by his touch, his form became further purified. And he said to him, ‘O Angala, enough, ask for a boon from me as you desire, I will grant it to you.’”
मूलम्
निगृह्य दोर्भ्यां भुजोर् न्यवारयत् तत्-स्पर्शनाद् भूय उपस्कृताकृतिः ॥ तम् आह चाङ्गालम् अलं वृणीष्व मे यथाभिकामं वितरामि ते वरम् ।
विश्वास-प्रस्तुतिः
प्रिये यतो येन नृणां प्रपद्यताम् अहो त्वयात्मा भृशम् अद्यते वृथा ॥ देवं स वव्रे पापीयान् वरं भूत-भयावहम् ।
En - Gemini 2.5
“O dear one, by what means do men obtain (boons) from me? Alas, you have greatly afflicted yourself in vain. That wicked one asked the deity for a boon that would cause fear to beings.”
मूलम्
प्रिये यतो येन नृणां प्रपद्यताम् अहो त्वयात्मा भृशम् अद्यते वृथा ॥ देवं स वव्रे पापीयान् वरं भूत-भयावहम् ।
विश्वास-प्रस्तुतिः
यस्य यस्य करं शीर्ष्णि धास्ये स म्रियताम् इति ॥ तच् छ्रुत्वा [[प्३७]] भगवान् रुद्रो दुर्मना इव भारत ।
En - Gemini 2.5
“Whoever I place my hand on their head, let them die.” Having heard that, [P37] the venerable Rudra, as if disheartened, O Bharata.
मूलम्
यस्य यस्य करं शीर्ष्णि धास्ये स म्रियताम् इति ॥ तच् छ्रुत्वा [[प्३७]] भगवान् रुद्रो दुर्मना इव भारत ।
विश्वास-प्रस्तुतिः
ॐ इति प्रहसंस् तस्मै ददेऽहेर् अमृतं यथा ॥ इत्य् उक्तः सोऽसुरो नूनं गौरी-हरण-लालसः ।
En - Gemini 2.5
“Smilingly said ‘Om’ and gave him the boon as if giving nectar to a snake. Thus spoken to, that Asura, indeed desirous of seizing Gauri.”
मूलम्
ॐ इति प्रहसंस् तस्मै ददेऽहेर् अमृतं यथा ॥ इत्य् उक्तः सोऽसुरो नूनं गौरी-हरण-लालसः ।
विश्वास-प्रस्तुतिः
स तद्-वर-परीक्षार्थं शंभोर् मूर्ध्नि किलासुरः ॥ स्व-हस्तं धातुम् आरेभे सोऽबिभ्यत् स्व-कृताच् छिवः ।
En - Gemini 2.5
“That Asura then, to test that boon, indeed attempted to place his hand on Shambhu’s head. Shiva feared his own creation.”
मूलम्
स तद्-वर-परीक्षार्थं शंभोर् मूर्ध्नि किलासुरः ॥ स्व-हस्तं धातुम् आरेभे सोऽबिभ्यत् स्व-कृताच् छिवः ।
विश्वास-प्रस्तुतिः
तेनोपसृष्टः संत्रस्तः पराधावत् स-वेपथुः ॥ यावद् अन्तं दिवो भूमेः काष्ठानाम् उदगाद् उदक् ।
En - Gemini 2.5
“Approached by him, terrified, he fled, trembling. As far as the end of heaven and earth, and the quarters, he went upwards.”
मूलम्
तेनोपसृष्टः संत्रस्तः पराधावत् स-वेपथुः ॥ यावद् अन्तं दिवो भूमेः काष्ठानाम् उदगाद् उदक् ।
विश्वास-प्रस्तुतिः
अजानन्तः प्रतिविधिं तूष्णीम् आसन् सुरेश्वराः ॥ ततो वैकुण्ठम् अगमद् भास्वरं तमसः परम् ।
En - Gemini 2.5
“The lords of gods, not knowing the remedy, remained silent. Then he went to Vaikuntha, which is radiant, beyond darkness.”
मूलम्
अजानन्तः प्रतिविधिं तूष्णीम् आसन् सुरेश्वराः ॥ ततो वैकुण्ठम् अगमद् भास्वरं तमसः परम् ।
विश्वास-प्रस्तुतिः
यत्र नारायणः साक्षान् न्यासिनां परमां गतिः ॥ शान्तानां न्यस्त-दण्डानां यतो नावर्तते गतः ।
En - Gemini 2.5
“Where Narayana Himself is the supreme goal of renouncers. From whom, those who are peaceful and have abandoned violence, having gone, do not return.”
मूलम्
यत्र नारायणः साक्षान् न्यासिनां परमां गतिः ॥ शान्तानां न्यस्त-दण्डानां यतो नावर्तते गतः ।
विश्वास-प्रस्तुतिः
तं तथा-व्यसनं दृष्ट्वा भगवान् वृजिनार्दनः ॥ दूरात् प्रत्युदियाद् भूत्वा वटुको योग-मायया ।
En - Gemini 2.5
“Seeing him in such distress, the venerable Vrjinardana (Vishnu). Approached from afar, having become a young student through His Yoga-Maya.”
मूलम्
तं तथा-व्यसनं दृष्ट्वा भगवान् वृजिनार्दनः ॥ दूरात् प्रत्युदियाद् भूत्वा वटुको योग-मायया ।
विश्वास-प्रस्तुतिः
मेखलाजिन-दण्डाक्षैस् तेजसाग्निर् इव ज्वलन् ॥ अभिवादयामास च तं कुश-पाणिर् विनीत-वत् ॥ श्री-भगवान् उवाच— शाकुनेय भवान् व्यक्तं श्रान्तः किं दूरम् आगतः ।
En - Gemini 2.5
“Shining like fire with his girdle, deerskin, staff, and rosary beads. He bowed to him, holding kusha grass in his hand, humbly. The venerable Lord said: ‘O son of Shakuni, you are clearly exhausted; why have you come so far?’”
मूलम्
मेखलाजिन-दण्डाक्षैस् तेजसाग्निर् इव ज्वलन् ॥ अभिवादयामास च तं कुश-पाणिर् विनीत-वत् ॥ श्री-भगवान् उवाच— शाकुनेय भवान् व्यक्तं श्रान्तः किं दूरम् आगतः ।
विश्वास-प्रस्तुतिः
क्षणं विश्रम्यतां पुंस आत्मायं सर्व-काम-धुक् ॥ यदि नः श्रवणायालं युष्मद्-व्यवसितं विभो ।
En - Gemini 2.5
“Rest for a moment; this Atman of yours fulfills all desires. If, O omnipresent one, your intention is suitable for us to hear.”
मूलम्
क्षणं विश्रम्यतां पुंस आत्मायं सर्व-काम-धुक् ॥ यदि नः श्रवणायालं युष्मद्-व्यवसितं विभो ।
विश्वास-प्रस्तुतिः
भण्यतां प्रायशः पुंभिर् वृतैः स्वार्थान् समीहते ॥ श्री-शुक उवाच— एवं भगवता पृष्टो वचसाम् मृत-वर्षिणा ।
En - Gemini 2.5
“It should be spoken, for generally men, surrounded by others, seek their own interests. Shri Shuka said: ‘Thus questioned by the Lord, who rained nectar-like words.’”
मूलम्
भण्यतां प्रायशः पुंभिर् वृतैः स्वार्थान् समीहते ॥ श्री-शुक उवाच— एवं भगवता पृष्टो वचसाम् मृत-वर्षिणा ।
विश्वास-प्रस्तुतिः
गत-क्लमोऽब्रवीत् तस्मै यथा-पूर्वम् अनुष्ठितम् ॥ श्री-भगवान् उवाच— एवं चेत् तर्हि तद्-वाक्यं न वयं श्रद्दधीमहि ।
En - Gemini 2.5
“He (Vrikasura), freed from fatigue, narrated to Him what had happened previously. The venerable Lord said: ‘If it is so, then we do not believe that statement.’”
मूलम्
गत-क्लमोऽब्रवीत् तस्मै यथा-पूर्वम् अनुष्ठितम् ॥ श्री-भगवान् उवाच— एवं चेत् तर्हि तद्-वाक्यं न वयं श्रद्दधीमहि ।
विश्वास-प्रस्तुतिः
यो दक्ष-शापात् पैशाच्यं प्राप्तः प्रेत-पिशाच-राट् ॥ यदि वस् तत्र विस्रम्भो दानवेन्द्र जगद्-गुरौ ।
En - Gemini 2.5
“Who, due to Daksha’s curse, attained the state of a Pisacha, the king of ghosts and Pisachas. If you, O king of Danavas, have faith in that world-teacher (Shiva).”
मूलम्
यो दक्ष-शापात् पैशाच्यं प्राप्तः प्रेत-पिशाच-राट् ॥ यदि वस् तत्र विस्रम्भो दानवेन्द्र जगद्-गुरौ ।
विश्वास-प्रस्तुतिः
तर्ह्य् अङ्गाशु स्व-शिरसि हस्तं न्यस्य प्रदीयताम् ॥ यद्य् असत्यं वचः शंभोः कथंचिद् दान-वर्ष-भ ।
En - Gemini 2.5
“Then, O dear one, quickly place your hand on your own head. If by chance, O best of givers, Shambhu’s word is false.”
मूलम्
तर्ह्य् अङ्गाशु स्व-शिरसि हस्तं न्यस्य प्रदीयताम् ॥ यद्य् असत्यं वचः शंभोः कथंचिद् दान-वर्ष-भ ।
विश्वास-प्रस्तुतिः
तद् एनं जह्य् असद्-वाचं न यद् वक्ता-नृतं पुनः ॥ इत्थं भगवतश् चित्रैर् वचोभिः स सु-पेशलैः ।
En - Gemini 2.5
“Then kill this speaker of falsehood, so that he does not speak untruth again. Thus, by the Lord’s wonderful and very pleasing words.”
मूलम्
तद् एनं जह्य् असद्-वाचं न यद् वक्ता-नृतं पुनः ॥ इत्थं भगवतश् चित्रैर् वचोभिः स सु-पेशलैः ।
विश्वास-प्रस्तुतिः
भिन्न-धीर् विस्मृतः शीर्षिण स्व-हस्तं कु-मतिर् व्यधात् ॥ अथापतद् भिन्न-शिरा वज्राहत इव क्षणात् ।
En - Gemini 2.5
“His mind distracted, the wicked one, forgetting, placed his own hand on his head. Then he fell with a shattered head, as if struck by a thunderbolt, in an instant.”
मूलम्
भिन्न-धीर् विस्मृतः शीर्षिण स्व-हस्तं कु-मतिर् व्यधात् ॥ अथापतद् भिन्न-शिरा वज्राहत इव क्षणात् ।
विश्वास-प्रस्तुतिः
जय-शब्दो नमः-शब्दः साधु-शब्दोऽभवद् दिवि ॥ मुमुचुः पुष्प-वर्षाणि हते पापे वृकासुरे ।
En - Gemini 2.5
“Sounds of ‘Jaya’ (victory), ‘Namaḥ’ (salutations), and ‘Sadhu’ (well done) arose in the heavens. They showered flowers when the sinful Vrikasura was killed.”
मूलम्
जय-शब्दो नमः-शब्दः साधु-शब्दोऽभवद् दिवि ॥ मुमुचुः पुष्प-वर्षाणि हते पापे वृकासुरे ।
विश्वास-प्रस्तुतिः
देवर्षि-पितृ-गन्धर्वा मोचितः संकटाच् छिवः ॥ मुक्तं गिरिशम् अभ्याह भगवान् पुरुषोत्तमः ।
En - Gemini 2.5
“The gods, sages, ancestors, and Gandharvas (rejoiced), and Shiva was freed from distress. The venerable Purushottama (Vishnu) addressed the freed Girisha (Shiva).”
मूलम्
देवर्षि-पितृ-गन्धर्वा मोचितः संकटाच् छिवः ॥ मुक्तं गिरिशम् अभ्याह भगवान् पुरुषोत्तमः ।
विश्वास-प्रस्तुतिः
अहो देव महा-देव पापोऽयं स्वेन पाप्मना ॥ हतः को नु महत्स्व् ईश जन्तुर् वै कृत-किल्बिषः ।
En - Gemini 2.5
“O God, O Mahadeva, this sinner has been killed by his own sin. Who among great beings, O Lord, is indeed a creature who has committed sin?”
मूलम्
अहो देव महा-देव पापोऽयं स्वेन पाप्मना ॥ हतः को नु महत्स्व् ईश जन्तुर् वै कृत-किल्बिषः ।
विश्वास-प्रस्तुतिः
क्षेमी स्यात् किमु विश्वेशे कृतागस्को जगद्-गुरौ ॥ य एवम् अव्याकृत-शक्त्य्-उदन्वतः परस्य साक्षात् परमात्मनो हरेः ।
En - Gemini 2.5
“How can one who has committed an offense against the Lord of the universe, the world-teacher, be safe? He who thus narrates or hears the liberation of Girisha (Shiva) from Hari, the Supreme Self, who is directly the ocean of unmanifest power, and who is beyond.”
मूलम्
क्षेमी स्यात् किमु विश्वेशे कृतागस्को जगद्-गुरौ ॥ य एवम् अव्याकृत-शक्त्य्-उदन्वतः परस्य साक्षात् परमात्मनो हरेः ।
विश्वास-प्रस्तुतिः
गिरित्र-मोक्षं कथयेच् छृणोति वा विमुच्यते संसृतिभिस् तथा-रिभिः इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे उत्तरार्धे रुद्र-मोक्षणं नामाष्टाशीतितमोऽध्यायो द्रष्टव्यः ।
En - Gemini 2.5
“Girīśa (Shiva)’s liberation, he is freed from worldly existence and also from enemies” - thus, in the Shrīmad Bhagavata Maha Purana, tenth skandha, latter half, the eighty-eighth chapter named Rudra-Mokṣaṇa (the liberation of Rudra) should be seen.
मूलम्
गिरित्र-मोक्षं कथयेच् छृणोति वा विमुच्यते संसृतिभिस् तथा-रिभिः इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे उत्तरार्धे रुद्र-मोक्षणं नामाष्टाशीतितमोऽध्यायो द्रष्टव्यः ।
विश्वास-प्रस्तुतिः
एवं वराह-पुराणे षड्-अशीत्य्-अधिक-शततमा- [[प्३८]] ध्याये शिला द्वादश वै देवि सालिग्राम-समुद्भवाः ।
En - Gemini 2.5
Similarly, in the Varaha Purana, in the 186th chapter, “O Devi, indeed twelve Shalagrama stones.”
मूलम्
एवं वराह-पुराणे षड्-अशीत्य्-अधिक-शततमा- [[प्३८]] ध्याये शिला द्वादश वै देवि सालिग्राम-समुद्भवाः ।
विश्वास-प्रस्तुतिः
विधिवत् पूजिता येन तस्य पुण्यं वदामि ते ॥ कोटि-द्वादश-लिङ्गैस् तु पूजितैः स्वर्ण-पङ्कजैः ।
En - Gemini 2.5
“I shall tell you the merit of him by whom they are duly worshipped. The merit obtained by worshipping twelve crore Lingas with golden lotuses.”
मूलम्
विधिवत् पूजिता येन तस्य पुण्यं वदामि ते ॥ कोटि-द्वादश-लिङ्गैस् तु पूजितैः स्वर्ण-पङ्कजैः ।
विश्वास-प्रस्तुतिः
यत् स्याद् द्वादश-कल्पैस् तु दिनैकेन तु तद् भवेत् इत्यादिना विष्ण्व्-अर्चनस्य कोट्य्-अंशेनापि शिवार्चनं न तुल्यम् इत्य् उक्तम् ।
En - Gemini 2.5
“What would be achieved in twelve Kalpas, that occurs in one day” - by these and other passages, it is stated that even a millionth part of Shiva’s worship is not equal to Vishnu’s worship.
मूलम्
यत् स्याद् द्वादश-कल्पैस् तु दिनैकेन तु तद् भवेत् इत्यादिना विष्ण्व्-अर्चनस्य कोट्य्-अंशेनापि शिवार्चनं न तुल्यम् इत्य् उक्तम् ।
विश्वास-प्रस्तुतिः
वराह-पुराणे त्रि-सप्ततितमाध्याये— एवम् उक्तः पुनर्-वाक्यम् उवाचोमापतिस् तदा ।
En - Gemini 2.5
In the Varaha Purana, in the 73rd chapter: “Thus addressed, the husband of Uma (Shiva) then spoke again.”
मूलम्
वराह-पुराणे त्रि-सप्ततितमाध्याये— एवम् उक्तः पुनर्-वाक्यम् उवाचोमापतिस् तदा ।
विश्वास-प्रस्तुतिः
अन्यं देहि वरं देव प्रसिद्धं सर्व-जन्तुषु ॥ मर्त्यो भूत्वा भवान् एव माम् आराधय केशव ।
En - Gemini 2.5
“Give me another boon, O God, which is famous among all beings. Becoming a mortal, may you yourself worship me, O Keshava.”
मूलम्
अन्यं देहि वरं देव प्रसिद्धं सर्व-जन्तुषु ॥ मर्त्यो भूत्वा भवान् एव माम् आराधय केशव ।
विश्वास-प्रस्तुतिः
मां वहस्व च देवेश वरं मत्तो गृहाण च ॥ येनाहं सर्व-देवानां पूज्यात् पूज्यतरोऽभवम् ॥ विष्णुः— देव-कार्यावतारेषु मानुषत्वम् उपागतः ।
En - Gemini 2.5
“And carry me, O Lord of gods, and receive a boon from me. By which I may become more worshipped than all gods. Vishnu: ‘In incarnations for divine purposes, having assumed human form.’”
मूलम्
मां वहस्व च देवेश वरं मत्तो गृहाण च ॥ येनाहं सर्व-देवानां पूज्यात् पूज्यतरोऽभवम् ॥ विष्णुः— देव-कार्यावतारेषु मानुषत्वम् उपागतः ।
विश्वास-प्रस्तुतिः
त्वाम् एवा राधयिष्यामि त्वं च मे वरदो भव इत्यादिना शिवाय स्व-दत्त-वर-परिपालनार्थं विष्णुनावतारेषु शिवाराधनं शिवाद् वरादिकं च गृहीतम् इत्य् उक्तम् ।
En - Gemini 2.5
“I shall indeed worship you, and you be a boon-giver to me” - by these and other passages, it is stated that Vishnu, in His incarnations, worshipped Shiva and received boons from Shiva for the sake of fulfilling the boons He Himself had given to Shiva.
मूलम्
त्वाम् एवा राधयिष्यामि त्वं च मे वरदो भव इत्यादिना शिवाय स्व-दत्त-वर-परिपालनार्थं विष्णुनावतारेषु शिवाराधनं शिवाद् वरादिकं च गृहीतम् इत्य् उक्तम् ।
विश्वास-प्रस्तुतिः
एतद् अज्ञात्वा भ्रान्ता राम-कृष्णादिभिः शिवाराधन-तद्-वर-ग्रहणाच् छिवाद् विष्णोर् अपकर्षं वदन्ति ।
En - Gemini 2.5
Not knowing this, deluded people say that Vishnu is inferior to Shiva because of Shiva worship and receiving boons from Him by Rama, Krishna, etc.
मूलम्
एतद् अज्ञात्वा भ्रान्ता राम-कृष्णादिभिः शिवाराधन-तद्-वर-ग्रहणाच् छिवाद् विष्णोर् अपकर्षं वदन्ति ।
विश्वास-प्रस्तुतिः
ब्रह्म-संवत्सर-शताद् एकाहं शैवम् उच्यते ।
En - Gemini 2.5
One day of Shiva is said to be a hundred years of Brahma.
मूलम्
ब्रह्म-संवत्सर-शताद् एकाहं शैवम् उच्यते ।
विश्वास-प्रस्तुतिः
शिव-संवत्सर-शतान् निमेषं वैष्णवं विदुः ॥ यदा स विष्णुर् जागर्ति तद् इदं चेष्टते जगत् ।
En - Gemini 2.5
They know a nimisha (a blink of an eye) of Vaishnava time to be a hundred years of Shiva. When that Vishnu awakens, this world moves.
मूलम्
शिव-संवत्सर-शतान् निमेषं वैष्णवं विदुः ॥ यदा स विष्णुर् जागर्ति तद् इदं चेष्टते जगत् ।
विश्वास-प्रस्तुतिः
यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति इति मात्स्ये ।
En - Gemini 2.5
When the peaceful Self sleeps, then everything closes down - this is in the Matsya Purana.
मूलम्
यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति इति मात्स्ये ।
विश्वास-प्रस्तुतिः
एवं पाद्मोत्तर-खण्डे विष्णुः— अहम् अप्य् अवतारेषु त्वां च रुद्र महा-बल ।
En - Gemini 2.5
Similarly, in the Padma Purana, Uttara Khanda, Vishnu says: “Even I, in my incarnations, O mighty Rudra, and you.”
मूलम्
एवं पाद्मोत्तर-खण्डे विष्णुः— अहम् अप्य् अवतारेषु त्वां च रुद्र महा-बल ।
विश्वास-प्रस्तुतिः
तामसानां मोहनार्थं पूजयामि न संशयः इति ।
En - Gemini 2.5
“Worship you, without doubt, for the delusion of the Tamasika (ignorant) beings.”
मूलम्
तामसानां मोहनार्थं पूजयामि न संशयः इति ।
विश्वास-प्रस्तुतिः
तत्रैव पर-नाम-सहस्र-नामाध्याये— शंभोः पितामहो ब्रह्मा पिता शक्राद्य्-अधीश्वरः ।
En - Gemini 2.5
In the very same text, in the chapter on the thousand names of the Supreme: “Brahma is the grandfather of Shambhu, the father and ruler of Indra and others.”
मूलम्
तत्रैव पर-नाम-सहस्र-नामाध्याये— शंभोः पितामहो ब्रह्मा पिता शक्राद्य्-अधीश्वरः ।
विश्वास-प्रस्तुतिः
ब्रह्म-कोटि-जगत्-स्रष्टा शंभु-कोटि-महेश्वरः ॥ शिव-त्रिशूल-विध्वंसी श्री-कण्ठैक-वर-प्रदः ।
En - Gemini 2.5
“The creator of millions of worlds for Brahma, Maheshvara (Vishnu) for millions of Shambhus. The destroyer of Shiva’s trident, the sole granter of boons to Shrikantha (Shiva).”
मूलम्
ब्रह्म-कोटि-जगत्-स्रष्टा शंभउ-कोटि-महेश्वरः ॥ शिव-त्रिशूल-विध्वंसी श्री-कण्ठैक-वर-प्रदः ।
विश्वास-प्रस्तुतिः
ब्रह्म-चर्म-शिरः-पट्टो दिक्-पालोर्ध्वाङ्ग-भूषणः ॥ द्वादशार्क-शिरो-दामा रुद्र-शीर्षैक-नूपुरः ।
En - Gemini 2.5
“He whose forehead-band is Brahma’s skin, whose upper limbs are adorned with the Dikpalas (guardians of directions). He who has a garland of twelve suns for his head, and one Rudra’s head as his anklet.”
मूलम्
ब्रह्म-चर्म-शिरः-पट्टो दिक्-पालोर्ध्वाङ्ग-भूषणः ॥ द्वादशार्क-शिरो-दामा रुद्र-शीर्षैक-नूपुरः ।
विश्वास-प्रस्तुतिः
योगिनी-ग्रस्त-गिरिजा-त्राता भैरव-तर्जकः ॥ गणेश-कोटि-दर्प-घ्नो मेष-शंकर-वाहनः ।
En - Gemini 2.5
“The savior of Girija (Parvati) swallowed by a Yogini, the intimidator of Bhairava. The destroyer of the pride of millions of Ganesha, the one whose vehicle is a ram, Shankara.”
मूलम्
योगिनी-ग्रस्त-गिरिजा-त्राता भैरव-तर्जकः ॥ गणेश-कोटि-दर्प-घ्नो मेष-शंकर-वाहनः ।
विश्वास-प्रस्तुतिः
बाण-बाहु-सहस्र-च्छित् स्कन्दादि-गण-कोटि-जित् ॥ शिव-तीव्र-तपो-वश्यः पुरा शिव-वर-प्रदः ।
En - Gemini 2.5
“The cutter of Bana’s thousand arms, the conqueror of millions of Ganas including Skanda. Subdued by Shiva’s intense austerity, the ancient bestower of boons to Shiva.”
मूलम्
बाण-बाहु-सहस्र-च्छित् स्कन्दादि-गण-कोटि-जित् ॥ शिव-तीव्र-तपो-वश्यः पुरा शिव-वर-प्रदः ।
विश्वास-प्रस्तुतिः
गिरि-कन्या-व्रत-पतिः स्वांश-शंकर-पूजकः इत्यादिना विष्णूत्कर्षः शिवादीनां चापकर्षः स्पष्टं प्रतिपादितः ।
En - Gemini 2.5
“The Lord of the vow of the mountain maiden (Parvati), the worshipper of Shankara, who is His own part” - by these and other passages, the superiority of Vishnu and the inferiority of Shiva and others are clearly stated.
मूलम्
गिरि-कन्या-व्रत-पतिः स्वांश-शंकर-पूजकः इत्यादिना विष्णूत्कर्षः शिवादीनां चापकर्षः स्पष्टं प्रतिपादितः ।
विश्वास-प्रस्तुतिः
एवं पाद्म-पुराणान्त्याध्याये शिवे सत्त्व-गुण-परीक्षार्थं कैलासं गत्वा नन्दि-केश्वर-संनिधौ स्थितो भृगुः देव्या क्रीडति शंकरस् तत्र न गन्तव्यम् इति नन्दि-केश्वरेण निवारितः किंचित्-कालं स्थित्वा शिवाय शापं दत्तवान् इति वर्तते ।
En - Gemini 2.5
Similarly, in the concluding chapter of the Padma Purana, Bhrigu, who went to Kailasa to test Shiva’s Sattva quality and stayed near Nandikeshvara, was prevented by Nandikeshvara from entering, being told that Shankara was sporting with Devi there and it was not to be entered; after staying for some time, he cursed Shiva, it is stated.
मूलम्
एवं पाद्म-पुराणान्त्याध्याये शिवे सत्त्व-गुण-परीक्षार्थं कैलासं गत्वा नन्दि-केश्वर-संनिधौ स्थितो भृगुः देव्या क्रीडति शंकरस् तत्र न गन्तव्यम् इति नन्दि-केश्वरेण निवारितः किंचित्-कालं स्थित्वा शिवाय शापं दत्तवान् इति वर्तते ।
विश्वास-प्रस्तुतिः
तत्रत्योऽयं श्लोकः— तत्र क्रोध-समाविष्टो भृगुः प्रोवाच शंकरम् ।
En - Gemini 2.5
Here is the verse from there: “There, Bhrigu, filled with wrath, spoke to Shankara.”
मूलम्
तत्रत्योऽयं श्लोकः— तत्र क्रोध-समाविष्टो भृगुः प्रोवाच शंकरम् ।
विश्वास-प्रस्तुतिः
नारी-संगम-मत्तोऽसौ यस्मान् माम् अवमन्यते ॥ योनि-लिङ्ग-स्वरूपं वै तस्माद् अस्य भविष्यति [[प्३९]] इति ।
En - Gemini 2.5
“Since this one is intoxicated with association with women, he disrespects me. Therefore, his form will verily be of the Yoni and Linga.” [P39]
मूलम्
नारी-संगम-मत्तोऽसौ यस्मान् माम् अवमन्यते ॥ योनि-लिङ्ग-स्वरूपं वै तस्माद् अस्य भविष्यति [[प्३९]] इति ।
विश्वास-प्रस्तुतिः
श्री-पाञ्चरात्रे— चाम्पेय-पुष्प-साहस्रैर् अर्चयन् शंकरो हरिम् ।
En - Gemini 2.5
In Shri Pañcharatra: “Shankara, worshipping Hari with thousands of champaka flowers.”
मूलम्
श्री-पाञ्चरात्रे— चाम्पेय-पुष्प-साहस्रैर् अर्चयन् शंकरो हरिम् ।
विश्वास-प्रस्तुतिः
एकदैका-प्रसूनार्थं स्व-नासाम् अच्छिनत् स्वयम् ॥ दृष्ट्वा तद्-भक्तिम् अतुलां हरिः प्रीतो वरं ददौ ।
En - Gemini 2.5
“Once, for the sake of one flower, he himself cut off his own nose. Seeing his unparalleled devotion, Hari, pleased, gave a boon.”
मूलम्
एकदैका-प्रसूनार्थं स्व-नासाम् अच्छिनत् स्वयम् ॥ दृष्ट्वा तद्-भक्तिम् अतुलां हरिः प्रीतो वरं ददौ ।
विश्वास-प्रस्तुतिः
लब्ध-लिङ्गौ च पूज्यौ च भूयास्तं दम्पती युवाम् इति ।
En - Gemini 2.5
“May you two, husband and wife, become worshipped with a Linga” - thus.
मूलम्
लब्ध-लिङ्गौ च पूज्यौ च भूयास्तं दम्पती युवाम् इति ।
विश्वास-प्रस्तुतिः
इदं वचनं कूरेश-विजयेऽप्य् उदाहृतम् ।
En - Gemini 2.5
This statement is also cited in Kuresha-Vijaya.
मूलम्
इदं वचनं कूरेश-विजयेऽप्य् उदाहृतम् ।
विश्वास-प्रस्तुतिः
अगस्त्य-संहितायाम्— चक्र-राजं समाराध्य संहर्ता जगतां स्वयम् ।
En - Gemini 2.5
In the Agastya Samhita: “The destroyer of the worlds himself, having worshipped Chakraraja.”
मूलम्
अगस्त्य-संहितायाम्— चक्र-राजं समाराध्य संहर्ता जगतां स्वयम् ।
विश्वास-प्रस्तुतिः
स एव दत्तवान् शूलं कृपया सहितो मम ॥ तवैवाज्ञां पुरस्कृत्य चराचर-गुरोर् अहम् ।
En - Gemini 2.5
“He himself, out of compassion, gave me the trident. Placing your command foremost, O guru of the movable and immovable.”
मूलम्
स एव दत्तवान् शूलं कृपया सहितो मम ॥ तवैवाज्ञां पुरस्कृत्य चराचर-गुरोर् अहम् ।
विश्वास-प्रस्तुतिः
कल्पान्ते संहरिष्यामि तावन्ति च विभागशः इति ।
En - Gemini 2.5
“I shall destroy all those things in separate divisions at the end of the Kalpa” - thus.
मूलम्
कल्पान्ते संहरिष्यामि तावन्ति च विभागशः इति ।
विश्वास-प्रस्तुतिः
इदं वचनं कूरेश-विजयेऽप्य् उदाहृतम् ।
En - Gemini 2.5
This statement is also cited in Kuresha-Vijaya.
मूलम्
इदं वचनं कूरेश-विजयेऽप्य् उदाहृतम् ।
विश्वास-प्रस्तुतिः
गारुडे अष्ट-नवतितमाध्याये “हन्तुम् अभ्युद्यतं रौद्रं शरभं नर-केसरी ।
En - Gemini 2.5
In the Garuḍa Purana, 88th chapter: “The man-lion (Narasimha) tore apart the fierce Sharabha, who was intent on killing, just like Hiranyakashipu.”
मूलम्
गारुडे अष्ट-नवतितमाध्याये “हन्तुम् अभ्युद्यतं रौद्रं शरभं नर-केसरी ।
विश्वास-प्रस्तुतिः
नखैर् विदारयामास हिरण्य-कशिपुं यथा” इति ।
En - Gemini 2.5
“With his claws, just as he did Hiranyakashipu.”
मूलम्
नखैर् विदारयामास हिरण्य-कशिपुं यथा” इति ।
विश्वास-प्रस्तुतिः
वाराहे— “निकृत्त-बाहूरु-शिरा वज्र-कल्प-मुखैर् नखैः ।
En - Gemini 2.5
In Varaha Purana: “His arms, thighs, and head severed, with nails like thunderbolts.”
मूलम्
वाराहे— “निकृत्त-बाहूरु-शिरा वज्र-कल्प-मुखैर् नखैः ।
विश्वास-प्रस्तुतिः
मेरु-पृष्ठे नृसिंहेन शरभः सहसापतत्” इति ।
En - Gemini 2.5
“Sharabha suddenly fell on the peak of Meru by Narasimha.”
मूलम्
मेरु-पृष्ठे नृसिंहेन शरभः सहसापतत्” इति ।
विश्वास-प्रस्तुतिः
कूर्मे— “कर-वालेन प्रत्येकं मुखं चञ्चू-पुट-द्वयम् ।
En - Gemini 2.5
In Kurma Purana: “With his sword, each face and pair of beaks.”
मूलम्
कूर्मे— “कर-वालेन प्रत्येकं मुखं चञ्चू-पुट-द्वयम् ।
विश्वास-प्रस्तुतिः
व्यदारयन् नृसिंहस् तं हिरण्य-कशिपुं यथा ॥ तस्य कङ्काल-केनैव नगाकारेण नारद ।
En - Gemini 2.5
“Narasimha tore him apart, just as he did Hiranyakashipu. By his skeleton-like body, O Narada, like a mountain.”
मूलम्
व्यदारयन् नृसिंहस् तं हिरण्य-कशिपुं यथा ॥ तस्य कङ्काल-केनैव नगाकारेण नारद ।
विश्वास-प्रस्तुतिः
जय-केतोर् दण्डम् उच्चं चकार नर-केसरी” एतानि वचनानि कूरेश-विजयेऽप्य् उदाहृतानीति ।
En - Gemini 2.5
“The man-lion made a tall standard of victory” - these statements are also cited in Kuresha-Vijaya.
मूलम्
जय-केतोर् दण्डम् उच्चं चकार नर-केसरी” एतानि वचनानि कूरेश-विजयेऽप्य् उदाहृतानीति ।
विश्वास-प्रस्तुतिः
“अग्नेर् आतिथ्यम् असि विष्णवे त्वा सोमस्यातिथ्यम् असि विष्णवे त्वातिथेर् आतिथ्यम् असि विष्णवे त्वाग्नये त्वा रायस्-पोष-दाव्ने विष्णवे त्वा श्येनाय त्वा सोम-भृते विष्णवे त्वा” इति प्रथम-काण्डे द्वितीय-प्रश्नः ।
En - Gemini 2.5
“You are the hospitality of Agni, to Vishnu I offer you. You are the hospitality of Soma, to Vishnu I offer you. You are the hospitality of a guest, to Vishnu I offer you. To Agni, to you, the giver of wealth-nourishment, to Vishnu I offer you. To Shyena, to you, the bearer of Soma, to Vishnu I offer you” - this is the second question in the first Kanda.
मूलम्
“अग्नेर् आतिथ्यम् असि विष्णवे त्वा सोमस्यातिथ्यम् असि विष्णवे त्वातिथेर् आतिथ्यम् असि विष्णवे त्वाग्नये त्वा रायस्-पोष-दाव्ने विष्णवे त्वा श्येनाय त्वा सोम-भृते विष्णवे त्वा” इति प्रथम-काण्डे द्वितीय-प्रश्नः ।
विश्वास-प्रस्तुतिः
‘यावद्भिर् वै राजानुचरैर् आगच्छति सर्वेभ्यो वै तेभ्य आतिथ्यं क्रियते च्छन्दांसि खलु वै सोमस्य राज्ञोऽनुचराण्य् अग्नेर् आतिथ्यम् असि विष्णवे त्व् इत्याह गायत्त्रिया एवैतेन करोति सोमस्यातिथ्यम् असि विष्णवे त्व् इत्याह त्रिष्टुभ एवैतेन करोति अतिथेर् आतिथ्यम् असि विष्णवे त्व् इत्याह जगत्या एवैतेन करोत्य् अग्नये त्वा रायस्-पोष-दाव्ने विष्णवे त्व् इत्याहानुष्टुभ एवैतेन करोति श्येनाय त्वा सोम-भृते विष्णवे त्व् इत्याह गायत्त्रिया एवैतेन करोति’ इति षष्ठ-काण्डे द्वितीय-प्रश्नः ।
En - Gemini 2.5
“By as many attendants as the king arrives, to all of them indeed hospitality is offered. The meters are indeed the attendants of King Soma. ‘You are the hospitality of Agni, to Vishnu I offer you,’ he says, and by this he offers to Gayatri. ‘You are the hospitality of Soma, to Vishnu I offer you,’ he says, and by this he offers to Trishtubh. ‘You are the hospitality of a guest, to Vishnu I offer you,’ he says, and by this he offers to Jagati. ‘To Agni, to you, the giver of wealth-nourishment, to Vishnu I offer you,’ he says, and by this he offers to Anushtubh. ‘To Shyena, to you, the bearer of Soma, to Vishnu I offer you,’ he says, and by this he offers to Gayatri” - this is the second question in the sixth Kanda.
मूलम्
‘यावद्भिर् वै राजानुचरैर् आगच्छति सर्वेभ्यो वै तेभ्य आतिथ्यं क्रियते च्छन्दांसि खलु वै सोमस्य राज्ञोऽनुचराण्य् अग्नेर् आतिथ्यम् असि विष्णवे त्व् इत्याह गायत्त्रिया एवैतेन करोति सोमस्यातिथ्यम् असि विष्णवे त्व् इत्याह त्रिष्टुभ एवैतेन करोति अतिथेर् आतिथ्यम् असि विष्णवे त्व् इत्याह जगत्या एवैतेन करोत्य् अग्नये त्वा रायस्-पोष-दाव्ने विष्णवे त्व् इत्याहानुष्टुभ एवैतेन करोति श्येनाय त्वा सोम-भृते विष्णवे त्व् इत्याह गायत्त्रिया एवैतेन करोति’ इति षष्ठ-काण्डे द्वितीय-प्रश्नः ।
विश्वास-प्रस्तुतिः
ताभ्याम् “सर्व-देव-नमस्कारः केशवं प्रति गच्छति” इति-वत् अग्न्यादि-सर्वातिथ्यम् अग्न्यादि-सर्व-देव-शेषिणे विष्णवे दीयत इत्य् उक्त्या सर्व-देव-शेषित्वं विष्णोर् अवगम्यते ।
En - Gemini 2.5
By those two (passages), just as “All salutations to gods go to Keshav,” it is stated that all hospitality offered to Agni and others is offered to Vishnu, who is the principal deity of all gods including Agni, and thus Vishnu’s principal position over all gods is understood.
मूलम्
ताभ्याम् “सर्व-देव-नमस्कारः केशवं प्रति गच्छति” इति-वत् अग्न्यादि-सर्वातिथ्यम् अग्न्यादि-सर्व-देव-शेषिणे विष्णवे दीयत इत्य् उक्त्या सर्व-देव-शेषित्वं विष्णोर् अवगम्यते ।
विश्वास-प्रस्तुतिः
अधस्तन-सप्त-लोकाधो-भागे स्थित्वा कूर्म-रूपो विष्णुर् महा-तलादि-पृथिव्य्-अन्तं धत्त इति सर्व-शास्त्र-प्रसिद्धम् ।
En - Gemini 2.5
It is well-known in all scriptures that Vishnu, in the form of a tortoise, sustains everything from Mahatala down to the earth, residing in the lower part of the seven netherworlds.
मूलम्
अधस्तन-सप्त-लोकाधो-भागे स्थित्वा कूर्म-रूपो विष्णुर् महा-तलादि-पृथिव्य्-अन्तं धत्त इति सर्व-शास्त्र-प्रसिद्धम् ।
विश्वास-प्रस्तुतिः
तस्य विष्णोः शिवानल-स्तम्भ-वपुर्-अवयवस्य पृथिव्य्-अधो-भाग-प्रविष्टस्य दर्शनं न जातम् ।
En - Gemini 2.5
No sight was obtained of that Vishnu, whose body part was the Shiva-fire-pillar and who had entered the lower part of the earth.
मूलम्
तस्य विष्णोः शिवानल-स्तम्भ-वपुर्-अवयवस्य पृथिव्य्-अधो-भाग-प्रविष्टस्य दर्शनं न जातम् ।
विश्वास-प्रस्तुतिः
अद्यापि तत्-पादो [[प्४०]] विष्णुना मृग्यत इति वचनम् अत्यन्त-बाधितार्थत्वात् तुच्छतमम् अप्रामाणिकं कु-दृष्टि-प्रक्षिप्तं चेति सुधियो विदांकुर्वन्तु ।
En - Gemini 2.5
The statement that His foot is still sought by Vishnu [P40] is utterly meaningless, unauthoritative, and interpolated by those with distorted views, as its meaning is extremely contradictory; let the wise understand this.
मूलम्
अद्यापि तत्-पादो [[प्४०]] विष्णुना मृग्यत इति वचनम् अत्यन्त-बाधितार्थत्वात् तुच्छतमम् अप्रामाणिकं कु-दृष्टि-प्रक्षिप्तं चेति सुधियो विदांकुर्वन्तु ।
विश्वास-प्रस्तुतिः
इदम् अत्रावधेयम्— “विष्णुर् इत्था परमम् अस्य विद्वान् आतो बृहन्न् अभिपाति तृतीयम्” इति श्रुत्या विष्णोर् जनिर् उक्तेति तन् न; विष्णुर् इत्यस्य जात इत्य् अत्रान्वये व्यवहितान्वय-प्रसङ्गात् ।
En - Gemini 2.5
This should be noted here: The claim that Vishnu’s birth is stated by the Shruti “Viṣṇur itthā paramaṃ asya vidvān āto bṛhan abhipāti tṛtīyam” (Vishnu, thus knowing His supreme abode, from thence, becoming great, protects the third) is not correct; if “Vishnu” were connected with “jata” (born), it would lead to a disjointed connection.
मूलम्
इदम् अत्रावधेयम्— “विष्णुर् इत्था परमम् अस्य विद्वान् आतो बृहन्न् अभिपाति तृतीयम्” इति श्रुत्या विष्णोर् जनिर् उक्तेति तन् न; विष्णुर् इत्यस्य जात इत्य् अत्रान्वये व्यवहितान्वय-प्रसङ्गात् ।
विश्वास-प्रस्तुतिः
स च संभवत्य् अव्यवहितान्वये अयुक्तः ।
En - Gemini 2.5
And that is improper when an immediate connection is possible.
मूलम्
स च संभवत्य् अव्यवहितान्वये अयुक्तः ।
विश्वास-प्रस्तुतिः
अस्यार्थः— विष्णुः इत्था एवं-गुण-विशिष्टः ।
En - Gemini 2.5
Its meaning is: Vishnu is indeed endowed with such qualities.
मूलम्
अस्यार्थः— विष्णुः इत्था एवं-गुण-विशिष्टः ।
विश्वास-प्रस्तुतिः
अस्य विष्णोः परमं पदं विद्वान् पुरुषो बृहञ् जातः बृहत्त्व-रूपेण जातः सन् तृतीयं स्वर्ग-स्थानं पाति, इन्द्र-भावं प्राप्नोतीति ।
En - Gemini 2.5
Knowing the supreme abode of this Vishnu, a person, having become great, protects the third heavenly abode, and attains the state of Indra.
मूलम्
अस्य विष्णोः परमं पदं विद्वान् पुरुषो बृहञ् जातः बृहत्त्व-रूपेण जातः सन् तृतीयं स्वर्ग-स्थानं पाति, इन्द्र-भावं प्राप्नोतीति ।
विश्वास-प्रस्तुतिः
“सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः ।
En - Gemini 2.5
“Soma purifies; the generator of thoughts, the generator of heaven, the generator of earth.”
मूलम्
“सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः ।
विश्वास-प्रस्तुतिः
जनिताग्नेर् जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः” इत्यत्र उत-शब्दस्याप्यर्थतायाः भाष्य-कारादिभिर् उक्तत्वात् अप्यर्थे उत-पदस्य “उतैनं गोपाः” इत्यादौ प्रयोग-प्राचुर्याच् च ।
En - Gemini 2.5
“The generator of Agni, the generator of Surya, the generator of Indra, and the generator of Vishnu” - here, since the word “uta” has been stated by commentators and others to mean “even,” and since the word “uta” is frequently used in the sense of “even” in phrases like “utainam gopah” (even cowherds follow him), etc.
मूलम्
जनिताग्नेर् जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः” इत्यत्र उत-शब्दस्याप्यर्थतायाः भाष्य-कारादिभिर् उक्तत्वात् अप्यर्थे उत-पदस्य “उतैनं गोपाः” इत्यादौ प्रयोग-प्राचुर्याच् च ।
विश्वास-प्रस्तुतिः
तथा च सोमः विष्णोर् अपि जनिता किम् उत मर्त्यादीनाम् इति विष्णु-जनन-विषये अर्थ-वादत्वं प्रतीयते ।
En - Gemini 2.5
And thus, the statement that Soma is the generator even of Vishnu, let alone of mortals and others, appears to be an Arthavada (eulogy) concerning Vishnu’s generation.
मूलम्
तथा च सोमः विष्णोर् अपि जनिता किम् उत मर्त्यादीनाम् इति विष्णु-जनन-विषये अर्थ-वादत्वं प्रतीयते ।
विश्वास-प्रस्तुतिः
तेन विष्णोर् जनिर् नास्त्य् एवेति सिध्यति ।
En - Gemini 2.5
By this, it is established that Vishnu has no birth at all.
मूलम्
तेन विष्णोर् जनिर् नास्त्य् एवेति सिध्यति ।
विश्वास-प्रस्तुतिः
“विष्णुर् वा अकामयत पुण्यं श्लोकं शृण्वानीति, न मा पापिनी कीर्तिः स्पृशेत्, विष्णु-क्रमान् क्रमते विष्णुर् एव भूत्वा इमाल् लोकान् अभिजयति” इत्यादीनां नक्षत्रेष्टि-विष्णु-क्रमाद्य्-अर्थ-वाद-गतानां स्तुतित्वेन न तैर् विष्णोः कर्माधीनैश्वर्यम् ।
En - Gemini 2.5
Statements like “Vishnu desired to hear a good reputation, let not sinful fame touch me, he proceeds through Vishnu’s strides, becoming Vishnu himself he conquers these worlds,” which are found in the Arthavadas (eulogistic passages) of Nakshatreshti, Vishnu-krama, etc., are meant as praise, and therefore do not imply that Vishnu’s sovereignty is dependent on karma.
मूलम्
“विष्णुर् वा अकामयत पुण्यं श्लोकं शृण्वानीति, न मा पापिनी कीर्तिः स्पृशेत्, विष्णु-क्रमान् क्रमते विष्णुर् एव भूत्वा इमाल् लोकान् अभिजयति” इत्यादीनां नक्षत्रेष्टि-विष्णु-क्रमाद्य्-अर्थ-वाद-गतानां स्तुतित्वेन न तैर् विष्णोः कर्माधीनैश्वर्यम् ।
विश्वास-प्रस्तुतिः
अन्यथा “ब्रह्म वा अकामयत” इत्यादिना नक्षत्रेष्ट्य्-अर्थ-वादेन पर-ब्रह्मणोऽपि कर्माधीनैश्वर्यापत्तेः ।
En - Gemini 2.5
Otherwise, by the Nakshatreshti-arthavada (eulogistic passage concerning Nakshatreshti) “Brahma va akamayata” (Brahma desired) and so on, even Parabrahman would be subject to karma-dependent sovereignty.
मूलम्
अन्यथा “ब्रह्म वा अकामयत” इत्यादिना नक्षत्रेष्ट्य्-अर्थ-वादेन पर-ब्रह्मणोऽपि कर्माधीनैश्वर्यापत्तेः ।
विश्वास-प्रस्तुतिः
यत् तु “प्रभुर् जयो द्यामङ्गिरसो ययुः” इत्यत्र पाक- कर्मणः [[अस्जि-धातोः/भ्रस्ज्-धातोः]] प्रभुर् जय इति रूपं देवोद्देशेन प्रकर्षेण हविः-पाकं कृतवन्त इति तद्-अर्थ इति ।
En - Gemini 2.5
As for the statement “Prabhu Jayō Dyām Aṅgiraso Yayur” (The powerful conquerors went to heaven, the Angirasas), where “Prabhu Jay” is a form of the root “bhraj” (to cook), meaning they performed the cooking of oblations excellently for the deities, that is its meaning.
मूलम्
यत् तु “प्रभुर् जयो द्यामङ्गिरसो ययुः” इत्यत्र पाक- कर्मणः [[अस्जि-धातोः/भ्रस्ज्-धातोः]] प्रभुर् जय इति रूपं देवोद्देशेन प्रकर्षेण हविः-पाकं कृतवन्त इति तद्-अर्थ इति ।
विश्वास-प्रस्तुतिः
“सोमः पर्वते” इत्यत्र उमया सहितः सोम इति विग्रहेण शिव इत्य् अर्थ इति कश्चित् ।
En - Gemini 2.5
Someone says that in “Soma Parvate,” the meaning is Shiva, by dissolving it as “Soma, accompanied by Uma.”
मूलम्
“सोमः पर्वते” इत्यत्र उमया सहितः सोम इति विग्रहेण शिव इत्य् अर्थ इति कश्चित् ।
विश्वास-प्रस्तुतिः
तन् न; अनाघ्रात-पदाध्ययनत्वात् ।
En - Gemini 2.5
That is not so; because the passage is not correctly read.
मूलम्
तन् न; अनाघ्रात-पदाध्ययनत्वात् ।
विश्वास-प्रस्तुतिः
प्रभुर् जय इति सोमः पवत इति पदाध्ययन-दर्शनात् ।
En - Gemini 2.5
Because the reading of the words is “Prabhu Jay” and “Soma Pavate.”
मूलम्
प्रभुर् जय इति सोमः पवत इति पदाध्ययन-दर्शनात् ।
विश्वास-प्रस्तुतिः
त्वत्-पक्षे प्रभूजय इत्य् आपत्तेः स उ मेत्य् आपत्तेश् च ।
En - Gemini 2.5
In your interpretation, it would lead to “Prabhujaya” and “Sa u me.”
मूलम्
त्वत्-पक्षे प्रभूजय इत्य् आपत्तेः स उ मेत्य् आपत्तेश् च ।
विश्वास-प्रस्तुतिः
“ऋतं सत्यं परं ब्रह्म पुरुषं कृष्ण-पिङ्गलम् ।
En - Gemini 2.5
“The truth, the reality, the Supreme Brahman, the dark-brown Purusha.”
मूलम्
“ऋतं सत्यं परं ब्रह्म पुरुषं कृष्ण-पिङ्गलम् ।
विश्वास-प्रस्तुतिः
ऊर्ध्व-रेतं विरूपाक्षं विश्व-रूपाय वै नमो नमः” इति, “अजात इत्य् एव कश्चिद् भीरुः प्रपद्यते रुद्र यत् ते दक्षिणं मुखं तेन मा पाहि” इति वाक्य-द्वयम् अर्थ-वादत्वान् न प्रतीयमानार्थ-परम् ।
En - Gemini 2.5
“Of upward semen, Virupaksha, to the Vishvarupa (universal form), indeed salutations, salutations” - and “Only as unborn, some fearful one takes refuge, O Rudra, by your southern face, protect me by that” - these two passages are Arthavadas (eulogies) and are not to be taken literally.
मूलम्
ऊर्ध्व-रेतं विरूपाक्षं विश्व-रूपाय वै नमो नमः” इति, “अजात इत्य् एव कश्चिद् भीरुः प्रपद्यते रुद्र यत् ते दक्षिणं मुखं तेन मा पाहि” इति वाक्य-द्वयम् अर्थ-वादत्वान् न प्रतीयमानार्थ-परम् ।
विश्वास-प्रस्तुतिः
नम इति शब्द-रूपार्थ-वाद-लिङ्गात्, पाहीति प्रार्थना-रूपार्थ-वाद-लिङ्गाच् च ।
En - Gemini 2.5
Because of the indication of Arthavada in the form of the word “Namaḥ” (salutation), and in the form of the prayer “Pahi” (protect).
मूलम्
नम इति शब्द-रूपार्थ-वाद-लिङ्गात्, पाहीति प्रार्थना-रूपार्थ-वाद-लिङ्गाच् च ।
विश्वास-प्रस्तुतिः
यत् तु “अनिर् वै देवानाम् अवमो विष्णुः परमः तद् अन्तरा वै सर्वा देवताः” इत्य् अत्राग्नेः यत् किंचिद् देवापेक्षया- [[प्४१]] वमत्वं न सर्व-देवापेक्षया ।
En - Gemini 2.5
As for the statement “Agni is indeed the lowest of the gods, Vishnu is the highest; between them are all the gods,” the lowness of Agni here is relative to some deities, not to all deities. [P41]
मूलम्
यत् तु “अनिर् वै देवानाम् अवमो विष्णुः परमः तद् अन्तरा वै सर्वा देवताः” इत्य् अत्राग्नेः यत् किंचिद् देवापेक्षया- [[प्४१]] वमत्वं न सर्व-देवापेक्षया ।
विश्वास-प्रस्तुतिः
“राजानौ देवानाव् अग्नीषोमौ” इति शतपथ-श्रुति-विरोधापत्तेः ।
En - Gemini 2.5
Otherwise, there would be a contradiction with the Shatapatha Shruti “The two kings among gods are Agni and Soma.”
मूलम्
“राजानौ देवानाव् अग्नीषोमौ” इति शतपथ-श्रुति-विरोधापत्तेः ।
विश्वास-प्रस्तुतिः
तत्-समभिव्याहाराद् देवापेक्षया विष्णोः परमत्वम् अपि यत्-किंचिद्-देवापेक्षया न शिवाद्य्-अपेक्षयेति शिव-तत्त्व-विवेकोक्तम् असत् ।
En - Gemini 2.5
Therefore, the statement in Shiva-Tattva-Viveka that Vishnu’s supremacy over gods, in that context, is also relative to some deities, and not to Shiva and others, is incorrect.
मूलम्
तत्-समभिव्याहाराद् देवापेक्षया विष्णोः परमत्वम् अपि यत्-किंचिद्-देवापेक्षया न शिवाद्य्-अपेक्षयेति शिव-तत्त्व-विवेकोक्तम् असत् ।
विश्वास-प्रस्तुतिः
“विष्णुः परमः”, “तद्-अन्तरा वै सर्वा देवताः” इति श्रुति-वाक्याभ्यां प्रबल-प्रमाणाभ्यां विष्णोः शिवादिसर्व-देवोत्तमत्व-सिद्धौ दुर्बल-प्रमाण-रूप-संनिधानात् तस्यापेक्षिक-परत्वोक्तेर् अमीमांसक-कृत्यत्वात् ।
En - Gemini 2.5
Since Vishnu’s supremacy over Shiva and all other deities is established by the strong proofs of the Shruti passages “Vishnuḥ Paramaḥ” (Vishnu is supreme) and “Tadantara vai sarva devatah” (Indeed, all deities are within Him), stating His relative supremacy based on the weaker proof of proximity is an act of non-Mimamsakas.
मूलम्
“विष्णुः परमः”, “तद्-अन्तरा वै सर्वा देवताः” इति श्रुति-वाक्याभ्यां प्रबल-प्रमाणाभ्यां विष्णोः शिवादिसर्व-देवोत्तमत्व-सिद्धौ दुर्बल-प्रमाण-रूप-संनिधानात् तस्यापेक्षिक-परत्वोक्तेर् अमीमांसक-कृत्यत्वात् ।
विश्वास-प्रस्तुतिः
श्रुति-लिङ्ग-सूत्रं जैमिनीयं पश्यतु भवान् ।
En - Gemini 2.5
One should observe the Shrutilinga Sutra of Jaimini.
मूलम्
श्रुति-लिङ्ग-सूत्रं जैमिनीयं पश्यतु भवान् ।
विश्वास-प्रस्तुतिः
यत् तु “अग्निर् वै देवानाम्” इति वाक्यम् अग्नीषोम-पुरोडाशार्थ-वाद इति, तन् न; अस्य ऋग्-वेद-ब्राह्मणीय-प्रथम-वाक्यस्य यथा विधायक-प्रत्ययाघटनं तथा तद्-उत्तराग्नीषोम-पुरोडाश-वाक्ये तद्-अघटनस्य तुल्यत्वे सति यजुर्-वेद-सिद्धाग्नी-सोम-पुरोडाशानुवादकतया विधित्वाभावेनाग्नी-सोम-पुरोडाश-विधि-समभिव्याहृतत्वाभावेन “अग्निर् वै” इति वाक्यस्य तद्-अर्थ-वादत्वाभावात् ।
En - Gemini 2.5
As for the argument that the statement “Agni vai devanam” (Agni is indeed of the gods) is an Arthavada (eulogy) for the Agni-Soma Purodasha (sacrificial cake), that is not so; because just as this first sentence of the Rigveda Brahmana lacks a prescriptive suffix, and the subsequent Agni-Soma Purodasha sentence also similarly lacks it, and therefore, since it is a mere recitation of the Agni-Soma Purodasha established in the Yajurveda, it is not prescriptive and is not associated with the Agni-Soma Purodasha injunction, thus the sentence “Agni vai” is not an Arthavada for it.
मूलम्
यत् तु “अग्निर् वै देवानाम्” इति वाक्यम् अग्नीषोम-पुरोडाशार्थ-वाद इति, तन् न; अस्य ऋग्-वेद-ब्राह्मणीय-प्रथम-वाक्यस्य यथा विधायक-प्रत्ययाघटनं तथा तद्-उत्तराग्नीषोम-पुरोडाश-वाक्ये तद्-अघटनस्य तुल्यत्वे सति यजुर्-वेद-सिद्धाग्नी-सोम-पुरोडाशानुवादकतया विधित्वाभावेनाग्नी-सोम-पुरोडाश-विधि-समभिव्याहृतत्वाभावेन “अग्निर् वै” इति वाक्यस्य तद्-अर्थ-वादत्वाभावात् ।
विश्वास-प्रस्तुतिः
विनिगमनाभावेन तस्यैवैतद्-अर्थ-वादत्व-प्रसङ्गाच् च ।
En - Gemini 2.5
And in the absence of a conclusive reason, it would lead to the very same (argument) becoming an Arthavada for this (statement).
मूलम्
विनिगमनाभावेन तस्यैवैतद्-अर्थ-वादत्व-प्रसङ्गाच् च ।
विश्वास-प्रस्तुतिः
वस्तुतस् तु तत्त्वम् अस्यादि-वाक्यवद् अपूर्वार्थतया “अग्निर् वै देवानाव् अवमो विष्णुः परमः” इत्यस्यापूर्व-विधित्वम् एव ।
En - Gemini 2.5
In reality, however, just like the sentence “Tat tvam asi” (That thou art), “Agni vai devanam avamo Visnuḥ paramah” (Agni is indeed the lowest of the gods, Vishnu is the highest) is a novel injunction, as it conveys an unprecedented meaning.
मूलम्
वस्तुतस् तु तत्त्वम् अस्यादि-वाक्यवद् अपूर्वार्थतया “अग्निर् वै देवानाव् अवमो विष्णुः परमः” इत्यस्यापूर्व-विधित्वम् एव ।
विश्वास-प्रस्तुतिः
न हि सर्व-देवापेक्षया परमत्वं वाक्यान्तरेण सिद्धं, येनोक्त-वाक्यस्यानुवादत्वं भवेत् ।
En - Gemini 2.5
Indeed, the supremacy over all gods is not established by any other passage, such that the said passage would be a mere reiteration.
मूलम्
न हि सर्व-देवापेक्षया परमत्वं वाक्यान्तरेण सिद्धं, येनोक्त-वाक्यस्यानुवादत्वं भवेत् ।
विश्वास-प्रस्तुतिः
यद्यपि शिव-विषये “विश्वाधिपो यो रुद्रो महर्षिः” इत्य् अस्ति वाक्यं, तथापि न तत्रोत्तमत्व-बोधक-शब्दोऽस्ति ।
En - Gemini 2.5
Although there is a statement concerning Shiva, “Vishvadhipo yo Rudro Maharṣiḥ” (Rudra, the great sage, who is the lord of the universe), yet there is no word in it that denotes supremacy.
मूलम्
यद्यपि शिव-विषये “विश्वाधिपो यो रुद्रो महर्षिः” इत्य् अस्ति वाक्यं, तथापि न तत्रोत्तमत्व-बोधक-शब्दोऽस्ति ।
विश्वास-प्रस्तुतिः
यद्यपि “विश्वाधिपो रुद्रो महर्षिः” इति श्वेताश्वतरोपनिषद्-वाक्यम् अस्ति, तथापि तद्-उपनिषदो दशोपनिषद्-बहिर्-भूतत्वेन ज्ञान-काण्डानन्तर्भावात् “सर्व-पाशापहानिः, तत्-कारणं सांख्य-योगाभिपन्नम्” इत्यादिना तदीय-वाक्येन पाशुपत-सांख्य-योगाद्य्-अवैदिक-मतावलम्बत्वावगमाच् च न श्रद्धेयत्वम् इति ।
En - Gemini 2.5
Although there is the Shvetashvatara Upanishad passage “Vishvādhipo Rudro Maharṣiḥ” (Rudra, the great sage, the lord of the universe), yet that Upanishad is outside the ten principal Upanishads and is not included in the Gñānakāṇḍa (section on knowledge), and its statements like “Sarva-pāśāpahāniḥ, tat-kāraṇaṃ sāṅkhya-yogābhipannam” (The removal of all bonds, its cause is attained through Sāṅkhya and Yoga) indicate its reliance on un-Vedic doctrines such as Pāśupata, Sāṅkhya, and Yoga, and therefore it is not to be believed.
मूलम्
यद्यपि “विश्वाधिपो रुद्रो महर्षिः” इति श्वेताश्वतरोपनिषद्-वाक्यम् अस्ति, तथापि तद्-उपनिषदो दशोपनिषद्-बहिर्-भूतत्वेन ज्ञान-काण्डानन्तर्भावात् “सर्व-पाशापहानिः, तत्-कारणं सांख्य-योगाभिपन्नम्” इत्यादिना तदीय-वाक्येन पाशुपत-सांख्य-योगाद्य्-अवैदिक-मतावलम्बत्वावगमाच् च न श्रद्धेयत्वम् इति ।
विश्वास-प्रस्तुतिः
इदं तु तत्त्वम्— श्वेताश्वतरोपनिषदि “किं कारणं ब्रह्म” इति प्रथमाध्याये प्रश्न-रूपोपक्रमे ब्रह्म-रूपं पृष्टम् ।
En - Gemini 2.5
This is the truth: In the Shvetashvatara Upanishad, in the first chapter, in the introductory question “Kim Karanam Brahma” (What is the cause, Brahman?), the form of Brahman is questioned.
मूलम्
इदं तु तत्त्वम्— श्वेताश्वतरोपनिषदि “किं कारणं ब्रह्म” इति प्रथमाध्याये प्रश्न-रूपोपक्रमे ब्रह्म-रूपं पृष्टम् ।
विश्वास-प्रस्तुतिः
तद् ब्रह्मोपनिषत्-परम् इति प्रथमाध्यायान्त-वाक्येन ब्रह्म पृष्टं प्रथमाध्याय-निरूपित-रूपम् इत्य् उपसंहारात् प्रथमाध्याय एव पृष्टं ब्रह्म निरूपितम् इत्य् अवगमात् ।
En - Gemini 2.5
Since the concluding statement at the end of the first chapter, “Tad Brahmo-paniṣat-param” (That Brahman is the supreme goal of the Upanishads), implies that the Brahman questioned is described in the first chapter, it is understood that the Brahman questioned is described in the first chapter itself.
मूलम्
तद् ब्रह्मोपनिषत्-परम् इति प्रथमाध्यायान्त-वाक्येन ब्रह्म पृष्टं प्रथमाध्याय-निरूपित-रूपम् इत्य् उपसंहारात् प्रथमाध्याय एव पृष्टं ब्रह्म निरूपितम् इत्य् अवगमात् ।
विश्वास-प्रस्तुतिः
प्रथमाध्याये च “क्षरं प्रधानम् अमृताक्षरं हरः क्षरात्मानाव् ईशते देव एकः” इति मन्त्रेण क्षरात्मानाव् इति प्रधान-हरौ निर्दिश्य “ईशते देवः” इति तयोः शास्यत्वोक्त्या पृष्टं ब्रह्म न शिव इति सिध्यति ।
En - Gemini 2.5
And in the first chapter, the mantra “Kṣaraṃ Pradhānaṃ amṛtākṣaraṃ Haraḥ kṣarātmānāv īśate Deva ekaḥ” (Prakṛti is perishable, the imperishable Hara; the one God rules over the perishable and the soul) designates Pradhana and Hara as “perishable and soul,” and by stating their subjugation (īśate devaḥ), it is established that the Brahman questioned is not Shiva.
मूलम्
प्रथमाध्याये च “क्षरं प्रधानम् अमृताक्षरं हरः क्षरात्मानाव् ईशते देव एकः” इति मन्त्रेण क्षरात्मानाव् इति प्रधान-हरौ निर्दिश्य “ईशते देवः” इति तयोः शास्यत्वोक्त्या पृष्टं ब्रह्म न शिव इति सिध्यति ।
विश्वास-प्रस्तुतिः
ब्रह्मण इतर-शास्यत्वासंभ- [[प्४२]] वात् ।
En - Gemini 2.5
Because Brahman cannot be ruled by another. [P42]
मूलम्
ब्रह्मण इतर-शास्यत्वासंभ- [[प्४२]] वात् ।
विश्वास-प्रस्तुतिः
न च हर इत्यस्य देव इत्यनेनान्वयः, हर इत्य् अनन्तरम् अध्यापक-संप्रदाय-सिद्ध-पाठ-विच्छेदावगमेन हर इत्यन्तेनैव तद्-वाक्यस्य समाप्त्य्-अवगमेन तस्य तद्-उत्तर-वाक्यस्थ-देवेनान्वयानुपपत्तेः ।
En - Gemini 2.5
Nor is “Hara” to be construed with “Deva” (God), because after “Hara,” a clear pause in recitation is understood according to the tradition of teachers, indicating that the sentence ends with “Hara,” and therefore its connection with “Deva” in the subsequent sentence is inappropriate.
मूलम्
न च हर इत्यस्य देव इत्यनेनान्वयः, हर इत्य् अनन्तरम् अध्यापक-संप्रदाय-सिद्ध-पाठ-विच्छेदावगमेन हर इत्यन्तेनैव तद्-वाक्यस्य समाप्त्य्-अवगमेन तस्य तद्-उत्तर-वाक्यस्थ-देवेनान्वयानुपपत्तेः ।
विश्वास-प्रस्तुतिः
द्वितीयाध्याये “या ते रुद्र शिवा तनूः” इति मन्त्र-द्वयं पठित्वा “ततः परं ब्रह्म परं बृहन्तं यथा निकायं सर्व-भूतेषु गूढम्” इत्यनेन मन्त्र-द्वयोक्त-शिवात् पर-ब्रह्मणः परत्वाभिधानात् न शिवः परं ब्रह्मेति सिध्यति ।
En - Gemini 2.5
In the second chapter, after reciting the two mantras “Ya te Rudra Shiva Tanuḥ” (O Rudra, your auspicious body), the passage “Tataḥ paraṃ Brahma paraṃ bṛhantaṃ yathā nikāyaṃ sarva-bhūteṣu gūḍham” (Beyond that, the Supreme, the Great Brahman, hidden in all beings according to their bodies) states the supremacy of Parabrahman over the Shiva mentioned in the two mantras, thereby establishing that Shiva is not Parabrahman.
मूलम्
द्वितीयाध्याये “या ते रुद्र शिवा तनूः” इति मन्त्र-द्वयं पठित्वा “ततः परं ब्रह्म परं बृहन्तं यथा निकायं सर्व-भूतेषु गूढम्” इत्यनेन मन्त्र-द्वयोक्त-शिवात् पर-ब्रह्मणः परत्वाभिधानात् न शिवः परं ब्रह्मेति सिध्यति ।
विश्वास-प्रस्तुतिः
षष्ठाध्याये “स तन्मयो ह्य् अमृत ईश-संस्थो ज्ञः सर्वगो भुवनस्यास्य गोप्ता” इत्यनेन ईश-शब्दिते शिवे परमात्मन ईश-संस्थ इति पदेन स्थित्य्-उक्त्या शिवो न परमात्मेति सिध्यति ।
En - Gemini 2.5
In the sixth chapter, the passage “Sa tanmayo hy amṛta īśa-saṃstho jñaḥ sarvago bhuvanasyāsya goptā” (He is indeed identical with that, immortal, abiding in the Lord, omniscient, all-pervading, the protector of this world) states the existence of the Supreme Self within Shiva, who is referred to as “Isha,” by the phrase “Isha-saṃstha” (abiding in the Lord), thereby establishing that Shiva is not the Supreme Self.
मूलम्
षष्ठाध्याये “स तन्मयो ह्य् अमृत ईश-संस्थो ज्ञः सर्वगो भुवनस्यास्य गोप्ता” इत्यनेन ईश-शब्दिते शिवे परमात्मन ईश-संस्थ इति पदेन स्थित्य्-उक्त्या शिवो न परमात्मेति सिध्यति ।
विश्वास-प्रस्तुतिः
ईशे संस्था स्थितिर् यस्येति विग्रहः ।
En - Gemini 2.5
The grammatical analysis is: “He whose existence is in the Lord.”
मूलम्
ईशे संस्था स्थितिर् यस्येति विग्रहः ।
विश्वास-प्रस्तुतिः
तस्माद् द्वितीयाद्य्-अध्याय-गतानां परमात्मनि श्रूयमाणानां शिव-रुद्रादि-शब्दानां योगेन परमात्म-परत्वम् एव न शिव-परत्वम् इत्य् अलम् ।
En - Gemini 2.5
Therefore, the words Shiva, Rudra, etc., which are heard in the second and subsequent chapters concerning the Supreme Self, refer to the Supreme Self by their etymological meaning (Yoga-vritti), and not to Shiva; enough of this.
मूलम्
तस्माद् द्वितीयाद्य्-अध्याय-गतानां परमात्मनि श्रूयमाणानां शिव-रुद्रादि-शब्दानां योगेन परमात्म-परत्वम् एव न शिव-परत्वम् इत्य् अलम् ।
विश्वास-प्रस्तुतिः
इदं तु बोध्यम्— पौराणिक-शैव-बहूकृत-सूत-संहिता-प्रथम-श्लोकेन ऐश्वरं परमं तत्त्वम् आदि-मध्यान्त-वर्जितम् ।
En - Gemini 2.5
This should be understood: By the first verse of the Suta Samhita, highly revered by Puranic Shaivas: “The supreme principle of Ishvara, devoid of beginning, middle, and end.”
मूलम्
इदं तु बोध्यम्— पौराणिक-शैव-बहूकृत-सूत-संहिता-प्रथम-श्लोकेन ऐश्वरं परमं तत्त्वम् आदि-मध्यान्त-वर्जितम् ।
विश्वास-प्रस्तुतिः
आधारं सर्व-भूतानाम् अनाधारम् अविक्रियम् ।
En - Gemini 2.5
“The support of all beings, without support, immutable.”
मूलम्
आधारं सर्व-भूतानाम् अनाधारम् अविक्रियम् ।
विश्वास-प्रस्तुतिः
अम्बिका-पतिम् ईशानम् अनीशं प्रणमाम्य् अहम् इति श्लोकेनाम्बिका-पति-शब्दितस्य शिवस्यैश्वरत्वोक्त्या शिवस्यानीश्वरत्वम् आवश्यकं “तम् ईश्वराणां परमं महेश्वरम्” इति दशोपनिषद्-रूप-ब्र ब्रह्म-काण्ड-बहिर्-भूत-श्वेताश्वतरोपनिषद्-वाक्ये आलोचिते सति समुदायाद् एक-देश-पृथक्-करण-रूप-निर्धारणार्थक-षष्ठी-विभक्ति-प्रकृतीश्वर-पदस्य बहु-व्यक्ति-रूढत्वावश्यिकतया ईश्वर-शब्दस्य शिव-मात्रार्थत्वम् अयुक्तम् ।
En - Gemini 2.5
“I bow to Ambika’s husband, Ishana, the Lord, who has no master” - by this verse, since Shiva, referred to as Ambika’s husband, is stated to be Ishvara, Shiva’s lack of lordship is necessary. When considering the Shvetashvatara Upanishad passage “Tam Ishvaranam Paramam Maheśvaram” (Him, the supreme great Lord of lords), which is outside the Brahmana portion of the ten principal Upanishads, the word “Ishvara,” which is in the genitive case and signifies separation from a group, must necessarily denote many individuals, so restricting the word “Ishvara” to Shiva alone is inappropriate.
मूलम्
अम्बिका-पतिम् ईशानम् अनीशं प्रणमाम्य् अहम् इति श्लोकेनाम्बिका-पति-शब्दितस्य शिवस्यैश्वरत्वोक्त्या शिवस्यानीश्वरत्वम् आवश्यकं “तम् ईश्वराणां परमं महेश्वरम्” इति दशोपनिषद्-रूप-ब्र ब्रह्म-काण्ड-बहिर्-भूत-श्वेताश्वतरोपनिषद्-वाक्ये आलोचिते सति समुदायाद् एक-देश-पृथक्-करण-रूप-निर्धारणार्थक-षष्ठी-विभक्ति-प्रकृतीश्वर-पदस्य बहु-व्यक्ति-रूढत्वावश्यिकतया ईश्वर-शब्दस्य शिव-मात्रार्थत्वम् अयुक्तम् ।
विश्वास-प्रस्तुतिः
परमात्मनो महेश्वरत्वेन ईश्वर-समुदायान् निर्धारणम् अनुक्त्वा परमत्व-विशेषित-महेश्वरत्वेन निर्धारणोक्त्या महेश्वर-पदं परमापर-महेश्वर-साधारणम् इत्य् अवगत्या न शिव-मात्रासाधारणम् ।
En - Gemini 2.5
Since the Supreme Self is not merely identified as the Maheshvara from the group of Ishvaras, but rather as Maheshvara qualified by supremacy, it is understood that the word Maheshvara is common to both the supreme and inferior Maheshvaras, and thus it is not exclusively unique to Shiva.
मूलम्
परमात्मनो महेश्वरत्वेन ईश्वर-समुदायान् निर्धारणम् अनुक्त्वा परमत्व-विशेषित-महेश्वरत्वेन निर्धारणोक्त्या महेश्वर-पदं परमापर-महेश्वर-साधारणम् इत्य् अवगत्या न शिव-मात्रासाधारणम् ।
विश्वास-प्रस्तुतिः
ईशान-पदं शानजन्तम् इव ताच्-छील्यार्थक-चानशन्तम् अपि यौगिकम् एव ।
En - Gemini 2.5
The word “Ishana,” like a word ending in “śānac,” is also a yogika (etymological) word when it ends in “cānaś” indicating habituality.
मूलम्
ईशान-पदं शानजन्तम् इव ताच्-छील्यार्थक-चानशन्तम् अपि यौगिकम् एव ।
विश्वास-प्रस्तुतिः
न शिवे रूढम् ।
En - Gemini 2.5
It is not a conventional (rudha) word for Shiva.
मूलम्
न शिवे रूढम् ।
विश्वास-प्रस्तुतिः
“आढ्यसुभग-” इति-सूत्र-महा-भाष्ये रूढ-शब्द-प्रकारास् ताच्-छीलिका इति ताच्-छीलिक-प्रत्ययान्तस्य रूढ-शब्द-सदृशत्वोक्त्या रूढ-शब्दत्वाभावात् ।
En - Gemini 2.5
Because in the Mahabhashya on the Sutra “Aḍhyasubhaga-,” it is stated that words ending in a tacchilika suffix are similar to conventional words, thereby implying that they are not conventional words themselves.
मूलम्
“आढ्यसुभग-” इति-सूत्र-महा-भाष्ये रूढ-शब्द-प्रकारास् ताच्-छीलिका इति ताच्-छीलिक-प्रत्ययान्तस्य रूढ-शब्द-सदृशत्वोक्त्या रूढ-शब्दत्वाभावात् ।
विश्वास-प्रस्तुतिः
प्रकार-शब्दः सादृश्यार्थक इति तत्र कैयटः ।
En - Gemini 2.5
Kaiyata states there that the word “prakara” (type) means similarity.
मूलम्
प्रकार-शब्दः सादृश्यार्थक इति तत्र कैयटः ।
विश्वास-प्रस्तुतिः
इदं परिशिष्ट-तत्त्वं विज्ञेयम् ।
En - Gemini 2.5
This supplementary principle should be understood.
मूलम्
इदं परिशिष्ट-तत्त्वं विज्ञेयम् ।
विश्वास-प्रस्तुतिः
षड्-ढोता वै प्रजापतिर् इदं सर्वम् असृजत, स मनोऽसृजत, मनसोऽधि गायत्त्रीम् असृजत, तद्-गायत्रीं यश आच्छेत्, ताम् आलभत, [[प्४३]] गायत्त्रिया अधि च्छन्दांस्य् असृजत, छन्दोभ्योऽधि साम, तत् साम यश आच्छेत्, तद् आलभत, साम्नोऽधि यजूंष्य् असृजत, यजुर्भ्योऽधि विष्णुं, तद्-विष्णुं यश आच्छेत्, तम् आलभत, विष्णोर् अध्य् ओषधीर् असृजत, ओषधीभ्योऽधि सोमम् इत्यादौ मनसोऽधि गायत्त्रीम् इत्य् एतावन्-मात्रोक्तौ “स मनोऽसृजत” इत्य् अव्यवहित-पूर्व-वाक्यस्थासृजतेत्यस्यानुषङ्गेण लाभे असृजतेति पुनर्-उक्तिः तद्-उपरितनेषु “छन्दोभ्योऽधि साम, यजुर्भ्योऽधि विष्णुं, ओषधीभ्योऽधि सोमम्” इत्यादिषु द्वितीय-स्थान-पतितेषु असृजतेत्यस्य तत्तद्-अव्यवहित-पूर्व-वर्तिनः अनुषङ्गाभाव-ज्ञापनार्था ।
En - Gemini 2.5
In passages like “The six Hotas, Prajapati, created all this; he created mind; from mind he created Gayatri; he took fame from that Gayatri; he touched her; from Gayatri he created meters; from meters he created Saman; he took fame from that Saman; he touched it; from Saman he created Yajus; from Yajus he created Vishnu; he took fame from that Vishnu; he touched him; from Vishnu he created herbs; from herbs he created Soma,” the mere mention of “from mind, Gayatri” implies that if “he created” from the immediately preceding sentence “he created mind” were to be implicitly understood, then the repetition of “he created” in subsequent phrases like “from meters, Saman,” “from Yajus, Vishnu,” “from herbs, Soma,” where “he created” is placed in the second position, is meant to indicate the absence of such an implicit understanding from their respective immediately preceding sentences.
मूलम्
षड्-ढोता वै प्रजापतिर् इदं सर्वम् असृजत, स मनोऽसृजत, मनसोऽधि गायत्त्रीम् असृजत, तद्-गायत्रीं यश आच्छेत्, ताम् आलभत, [[प्४३]] गायत्त्रिया अधि च्छन्दांस्य् असृजत, छन्दोभ्योऽधि साम, तत् साम यश आच्छेत्, तद् आलभत, साम्नोऽधि यजूंष्य् असृजत, यजुर्भ्योऽधि विष्णुं, तद्-विष्णुं यश आच्छेत्, तम् आलभत, विष्णोर् अध्य् ओषधीर् असृजत, ओषधीभ्योऽधि सोमम् इत्यादौ मनसोऽधि गायत्त्रीम् इत्य् एतावन्-मात्रोक्तौ “स मनोऽसृजत” इत्य् अव्यवहित-पूर्व-वाक्यस्थासृजतेत्यस्यानुषङ्गेण लाभे असृजतेति पुनर्-उक्तिः तद्-उपरितनेषु “छन्दोभ्योऽधि साम, यजुर्भ्योऽधि विष्णुं, ओषधीभ्योऽधि सोमम्” इत्यादिषु द्वितीय-स्थान-पतितेषु असृजतेत्यस्य तत्तद्-अव्यवहित-पूर्व-वर्तिनः अनुषङ्गाभाव-ज्ञापनार्था ।
विश्वास-प्रस्तुतिः
अन्यथा असृजतेति पुनर्-उक्तेर् वैयर्थ्यापत्तेः ।
En - Gemini 2.5
Otherwise, the repetition of “asṛjata” would be futile.
मूलम्
अन्यथा असृजतेति पुनर्-उक्तेर् वैयर्थ्यापत्तेः ।
विश्वास-प्रस्तुतिः
अचिन्तयद् इति तत्र क्रियाध्याहारः औचित्यात्, न तु असृजतेत्य् अनुषङ्गः; आलभतेत्य् उक्त आलम्भः स्पर्शः, न तु हिंसा “आलम्भः स्पर्श-हिंसयोः” इति कोशे स्पर्शनस्यैवालम्भार्थ-मुख्यत्वोक्तेः, “वत्सम् आलभेत” इत्यादि-दर्शनाच् च ।
En - Gemini 2.5
There, the verb “acintayat” (thought) is to be understood implicitly due to appropriateness, and not “asṛjata” (created); as for “ālabheta” (touched/killed), “ālambha” primarily means touch, not violence, as stated in the lexicon “ālambhaḥ sparśa-hiṃsayoḥ” (ālambha means touch and violence), and as seen in usages like “vatsam ālabheta” (one should touch a calf).
मूलम्
अचिन्तयद् इति तत्र क्रियाध्याहारः औचित्यात्, न तु असृजतेत्य् अनुषङ्गः; आलभतेत्य् उक्त आलम्भः स्पर्शः, न तु हिंसा “आलम्भः स्पर्श-हिंसयोः” इति कोशे स्पर्शनस्यैवालम्भार्थ-मुख्यत्वोक्तेः, “वत्सम् आलभेत” इत्यादि-दर्शनाच् च ।
विश्वास-प्रस्तुतिः
यत् तु शिव-तत्त्व-विवेके अप्पय्य-दीक्षितैः श्रीमच्-छंकर-भगवत्-पाद-कृत-प्रपञ्च-सारे क्षीराब्धि-शायिनो भगवतो ब्रह्म-विष्णु-रुद्र-त्रि-मूर्त्य्-उत्तीर्णत्व-कथनं विष्णु-व्यूहान्तर्गतानिरुद्ध-प्रद्युम्न-संकर्षण-रूप-त्रि-मूर्त्य्-उत्तीर्णत्वाभिप्रायं, न तु यथा-श्रुत-त्रि-मूर्त्य्-उत्तीर्णत्वाभिप्रायम् इत्य् उक्तं, तन् न; महा-भारते मोक्ष-धर्मे सप्त-चत्वारिंशद्-अधिक-त्रिशततमाध्याये “श्वेतं चन्द्र-विशुद्धाभम् अनिरुद्ध-तनौ स्थितम् ।
En - Gemini 2.5
As for what Appayya Dikshita stated in Shiva-Tattva-Viveka, that the statement in Shankara-Bhagavatpada’s Prapancha-sara about the Lord reclining on the ocean of milk transcending Brahma, Vishnu, and Rudra (the Trimurti) is meant to convey His transcendence over the Trimurti consisting of Aniruddha, Pradyumna, and Sankarshana, who are subdivisions of Vishnu, and not the Trimurti as commonly understood - that is not so; because in the Mahabharata, Mokshadharma, in the 347th chapter, it is stated: “White, pure like the moon, residing in the body of Aniruddha.”
मूलम्
यत् तु शिव-तत्त्व-विवेके अप्पय्य-दीक्षितैः श्रीमच्-छंकर-भगवत्-पाद-कृत-प्रपञ्च-सारे क्षीराब्धि-शायिनो भगवतो ब्रह्म-विष्णु-रुद्र-त्रि-मूर्त्य्-उत्तीर्णत्व-कथनं विष्णु-व्यूहान्तर्गतानिरुद्ध-प्रद्युम्न-संकर्षण-रूप-त्रि-मूर्त्य्-उत्तीर्णत्वाभिप्रायं, न तु यथा-श्रुत-त्रि-मूर्त्य्-उत्तीर्णत्वाभिप्रायम् इत्य् उक्तं, तन् न; महा-भारते मोक्ष-धर्मे सप्त-चत्वारिंशद्-अधिक-त्रिशततमाध्याये “श्वेतं चन्द्र-विशुद्धाभम् अनिरुद्ध-तनौ स्थितम् ।
विश्वास-प्रस्तुतिः
आत्म-प्रमाण-रचिते अपाम् उपरि कल्पिते ॥ शयने नाग-भोगाढ्ये ज्वाला-माला-समावृते ॥”, तस्मिन्न् एवाध्याये— “सोऽनिरुद्ध इति प्रोक्तस् तत्-प्रधानं प्रचक्षते ।
En - Gemini 2.5
“Upon a couch formed by His own measure, placed upon the waters, rich with the hoods of serpents, surrounded by a garland of flames.” In the very same chapter: “He is called Aniruddha, and they speak of Him as the chief.”
मूलम्
आत्म-प्रमाण-रचिते अपाम् उपरि कल्पिते ॥ शयने नाग-भोगाढ्ये ज्वाला-माला-समावृते ॥”, तस्मिन्न् एवाध्याये— “सोऽनिरुद्ध इति प्रोक्तस् तत्-प्रधानं प्रचक्षते ।
विश्वास-प्रस्तुतिः
अप्स्व् एव शयनं चक्रे निद्रा-योगम् उपागतः ।”, तत्रैव चत्वारिंशद्-अधिक-त्रिशततमाध्याये— “ततस् ते ब्रह्मणा सार्धम् ऋषयो विबुधास् तथा ।
En - Gemini 2.5
“He reclined on the waters, having attained the Yoga of sleep.” In the very same chapter, the 340th: “Then, along with Brahma, the sages and deities.”
मूलम्
अप्स्व् एव शयनं चक्रे निद्रा-योगम् उपागतः ।”, तत्रैव चत्वारिंशद्-अधिक-त्रिशततमाध्याये— “ततस् ते ब्रह्मणा सार्धम् ऋषयो विबुधास् तथा ।
विश्वास-प्रस्तुतिः
क्षीरोदस्योत्तरं कूलं जग्मुर् लोक-हितार्थिनः” इत्य् उपक्रम्य “गतेषु त्रि-दिवौकःसु ब्रह्मैकः पर्यवस्थितः ।
En - Gemini 2.5
“Went to the northern shore of the milk ocean, desirous of the world’s welfare” - beginning thus, “When the gods had departed, Brahma alone remained.”
मूलम्
क्षीरोदस्योत्तरं कूलं जग्मुर् लोक-हितार्थिनः” इत्य् उपक्रम्य “गतेषु त्रि-दिवौकःसु ब्रह्मैकः पर्यवस्थितः ।
विश्वास-प्रस्तुतिः
दिदृक्षुर् भगवन्तं तम् अनिरुद्ध-तनौ स्थितम् ॥ तं देवो दर्शयामास कृत्वा हय-शिरो महत्” इति प्रवृत्तः श्लोकः ।
En - Gemini 2.5
“Desiring to see that venerable one residing in Aniruddha’s body. The deity revealed Himself to him, assuming a great horse-head” - thus proceeds the verse.
मूलम्
दिदृक्षुर् भगवन्तं तम् अनिरुद्ध-तनौ स्थितम् ॥ तं देवो दर्शयामास कृत्वा हय-शिरो महत्” इति प्रवृत्तः श्लोकः ।
विश्वास-प्रस्तुतिः
“अनिरुद्ध इति प्रोक्तो लोकानां प्रभवाप्ययः” इत्यादि-श्लोक-पर्यालोचने विष्णु-व्यूहान्तर्गतान्-अनिरुद्ध एव क्षीराब्धि-शायी भगवान् प्रपञ्च-सारे लिखित इति गम्यते ।
En - Gemini 2.5
Upon considering verses like “He is called Aniruddha, the origin and dissolution of the worlds,” it is understood that the venerable Aniruddha, a part of Vishnu’s emanations, who reclines on the ocean of milk, is the one described in Prapancha-sara.
मूलम्
“अनिरुद्ध इति प्रोक्तो लोकानां प्रभवाप्ययः” इत्यादि-श्लोक-पर्यालोचने विष्णु-व्यूहान्तर्गतान्-अनिरुद्ध एव क्षीराब्धि-शायी भगवान् प्रपञ्च-सारे लिखित इति गम्यते ।
विश्वास-प्रस्तुतिः
तथा च क्षीराब्धि-शायिनोऽनिरुद्धस्य भगवत्-पाद-लिखितस्य कथम् अनिरुद्ध-घटित-त्रि-मूर्त्य्-उत्तीर्णत्वं भवेत् ।
En - Gemini 2.5
And thus, how can Aniruddha, who reclines on the ocean of milk and is described by Bhagavatpada, be transcendent of a Trimurti that includes Aniruddha?
मूलम्
तथा च क्षीराब्धि-शायिनोऽनिरुद्धस्य भगवत्-पाद-लिखितस्य कथम् अनिरुद्ध-घटित-त्रि-मूर्त्य्-उत्तीर्णत्वं भवेत् ।
विश्वास-प्रस्तुतिः
[[प्४४]] गुणी-भूत-ब्रह्म-विष्णु-रुद्र-रूप-त्रि-मूर्त्य्-उत्तीर्णत्वम् एव भगवत्-पादाभिमतम् इति वक्तव्यम् ।
En - Gemini 2.5
It must be stated that Bhagavatpada’s intention is indeed the transcendence over the Trimurti comprising Brahma, Vishnu, and Rudra, who are subordinate.
मूलम्
[[प्४४]] गुणी-भूत-ब्रह्म-विष्णु-रुद्र-रूप-त्रि-मूर्त्य्-उत्तीर्णत्वम् एव भगवत्-पादाभिमतम् इति वक्तव्यम् ।
विश्वास-प्रस्तुतिः
रुद्रवद् विष्णुर् अपि भगवद्-व्यूहान्तर्गतान्-अनिरुद्धापेक्षया न्यून एव ।
En - Gemini 2.5
Like Rudra, Vishnu is also inferior to Aniruddha, who is included in the Lord’s emanations.
मूलम्
रुद्रवद् विष्णुर् अपि भगवद्-व्यूहान्तर्गतान्-अनिरुद्धापेक्षया न्यून एव ।
विश्वास-प्रस्तुतिः
अनिरुद्धस् तु व्यूही ।
En - Gemini 2.5
Aniruddha, however, is an emanation (Vyuha).
विश्वास-प्रस्तुतिः
अनिरुद्ध-व्यूहकस्य वासुदेवस्य सर्वापेक्षयोत्कृष्टत्वे कः संदेह इति प्रपञ्च-सार-ग्रन्थाद् व्यज्यत इत्य् अलम् ।
En - Gemini 2.5
What doubt can there be regarding the supremacy of Vasudeva, the origin of Aniruddha-Vyuha, over all others? This is conveyed from the Prapañcha-sāra text; enough of this.
मूलम्
अनिरुद्ध-व्यूहकस्य वासुदेवस्य सर्वापेक्षयोत्कृष्टत्वे कः संदेह इति प्रपञ्च-सार-ग्रन्थाद् व्यज्यत इत्य् अलम् ।
विश्वास-प्रस्तुतिः
इदं तु बोध्यम्— श्री-देव्या लक्ष्म्याः “ईश्वरीं सर्व-भूतानां ताम् इहोपह्वये श्रियम्” इति पठ्यमान-श्रुत्या यथा परत्वं व्यज्यते, तथा महा-भारते मोक्ष-धर्मे पञ्च-विंशत्य्-अधिक-द्विशततमाध्याये ‘इन्द्रं प्रति श्रीर् उवाच—न मां विरोचनो वेद नायं वैरोचनो बलिः ।
En - Gemini 2.5
This should be understood: Just as the supremacy of Shri Devi Lakshmi is expressed by the recited Shruti “Ishvarim sarva-bhutanam tam iho pahvaye Shriyam” (I invoke here that Shri, the ruler of all beings), so too in the Mahabharata, Mokshadharma, in the 225th chapter, Shri said to Indra: “Neither Virochana nor this Vairochana Bali knows me.”
मूलम्
इदं तु बोध्यम्— श्री-देव्या लक्ष्म्याः “ईश्वरीं सर्व-भूतानां ताम् इहोपह्वये श्रियम्” इति पठ्यमान-श्रुत्या यथा परत्वं व्यज्यते, तथा महा-भारते मोक्ष-धर्मे पञ्च-विंशत्य्-अधिक-द्विशततमाध्याये ‘इन्द्रं प्रति श्रीर् उवाच—न मां विरोचनो वेद नायं वैरोचनो बलिः ।
विश्वास-प्रस्तुतिः
भूतिर् लक्ष्मीर् इति माम् आहुः श्रीर् इत्य् एव च वासव ।
En - Gemini 2.5
“They call me Bhuti, Lakshmi, and also Shri, O Vasava.”
मूलम्
भूतिर् लक्ष्मीर् इति माम् आहुः श्रीर् इत्य् एव च वासव ।
विश्वास-प्रस्तुतिः
त्वं मां शक्र न जानीषे सर्वे देवा न मां विदुः ।
En - Gemini 2.5
“You, O Shakra, do not know me, nor do all the gods know me.”
मूलम्
त्वं मां शक्र न जानीषे सर्वे देवा न मां विदुः ।
विश्वास-प्रस्तुतिः
नो धाता न विधाता मां विदधाति कथंचन ॥ सत्ये स्थितास्मि दाने च व्रते तपसि चैव हि ।
En - Gemini 2.5
“Neither Dhata nor Vidhata creates me in any way. I reside in truth, in charity, in vows, and in austerity.”
मूलम्
नो धाता न विधाता मां विदधाति कथंचन ॥ सत्ये स्थितास्मि दाने च व्रते तपसि चैव हि ।
विश्वास-प्रस्तुतिः
पराक्रमे च धर्मे च पराचीनस् ततो बलिः’ इत्यादिना भगवत्-पत्न्या लक्ष्म्याः सर्व-देवावेद्यत्व-धातृ-शब्दित-चतुर्मुख-विधातृ-शब्दित-विष्णु-सृष्ट-जगद्-अनन्तः-पातित्वोक्त्या परत्वं व्यज्यते ।
En - Gemini 2.5
“And in valor and in Dharma, Bali is averse” - by these and other statements, the supremacy of Lakshmi, the consort of the Lord, is expressed through Her being unknown to all gods, and Her not being subject to the creation of the world by Brahma (referred to as Dhata) and Vishnu (referred to as Vidhata).
मूलम्
पराक्रमे च धर्मे च पराचीनस् ततो बलिः’ इत्यादिना भगवत्-पत्न्या लक्ष्म्याः सर्व-देवावेद्यत्व-धातृ-शब्दित-चतुर्मुख-विधातृ-शब्दित-विष्णु-सृष्ट-जगद्-अनन्तः-पातित्वोक्त्या परत्वं व्यज्यते ।
विश्वास-प्रस्तुतिः
नैवं स्पष्ट-श्रुति-भारत-वाक्याभ्यां स्तुत्य्-अनन्तर्गताभ्यां दुर्गायाः सरस्वत्या वा परत्वं कथितम् अस्तीत्य् अलम् ।
En - Gemini 2.5
The supremacy of Durga or Saraswati is not stated in this way by clear Shruti or Mahabharata passages that are not merely eulogistic; enough of this.
मूलम्
नैवं स्पष्ट-श्रुति-भारत-वाक्याभ्यां स्तुत्य्-अनन्तर्गताभ्यां दुर्गायाः सरस्वत्या वा परत्वं कथितम् अस्तीत्य् अलम् ।
विश्वास-प्रस्तुतिः
इति ज्ञान-काण्डान्तर्गतोपनिषत्-प्रमाण-विचारः ।
En - Gemini 2.5
Thus, the discussion on the authoritative nature of Upanishads included in the Gyanakanda (section on knowledge) concludes.
मूलम्
इति ज्ञान-काण्डान्तर्गतोपनिषत्-प्रमाण-विचारः ।
विश्वास-प्रस्तुतिः
[[प्४५]] ॥ श्रीः ॥
En - Gemini 2.5
[[P45]] || Om Shri (auspiciousness) ||
मूलम्
[[प्४५]] ॥ श्रीः ॥
विश्वास-प्रस्तुतिः
अथ ज्ञान-काण्डानन्तर्गतोपनिषदो विचार्यन्ते ।
En - Gemini 2.5
Now, the Upanishads not included in the Gñānakāṇḍa are considered.
मूलम्
अथ ज्ञान-काण्डानन्तर्गतोपनिषदो विचार्यन्ते ।
अथर्वशिर-उपनिषद्-विलासः ।
En - Gemini 2.5
The Splendor of the Atharvashira Upanishad.
विश्वास-प्रस्तुतिः
अथर्व-शिरसि स्थितैः पद-कदम्बकैर् विष्णुतः शिवस्य जनिर् उच्यते प्रथम-सत्त्व-संकीर्तनात् ।
En - Gemini 2.5
In the Atharva-shiras, the origin of Shiva from Vishnu is stated by groups of words, starting with the mention of primal existence.
मूलम्
अथर्व-शिरसि स्थितैः पद-कदम्बकैर् विष्णुतः शिवस्य जनिर् उच्यते प्रथम-सत्त्व-संकीर्तनात् ।
विश्वास-प्रस्तुतिः
तथापि गुरु-भावना शिव-सुरे हि कार्या जनैर् यतोऽयम् उपदेष्टताम् अधिगतः स देवान् प्रति ॥
En - Gemini 2.5
Nevertheless, people should indeed cultivate the attitude of a guru towards the divine Shiva, because He has attained the position of instructor to the gods.
मूलम्
तथापि गुरु-भावना शिव-सुरे हि कार्या जनैर् यतोऽयम् उपदेष्टताम् अधिगतः स देवान् प्रति ॥
विश्वास-प्रस्तुतिः
देवा ह वै स्वर्गं लोकम् अगमन्, ते देवा रुद्रम् अपृच्छन् को भवान् इति, सोऽब्रवीत् इत्य् अन्त-वाक्यं स्पष्टार्थकम् ।
En - Gemini 2.5
The concluding sentence, “The gods indeed went to the heavenly world; those gods asked Rudra, ‘Who are you?’ He said,” is clear in its meaning.
मूलम्
देवा ह वै स्वर्गं लोकम् अगमन्, ते देवा रुद्रम् अपृच्छन् को भवान् इति, सोऽब्रवीत् इत्य् अन्त-वाक्यं स्पष्टार्थकम् ।
विश्वास-प्रस्तुतिः
“अहम् एकः प्रथमम् आसं वर्तामि च भविष्यामि च नान्यः कश्चित्” इत्यस्य रौद्र-वचन-वाक्यैक-देशस्यायम् अर्थः— अहं रुद्रः प्रथमम् आसम् उद्भवं प्राप्तवान् ।
En - Gemini 2.5
The meaning of this part of Rudra’s statement, “I alone was at first, I exist, and I shall be; there is no other,” is: “I, Rudra, was the first to originate.”
मूलम्
“अहम् एकः प्रथमम् आसं वर्तामि च भविष्यामि च नान्यः कश्चित्” इत्यस्य रौद्र-वचन-वाक्यैक-देशस्यायम् अर्थः— अहं रुद्रः प्रथमम् आसम् उद्भवं प्राप्तवान् ।
विश्वास-प्रस्तुतिः
प्रथम-शब्द-समभिव्याहृतस्यास-धातोः प्रथमं यज्ञदत्त आसीद् इत्यादौ विष्णुमित्र-रूप-द्वितीयानुजोत्पत्तेः पूर्वं यज्ञदत्त उत्पन्न इत्य् अर्थस्य लोक-सिद्धत्वात्, प्रथमत्वस्य द्वितीय-प्रतियोगिकत्वात् ।
En - Gemini 2.5
Since the meaning that Yajnadatta was born before the birth of Vishnumitra, the second younger brother, is well-established in common usage, as in “Yajnadatta was first,” and since primariness (prathamatva) implies a second competitor.
मूलम्
प्रथम-शब्द-समभिव्याहृतस्यास-धातोः प्रथमं यज्ञदत्त आसीद् इत्यादौ विष्णुमित्र-रूप-द्वितीयानुजोत्पत्तेः पूर्वं यज्ञदत्त उत्पन्न इत्य् अर्थस्य लोक-सिद्धत्वात्, प्रथमत्वस्य द्वितीय-प्रतियोगिकत्वात् ।
विश्वास-प्रस्तुतिः
प्रथमम् इत्यस्याग्रे इत्य् अर्थत्वं तु न संभवति, अग्रत्वस्य पाश्चात्त्य-काल-प्रतियोगिकत्वेन द्वितीय-प्रतियोगिकत्वासंभवात् ।
En - Gemini 2.5
However, “prathamam” cannot mean “before” in the sense of preceding, because “agre” (before) implies a posterior time as its competitor, and thus cannot have a second competitor.
मूलम्
प्रथमम् इत्यस्याग्रे इत्य् अर्थत्वं तु न संभवति, अग्रत्वस्य पाश्चात्त्य-काल-प्रतियोगिकत्वेन द्वितीय-प्रतियोगिकत्वासंभवात् ।
विश्वास-प्रस्तुतिः
प्रथमाग्र-शब्दयोः प्रवृत्ति-निमित्त-भेदेन एकार्थत्वासंभवात् ।
En - Gemini 2.5
Since the words “prathama” (first) and “agra” (foremost) have different reasons for their usage, they cannot have the same meaning.
मूलम्
प्रथमाग्र-शब्दयोः प्रवृत्ति-निमित्त-भेदेन एकार्थत्वासंभवात् ।
विश्वास-प्रस्तुतिः
अस-धातोः सत्ता-मात्रार्थत्वेऽपि प्राथम्यस्य तत्रान्वयाद् एव रुद्र-सत्तायाः प्राथम्योक्तौ तद्-अन्य-गत-सत्ताया द्वितीयत्वाद्यावश्यिकतया अन्य-सत्तापेक्षया रुद्र-सत्ता-प्राथम्यस्य रुद्रोत्पत्ति-प्राथम्य एव विश्रान्तेः ।
En - Gemini 2.5
Even if the root ‘as’ (to be) only means existence, since primariness (prathamatva) is connected with it, the statement of Rudra’s existence being primary necessarily implies that other existences are secondary, etc., and thus the primariness of Rudra’s existence ultimately rests on the primariness of Rudra’s origin.
मूलम्
अस-धातोः सत्ता-मात्रार्थत्वेऽपि प्राथम्यस्य तत्रान्वयाद् एव रुद्र-सत्तायाः प्राथम्योक्तौ तद्-अन्य-गत-सत्ताया द्वितीयत्वाद्यावश्यिकतया अन्य-सत्तापेक्षया रुद्र-सत्ता-प्राथम्यस्य रुद्रोत्पत्ति-प्राथम्य एव विश्रान्तेः ।
विश्वास-प्रस्तुतिः
तद् उक्तं जैमिनीय-न्याय-मालायां प्रवर्गाधिकरणे माधवाचार्यैः— ‘प्रथम-द्वितीयादि-शब्दाः क्रियाया आवृत्तौ मुख्यास् तत्-संबन्धाद् वस्तुषूपचर्यन्ते…. आदाव् उत्पन्नत्वात् प्रथमः पुत्रस् तद् अनन्तरम् उत्पन्नत्वाद् द्वितीयः’ इति ।
En - Gemini 2.5
This is stated by Madhavacharya in the Pravargha-adhikaraṇa of Jaiminīya-Nyāya-Mālā: “‘First,’ ‘second,’ etc., words are primarily used for the repetition of an action, and by their relation, they are secondarily used for objects… Because he was born first, he is the first son; because he was born after that, he is the second.”
मूलम्
तद् उक्तं जैमिनीय-न्याय-मालायां प्रवर्गाधिकरणे माधवाचार्यैः— ‘प्रथम-द्वितीयादि-शब्दाः क्रियाया आवृत्तौ मुख्यास् तत्-संबन्धाद् वस्तुषूपचर्यन्ते…. आदाव् उत्पन्नत्वात् प्रथमः पुत्रस् तद् अनन्तरम् उत्पन्नत्वाद् द्वितीयः’ इति ।
विश्वास-प्रस्तुतिः
पाश्चात्त्यत्वं द्वितीय-तृतीयादि-साधारणम् ।
En - Gemini 2.5
Posteriority (pashchattyatvam) is common to second, third, and so on.
मूलम्
पाश्चात्त्यत्वं द्वितीय-तृतीयादि-साधारणम् ।
विश्वास-प्रस्तुतिः
द्वितीयत्वं तु द्वितीय-मात्र-वृत्तीत्य् अग्र-प्रथम-शब्द-प्रवृत्ति-निरूपकयोर् भेदः ।
En - Gemini 2.5
However, secondness (dvitiyatvam) pertains only to the second; thus, there is a distinction between the referents of the words ‘agra’ (foremost) and ‘prathama’ (first).
मूलम्
द्वितीयत्वं तु द्वितीय-मात्र-वृत्तीत्य् अग्र-प्रथम-शब्द-प्रवृत्ति-निरूपकयोर् भेदः ।
विश्वास-प्रस्तुतिः
वर्तामि च भविष्यामि चेत्यनेन रुद्र-चेतनस्य चिर-जीवित्वम् उच्यते ।
En - Gemini 2.5
By “Vartami cha bhavishyami cha” (I exist and I shall be), the long life of Rudra’s consciousness is stated.
मूलम्
वर्तामि च भविष्यामि चेत्यनेन रुद्र-चेतनस्य चिर-जीवित्वम् उच्यते ।
विश्वास-प्रस्तुतिः
नान्यः कश्चिद् इत्यनेन रुद्र-व्यतिरिक्तस्य [[प्४६]] प्रथमोत्पत्तिः प्रतिषिध्यते ।
En - Gemini 2.5
By “Na anyah kashchit” (no other), the primal origin of anyone other than Rudra is denied. [P46]
मूलम्
नान्यः कश्चिद् इत्यनेन रुद्र-व्यतिरिक्तस्य [[प्४६]] प्रथमोत्पत्तिः प्रतिषिध्यते ।
विश्वास-प्रस्तुतिः
प्रथमोत्पत्तेः प्रस्तुतत्वात् ।
En - Gemini 2.5
Because primal origination is the subject at hand.
मूलम्
प्रथमोत्पत्तेः प्रस्तुतत्वात् ।
विश्वास-प्रस्तुतिः
“मत्तो व्यतिरिक्त इति सोऽन्तराद् अन्तरं प्राविशत् दिशश् चान्तरं प्राविशत्” इति रुद्र-वाक्यस्यायम् अर्थः ।
En - Gemini 2.5
The meaning of Rudra’s statement, “Different from me, he entered within, and entered within the quarters,” is as follows.
मूलम्
“मत्तो व्यतिरिक्त इति सोऽन्तराद् अन्तरं प्राविशत् दिशश् चान्तरं प्राविशत्” इति रुद्र-वाक्यस्यायम् अर्थः ।
विश्वास-प्रस्तुतिः
व्यतिरिक्त इत्यस्य नान्यः कश्चिद् इत्यनेन नान्वयः भिन्नार्थकेनान्य-पदेन पौनरुक्त्यापत्तेः ।
En - Gemini 2.5
“Vyathirikta” is not to be connected with “na anyah kashchit” (no other), because it would lead to redundancy with the word “anya” (other) which has a different meaning.
मूलम्
व्यतिरिक्त इत्यस्य नान्यः कश्चिद् इत्यनेन नान्वयः भिन्नार्थकेनान्य-पदेन पौनरुक्त्यापत्तेः ।
विश्वास-प्रस्तुतिः
किं तु उपरितनेन इति-पदेन ।
En - Gemini 2.5
But rather, with the word “iti” (thus) above.
मूलम्
किं तु उपरितनेन इति-पदेन ।
विश्वास-प्रस्तुतिः
‘अथात आदेशो नेति नेति’ इत्यत्रेव इति-शब्दस्येदं-शब्द-समानार्थकत्वात् ।
En - Gemini 2.5
Just as in “Athata Adesho Neti Neti” (Therefore, the instruction is ’not this, not this’), the word “iti” is synonymous with “idam” (this).
मूलम्
‘अथात आदेशो नेति नेति’ इत्यत्रेव इति-शब्दस्येदं-शब्द-समानार्थकत्वात् ।
विश्वास-प्रस्तुतिः
व्यतिरिक्त इतीत्यत्र इति-शब्दोऽयम् इत्य् अर्थे ।
En - Gemini 2.5
In “vyatiriktah iti,” the word “iti” means “ayam” (this).
मूलम्
व्यतिरिक्त इतीत्यत्र इति-शब्दोऽयम् इत्य् अर्थे ।
विश्वास-प्रस्तुतिः
स इति तच्-छन्दस् तु वेद-शास्त्र-रूप-प्रदेशान्तर-सिद्ध इत्य् अर्थे ।
En - Gemini 2.5
The word “saḥ” (he) refers to what is established elsewhere in the form of Vedas and Shastras.
मूलम्
स इति तच्-छन्दस् तु वेद-शास्त्र-रूप-प्रदेशान्तर-सिद्ध इत्य् अर्थे ।
विश्वास-प्रस्तुतिः
‘सोऽयं देवदत्त’ इत्यादाव् इदं-शब्दस्य संनिकृष्टार्थे तच्-छब्दस्य प्रदेशान्तर-वृत्तित्वेन प्रसिद्धार्थे वर्तन-दर्शनात् ।
En - Gemini 2.5
As seen in “So ‘yam Devadattaḥ” (This is that Devadatta) and similar expressions, the word “idam” (this) is used for a nearby meaning, while “tat” (that) is used for a well-known meaning based on its occurrence in another place.
मूलम्
‘सोऽयं देवदत्त’ इत्यादाव् इदं-शब्दस्य संनिकृष्टार्थे तच्-छब्दस्य प्रदेशान्तर-वृत्तित्वेन प्रसिद्धार्थे वर्तन-दर्शनात् ।
विश्वास-प्रस्तुतिः
तथा च मत्तो व्यतिरिक्त इत्य् अन्त-रुद्र-वाक्यं, सोऽन्तराद् इत्यस्य रुद्र-वाक्यत्वे रुद्रेणैव स इति प्राविशद् इति च पारोक्ष्य-निर्देशेन स्व-भिन्नः सर्वानुप्रविष्टः परमात्मा इत्य् अभ्युपगतः स्यात्; तन् मा भूद् इत्य् एतद्-अर्थं सोऽन्तराद् अन्तरं प्राविशद् इति श्रुति-वाक्यम् इत्य् अभ्युपगम्य सोऽहं नित्यानित्योऽहम् इति पुनर् रुद्र-वाक्यम् इत्य् उक्तम् अपास्तम् ।
En - Gemini 2.5
And so, the argument that Rudra’s statement ends with “different from me,” and that if “so ’ntarāt” (he from within) were Rudra’s statement, Rudra Himself would have to implicitly accept that the Supreme Self, who is different from Himself and pervades everything, is referred to by the distant reference “saḥ” (he) and the entry into it, and that to avoid this, “so ’ntarād antaraṃ prāviśat” (he entered within) is a Shruti statement, and “so ‘ham nityānityo ‘ham” (I am eternal and non-eternal) is again Rudra’s statement, is refuted.
मूलम्
तथा च मत्तो व्यतिरिक्त इत्य् अन्त-रुद्र-वाक्यं, सोऽन्तराद् इत्यस्य रुद्र-वाक्यत्वे रुद्रेणैव स इति प्राविशद् इति च पारोक्ष्य-निर्देशेन स्व-भिन्नः सर्वानुप्रविष्टः परमात्मा इत्य् अभ्युपगतः स्यात्; तन् मा भूद् इत्य् एतद्-अर्थं सोऽन्तराद् अन्तरं प्राविशद् इति श्रुति-वाक्यम् इत्य् अभ्युपगम्य सोऽहं नित्यानित्योऽहम् इति पुनर् रुद्र-वाक्यम् इत्य् उक्तम् अपास्तम् ।
विश्वास-प्रस्तुतिः
तत्तत्-पदानां तत्तत्-स्थान एव ऋजु-गत्यान्वयं स्वीकृत्य उक्त-सर्व-वाक्यानां रुद्र-वाक्यत्वे संभवति कस्यचिद् रुद्र-वाक्यत्वं कस्यचिच् छुति-वाक्यत्वम् इत्यस्य कल्पनस्यानौचित्यात् ।
En - Gemini 2.5
It is inappropriate to imagine that some of the said passages are Rudra’s statements and some are Shruti statements when it is possible to connect each word directly in its respective place and consider all the said passages as Rudra’s statements.
मूलम्
तत्तत्-पदानां तत्तत्-स्थान एव ऋजु-गत्यान्वयं स्वीकृत्य उक्त-सर्व-वाक्यानां रुद्र-वाक्यत्वे संभवति कस्यचिद् रुद्र-वाक्यत्वं कस्यचिच् छुति-वाक्यत्वम् इत्यस्य कल्पनस्यानौचित्यात् ।
विश्वास-प्रस्तुतिः
व्यतिरिक्त-पदस्य भवत्-पक्षे कुत्राप्य् अन्वयानुपपत्तेश् च ।
En - Gemini 2.5
And also because the word “vyatiriktam” (different) cannot be construed anywhere in your interpretation.
मूलम्
व्यतिरिक्त-पदस्य भवत्-पक्षे कुत्राप्य् अन्वयानुपपत्तेश् च ।
विश्वास-प्रस्तुतिः
सोऽहं नित्यानित्य इत्यादेर् अयम् अर्थः— अहं-शब्दिते रुद्रे तच्-छब्दार्थस्य परमात्मन उपादानोपादेय-भाव-निबन्धन-तादात्म्य-संबन्धेन मृद्-घटः सर्वं खल्व् इदं ब्रह्मेत्य् आदाव् इवान्वयः ।
En - Gemini 2.5
The meaning of “So’ham Nityanitya” (That I am eternal and non-eternal) and so on, is this: In Rudra, denoted by “aham” (I), there is a connection of identity with the Supreme Self, denoted by “tat” (that), established by the relationship of material cause and effect, just as in “Mṛd-ghaṭaḥ” (a pot made of clay) and “Sarvaṃ khalv idaṃ Brahma” (All this is indeed Brahman).
मूलम्
सोऽहं नित्यानित्य इत्यादेर् अयम् अर्थः— अहं-शब्दिते रुद्रे तच्-छब्दार्थस्य परमात्मन उपादानोपादेय-भाव-निबन्धन-तादात्म्य-संबन्धेन मृद्-घटः सर्वं खल्व् इदं ब्रह्मेत्य् आदाव् इवान्वयः ।
विश्वास-प्रस्तुतिः
रुद्रस्य स्वरूपतो नित्यानित्य-वस्त्व्-अनुप्रविष्टत्वेन रूपेण नित्यानित्य-वस्तु-तादात्म्याभावेऽपि सर्वानुप्रविष्ट-परमात्म-तादात्म्यापन्नत्वेन रूपेण नित्यानित्यतादात्म्यम् इति बोधयितुम् अहं-पदस्य स इति विशेषणं दत्तम् ।
En - Gemini 2.5
Although Rudra, in His essential nature, does not have identity with eternal and non-eternal entities by virtue of being pervaded by them, to convey His identity with the eternal and non-eternal by virtue of His having attained identity with the all-pervading Supreme Self, the attribute “saḥ” (that) is given to the word “aham” (I).
मूलम्
रुद्रस्य स्वरूपतो नित्यानित्य-वस्त्व्-अनुप्रविष्टत्वेन रूपेण नित्यानित्य-वस्तु-तादात्म्याभावेऽपि सर्वानुप्रविष्ट-परमात्म-तादात्म्यापन्नत्वेन रूपेण नित्यानित्यतादात्म्यम् इति बोधयितुम् अहं-पदस्य स इति विशेषणं दत्तम् ।
विश्वास-प्रस्तुतिः
अन्यथा स इति पदं विना अहं नित्यानित्य इत्य् एव श्रूयेत ।
En - Gemini 2.5
Otherwise, without the word “saḥ” (that), only “Aham nityanityaḥ” (I am eternal and non-eternal) would be heard.
मूलम्
अन्यथा स इति पदं विना अहं नित्यानित्य इत्य् एव श्रूयेत ।
विश्वास-प्रस्तुतिः
रुद्रस्य परमात्मोत्पन्नत्वं च “नारायणाद् ब्रह्मा जायते”, “नारायणाद् रुद्रो जायते” इत्यादिना रुद्रस्य नारायणाधीन-स्थितिकत्वं नारायणाधीन-प्रलयवत्त्वं च “नारायणे प्रवर्धन्ते”, “नारायणे प्रलीयन्ते” इत्यादिना च नारायणोपनिषदि प्रतिपादितं दृश्यते ।
En - Gemini 2.5
And Rudra’s origin from the Supreme Self, and His existence dependent on Narayana, and His dissolution dependent on Narayana, are seen to be stated in the Narayana Upanishad by passages like “From Narayana, Brahma is born,” “From Narayana, Rudra is born,” and “In Narayana, they flourish,” “In Narayana, they dissolve,” and so on.
मूलम्
रुद्रस्य परमात्मोत्पन्नत्वं च “नारायणाद् ब्रह्मा जायते”, “नारायणाद् रुद्रो जायते” इत्यादिना रुद्रस्य नारायणाधीन-स्थितिकत्वं नारायणाधीन-प्रलयवत्त्वं च “नारायणे प्रवर्धन्ते”, “नारायणे प्रलीयन्ते” इत्यादिना च नारायणोपनिषदि प्रतिपादितं दृश्यते ।
विश्वास-प्रस्तुतिः
यद्-अधीनोत्पत्ति-स्थिति-प्रलयकत्वं यस्य तस्य तत्तादात्म्यम् इत्यत्र “सर्वं खल्व् इदं ब्रह्म तज्-जलान् इति” इति [[प्४७]] श्रुतिः प्रमाणम्, कृत्स्नस्य प्रपञ्चस्य ब्रह्म-जत्वात् ब्रह्मणि लीयमानत्वात् तेन रक्ष्यमाणत्वाद् धेतोः ब्रह्मात्मकं जगद् इति सर्वं खल्व् इतीति श्रुत्य्-अर्थः ।
En - Gemini 2.5
The Shruti “Sarvaṃ khalv idaṃ Brahma tajjalān iti” (All this indeed is Brahman, originating from, dissolving into, and sustained by it) is the proof for the principle that whatever has its origin, existence, and dissolution dependent on something, has identity with that something. The meaning of the Shruti “Sarvaṃ khalv iti” is that the entire world is Brahman, because it originates from Brahman, dissolves into Brahman, and is sustained by Brahman, and therefore the world is Brahmanical. [P47]
मूलम्
यद्-अधीनोत्पत्ति-स्थिति-प्रलयकत्वं यस्य तस्य तत्तादात्म्यम् इत्यत्र “सर्वं खल्व् इदं ब्रह्म तज्-जलान् इति” इति [[प्४७]] श्रुतिः प्रमाणम्, कृत्स्नस्य प्रपञ्चस्य ब्रह्म-जत्वात् ब्रह्मणि लीयमानत्वात् तेन रक्ष्यमाणत्वाद् धेतोः ब्रह्मात्मकं जगद् इति सर्वं खल्व् इतीति श्रुत्य्-अर्थः ।
विश्वास-प्रस्तुतिः
तथा च परमात्म-तादात्म्यापन्नत्व-विशिष्टोऽहं नित्यानित्यतादात्म्यवान् इति फलितम् ।
En - Gemini 2.5
And thus, the conclusion is: “I, endowed with identity with the Supreme Self, have identity with the eternal and non-eternal.”
मूलम्
तथा च परमात्म- तादात्म्यापन्नत्व-विशिष्टोऽहं नित्यानित्यतादात्म्यवान् इति फलितम् ।
विश्वास-प्रस्तुतिः
अहं ब्रह्मेत्य् आदाव् अपि स इत्यस्यानुषङ्गेण वाक्यार्थो वर्णनीयः ।
En - Gemini 2.5
Even in “Aham Brahma” (I am Brahman) and similar phrases, the meaning of the sentence should be explained by implicitly adding “saḥ” (that).
मूलम्
अहं ब्रह्मेत्य् आदाव् अपि स इत्यस्यानुषङ्गेण वाक्यार्थो वर्णनीयः ।
विश्वास-प्रस्तुतिः
“सं ते प्राणो वायुर् वातेन गच्छतां सं यजत्रैर् अङ्गानि” इत्यादौ प्रथम-श्रुतस्य गम्-धातोर् अनुषङ्गवत् “आत्मन आकाशः संभूतः, आकाशाद् वायुः” इत्यादौ संभूत-शब्दस्योपर्य् अनुषङ्गवच् च ।
En - Gemini 2.5
Just as in “Saṃ te prāṇo vāyur vātena gacchataṃ saṃ yajatrair aṅgāni” (May your breath go to the wind, may your limbs go to the sacrificers), the verb ‘gam’ (to go), heard first, is understood implicitly throughout, and similarly, in “Ātmana ākāśaḥ saṃbhūtaḥ, ākāśād vāyuḥ” (From the Self, space originated; from space, air), the word “saṃbhūtaḥ” (originated) is implicitly understood throughout.
मूलम्
“सं ते प्राणो वायुर् वातेन गच्छतां सं यजत्रैर् अङ्गानि” इत्यादौ प्रथम-श्रुतस्य गम्-धातोर् अनुषङ्गवत् “आत्मन आकाशः संभूतः, आकाशाद् वायुः” इत्यादौ संभूत-शब्दस्योपर्य् अनुषङ्गवच् च ।
विश्वास-प्रस्तुतिः
एवम् “मां यो वेद”, “स सर्वान् वेद” इत्यस्य एवं परमात्म-तादात्म्यापन्नत्वेन मां रुद्रं यो जानाति स सर्वान् जानातीत्य् अर्थः ।
En - Gemini 2.5
Similarly, the meaning of “He who knows me,” “He knows all,” is: “He who knows me, Rudra, as endowed with identity with the Supreme Self, he knows all.”
मूलम्
एवम् “मां यो वेद”, “स सर्वान् वेद” इत्यस्य एवं परमात्म-तादात्म्यापन्नत्वेन मां रुद्रं यो जानाति स सर्वान् जानातीत्य् अर्थः ।
विश्वास-प्रस्तुतिः
“यो वै रुद्रः स भगवान्, यश् च ब्रह्मा भूर्-भुवः-सुवस् तस्मै वै नमो नमः, शीर्षञ्जनपदो विश्व-रूपोऽसि यश् च विष्णुर् यश् च महेश्वरः” इत्यादेः ।
En - Gemini 2.5
“Verily, he who is Rudra, he is the Lord; and he who is Brahma, Bhur, Bhuvaḥ, Suvah, to him indeed salutations, salutations. O Janapada (dweller of the world), you are Vishvarupa (of universal form), and you are Vishnu, and you are Maheshvara” - and so on.
मूलम्
“यो वै रुद्रः स भगवान्, यश् च ब्रह्मा भूर्-भुवः-सुवस् तस्मै वै नमो नमः, शीर्षञ्जनपदो विश्व-रूपोऽसि यश् च विष्णुर् यश् च महेश्वरः” इत्यादेः ।
विश्वास-प्रस्तुतिः
यद्यपि “ततो देवा ऊर्ध्व-बाहवस् तन्वन्ति” इत्य् उपक्रमानुसारेण स्तुतितया न स्वार्थे तात्पर्यम् ।
En - Gemini 2.5
Although, according to the introductory statement “Tato Deva urdhva-bahavas tanvanti” (Then the gods extend their arms upwards), it is a eulogy and therefore not meant literally.
मूलम्
यद्यपि “ततो देवा ऊर्ध्व-बाहवस् तन्वन्ति” इत्य् उपक्रमानुसारेण स्तुतितया न स्वार्थे तात्पर्यम् ।
विश्वास-प्रस्तुतिः
उक्तं हि दीक्षित-वर्यैर् नृसिंह-तापिन्याम् “यो वै नृसिंहो भगवान् यश् च ब्रह्मा भूर्-भुवः सुवस् तस्मै वै नमो नमः, यश् च विष्णुर् यश् च रुद्रः” इत्यादेः अथ कैर् मन्त्रैर् देवः स्तुतो भवति स्वात्मानं दर्शयतीत्य् उपक्रमानुसारेण स्तुतित्वम्, “स्तुवन् नाम-सहस्रेण” इत्य् उपक्रमानुसारान् नाम-सहस्रस्य स्तुतित्वं चेति ।
En - Gemini 2.5
Indeed, as stated by the venerable Dikshitas in the Nrisimha Tapini Upanishad, “Verily, he who is Nrisimha, the Lord, and he who is Brahma, Bhur, Bhuvah, Suvah, to him indeed salutations, salutations; and he who is Vishnu, and he who is Rudra” - these are eulogies according to the introductory passage “Now, by what mantras is the deity praised, does he reveal himself?”, and the thousand names are also eulogies according to the introductory passage “Praising with a thousand names.”
मूलम्
उक्तं हि दीक्षित-वर्यैर् नृसिंह-तापिन्याम् “यो वै नृसिंहो भगवान् यश् च ब्रह्मा भूर्-भुवः सुवस् तस्मै वै नमो नमः, यश् च विष्णुर् यश् च रुद्रः” इत्यादेः अथ कैर् मन्त्रैर् देवः स्तुतो भवति स्वात्मानं दर्शयतीत्य् उपक्रमानुसारेण स्तुतित्वम्, “स्तुवन् नाम-सहस्रेण” इत्य् उपक्रमानुसारान् नाम-सहस्रस्य स्तुतित्वं चेति ।
विश्वास-प्रस्तुतिः
तथापि “यो वै रुद्रः स भगवान्” इत्य् एतद्-गताक्षर-स्वर-सगति-पर्यालोचने विष्णु-परत्वम् एव तस्य प्रतीयते ।
En - Gemini 2.5
Nevertheless, upon considering the spontaneous meaning of the words in “Yo vai Rudraḥ sa Bhagavān” (He who is Rudra, He is the Lord), it appears to refer to Vishnu alone.
मूलम्
तथापि “यो वै रुद्रः स भगवान्” इत्य् एतद्-गताक्षर-स्वर-सगति-पर्यालोचने विष्णु-परत्वम् एव तस्य प्रतीयते ।
विश्वास-प्रस्तुतिः
तत्र रुद्र-शब्दो भगवच्-छब्दश् च प्रति-पर्यायम् अभ्यस्तो दृश्यते ।
En - Gemini 2.5
There, the words ‘Rudra’ and ‘Bhagavat’ are seen to be repeated in each instance.
विश्वास-प्रस्तुतिः
रुद्र-शब्दस्य कोशेन शिव-रूढत्ववत् “वासुदेवार्जुनाभ्यां वुन्” इति-सूत्र-महा-भाष्ये— नेयं क्षत्रिय-समाख्या संज्ञैषा तत्र भगवत इति भगवच्-छब्दस्य विष्ण्व्-असाधारण-वासुदेव-पर्यायत्वोक्त्या विष्णु-रूढत्वम् अविप्रतिपन्नम् ।
En - Gemini 2.5
Just as the word “Rudra” is conventionally used for Shiva in lexicons, so also in the Mahabhashya on the sutra “Vasudevarjūnābhyām vun” (The suffix “vun” comes after Vasudeva and Arjuna), it is stated: “This is not a Kshatriya designation, but a proper name for the Lord,” implying that the word “Bhagavat” is an exclusive synonym for Vishnu’s Vasudeva, and therefore its conventional use for Vishnu is undisputed.
मूलम्
रुद्र-शब्दस्य कोशेन शिव-रूढत्ववत् “वासुदेवार्जुनाभ्यां वुन्” इति-सूत्र-महा-भाष्ये— नेयं क्षत्रिय-समाख्या संज्ञैषा तत्र भगवत इति भगवच्-छब्दस्य विष्ण्व्-असाधारण-वासुदेव-पर्यायत्वोक्त्या विष्णु-रूढत्वम् अविप्रतिपन्नम् ।
विश्वास-प्रस्तुतिः
“शक्ति-ग्रहं व्याकरण-” इत्यादि-उक्त-रीत्या कोशवद् व्याकरणस्यापि शक्ति-ग्राहकत्वात् ।
En - Gemini 2.5
Because grammar also grasps the meaning of words, just like a lexicon, as stated in “Shakti-graham vyakarana-” (grammar grasps the meaning).
मूलम्
“शक्ति-ग्रहं व्याकरण-” इत्यादि-उक्त-रीत्या कोशवद् व्याकरणस्यापि शक्ति-ग्राहकत्वात् ।
विश्वास-प्रस्तुतिः
तत्र कैयटोऽपि— “नित्यः कश्चिद् देवता-विशेषः परमात्मा इह वासुदेव-शब्देन गृह्यते” इत्याह ।
En - Gemini 2.5
There, Kaiyaṭa also says: “Some eternal specific deity, the Supreme Self, is understood here by the word ‘Vāsudeva’.”
मूलम्
तत्र कैयटोऽपि— “नित्यः कश्चिद् देवता-विशेषः परमात्मा इह वासुदेव-शब्देन गृह्यते” इत्याह ।
विश्वास-प्रस्तुतिः
तथा च रुद्रस्य विष्णोश् च प्रति-पर्यायं प्रतिपाद्यत्वं दृश्यते अभ्यास-सामर्थ्यात् ।
En - Gemini 2.5
And thus, the teachability of Rudra and Vishnu in each instance is seen by the power of repetition.
मूलम्
तथा च रुद्रस्य विष्णोश् च प्रति-पर्यायं प्रतिपाद्यत्वं दृश्यते अभ्यास-सामर्थ्यात् ।
विश्वास-प्रस्तुतिः
रुद्रस्य प्रतिपाद्यत्वं तत्त्वोपदेष्टत्वादिना आचार्यत्व-प्रयुक्तम् ।
En - Gemini 2.5
Rudra’s teachability is due to His being a teacher, as an instructor of truth, etc.
मूलम्
रुद्रस्य प्रतिपाद्यत्वं तत्त्वोपदेष्टत्वादिना आचार्यत्व-प्रयुक्तम् ।
विश्वास-प्रस्तुतिः
आचार्येऽपि यथा परमात्मनि भक्तिस् तथा भक्तिः कार्येति “यस्य देवे परा भक्तिर् यथा देवे तथा गुरौ ।
En - Gemini 2.5
One should have devotion towards the teacher just as one has devotion towards the Supreme Self, as stated in “Just as one has supreme devotion to God, so too to the Guru.”
मूलम्
आचार्येऽपि यथा परमात्मनि भक्तिस् तथा भक्तिः कार्येति “यस्य देवे परा भक्तिर् यथा देवे तथा गुरौ ।
विश्वास-प्रस्तुतिः
तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः” इति श्वेताश्वतरोपनिषत् प्रतिपादयति ।
En - Gemini 2.5
“To that great soul, these meanings become manifest” - thus states the Shvetashvatara Upanishad.
मूलम्
तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः” इति श्वेताश्वतरोपनिषत् प्रतिपादयति ।
विश्वास-प्रस्तुतिः
विष्णोश् च [[प्४८]] साक्षात् परमात्मत्वात् तद्-भक्तेः परम-पुरुषार्थतया प्रतिपाद्यत्वम् ।
विश्वास-प्रस्तुतिः
विष्णोश् च [[प्४८]] साक्षात् परमात्मत्वात् तद्-भक्तेः परम-पुरुषार्थतया प्रतिपाद्यत्वम् ।
En - Gemini 2.5
And since [[P48]] Vishnu is directly the Supreme Self, His devotion is taught as the supreme human goal.
मूलम्
विष्णोश् च [[प्४८]] साक्षात् परमात्मत्वात् तद्-भक्तेः परम-पुरुषार्थतया प्रतिपाद्यत्वम् ।
विश्वास-प्रस्तुतिः
विष्णोः परमात्मत्वम् उपपदोदाहृत-कैयट-वचनेन श्रुत्यादि-बहु-प्रमाणैश् च सिद्धम् एव ।
En - Gemini 2.5
Vishnu’s Supreme Selfhood is indeed established by the previously cited statement of Kaiyata and by many other proofs from Shrutis and so on.
मूलम्
विष्णोः परमात्मत्वम् उपपदोदाहृत-कैयट-वचनेन श्रुत्यादि-बहु-प्रमाणैश् च सिद्धम् एव ।
विश्वास-प्रस्तुतिः
द्वयोर् मध्ये विष्णोः प्राधान्यं रुद्रस्य तद्-उपसर्जनत्वम् एव ।
En - Gemini 2.5
Among the two, Vishnu’s prominence and Rudra’s subordination are evident.
मूलम्
द्वयोर् मध्ये विष्णोः प्राधान्यं रुद्रस्य तद्-उपसर्जनत्वम् एव ।
विश्वास-प्रस्तुतिः
तद्-उपसर्जनत्वं च वाक्य-स्वरस-गत्या प्रतीयते— यः परमात्मा रुद्रः रुद्र-तादात्म्यापन्नः तादात्म्यस्योपादानोपादेय-निबन्धनस्य सर्वं खल्व् इत्य् आदि-श्रुति-सिद्धत्वात्, यश् च परमात्मा चतुर्मुख-तादात्म्यापन्नः सः रुद्र-चतुर्मुख-तादात्म्यापन्नो भगवान् विष्णुः ।
En - Gemini 2.5
His subordination is perceived by the natural flow of the sentence: that Supreme Self who is identical with Rudra (this identity being established by the relationship of material cause and effect, as proved by the Shruti “Sarvam khalv…” and so on), and that Supreme Self who is identical with the four-faced Brahma, that very Lord Vishnu is identical with Rudra and the four-faced Brahma.
मूलम्
तद्-उपसर्जनत्वं च वाक्य-स्वरस-गत्या प्रतीयते— यः परमात्मा रुद्रः रुद्र-तादात्म्यापन्नः तादात्म्यस्योपादानोपादेय-निबन्धनस्य सर्वं खल्व् इत्य् आदि-श्रुति-सिद्धत्वात्, यश् च परमात्मा चतुर्मुख-तादात्म्यापन्नः सः रुद्र-चतुर्मुख-तादात्म्यापन्नो भगवान् विष्णुः ।
विश्वास-प्रस्तुतिः
तस्मै उभय-तादात्म्यापन्नाय विष्णु-रूपाय परमात्मने नम इत्य् अर्थः ।
En - Gemini 2.5
The meaning is: Salutations to that Supreme Self, in the form of Vishnu, who has attained identity with both (Rudra and Brahma).
मूलम्
तस्मै उभय-तादात्म्यापन्नाय विष्णु-रूपाय परमात्मने नम इत्य् अर्थः ।
विश्वास-प्रस्तुतिः
एवम् अन्येऽपि पर्याया एवम् एव व्याख्येयाः ।
En - Gemini 2.5
Similarly, other synonyms should be explained in the same way.
मूलम्
एवम् अन्येऽपि पर्याया एवम् एव व्याख्येयाः ।
विश्वास-प्रस्तुतिः
“ओंकारः स प्रणवो यः प्रणवः स सर्व-व्यापी, यः सर्व-व्यापी सोऽनन्तः, योऽनन्तस् तत् तारं, यत् तारं तत् सूक्ष्मं, यत् सूक्ष्मं तच् छुक्लं, यच् छुक्लं तद् वैद्युतं, यद् वैद्युतं तत् परं ब्रह्म” इति प्रणवं प्रस्तुत्य “स एकः” इत्यादिना प्रणवस्यैव नामान्य् उक्त्वा “अथ कस्माद् उच्यते ओंकारः” इत्यादिना ओंकारादीनि नामानि निरुच्यन्ते ।
En - Gemini 2.5
Having introduced Pranava with “Omkara is that Pranava, that Pranava is all-pervading, that which is all-pervading is infinite, that which is infinite is Taraka (savior), that which is Taraka is subtle, that which is subtle is pure, that which is pure is electric, that which is electric is the Supreme Brahman,” and having stated the names of Pranava itself with “Sa Ekaḥ” (He is one) and so on, the names like Omkara are then etymologically explained with “Atha kasmād ucyate Oṃkāraḥ” (Now, why is it called Omkara) and so on.
मूलम्
“ओंकारः स प्रणवो यः प्रणवः स सर्व-व्यापी, यः सर्व-व्यापी सोऽनन्तः, योऽनन्तस् तत् तारं, यत् तारं तत् सूक्ष्मं, यत् सूक्ष्मं तच् छुक्लं, यच् छुक्लं तद् वैद्युतं, यद् वैद्युतं तत् परं ब्रह्म” इति प्रणवं प्रस्तुत्य “स एकः” इत्यादिना प्रणवस्यैव नामान्य् उक्त्वा “अथ कस्माद् उच्यते ओंकारः” इत्यादिना ओंकारादीनि नामानि निरुच्यन्ते ।
विश्वास-प्रस्तुतिः
न ह्य् अत्र नाम-निर्वचन-बलेन शिवस्य विष्णोर् वा प्रतिपादनम् इति शक्यं वक्तुं, ओंकारस्यैव प्रस्तुतत्वात् ।
En - Gemini 2.5
It is not possible to say that Shiva or Vishnu are described here by the power of etymological explanation of names, because only Omkara is the subject at hand.
मूलम्
न ह्य् अत्र नाम-निर्वचन-बलेन शिवस्य विष्णोर् वा प्रतिपादनम् इति शक्यं वक्तुं, ओंकारस्यैव प्रस्तुतत्वात् ।
विश्वास-प्रस्तुतिः
ओंकारस्य च तद्-वाच्यस्य च तादात्म्य-विवक्षया तद्-वाच्यस्यापि प्रस्तुतत्वे विष्णुर् एव तद्-वाच्यः स्वीकर्तव्यः, प्रणवस्य भगवद्-अष्टाक्षर-द्वादशाक्षर-षडक्षर-मन्त्र-शरीर-घटकतया विष्णोर् एव तद्-वाच्यत्वावगमात् ।
En - Gemini 2.5
If the denoted object of Omkara is also the subject due to the intention of identity between Omkara and its denoted object, then Vishnu alone must be accepted as the denoted object, because Pranava is a component of the Lord’s eight-syllable, twelve-syllable, and six-syllable mantras, thus establishing Vishnu as its denoted object.
मूलम्
ओंकारस्य च तद्-वाच्यस्य च तादात्म्य-विवक्षया तद्-वाच्यस्यापि प्रस्तुतत्वे विष्णुर् एव तद्-वाच्यः स्वीकर्तव्यः, प्रणवस्य भगवद्-अष्टाक्षर-द्वादशाक्षर-षडक्षर-मन्त्र-शरीर-घटकतया विष्णोर् एव तद्-वाच्यत्वावगमात् ।
विश्वास-प्रस्तुतिः
नारायणोपनिषदि “ॐ इत्य् एकाक्षरं, नम इति द्वे अक्षरे, नारायणायेति पञ्चाक्षराणि, एतद् वै नारायणस्याष्टाक्षरं पदम्” इति भगवन्-मन्त्र-शरीर-घटकतया ओंकारो निवेशितः ।
En - Gemini 2.5
In the Narayana Upanishad, Omkara is included as a component of the Lord’s mantra-body: “Om is one syllable, Namaḥ are two syllables, Narayanaya are five syllables; this indeed is the eight-syllable phrase of Narayana.”
मूलम्
नारायणोपनिषदि “ॐ इत्य् एकाक्षरं, नम इति द्वे अक्षरे, नारायणायेति पञ्चाक्षराणि, एतद् वै नारायणस्याष्टाक्षरं पदम्” इति भगवन्-मन्त्र-शरीर-घटकतया ओंकारो निवेशितः ।
विश्वास-प्रस्तुतिः
न त्व् एवं शैव-पञ्चाक्षरादि-देवतान्तर-मन्त्रेषु तन्-मन्त्र-घटकतया प्रणव-निवेशो दृश्यते येन देवतान्तरस्यापि प्रणव-वाच्यत्वं स्यात् ।
En - Gemini 2.5
However, Pranava is not seen to be included as a component of other deity-mantras like the Shaiva Panchakshara, by which other deities would also be denoted by Pranava.
मूलम्
न त्व् एवं शैव-पञ्चाक्षरादि-देवतान्तर-मन्त्रेषु तन्-मन्त्र-घटकतया प्रणव-निवेशो दृश्यते येन देवतान्तरस्यापि प्रणव-वाच्यत्वं स्यात् ।
विश्वास-प्रस्तुतिः
शैव-पञ्चाक्षरे च प्रणवस्य मन्त्र-बहिर्-भाव एव दृश्यते ।
En - Gemini 2.5
And in the Shaiva Panchakshara, Pranava is indeed seen to be outside the mantra.
मूलम्
शैव-पञ्चाक्षरे च प्रणवस्य मन्त्र-बहिर्-भाव एव दृश्यते ।
विश्वास-प्रस्तुतिः
अत एव च स्त्री-शूद्रादीनां शैव-पञ्चाक्षरेऽधिकारः ।
En - Gemini 2.5
For this very reason, women, Shudras, etc., have the right to recite the Shaiva Panchakshara.
मूलम्
अत एव च स्त्री-शूद्रादीनां शैव-पञ्चाक्षरेऽधिकारः ।
विश्वास-प्रस्तुतिः
वस्तुतस् तु पञ्चाक्षरस्य श्रुतत्वम् एव न सिध्यति, “नमः शिवाय च” इति श्रुतौ चान्तस्य मन्त्रत्व-श्रवणात् ।
En - Gemini 2.5
In reality, however, the scriptural validity of the Panchakshara itself is not established, because in the Shruti “Namaḥ Shivaya ca,” the word “ca” (and) is heard at the end, implying it is part of the mantra.
मूलम्
वस्तुतस् तु पञ्चाक्षरस्य श्रुतत्वम् एव न सिध्यति, “नमः शिवाय च” इति श्रुतौ चान्तस्य मन्त्रत्व-श्रवणात् ।
विश्वास-प्रस्तुतिः
“सदाशिवोम्” इति सदाशिव-पदोत्तरम् ओंकार-श्रवणात् सदाशिवस्य प्रणव-वाच्यत्वम् अपि कैश्चिद् उक्तं न युक्तम्; “सुब्रह्मण्योम्”, “भूर्-भुवः सुवराप ॐ” इत्यादाव् अपि प्रणवस्य दर्शनेन सुब्रह्मण्यादेर् अपि प्रणव-वाच्यतापत्तेः ।
En - Gemini 2.5
The statement by some that Sadashiva is also denoted by Pranava due to the hearing of Omkara after the word “Sadashivom” is not correct; because Pranava is also seen in “Subrahmanyom,” “Bhur Bhuvaḥ Suvar Apa Om” and so on, which would lead to Subrahmanya and others also being denoted by Pranava.
मूलम्
“सदाशिवोम्” इति सदाशिव-पदोत्तरम् ओंकार-श्रवणात् सदाशिवस्य प्रणव-वाच्यत्वम् अपि कैश्चिद् उक्तं न युक्तम्; “सुब्रह्मण्योम्”, “भूर्-भुवः सुवराप ॐ” इत्यादाव् अपि प्रणवस्य दर्शनेन सुब्रह्मण्यादेर् अपि प्रणव-वाच्यतापत्तेः ।
विश्वास-प्रस्तुतिः
इष्टापत्तौ “ॐ तत्-स- [[प्४९]] द्” इति निर्देशौ ब्रह्मणस् त्रिविधः स्मृतः”, “ॐ इत्य् एकाक्षरं ब्रह्म व्याहरन् माम् अनुस्मरन् ।
En - Gemini 2.5
If such a consequence is accepted, then there would be a contradiction with the statements: “Om Tat Sat - these three designations of Brahman are remembered,” “Om, the one-syllable Brahman, uttering it and remembering Me.”
मूलम्
इष्टापत्तौ “ॐ तत्-स- [[प्४९]] द्” इति निर्देशौ ब्रह्मणस् त्रिविधः स्मृतः”, “ॐ इत्य् एकाक्षरं ब्रह्म व्याहरन् माम् अनुस्मरन् ।
विश्वास-प्रस्तुतिः
यः प्रयाति स मद्-भावं याति नास्त्य् अत्र संशयः” इति च भगवद्-गीता-वचनेन “ॐ इत्य् एवं सदा विप्राः पठत ध्यात केशवम्” इति हरिवंशे शिव-वचनेन, “हरिर् ॐ इति वक्तव्यम्” इति नारद-व्यास-शिक्षा-वचनेन च प्रणवः पर-ब्रह्म-भूतस्य विष्णोर् वाचकः विष्णुस् तद्-वाच्य इत्य् अवगमेन विष्णु-प्रणवयोर् वाच्य-वाचकत्व-बोधकोदाहृत-बहु-प्रमाण-विरोधापत्तेर् इत्य् अलम् ।
En - Gemini 2.5
“He who departs attains My state; there is no doubt about this” - by this Bhagavad Gita verse; and by Shiva’s statement in Harivamsa, “O Brahmins, always recite Om and meditate on Keshava”; and by Narada-Vyasa-Shiksha’s statement, “Hari Om should be spoken” - it is understood that Pranava is the denoter of Vishnu, who is the Supreme Brahman, and Vishnu is the denoted, and thus there would be a contradiction with the many cited proofs that establish the denoter-denoted relationship between Vishnu and Pranava; enough of this.
मूलम्
यः प्रयाति स मद्-भावं याति नास्त्य् अत्र संशयः” इति च भगवद्-गीता-वचनेन “ॐ इत्य् एवं सदा विप्राः पठत ध्यात केशवम्” इति हरिवंशे शिव-वचनेन, “हरिर् ॐ इति वक्तव्यम्” इति नारद-व्यास-शिक्षा-वचनेन च प्रणवः पर-ब्रह्म-भूतस्य विष्णोर् वाचकः विष्णुस् तद्-वाच्य इत्य् अवगमेन विष्णु-प्रणवयोर् वाच्य-वाचकत्व-बोधकोदाहृत-बहु-प्रमाण-विरोधापत्तेर् इत्य् अलम् ।
विश्वास-प्रस्तुतिः
“तद् एतद् रुद्र-चरितम्” इत्यादेर् अयम् अर्थः— रुद्रस्य को भवान् इत्य् उपक्रम-पर्यालोचनया तत्त्वोपदेष्टतया आचार्यत्वेन तद्-उपदेशादि-रूपं रुद्र-चरितम् इति ।
En - Gemini 2.5
The meaning of “Tad etad Rudra-charitam” (This is the conduct of Rudra) and so on, is: the conduct of Rudra is in the form of His instructions, etc., as an Acharya, a teacher of truth, as seen from the introductory question “Who are you?” directed to Rudra.
मूलम्
“तद् एतद् रुद्र-चरितम्” इत्यादेर् अयम् अर्थः— रुद्रस्य को भवान् इत्य् उपक्रम-पर्यालोचनया तत्त्वोपदेष्टतया आचार्यत्वेन तद्-उपदेशादि-रूपं रुद्र-चरितम् इति ।
विश्वास-प्रस्तुतिः
अग्निम् इत्यादिना भस्म गृहीत्वा निमृज्याङ्गानि संस्पृशेत् व्रतम् एतत् पाशुपतम् ।
En - Gemini 2.5
Taking ashes, one should rub them and touch one’s limbs; this is the Pashupata Vrata (vow).
मूलम्
अग्निम् इत्यादिना भस्म गृहीत्वा निमृज्याङ्गानि संस्पृशेत् व्रतम् एतत् पाशुपतम् ।
विश्वास-प्रस्तुतिः
पशु-पाश-विमोक्षायेत्यस्यायम् अर्थः— पशु-याग-साधनतया विहितस्य पशोर् यत् पाशेन बन्धनं तन्-मोचन-काले “अदितिः पाशान् प्रमुमोक्तु” इति मन्त्रस्य लिङ्गेन साधनत्ववत् अनारभ्याधीतेन अग्निम् इत्यादि-वाक्येन पशु-पाश-विमोक्षणोद्देशेन अग्निम् इत्यादि-मन्त्राभिमन्त्रित-भस्मना पाशुक-सर्वाङ्ग-लेपनस्य विधानात् यागाङ्ग-भूत-पशु-पाश-विमोक्षण-काले भस्मना पश्व्-अवयवेषु लेपनं कर्तव्यम् इति ।
En - Gemini 2.5
The meaning of “Pashu-pāśa-vimokṣāya” (for the liberation of animal bonds) is: just as the mantra “Aditiḥ pāśān pramumoktu” (Aditi, release the bonds) is an instrument for releasing the animal that is bound by a rope and ordained as a means for a animal sacrifice, similarly, by the uncontextualized passage starting with “Agnim,” the anointing of all parts of the sacrificial animal with ashes consecrated by mantras starting with “Agnim,” for the purpose of releasing the animal’s bonds, is enjoined, meaning that during the release of the sacrificial animal’s bonds, which is an ancillary part of the sacrifice, ashes should be smeared on the animal’s limbs.
मूलम्
पशु-पाश-विमोक्षायेत्यस्यायम् अर्थः— पशु-याग-साधनतया विहितस्य पशोर् यत् पाशेन बन्धनं तन्-मोचन-काले “अदितिः पाशान् प्रमुमोक्तु” इति मन्त्रस्य लिङ्गेन साधनत्ववत् अनारभ्याधीतेन अग्निम् इत्यादि-वाक्येन पशु-पाश-विमोक्षणोद्देशेन अग्निम् इत्यादि-मन्त्राभिमन्त्रित-भस्मना पाशुक-सर्वाङ्ग-लेपनस्य विधानात् यागाङ्ग-भूत-पशु-पाश-विमोक्षण-काले भस्मना पश्व्-अवयवेषु लेपनं कर्तव्यम् इति ।
विश्वास-प्रस्तुतिः
एवम् अर्थ-वर्णन एव च पशु-पाश-शब्दयोः प्रसिद्धार्थः स्वीकृतो भवति ।
En - Gemini 2.5
Only by describing the meaning in this way are the well-known meanings of the words “pashu” (animal) and “pasha” (bond) accepted.
मूलम्
एवम् अर्थ-वर्णन एव च पशु-पाश-शब्दयोः प्रसिद्धार्थः स्वीकृतो भवति ।
विश्वास-प्रस्तुतिः
न हि प्राणि-सामान्ये पशु-शब्दस्य शक्ति-ग्राहकः कोशादिकम् उपलभ्यते ।
En - Gemini 2.5
Indeed, no lexicon or similar source indicating the power of the word “pashu” to denote living beings in general is available.
मूलम्
न हि प्राणि-सामान्ये पशु-शब्दस्य शक्ति-ग्राहकः कोशादिकम् उपलभ्यते ।
विश्वास-प्रस्तुतिः
न वा पशु-शब्दो वेद-शास्त्र-संपन्ने महा-पुरुषे मनुष्य-सामान्ये वा दृष्ट-प्रयोग उपलभ्यते ।
En - Gemini 2.5
Nor is the word ‘pashu’ (animal) found to be used in Vedic or Shastric texts for a great personality accomplished in scripture, or for human beings in general.
मूलम्
न वा पशु-शब्दो वेद-शास्त्र-संपन्ने महा-पुरुषे मनुष्य-सामान्ये वा दृष्ट-प्रयोग उपलभ्यते ।
विश्वास-प्रस्तुतिः
न हि रशना-वाचकस्य पाश-शब्दस्य संसार-बन्धन-रूपार्थे शक्ति-ग्राहक-कोशादिकं प्रयोगो वा उपलभ्यते ।
En - Gemini 2.5
Indeed, no lexicon or usage is found that indicates the word “pasha,” which denotes a rope, to mean the bondage of samsara.
मूलम्
न हि रशना-वाचकस्य पाश-शब्दस्य संसार-बन्धन-रूपार्थे शक्ति-ग्राहक-कोशादिकं प्रयोगो वा उपलभ्यते ।
विश्वास-प्रस्तुतिः
चतुष्-पाज्-जन्तौ तु पशु-शब्दस्य शक्ति-ग्राहक-कोशः प्रयोगश् च दृश्यते रशनायां पाश-शब्दस्य चेत्य् अलम् ।
En - Gemini 2.5
However, a lexicon indicating the power of the word “pashu” to denote a four-legged animal, and its usage, as well as the word “pasha” for a rope, are seen; enough of this.
मूलम्
चतुष्-पाज्-जन्तौ तु पशु-शब्दस्य शक्ति-ग्राहक-कोशः प्रयोगश् च दृश्यते रशनायां पाश-शब्दस्य चेत्य् अलम् ।
कैवल्योपनिषद्-विलासः ।
En - Gemini 2.5
The Splendor of the Kaivalya Upanishad.
विश्वास-प्रस्तुतिः
ध्यात्वा मुनिर् गच्छति भूत-योनिम् इत्यादि-वाक्य-श्रुत-भूत-योनिः ।
En - Gemini 2.5
The “Bhūtayoni” (source of beings) heard in the passage “Having meditated, the sage reaches the source of beings” and so on.
मूलम्
ध्यात्वा मुनिर् गच्छति भूत-योनिम् इत्यादि-वाक्य-श्रुत-भूत-योनिः ।
विश्वास-प्रस्तुतिः
विष्णुर् न चेशो यत आदि-वाक्ये कैवल्यगे विष्णु-गतेर् निरुक्तिः ॥
En - Gemini 2.5
Is Vishnu, not Ishvara, because in the initial passage of the Kaivalya, the state of going to Vishnu is explained.
मूलम्
विष्णुर् न चेशो यत आदि-वाक्ये कैवल्यगे विष्णु-गतेर् निरुक्तिः ॥
विश्वास-प्रस्तुतिः
अधीहि भगवन् ब्रह्म-विद्यां वरिष्ठां सदा सद्भिः सेव्यमानां निगूढाम् ।
En - Gemini 2.5
“O Lord, teach me the supreme knowledge of Brahman, which is always served by the good and is profound.”
मूलम्
अधीहि भगवन् ब्रह्म-विद्यां वरिष्ठां सदा सद्भिः सेव्यमानां निगूढाम् ।
विश्वास-प्रस्तुतिः
ययाचिरात् सर्व-पापं व्यपोह्य परात् परं पुरुषम् उपैति विद्वान् इत्यादिना कैवल्योपनिषदि यया विद्यया सर्व-पाप-विमोचन-पूर्वकं नारायणाख्यं ब्रह्म प्राप्यते तां विद्यां महा- [[प्५०]] ब्रूहीत्य् अर्थकेन प्रश्न-वाक्येन मुक्त-भोग्यस्य नारायण-रूपत्वावगमेन उमा-सहायं परमेश्वरं प्रभुं त्रि-लोचनं नीलकण्ठं प्रशान्तम् ।
En - Gemini 2.5
By passages like “By which the wise man quickly casts off all sin and attains the Supreme Purusha who is superior to the superior,” in the Kaivalya Upanishad, the question-sentence which means “O great one, teach me that knowledge by which Brahman named Narayana is attained after the removal of all sins,” implies that the object of enjoyment for the liberated is Narayana, and therefore Uma-sahaya, the Supreme Lord, the master, the three-eyed, blue-throated, peaceful. [[P50]]
मूलम्
ययाचिरात् सर्व-पापं व्यपोह्य परात् परं पुरुषम् उपैति विद्वान् इत्यादिना कैवल्योपनिषदि यया विद्यया सर्व-पाप-विमोचन-पूर्वकं नारायणाख्यं ब्रह्म प्राप्यते तां विद्यां महा- [[प्५०]] ब्रूहीत्य् अर्थकेन प्रश्न-वाक्येन मुक्त-भोग्यस्य नारायण-रूपत्वावगमेन उमा-सहायं परमेश्वरं प्रभुं त्रि-लोचनं नीलकण्ठं प्रशान्तम् ।
विश्वास-प्रस्तुतिः
ध्यात्वा मुनिर् गच्छति भूत-योनिं समस्त-साक्षिं तमसः परस्तात् इत्य् उपसंहारे ध्यान-प्राप्यत्वेन निर्दिष्टस्य भूत-योनेर् अपि नारायण-रूपत्वम् एव वक्तव्यम् ।
En - Gemini 2.5
“Having meditated on Him, the sage attains the source of beings, the witness of all, beyond darkness” - in this concluding statement, the Bhutayoni (source of beings), who is designated as attainable through meditation, must also be said to be in the form of Narayana.
मूलम्
ध्यात्वा मुनिर् गच्छति भूत-योनिं समस्त-साक्षिं तमसः परस्तात् इत्य् उपसंहारे ध्यान-प्राप्यत्वेन निर्दिष्टस्य भूत-योनेर् अपि नारायण-रूपत्वम् एव वक्तव्यम् ।
विश्वास-प्रस्तुतिः
अन्य-रूपत्वे उपक्रम-विरोधापत्त्या उपक्रमाधिकरण-विरोधापत्तिः ।
En - Gemini 2.5
If it were of another form, it would lead to a contradiction with the introductory passage, and consequently, with the principle established in the Upakramādhikaraṇa (section dealing with the initial statement).
मूलम्
अन्य-रूपत्वे उपक्रम-विरोधापत्त्या उपक्रमाधिकरण-विरोधापत्तिः ।
विश्वास-प्रस्तुतिः
न च उपक्रमे नारायणासाधारण-शब्दस्याश्रवणेनोपक्रमस्य नारायण-परत्वासिद्धौ तद्-अनुरोधेनौपसंहारिक-भूत-योनि-शब्दस्य नारायण-परत्वं कथं स्याद् इति वाच्यं; पञ्चम-वेदत्वेन प्रसिद्धे महा-भारते मोक्ष-धर्मे नारायणीये ‘तस्यैकत्वं महत्त्वं च स एकः पुरुषः स्मृतः ।
En - Gemini 2.5
Nor can it be argued that since the introduction does not contain a word uniquely denoting Narayana, the introduction’s reference to Narayana is not established, and therefore, how can the concluding word “Bhutayoni” refer to Narayana in accordance with it? For in the Mahabharata, famous as the fifth Veda, in the Mokshadharma, Narayaniya section, there is a passage regarding Narayana: “His oneness and greatness, He alone is remembered as Purusha.”
मूलम्
न च उपक्रमे नारायणासाधारण-शब्दस्याश्रवणेनोपक्रमस्य नारायण-परत्वासिद्धौ तद्-अनुरोधेनौपसंहारिक-भूत-योनि-शब्दस्य नारायण-परत्वं कथं स्याद् इति वाच्यं; पञ्चम-वेदत्वेन प्रसिद्धे महा-भारते मोक्ष-धर्मे नारायणीये ‘तस्यैकत्वं महत्त्वं च स एकः पुरुषः स्मृतः ।
विश्वास-प्रस्तुतिः
महा-पुरुष-शब्दं हि बिभर्त्य् एकः सनातनः’ इति नारायणं प्रकृत्य वचनम् अस्ति ।
En - Gemini 2.5
“Indeed, the eternal one alone bears the name Mahapurusha” - there is this statement concerning Narayana.
मूलम्
महा-पुरुष-शब्दं हि बिभर्त्य् एकः सनातनः’ इति नारायणं प्रकृत्य वचनम् अस्ति ।
विश्वास-प्रस्तुतिः
इदं च वचनं हेतूपन्यास-पूर्वकं नारायणस्य पुरुष-शब्द-वाच्यत्वं कथयति ।
En - Gemini 2.5
This statement, furthermore, explains Narayana’s denotability by the word “Purusha” with supporting reasons.
मूलम्
इदं च वचनं हेतूपन्यास-पूर्वकं नारायणस्य पुरुष-शब्द-वाच्यत्वं कथयति ।
विश्वास-प्रस्तुतिः
हि यस्मात् सनातनः एको नारायणः महा-पुरुष-शब्दं बिभर्ति तस्मात् स एकः महा-पुरुष-शब्द-धारी नारायण एव पुरुषः स्मृतः पुरुष-शब्द-वाच्यत्वेन संमतः ।
En - Gemini 2.5
Indeed, since the eternal, unique Narayana bears the name Mahapurusha, therefore that one Narayana, who bears the name Mahapurusha, is remembered as Purusha, accepted as denoted by the word Purusha.
मूलम्
हि यस्मात् सनातनः एको नारायणः महा-पुरुष-शब्दं बिभर्ति तस्मात् स एकः महा-पुरुष-शब्द-धारी नारायण एव पुरुषः स्मृतः पुरुष-शब्द-वाच्यत्वेन संमतः ।
विश्वास-प्रस्तुतिः
स एक इत्यत्र एक-शब्दः ‘एके मुख्यान्य-केवलाः’ इति कोशात् कैवल्यार्थकतया एव-कार-पर्याय इति वचनार्थः ।
En - Gemini 2.5
In “sa ekaḥ” (he alone), the word “eka” (one), according to the lexicon “eke mukhyānya-kevalāḥ” (eka means principal, other, pure), signifies exclusivity and is thus a synonym for “eva” (alone); this is the meaning of the statement.
मूलम्
स एक इत्यत्र एक-शब्दः ‘एके मुख्यान्य-केवलाः’ इति कोशात् कैवल्यार्थकतया एव-कार-पर्याय इति वचनार्थः ।
विश्वास-प्रस्तुतिः
न च एतद्-वचनवत् स-हेतुकं देवतान्तरे शक्ति-ग्राहकं किंचित् पुरुष-शब्दस्योपलभ्यते ।
En - Gemini 2.5
Nor is any similar statement, with reasons, found that establishes the power of the word “Purusha” for any other deity.
मूलम्
न च एतद्-वचनवत् स-हेतुकं देवतान्तरे शक्ति-ग्राहकं किंचित् पुरुष-शब्दस्योपलभ्यते ।
विश्वास-प्रस्तुतिः
‘पूर्वम् एवाहम् इहासम् तत् पुरुषस्य पुरुषत्वम्’ इत्यादि-वचनं तु अवयवार्थ-प्रदर्शन-पूर्वकं पुरुष-शब्द-प्रवृत्तिं कथयति ।
En - Gemini 2.5
The statement “‘Purvam evaham ihasam tat Purushasya Purushvatvam’ (I existed here before, that is the Purushatva of Purusha)” and so on, explains the derivation of the word “Purusha” by showing its etymological components.
मूलम्
‘पूर्वम् एवाहम् इहासम् तत् पुरुषस्य पुरुषत्वम्’ इत्यादि-वचनं तु अवयवार्थ-प्रदर्शन-पूर्वकं पुरुष-शब्द-प्रवृत्तिं कथयति ।
विश्वास-प्रस्तुतिः
अतो नास्य रूढि-ग्राहकत्वम् ।
En - Gemini 2.5
Therefore, this does not establish conventional usage.
मूलम्
अतो नास्य रूढि-ग्राहकत्वम् ।
विश्वास-प्रस्तुतिः
पुराण-वचनानि बहूनि ‘यथा शंकर-शब्दोऽयं महा-देवे व्यवस्थितः ।
En - Gemini 2.5
Many Purana passages state: “Just as this word ‘Shankara’ is established in Mahadeva.”
मूलम्
पुराण-वचनानि बहूनि ‘यथा शंकर-शब्दोऽयं महा-देवे व्यवस्थितः ।
विश्वास-प्रस्तुतिः
तथा पुरुष-शब्दोऽयं वासुदेवेऽवतिष्ठते ।
En - Gemini 2.5
“Similarly, this word ‘Purusha’ resides in Vasudeva.”
मूलम्
तथा पुरुष-शब्दोऽयं वासुदेवेऽवतिष्ठते ।
विश्वास-प्रस्तुतिः
एवं पुरुष-शब्दोऽयं रूढ्या वक्ति जनार्दनम्’ इत्यादीनि विष्णौ रूढि-ग्राहकाणि सन्ति ।
En - Gemini 2.5
“Thus, this word ‘Purusha’ conventionally denotes Janardana” - and so on, there are many statements establishing the conventional usage of the word “Purusha” for Vishnu.
मूलम्
एवं पुरुष-शब्दोऽयं रूढ्या वक्ति जनार्दनम्’ इत्यादीनि विष्णौ रूढि-ग्राहकाणि सन्ति ।
विश्वास-प्रस्तुतिः
‘पुरुषो नाम संपूर्णः शिवः सत्यादि-लक्षणः’ इत्यादि शिवे पुरुष-शब्द-वृत्ति-ग्राहक-वचनं स्कान्देऽस्तीति दीक्षित-वर्यैर् लिखितम् ।
En - Gemini 2.5
“Purusha is complete, Shiva is characterized by truth, etc.” - Dikshita-varya has written that there is such a statement in the Skanda Purana, establishing the usage of the word “Purusha” for Shiva.
मूलम्
‘पुरुषो नाम संपूर्णः शिवः सत्यादि-लक्षणः’ इत्यादि शिवे पुरुष-शब्द-वृत्ति-ग्राहक-वचनं स्कान्देऽस्तीति दीक्षित-वर्यैर् लिखितम् ।
विश्वास-प्रस्तुतिः
तद्-वचने च रूढि-वृत्ति-ग्राहकं किम् अपि पदं नोपलभ्यते ।
En - Gemini 2.5
And in that statement, no word indicating conventional usage (rudhi-vritti-grahaka) is found.
मूलम्
तद्-वचने च रूढि-वृत्ति-ग्राहकं किम् अपि पदं नोपलभ्यते ।
विश्वास-प्रस्तुतिः
यद्यपि नाम-पद्म् अस्ति तथापि ‘अपि वा नाम-धेयं स्याद् यद् उत्पत्ताव् अपूर्वम् अविधायकत्वात्’ इत्य् उद्भिद्-अधिकरणे ‘तद्-व्यपदेशं च’ इति श्येनाधिकरणे च केवल-यौगिकस्य गौणस्य च नामत्व-निर्धारणस्य भाट्ट-दीपिकायाम् उक्तत्वेन नाम-शब्दस्य रूढि-ग्राहकत्वानियमात् ।
En - Gemini 2.5
Although the word “nama” (name) is present, yet in the Udbhid-adhikarana (section on the Udbhid sacrifice) where it is stated “Or it may be a name, because it is unprecedented in its origin and not prescriptive,” and in the Shyena-adhikarana (section on the Shyena sacrifice) where “tadvyapadesam ca” (and its designation is also mentioned) is stated, since the determination of the nominal nature of merely etymological (yaugika) and secondary (gauṇa) terms is mentioned in the Bhatta-Dipika, the word “nama” does not invariably indicate conventional usage.
मूलम्
यद्यपि नाम-पद्म् अस्ति तथापि ‘अपि वा नाम-धेयं स्याद् यद् उत्पत्ताव् अपूर्वम् अविधायकत्वात्’ इत्य् उद्भिद्-अधिकरणे ‘तद्-व्यपदेशं च’ इति श्येनाधिकरणे च केवल-यौगिकस्य गौणस्य च नामत्व-निर्धारणस्य भाट्ट-दीपिकायाम् उक्तत्वेन नाम-शब्दस्य रूढि-ग्राहकत्वानियमात् ।
विश्वास-प्रस्तुतिः
शिव-पुराणेषु शिवे पुरुष-शब्द-रूढि-ग्राहक-वचनान्य् उपलभ्येरंश् चेद् उपलभ्यन्तां नाम ।
En - Gemini 2.5
If statements establishing the conventional usage of the word “Purusha” for Shiva are found in the Shiva Puranas, let them be found indeed.
मूलम्
शिव-पुराणेषु शिवे पुरुष-शब्द-रूढि-ग्राहक-वचनान्य् उपलभ्येरंश् चेद् उपलभ्यन्तां नाम ।
विश्वास-प्रस्तुतिः
अनुपदोदाहृत-महा-भारत-वचने “स एकः [[प्५१]] पुरुषः स्मृतः” इति एव-कारार्थकैक-शब्देन नारायणान्यस्य पुरुष-शब्द-वाच्यत्व-प्रतिषेधेन प्रबल-पञ्चम-वेद-महा-भारत-विरुद्धतया पुरुष-शब्दस्य शिव-रूढि-ग्राहक-पुराण-वचनान्य् अप्रमाणान्य् एव ।
En - Gemini 2.5
In the recently cited Mahabharata passage, “He alone [[P51]] is remembered as Purusha,” the word “eka” (alone), which has the meaning of “eva” (only), prohibits anyone other than Narayana from being denoted by the word “Purusha”; thus, the Purana passages that establish the conventional usage of “Purusha” for Shiva are indeed unauthoritative, as they contradict the mighty fifth Veda, the Mahabharata.
मूलम्
अनुपदोदाहृत-महा-भारत-वचने “स एकः [[प्५१]] पुरुषः स्मृतः” इति एव-कारार्थकैक-शब्देन नारायणान्यस्य पुरुष-शब्द-वाच्यत्व-प्रतिषेधेन प्रबल-पञ्चम-वेद-महा-भारत-विरुद्धतया पुरुष-शब्दस्य शिव-रूढि-ग्राहक-पुराण-वचनान्य् अप्रमाणान्य् एव ।
विश्वास-प्रस्तुतिः
तथा च “परात् परं पुरुषम् उपैति विद्वान्” इति विद्या-प्राप्ये नारायणासाधारण-पुरुष-शब्दस्य दर्शनेन उपक्रमस्य नारायण-परत्वस्य निष्प्रत्यूहत्वात् ।
En - Gemini 2.5
And thus, since the word “Purusha,” uniquely denoting Narayana, is found in the “Parat param Purusham upaiti vidvan” (the wise man attains the Supreme Purusha who is superior to the superior), which is attained through knowledge, the introductory statement’s reference to Narayana is unimpeded.
मूलम्
तथा च “परात् परं पुरुषम् उपैति विद्वान्” इति विद्या-प्राप्ये नारायणासाधारण-पुरुष-शब्दस्य दर्शनेन उपक्रमस्य नारायण-परत्वस्य निष्प्रत्यूहत्वात् ।
विश्वास-प्रस्तुतिः
न च तत्-क्रतु-न्यायेन प्राप्यस्य भूत-योनेर् उपाय-कोटि-प्रविष्टोमा-सहायत्वम् एव युक्तम् इति शङ्क्यम् ।
En - Gemini 2.5
Nor should it be doubted that by the Tat-Kratu Nyaya (maxim of “what one meditates upon, that one becomes”), the Bhutayoni (source of beings) who is to be attained should properly be Uma-sahaya, who is included in the means.
मूलम्
न च तत्-क्रतु-न्यायेन प्राप्यस्य भूत-योनेर् उपाय-कोटि-प्रविष्टोमा-सहायत्वम् एव युक्तम् इति शङ्क्यम् ।
विश्वास-प्रस्तुतिः
प्राप्य-कोटि-गत-भूत-योनि-शब्दस्य केवल-यौगिकत्वेन विशेष्य-साकाङ्क्षस्य प्राप्य-कोटित्वेन स्व-समान-जातीयोपक्रम-गत-पुरुष-पद-मुख्यार्थ-विष्णु-परत्वे संभवति स्व-विजातीयोपाय-कोटि-गतोमा-सहाय-परत्वासंभवात् ।
En - Gemini 2.5
Since the word “Bhūtayoni” (source of beings), which belongs to the category of attainable objects and is merely etymological, having an expectancy for a substantive, can properly refer to Vishnu, the primary meaning of the word “Purusha” in the introductory passage which belongs to the same category of attainable objects, it cannot refer to Uma-sahaya, who belongs to a different category of means.
मूलम्
प्राप्य-कोटि-गत-भूत-योनि-शब्दस्य केवल-यौगिकत्वेन विशेष्य-साकाङ्क्षस्य प्राप्य-कोटित्वेन स्व-समान-जातीयोपक्रम-गत-पुरुष-पद-मुख्यार्थ-विष्णु-परत्वे संभवति स्व-विजातीयोपाय-कोटि-गतोमा-सहाय-परत्वासंभवात् ।
विश्वास-प्रस्तुतिः
प्राप्यस्योपाय-कोटि-गतान्य-रूपत्वे उक्त-रीत्या शास्त्रेणैव सिद्धे तत्-क्रतु-न्यायस्य वचन-विरुद्धत्वेन प्रकृतेऽप्रसरात् ।
En - Gemini 2.5
Since the object to be attained being of a different form from the category of means is established by scripture in the manner stated, the Tat-Kratu Nyaya, being contradictory to the explicit statement, does not apply here.
मूलम्
प्राप्यस्योपाय-कोटि-गतान्य-रूपत्वे उक्त-रीत्या शास्त्रेणैव सिद्धे तत्-क्रतु-न्यायस्य वचन-विरुद्धत्वेन प्रकृतेऽप्रसरात् ।
विश्वास-प्रस्तुतिः
अत एवाद्वैतिनां सिद्धान्ते तद् य इत्थं विदुः ये चेमेऽरण्ये श्रद्धा तप इत्य् उपासते तेऽर्चिषम् अभिसंभवन्ति इत्य् आदौ अब्रह्म-क्रतोर् अपि पञ्चाग्नि-विद्योपासकस्यार्चिरादि-द्वारा ब्रह्म-प्राप्त्य्-उक्तिर् वचन-बलात् संगच्छत इत्य् उक्तम् ।
En - Gemini 2.5
For this very reason, in the Advaitin doctrine, it is stated that in passages like “Those who thus know, and those who worship with faith and austerity in the forest, they attain the light,” the attainment of Brahman even by a non-Brahman-knower, a worshiper of the Panchagni Vidya, through the path of light (Archirādi-mārga), is consistent due to the force of the scriptural statement.
मूलम्
अत एवाद्वैतिनां सिद्धान्ते तद् य इत्थं विदुः ये चेमेऽरण्ये श्रद्धा तप इत्य् उपासते तेऽर्चिषम् अभिसंभवन्ति इत्य् आदौ अब्रह्म-क्रतोर् अपि पञ्चाग्नि-विद्योपासकस्यार्चिरादि-द्वारा ब्रह्म-प्राप्त्य्-उक्तिर् वचन-बलात् संगच्छत इत्य् उक्तम् ।
विश्वास-प्रस्तुतिः
यः पुनर् एतं त्रि-मात्रेणोम् इत्य् एतेनैवाक्षरेण परं पुरुषम् अभिध्यायीत स तेजसि सूर्ये संपन्नो यथा पादोदरस् त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिर् उन्नीयते ब्रह्म-लोकम् इत्य् आदौ तत्-क्रतु-न्यायम् अनादृत्य वचन-बलात् त्रि-मात्र-प्रणवे ब्रह्म-दृष्टिं कुर्वतः प्रतीकोपासकस्य ब्रह्म-प्राप्त्य्-उक्तिश् चाद्वैतिनां संगच्छते ।
En - Gemini 2.5
In passages like “Whoever again meditates on the Supreme Purusha with this three-mora Om syllable, he becomes endowed with the light of the sun; just as a snake sheds its skin, so indeed he becomes liberated from sin; he is led up to the world of Brahma by the Saman chants,” the Advaitins reconcile the statement of a symbol-worshipper attaining Brahman by superimposing Brahman-view on the three-mora Pranava, by the force of the scriptural statement, disregarding the Tat-Kratu Nyaya.
मूलम्
यः पुनर् एतं त्रि-मात्रेणोम् इत्य् एतेनैवाक्षरेण परं पुरुषम् अभिध्यायीत स तेजसि सूर्ये संपन्नो यथा पादोदरस् त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिर् उन्नीयते ब्रह्म-लोकम् इत्य् आदौ तत्-क्रतु-न्यायम् अनादृत्य वचन-बलात् त्रि-मात्र-प्रणवे ब्रह्म-दृष्टिं कुर्वतः प्रतीकोपासकस्य ब्रह्म-प्राप्त्य्-उक्तिश् चाद्वैतिनां संगच्छते ।
विश्वास-प्रस्तुतिः
अत्र यद्यप्य् उमा-सहाय-ध्यानेन भूत-योनि-रूप-नारायण-प्राप्तिः फलम् इत्य् उक्त्या साक्षाद् एव भगवत्-प्राप्तिं प्रत्य् उमा-सहाय-ध्यानस्य साधनत्वं प्रतीयते, तथापि उपक्रमे “परात् परं पुरुषम् उपैति विद्वान्” इत्यत्र पुरुष-शब्दित-भगवत्-प्राप्तिं प्रति साधनतया निर्दिष्टस्य विद्वान् इत्य् एतद्-घटकी-भूत-वेदनस्य विषयाकाङ्क्षायाम् उपेयत्वाख्य-प्राप्यत्वेन निर्दिष्टस्य पुरुषस्यैव संनिहितत्वेन विषयत्वौचित्यात् ।
En - Gemini 2.5
Although here, by the statement that the attainment of Narayana in the form of Bhutayoni is the fruit of meditating on Uma-sahaya, meditation on Uma-sahaya appears to be a direct means to attain the Lord, nevertheless, in the introduction, in “Parat param Purusham upaiti vidvan” (the wise man attains the Supreme Purusha), since the Purusha designated as the attainable object is the proper subject of the cognition which is a component of “vidvan” (the wise man), it is appropriate for the Purusha Himself to be the object, due to His proximity as the attainable object.
मूलम्
अत्र यद्यप्य् उमा-सहाय-ध्यानेन भूत-योनि-रूप-नारायण-प्राप्तिः फलम् इत्य् उक्त्या साक्षाद् एव भगवत्-प्राप्तिं प्रत्य् उमा-सहाय-ध्यानस्य साधनत्वं प्रतीयते, तथापि उपक्रमे “परात् परं पुरुषम् उपैति विद्वान्” इत्यत्र पुरुष-शब्दित-भगवत्-प्राप्तिं प्रति साधनतया निर्दिष्टस्य विद्वान् इत्य् एतद्-घटकी-भूत-वेदनस्य विषयाकाङ्क्षायाम् उपेयत्वाख्य-प्राप्यत्वेन निर्दिष्टस्य पुरुषस्यैव संनिहितत्वेन विषयत्वौचित्यात् ।
विश्वास-प्रस्तुतिः
पुरुष-शब्दित-विष्णु-ध्यानाद् एव विष्णु-प्राप्ति-लक्षणं फलं सिध्यतीत्य् अवगमेन एतादृशो-पक्रमाविरोधायाव् औपसंहारिकोमा-सहाय-ध्यान-गतं भगवत्-प्राप्ति-साधनत्वं पुरुष-शब्दित-विष्णु-ज्ञान-द्वार-कम् इत्य् अवसीयते ।
En - Gemini 2.5
Since it is understood that the fruit of attaining Vishnu, characterized as attainment of Vishnu, is achieved only by meditating on Vishnu who is denoted by the word Purusha, to avoid contradiction with such an introduction, the means of attaining the Lord, which is implicit in the concluding meditation on Uma-sahaya, is inferred to be through the knowledge of Vishnu, who is denoted by the word Purusha.
मूलम्
पुरुष-शब्दित-विष्णु-ध्यानाद् एव विष्णु-प्राप्ति-लक्षणं फलं सिध्यतीत्य् अवगमेन एतादृशो-पक्रमाविरोधायाव् औपसंहारिकोमा-सहाय-ध्यान-गतं भगवत्-प्राप्ति-साधनत्वं पुरुष-शब्दित-विष्णु-ज्ञान-द्वार-कम् इत्य् अवसीयते ।
विश्वास-प्रस्तुतिः
अत एव हरिवंशे कैलास-यात्रायाम् “ज्ञात्वा मां सर्व-यत्नेन ततो जानीत केशवम् ।
En - Gemini 2.5
For this very reason, in the Harivamsa, during the Kailasa Yatra, “Knowing Me with all effort, then know Kesava.”
मूलम्
अत एव हरिवंशे कैलास-यात्रायाम् “ज्ञात्वा मां सर्व-यत्नेन ततो जानीत केशवम् ।
विश्वास-प्रस्तुतिः
उपास्योऽयं हरिर् विप्रा उपायोऽस्मि हरेः स्मृतौ ॥ [[प्५२]] एष संसार-विभवं व्यपोहति न संशयः” इति देवान् ऋषींश् च प्रति शिव-वचनम् उक्तार्थकं संगच्छते ।
En - Gemini 2.5
“This Hari is to be worshipped, O Brahmins; I am a means in the remembrance of Hari. [[P52]] This removes the worldly existence, there is no doubt” - Shiva’s statement to the gods and sages is consistent with the stated meaning.
मूलम्
उपास्योऽयं हरिर् विप्रा उपायोऽस्मि हरेः स्मृतौ ॥ [[प्५२]] एष संसार-विभवं व्यपोहति न संशयः” इति देवान् ऋषींश् च प्रति शिव-वचनम् उक्तार्थकं संगच्छते ।
विश्वास-प्रस्तुतिः
एतेन उमा-सहायं ध्यात्वा मुनिर् भवति मननाख्य-विष्णु-ज्ञान-वान् भवति, विष्णु-ज्ञानेन च भूत-योनिं गच्छतीत्य् अर्थ-वर्णनं वाक्य-भेदापादकं प्रौढि-मात्रेणोक्तम् इत्य् अवगन्तव्यम् ।
En - Gemini 2.5
By this, the interpretation that “having meditated on Uma-sahaya, the sage becomes possessed of knowledge of Vishnu, which is contemplation, and by the knowledge of Vishnu, he attains the source of beings” is understood to be a mere assertion that causes a syntactic break in the sentence.
मूलम्
एतेन उमा-सहायं ध्यात्वा मुनिर् भवति मननाख्य-विष्णु-ज्ञान-वान् भवति, विष्णु-ज्ञानेन च भूत-योनिं गच्छतीत्य् अर्थ-वर्णनं वाक्य-भेदापादकं प्रौढि-मात्रेणोक्तम् इत्य् अवगन्तव्यम् ।
विश्वास-प्रस्तुतिः
एतेन भूत-योनेस् तत्-क्रतु-न्यायेनोमा-सहायत्वावश्यिकत्वेन “स ब्रह्मा स शिवः स-इन्द्रः सोऽक्षरः परमः स्व-राट्, स एव विष्णुः” इत्यादाव् उपरितन-ग्रन्थे स इति तच्-छब्देनोमा-सहाय-भूत-योनिम् अनूद्य ब्रह्मादीनां विभूतित्व-कथनेन तुरीयम् उमा-सहायं ब्रह्म सिध्यतीति शिव-तत्त्व-विवेकोक्तम् अपास्तं, अनुपदोक्त-रीत्या भूत-योनेर् विष्णु-रूपत्वात् तत्-क्रतु-न्यायस्य चाप्रसराद् उमा-सहायस्य तुरीयत्व-कथनासिद्धेः ।
En - Gemini 2.5
By this, the argument in Shiva-Tattva-Viveka that the Bhutayoni (source of beings) must necessarily be Uma-sahaya due to the Tat-Kratu Nyaya, and that in the later text, “Sa Brahma sa Shivaḥ sa-Indraḥ so ‘kṣaraḥ Paramaḥ Svarāṭ, sa eva Viṣṇuḥ” (He is Brahma, He is Shiva, He is Indra, He is the Imperishable, the Supreme Self-effulgent, He alone is Vishnu), where Uma-sahaya-Bhutayoni is referred to by the word “Sa” (He) and Brahma and others are described as His manifestations, thereby establishing Uma-sahaya as the Turiya (fourth) Brahman, is refuted. This is because, as stated previously, Bhutayoni is in the form of Vishnu, the Tat-Kratu Nyaya does not apply, and thus the statement of Uma-sahaya’s Turiya-nature is not established.
मूलम्
एतेन भूत-योनेस् तत्-क्रतु-न्यायेनोमा-सहायत्वावश्यिकत्वेन “स ब्रह्मा स शिवः स-इन्द्रः सोऽक्षरः परमः स्व-राट्, स एव विष्णुः” इत्यादाव् उपरितन-ग्रन्थे स इति तच्-छब्देनोमा-सहाय-भूत-योनिम् अनूद्य ब्रह्मादीनां विभूतित्व-कथनेन तुरीयम् उमा-सहायं ब्रह्म सिध्यतीति शिव-तत्त्व-विवेकोक्तम् अपास्तं, अनुपदोक्त-रीत्या भूत-योनेर् विष्णु-रूपत्वात् तत्-क्रतु-न्यायस्य चाप्रसराद् उमा-सहायस्य तुरीयत्व-कथनासिद्धेः ।
विश्वास-प्रस्तुतिः
वस्तुतस् तु त्रि-मूर्तीनां मध्ये “स ब्रह्मा स शिवः” इति विधि-शिवयोर् विभूतित्व-कथने एव-कारो न दृश्यते ।
En - Gemini 2.5
In reality, however, among the Trimurtis, in the statement of Brahma and Shiva as manifestations, “Sa Brahma sa Shivaḥ” (He is Brahma, He is Shiva), the word “eva” (alone) is not seen.
मूलम्
वस्तुतस् तु त्रि-मूर्तीनां मध्ये “स ब्रह्मा स शिवः” इति विधि-शिवयोर् विभूतित्व-कथने एव-कारो न दृश्यते ।
विश्वास-प्रस्तुतिः
त्रि-मूर्त्य्-अन्तर्गत-विष्णोः स एव विष्णुर् इति भूत-योनिम् अनूद्य विष्णुत्वोक्तौ एव-कारो दृश्यते ।
En - Gemini 2.5
However, in the statement identifying the Bhutayoni with Vishnu, “Sa eva Vishnuḥ” (He alone is Vishnu), where Vishnu is included in the Trimurti, the word “eva” is seen.
मूलम्
त्रि-मूर्त्य्-अन्तर्गत-विष्णोः स एव विष्णुर् इति भूत-योनिम् अनूद्य विष्णुत्वोक्तौ एव-कारो दृश्यते ।
विश्वास-प्रस्तुतिः
तेन चावगम्यते भूत-योनिर् एव विष्णुः, न तु विधि-शिवाव् इव भूत-योनि-विभूतिर् इति तुरीय-चेतनस्य द्वितीयस्य च स्वरूपैक्यं प्रतीयत इत्य् अलम् ।
En - Gemini 2.5
By this, it is understood that Bhutayoni is indeed Vishnu, and not a manifestation of Bhutayoni like Brahma and Shiva; thus, the identity of the Turiya (fourth) consciousness and the second consciousness is perceived; enough of this.
मूलम्
तेन चावगम्यते भूत-योनिर् एव विष्णुः, न तु विधि-शिवाव् इव भूत-योनि-विभूतिर् इति तुरीय-चेतनस्य द्वितीयस्य च स्वरूपैक्यं प्रतीयत इत्य् अलम् ।
अथर्व-शिखोपनिषद्-विलासः ।
En - Gemini 2.5
The Splendor of the Atharva-Shikha Upanishad.
विश्वास-प्रस्तुतिः
शिखायां मात्राः स्युः प्रणव-घटकास् तासु चरमा द्वितीया-देवैक्यं भजति तटिता स्वाङ्ग-नियतेः ।
En - Gemini 2.5
In the Shikha, the matras (syllables) are components of Pranava; among them, the last one attains identity with the second deity (Vishnu) due to its self-regulation, like lightning.
मूलम्
शिखायां मात्राः स्युः प्रणव-घटकास् तासु चरमा द्वितीया-देवैक्यं भजति तटिता स्वाङ्ग-नियतेः ।
विश्वास-प्रस्तुतिः
तुरीयो देवोऽतो हरिर् अवगतो नेतर इति प्रसूति-त्यागोक्तिर् विधि-मुख-सुरालम्बन-परा ॥
En - Gemini 2.5
Therefore, the Turiya (fourth) deity is understood to be Hari, and not another, so the statement of origin and abandonment is aimed at gods headed by Brahma.
मूलम्
तुरीयो देवोऽतो हरिर् अवगतो नेतर इति प्रसूति-त्यागोक्तिर् विधि-मुख-सुरालम्बन-परा ॥
विश्वास-प्रस्तुतिः
यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्य् अभिसंविशन्ति तद् विजिज्ञासस्व तद् ब्रह्म इति-श्रुति- “जन्माद्यस्य यतः” इति-सूत्राभ्यां ब्रह्म-लक्षणतयोक्तं जगद्-उत्पत्ति-स्थिति-लय-त्रय-कारणत्वं हरि-हर-विरिञ्चानां मध्ये किं-निष्ठम् इति विशये विनिगमकाभावात् त्रय-निष्ठम् इति प्राप्तेऽभिधीयते— जन्मादि-सूत्रोक्त-ब्रह्म-लक्षणं न विधि-शिवयोः संभवति, तत्-सूत्रे जन्म आदि यस्य तज्-जन्मादि अस्य परिदृश्यमान-प्रपञ्चस्य यतस् तद् ब्रह्मेत्य् अर्थः प्रतीयते ।
En - Gemini 2.5
From the Shruti “From whom indeed these beings are born, by whom, having been born, they live, into whom, when departing, they enter — that seek to know; that is Brahman” and the Sutra “Janmadyasya yataḥ” (From whom is the origin, etc., of this), the causality of the three (creation, sustenance, and dissolution) of the world is stated as the definition of Brahman. In the doubt as to which of Hari, Hara, and Viriñcha (Brahma) this causality belongs, since there is no deciding factor, the prima facie view is that it belongs to all three. To this, it is stated: the definition of Brahman given in the Janmadi-sutra (Sutra on origin, etc.) is not possible for Brahma and Shiva, as the Sutra implies that Brahman is the source from which originates this perceptible universe, whose beginning is birth.
मूलम्
यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्य् अभिसंविशन्ति तद् विजिज्ञासस्व तद् ब्रह्म इति-श्रुति- “जन्माद्यस्य यतः” इति-सूत्राभ्यां ब्रह्म-लक्षणतयोक्तं जगद्-उत्पत्ति-स्थिति-लय-त्रय-कारणत्वं हरि-हर-विरिञ्चानां मध्ये किं-निष्ठम् इति विशये विनिगमकाभावात् त्रय-निष्ठम् इति प्राप्तेऽभिधीयते— जन्मादि-सूत्रोक्त-ब्रह्म-लक्षणं न विधि-शिवयोः संभवति, तत्-सूत्रे जन्म आदि यस्य तज्-जन्मादि अस्य परिदृश्यमान-प्रपञ्चस्य यतस् तद् ब्रह्मेत्य् अर्थः प्रतीयते ।
विश्वास-प्रस्तुतिः
तेन च जगज्-जन्म-स्थिति-लय-त्रय-कारणत्वं ब्रह्मणो लक्षणम् इति सिध्यति, न तु जन्म- [[प्५३]] कारणत्व-मात्रं स्थिति-कारणत्व-मात्रं लय-कारणत्व-मात्रम् ।
En - Gemini 2.5
By this, it is established that the causality of the three (creation, sustenance, and dissolution) of the world is the definition of Brahman, and not merely the causality of creation, or merely the causality of sustenance, or merely the causality of dissolution. [[P53]]
मूलम्
तेन च जगज्-जन्म-स्थिति-लय-त्रय-कारणत्वं ब्रह्मणो लक्षणम् इति सिध्यति, न तु जन्म- [[प्५३]] कारणत्व-मात्रं स्थिति-कारणत्व-मात्रं लय-कारणत्व-मात्रम् ।
विश्वास-प्रस्तुतिः
जन्म-कारणत्व-मात्रस्य ब्रह्म-लक्षणत्वे सूत्रे जन्मास्येति निर्देष्टव्यम् ।
En - Gemini 2.5
If only the causality of creation were the definition of Brahman, the Sutra would have to state “Janmasya” (Its origin).
मूलम्
जन्म-कारणत्व-मात्रस्य ब्रह्म-लक्षणत्वे सूत्रे जन्मास्येति निर्देष्टव्यम् ।
विश्वास-प्रस्तुतिः
न तु जन्माद्यस्येति, आदि-शब्दस्य निष्प्रयोजनत्वात् ।
En - Gemini 2.5
But not “Janmādyasya” (Its origin, etc.), because the word “ādi” (etc.) would be redundant.
मूलम्
न तु जन्माद्यस्येति, आदि-शब्दस्य निष्प्रयोजनत्वात् ।
विश्वास-प्रस्तुतिः
श्रुताव् अपि जन्म-स्थिति-लय-त्रयाश्रयं तच्-छब्देनानूद्य ब्रह्मत्वोक्त्या त्रय-कारणत्वम् एव ब्रह्म-लक्षणम् इत्य् उक्तं भवति ।
En - Gemini 2.5
In the Shruti too, by referring to the substratum of the three (creation, sustenance, and dissolution) with the pronoun “tat” (that) and then stating its Brahmanhood, it is implied that the causality of the three alone is the definition of Brahman.
मूलम्
श्रुताव् अपि जन्म-स्थिति-लय-त्रयाश्रयं तच्-छब्देनानूद्य ब्रह्मत्वोक्त्या त्रय-कारणत्वम् एव ब्रह्म-लक्षणम् इत्य् उक्तं भवति ।
विश्वास-प्रस्तुतिः
अन्यथा यतो वा इमानि भूतानि जायन्ते तद् ब्रह्म, येन जातानि जीवन्ति तद् ब्रह्मेति जन्माद्य्-एकैकाश्रयानुवादार्थं तत्र तत्र तत्-पदं स्यात् ।
En - Gemini 2.5
Otherwise, if it were to refer to each single aspect of origin and so on, then “From whom, indeed, these beings are born, that is Brahman,” and “By whom, having been born, they live, that is Brahman,” the word “tat” (that) would be present repeatedly for the sake of reiterating each single substratum of origin and so on.
मूलम्
अन्यथा यतो वा इमानि भूतानि जायन्ते तद् ब्रह्म, येन जातानि जीवन्ति तद् ब्रह्मेति जन्माद्य्-एकैकाश्रयानुवादार्थं तत्र तत्र तत्-पदं स्यात् ।
विश्वास-प्रस्तुतिः
ईदृशं च जन्मादि-त्रय-कारणत्वं न क्वचिद् अपि श्रुतौ विधि-शिवयोः प्रतिपादितं दृश्यते ।
En - Gemini 2.5
And such causality of the three (creation, sustenance, and dissolution) is nowhere seen to be attributed to Brahma and Shiva in any Shruti.
मूलम्
ईदृशं च जन्मादि-त्रय-कारणत्वं न क्वचिद् अपि श्रुतौ विधि-शिवयोः प्रतिपादितं दृश्यते ।
विश्वास-प्रस्तुतिः
विष्णौ तु “नारायणाद् ब्रह्मा जायते”, “नारायणाद् रुद्रो जायते”, “नारायणाद् इन्द्रो जायते”, “नारायणाद् द्वादशादित्या रुद्रा वसवः सर्वाणि च्छन्दांसि नारायणद् एव समुत्पद्यन्ते नारायणे प्रवर्धन्ते नारायणे प्रलीयन्ते ब्रह्मा नारायणः शिवश् च नारायणः शक्रश् च नारायणः नारायण एवेदं सर्वम्” इति नारायणोपनिषदि त्रि-पाद्-विभूति-नारायणोपनिषदि च विधि-शिवादि-कृत्स्न-जगद्-उत्पत्ति-स्थिति-लय-कारणत्वं कथितम् अस्ति ।
En - Gemini 2.5
However, concerning Vishnu, in the Narayana Upanishad and the Tripad Vibhuti Narayana Upanishad, the causality of the origin, sustenance, and dissolution of the entire universe, including Brahma and Shiva, is stated: “From Narayana, Brahma is born,” “From Narayana, Rudra is born,” “From Narayana, Indra is born,” “From Narayana alone originate the twelve Adityas, Rudras, Vasus, and all meters; in Narayana they flourish; in Narayana they dissolve. Brahma is Narayana; Shiva is also Narayana; Indra is also Narayana; Narayana indeed is all this.”
मूलम्
विष्णौ तु “नारायणाद् ब्रह्मा जायते”, “नारायणाद् रुद्रो जायते”, “नारायणाद् इन्द्रो जायते”, “नारायणाद् द्वादशादित्या रुद्रा वसवः सर्वाणि च्छन्दांसि नारायणद् एव समुत्पद्यन्ते नारायणे प्रवर्धन्ते नारायणे प्रलीयन्ते ब्रह्मा नारायणः शिवश् च नारायणः शक्रश् च नारायणः नारायण एवेदं सर्वम्” इति नारायणोपनिषदि त्रि-पाद्-विभूति-नारायणोपनिषदि च विधि-शिवादि-कृत्स्न-जगद्-उत्पत्ति-स्थिति-लय-कारणत्वं कथितम् अस्ति ।
विश्वास-प्रस्तुतिः
अतो जिज्ञास्यं ब्रह्म विष्णुर् एवेति ।
En - Gemini 2.5
Therefore, the Brahman to be known is indeed Vishnu.
मूलम्
अतो जिज्ञास्यं ब्रह्म विष्णुर् एवेति ।
विश्वास-प्रस्तुतिः
ननु “ध्यायीतेशानं, प्रध्यायितव्यं, इदं सर्वं ब्रह्म-विष्णु-रुद्रेन्द्राः संप्रसूयन्ते सह भूतैः सर्वाणि चेन्द्रियाणि, न कारणं कारणानां धाता ध्याता कारणं तु ध्येयः सर्वैश्वर्य-संपन्नः सर्वेश्वरः शंभुर् आकाश-मध्ये सर्वम् अन्यत् परित्यज्य शिव एको ध्येयः शिवंकरः इति समाप्ताथर्व-शिखा” इत्य् अथर्व-शिखोपनिषद्-वाक्येन विष्णोर् जननोक्त्या न तस्य पर-ब्रह्मत्वं संभवतीति चेन् न; अस्याम् उपनिषद्य् उपक्रमे “प्रथमा रक्त-पीता महद्-ब्रह्म-दैवत्या द्वितीया विद्युन्-मती कृष्णा विष्णु-दैवत्या तृतीया शुभाशुभा शुक्ला रुद्र-दैवत्या यावसानेऽस्य चतुर्थ्य्-अर्ध-मात्रा सा विद्युन्-मती सर्व-वर्णा पुरुष-दैवत्या” इति विष्णु-दैवत्य-द्वितीय-मात्रायाः पुरुष-दैवत्य-चतुर्थार्ध-मात्रायाश् च विद्युन्-मतीत्वोक्त्या इतरयोश् च तद्-अनुक्त्या द्वितीयार्ध-मात्रा-देवतयोः विष्णु-पुरुषयोर् ऐक्य-सिद्ध्य्-आर्ध-मात्रा-दैव-पुरुषस्य परमात्मनः “नादान्ते परमात्मनि संप्रतिष्ठाप्य ध्यायीतेशानम्” इत्य् उपरिन-वाक्येन प्रणवान्तार्ध-मात्रा-रूपत्वस्य कथनेन वाच्य-वाचकयोस् तादात्म्य-रीत्यार्ध-मात्रा-देवतायाः पुरुषस्य परमात्मत्वं निष्प्रत्यूहम् इति शैवैर् अप्य् अभ्युपगमेन तादृश-परमात्माभिन्नस्य विष्णोर् ब्रह्म-विष्णु-रुद्रेन्द्राः संप्रसूयन्ते [[प्५४]] इत्यत्र मुख्योत्पत्ति-स्वीकारे परमात्मन एवोत्पत्तिर् उक्ता स्यात् ।
En - Gemini 2.5
Now, if it is argued that Vishnu’s Supreme Brahmanhood is not possible due to the Atharvashikha Upanishad passage stating Vishnu’s birth: “Meditate on Ishana, to be meditated upon; all this, Brahma, Vishnu, Rudra, and Indra, along with beings and all senses, originate; the cause of causes is not the creator, the meditator, but the cause is to be meditated upon, full of all lordships, the supreme lord Shambhu; in the midst of space, abandoning everything else, Shiva alone is to be meditated upon, the auspicious one” - that is not correct. For, in the introduction of this Upanishad, it states: “The first (Matra) is red-yellow, presided over by Mahābrahman; the second is brilliant, black, presided over by Vishnu; the third is auspicious-inauspicious, white, presided over by Rudra; and the fourth half-matra at the end is brilliant, all-colored, presided over by Purusha.” Since the second matra, presided over by Vishnu, and the fourth half-matra, presided over by Purusha, are stated to be brilliant, and the other two are not so stated, the unity of Vishnu and Purusha, who are the deities of the second and half-matras, is established. Since the Purusha, the deity of the half-matra, is the Supreme Self, as stated by the subsequent passage “Having firmly established in the Supreme Self at the end of the sound, one should meditate on Ishana,” and since Pranava is of the nature of the concluding half-matra, and by the principle of identity between the denoter and the denoted, the Purusha, the deity of the half-matra, is unimpededly the Supreme Self, and since this is accepted even by Shaivas, if Vishnu, who is identical with such a Supreme Self, is taken to have primary birth in “Brahma, Vishnu, Rudra, Indra originate,” then the Supreme Self Himself would be stated to have birth. [[P54]]
मूलम्
ननु “ध्यायीतेशानं, प्रध्यायितव्यं, इदं सर्वं ब्रह्म-विष्णु-रुद्रेन्द्राः संप्रसूयन्ते सह भूतैः सर्वाणि चेन्द्रियाणि, न कारणं कारणानां धाता ध्याता कारणं तु ध्येयः सर्वैश्वर्य-संपन्नः सर्वेश्वरः शंभुर् आकाश-मध्ये सर्वम् अन्यत् परित्यज्य शिव एको ध्येयः शिवंकरः इति समाप्ताथर्व-शिखा” इत्य् अथर्व-शिखोपनिषद्-वाक्येन विष्णोर् जननोक्त्या न तस्य पर-ब्रह्मत्वं संभवतीति चेन् न; अस्याम् उपनिषद्य् उपक्रमे “प्रथमा रक्त-पीता महद्-ब्रह्म-दैवत्या द्वितीया विद्युन्-मती कृष्णा विष्णु-दैवत्या तृतीया शुभाशुभा शुक्ला रुद्र-दैवत्या यावसानेऽस्य चतुर्थ्य्-अर्ध-मात्रा सा विद्युन्-मती सर्व-वर्णा पुरुष-दैवत्या” इति विष्णु-दैवत्य-द्वितीय-मात्रायाः पुरुष-दैवत्य-चतुर्थार्ध-मात्रायाश् च विद्युन्-मतीत्वोक्त्या इतरयोश् च तद्-अनुक्त्या द्वितीयार्ध-मात्रा-देवतयोः विष्णु-पुरुषयोर् ऐक्य-सिद्ध्य्-आर्ध-मात्रा-दैव-पुरुषस्य परमात्मनः “नादान्ते परमात्मनि संप्रतिष्ठाप्य ध्यायीतेशानम्” इत्य् उपरिन-वाक्येन प्रणवान्तार्ध-मात्रा-रूपत्वस्य कथनेन वाच्य-वाचकयोस् तादात्म्य-रीत्यार्ध-मात्रा-देवतायाः पुरुषस्य परमात्मत्वं निष्प्रत्यूहम् इति शैवैर् अप्य् अभ्युपगमेन तादृश-परमात्माभिन्नस्य विष्णोर् ब्रह्म-विष्णु-रुद्रेन्द्राः संप्रसूयन्ते [[प्५४]] इत्यत्र मुख्योत्पत्ति-स्वीकारे परमात्मन एवोत्पत्तिर् उक्ता स्यात् ।
विश्वास-प्रस्तुतिः
तथा सति शून्य-वादः प्रसज्जेत ।
En - Gemini 2.5
In that case, nihilism would follow.
मूलम्
तथा सति शून्य-वादः प्रसज्जेत ।
विश्वास-प्रस्तुतिः
अत उपक्रमाविरोधाद् विष्णोर् जनिर् अवतार-रूपोच्यते न तु मुख्यत इत्य् अवगमेन विष्णोः पर-ब्रह्मत्वाविरोधात् ।
En - Gemini 2.5
Therefore, to avoid contradiction with the introductory passage, Vishnu’s birth is said to be in the form of an incarnation and not primarily, thereby establishing that Vishnu’s Supreme Brahmanhood is not contradicted.
मूलम्
अत उपक्रमाविरोधाद् विष्णोर् जनिर् अवतार-रूपोच्यते न तु मुख्यत इत्य् अवगमेन विष्णोः पर-ब्रह्मत्वाविरोधात् ।
विश्वास-प्रस्तुतिः
किं च “ध्यायीतेशानम्” इत्य् उपक्रमे यद् ध्यानं विहितं तस्यैवार्थस्य “शिव एको ध्येयः शिवंकरः” इत्य् उपसंहारात् उपक्रमोपसंहारयोर् एकार्थत्वे एक-वाक्यत्वेन तद्-घटकी-भूतानां तन्-मध्य-पतितानाम् अपि सर्वेषां विधायक-प्रत्यय-घटितानाम् अप्य् अर्थ-वत्त्वस्य “पौर्ण-मासीवद् उपांशु-याजः स्यात्” इति उपांशु-याजाधिकरणे स्थापित-न्यायेन “इदं सर्वं ब्रह्म-विष्णु-रुद्रेन्द्राः संप्रसूयन्ते” इत्यादेर् अर्थ-वादत्वावश्यिकतयार्थ-वादस्य च “स्तुति-मात्रम् उपादानाद् इति चेन् नापूर्वत्वात्”, “स्तुतयेऽनुमतिर् वा” इत्य् उत्तर-तन्त्र-सूत्र-रीत्या स्वार्थ-तात्पर्याभासस्यावगत्या उक्तार्थ-वाद-वाक्येन विष्णूत्पत्तेर् वक्तुम् अशक्यत्वाच् च तस्य पर-ब्रह्मत्वं निष्प्रत्यूहम् ।
En - Gemini 2.5
Furthermore, since the meditation enjoined in the introduction “Dhyāyītā’īśānam” (One should meditate on Ishana) has the same meaning as the concluding statement “Shiva eko dhyeyaḥ Shivankaraḥ” (Shiva alone is to be meditated upon, the auspicious one), and if the introduction and conclusion have the same meaning, they form a single sentence, and by the principle established in the Upāṁśuyāja-adhikaraṇa (section on silent sacrifice), “Paurnamāsīvad upāṁśuyājaḥ syāt” (The silent sacrifice should be like the full moon sacrifice), all the prescriptive statements, including those in the middle, are meaningful, and thus “Idaṃ sarvaṃ Brahma-Viṣṇu-Rudrendrāḥ saṃprasūyante” (All this, Brahma, Vishnu, Rudra, Indra, originate) and so on, are necessarily Arthavadas (eulogies). Since Arthavadas, according to the later Mimamsa Sutras “Stuti-mātram upādānād iti cen nāpūrvatvāt” (If it is said that it is merely praise because of its mention, no, because it is unprecedented) and “Stutaye ’numatir vā” (Or it is an approval for praise), are not meant literally, it is impossible to state Vishnu’s origin by the said Arthavada passage, and therefore His Supreme Brahmanhood is unimpeded.
मूलम्
किं च “ध्यायीतेशानम्” इत्य् उपक्रमे यद् ध्यानं विहितं तस्यैवार्थस्य “शिव एको ध्येयः शिवंकरः” इत्य् उपसंहारात् उपक्रमोपसंहारयोर् एकार्थत्वे एक-वाक्यत्वेन तद्-घटकी-भूतानां तन्-मध्य-पतितानाम् अपि सर्वेषां विधायक-प्रत्यय-घटितानाम् अप्य् अर्थ-वत्त्वस्य “पौर्ण-मासीवद् उपांशु-याजः स्यात्” इति उपांशु-याजाधिकरणे स्थापित-न्यायेन “इदं सर्वं ब्रह्म-विष्णु-रुद्रेन्द्राः संप्रसूयन्ते” इत्यादेर् अर्थ-वादत्वावश्यिकतयार्थ-वादस्य च “स्तुति-मात्रम् उपादानाद् इति चेन् नापूर्वत्वात्”, “स्तुतयेऽनुमतिर् वा” इत्य् उत्तर-तन्त्र-सूत्र-रीत्या स्वार्थ-तात्पर्याभासस्यावगत्या उक्तार्थ-वाद-वाक्येन विष्णूत्पत्तेर् वक्तुम् अशक्यत्वाच् च तस्य पर-ब्रह्मत्वं निष्प्रत्यूहम् ।
विश्वास-प्रस्तुतिः
एतेन “विष्णुर् इत्था परमम् अस्य विद्वान् जातो बृहन्न् अभिपाति तृतीयम्” इति ऋग्-वेद-श्रुत्या विष्णोर् उत्पत्तिर् इत्य् उक्तम् अपास्तम् ।
En - Gemini 2.5
By this, the statement that Vishnu’s origin is found in the Rig-Veda Shruti “Vishṇur itthā paramaṃ asya vidvān jāto bṛhan abhipāti tṛtīyam” (Vishnu, thus knowing His supreme abode, having been born great, protects the third) is refuted.
मूलम्
एतेन “विष्णुर् इत्था परमम् अस्य विद्वान् जातो बृहन्न् अभिपाति तृतीयम्” इति ऋग्-वेद-श्रुत्या विष्णोर् उत्पत्तिर् इत्य् उक्तम् अपास्तम् ।
विश्वास-प्रस्तुतिः
उक्त-श्रुत्या विष्णूत्पत्तेर् एवाप्रतिपादनात् विष्णुर् बृहञ् जात इत्य् अन्वये उत्पत्तिर् उक्ता भवेत् ।
En - Gemini 2.5
Since the said Shruti does not even state Vishnu’s origin, and if “Vishnuḥ bṛhat jātaḥ” (Vishnu was born great) were the construction, then origin would be stated.
मूलम्
उक्त-श्रुत्या विष्णूत्पत्तेर् एवाप्रतिपादनात् विष्णुर् बृहञ् जात इत्य् अन्वये उत्पत्तिर् उक्ता भवेत् ।
विश्वास-प्रस्तुतिः
स चायुक्तः ।
En - Gemini 2.5
And that is inappropriate.
मूलम्
स चायुक्तः ।
विश्वास-प्रस्तुतिः
अव्यवहितान्वय-संभवे व्यवहितान्वयस्यासंभवात् ।
En - Gemini 2.5
Because a disconnected construction is not possible when an immediate one is.
मूलम्
अव्यवहितान्वय-संभवे व्यवहितान्वयस्यासंभवात् ।
विश्वास-प्रस्तुतिः
इत्थेति पदेन विष्णोर् अन्वयं स्वीकृत्य वाक्यं पद-द्वयात्मकं परिसमाप्य अस्येति पदेन पद-द्वयात्मक-वाक्योः-पात्तस्य परामर्शनीयतया विष्णोर् इत्यस्य बृहञ् जात इत्य् अन्वये अस्येति-पद-परामर्शनीयर्थासंगति-प्रसङ्गाच् च ।
En - Gemini 2.5
If the connection of Vishnu with “ittham” (thus) is accepted, and the sentence is concluded as a two-word phrase, and then the word “asya” (of this) is taken to refer back to what was mentioned in the two-word phrase, then connecting “Vishnuḥ” with “bṛhat jātaḥ” (born great) would lead to inconsistency with the referent of “asya.”
मूलम्
इत्थेति पदेन विष्णोर् अन्वयं स्वीकृत्य वाक्यं पद-द्वयात्मकं परिसमाप्य अस्येति पदेन पद-द्वयात्मक-वाक्योः-पात्तस्य परामर्शनीयतया विष्णोर् इत्यस्य बृहञ् जात इत्य् अन्वये अस्येति-पद-परामर्शनीयर्थासंगति-प्रसङ्गाच् च ।
विश्वास-प्रस्तुतिः
प्रत्युत विष्णोर् महा-हिमत्वम् एवानया श्रुत्या प्रतिपाद्यते विष्णुः इत्था पूर्वोक्तैवम् आदि-गुण-विशिष्टः, अतोऽस्य विष्णोः परमं पदं विद्वान् जानन् पुरुषः बृहञ् जातः महत्त्वं प्राप्तवान्, तृतीयं भूमि-स्वर्गापेक्षया तृतीयं सत्य-लोकाख्यं स्थानं पाति रक्षति चतुर्मुख-भावं प्राप्नोतीति श्रुत्य्-अर्थः स्वारसिकः प्रतीयते ।
En - Gemini 2.5
On the contrary, this Shruti actually states Vishnu’s great glory: “Vishnu is thus endowed with the aforementioned qualities; therefore, a person who knows the supreme abode of this Vishnu, having become great, protects the third realm, which is Satyaloka, the third in relation to earth and heaven, and attains the state of the four-faced Brahma” - this natural meaning of the Shruti is perceived.
मूलम्
प्रत्युत विष्णोर् महा-हिमत्वम् एवानया श्रुत्या प्रतिपाद्यते विष्णुः इत्था पूर्वोक्तैवम् आदि-गुण-विशिष्टः, अतोऽस्य विष्णोः परमं पदं विद्वान् जानन् पुरुषः बृहञ् जातः महत्त्वं प्राप्तवान्, तृतीयं भूमि-स्वर्गापेक्षया तृतीयं सत्य-लोकाख्यं स्थानं पाति रक्षति चतुर्मुख-भावं प्राप्नोतीति श्रउत्य्-अर्थः स्वारसिकः प्रतीयते ।
विश्वास-प्रस्तुतिः
यत् तु शिव-तत्त्व-विवेके “विष्णुर् वाकामयत पुण्यं श्लोकं शृण्वानीति न मा पापिनी कीर्तिर् आगच्छेद् इति स एतं विष्णवे शोणायै पुरोडाशं त्रि-कपालं निरवपत्, ततो वै पुण्यं श्लोकम् अशृणुत” इति नक्षत्रेष्ट्य्-अर्थ-वादेन विष्णोः पाप-संबन्धः कर्माधीनम् ऐश्वर्यं च प्रतीयते ।
En - Gemini 2.5
As for the argument in Shiva-Tattva-Viveka that from the Nakṣatreṣṭi-Arthavāda “Viṣṇur vā akāmayata puṇyaṃ ślokaṃ śṛṇvānīti na mā pāpinī kīrtir āgacched iti sa etaṃ Viṣṇave Śoṇāyai puroḍāśaṃ tri-kapālaṃ niravapat, tato vai puṇyaṃ ślokam aśṛṇuta” (Vishnu desired to hear a good reputation, let not sinful fame come to Me; he offered a three-kapāla puroḍāśa to Vishnu and Śoṇā, then indeed he heard a good reputation), Vishnu’s connection with sin and karma-dependent sovereignty are implied.
मूलम्
यत् तु शिव-तत्त्व-विवेके “विष्णुर् वाकामयत पुण्यं श्लोकं शृण्वानीति न मा पापिनी कीर्तिर् आगच्छेद् इति स एतं विष्णवे शोणायै पुरोडाशं त्रि-कपालं निरवपत्, ततो वै पुण्यं श्लोकम् अशृणुत” इति नक्षत्रेष्ट्य्-अर्थ-वादेन विष्णोः पाप-संबन्धः कर्माधीनम् ऐश्वर्यं च प्रतीयते ।
विश्वास-प्रस्तुतिः
शत-पथ-ब्राह्मणे “पुरुषो ह वै नारायणो अकामयत, अतितिष्ठेयं सर्वाणि भूतान्य् अहम् एवेदं सर्वं भूतानीति स इदं सर्वम् अभवत्” इत्यनेन [[प्५५]] पुरुष-मेधार्थ-वादेन पुरुष-सूक्त-सिद्धं सार्वात्म्यं विष्णोः कर्मायत्तं प्रतीयते ।
En - Gemini 2.5
In the Shatapatha Brahmana, by “Puruṣo ha vai Nārāyaṇo akāmayata, atitiṣṭheyaṃ sarvāṇi bhūtāny aham evaidaṃ sarvaṃ bhūtānīti sa idaṃ sarvam abhavat” (Verily, Purusha Narayana desired, ‘May I transcend all beings, may I myself be all these beings’; he became all this), the all-pervasiveness of Vishnu, established by the Purusha Sukta, appears to be dependent on karma, as stated in the context of the Purushamedha Arthavada. [[P55]]
मूलम्
शत-पथ-ब्राह्मणे “पुरुषो ह वै नारायणो अकामयत, अतितिष्ठेयं सर्वाणि भूतान्य् अहम् एवेदं सर्वं भूतानीति स इदं सर्वम् अभवत्” इत्यनेन [[प्५५]] पुरुष-मेधार्थ-वादेन पुरुष-सूक्त-सिद्धं सार्वात्म्यं विष्णोः कर्मायत्तं प्रतीयते ।
विश्वास-प्रस्तुतिः
“वैष्णवं वामनम् आलभेत” इति विध्यानन्तरं श्रुतेन “विष्णुर् एव भूत्वेमाल् लोकान् अभिजयति” इत्य् अर्थ-वादेन विष्णुत्वस्य कर्म-साध्यत्वं प्रतीयते ।
En - Gemini 2.5
After the injunction “One should obtain a Vaishnava Vamana,” it is heard that by the Arthavada “Being Vishnu Himself, he conquers these worlds,” Vishnuhood appears to be attainable through karma.
मूलम्
“वैष्णवं वामनम् आलभेत” इति विध्यानन्तरं श्रुतेन “विष्णुर् एव भूत्वेमाल् लोकान् अभिजयति” इत्य् अर्थ-वादेन विष्णुत्वस्य कर्म-साध्यत्वं प्रतीयते ।
विश्वास-प्रस्तुतिः
तत्रैवाग्नि-प्रकरणे उख्याग्नि-भरण-संनिधौ श्रुतस्य “यद् विष्णु-क्रमान् क्रमते” इति मन्त्रस्य प्रकृत-कर्माङ्ग-भूत-कर्तृ-सं संस्कार-विष्णु-क्रम-प्रतिपादकस्यान्तरम् “विष्णुर् एव भूत्वा यजमानश् छन्दोभिर् इमान् लोकांश् चानभिजय्यान् अभिजयति” इति वाक्येन “द्रव्य-संस्कार-कर्मसु परार्थत्वात् फल-श्रुतिर् अर्थ-वादः स्यात्” इति चातुर्थिक-न्यायाद् अर्थ-वाद-भूतेन विष्णुत्वस्य कर्म-साध्यत्वं प्रतीयते ।
En - Gemini 2.5
In the same context of Agni, near the filling of the fire-altar, the mantra “Yad Vishnu-kraman kramate” (When one strides the Vishnu-strides), which describes the Vishnu-strides that are a purificatory rite for the performer of the current ritual, is followed by the passage “Vishnuḥ eva bhūtvā yajamānaś chandobhir imān lokāṃś cānabhijayyān abhijayati” (The sacrificer, becoming Vishnu himself, conquers these worlds, which are otherwise unconquerable, by means of the meters), and by the principle of the fourth chapter of Mimamsa “Dravya-saṃskāra-karmasu parārthatvāt phala-śrutir artha-vādaḥ syāt” (In the case of substance, purification, and action, if the fruit is stated as being for another, it is an Arthavada), Vishnuhood is perceived as being attainable through karma, being an Arthavada.
मूलम्
तत्रैवाग्नि-प्रकरणे उख्याग्नि-भरण-संनिधौ श्रुतस्य “यद् विष्णु-क्रमान् क्रमते” इति मन्त्रस्य प्रकृत-कर्माङ्ग-भूत-कर्तृ-सं संस्कार-विष्णु-क्रम-प्रतिपादकस्यान्तरम् “विष्णुर् एव भूत्वा यजमानश् छन्दोभिर् इमान् लोकांश् चानभिजय्यान् अभिजयति” इति वाक्येन “द्रव्य-संस्कार-कर्मसु परार्थत्वात् फल-श्रुतिर् अर्थ-वादः स्यात्” इति चातुर्थिक-न्यायाद् अर्थ-वाद-भूतेन विष्णुत्वस्य कर्म-साध्यत्वं प्रतीयते ।
विश्वास-प्रस्तुतिः
छन्दोगानाम् ऋग्-ग्रन्थे “सोमं राजानं वरुणम् अग्निम् अन्वारभामहे ।
En - Gemini 2.5
In the Rig-Grantha of the Chandogas: “We undertake Soma the king, Varuna, Agni.”
मूलम्
छन्दोगानाम् ऋग्-ग्रन्थे “सोमं राजानं वरुणम् अग्निम् अन्वारभामहे ।
विश्वास-प्रस्तुतिः
आदित्यं विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम्” इति सोम-विष्ण्वादीन् प्रकृत्य “इत एत उद् आरुहन् दिवः पृष्ठान्य् आरुहन् प्रभुर् जयो यथा पथो द्याम् अङ्गिरसो ययुः” इति प्रकृत-सोम-विष्ण्वादीन् एत इति परामृश्य तेषां स्वर्गारोहणम् उक्त्वा अङ्गिरसाम् इव विष्ण्वादि-स्वर्गारोहणस्यापि प्रभुर् जय इति पदेन पाक-कर्मणः भ्रस्ज्-धातोर् देवोद्देशेन हविः-पाकार्थतया यज्ञेषु हविषां भर्जनं कृतवन्तः इत्य् अर्थकेन कर्म-साध्यत्वं प्रतीयते ।
En - Gemini 2.5
“Aditya, Vishnu, Surya, Brahma, and Brihaspati” - having introduced Soma, Vishnu, and others, and then referring to these Soma, Vishnu, and others as “etad” (these), it states their ascent to heaven: “From here, these ascended, they ascended to the surfaces of heaven, just as the Angirases, the powerful conquerors, went to heaven by the paths.” And by the word “Prabhu Jay” (powerful conqueror), which refers to the act of cooking from the root “bhraj” (to fry), meaning they performed the frying of oblations in sacrifices for the sake of the gods, the attainment of Vishnuhood, etc., through karma is perceived.
मूलम्
आदित्यं विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम्” इति सोम-विष्ण्वादीन् प्रकृत्य “इत एत उद् आरुहन् दिवः पृष्ठान्य् आरुहन् प्रभुर् जयो यथा पथो द्याम् अङ्गिरसो ययुः” इति प्रकृत-सोम-विष्ण्वादीन् एत इति परामृश्य तेषां स्वर्गारोहणम् उक्त्वा अङ्गिरसाम् इव विष्ण्वादि-स्वर्गारोहणस्यापि प्रभुर् जय इति पदेन पाक-कर्मणः भ्रस्ज्-धातोर् देवोद्देशेन हविः-पाकार्थतया यज्ञेषु हविषां भर्जनं कृतवन्तः इत्य् अर्थकेन कर्म-साध्यत्वं प्रतीयते ।
विश्वास-प्रस्तुतिः
साम-वेद एव मयि वर्च इत्यनेन कल्पेन चत्वारि वर्षाणि प्रयुञ्जानस् त्रयाणां लोकानाम् आधिपत्यं गच्छतीति त्रि-लोकाधिपत्य-रूप-विष्णुत्वस्य कर्म-साध्यत्वं प्रतीयते ।
En - Gemini 2.5
In the Sama Veda itself, by the passage “Mayi Varchas” (radiance in me), it is perceived that one who employs this formula for four years attains lordship over the three worlds, implying that Vishnuhood, in the form of lordship over the three worlds, is attainable through karma.
मूलम्
साम-वेद एव मयि वर्च इत्यनेन कल्पेन चत्वारि वर्षाणि प्रयुञ्जानस् त्रयाणां लोकानाम् आधिपत्यं गच्छतीति त्रि-लोकाधिपत्य-रूप-विष्णुत्वस्य कर्म-साध्यत्वं प्रतीयते ।
विश्वास-प्रस्तुतिः
अतो न विष्णोः पर-ब्रह्मत्वम् इति ।
En - Gemini 2.5
Therefore, Vishnu is not the Supreme Brahman.
मूलम्
अतो न विष्णोः पर-ब्रह्मत्वम् इति ।
विश्वास-प्रस्तुतिः
तत् प्रौढि-वाद-मात्रम् ।
En - Gemini 2.5
That is merely a boastful assertion.
मूलम्
तत् प्रौढि-वाद-मात्रम् ।
विश्वास-प्रस्तुतिः
तद्-उदाहृतार्थ-वाद-वाक्यानां स्वार्थ-तात्पर्याभावेन तैर् विष्णोः कर्माधीनैश्वर्य-वत्त्वासिद्धेः ।
En - Gemini 2.5
Since the cited Arthavada passages do not have their primary meaning, they cannot establish that Vishnu’s sovereignty is dependent on karma.
मूलम्
तद्-उदाहृतार्थ-वाद-वाक्यानां स्वार्थ-तत्पर्याभावेन तैर् विष्णोः कर्माधीनैश्वर्य-वत्त्वासिद्धेः ।
विश्वास-प्रस्तुतिः
अन्यथा “ब्रह्म वा अकामयत ब्रह्म-लोकम् अभिजयेयम् इति, तद् एतं ब्रह्मणे अभिजिते चरुं निरवपत्, ततो वै तद्-ब्रह्म-लोकम् अभिजयत्” इत्यनेन नक्षत्रेष्ट्य्-अर्थ-वादेन नपुंसक-ब्रह्म-शब्द-प्रतिपाद्य-परमात्मनोऽपि कर्माधीनैश्वर्यापत्तेः ।
En - Gemini 2.5
Otherwise, by the Nakṣatreṣṭi-Arthavāda “Brahma vā akāmayata Brahma-lokam abhijayeyam iti, tad etaṃ Brahmane abhijite caruṃ niravapat, tato vai tad-Brahma-lokam abhijayat” (Brahman indeed desired to conquer the world of Brahma; he offered a caru to Brahman, the unconquered; then indeed he conquered the world of Brahma), even the Supreme Self, denoted by the neuter word “Brahman,” would be subject to karma-dependent sovereignty.
मूलम्
अन्यथा “ब्रह्म वा अकामयत ब्रह्म-लोकम् अभिजयेयम् इति, तद् एतं ब्रह्मणे अभिजिते चरुं निरवपत्, ततो वै तद्-ब्रह्म-लोकम् अभिजयत्” इत्यनेन नक्षत्रेष्ट्य्-अर्थ-वादेन नपुंसक-ब्रह्म-शब्द-प्रतिपाद्य-परमात्मनोऽपि कर्माधीनैश्वर्यापत्तेः ।
विश्वास-प्रस्तुतिः
“सत्यं ज्ञानम् अनन्तं ब्रह्म”, “आत्मन आकाशः संभूतः”, “तद् विजिज्ञासस्व तद् ब्रह्म” इत्यादि-श्रुति-विरोधात् ।
En - Gemini 2.5
Because of contradiction with Shrutis like “Satyam jnanam anantam Brahma” (Brahman is truth, knowledge, infinite), “Atmanah akashaḥ sambhutaḥ” (From the Self, space originated), “Tad vijijñāsasva tad Brahma” (That seek to know; that is Brahman).
मूलम्
“सत्यं ज्ञानम् अनन्तं ब्रह्म”, “आत्मन आकाशः संभूतः”, “तद् विजिज्ञासस्व तद् ब्रह्म” इत्यादि-श्रुति-विरोधात् ।
विश्वास-प्रस्तुतिः
“ब्रह्म वाकामयत” इत्यादेर् असद्-अर्थ-वादत्वं यद्याश्रीयते तर्हि नारायणोपनिषत्— “नारायणाद् ब्रह्मा जायते, नारायणाद् रुद्रो जायते, शुद्धो देव एको नारायणः, न द्वितीयोऽस्ति कश्चित्”, यजुः-संहिता— “अग्निर् वै देवानाव् अवमो विष्णुः परमः”, “अग्निर् अग्रे प्रथमो देवतानां संयातानाम् उत्तमो विष्णुर् आसीत्”, “नारायण- [[प्५६]] परं ब्रह्म तत्त्वं नारायणः परः ।
En - Gemini 2.5
If the statements like “Brahma va akamayata” (Brahma indeed desired) and so on are taken as having an indirect meaning (asad-arthavada), then there would be a contradiction with the Narayana Upanishad: “From Narayana, Brahma is born; from Narayana, Rudra is born; the pure deity, Narayana, is one; there is no second one.” And with the Yajus Samhita: “Agni is indeed the lowest of the gods, Vishnu is the highest.” “Agni was the first among the gods who assembled, Vishnu was the highest.” “Narayana is the Supreme Brahman, Narayana is the supreme truth.” [[P56]]
मूलम्
“ब्रह्म वाकामयत” इत्यादेर् असद्-अर्थ-वादत्वं यद्याश्रीयते तर्हि नारायणोपनिषत्— “नारायणाद् ब्रह्मा जायअते, नारायणाद् रुद्रो जायते, शुद्धो देव एको नारायणः, न द्वितीयोऽस्ति कश्चित्”, यजुः-संहिता— “अग्निर् वै देवानाव् अवमो विष्णुः परमः”, “अग्निर् अग्रे प्रथमो देवतानां संयातानाम् उत्तमो विष्णुर् आसीत्”, “नारायण- [[प्५६]] परं ब्रह्म तत्त्वं नारायणः परः ।
विश्वास-प्रस्तुतिः
अन्तर् बहिश् च तत् सर्वं व्याप्य नारायणः स्थितः”, “तस्माद् विराड् अजायत, विराजो अधि पूरुषः”, “तम् एवं विद्वान् अमृत इह भवति नान्यः पन्था अयनाय विद्यते”, महोपनिषत्— “तस्य ध्यानान्तस्य नारायणस्य ललाटात् त्र्यक्षः शूल-पाणिर् अजायत”, ऋक्-संहिता— “विष्णोर् नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजांसि ।
En - Gemini 2.5
“That Narayana pervades all within and without.” “From him Virāj was born; from Virāj, Puruṣa.” “Knowing him thus, one becomes immortal here; there is no other path for liberation.” Mahopanishad: “From the forehead of that Narayana, who is the object of meditation, the three-eyed, trident-wielding (Shiva) was born.” Rig-Samhita: “Now, I shall declare the heroic deeds of Vishnu, who measured the earthly dusts.”
मूलम्
अन्तर् बहिश् च तत् सर्वं व्याप्य नारायणः स्थितः”, “तस्माद् विराड् अजायत, विराजो अधि पूरुषः”, “तम् एवं विद्वान् अमृत इह भवति नान्यः पन्था अयनाय विद्यते”, महोपनिषत्— “तस्य ध्यानान्तस्य नारायणस्य ललाटात् त्र्यक्षः शूल-पाणिर् अजायत”, ऋक्-संहिता— “विष्णोर् नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजांसि ।
विश्वास-प्रस्तुतिः
न ते विष्णो जायमानो न जातो देव-महिम्नः परम् अन्तम् आप ।
En - Gemini 2.5
“O Vishnu, neither one being born nor one who has been born attained the full extent of Your divine greatness.”
मूलम्
न ते विष्णो जायमानो न जातो देव-महिम्नः परम् अन्तम् आप ।
विश्वास-प्रस्तुतिः
विष्णोः पदे परमे मध्व उत्सः, परो मात्रया तन्वा वृधान, न ते महित्वम् अश्नवन्ति”, तैत्तिरीयम्— “नारायणं महा-ज्ञेयम्”, सुबालोपनिषत्— “एष सर्व-भूतान्तरात्मा अपहत-पाप्मा दिव्यो देव एको नारायणः”, राम-तापिनी— “रमन्ते योगिनोऽन्न्ते सत्यानन्दे चिदात्मके ।
En - Gemini 2.5
“In Vishnu’s supreme abode, there is a spring of honey; growing beyond measure in body, they do not attain Your greatness.” Taittiriya: “Narayana is the great knowable.” Subalopanishad: “He is the inner Self of all beings, free from sin, the divine, one God, Narayana.” Rama-tapini: “Yogis rejoice in the endless, true bliss, the conscious Self.”
मूलम्
विष्णोः पदे परमे मध्व उत्सः, परो मात्रया तन्वा वृधान, न ते महित्वम् अश्नवन्ति”, तैत्तिरीयम्— “नारायणं महा-ज्ञेयम्”, सुबालोपनिषत्— “एष सर्व-भूतान्तरात्मा अपहत-पाप्मा दिव्यो देव एको नारायणः”, राम-तापिनी— “रमन्ते योगिनोऽन्न्ते सत्यानन्दे चिदात्मके ।
विश्वास-प्रस्तुतिः
इति राम-पदेनासौ परं ब्रह्माभिधीयते ।
En - Gemini 2.5
“By the word ‘Rama,’ He is called the Supreme Brahman.”
मूलम्
इति राम-पदेनासौ परं ब्रह्माभिधीयते ।
विश्वास-प्रस्तुतिः
अर्ध-मात्रात्मको रामो ब्रह्मानन्दैक-विग्रहः ।
En - Gemini 2.5
“Rama, whose essence is the half-matra, is the sole embodiment of Brahmananda (bliss of Brahman).”
मूलम्
अर्ध-मात्रात्मको रामो ब्रह्मानन्दैक-विग्रहः ।
विश्वास-प्रस्तुतिः
श्री-रामस्य मनुं काश्यां जजाप वृषभ-ध्वजः ।
En - Gemini 2.5
“The Bull-bannered (Shiva) chanted the mantra of Shri Rama in Kashi.”
मूलम्
श्री-रामस्य मनुं काश्यां जजाप वृषभ-ध्वजः ।
विश्वास-प्रस्तुतिः
मन्वन्तर-सहस्रैस् तु जप-होमार्चनादिभिः ।
En - Gemini 2.5
“For thousands of Manvantaras, by chanting, performing oblations, worshipping, etc.”
मूलम्
मन्वन्तर-सहस्रैस् तु जप-होमार्चनादिभिः ।
विश्वास-प्रस्तुतिः
ततः प्रसन्नो भगवान् श्री-रामः प्राह शंकरम् ।
En - Gemini 2.5
“Then the venerable Shri Rama, pleased, said to Shankara.”
मूलम्
ततः प्रसन्नो भगवान् श्री-रामः प्राह शंकरम् ।
विश्वास-प्रस्तुतिः
वृणीष्व यद् अभीष्टं ते दास्यामि परमेश्वर”, गोपाल-तापिनी— “वृषभ-ध्वज-वन्द्याय पार्थ-सारथि-रूपिणे”, कृष्णोपनिषत्— “वने वृन्दावने क्रीडन् गोप-गोपी-सुरैः सह ।
En - Gemini 2.5
“Choose what is desired by you, I shall grant it, O Supreme Lord.” Gopala-Tapini: “To Him who is worshipped by the bull-bannered (Shiva), who is in the form of Partha’s charioteer.” Krishna-Upanishad: “Sporting in the forest of Vrindavana with cowherds, cowherdesses, and gods.”
मूलम्
वृणीष्व यद् अभीष्टं ते दास्यामि परमेश्वर”, गोपाल-तापिनी— “वृषभ-ध्वज-वन्द्याय पार्थ-सारथि-रूपिणे”, कृष्णोपनिषत्— “वने वृन्दावने क्रीडन् गोप-गोपी-सुरैः सह ।
विश्वास-प्रस्तुतिः
गोप्यो गाव ऋचस् तस्य यष्टिका कमलासनः ।
En - Gemini 2.5
“The Gopis are His Rig-Vedas, the cows are His Rig-Vedas, His staff is Kamalasana (Brahma).”
मूलम्
गोप्यो गाव ऋचस् तस्य यष्टिका कमलासनः ।
विश्वास-प्रस्तुतिः
वंशस् तु भगवान् रुद्रः शृङ्गम् इन्द्र-सखोऽसुरः ।
En - Gemini 2.5
“The flute is indeed the venerable Rudra, the horn is the Asura, Indra’s friend.”
मूलम्
वंशस् तु भगवान् रुद्रः शृङ्गम् इन्द्र-सखोऽसुरः ।
विश्वास-प्रस्तुतिः
गो-कुलं वन-वैकुण्ठं तापसास् तत्र ते द्रुमाः ।
En - Gemini 2.5
“Gokula is the forest Vaikuntha, those trees there are ascetics.”
मूलम्
गो-कुलं वन-वैकुण्ठं तापसास् तत्र ते द्रुमाः ।
विश्वास-प्रस्तुतिः
लोभ-क्रोधादयो दैत्याः कलि-कालस् तिरस्कृतः ।
En - Gemini 2.5
“Greed, anger, and others are the demons; the age of Kali is defeated.”
मूलम्
लोभ-क्रोधादयो दैत्याः कलि-कालस् तिरस्कृतः ।
विश्वास-प्रस्तुतिः
गोप-रूपो हरिः साक्षान् माया-विग्रह-धारणः ।
En - Gemini 2.5
“Hari, in the form of a cowherd, is directly assuming an illusory form.”
मूलम्
गोप-रूपो हरिः साक्षान् माया-विग्रह-धारणः ।
विश्वास-प्रस्तुतिः
रुद्रो येन कृतो वंशस् तस्य माया जगत्-कथम् ।
En - Gemini 2.5
“How can the world be an illusion of Him by whom Rudra was made the flute?”
मूलम्
रुद्रो येन कृतो वंशस् तस्य माया जगत्-कथम् ।
विश्वास-प्रस्तुतिः
शेष-नागो भवेद् रामः कृष्णो ब्रह्मैव शाश्वतम्” इत्यादि-नारायणोपनिषद्-उत्तर-नारायण-यजुर्-वेद-ऋक्-संहिता-महोपनिषत्-सुबालोपनिषद्-राम-तापिनी-गोपाल-तापिन्यादि-श्रुति-शत-गतं-वाक्यैर् विरोधात् ।
En - Gemini 2.5
“Shesha-naga should be Rama; Krishna is indeed the eternal Brahman” - due to contradiction with hundreds of Shruti passages found in Narayana Upanishad, Uttara Narayana, Yajur Veda, Rik Samhita, Mahopanishad, Subalopanishad, Rama Tapini, Gopala Tapini, and others.
मूलम्
शेष-नागो भवेद् रामः कृष्णो ब्रह्मैव शाश्वतम्” इत्यादि-नारायणोपनिषद्-उत्तर-नारायण-यजुर्-वेद-ऋक्-संहिता-महोपनिषत्-सुबालोपनिषद्-राम-तापिनी-गोपाल-तापिन्यादि-श्रुति-शत-गतं-वाक्यैर् विरोधात् ।
विश्वास-प्रस्तुतिः
भवद्-उदाहृत-द्वि-त्राद्य्-अर्थ-वादानाम् असद्-अर्थ-वादत्वम् अकामेनाप्य् अङ्गीकर्तव्यं, “विरोधे गुण-वादः स्यात्” इति न्यायात् ।
En - Gemini 2.5
The Arthavadas (eulogies) cited by you, numbering two or three, must be unwillingly accepted as having an indirect meaning, by the maxim “Virodhe guṇavādaḥ syāt” (In case of contradiction, it should be interpreted as a eulogy).
मूलम्
भवद्-उदाहृत-द्वि-त्राद्य्-अर्थ-वादानाम् असद्-अर्थ-वादत्वम् अकामेनाप्य् अङ्गीकर्तव्यं, “विरोधे गुण-वादः स्यात्” इति न्यायात् ।
विश्वास-प्रस्तुतिः
“प्र, भूः, जय” इति पदाध्ययनस्य संप्रदाय-सिद्धत्वेन तद्-विरोधेन भ्रस्ज्-धातु-घटितत्वं प्रभुर् जय इति पदस्याङ्गीकृत्य हविः-पाक-कर्म-कर्तृ-परत्वं प्रभुर् जय-पदस्य स्वीकृत्य विष्णोः कर्माधीनैश्वर्य-वर्णनस्यायुक्तत्वात् मयि वर्च इत्यस्य विष्णु-वाचक-पदाघटितत्वेन विष्णु-परत्वस्यैव दूर-निरस्तत्वात् ।
En - Gemini 2.5
Since the reading of the words “Pra,” “Bhuḥ,” “Jaya” is established by tradition, it is inappropriate to accept that the word “Prabhur Jaya” is composed of the root “bhraj” (to cook) and to interpret “Prabhur Jaya” as referring to the performer of the act of cooking oblations, thereby describing Vishnu’s karma-dependent sovereignty, as it contradicts the traditional reading. Furthermore, the passage “Mayi Varchaḥ” (radiance in me) is far from referring to Vishnu, as it does not contain any word denoting Vishnu.
मूलम्
“प्र, भूः, जय” इति पदाध्ययनस्य संप्रदाय-सिद्धत्वेन तद्-विरोधेन भ्रस्ज्-धातु-घटितत्वं प्रभुर् जय इति पदस्याङ्गीकृत्य हविः-पाक-कर्म-कर्तृ-परत्वं प्रभुर् जय-पदस्य स्वीकृत्य विष्णोः कर्माधीनैश्वर्य-वर्णनस्यायुक्तत्वात् मयि वर्च इत्यस्य विष्णु-वाचक-पदाघटितत्वेन विष्णु-परत्वस्यैव दूर-निरस्तत्वात् ।
विश्वास-प्रस्तुतिः
एतेन प्रजापतौ हर आसीद् इति रुद्रोत्पत्ति-बोधक-तैत्तिरीय-शाखा-वच- [[प्५अ]] नस्य ‘तच्छ्रेयोरूपमत्यसृजत, तत्क्षत्त्रम्, यान्यत्र देवक्षेत्राणि, इन्द्रो वरुणः सोमः पर्जन्यो रुद्रो मृत्युरीशानः’ इति बृहदारण्यकवचनस्य रुद्रे जीवत्वव्याप्यक्षत्त्रियवर्णत्वोत्पत्तिमत्त्वसमर्पकस्य ‘विरूपाक्षोऽसि दन्ताञ्जिस्त्वं देवेषु ब्राह्मणः’ इत्युपक्रमकस्य ‘विरूपाक्षाय दन्ताञ्जये ब्रह्मणः पुत्राय’ इति सामवेदीयप्रपद्मन्त्रस्य जीवत्वव्याप्यब्राह्मणजातिमत्त्वं विरूपाक्षे प्रतिपादयतः अर्थवादत्वं स्यादित्युक्तमपास्तम् ।
En - Gemini 2.5
By this, the assertion that the Taittirīya-śākhā passage “Prajāpatau Hara āsīd” (Hara was in Prajāpati), which indicates Rudra’s origin, and the Brihadaranyaka passage “Tacchreyorūpam atyasṛjata, tat kṣattram, yānyatra devakṣetrāṇi, Indro Varuṇaḥ Somaḥ Parjanyo Rudro Mṛtyurīśānaḥ” (He created that supreme form, that Kshatra, which are the divine Kshatriyas here: Indra, Varuna, Soma, Parjanya, Rudra, Mrityu, Ishana), which establishes Rudra’s birth with Kshatriya-hood pervaded by jīvatva, and the Sāmavedīya Prapad-mantra beginning with “Virūpākṣo’si Dantāñjis tvaṃ deveṣu brāhmaṇaḥ” (You are Virūpākṣa, Dantāñji, you are a Brāhmaṇa among gods), and ending with “Virūpākṣāya Dantāñjaye Brahmaṇaḥ putrāya” (To Virūpākṣa, Dantāñji, the son of Brahmā), which attributes Brāhmaṇa-hood pervaded by jīvatva to Virūpākṣa, would be mere Arthavādas, is refuted. [[P5A]]
मूलम्
एतेन प्रजापतौ हर आसीद् इति रुद्रोत्पत्ति-बोधक-तैत्तिरीय-शाखा-वच- [[प्५अ]] नस्य ‘तच्छ्रेयोरूपमत्यसृजत, तत्क्षत्त्रम्, यान्यत्र देवक्षेत्राणि, इन्द्रो वरुणः सोमः पर्जन्यो रुद्रो मृत्युरीशानः’ इति बृहदारण्यकवचनस्य रुद्रे जीवत्वव्याप्यक्षत्त्रियवर्णत्वोत्पत्तिमत्त्वसमर्पकस्य ‘विरूपाक्षोऽसि दन्ताञ्जिस्त्वं देवेषु ब्राह्मणः’ इत्युपक्रमकस्य ‘विरूपाक्षाय दन्ताञ्जये ब्रह्मणः पुत्राय’ इति सामवेदीयप्रपद्मन्त्रस्य जीवत्वव्याप्यब्राह्मणजातिमत्त्वं विरूपाक्षे प्रतिपादयतः अर्थवादत्वं स्यादित्युक्तमपास्तम् ।
विश्वास-प्रस्तुतिः
अर्थवादलिङ्गस्यापि शब्दस्य ‘ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः’ ‘नमस्ते रुद्र मन्यव उतोत इषवे नमः’ इत्यादिष्विव नमःशब्दस्य अजात इत्येव कश्चिद्भीरुः प्रपद्यते ‘रुद्र यत्ते मुखं दक्षिणं तेन मा पाहि’ इत्यादाविव प्रार्थनालिङ्गस्य ‘वायुर्वे क्षेपिष्ठा देवता’ इत्यादाविव विधिसमभिव्याहारस्यादर्शनेनार्थवादत्वासंभवात् नमःशब्दस्यार्थवादलिङ्गत्वं यद्यपीयं स्तुतिस्तस्मै लोकात्मने नम इति वदद्भिः श्रीमच्छंकरभगवत्पादैः वैश्वानराधिकरणे स्पष्टीकृतम् ।
En - Gemini 2.5
The impossibility of these passages being mere eulogies (Arthavādas) is affirmed because there is no indication of them being Arthavādas, such as the word ’namah’ (salutation) found in passages like ‘Urdhvaretam Virupākṣam Viśvarūpāya vai namaḥ’ (Salutations indeed to the upward-sperm, Virūpākṣa, Viśvarūpa) or ‘Namaste Rudra manyave utota iṣave namaḥ’ (Salutations to you, Rudra, to wrath, and also to your arrow, salutations), or the indication of prayer found in passages like ‘Ajāta ityeva kaścidbhīruḥ prapadyate Rudra yatte mukham dakṣiṇam tena mā pāhi’ (Some fearful one takes refuge only as the unborn, O Rudra, protect me by your southern face), or the co-occurrence with injunctive statements as in ‘Vāyurvai kṣepiṣṭhā devatā’ (Vāyu is indeed the swiftest deity). Although Śrīmat Śaṅkarabhagavatpāda, in the Vaiśvānara Adhikaraṇa, clarified that the word ’namah’ indicates an Arthavāda, stating ’this is indeed praise, salutations to that universal Self.’
मूलम्
अर्थवादलिङ्गस्यापि शब्दस्य ‘ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः’ ‘नमस्ते रुद्र मन्यव उतोत इषवे नमः’ इत्यादिष्विव नमःशब्दस्य अजात इत्येव कश्चिद्भीरुः प्रपद्यते ‘रुद्र यत्ते मुखं दक्षिणं तेन मा पाहि’ इत्यादाविव प्रार्थनालिङ्गस्य ‘वायुर्वे क्षेपिष्ठा देवता’ इत्यादविव विधिसमभिव्याहारस्यादर्शनेनार्थवादत्वासंभवात् नमःशब्दस्यार्थवादलिङ्गत्वं यद्यपीयं स्तुतिस्तस्मै लोकात्मने नम इति वदद्भिः श्रीमच्छंकरभगवत्पादैः वैश्वानराधिकरणे स्पष्टीकृतम् ।
विश्वास-प्रस्तुतिः
‘यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः ।
En - Gemini 2.5
“Whose mouth is Agni, whose head is heaven, whose navel is space, whose feet are earth.”
मूलम्
‘यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः ।
विश्वास-प्रस्तुतिः
सूर्यश्चक्षुर्दिशः श्रोत्रम्’ इति पादत्रयं प्राथमिकमनुदाहृत्य स्तुतित्वसूचनार्थ नमःशब्दघटित- ‘तस्मै लोकात्मने नमः’ इति चतुर्थपादस्य गृहीतत्वात् ।
En - Gemini 2.5
“The sun is His eye, the directions are His ear” - the first three quarters were not cited, but the fourth quarter, “Tasmai Lokātmane Namaḥ” (Salutations to that universal Self), which contains the word ’namaḥ’, was taken to indicate a eulogy.
मूलम्
‘सूर्यश्चक्षुर्दिशः श्रोत्रम्’ इति पादत्रयं प्राथमिकमनुदाहृत्य स्तुतित्वसूचनार्थ नमःशब्दघटित- ‘तस्मै लोकात्मने नमः’ इति चतुर्थपादस्य गृहीतत्वात् ।
विश्वास-प्रस्तुतिः
यत्तु ‘विश्वाधिको रुद्रो महर्षिः’ इति श्रुत्या विश्वशब्दवाच्यविष्ण्वपेक्षया रुद्रस्योत्कर्षसिद्धिरिति, तन्न; विश्वशब्दस्य शक्तिग्राहककोशे विष्णुनामस्वपरिगणनात् ।
En - Gemini 2.5
As for the argument that Rudra’s superiority over Vishnu, denoted by the word “Viśva,” is established by the Shruti “Viśvādhi Rudro Maharṣiḥ” (Rudra, the great sage, who is superior to the universe), that is not correct; because the word “Viśva” is not enumerated among Vishnu’s names in any lexicon establishing its primary meaning.
मूलम्
यत्तु ‘विश्वाधिको रुद्रो महर्षिः’ इति श्रुत्या विश्वशब्दवाच्यविष्ण्वपेक्षया रुद्रस्योत्कर्षसिद्धिरिति, तन्न; विश्वशब्दस्य शक्तिग्राहककोशे विष्णुनामस्वपरिगणनात् ।
विश्वास-प्रस्तुतिः
सहस्रनामाध्याये योगेनैव विश्वशब्दस्य तस्मिन्शिवरुद्रमहादेवादिशब्दादिवत्परिगणनात् विष्णोर्विश्वशब्दवाच्यत्वस्याभावे विष्णूत्कर्षस्य रुद्रे उक्तश्रुत्या वक्तुमशक्यत्वात्, अन्यथा ‘रुद्रो वा एष यदग्निः’ इति श्रुत्या रुद्रस्याग्नित्वोक्त्या ‘अग्निर्वे देवानामवमो विष्णुः परमः’ इति विष्ण्वपेक्षया अपकृष्टत्ववत्सर्वदेवापेक्षयापि रुद्रे प्रसक्तस्यापकर्षस्य को वा निवारकः स्यात् ।
En - Gemini 2.5
Since the word “Viśva” is enumerated in the Sahasranama chapter only by its etymological meaning, like the words “Shiva,” “Rudra,” “Mahadeva,” etc., if Vishnu is not denoted by the word “Viśva,” then Vishnu’s superiority over Rudra cannot be stated by the said Shruti. Otherwise, if Rudra’s Agnihood is stated by the Shruti “Rudro vā eṣa yad agniḥ” (Rudra is indeed Agni), then who would prevent the inferiority of Rudra, which would be implied not only in relation to Vishnu, as in “Agnirvai devānām avamo Viṣṇuḥ paramaḥ” (Agni is the lowest of the gods, Vishnu is the highest), but also in relation to all other gods?
मूलम्
सहस्रनामाध्याये योगेनैव विश्वशब्दस्य तस्मिन्शिवरुद्रमहादेवादिशब्दादिवत्परिगणनात् विष्णोर्विश्वशब्दवाच्यत्वस्याभावे विष्णूत्कर्षस्य रुद्रे उक्तश्रुत्या वक्तुमशक्यत्वात्, अन्यथा ‘रुद्रो वा एष यदग्निः’ इति श्रुत्या रुद्रस्याग्नित्वोक्त्या ‘अग्निर्वे देवानामवमो विष्णुः परमः’ इति विष्ण्वपेक्षया अपकृष्टत्ववत्सर्वदेवापेक्षयापि रुद्रे प्रसक्तस्यापकर्षस्य को वा निवारकः स्यात् ।
विश्वास-प्रस्तुतिः
‘विश्वाधि यो रुद्रो महर्षिः’ इति सर्वैस्तैत्तिरीयकैः पठ्यते न त्वधिक इति ।
En - Gemini 2.5
“Viśvādhi yo Rudro Maharṣiḥ” (Rudra, the great sage, who is above the universe) is read by all Taittirīyakas, and not “adhika” (superior to).
मूलम्
‘विश्वाधि यो रुद्रो महर्षिः’ इति सर्वैस्तैत्तिरीयकैः पठ्यते न त्वधिक इति ।
विश्वास-प्रस्तुतिः
यत्तु चमके ‘अग्निश्च मे विष्णुश्च मे’ इत्यादिना अग्निविष्ण्वादीनां सर्वेषामपि फलत्वनिर्देशेन फलदाता रुद्र एवेति पर्यवस्यतीति, तन्न; ‘अग्नाविष्णू सजोषसा’ इति अग्निविष्णू चमकग्रन्थोपक्रमे प्रतिपाद्य अनन्तरम् ‘वाजश्च मे प्रसवश्च [[प्५अ]] मे’ इत्यादिना वाजादीनामिन्द्रविष्ण्वादिदेवादीनां भोग्यतया प्रार्थनं कृतम् ।
En - Gemini 2.5
As for the argument that in the Chamaka, by “Agnis ca me Viṣṇuś ca me” (Agni is mine, and Vishnu is mine), etc., all of Agni, Vishnu, etc., are stated as fruits, and thus it concludes that Rudra alone is the giver of fruits – that is not correct. For, having first presented Agni and Vishnu in the introduction of the Chamaka text with “Agnāviṣṇū sajoṣasā” (Agni and Vishnu, together), then later, by “Vājaś ca me prasavaś ca me” (Food is mine, and progeny is mine), etc., a prayer is made for objects of enjoyment like Vāja and others, as well as for gods like Indra, Vishnu, etc. [[P5A]]
मूलम्
यत्तु चमके ‘अग्निश्च मे विष्णुश्च मे’ इत्यादिना अग्निविष्ण्वादीनां सर्वेषामपि फलत्वनिर्देशेन फलदाता रुद्र एवेति पर्यवस्यतीति, तन्न; ‘अग्नाविष्णू सजोषसा’ इति अग्निविष्णू चमकग्रन्थोपक्रमे प्रतिपाद्य अनन्तरम् ‘वाजश्च मे प्रसवश्च [[प्५अ]] मे’ इत्यादिना वाजादीनामिन्द्रविष्ण्वादिदेवादीनां भोग्यतया प्रार्थनं कृतम् ।
विश्वास-प्रस्तुतिः
तादृशभोग्यप्रदः क इत्याकाङ्क्षायां रुद्राध्यायप्रतिपादितरुद्रापेक्षया चमकग्रन्थोपक्रमवाक्यप्रतिपादिताग्निविष्ण्वन्यतरस्य संनिहितत्वेन भोग्यप्रदत्वमित्यस्यैव न्याय्यत्वात् ।
En - Gemini 2.5
In the desire to know who grants such objects of enjoyment, it is only logical that either Agni or Vishnu, who are stated in the introductory passage of the Chamaka text, are the grantors of enjoyment, due to their proximity, rather than Rudra, who is described in the Rudra-adhyaya.
मूलम्
तादृशभोग्यप्रदः क इत्याकाङ्क्षायां रुद्राध्यायप्रतिपादितरुद्रापेक्षया चमकग्रन्थोपक्रमवाक्यप्रतिपादिताग्निविष्ण्वन्यतरस्य संनिहितत्वेन भोग्यप्रदत्वमित्यस्यैव न्याय्यत्वात् ।
विश्वास-प्रस्तुतिः
अन्यतरमध्ये विष्णोरेव तन्न्याय्यम् ‘अग्निरग्रे प्रथमो देवतानां संयातानामुत्तमो विष्णुरासीत्’ ‘अग्निवें देवानामवमो विष्णुः परमस्तदन्तरा वै सर्वा देवताः’ इत्यग्न्यपेक्षया सर्वदेवतापेक्षया च विष्णोरेवोत्कर्षनिष्कर्षात् ।
En - Gemini 2.5
Among the two, it is only logical for Vishnu to be the grantor, as Vishnu’s superiority over Agni and all other deities is established by “Agni was first among the assembled deities, Vishnu was supreme,” and “Agni is indeed the lowest of the gods, Vishnu is the highest; all other deities are between them.”
मूलम्
अन्यतरमध्ये विष्णोरेव तन्न्याय्यम् ‘अग्निरग्रे प्रथमो देवतानां संयातानामुत्तमो विष्णुरासीत्’ ‘अग्निवें देवानामवमो विष्णुः परमस्तदन्तरा वै सर्वा देवताः’ इत्यग्न्यपेक्षया सर्वदेवतापेक्षया च विष्णोरेवोत्कर्षनिष्कर्षात् ।
विश्वास-प्रस्तुतिः
न च ‘विष्णुश्च मे’ इति भोग्यकोटौ कथितस्य विष्णोः कथं तत्प्रदत्वमिति शङ्कयम्; ‘ब्रह्मविदाप्नोति परम्’, ‘सोऽश्नुते सर्वान्कामान्सह, ब्रह्मणा विपश्चिता’ इति भोग्यकोटौ कथितस्य परमात्मनः ‘अन्नादो वसुदानो विन्दते वसु य एवं वेद’ ‘एष एव साधु कर्म कारयति यमेभ्यो लोकेभ्य उन्निनीषति’ ‘एष ह्येवानन्दयाति’ इत्यादिश्श्रुत्या भोग्यदातृत्वोक्तेः ।
En - Gemini 2.5
Nor should it be doubted how Vishnu, who is mentioned in the category of enjoyable objects as “Viṣṇuśca me” (and Vishnu is mine), can be the grantor of those enjoyments; for the Supreme Self, who is mentioned in the category of enjoyable objects in “Brahmavidāpnoti param” (The knower of Brahman attains the supreme) and “So’śnute sarvān kāmān saha, brahmaṇā vipaścitā” (He enjoys all desires simultaneously, with the wise Brahman), is stated to be the grantor of enjoyments by Shrutis like “Annādo vasudāno vindate vasu ya evaṃ veda” (He who knows this becomes a consumer of food, a giver of wealth, and obtains wealth), “Eṣa eva sādhu karma kārayati yamebhyo lokebhya unninīṣati” (He alone makes one perform good deeds, whom He wishes to lead up from these worlds), “Eṣa hyevānandayati” (He indeed gives bliss).
मूलम्
न च ‘विष्णुश्च मे’ इति भोग्यकोटौ कथितस्य विष्णोः कथं तत्प्रदत्वमिति शङ्कयम्; ‘ब्रह्मविदाप्नोति परम्’, ‘सोऽश्नुते सर्वान्कामान्सह, ब्रह्मणा विपश्चिता’ इति भोग्यकोटौ कथितस्य परमात्मनः ‘अन्नादो वसुदानो विन्दते वसु य एवं वेद’ ‘एष एव साधु कर्म कारयति यअमेभ्यो लोकेभ्य उन्निनीषति’ ‘एष ह्येवानन्दयाति’ इत्यादिश्श्रुत्या भोग्यदातृत्वोक्तेः ।
विश्वास-प्रस्तुतिः
न च भोग्यकोटौ चमके रुद्रस्याकथनात्तस्यैव भोग्यदातृत्वमिति शङ्कयम्; विनायकसुब्रह्मण्यनिर्ऋत्यादीनां बहूनामत्राकथनेन तेषां भोग्यप्रदत्वमिति वक्तुं शक्यत्वात् ।
En - Gemini 2.5
Nor should it be doubted that since Rudra is not mentioned in the category of enjoyable objects in the Chamaka, He alone is the grantor of enjoyments; for many others like Vinayaka, Subrahmanya, Nirriti, etc., are also not mentioned here, and thus it could be argued that they are also grantors of enjoyments.
मूलम्
न च भोग्यकोटौ चमके रुद्रस्याकथनात्तस्यैव भोग्यदातृत्वमिति शङ्कयम्; विनायकसुब्रह्मण्यनिर्ऋत्यादीनां बहूनामत्राकथनेन तेषां भोग्यप्रदत्वमिति वक्तुं शक्यत्वात् ।
विश्वास-प्रस्तुतिः
अस्मिश्चमकग्रन्थे तेषामनुपस्थितत्वान्न तदिति चेत्; रुद्रस्यापि तर्हि तत्रानुपस्थितत्वान्न तदिति च निष्प्रत्यूहम् ।
En - Gemini 2.5
If it is said that they are not mentioned because of their absence in this Chamaka text, then it is equally unimpeded to say that Rudra is also not mentioned because of his absence there.
मूलम्
अस्मिश्चमकग्रन्थे तेषामनुपस्थितत्वान्न तदिति चेत्; रुद्रस्यापि तर्हि तत्रानुपस्थितत्वान्न तदिति च निष्प्रत्यूहम् ।
विश्वास-प्रस्तुतिः
तस्माच्चमकग्रन्थोपक्रमे विष्णोः प्रस्तुतत्वात्सर्वदेवोत्तमत्वेन फलदातृत्वसमर्थत्वाच्च स एव चमकोक्तफलानां दातेति समीचीनः पन्था इत्यलमतिविस्तरेण ।
En - Gemini 2.5
Therefore, since Vishnu is presented in the introduction of the Chamaka text, and since He is capable of granting fruits as the supreme deity, He alone is the giver of the fruits mentioned in the Chamaka; this is the correct path; enough of this elaborate discussion.
मूलम्
तस्माच्चमकग्रन्थोपक्रमे विष्णोः प्रस्तुतत्वात्सर्वदेवोत्तमत्वेन फलदातृत्वसमर्थत्वाच्च स एव चमकोक्तफलानां दातेति समीचीनः पन्था इत्यलमतिविस्तरेण ।
विश्वास-प्रस्तुतिः
यः कश्चिज्जन्मादिसूत्रविरोधमप्यङ्गीकृत्य जगज्जन्मस्थितिलयानामेकैककारणत्वमपि परब्रह्मलक्षणमिति ब्रूयात् तं प्रति ब्रूयात् कथमेतावता तवेष्टसिद्धिरिति ।
En - Gemini 2.5
If someone accepts a contradiction with the Janmadi-sūtra and states that even the causality of each of creation, sustenance, and dissolution of the world is a characteristic of Parabrahman, one should ask him how his desired conclusion is established by this much.
मूलम्
यः कश्चिज्जन्मादिसूत्रविरोधमप्यङ्गीकृत्य जगज्जन्मस्थितिलयानामेकैककारणत्वमपि परब्रह्मलक्षणमिति ब्रूयात् तं प्रति ब्रूयात् कथमेतावता तवेष्टसिद्धिरिति ।
विश्वास-प्रस्तुतिः
रुद्रस्यापि ब्रह्मलक्षणसिद्धिरेवेष्टमिति चेत् तर्हि प्रदृश्यतां जगज्जन्मकारणत्वबोधकश्रुतिवाक्यम् ।
En - Gemini 2.5
If it is desired to establish Rudra’s characteristic as Brahman, then let a Shruti passage that indicates His causality for the world’s origin be shown.
मूलम्
रुद्रस्यापि ब्रह्मलक्षणसिद्धिरेवेष्टमिति चेत् तर्हि प्रदृश्यतां जगज्जन्मकारणत्वबोधकश्रुतिवाक्यम् ।
विश्वास-प्रस्तुतिः
‘ध्यायीतेशानं प्रध्यायितव्यम्, इदं सर्वं ब्रह्मविष्णुरुद्रेन्द्राः संप्रसूयन्ते’ इति श्रुतिवाक्यं रुद्रस्य जगज्जन्मकारणत्वप्रतिपादकमिति चेत्; तत्र वक्तव्यम्— उत्पत्तिमात्रं जगतः श्रूयते उत्पादकश्च न श्रूयते ।
En - Gemini 2.5
If the Shruti passage “‘Dhyāyītā’īśānam pradhyāyitavyam, idaṃ sarvaṃ Brahma-Viṣṇu-Rudrendrāḥ saṃprasūyante’ (One should meditate on Ishana, He is to be meditated upon; all this, Brahma, Vishnu, Rudra, and Indra originate)” is said to state Rudra’s causality for the world’s origin, then it must be said that only the origin of the world is heard, and not the originator.
मूलम्
‘ध्यायीतेशानं प्रध्यायितव्यम्, इदं सर्वं ब्रह्मविष्णुरुद्रेन्द्राः संप्रसूयन्ते’ इति श्रुतिवाक्यं रुद्रस्य जगज्जन्मकारणत्वप्रतिपादकमिति चेत्; तत्र वक्तव्यम्— उत्पत्तिमात्रं जगतः श्रूयते उत्पादकश्च न श्रूयते ।
विश्वास-प्रस्तुतिः
प्रसूत्या उत्पादकः कश्चनाक्षेप्यः ।
En - Gemini 2.5
By “prasūti” (origin), some originator is implied.
मूलम्
प्रसूत्या उत्पादकः कश्चनाक्षेप्यः ।
विश्वास-प्रस्तुतिः
स च किं श्रुतिसिद्धजगत्कारणत्ववानुतान्यः कश्चिदिति संदेहे, ‘ध्यायीतेशानम्’ इति संनिधानादी- [[प्५९]] शानस्योपस्थितत्वेन ईशानादिति पञ्चम्यन्तं पदं परिकल्प्य रुद्र एव प्रकृतिकर्तेति कल्पना कार्या ।
En - Gemini 2.5
In the doubt whether that originator is the one whose causality of the world is established by Shruti, or someone else, since Ishana is present due to proximity in “Dhyāyītā’īśānam” (one should meditate on Ishana), assuming a fifth-case ending word “Ishānāt” (from Ishana), the imagination that Rudra alone is the primary agent should be made. [[P59]]
मूलम्
स च किं श्रुतिसिद्धजगत्कारणत्ववानुतान्यः कश्चिदिति संदेहे, ‘ध्यायीतेशानम्’ इति संनिधानादी- [[प्५९]] शानस्योपस्थितत्वेन ईशानादिति पञ्चम्यन्तं पदं परिकल्प्य रुद्र एव प्रकृतिकर्तेति कल्पना कार्या ।
विश्वास-प्रस्तुतिः
सा च न संभवति, क्लृप्तकल्प्ययोर्मध्ये अपेक्षास्थले प्रत्यक्षश्रुतिक्लप्तस्यैव विष्णोर्ग्रहणं युक्तम्, न तु कल्प्यस्य रुद्रस्य ।
En - Gemini 2.5
And that is not possible, for among what is established and what is to be inferred, in a situation of expectation, it is appropriate to accept Vishnu, who is directly established by Shruti, and not Rudra, who is to be inferred.
मूलम्
सा च न संभवति, क्लृप्तकल्प्ययोर्मध्ये अपेक्षास्थले प्रत्यक्षश्रुतिक्लप्तस्यैव विष्णोर्ग्रहणं युक्तम्, न तु कल्प्यस्य रुद्रस्य ।
विश्वास-प्रस्तुतिः
विष्णोर्जगत्कारणत्वे ‘तस्माद्विराडजायत, विराजो अधि पूरुषः’ इति विराट्छब्दितहिरण्यगर्भादिकं प्रति सहस्रशीर्षत्वादिगुणविशिष्टविष्णुपरामर्शकतस्मादितिपञ्चम्यन्ततच्छब्देन कारणत्वसमर्पिका श्रुतिरेका ।
En - Gemini 2.5
Regarding Vishnu’s causality for the world, one Shruti attributes causality by the fifth-case ending word “tasmāt” (from him), referring to Vishnu who is endowed with qualities like having a thousand heads, in relation to Virāj (the cosmic egg) and Hiranyagarbha, as in “Tasmād virāḍ ajāyata, virājo adhi pūruṣaḥ” (From him Virāj was born; from Virāj, Puruṣa).
मूलम्
विष्णोर्जगत्कारणत्वे ‘तस्माद्विराडजायत, विराजो अधि पूरुषः’ इति विराट्छब्दितहिरण्यगर्भादिकं प्रति सहस्रशीर्षत्वादिगुणविशिष्टविष्णुपरामर्शकतस्मादितिपञ्चम्यन्ततच्छब्देन कारणत्वसमर्पिका श्रुतिरेका ।
विश्वास-प्रस्तुतिः
‘नारायणाद्ब्रह्मा जायते, नारायणाद्रुद्रो जायअते, नारायणात्प्राणः मनः सर्वेन्द्रियाणि च, खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी’ इति पञ्चम्यन्तनारायणशब्देन तस्य जगज्जन्मकारणत्वप्रतिपादनपरा नारायणोपनिषच्छ्रुतिरपरा ।
En - Gemini 2.5
Another Shruti is the Narayana Upanishad, which states His causality for the world’s origin by the fifth-case ending word “Narayanat” (from Narayana): “From Narayana, Brahma is born; from Narayana, Rudra is born; from Narayana, Prana, Manas, and all senses, and ether, air, fire, water, earth, the supporter of the universe.”
मूलम्
‘नारायणाद्ब्रह्मा जायते, नारायणाद्रुद्रो जायते, नारायणात्प्राणः मनः सर्वेन्द्रियाणि च, खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी’ इति पञ्चम्यन्तनारायणशब्देन तस्य जगज्जन्मकारणत्वप्रतिपादनपरा नारायणोपनिषच्छ्रुतिरपरा ।
विश्वास-प्रस्तुतिः
‘एको ह वै नारायण आसीत्, न ब्रह्मा न च शंकरः, स मुनिर्भूत्वा समचिन्तयत्, तत एते व्यजायन्त, विश्वे हिरण्यगर्भविष्णुरुद्रेन्द्राः’ इति वेदान्तकौस्तुभमध्वभाष्योदाहृतपैङ्गिश्रुतिरन्या ।
En - Gemini 2.5
Another Shruti is the Paingala Shruti, cited in the Vedānta Kaustubha and Madhva Bhāṣya: “Verily, there was one Narayana alone, neither Brahma nor Shankara; He became a sage and meditated; from that, these emerged: the Viśve (gods), Hiranyagarbha, Vishnu, Rudra, and Indra.”
मूलम्
‘एको ह वै नारायण आसीत्, न ब्रह्मा न च शंकरः, स मुनिर्भूत्वा समचिन्तयत्, तत एते व्यजायन्त, विश्वे हिरण्यगर्भविष्णुरुद््रेन्द्राः’ इति वेदान्तकौस्तुभमध्वभाष्योदाहृतपैङ्गिश्रुतिरन्या ।
विश्वास-प्रस्तुतिः
मध्वपाठे विष्णुपदं नास्ति, वेदान्तकौस्तुभकारपाठे तदस्तीत्येतावान्विशेषः ।
En - Gemini 2.5
In Madhva’s reading, the word “Vishnu” is not present, whereas in the reading of the author of Vedanta Kaustubha, it is present; this is the difference.
मूलम्
मध्वपाठे विष्णुपदं नास्ति, वेदान्तकौस्तुभकारपाठे तदस्तीत्येतावान्विशेषः ।
विश्वास-प्रस्तुतिः
‘तस्य ध्यानान्तस्य ललाटात्त्र्यक्षः शूलपाणिरजायत’ इति महोपनिषच्छ्रुतिरितरा ।
En - Gemini 2.5
Another Shruti is the Mahopanishad, which states: “From the forehead of Him (Narayana), who is the object of meditation, the three-eyed, trident-wielding (Shiva) was born.”
मूलम्
‘तस्य ध्यानान्तस्य ललाटात्त्र्यक्षः शूलपाणिरजायत’ इति महोपनिषच्छ्रुतिरितरा ।
विश्वास-प्रस्तुतिः
न ह्येवं कण्ठतः कारणत्वप्रतिपादनसमर्थपञ्चम्यन्तादिपद्घटिता श्रुतिः रुद्रविषये क्वचिद् दृश्यते ।
En - Gemini 2.5
Indeed, no Shruti containing fifth-case ending words or other such terms capable of directly stating causality is seen anywhere concerning Rudra.
मूलम्
न ह्येवं कण्ठतः कारणत्वप्रतिपादनसमर्थपञ्चम्यन्तादिपद्घटिता श्रुतिः रुद्रविषये क्वचिद् दृश्यते ।
विश्वास-प्रस्तुतिः
‘अहमेकः प्रथममासम्’ इत्यत्रापि पूर्वं सत्त्वात्कारणत्वमनुमेयम् ।
En - Gemini 2.5
Even in “Aham ekaḥ prathamam āsam” (I was alone first), causality is to be inferred from previous existence.
मूलम्
‘अहमेकः प्रथममासम्’ इत्यत्रापि पूर्वं सत्त्वात्कारणत्वमनुमेयम् ।
विश्वास-प्रस्तुतिः
अतः परोक्षमेव तत्कारणत्वम् ।
En - Gemini 2.5
Therefore, that causality is only indirect.
विश्वास-प्रस्तुतिः
प्रत्यक्षकारणत्वसंभवे न परोक्षं ग्राह्यम् ।
En - Gemini 2.5
If direct causality is possible, indirect causality should not be accepted.
मूलम्
प्रत्यक्षकारणत्वसंभवे न परोक्षं ग्राह्यम् ।
विश्वास-प्रस्तुतिः
प्रत्यक्षं कर्मत्वमुत्सृज्य परोक्षं तत्कल्पयतो व्यर्थः प्रयासः स्यादिति श्रीमच्छंकरभगवत्पादैर्जिज्ञासाधिकरणे कथितत्वात् ।
En - Gemini 2.5
Because Shri Shankara Bhagavatpada has stated in the Jijnasadhikarana that abandoning direct agency and imagining an indirect one would be a futile effort.
मूलम्
प्रत्यक्षं कर्मत्वमुत्सृज्य परोक्षं तत्कल्पयतो व्यर्थः प्रयासः स्यादिति श्रीमच्छंकरभगवत्पादैर्जिज्ञासाधिकरणे कथितत्वात् ।
विश्वास-प्रस्तुतिः
‘उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् ।
En - Gemini 2.5
“Uma’s assistant, the supreme lord, the master, the three-eyed, blue-throated, peaceful.”
मूलम्
‘उमासहायं परमेश्वरं प्रभुं त्रइलोचनं नीलकण्ठं प्रशान्तम् ।
विश्वास-प्रस्तुतिः
ध्यात्वा मुनिर्गच्छति भूतयोनिम्’ इति योनिशब्देनापि भूतकारणत्वं रुद्रस्य न सिध्यति ।
En - Gemini 2.5
“Having meditated, the sage reaches the source of beings” - by the word ‘yoni’ (source/womb) here, Rudra’s causality for beings is not established.
मूलम्
ध्यात्वा मुनिर्गच्छति भूतयोनिम्’ इति योनिशब्देनापि भूतकारणत्वं रुद्रस्य न सिध्यति ।
विश्वास-प्रस्तुतिः
‘योनिष्ट इन्द्रसदने अकारि’ ‘रमणीयचरणा रमणीयां योनिमापद्यन्ते’ इत्यादौ योनिशब्दस्य स्थानाद्यर्थान्तरेष्वपि बहुलं प्रयोगदर्शनेन कारणत्वमेव यओन्िशब्देनोच्यत इति प्रकरणोपपद्दृष्टान्तादिसमभिव्याहारनियामकं विना वक्तुमशक्यत्वात् ।
En - Gemini 2.5
In passages like “‘Yoniṣṭa indrasadane akāri’ (A womb has been made for you in Indra’s abode)” and “‘Ramaṇīyacaraṇā ramaṇīyāṃ yonim āpadyante’ (Those of good conduct attain a good womb/state),” since the word ‘yoni’ is frequently used in other meanings like ‘place,’ etc., it is impossible to state that ‘yoni’ denotes causality alone without a determining factor like context, illustrations, etc.
मूलम्
‘योनिष्ट इन्द्रसदने अकारि’ ‘रमणीयचरणा रमणीयां योनिमापद्यन्ते’ इत्यादौ योनिशब्दस्य स्थानाद्यर्थान्तरेष्वपि बहुलं प्रयोगदर्शनेन कारणत्वमेव योनिशब्देनोच्यत इति प्रकरणोपपद्दृष्टान्तादिसमभिव्याहारनियामकं विना वक्तुमशक्यत्वात् ।
विश्वास-प्रस्तुतिः
उक्तं हि श्रीमच्छंकरभगवत्पादैः ‘योनिश्च हि गीयते’ इति सूत्रभाष्ये— इतश्च ब्रह्म प्रकृतिः यत्कारणं ब्रह्म योनिरित्यपि पठ्यते वेदान्तेषु ‘कर्तारमीशं पुरुषं ब्रह्मयोनिम्’ [[प्६०]] इति ‘यद्भूतयोनिं परिपश्यन्ति धीराः’ इति च ।
En - Gemini 2.5
Indeed, as stated by Shri Shankara Bhagavatpada in his commentary on the Sutra “Yoniśca hi gīyate” (And also because it is sung as source): “And from this also, Brahman is the material cause, because Brahman is also read as the source in the Vedantas: ‘The doer, the Lord, the Purusha, the source of Brahman’ [[P60]] and ‘Which the wise perceive as the source of beings’.”
मूलम्
उक्तं हि श्रीमच्छंकरभगवत्पादैः ‘योनिश्च हि गीयते’ इति सूत्रभाष्ये— इतश्च ब्रह्म प्रकृतिः यत्कारणं ब्रह्म योनिरित्यपि पठ्यते वेदान्तेषु ‘कर्तारमीशं पुरुषं ब्रह्मयोनिम्’ [[प्६०]] इति ‘यद्भूतयोनिं परिपश्यन्ति धीराः’ इति च ।
विश्वास-प्रस्तुतिः
स्थानवचनोऽपि योनिशब्दो दृष्टः ‘योनिष्ट इन्द्रसदने अकारि’ इति वाक्यशेषात् ।
En - Gemini 2.5
The word “yoni” is also seen to denote place, from the remainder of the sentence “Yoniṣṭa indrasadane akāri” (A womb has been made for you in Indra’s abode).
मूलम्
स्थानवचनोऽपि योनिशब्दो दृष्टः ‘योनिष्ट इन्द्रसदने अकारि’ इति वाक्यशेषात् ।
विश्वास-प्रस्तुतिः
तत्र प्रकृतिवचनता परिगृह्यते ‘यथोर्णनाभिः सृजते गृह्णते च’ इत्येवंजातीयकादिति ग्रन्थेन ।
En - Gemini 2.5
There, the sense of material cause is accepted from passages of the type “Just as a spider creates and withdraws” and so on, as per the text.
मूलम्
तत्र प्रकृतिवचनता परिगृह्यते ‘यथोर्णनाभिः सृजते गृह्णते च’ इत्येवंजातीयकादिति ग्रन्थेन ।
विश्वास-प्रस्तुतिः
ननु पुरुषसूक्तस्य शिवपरत्वमुपबृंहणरूपशिवपुराणादिपर्यालोचनसिद्धम् ।
En - Gemini 2.5
Now, it is established from the examination of the Shiva Puranas, which serve as supplementary texts, that the Purusha Sukta refers to Shiva.
मूलम्
ननु पुरुषसूक्तस्य शिवपरत्वमुपबृंहणरूपशिवपुराणादिपर्यालोचनसिद्धम् ।
विश्वास-प्रस्तुतिः
अतः ‘तस्माद्विराडजायत’ इति तदीयवाक्येन शिवस्यैव जगत्कारणत्वमुच्यत इति चेत्, न; ‘इदं विष्णुः प्रक्षस्य विष्णुः प्रकाव्यमुशनं वाराहमन्त्यं पुरुषव्रते ।
En - Gemini 2.5
Therefore, if it is argued that Shiva’s causality for the world is stated by the passage “Tasmād Virāḍ Ajāyata” (From him Virāḍ was born) which belongs to it, that is not correct; for the Samavidhāna Brāhmaṇa Shruti states: “This Vishnu is of the eye, Vishnu is the celebrated Uṣanā, the last of the Varāha, in the Puruṣa-vrata.
मूलम्
अतः ‘तस्माद्विराडजायत’ इति तदीयवाक्येन शिवस्यैव जगत्कारणत्वमुच्यत इति चेत्, न; ‘इदं विष्णुः प्रक्षस्य विष्णुः प्रकाव्यमुशनं वाराहमन्त्यं पुरुषव्रते ।
विश्वास-प्रस्तुतिः
एषा वैष्णवी नाम संहिता ।
En - Gemini 2.5
This is indeed the Vaishnavi Samhita.
मूलम्
एषा वैष्णवी नाम संहिता ।
विश्वास-प्रस्तुतिः
एतां प्रयुञ्जन्विष्णुं प्रीणाति’ इति सामविधानब्राह्मणश्रुत्या पुरुषसूक्तस्य विष्णुपरत्वविष्णुप्रीतिकरत्वविष्णुदेवताकत्वप्रतिपादनेन उक्तश्रुतिविरुद्धशैवोपबृंहणवचनानां विरोधाधिकरणन्यायेनाप्रमाणत्वात् ।
En - Gemini 2.5
“One who recites this pleases Vishnu” - by this Samavidhāna Brāhmaṇa Shruti, since the Purusha Sukta is stated to refer to Vishnu, to cause pleasure to Vishnu, and to have Vishnu as its deity, the Shaiva supplementary statements that contradict the said Shruti are not authoritative by the principle of the Virodhādhikaraṇa (section on contradiction).
मूलम्
एतां प्रयुञ्जन्विष्णुं प्रीणाति’ इति सामविधानब्राह्मणश्रुत्या पुरुषसूक्तस्य विष्णुपरत्वविष्णुप्रीतिकरत्वविष्णुदेवताकत्वप्रतिपादनेन उक्तश्रुतिविरुद्धशैवोपबृंहणवचनानां विरोधाधिकरणन्यायेनाप्रमाणत्वात् ।
विश्वास-प्रस्तुतिः
वैष्णवीत्युदाहृतश्रुतिगततद्धितः सास्य देवतेत्यर्थे वर्तमानः पुरुषसूक्तस्य विष्णुदेवताकत्वं कथयति ।
En - Gemini 2.5
The Taddhita suffix in the word “Vaishnavi” in the cited Shruti, which is used in the sense of “He is its deity,” indicates that the Purusha Sukta has Vishnu as its deity.
मूलम्
वैष्णवीत्युदाहृतश्रुतिगततद्धितः सास्य देवतेत्यर्थे वर्तमानः पुरुषसूक्तस्य विष्णुदेवताकत्वं कथयति ।
विश्वास-प्रस्तुतिः
यत्तु पुरुषसूक्तगततृतीयऋचि ‘उतामृतत्वस्येशानः’ इति शिववाचकेशानश्रुतिसत्त्वेन शिवस्यैव मोक्षदातृत्वं तृतीयऋचोक्तमिति, तन्न; मुद्गलोपनिषदि– ‘पुरुषसूक्तार्थनिर्णयं व्याख्यास्यामः, सहस्रशीर्षेत्यत्र सशब्दोऽनन्तवाचकः ।
En - Gemini 2.5
As for the argument that in the third verse of the Purusha Sukta, the presence of the Shruti “Utamṛtatvasyeśānaḥ” (And the ruler of immortality), which denotes Shiva, implies that Shiva alone grants liberation as stated in the third verse – that is not correct. For, in the Mudgala Upanishad, it states: “We shall explain the meaning of the Purusha Sukta. Here, in ‘Sahasra-shirsha’ (thousand-headed), the word ‘sa’ denotes infinity.”
मूलम्
यत्तु पुरुषसूक्तगततृतीयऋचि ‘उतामृतत्वस्येशानः’ इति शिववाचकेशानश्रुतिसत्त्वेन शिवस्यैव मोक्षदातृत्वं तृतीयऋचोक्तमिति, तन्न; मुद्गलोपनिषदि– ‘पुरुषसूक्तार्थनिर्णयं व्याख्यास्यामः, सहस्रशीर्षेत्यत्र सशब्दोऽनन्तवाचकः ।
विश्वास-प्रस्तुतिः
अनन्तयोजनं प्राह दशाङ्गुलवचस्तथा ।
En - Gemini 2.5
“It speaks of infinite yojanas, and also of ten finger-breadths.”
मूलम्
अनन्तयोजनं प्राह दशाङ्गुलवचस्तथा ।
विश्वास-प्रस्तुतिः
तस्य प्रथमया विष्णोर्देशतो व्याप्तिरीरिता ।
En - Gemini 2.5
“By its first part, Vishnu’s spatial pervasion is stated.”
मूलम्
तस्य प्रथमया विष्णोर्देशतो व्याप्तिरीरिता ।
विश्वास-प्रस्तुतिः
द्वितीयया चास्य विष्णोः कालतो व्याप्तिरुच्यते ।
En - Gemini 2.5
“And by the second, Vishnu’s temporal pervasion is spoken of.”
मूलम्
द्वितीयया चास्य विष्णोः कालतो व्याप्तिरुच्यते ।
विश्वास-प्रस्तुतिः
विष्णोर्मोक्षप्रदत्वं च कथितं तु तृतीयया ।
En - Gemini 2.5
“And Vishnu’s liberation-granting nature is stated by the third.”
मूलम्
विष्णोर्मोक्षप्रदत्वं च कथितं तु तृतीयया ।
विश्वास-प्रस्तुतिः
एतावानिति मन्त्रेण वैभवं कथितं हरेः ।
En - Gemini 2.5
“By the mantra ‘Etāvān’ (so great), Hari’s glory is stated.”
मूलम्
एतावानिति मन्त्रेण वैभवं कथितं हरेः ।
विश्वास-प्रस्तुतिः
एतेनैव च मन्त्रेण चतुर्व्यूहो विभाषितः ।
En - Gemini 2.5
“And by this very mantra, the Chaturvyuha (four emanations) is explained.”
मूलम्
एतेनैव च मन्त्रेण चतुर्व्यूहो विभाषितः ।
विश्वास-प्रस्तुतिः
त्रिपादित्यनया प्रोक्तमनिरुद्धस्य वैभवम् ।
En - Gemini 2.5
“By ‘Tripāt’ (three-footed), Aniruddha’s glory is stated.”
मूलम्
त्रिपादित्यनया प्रोक्तमनिरुद्धस्य वैभवम् ।
विश्वास-प्रस्तुतिः
तस्माद्विराडित्यनया पादनारायणाद्धेरेः ।
En - Gemini 2.5
“By ‘Tasmād Virāṭ’ (from him Virāṭ), the origin of Prakṛti and Puruṣa from Hari, who is Pāda-Nārāyaṇa, is shown.”
मूलम्
तस्माद्विराडित्यनया पादनारायणाद्धेरेः ।
विश्वास-प्रस्तुतिः
प्रकृतेः पुरुषस्यापि समुत्पत्तिः प्रदर्शिता ।
En - Gemini 2.5
“The origin of Prakriti and Purusha is shown.”
मूलम्
प्रकृतेः पुरुषस्यापि समुत्पत्तिः प्रदर्शिता ।
विश्वास-प्रस्तुतिः
यत्पुरुषेणेत्यनया सृष्टियज्ञः समीरितः ।
En - Gemini 2.5
“By ‘Yat Puruṣeṇa’ (by that Puruṣa), the sacrifice of creation is spoken of.”
मूलम्
यत्पुरुषेणेत्यनया सृष्टियज्ञः समीरितः ।
विश्वास-प्रस्तुतिः
सप्तास्यासन्परिधयः समिधश्च समीरिताः ।
En - Gemini 2.5
“Seven were its enclosing sticks; and fuels were also spoken of.”
मूलम्
सप्तास्यासन्परिधयः समिधश्च समीरिताः ।
विश्वास-प्रस्तुतिः
तं यज्ञमिति मन्त्रेण सृष्टियज्ञः समीरितः ॥ अनेन चैव मन्त्रेण मोक्षश्च समुदीरितः ।
En - Gemini 2.5
“By the mantra ‘Taṃ Yajñam’ (that sacrifice), the sacrifice of creation is spoken of. And by this very mantra, liberation is also stated.”
मूलम्
तं यज्ञमिति मन्त्रेण सृष्टियज्ञः समीरितः ॥ अनेन चैव मन्त्रेण मोक्षश्च समुदीरितः ।
विश्वास-प्रस्तुतिः
तस्मादिति च मन्त्रेण जगत्सृष्टिः समीरिता ।
En - Gemini 2.5
“And by the mantra ‘Tasmāt’ (from that), the creation of the world is spoken of.”
मूलम्
तस्मादिति च मन्त्रेण जगत्सृष्टिः समीरिता ।
विश्वास-प्रस्तुतिः
वेदाहमिति मन्त्राभ्यां वैभवं कथितं हरेः ।
En - Gemini 2.5
“By the mantras ‘Vedāham’ (I know) and so on, Hari’s glory is stated.”
मूलम्
वेदाहमिति मन्त्राभ्यां वैभवं कथितं हरेः ।
विश्वास-प्रस्तुतिः
यज्ञेनेत्युपसंहारः सृष्टधर्ममोक्षस्य चेरितः ।
En - Gemini 2.5
“The conclusion is ‘yajñena’ (by sacrifice), which states the Dharma of creation and liberation.”
मूलम्
यज्ञेनेत्युपसंहारः सृष्टधर्ममोक्षस्य चेरितः ।
विश्वास-प्रस्तुतिः
य एवमेतज्जानाति स हि मुक्तो भवेत्’ इत्यत्र तृतीयमन्त्रेण ईशानपदघटितेन विष्णोरेव मोक्षप्रदत्वोक्तेः ।
En - Gemini 2.5
“He who thus knows this becomes liberated” - in this passage, by the third mantra, which contains the word “Ishana,” Vishnu alone is stated to be the bestower of liberation.
मूलम्
य एवमेतज्जानाति स हि मुक्तो भवेत्’ इत्यत्र तृतीयमन्त्रेण ईशानपदघटितेन विष्णोरेव मोक्षप्रदत्वोक्तेः ।
विश्वास-प्रस्तुतिः
ईशानशब्दस्य चात्र ससंबन्धिकत्वकथनेन शिवे रूढत्वासिद्धेः ।
En - Gemini 2.5
And here, since the word “Ishana” is stated to be a relational term, its conventional usage for Shiva is not established.
मूलम्
ईशानशब्दस्य चात्र ससंबन्धिकत्वकथनेन शिवे रूढत्वासिद्धेः ।
विश्वास-प्रस्तुतिः
ईशानशब्दस्य शानजन्तत्वे पाचकादिशब्दवत्केवलयौगिकत्वमेवे- [[प्६१]] त्यविप्रतिपन्नम् ।
En - Gemini 2.5
If the word “Ishana” ends with the suffix “śānac,” its meaning is purely etymological, like words such as “pācaka” (cook), and this is undisputed. [[P61]]
मूलम्
ईशानशब्दस्य शानजन्तत्वे पाचकादिशब्दवत्केवलयौगिकत्वमेवे- [[प्६१]] त्यविप्रतिपन्नम् ।
विश्वास-प्रस्तुतिः
चानशन्तत्वेऽपि रूढत्वं न संभवति ।
En - Gemini 2.5
Even if it ends with “cānaś,” conventional usage is not possible.
मूलम्
चानशन्तत्वेऽपि रूढत्वं न संभवति ।
विश्वास-प्रस्तुतिः
‘रूढिशब्दप्रकारा इति ।
En - Gemini 2.5
“Types of conventional words, etc.”
मूलम्
‘रूढिशब्दप्रकारा इति ।
विश्वास-प्रस्तुतिः
यथा रूढिशब्देषु क्रिया केवलं व्युत्पत्त्यर्थमाश्रीयते गच्छतीति गौरिति ।
En - Gemini 2.5
Just as in conventional words, the action is resorted to merely for the sake of etymology, as in “gacchati iti gauḥ” (that which moves is a cow).
मूलम्
यथा रूढिशब्देषु क्रिया केवलं व्युत्पत्त्यर्थमाश्रीयते गच्छतीति गौरिति ।
विश्वास-प्रस्तुतिः
तेन गमनक्रियारहितोऽपि गौर्भवति ।
En - Gemini 2.5
By that, even that which lacks the action of moving is a cow.
विश्वास-प्रस्तुतिः
गोपिण्डाच्चान्योऽर्थो गमनविशिष्टोऽपि गौर्न भवति तथा ताच्छीलिका अपि क्रिया विषयं ताच्छील्यमुपादाय क्रियावेशाभावेऽपि प्रयुज्यन्ते प्रकारग्रहणं सादृश्यार्थमिति भाष्यगतप्रकारपदं सादृश्यार्थतया व्याख्यातवान् ।
En - Gemini 2.5
And just as another entity, even if characterized by the action of moving, is not a cow distinct from the cow-individual, similarly, words indicating habituality, taking habituality as their subject, are used even in the absence of the actual performance of the action; the word “prakara” (type) in the Bhashya is explained as meaning similarity.
मूलम्
गोपिण्डाच्चान्योऽर्थो गमनविशिष्टोऽपि गौर्न भवति तथा ताच्छीलिका अपि क्रिया विषयं ताच्छील्यमुपादाय क्रियावेशाभावेऽपि प्रयुज्यन्ते प्रकारग्रहणं सादृश्यार्थमिति भाष्यगतप्रकारपदं सादृश्यार्थतया व्याख्यातवान् ।
विश्वास-प्रस्तुतिः
अत एवार्षमहाभाष्यवाक्यरूपशक्तिग्राहकोदाहृतव्याकरणप्रमाणविरोधात् अर्वाचीननामकोशेषु ईशानशब्दस्य शिवनामसु परिगणनं प्रामादिकमित्यवगन्तव्यम् ।
En - Gemini 2.5
For this very reason, it should be understood that the enumeration of the word “Ishana” among the names of Shiva in modern lexicons is erroneous, as it contradicts the grammatical authority cited by the Arṣa Mahābhāṣya sentences, which establish the meaning of words.
मूलम्
अत एवार्षमहाभाष्यवाक्यरूपशक्तिग्राहकोदाहृतव्याकरणप्रमाणविरोधात् अर्वाचीननामकोशेषु ईशानशब्दस्य शिवनामसु परिगणनं प्रामादिकमित्यवगन्तव्यम् ।
विश्वास-प्रस्तुतिः
एतेन प्रमिताधिकरणे अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।
En - Gemini 2.5
By this, in the Pramitādhikaraṇa, “The Purusha of thumb-size dwells in the midst of the self.”
मूलम्
एतेन प्रमिताधिकरणे अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।
विश्वास-प्रस्तुतिः
ईशानो भूतभव्यस्य इत्यत्राङ्गुष्ठप्रमितस्य परमात्मत्वे ईशानशब्दस्य वाचकश्रुतित्वेन ‘शब्दादेव प्रमितः’ इति सूत्रे शब्दशब्देन निर्देशाद् ईशानशब्दस्य परमात्मनि शक्तिरावश्यिकी ।
En - Gemini 2.5
“Ishana of the past and future” - here, if the thumb-sized entity is the Supreme Self, then the word “Ishana” must necessarily denote the Supreme Self, as it is a directly expressive Shruti, and it is referred to by the word “shabda” in the Sutra “Shabdadeva pramitaḥ” (Known only from the word).
मूलम्
ईशानो भूतभव्यस्य इत्यत्राङ्गुष्ठप्रमितस्य परमात्मत्वे ईशानशब्दस्य वाचकश्रुतित्वेन ‘शब्दादेव प्रमितः’ इति सूत्रे शब्दशब्देन निर्देशाद् ईशानशब्दस्य परमात्मनि शक्तिरावश्यिकी ।
विश्वास-प्रस्तुतिः
अत एव श्रीमच्छंकरभगवत्पादभाष्ये ईशान इति परमेश्वरो गम्यते इति वाचकश्रुतित्वोक्तिः संगच्छते ।
En - Gemini 2.5
For this very reason, the statement in Shri Shankara Bhagavatpada’s commentary that “Ishana” implies the Supreme Lord, is consistent with the direct expressiveness of the Shruti.
मूलम्
अत एव श्रीमच्छंकरभगवत्पादभाष्ये ईशान इति परमेश्वरो गम्यते इति वाचकश्रुतित्वोक्तिः संगच्छते ।
विश्वास-प्रस्तुतिः
‘ईशानो भूतभव्यस्य’ इति भूतभव्यनिरूपितेशितृत्वलिङ्गस्यैव सिद्धान्तहेतुत्वे अङ्गुष्ठमात्रत्वरूपपरिच्छिन्नपरिमाणरूपजीवलिङ्गाधीनजीवपूर्वपक्षस्य लिङ्गेन सिद्धान्तकरणमयुक्तं स्यात् ।
En - Gemini 2.5
If the indication of lordship over the past and future, as in “Ishano bhutabhavyasya” (Lord of past and future), were the sole reason for the Siddhānta (established conclusion), then establishing the Siddhānta based on an indication would be inappropriate for the Pūrvapakṣa (prima facie view) of the jīva (individual soul), which is based on the indication of the jīva’s limited size, such as thumb-size.
मूलम्
‘ईशानो भूतभव्यस्य’ इति भूतभव्यनिरूपितेशितृत्वलिङ्गस्यैव सिद्धान्तहेतुत्वे अङ्गुष्ठमात्रत्वरूपपरिच्छिन्नपरिमाणरूपजीवलिङ्गाधीनजीवपूर्वपक्षस्य लिङ्गेन सिद्धान्तकरणमयुक्तं स्यात् ।
विश्वास-प्रस्तुतिः
सूत्रे शब्दशब्दनिर्देशोऽप्ययुक्तः स्यात् ।
En - Gemini 2.5
The mention of the word “shabda” in the Sutra would also be inappropriate.
मूलम्
सूत्रे शब्दशब्दनिर्देशोऽप्ययुक्तः स्यात् ।
विश्वास-प्रस्तुतिः
लिङ्गादित्येव सूत्रे निर्देशश्च स्यादिति शिवतत्त्वविवेककाराभिप्रायः परास्तः ।
En - Gemini 2.5
The view of the author of Shiva-Tattva-Viveka that the Sutra would have to state “lingāt” (from the indication) is refuted.
मूलम्
लिङ्गादित्येव सूत्रे निर्देशश्च स्यादिति शिवतत्त्वविवेककाराभिप्रायः परास्तः ।
विश्वास-प्रस्तुतिः
शब्दशब्दस्य श्रुतिवाक्यसाधारण्येन श्रुतिरूपरूढशब्द इव वाक्यरूपशब्देऽपि ‘शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम्’ इत्यादिसूत्रेषु प्रयोगदर्शनात् ।
En - Gemini 2.5
Because the word “shabda” (word) is commonly used for Shruti passages, just as it is used for conventional words in the form of Shruti, it is also seen to be used for words in the form of sentences in Sutras like “‘Shabda’ (word) if it is said, no, because of its origin from perception and inference.”
मूलम्
शब्दशब्दस्य श्रुतिवाक्यसाधारण्येन श्रुतिरूपरूढशब्द इव वाक्यरूपशब्देऽपि ‘शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम्’ इत्यादिसूत्रेषु प्रयोगदर्शनात् ।
विश्वास-प्रस्तुतिः
न वाचकशब्द एव सूत्रे निर्दिष्ट इत्यत्र एतत्प्रमाणं भवति वाक्याधीनलिङ्गस्याप्यपहतपाप्मत्वादेः ‘अन्तस्तद्धर्मोपदेशात्’ इत्यत्र ‘स एव सर्वेभ्यः पाप्मभ्य उदितः’ इति शब्दस्य उपदेशादिति शब्देन उक्तलिङ्गसमर्पकस्य ग्रहणेन [[प्६२]] गृहीतत्वात् ।
En - Gemini 2.5
Nor is this a proof that only a directly expressive word is mentioned in the Sutra; for even an indication dependent on a sentence, such as “apahatapaapmatva” (freedom from sin), is implicitly understood by the word “upadesat” (from instruction) in the Sutra “Antastaddharmopadeshat” (The Inner Self, because of the instruction of its attributes), where the word “sa eva sarvebhyah papmabhyah uditah” (He alone is risen above all sins) provides that indication. [[P62]]
मूलम्
न वाचकशब्द एव सूत्रे निर्दिष्ट इत्यत्र एतत्प्रमाणं भवति वाक्याधीनलिङ्गस्याप्यपहतपाप्म्त्वादेः ‘अन्तस्तद्धर्मोपदेशात्’ इत्यत्र ‘स एव सर्वेभ्यः पाप्मभ्य उदितः’ इति शब्दस्य उपदेशादिति शब्देन उक्तलिङ्गसमर्पकस्य ग्रहणेन [[प्६२]] गृहीतत्वात् ।
विश्वास-प्रस्तुतिः
अत्रापि भूतभव्यनिरूपितेशितृत्वरूपपरमात्मलिङ्गस्य ‘ईशानो भूतभव्यस्य’ इति शब्दग्रहणद्वारा शब्दशब्देन ग्रहीतुं शक्यत्वात् ‘वालाग्रशतभागस्य शतधा कल्पितस्य च ।
En - Gemini 2.5
Here also, since the indication of the Supreme Self, which is the lordship over the past and future, can be understood through the word “shabda” (word) by means of the passage “Ishano bhutabhavyasya” (Lord of past and future), and since “Valāgra-shatabhāgasya shatadhā kalpitasya ca” (Of a hair-tip’s hundredth part, again divided into a hundred).
मूलम्
अत्रापि भूतभव्यनिरूपितेशितृत्वरूपपरमात्मलिङ्गस्य ‘ईशानो भूतभव्यस्य’ इति शब्दग्रहणद्वारा शब्दशब्देन ग्रहीतुं शक्यत्वात् ‘वालाग्रशतभागस्य शतधा कल्पितस्य च ।
विश्वास-प्रस्तुतिः
भागो जीवः स विज्ञेयः’ इति श्रुत्या जीवस्याणुपरिमाणत्वावगमेन अङ्गुष्ठपरिमितत्वस्य जीवेऽप्यौपाधिकस्यैव वक्तव्यतया परमात्मन्यपि तस्यौपाधिकस्य संभवेन अङ्गुष्ठपरिमितत्वस्य पूर्वपक्षलिङ्गस्य जीवेश्वरसाधारणत्वेन परमात्मासाधारणभूतभव्येशानत्वप्रबललिङ्गेनान्यथाकरणस्य उचितत्वेन लिङ्गेन सिद्धान्तकरणे बाधकाभावात् ।
En - Gemini 2.5
“That part is to be known as the jīva (individual soul)” - by this Shruti, since the jīva is understood to be atomic in size, and the thumb-size, when applied to the jīva, must be understood as an adventitious attribute, and since it is possible for the Supreme Self also to have that adventitious attribute, there is no impediment to establishing the Siddhanta (final conclusion) based on the strong indication of the Supreme Self’s unique lordship over the past and future, thereby reinterpreting the prima facie indication of thumb-size, which is common to both jīva and Īśvara.
मूलम्
भागो जीवः स विज्ञेयः’ इति श्रुत्या जीवस्याणुपरिमाणत्वावगमेन अङ्गुष्ठपरिमितत्वस्य जीवेऽप्यौपाधिकस्यैव वक्तव्यतया परमात्मन्यपि तस्यौपाधिकस्य संभवेन अङ्गुष्ठपरिमितत्वस्य पूर्वपक्षलिङ्गस्य जीवेश्वरसाधारणत्वेन परमात्मासाधारणभूतभव्येशानत्वप्रबललिङ्गेनान्यथाकरणस्य उचितत्वेन लिङ्गेन सिद्धान्तकरणे बाधकाभावात् ।
विश्वास-प्रस्तुतिः
अत एव श्रीमच्छंकरभगवत्पादैः सिद्धान्तभाष्योपक्रमे ‘अङ्गुष्ठप्रमितः परमेश्वरो भवितुमर्हति, कुतः, शब्दात् ‘ईशानो भूतभव्यस्य’ इति ।
En - Gemini 2.5
For this very reason, Shri Shankara Bhagavatpada, in the introduction to his Siddhanta-bhashya, stated: “The thumb-sized one must be the Supreme Lord. Why? From the word ‘Ishāno Bhūtabhavyasya’ (Lord of the past and future).”
मूलम्
अत एव श्रीमच्छंकरभगवत्पादैः सिद्धान्तभाष्योपक्रमे ‘अङ्गुष्ठप्रमितः परमेश्वरो भवितुमर्हति, कुतः, शब्दात् ‘ईशानो भूतभव्यस्य’ इति ।
विश्वास-प्रस्तुतिः
न हि निरङ्कुशं भूतभव्येशितृत्वं परमेश्वरादन्यत्र संभवति’ इति ग्रन्थेन ।
En - Gemini 2.5
“Indeed, unrestricted lordship over the past and future is not possible anywhere other than in the Supreme Lord” - by this text.
मूलम्
न हि निरङ्कुशं भूतभव्येशितृत्वं परमेश्वरादन्यत्र संभवति’ इति ग्रन्थेन ।
विश्वास-प्रस्तुतिः
लिङ्गग्राहिभूतभव्यस्येशान इति वाक्यं सूत्रस्थशब्दशब्देन गृहीत्वा सिद्धान्तः प्रदर्शितः ।
En - Gemini 2.5
The Siddhanta (established conclusion) is demonstrated by taking the passage “Ishanaḥ bhūtabhavyasya” (Lord of past and future), which indicates the mark, as implicitly referred to by the word “shabda” (word) in the Sutra.
मूलम्
लिङ्गग्राहिभूतभव्यस्येशान इति वाक्यं सूत्रस्थशब्दशब्देन गृहीत्वा सिद्धान्तः प्रदर्शितः ।
विश्वास-प्रस्तुतिः
अभिधानश्रुतेरेव ईशान इति परमेश्वरो गम्यत इत्युत्तरवाक्यस्य उपक्रमवाक्यानुरोधेन ईशान इत्यस्य भूतभव्यस्येशान इत्येतत्परत्वम् अभिधानश्रुतेरित्यस्य बोधकशब्दादित्यर्थत्वं चाश्रित्यार्थो वर्णनीयः; अन्यथा सिद्धान्तोपक्रमभाष्यविरोधापत्तेः ।
En - Gemini 2.5
The subsequent statement “Ishana” implies the Supreme Lord, as it is a directly expressive Shruti; therefore, in accordance with the introductory statement, the word “Ishana” must be interpreted as referring to “Ishana of the past and future,” and “abhidhānaśruteḥ” (from the directly expressive Shruti) must be interpreted as meaning “from the word that conveys,” otherwise there would be a contradiction with the introductory commentary of the Siddhanta.
मूलम्
अभिधानश्रुतेरेव ईशान इति परमेश्वरो गम्यत इत्युत्तरवाक्यस्य उपक्रमवाक्यानुरोधेन ईशान इत्यस्य भूतभव्यस्येशान इत्येतत्परत्वम् अभिधानश्रुतेरित्यस्य बोधकशब्दादित्यर्थत्वं चाश्रित्यार्थो वर्णनीयः; अन्यथा सिद्धान्तोपक्रमभाष्यविरोधापत्तेः ।
विश्वास-प्रस्तुतिः
सिद्धान्तोपक्रमभाष्यस्य निगमनमेतदुत्तरवाक्यम् ।
En - Gemini 2.5
This subsequent statement is the conclusion of the introductory commentary on the Siddhanta.
मूलम्
सिद्धान्तोपक्रमभाष्यस्य निगमनमेतदुत्तरवाक्यम् ।
विश्वास-प्रस्तुतिः
अत एव निगमनभाष्ये ईशानशब्दस्य परमात्मरूढत्वाभावसिद्धयर्थं गम्यत इत्युक्तम्, न त्वभिधीयत इति ।
En - Gemini 2.5
For this very reason, in the concluding commentary, it is said “gamyate” (is implied), and not “abhidhīyate” (is denoted), to establish that the word “Ishana” is not conventionally used for the Supreme Self.
मूलम्
अत एव निगमनभाष्ये ईशानशब्दस्य परमात्मरूढत्वाभावसिद्धयर्थं गम्यत इत्युक्तम्, न त्वभिधीयत इति ।
विश्वास-प्रस्तुतिः
तस्मादीशानशब्दः केवलयौगिक एवेति श्रीमच्छंकरभगवत्पादानामभिप्रायः ।
En - Gemini 2.5
Therefore, the intention of Shri Shankara Bhagavatpada is that the word “Ishana” is purely etymological.
मूलम्
तस्मादीशानशब्दः केवलयौगिक एवेति श्रीमच्छंकरभगवत्पादानामभिप्रायः ।
विश्वास-प्रस्तुतिः
यत्तु श्वेताश्वतरोपनिषदि ‘विश्वाधिको रुद्रो महर्षिः हिरण्यगर्भं जनयामास’ इति वाक्यं सर्वकारणहिरण्यगर्भकारणत्वं रुद्रे प्रतिपादयतीति, तन्न; ‘प्रजापतौ हर आसीत्, विरूपाक्षाय ब्रह्मणः पुत्राय नमः’ इत्यादिबहुश्रुतिषु हिरण्यगर्भस्यैव रुद्रकारणत्वोक्त्या बह्वनुग्रहन्यायेन एकस्य ‘रुद्रो महर्षिर्हिरण्यगर्भं जनयामास’ इति वाक्यस्यौपचारिकत्वाश्रयणेन आविर्भावाधिष्ठानत्वपरतया नेयत्वात् ।
En - Gemini 2.5
As for the argument that the Shvetashvatara Upanishad passage “‘Vishvādhi Rudro Maharṣiḥ Hiranyagarbhaṃ janayāmāsa’ (Rudra, the great sage, superior to the universe, generated Hiranyagarbha)” states Rudra’s causality for Hiranyagarbha, who is the cause of all – that is not correct. For, in many Shrutis like “‘Prajāpatau Hara āsīt’ (Hara was in Prajāpati),” and “‘Virūpākṣāya Brahmaṇaḥ putrāya namaḥ’ (Salutations to Virūpākṣa, the son of Brahmā),” Hiranyagarbha is stated to be the cause of Rudra. Therefore, by the maxim of “favoring the majority,” the single passage “‘Rudro Maharṣir Hiranyagarbhaṃ janayāmāsa’ (Rudra, the great sage, generated Hiranyagarbha)” must be interpreted as figurative, referring to Him as the substratum of manifestation.
मूलम्
यत्तु श्वेताश्वतरोपनिषदि ‘विश्वाधिको रुद्रो महर्षिः हिरण्यगर्भं जनयामास’ इति वाक्यं सर्वकारणहिरण्यगर्भकारणत्वं रुद्रे प्रतिपादयतीति, तन्न; ‘प्रजापतौ हर आसीत्, विरूपाक्षाय ब्रह्मणः पुत्राय नमः’ इत्यादिबहुश्रुतिषु हिरण्यगर्भस्यैव रुद्रकारणत्वोक्त्या बह्वनुग्रहन्यायेन एकस्य ‘रुद्रो महर्षिर्हिरण्यगर्भं जनयामास’ इति वाक्यस्यौपचारिकत्वाश्रयणेन आविर्भावाधिष्ठानत्वपरतया नेयत्वात् ।
विश्वास-प्रस्तुतिः
शरभोपनिषदि यदपि रुद्रस्य जगज्जन्मादित्रयकारणत्वबोधकं वचनम्, तदपि न रुद्रस्य ब्रह्मलक्षणमर्पयितुमलम्, तदुपनिषदि तत्तद्वाक्यावसानेषु ‘तस्मै रुद्राय नमो अस्तु’ इति स्तुतिलिङ्गनमःपदघ- [[प्६३]] टितवाक्यस्यावृत्तिश्रवणेन तद्वाक्यस्यार्थवादत्वेन स्वार्थे जगज्जन्मादिकारणत्वे तात्पर्यासंभवात् ।
En - Gemini 2.5
Even the statement in the Sharabha Upanishad which indicates Rudra’s causality for the three (creation, sustenance, and dissolution) of the world, is not capable of attributing the definition of Brahman to Rudra. For, in that Upanishad, at the end of various passages, the repetition of the sentence “‘Tasmai Rudrāya namo astu’ (Salutations be to that Rudra),” which contains the eulogistic word ’namaḥ,’ indicates that the passage is an Arthavāda (eulogy) and therefore cannot literally refer to the causality of the world’s origin and so on. [[P63]]
मूलम्
शरभोपनिषदि यदपि रुद्रस्य जगज्जन्मादित्रयकारणत्वबोधकं वचनम्, तदपि न रुद्रस्य ब्रह्मलक्षणमर्पयितुमलम्, तदुपनिषदि तत्तद्वाक्यावसानेषु ‘तस्मै रुद्राय नमो अस्तु’ इति स्तुतिलिङ्गनमःपदघ- [[प्६३]] टितवाक्यस्यावृत्तिश्रवणेन तद्वाक्यस्यार्थवादत्वेन स्वार्थे जगज्जन्मादिकारणत्वे तात्पर्यासंभवात् ।
विश्वास-प्रस्तुतिः
प्रत्युत तदुपनिषदि ‘एको विष्णुर्महद्भूतम्’ इत्यादिना ‘चतुर्भिश् च चतुर्भिश् च द्वाभ्यां पञ्चभिरेव च ।
En - Gemini 2.5
On the contrary, in that Upanishad, from “Eko Viṣṇur Mahad Bhūtam” (One Vishnu is the great being) and so on, to “with four and with four, and with two and with five, and also.”
मूलम्
प्रत्युत तदुपनिषदि ‘एको विष्णुर्महद्भूतम्’ इत्यादिना ‘चतुर्भिश् च चतुर्भिश् च द्वाभ्यां पञ्चभिरेव च ।
विश्वास-प्रस्तुतिः
हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु ।’ इत्यनेन विष्णोः परत्वं स्पष्टमेवोक्तम् ।
En - Gemini 2.5
“And again with two, may that Vishnu be pleased with me” - by this, Vishnu’s supremacy is clearly stated.
मूलम्
हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु ।’ इत्यनेन विष्णोः परत्वं स्पष्टमेवोक्तम् ।
विश्वास-प्रस्तुतिः
तस्माच्छ्रुतिषु जगत्कारणत्वरूपब्रह्मलिङ्गं रुद्रादौ क्वाप्यनुक्तमिति विष्णुरेव वेदसिद्धान्तरीत्या परं ब्रह्मेति सिद्धम् ।
En - Gemini 2.5
Therefore, since the characteristic of Brahman, which is the causality of the world, is nowhere stated in the Shrutis for Rudra and others, it is established that Vishnu alone is the Supreme Brahman according to the Vedic Siddhanta.
मूलम्
तस्माच्छ्रुतिषु जगत्कारणत्वरूपब्रह्मलिङ्गं रुद्रादौ क्वाप्यनुक्तमिति विष्णुरेव वेदसिद्धान्तरीत्या परं ब्रह्मेति सिद्धम् ।
विश्वास-प्रस्तुतिः
एतेन सर्वज्ञत्वसर्वशक्तित्वसर्वान्तर्यामित्वादेः कृत्स्नजगत्कारणत्वरूपब्रह्मलक्षणव्याप्यतया व्यापकं निवर्तमानं व्याप्यमपि निवर्तयतीति न्यायेन रुद्रादिषु सर्वज्ञत्वादिनिवृत्त्यवगमः ।
En - Gemini 2.5
By this, the understanding is that since omniscience, omnipotence, inner control over all, etc., are pervaded by the characteristic of Brahman which is the causality of the entire world, by the maxim that when the pervader is absent, the pervaded is also absent, the cessation of omniscience etc. in Rudra and others is understood.
मूलम्
एतेन सर्वज्ञत्वसर्वशक्तित्वसर्वान्तर्यामित्वादेः कृत्स्नजगत्कारणत्वरूपब्रह्मलक्षणव्याप्यतया व्यापकं निवर्तमानं व्याप्यमपि निवर्तयतीति न्यायेन रुद्रादिषु सर्वज्ञत्वादिनिवृत्त्यवगमः ।
विश्वास-प्रस्तुतिः
क्वचिद्रुद्रादिषु सर्वज्ञत्वादिवचनं चेत् औपचारिकमेव तदित्यलमतिविस्तरेण ।
En - Gemini 2.5
If omniscience etc. are stated in some places for Rudra and others, it is merely figurative; enough of this elaborate discussion.
मूलम्
क्वचिद्रुद्रादिषु सर्वज्ञत्वादिवचनं चेत् औपचारिकमेव तदित्यलमतिविस्तरेण ।
विश्वास-प्रस्तुतिः
यत्तु ‘तमो वा इदमेकमेकमासीत्’ इत्यारभ्य तत्परेणेरितं विषमत्वं प्रयातीत्येतद्वै रजसो रूपम्’ इत्यादिना तमोधिष्ठातुः परस्य संकल्पाद्विद्याख्यस्य तमसो गुणविभागं निरूप्य ‘तस्य प्रोक्ता अग्यास्तनवो अथ यो हास्य राजसोंशोऽसौ ब्रह्मा अथ यो हास्य तामसोंशोऽसौ रुद्रः अथ यो हास्य सात्त्विकोंशोऽसौ विष्णुः स वा एष एकः’ इति तमोधिष्ठातुः परस्य रजोगुणाद्युपहिता अंशभेदा ब्रह्मादय इति प्रतिपादनेन तेभ्यः परं तत्त्वान्तरं तमोधिष्ठातृ परं ब्रह्म तुरीयमिति स्पष्टीकृतम् ।
En - Gemini 2.5
As for the argument starting with “Tamo va idam ekam ekam āsīt” (Verily, this was darkness, one, one), and continuing with passages like “Then, impelled by the supreme, it attained unevenness; this is indeed the form of rajas,” where the division of the qualities of Tamas (ignorance), called Vidya, is explained as originating from the will of the Supreme, the presiding deity of Tamas, and then it is stated: “Its prominent bodies are said to be these: now, its Rajasika part is Brahma; now, its Tamasika part is Rudra; now, its Sattvika part is Vishnu; He is indeed one.” By establishing that Brahma and others are parts of the Supreme, the presiding deity of Tamas, characterized by the qualities of rajas, etc., it is clarified that the Turiya (fourth) is another principle, the Supreme Brahman, the presiding deity of Tamas, beyond these.
मूलम्
यत्तु ‘तमो वा इदमेकमेकमासीत्’ इत्यारभ्य तत्परेणेरितं विषमत्वं प्रयातीत्येतद्वै रजसो रूपम्’ इत्यादिना तमोधिष्ठातुः परस्य संकल्पाद्विद्याख्यस्य तमसो गुणविभागं निरूप्य ‘तस्य प्रोक्ता अग्यास्तनवो अथ यो हास्य राजसोंशोऽसौ ब्रह्मा अथ यो हास्य तामसोंशोऽसौ रुद्रः अथ यो हास्य सात्त्विकोंशोऽसौ विष्णुः स वा एष एकः’ इति तमोधिष्ठातुः परस्य रजोगुणाद्युपहिता अंशभेदा ब्रह्मादय इति प्रतिपादनेन तेभ्यः परं तत्त्वान्तरं तमोधिष्ठातृ परं ब्रह्म तुरीयमिति स्पष्टीकृतम् ।
विश्वास-प्रस्तुतिः
तादृशस्य तुरीयस्य ब्रह्मणः ‘शिवमद्वैतं चतुर्थं मन्यन्ते’ इति माण्डूक्यश्रुत्या शिवरूपत्वं सिध्यति ।
En - Gemini 2.5
The Mandukya Shruti “Shivama Dvaitam chaturtham manyante” (They consider the auspicious, non-dual as the fourth) establishes the Shivahood of such a Turiya Brahman.
मूलम्
तादृशस्य तुरीयस्य ब्रह्मणः ‘शिवमद्वैतं चतुर्थं मन्यन्ते’ इति माण्डूक्यश्रुत्या शिवरूपत्वं सिध्यति ।
विश्वास-प्रस्तुतिः
‘उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् ।
En - Gemini 2.5
“Uma’s companion, the supreme lord, the master, the three-eyed, blue-throated, peaceful.”
मूलम्
‘उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् ।
विश्वास-प्रस्तुतिः
ध्यात्वा मुनिर्गच्छति भूतयोनिम्’ इति कैवल्योपनिषच्छ्रुत्या उमासहायविग्रहस्य भूतयोनेः ‘स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् ।
En - Gemini 2.5
“Having meditated, the sage reaches the source of beings” - by this Kaivalya Upanishad Shruti, it is stated that the Bhutayoni, who has the form of Uma-sahaya, is the Turiya (fourth) because He is described as having the Trimurti of Brahma, Shiva, and Indra as His manifestations in the passage “He is Brahma, He is Shiva, He is Indra, He is the Imperishable, the Supreme Self-effulgent.”
मूलम्
ध्यात्वा मुनिर्गच्छति भूतयोनिम्’ इति कैवल्योपनिषच्छ्रुत्या उमासहायविग्रहस्य भूतयोनेः ‘स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् ।
विश्वास-प्रस्तुतिः
स एव विष्णुः स प्राणः’ इत्यादिना ब्रह्मविष्णुरुद्रत्रिमूर्तिविभूतिकत्वेन तुरीयत्वोक्त्या उमासहायविग्रहवत्त्वसिद्धिरिति शिव एव तुरीयं ब्रह्मेत्युक्तम्, तन्न; तुरीयसिद्धावपि तुरीयस्य विष्ण्वपेक्षया भिन्नत्वं न सिध्यति ।
En - Gemini 2.5
“He alone is Vishnu, He is Prana” - by this, the Kaivalya Upanishad establishes Uma-sahaya’s embodiment as the Turiya (fourth) by stating His being the manifestation of the Trimurti (Brahma, Vishnu, Rudra), and thus Shiva is said to be the Turiya Brahman. This is not correct; for even if the Turiya is established, its distinctness from Vishnu is not established.
मूलम्
स एव विष्णुः स प्राणः’ इत्यादिना ब्रह्मविष्णुरुद्रत्रिमूर्तिविभूतिकत्वेन तुरीयत्वोक्त्या उमासहायविग्रहवत्त्वसिद्धिरिति शिव एव तुरीयं ब्रह्मेत्युक्तम्, तन्न; तुरीयसिद्धावपि तुरीयस्य विष्ण्वपेक्षया भिन्नत्वं न सिध्यति ।
विश्वास-प्रस्तुतिः
किं तु विष्णुरूपत्वमेव सिध्यति, न तु विधिशिवरूपत्वमपि ।
En - Gemini 2.5
On the contrary, only Vishnu-form is established, not Brahma-Shiva-form.
मूलम्
किं तु विष्णुरूपत्वमेव सिध्यति, न तु विधिशिवरूपत्वमपि ।
विश्वास-प्रस्तुतिः
मैत्रायणीयोपनिषदि ‘तस्य प्रोक्ता अग्यास्तनवो’ इत्यादिनोक्तस्य तमोधिष्ठातुस्तुरीयस्य ‘अथ यो हास्य सात्त्विकोंशोऽसौ विष्णुः, स वा एष [[प्६४]] एकः’ इत्यनेन तच्छब्दोपात्तस्य तमोधिष्ठातुस्तुरीयस्य एषइतिपदोपात्तस्य सात्त्विकविष्णोरेक इति पदेनैकत्वोक्तेः ।
En - Gemini 2.5
In the Maitrayani Upanishad, the Turiya (fourth) presiding over darkness, as mentioned in passages like “Its prominent bodies are said to be these,” is stated to be one with the Sattvika Vishnu, denoted by “eṣa” (this), through the word “eka” (one) in “Now, its Sattvika part is Vishnu; He is indeed one,” where “tat” (that) refers to the Turiya presiding over darkness. [[P64]]
मूलम्
मैत्रायणीयोपनिषदि ‘तस्य प्रोक्ता अग्यास्तनवो’ इत्यादिनोक्तस्य तमोधिष्ठातुस्तुरीयस्य ‘अथ यो हास्य सात्त्विकोंशोऽसौ विष्णुः, स वा एष [[प्६४]] एकः’ इत्यनेन तच्छब्दोपात्तस्य तमोधिष्ठातुस्तुरीयस्य एषइतिपदोपात्तस्य सात्त्विकविष्णोरेक इति पदेनैकत्वोक्तेः ।
विश्वास-प्रस्तुतिः
कैवल्योपनिषदि ‘ध्यात्वा मुनिर्गच्छति भूतयोनिम्’ इत्युक्तस्य भूतयोनेस्तुरीयत्वेनाभिमतस्य ‘स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट्, स एव विष्णुः स प्राणः’ इति त्रिमूर्तिविभूतिकत्वोक्त्यवसरे ‘स एव विष्णुः’ इति तच्छब्देन भूतयोनिं परामृश्य विष्णुशब्देन च विष्णुं परामृश्य तयोः परस्परान्यत्वस्यैवकारेण व्यवच्छेदकरणात् तुरीयस्य भूतयोनेर्विष्णुरूपत्वावश्यिकत्वात् ।
En - Gemini 2.5
In the Kaivalya Upanishad, when the Bhutayoni (source of beings), who is stated in “Dhyātvā munirgacchati bhūtayonim” (Having meditated, the sage reaches the source of beings) and is intended to be the Turiya (fourth), is described as having the Trimurti as manifestations in “Sa Brahma sa Shivaḥ sendraḥ so’kṣaraḥ paramaḥ svarāṭ, sa eva Viṣṇuḥ sa Prāṇaḥ” (He is Brahma, He is Shiva, He is Indra, He is the Imperishable, the Supreme Self-effulgent, He alone is Vishnu, He is Prana), the word “eva” (alone) in “Sa eva Viṣṇuḥ” (He alone is Vishnu) distinguishes the Bhutayoni from others, referring to Bhutayoni with “tat” and Vishnu with “Vishnu-shabda,” thereby necessarily establishing that the Turiya Bhutayoni is in the form of Vishnu.
मूलम्
कैवल्योपनिषदि ‘ध्यात्वा मुनिर्गच्छति भूतयोनिम्’ इत्युक्तस्य भूतयोनेस्तुरीयत्वेनाभिमतस्य ‘स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट्, स एव विष्णुः स प्राणः’ इति त्रिमूर्तिविभूतिकत्वोक्त्यवसरे ‘स एव विष्णुः’ इति तच्छब्देन भूतयोनिं परामृश्य विष्णुशब्देन च विष्णुं परामृश्य तयोः परस्परान्यत्वस्यैवकारेण व्यवच्छेदकरणात् तुरीयस्य भूतयोनेर्विष्णुरूपत्वावश्यिकत्वात् ।
विश्वास-प्रस्तुतिः
‘स ब्रह्मा स शिवः’ इत्यत्र एवकारादर्शनेन विधिशिवयोस्तुरीयविभूतित्वमात्रम्, न तु तुरीयरूपत्वमिति स्पष्टमवगमात् ।
En - Gemini 2.5
In “Sa Brahma sa Shivaḥ” (He is Brahma, He is Shiva), the absence of the word “eva” (alone) clearly indicates that Brahma and Shiva are merely manifestations of the Turiya (fourth), and not the Turiya itself.
मूलम्
‘स ब्रह्मा स शिवः’ इत्यत्र एवकारादर्शनेन विधिशिवयोस्तुरीयविभूतित्वमात्रम्, न तु तुरीयरूपत्वमिति स्पष्टमवगमात् ।
विश्वास-प्रस्तुतिः
अथर्वशिखायाम् ‘यास्य द्वितीया मात्रा सा विष्णुदैवत्या विद्युन्मती यास्यावसाने चतुर्थ्यर्धमात्रा पुरुषदैवत्या विद्युन्मती’ इति द्वितीयार्धमात्रयोर्विद्युन्मतीत्वोक्त्या ऐक्यप्रत्यभिज्ञानेन तद्देवतयोर्द्वितीयविष्णुतुरीयपुरुषयोरैक्यावगमेन तुरीयस्य विष्णुरूपत्वावगमात् ।
En - Gemini 2.5
In the Atharvashikha, since the second matra, whose deity is Vishnu, is said to be brilliant, and the fourth half-matra at the end, whose deity is Purusha, is also said to be brilliant, by this recognition of identity, the oneness of the second Vishnu and the Turiya Purusha, who are their deities, is understood, thereby establishing the Vishnu-form of the Turiya.
मूलम्
अथर्वशिखायाम् ‘यास्य द्वितीया मात्रा सा विष्णुदैवत्या विद्युन्मती यास्यावसाने चतुर्थ्यर्धमात्रा पुरुषदैवत्या विद्युन्मती’ इति द्वितीयार्धमात्रयोर्विद्युन्मतीत्वोक्त्या ऐक्यप्रत्यभिज्ञानेन तद्देवतयोर्द्वितीयविष्णुतुरीयपुरुषयोरैक्यावगमेन तुरीयस्य विष्णुरूपत्वावगमात् ।
विश्वास-प्रस्तुतिः
ब्रह्मदेवत्यप्रथममात्रारुद्रदैवत्यतृतीयमात्रयोस्तुरीयार्धमात्रया ऐक्यप्रत्यभिज्ञापकलिङ्गस्य कस्याप्यदर्शनेन विधिशिवयोस्तुरीयरूपत्वासिद्धेः ।
En - Gemini 2.5
Since no indication of identity between the first matra, whose deity is Brahma, and the third matra, whose deity is Rudra, with the Turiya half-matra is seen, the Turiya-form of Brahma and Shiva is not established.
मूलम्
ब्रह्मदेवत्यप्रथममात्रारुद्रदैवत्यतृतीयमात्रयोस्तुरीयार्धमात्रया ऐक्यप्रत्यभिज्ञापकलिङ्गस्य कस्याप्यदर्शनेन विधिशिवयोस्तुरीयरूपत्वासिद्धेः ।
विश्वास-प्रस्तुतिः
न च ‘शिवमद्वैतं चतुर्थं मन्यन्ते’ इति माण्डूक्यवाक्येन तुरीयस्य शिवरूपत्वसिद्धिरित्यपि शङ्क्यम्; माण्डूक्य एव ‘जागरितस्थानो वैश्वानरः प्रथमः पादः, स्वप्नस्थानस्तैजसो द्वितीयः पादः, सुषुप्तिस्थानः प्राज्ञस्तृतीयः पादः’ इति जाग्रदवस्थाविशिष्टविश्वसंज्ञकजीवस्वप्नावस्थाविशिष्टतैजससंज्ञिकजीवसुषुप्त्यवस्थाविशिष्टप्राज्ञसंज्ञिकजीवान् एकत्वेऽप्यवस्थया पृथग्भूतान्निर्दिश्यानन्तरम् ‘प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते’ इति अवस्थात्रयविनिर्मुक्तस्य चतुर्थस्य मुक्त्यवस्थस्य जीवस्य शिवमिति मङ्गलरूपत्वोक्त्या भवदभिमततुरीये ब्रह्मविष्णुरुद्रापेक्षया तुरीयत्वस्य वक्तव्यत्वेन तत्र तदनुक्त्या भवदभिमततुरीयस्य शिवत्वासिद्धेः ।
En - Gemini 2.5
Nor should it be doubted that the Mandukya statement “Shivama dvaitam chaturtham manyante” (They consider the auspicious, non-dual as the fourth) establishes the Shivahood of the Turiya (fourth); for in the Mandukya itself, after describing the Jivas (individual souls) in the waking state (Vaiśvānara), dream state (Taijasa), and deep sleep state (Prājña) as distinct by their states, even though they are one, it then states “Prapañcopaśamaṃ śāntaṃ śivam advaitaṃ caturthaṃ manyante” (They consider the cessation of the phenomenal world, the peaceful, the auspicious, the non-dual as the fourth), referring to the fourth Jiva in the liberated state as auspicious. Since the Turiya, according to your view, is supposed to be distinct from Brahma, Vishnu, and Rudra, and since this distinctness is not stated here, the Shivahood of your intended Turiya is not established.
मूलम्
न च ‘शिवमद्वैतं चतुर्थं मन्यन्ते’ इति माण्डूक्यवाक्येन तुरीयस्य शिवरूपत्वसिद्धिरित्यपि शङ्क्यम्; माण्डूक्य एव ‘जागरितस्थानो वैश्वानरः प्रथमः पादः, स्वप्नस्थानस्तैजसो द्वितीयः पादः, सुषुप्तिस्थानः प्राज्ञस्तृतीयः पादः’ इति जाग्रदवस्थाविशिष्टविश्वसंज्ञकजीवस्वप्नावस्थाविशिष्टतैजससंज्ञिकजीवसुषुप्त्यवस्थाविशिष्टप्राज्ञसंज्ञिकजीवान् एकत्वेऽप्यवस्थया पृथग्भूतान्निर्दिश्यानन्तरम् ‘प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते’ इति अवस्थात्रयविनिर्मुक्तस्य चतुर्थस्य मुक्त्यवस्थस्य जीवस्य शिवमिति मङ्गलरूपत्वोक्त्या भवदभिमततुरीये ब्रह्मविष्णुरुद्रापेक्षया तुरीयत्वस्य वक्तव्यत्वेन तत्र तदनुक्त्या भवदभिमततुरीयस्य शिवत्वासिद्धेः ।
विश्वास-प्रस्तुतिः
न च ‘उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् ।
En - Gemini 2.5
Nor should it be doubted that “Uma-sahayam Parameśvaram Prabhūm Trilocanam Nīlakaṇṭham Prashāntam” (Uma’s companion, the Supreme Lord, the Master, the Three-eyed, Blue-throated, Peaceful).
विश्वास-प्रस्तुतिः
ध्यात्वा मुनिर्गच्छति भूतयोनिम्’ इति तुरीयस्य भूतयोनेरुमासहायत्वमुक्तमिति शङ्क्यम्; उमासहायध्यानात्तुरीयभूतयोनिप्राप्त्युक्तावपि भूतयोनेरुमासहायरूपत्वासंभवस्य पूर्वमेवोक्तेः ।
En - Gemini 2.5
“Having meditated, the sage reaches the source of beings” - it should not be doubted that the Turiya Bhutayoni (source of beings) is stated to be Uma-sahaya by this; for the impossibility of Bhutayoni being in the form of Uma-sahaya, even when the attainment of Turiya Bhutayoni is stated as a result of meditating on Uma-sahaya, has already been stated.
मूलम्
ध्यात्वा मुनिर्गच्छति भूतयोनिम्’ इति तुरीयस्य भूतयोनेरुमासहायत्वमुक्तमिति शङ्क्यम्; उमासहायध्यानात्तुरीयभूतयोनिप्राप्त्युक्तावपि भूतयोनेरुमासहायरूपत्वासंभवस्य पूर्वमेवोक्तेः ।
विश्वास-प्रस्तुतिः
ननु मास्तु शिवस्य तुरीयत्वम्, भवतु विष्णोरेव [[प्६५]] तत् ।
En - Gemini 2.5
Now, let Shiva not be the Turiya; let Vishnu alone be that. [[P65]]
मूलम्
ननु मास्तु शिवस्य तुरीयत्वम्, भवतु विष्णोरेव [[प्६५]] तत् ।
विश्वास-प्रस्तुतिः
कथमेकस्य विष्णुचेतनस्य द्वितीयत्वतुरीयत्वे संभवत इति चेत्, शृणु— ‘सह पत्न्या विशालाक्ष्या नारायणमुपागमत्’ इति श्रीरामायणीयायोध्याकाण्डवचनप्रामाण्यात् ‘अजायमानो बहुधा विजायते, तस्य धीराः परिजानन्ति योनिम्’ इति श्रुतिसनाथादेकस्यैव नारायणचेतनस्य द्विभुजदिव्यमङ्गलविग्रहविशिष्टरामरूपेण सेवकत्वं तदन्यदिव्यमङ्गलविग्रहविशिष्टनारायणरूपेण सेव्यत्वं चाश्रीयते ।
En - Gemini 2.5
If it is asked how one Vishnu-consciousness can have both secondness and fourthness, listen: by the authority of the Shri Ramayana, Ayodhyakanda statement “‘Saha patnyā Viśālākṣyā Nārāyaṇamupāgamat’ (He approached Narayana with his wide-eyed wife),” and by the Shruti “Ajāyamāno bahudhā vijāyate, tasya dhīrāḥ parijānanti yonim” (Though unborn, He is born in many ways; the wise know His source), the servitude in the form of Rama, who is endowed with a two-armed divine auspicious body, and the state of being served in the form of Narayana, who is endowed with another divine auspicious body, are attributed to one and the same Narayana-consciousness.
मूलम्
कथमेकस्य विष्णुचेतनस्य द्वितीयत्वतुरीयत्वे संभवत इति चेत्, शृणु— ‘सह पत्न्या विशालाक्ष्या नारायणमुपागमत्’ इति श्रीरामायणीयायोध्याकाण्डवचनप्रामाण्यात् ‘अजायमानो बहुधा विजायते, तस्य धीराः परिजानन्ति योनिम्’ इति श्रुतिसनाथादेकस्यैव नारायणचेतनस्य द्विभुजदिव्यमङ्गलविग्रहविशिष्टरामरूपेण सेवकत्वं तदन्यदिव्यमङ्गलविग्रहविशिष्टनारायणरूपेण सेव्यत्वं चाश्रीयते ।
विश्वास-प्रस्तुतिः
तथा सहस्रशीर्षत्वादिविशिष्टेन केनचिद्दिव्यमङ्गलविग्रहविशिष्टरूपेण तुरीयत्वम् ।
En - Gemini 2.5
Similarly, the fourth state (Turiya) is attributed to Him in a form endowed with a divine auspicious body, characterized by having a thousand heads and so on.
मूलम्
तथा सहस्रशीर्षत्वादिविशिष्टेन केनचिद्दिव्यमङ्गलविग्रहविशिष्टरूपेण तुरीयत्वम् ।
विश्वास-प्रस्तुतिः
‘सहस्रशीर्षं देवम्’ इति सहस्रशीर्षत्वादिशरीरविशिष्टनारायणं प्रस्तुत्य ‘स ब्रह्मा स शिवः’ इत्यादिना ब्रह्मरुद्रादिविभूतिकत्वाम्नानेन ब्रह्मरुद्रादिविभूतिकतुरीयनारायणस्य सहस्रशीर्षत्वादिविशिष्टदिव्यमङ्गलविग्रहप्रतीतेः; चक्रपाणित्वादिदिव्यमङ्गलविग्रहविशिष्टत्वेन रूपेण तस्यैव द्वितीयत्वम् ।
En - Gemini 2.5
Presenting Narayana as endowed with a body of a thousand heads and so on, as in “‘Sahasra-shīrṣaṃ Devam’ (the thousand-headed God),” and then stating His being the manifestation of Brahma, Rudra, etc., as in “‘Sa Brahma sa Shivaḥ’ (He is Brahma, He is Shiva),” implies that the Turiya Narayana, who manifests Brahma, Rudra, etc., is perceived as having a divine auspicious body characterized by having a thousand heads and so on; and His secondness is in the form of being endowed with a divine auspicious body like having a discus in hand and so on.
मूलम्
‘सहस्रशीर्षं देवम्’ इति सहस्रशीर्षत्वादिशरीरविशिष्टनारायणं प्रस्तुत्य ‘स ब्रह्मा स शिवः’ इत्यादिना ब्रह्मरुद्रादिविभूतिकत्वाम्नानेन ब्रह्मरुद्रादिविभूतिकतुरीयनारायणस्य सहस्रशीर्षत्वादिविशिष्टदिव्यमङ्गलविग्रहप्रतीतेः; चक्रपाणित्वादिदिव्यमङ्गलविग्रहविशिष्टत्वेन रूपेण तस्यैव द्वितीयत्वम् ।
विश्वास-प्रस्तुतिः
द्वितीयतया विष्णुशब्देन तत्र तत्र निर्दिष्टस्य विष्णोः सामवेदीयषड्विंशब्राह्मणे ‘विष्णवे चक्रपाणये स्वाहा’ इति चक्रपाणित्वोक्तेः विग्रहभेदेन द्वितीयत्वतुरीयत्वयोरविरोधः ।
En - Gemini 2.5
Since Vishnu is repeatedly referred to as the second by the word “Vishnu,” and since His discus-holding nature is stated in the Shadviṃśa Brāhmaṇa of the Sāmaveda as “Viṣṇave Cakrapāṇaye Svāhā” (Salutations to Vishnu, the discus-bearer), there is no contradiction between secondness and fourthness due to the difference in forms.
मूलम्
द्वितीयतया विष्णुशब्देन तत्र तत्र निर्दिष्टस्य विष्णोः सामवेदीयषड्विंशब्राह्मणे ‘विष्णवे चक्रपाणये स्वाहा’ इति चक्रपाणित्वोक्तेः विग्रहभेदेन द्वितीयत्वतुरीयत्वयोरविरोधः ।
विश्वास-प्रस्तुतिः
यत्तु केनचित्कौलिना ‘या तस्य पार्श्वगा बाला सा पार्वत्यंशजो हरिः’ इत्यादिपुराणवचनमुदाहृत्य विष्णोः पार्वत्यंशत्वमुक्तम्, तन्न; दुर्गासूक्ते दुर्गां प्रस्तुत्य ‘वैष्णवीं लोक इह मादयन्ताम्’ इति विष्णोः प्राधान्यं तन्निरूपिताप्राधान्यं च कथयन्त्या तडित्पदप्रत्ययघटितवैष्णवीति श्रुत्या विरुद्धतया विष्णोः पार्वत्यंशत्वपार्वत्यंशजत्वादिवोधकपुराणादिवचनानां विरोधाधिकरणन्यायेनाप्रमाणत्वात् ।
En - Gemini 2.5
As for the argument by some Kaulas, citing Purana passages like “‘Yā tasya pārśvagā bālā sā Pārvatyāṃśajo Hariḥ’ (That young girl who is by His side is Hari, born of a part of Parvati),” that Vishnu is a part of Parvati, that is not correct. For, in the Durga Sukta, introducing Durga, the Shruti “Vaiṣṇavīṃ loka iha mādayantām” (May they gladden the Vaiṣṇavī in this world), which states Vishnu’s prominence and her own subordination to Him, and which contains the word “Vaiṣṇavī” with a possessive suffix like “taḍit” (lightning), contradicts the Purana passages stating Vishnu’s being a part of Parvati or born from a part of Parvati, and thus those Purana passages are unauthoritative by the principle of the Virodhādhikaraṇa (section on contradiction).
मूलम्
यत्तु केनचित्कौलिना ‘या तस्य पार्श्वगा बाला सा पार्वत्यंशजो हरिः’ इत्यादिपुराणवचनमुदाहृत्य विष्णोः पार्वत्यंशत्वमुक्तम्, तन्न; दुर्गासूक्ते दुर्गां प्रस्तुत्य ‘वैष्णवीं लोक इह मादयन्ताम्’ इति विष्णोः प्राधान्यं तन्निरूपिताप्राधान्यं च कथयन्त्या तडित्पदप्रत्ययघटितवैष्णवीति श्रुत्या विरुद्धतया विष्णोः पार्वत्यंशत्वपार्वत्यंशजत्वादिवोधकपुराणादिवचनानां विरोधाधिकरणन्यायेनाप्रमाणत्वात् ।
विश्वास-प्रस्तुतिः
ऋक्संहितायां लक्ष्मीसूक्ते ‘यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्’ इति लक्ष्मीवचनसरूपश्रुतिवचसा उग्रशब्दितस्य पार्वतीपते रुद्रस्य विष्णुपत्नीरूपलक्ष्मीकृतत्वस्य तादृशलक्ष्म्यधीनरुद्रपदकत्वस्य वा कथने सति पार्वतीपतिजनकलक्ष्म्याः पत्यौ विष्णौ कथं पार्वतीजन्यत्वं तदंशत्वं वा संभवेत् ?
En - Gemini 2.5
In the Rigveda Samhita, in the Lakshmi Sukta, by the Shruti passage, which is similar to Lakshmi’s own words, “‘Yaṃ kāmaye taṃ tam ugraṃ kṛṇomi taṃ Brahmāṇaṃ tam ṛṣiṃ taṃ sumedhām’ (Whom I desire, him I make fierce, him Brahma, him a sage, him intelligent),” if Rudra, the husband of Parvati, who is denoted by the word “Ugra,” is said to be created by Lakshmi, the consort of Vishnu, or to be subordinate to such a Lakshmi, then how can there be any possibility of Vishnu, the husband of Lakshmi who is the creator of the husband of Parvati, being born from Parvati or being a part of her?
मूलम्
ऋक्संहितायां लक्ष्मीसूक्ते ‘यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्’ इति लक्ष्मीवचनसरूपश्रउतिवचसा उग्रशब्दितस्य पार्वतीपते रुद्रस्य विष्णुपत्नीरूपलक्ष्मीकृतत्वस्य तादृशलक्ष्म्यधीनरुद्रपदकत्वस्य वा कथने सति पार्वतीपतिजनकलक्ष्म्याः पत्यौ विष्णौ कथं पार्वतीजन्यत्वं तदंशत्वं वा संभवेत् ?
श्वेताश्वतरोपनिषद्विलासः ।
En - Gemini 2.5
The Splendor of the Shvetashvatara Upanishad.
विश्वास-प्रस्तुतिः
यन्मूलकारणमबुध्यत सृष्टिवाक्यै-स्तद्ब्रह्मविष्णुशिवमूर्तिषु किंस्वरूपम् ।
En - Gemini 2.5
What is the nature of that fundamental cause which was understood by the creation passages, among the forms of Brahma, Vishnu, and Shiva?
मूलम्
यन्मूलकारणमबुध्यत सृष्टिवाक्यै-स्तद्ब्रह्मविष्णुशिवमूर्तिषु किंस्वरूपम् ।
विश्वास-प्रस्तुतिः
व्. ९. [[प्६६]] एवं विमृश्य पुरुषेति पदस्य शक्तेः श्वेताश्वशब्दघटिता श्रुतिराह विष्णुम् ॥
En - Gemini 2.5
v. 9. [[P66]] Thus reflecting on the power of the word “Purusha,” the Shruti containing the word “Shvetashva” (white horse) speaks of Vishnu.
मूलम्
व्. ९. [[प्६६]] एवं विमृश्य पुरुषेति पदस्य शक्तेः श्वेताश्वशब्दघटिता श्रुतिराह विष्णुम् ॥
विश्वास-प्रस्तुतिः
इदं तु बोध्यम्— श्वेताश्वतरोपनिषदि ‘ब्रह्मवादिनो वदन्ति, किं कारणं ब्रह्म कुतः स्म जाता जीवाम केन क्व च संप्रतिष्ठिताः केनाधिष्ठिताः सुखेतरेषु वर्तामहे, ब्रह्मविदो व्यवस्था कालस्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम्, संयोग एषां न त्वात्मभावादात्माप्यनीशः सुखदुःखहेतोः’ इत्युपक्रमोऽस्ति ।
En - Gemini 2.5
This should be understood: In the Shvetashvatara Upanishad, there is an introductory section: “‘The knowers of Brahman say, ‘What is the cause, Brahman? From where are we born? By whom do we live? Where are we established? By whom are we governed in pleasures and pains?’ The arrangement of the knowers of Brahman: Time, nature, necessity, chance, elements, the womb, Purusha - this is to be considered. The combination of these is not from the nature of the Self, for the Self is also not the controller of pleasure and pain.’”
मूलम्
इदं तु बोध्यम्— श्वेताश्वतरोपनिषदि ‘ब्रह्मवादिनो वदन्ति, किं कारणं ब्रह्म कुतः स्म जाता जीवाम केन क्व च संप्रतिष्ठिताः केनाधिष्ठिताः सुखेतरेषु वर्तामहे, ब्रह्मविदो व्यवस्था कालस्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम्, संयोग एषां न त्वात्मभावादात्माप्यनीशः सुखदुःखहेतोः’ इत्युपक्रमोऽस्ति ।
विश्वास-प्रस्तुतिः
तस्यार्थः— ‘सदेव सोम्येदमग्र आसीत्’ ‘यतो वा इमानि भूतानि जायन्ते’ ‘तद्विजिज्ञासस्व तद्ब्रह्म’ इत्यादिश्श्रुतिभिरवगतं जगज्जन्मादिकारणं ब्रह्म किंरूपमिति श्रुत्यन्तरसिद्धं जगत्कारणं ब्रह्म सिद्धवत्कृत्य हरिहरविरिञ्चादीनां मध्ये कस्मिन्देवताविशेषे पर्यवस्यतीत्येका विचिकित्सा ।
En - Gemini 2.5
Its meaning is: The Brahman, which is understood as the cause of the world’s origin and so on from Shrutis like “Sadev Somya idam agra asit” (Existence alone, O dear one, was this in the beginning), “Yato va imani bhutani jayante” (From whom indeed these beings are born), “Tad vijijñāsasva tad Brahma” (That seek to know; that is Brahman) and so on, and which is established as the cause of the world by other Shrutis, is here taken as a given. The first inquiry is: In which particular deity among Hari, Hara, Viriñcha, and others does this Brahman, the cause of the world, ultimately rest?
मूलम्
तस्यार्थः— ‘सदेव सोम्येदमग्र आसीत्’ ‘यतो वा इमानि भूतानि जायन्ते’ ‘तद्विजिज्ञासस्व तद्ब्रह्म’ इत्यादिश्श्रउतिभिरवगतं जगज्जन्मादिकारणं ब्रह्म किंरूपमिति श्रउत्यन्तरसिद्धं जगत्कारणं ब्रह्म सिद्धवत्कृत्य हरिहरविरिञ्चादीनां मध्ये कस्मिन्देवताविशेषे पर्यवस्यतीत्येका विचिकित्सा ।
विश्वास-प्रस्तुतिः
वयं ब्रह्मविदोऽपि कुतः केन जनिता इति द्वितीया ।
En - Gemini 2.5
The second inquiry is: How and by whom are we, even though we are knowers of Brahman, born?
मूलम्
वयं ब्रह्मविदोऽपि कुतः केन जनिता इति द्वितीया ।
विश्वास-प्रस्तुतिः
केन वयं जीवनं प्राप्ता इति तृतीया ।
En - Gemini 2.5
The third is: By whom have we obtained life?
मूलम्
केन वयं जीवनं प्राप्ता इति तृतीया ।
विश्वास-प्रस्तुतिः
क्व च कस्मिन्प्रलयकाले वयं संप्रतिष्ठिता लीना इति चतुर्थी ।
En - Gemini 2.5
And where, in which time of dissolution, are we established and dissolved? This is the fourth.
मूलम्
क्व च कस्मिन्प्रलयकाले वयं संप्रतिष्ठिता लीना इति चतुर्थी ।
विश्वास-प्रस्तुतिः
सुखतद्भिन्नेषु केन वयं वर्तामह इति पञ्चमी ।
En - Gemini 2.5
By whom do we exist in states of happiness and otherwise? This is the fifth.
मूलम्
सुखतद्भिन्नेषु केन वयं वर्तमह इति पञ्चमी ।
विश्वास-प्रस्तुतिः
एतेषु विचिकित्सितविषयेषु ब्रह्मविद्व्यवस्था कीदृशीति षष्ठी ।
En - Gemini 2.5
What kind of arrangement do the knowers of Brahman have regarding these doubted subjects? This is the sixth.
मूलम्
एतेषु विचिकित्सितविषयेषु ब्रह्मविद्व्यवस्था कीदृशीति षष्ठी ।
विश्वास-प्रस्तुतिः
कालस्वभाव इत्यादि चिन्त्यमित्यन्तं प्रथमविचिकित्सायाः वेदपुरुषेणोत्तरं दत्तम् ।
En - Gemini 2.5
The answer to the first inquiry, from “Kāla-svabhāva” (time, nature) up to “cintyam” (to be considered), is given by the Vedic Purusha.
मूलम्
कालस्वभाव इत्यादि चिन्त्यमित्यन्तं प्रथमविचिकित्सायाः वेदपुरुषेणोत्तरं दत्तम् ।
विश्वास-प्रस्तुतिः
प्रथमविचिकित्सायाः प्रधानत्वेन तदुत्तरे क्रियमाणे सर्वविचिकित्साः प्रत्युत्तरिता भवन्तीति वेदपुरुषाभिप्रायः ।
En - Gemini 2.5
The intention of the Vedic Purusha is that since the first inquiry is principal, by answering it, all inquiries are answered.
मूलम्
प्रथमविचिकित्सायाः प्रधानत्वेन तदुत्तरे क्रियमाणे सर्वविचिकित्साः प्रत्युत्तरिता भवन्तीति वेदपुरुषाभिप्रायः ।
विश्वास-प्रस्तुतिः
कालः प्रसिद्धः ।
En - Gemini 2.5
Time is well-known.
मूलम्
कालः प्रसिद्धः ।
विश्वास-प्रस्तुतिः
स्वभावो वस्तुशक्तिः ।
En - Gemini 2.5
Nature is the inherent power of a thing.
मूलम्
स्वभावो वस्तुशक्तिः ।
विश्वास-प्रस्तुतिः
नियतिः पुण्यपापसंचयः ।
En - Gemini 2.5
Necessity is the accumulation of merit and demerit.
मूलम्
नियतिः पुण्यपापसंचयः ।
विश्वास-प्रस्तुतिः
यदृच्छा आगन्तुकप्राप्तिः ।
En - Gemini 2.5
Chance is an accidental attainment.
मूलम्
यदृच्छा आगन्तुकप्राप्तिः ।
विश्वास-प्रस्तुतिः
भूतान्याकाशादीनि ।
En - Gemini 2.5
The elements are ether, etc.
मूलम्
भूतान्याकाशादीनि ।
विश्वास-प्रस्तुतिः
इत्येतत्सर्वं योनिः पुरुष इति जगत्कारणपुरुष इति चिन्त्यं ज्ञेयम्, उपादानपुरुषात्मकत्वात् ।
En - Gemini 2.5
All this is to be considered and known as the womb, Purusha, the Purusha who is the cause of the world, because it is of the nature of the material cause, Purusha.
मूलम्
इत्येतत्सर्वं योनिः पुरुष इति जगत्कारणपुरुष इति चिन्त्यं ज्ञेयम्, उपादानपुरुषात्मकत्वात् ।
विश्वास-प्रस्तुतिः
उपादेयस्य कालादेः तादृशपुरुषत्वेन ज्ञेयत्वमिति प्रत्युत्तरवाक्यस्वारसिकार्थः ।
En - Gemini 2.5
The natural meaning of the reply is that time and other effects are to be known as that Purusha.
मूलम्
उपादेयस्य कालादेः तादृशपुरुषत्वेन ज्ञेयत्वमिति प्रत्युत्तरवाक्यस्वारसिकार्थः ।
विश्वास-प्रस्तुतिः
योनिः पुरुष इत्यत्र इतिशब्दाभावे यत्तूक्तं तच्चिन्त्यमित्यत्रेव चिन्त्यशब्दस्योपेक्षणीयमित्यर्थः स्यात् ।
En - Gemini 2.5
If the word “iti” (thus) were absent in “Yoniḥ Puruṣa iti” (the womb, Purusha), then the word “cintyam” (to be considered) would mean “to be disregarded,” as it does in “yat tūktam taccintyam” (what is said, that is to be considered).
मूलम्
योनिः पुरुष इत्यत्र इतिशब्दाभावे यत्तूक्तं तच्चिन्त्यमित्यत्रेव चिन्त्यशब्दस्योपेक्षणीयमित्यर्थः स्यात् ।
विश्वास-प्रस्तुतिः
अत्र पुरुषशब्दोत्तरं चिन्त्यशब्दात्प्रागितिशब्दस्तु वर्तते ।
En - Gemini 2.5
Here, however, the word “iti” (thus) is present before the word “cintyam” (to be considered), after the word “Purusha” (person).
मूलम्
अत्र पुरुषशब्दोत्तरं चिन्त्यशब्दात्प्रागितिशब्दस्तु वर्तते ।
विश्वास-प्रस्तुतिः
तेनोक्त एवार्थः स्वारसिकः ।
En - Gemini 2.5
Therefore, the meaning stated is the natural one.
मूलम्
तेनोक्त एवार्थः स्वारसिकः ।
विश्वास-प्रस्तुतिः
उक्तप्रत्युत्तरवाक्येन किं देवतारूपमिति विचिकित्सितं कारणं ब्रह्म पुरुषदेवतारूपमिति निर्णीतमिति स्पष्टम् ।
En - Gemini 2.5
It is clear that by the said reply, the causal Brahman, which was questioned as to its divine form, is determined to be in the form of the Purusha deity.
मूलम्
उक्तप्रत्युत्तरवाक्येन किं देवतारूपमिति विचिकित्सितं कारणं ब्रह्म पुरुषदेवतारूपमिति निर्णीतमिति स्पष्टम् ।
विश्वास-प्रस्तुतिः
किंचिद्राशङ्क्य श्रुतिरेव परिहरति ।
En - Gemini 2.5
Raising a doubt, the Shruti itself resolves it.
मूलम्
किंचिद्राशङ्क्य श्रुतिरेव परिहरति ।
विश्वास-प्रस्तुतिः
एषां कालादीनां संयोगः परस्परसंबन्धः न योनिः आत्मनो जीवस्य सुखदुःखार्थ- [[प्६७]] मेवोक्तसंयोगस्य भावात् अन्यतो भवनात् आत्मापि जीवोऽपि अनीशः योनित्वविषयेऽसमर्थः ।
En - Gemini 2.5
The conjunction of these, like time, is not the source; the Self, the jīva, is also not capable of being the source, because the said conjunction exists only for the sake of the jīva’s pleasure and pain, and because it originates from elsewhere. [[P67]]
मूलम्
एषां कालादीनां संयोगः परस्परसंबन्धः न योनिः आत्मनो जीवस्य सुखदुःखार्थ- [[प्६७]] मेवोक्तसंयोगस्य भावात् अन्यतो भवनात् आत्मापि जीवोऽपि अनीशः योनित्वविषयेऽसमर्थः ।
विश्वास-प्रस्तुतिः
सुखदुःखान्वयाद्धेतोरिति ।
En - Gemini 2.5
Because of its connection with pleasure and pain.
मूलम्
सुखदुःखान्वयाद्धेतोरिति ।
विश्वास-प्रस्तुतिः
अस्मिन्नुपक्रमग्रन्थे किं देवतारूपं जगत्कारणं ब्रह्मेति विमृष्टजगत्कारणब्रह्मत्वस्य योनिः पुरुष इति चिन्त्यम् इत्यंशेन प्रत्युत्तरवाक्यगतेन पुरुषशब्दितदेवतायां विश्रान्तिरिति सिद्ध्या विष्णुरेव जगत्कारणं ब्रह्मेति सिद्धम् ।
En - Gemini 2.5
In this introductory text, the Brahman which is the cause of the world, whose divine form was questioned, is stated to be ultimately resting in the deity denoted by the word Purusha, by the phrase “yoniḥ puruṣa iti cintyam” (the womb, Purusha, is to be considered), which is part of the reply, thereby establishing that Vishnu alone is the Brahman who is the cause of the world.
मूलम्
अस्मिन्नुपक्रमग्रन्थे किं देवतारूपं जगत्कारणं ब्रह्मेति विमृष्टजगत्कारणब्रह्मत्वस्य योनिः पुरुष इति चिन्त्यम् इत्यंशेन प्रत्युत्तरवाक्यगतेन पुरुषशब्दितदेवतायां विश्रान्तिरिति सिद्ध्या विष्णुरेव जगत्कारणं ब्रह्मेति सिद्धम् ।
विश्वास-प्रस्तुतिः
‘तस्यैकत्वं महत्त्वं हि स एकः पुरुषः स्मृतः’ इति महाभारतमोक्षधर्मनारायणीयवचनेन विष्णौ पुरुषशब्दशक्तिग्राहकेण पुरुषपदस्य विष्ण्वावेव शक्त्यवगमात् ।
En - Gemini 2.5
By the Mahabharata Mokshadharma, Narayaniya passage “‘Tasyaikatvaṃ mahattvaṃ hi sa ekaḥ puruṣaḥ smṛtaḥ’ (Indeed, his oneness and greatness, he alone is remembered as Purusha),” which establishes the power of the word “Purusha” for Vishnu, it is understood that the word “Purusha” primarily denotes Vishnu alone.
मूलम्
‘तस्यैकत्वं महत्त्वं हि स एकः पुरुषः स्मृतः’ इति महाभारतमोक्षधर्मनारायणीयवचनेन विष्णौ पुरुषशब्दशक्तिग्राहकेण पुरुषपदस्य विष्ण्वावेव शक्त्यवगमात् ।
विश्वास-प्रस्तुतिः
न ह्येवं शिवादिषु पुरुषशब्दशक्तिग्राहकं वचनमस्तीति शङ्क्यम्; पुराणस्य वैदिकप्रस्थानात्प्रस्थानान्तरत्वेन वैदिकानामनदेयत्वस्य गायत्त्रीतत्त्वार्थविलासे सप्रमाणमुपपादितत्वात् ।
En - Gemini 2.5
Nor should it be doubted that there is any statement establishing the power of the word “Purusha” for Shiva and others; for it has been proved with evidence in Gayatritattvārthavilāsa that Puranas belong to a different tradition from the Vedic tradition, and thus are not to be accepted by those who adhere to the Vedas.
मूलम्
न ह्येवं शिवादिषु पुरुषशब्दशक्तिग्राहकं वचनमस्तीति शङ्क्यम्; पुराणस्य वैदिकप्रस्थानात्प्रस्थानान्तरत्वेन वैदिकानामनदेयत्वस्य गायत्त्रीतत्त्वार्थविलासे सप्रमाणमुपपादितत्वात् ।
विश्वास-प्रस्तुतिः
श्रुत्यादिषु विधिशिवादौ पुरुषशब्दस्य प्रयोगमात्रं तु क्वचित्क्वचिद्विरलतया दृश्यते ।
En - Gemini 2.5
In Shrutis and other texts, the mere usage of the word “Purusha” for Brahma, Shiva, and others is seen rarely in some places.
मूलम्
श्रुत्यादिषु विधिशिवादौ पुरुषशब्दस्य प्रयोगमात्रं तु क्वचित्क्वचिद्विरलतया दृश्यते ।
विश्वास-प्रस्तुतिः
तावता तु न शक्तिसिद्धिः ।
En - Gemini 2.5
However, that alone does not establish semantic power.
मूलम्
तावता तु न शक्तिसिद्धिः ।
विश्वास-प्रस्तुतिः
तर्हि गङ्गापदस्यापि तीरे शक्तिसिद्ध्यापत्तिः; उक्तनारायणीयवचने ‘स एकः पुरुषः स्मृतः’ इत्येवकारार्थकैकशब्देन विष्णुभिन्ने पुरुषपदशक्तिनिराकरणविरोधापत्तेश्च ।
En - Gemini 2.5
Then, the word “Ganga” would also lead to the establishment of its power for the bank (of the river); and there would be a contradiction with the Narayaniya passage, where the word “eka” (one), meaning “eva” (alone), in “Sa ekaḥ puruṣaḥ smṛtaḥ” (He alone is remembered as Purusha), denies the power of the word “Purusha” for anyone other than Vishnu.
मूलम्
तर्हि गङ्गापदस्यापि तीरे शक्तिसिद्ध्यापत्तिः; उक्तनारायणीयवचने ‘स एकः पुरुषः स्मृतः’ इत्येवकारार्थकैकशब्देन विष्णुभिन्ने पुरुषपदशक्तिनिराकरणविरोधापत्तेश्च ।
विश्वास-प्रस्तुतिः
न विष्णुभिन्ने पुरुषपदस्य शक्तिः, किं तु निरूढलक्षणैव जीवत्वेन जीवबोधने ।
En - Gemini 2.5
The word “Purusha” does not have power for anything other than Vishnu; rather, it has only established secondary meaning (nirūḍha-lakṣaṇā) in denoting the jīva (individual soul) as a jīva.
मूलम्
न विष्णुभिन्ने पुरुषपदस्य शक्तिः, किं तु निरूढलक्षणैव जीवत्वेन जीवबोधने ।
विश्वास-प्रस्तुतिः
शिवत्वादिना शिवबोधने तु सांप्रतिकी ।
En - Gemini 2.5
However, in denoting Shiva as Shiva, it is current (samprātikī).
मूलम्
शिवत्वादिना शिवबोधने तु सांप्रतिकी ।
विश्वास-प्रस्तुतिः
न च तर्हि पुरुषपदस्य विष्णौ शक्त्यङ्गीकारे बर्हिराज्याधिकरणविरोधः; वचनेन विरोधे न्यायाप्रवृत्तेः, ‘न हि वचनविरोधे न्यायः प्रवर्तते’ इति न्यायात् ।
En - Gemini 2.5
Nor, then, if the power of the word “Purusha” for Vishnu is accepted, would there be a contradiction with the Barhirājyādhikaraṇa (section concerning the barhis and ājya offerings); for, when there is a contradiction with a scriptural statement, logical inference does not apply, according to the maxim “Indeed, where there is a contradiction with a statement, logical inference does not apply.”
मूलम्
न च तर्हि पुरुषपदस्य विष्णौ शक्त्यङ्गीकारे बर्हिराज्याधिकरणविरोधः; वचनेन विरोधे न्यायाप्रवृत्तेः, ‘न हि वचनविरोधे न्यायः प्रवर्तते’ इति न्यायात् ।
विश्वास-प्रस्तुतिः
तस्मादुक्तश्वेताश्वतरोपनिषद्रीत्या विष्णुरेव जगत्कारणब्रह्मत्वाश्रयव्यक्तिविशेष इति निष्प्रत्यूहम् !
En - Gemini 2.5
Therefore, it is unimpeded that Vishnu alone is the specific individual who is the substratum of Brahmanhood as the cause of the world, according to the stated Shvetashvatara Upanishad.
मूलम्
तस्मादुक्तश्वेताश्वतरोपनिषद्रीत्या विष्णुरेव जगत्कारणब्रह्मत्वाश्रयव्यक्तिविशेष इति निष्प्रत््यूहम् !
विश्वास-प्रस्तुतिः
किं चास्यामुपनिषदि प्रथमाध्यायान्ते तद्ब्रह्मोपनिषत्परं तद्ब्रह्मोपनिषत्परमिति द्विरुक्त्या विचिकित्सितजगत्कारणब्रह्मत्वाश्रयदेवताविशेषनिर्धारणसमाप्त्यवगमात् एतदुपनिषद्गता उपरितनाध्यायाः प्रथमाध्यायोक्तजगत्कारणब्रह्मरूपविष्णुसिद्धान्ताविरोधेन नेया इत्यविप्रतिपन्नम् ।
En - Gemini 2.5
Moreover, in this Upanishad, at the end of the first chapter, the repetition of “Tad Brahmo-paniṣat-param, tad Brahmo-paniṣat-param” (That Brahman is the supreme goal of the Upanishads, that Brahman is the supreme goal of the Upanishads) indicates the conclusion of the determination of the specific deity who is the substratum of Brahmanhood as the cause of the world, which was doubted. Therefore, it is undisputed that the subsequent chapters of this Upanishad should be interpreted in a manner consistent with the established conclusion of Vishnu as the Brahman who is the cause of the world, as stated in the first chapter.
मूलम्
किं चास्यामुपनिषदि प्रथमाध्यायान्ते तद्ब्रह्मोपनिषत्परं तद्ब्रह्मोपनिषत्परमिति द्विरुक्त्या विचिकित्सितजगत्कारणब्रह्मत्वाश्रयदेवताविशेषनिर्धारणसमाप्त्यवगमात् एतदुपनिषद्गता उपरितनाध्यायाः प्रथमाध्यायोक्तजगत्कारणब्रह्मरूपविष्णुसिद्धान्ताविरोधेन नेया इत्यविप्रतिपन्नम् ।
विश्वास-प्रस्तुतिः
अत उत्तराध्यायगता रुद्रादिशब्दा अपि जगत्कारणे श्रूयमाणा योगेन विष्णुपरतया योजनीयाः; अन्यथोपक्रमस्थप्रथमाध्यायविरोधापत्तेः ।
En - Gemini 2.5
Therefore, the words Rudra and others found in the subsequent chapters, when heard in the context of the world’s cause, should also be interpreted as referring to Vishnu through their etymological meaning (Yoga-vritti); otherwise, there would be a contradiction with the first chapter in the introduction.
मूलम्
अत उत्तराध्यायगता रुद्रादिशब्दा अपि जगत्कारणे श्रूयमाणा योगेन विष्णुपरतया योजनीयाः; अन्यथोपक्रमस्थप्रथमाध्यायविरोधापत्तेः ।
विश्वास-प्रस्तुतिः
न च प्रथमाध्याये जगत्कारणब्रह्मत्वविश्रान्तिपर्यवसानभूमिदेवताविशेषनिर्धारणार्थे विधिशिवादिवाचकानां शब्दानां मध्ये कश्चिदपि शब्दोऽस्ति प्रत्युत पुरुषशब्दोक्तस्य विष्णोरेव [[प्६८]] वाचकौ ‘अनन्तश्चात्मा विश्वरूपः’ इति मन्त्रे अनन्तविश्वरूपशब्दावपि श्रुतौ ।
En - Gemini 2.5
Nor is there any word among those denoting Brahma, Shiva, etc., in the first chapter, for the purpose of determining the specific deity in whom the Brahmanhood as the cause of the world ultimately rests. On the contrary, the two words “Ananta” and “Vishvarūpa” are found in the Shruti mantra “Anantaśca Atma Vishvarūpaḥ” (The infinite Self, the universal form), which denote Vishnu, who is referred to by the word “Purusha.” [[P68]]
मूलम्
न च प्रथमाध्याये जगत्कारणब्रह्मत्वविश्रान्तिपर्यवसानभूमिदेवताविशेषनिर्धारणार्थे विधिशिवादिवाचकानां शब्दानां मध्ये कश्चिदपि शब्दोऽस्ति प्रत्युत पुरुषशब्दोक्तस्य विष्णोरेव [[प्६८]] वाचकौ ‘अनन्तश्चात्मा विश्वरूपः’ इति मन्त्रे अनन्तविश्वरूपशब्दावपि श्रुतौ ।
विश्वास-प्रस्तुतिः
‘अनन्तो हरिशेषयोः’ इति कोशात् ‘विश्वरूपो मुरारिः’ इति कोशाच्च तौ शब्दौ विष्णुशक्तौ ।
En - Gemini 2.5
From the lexicon “Ananto Hari-sheṣayoḥ” (Ananta means Hari and Sheṣa), and from the lexicon “Viśvarūpo Murāriḥ” (Viśvarūpa means Murāri), those two words (Ananta and Viśvarūpa) denote Vishnu.
मूलम्
‘अनन्तो हरिशेषयोः’ इति कोशात् ‘विश्वरूपो मुरारिः’ इति कोशाच्च तौ शब्दौ विष्णुशक्तौ ।
विश्वास-प्रस्तुतिः
किं च उपरितनाध्यायेषु ‘क्षरं प्रधानम्’ इति मन्त्रे शिवस्य नियम्यकोटिप्रवेशः कृतः ।
En - Gemini 2.5
Furthermore, in the subsequent chapters, in the mantra “Kṣaraṃ Pradhānam” (Prakṛti is perishable), Shiva is included in the category of what is to be controlled.
मूलम्
किं च उपरितनाध्यायेषु ‘क्षरं प्रधानम्’ इति मन्त्रे शिवस्य नियम्यकोटिप्रवेशः कृतः ।
विश्वास-प्रस्तुतिः
ततः परम् ‘ब्रह्म परम्’ इति मन्त्रे परब्रह्मभिन्नत्वं च निर्दिष्टम् ।
En - Gemini 2.5
Thereafter, in the mantra “Brahma Param” (Brahman is supreme), His distinctness from Parabrahman is also stated.
मूलम्
ततः परम् ‘ब्रह्म परम्’ इति मन्त्रे परब्रह्मभिन्नत्वं च निर्दिष्टम् ।
विश्वास-प्रस्तुतिः
कथं नियम्यस्य परब्रह्मभिन्नस्य शिवस्य पृष्टजगत्कारणब्रह्मत्वं संभवति ।
En - Gemini 2.5
How can Shiva, who is controlled and distinct from Parabrahman, be the Brahman who is the cause of the world, as questioned?
मूलम्
कथं नियम्यस्य परब्रह्मभिन्नस्य शिवस्य पृष्टजगत्कारणब्रह्मत्वं संभवति ।