TODO: परिष्कार्यम्
- FD
- 11 2: 11
- अथ ज्ञानकाण्डानन्तर्गतोपनिषदो विचार्यते ।
- अथर्वशिरउपनिपद्विलासः ।
- अथर्वशिरसि स्थितैः पदकदम्बकैर्विष्णुतः
- शिवस्य जनिरुच्यते प्रथमसत्त्वसंकीर्तनात् । तथापि गुरुभावना शिवसुरे हि कार्या जने-
- र्यतोऽयमुपदेष्टृतामधिगतः स देवान्प्रति ॥
- "
- ‘देवा ह वै स्वर्ग लोकंमगमन् ते देवा रुद्रमष्टच्छन्को भवानिति, सोऽब्रवीत्’ इत्यन्तं वाक्यं स्पष्टार्थकम् । ‘अहमेकः प्रथममासं वर्तामि च भविष्यामि च नान्यः कश्चित्’ इत्यस्य रौद्रवचनवाक्यैकदेशस्यायमर्थः – अहं रुद्रः प्रथममासमुद्भवं प्राप्तवान् । प्रथमशब्द समभिव्याहृतस्यासधातोः प्रथमं यज्ञदत्त आसीदित्यादौ विष्णुमित्ररूपद्वितीयानुजोत्पत्तेः पूर्वं यज्ञदत्त उत्पन्न इत्यर्थस्य लोकसिद्धत्वात् प्रथमत्वस्य द्वितीयप्रतियोगिकत्वात् । प्रथममित्य- स्याग्रे इत्यर्थत्वं तु न संभवति, अग्रत्वस्य पाश्चात्त्यकालप्रतियोगिकत्वेन द्वितीय- प्रतियोगिकत्वासंभवात् । प्रथमाग्रशब्दयोः प्रवृत्तिनिमित्तभेदेन एकार्थत्वासंभ- वात् । असधातोः सत्तामात्रार्थत्वेऽपि प्राथम्यस्य तत्रान्वयादेव रुद्रसत्तायाः प्रार्थम्योक्तौ तदन्यगतसत्ताया द्वितीयत्वाद्यावश्यिकतया अन्यसत्तापेक्षया रुद्र- मताप्राथम्यस्य रुद्रोत्पत्तिप्राथम्य एव विश्रान्तेः । तदुक्तं जैमिनीयन्यायमालायां प्रवर्गाधिकरणे माधवाचार्यैः ‘प्रथमद्वितीयादिशब्दाः क्रियाया आवृत्तौ मुख्यास्तत्संबन्धाद्वस्तुपपचर्यन्ते…. आदावुत्पन्नत्वात्प्रथमः पुत्रस्तदनन्तरमुत्पन्नत्वा- द्वितीयः’ इति । पाश्चात्त्यत्वं द्वितीयतृतीयादिसाधारणम् । द्वितीयत्वं तु द्वितीय- मात्रवृत्तीत्यग्रप्रथमशब्दप्रवृत्तिनिरूपकयोर्भेदः । वर्तामि च भविष्यामि चेत्य- नेन रुद्धचेतनस्य चिरजीवित्वमुच्यते । नान्यः कश्चिदित्यनेन रुद्रव्यतिरिक्तस्य
- ४६
- नि
- प्रथमोत्पत्तिः प्रतिषिध्यते । प्रथमोत्पत्तेः प्रस्तुतत्वात् । ‘मत्तो व्यतिरिक्त सोऽन्तरादन्तरं प्राविशत् दिशश्चान्तरं प्राविशत्’ इति रुद्रवाक्यस्यायमर्थः । व्यतिरिक्त इत्यस्य नान्यः कश्चिदित्यनेन नान्वयः भिन्नार्थकेनान्यपदेन प! रुक्त्यापत्तेः । किं तु उपरितनेन इतिपदेन । ‘अथात आदशो नेति नेति’ इत्यत्रेव इतिशब्दस्येदंशव्द समानार्थकत्वात् । व्यतिरिक्त इतीत्यत्र इतिशब्द. ऽयमित्यर्थे । स इति तच्छन्दस्तु वेदशास्त्ररूपप्रदेशान्तरसिद्ध इत्यर्थे । सोऽयं देवदत्त इत्यादाविदशन्दस्य संनिकृष्टार्थे तच्छन्दस्य प्रदेशान्तरवृत्तित्वेन प्रसिद्धायें वर्तनदर्शनात् । तथा च मत्तो व्यतिरिक्तो रुद्राद्भिन्नः अयं मद्बुद्धिसंनिकृष्टः सर्ववेदप्रसिद्धः परमात्मा अन्तरादन्तरं प्राविशदित्यर्थः । एतेन मत्ता व्यतिरिक्त इतीत्यन्तं रुद्रवाक्यम् सोऽन्तरादित्यस्य रुद्रवाक्यत्वे रुद्रेणैव स इति प्राविशदि
- परोक्ष्यनिर्देशेन स्वभिन्नः सर्वानुप्रविष्टः परमात्मा इत्यभ्युपगतः स्यातः
- तन्मा भूदित्येतदर्थं सोऽन्तरादन्तरं प्राविशदिति श्रुतिवाक्यमित्यभ्युपगम्य सोऽहं नित्यानित्योऽहमिति पुनः रुद्रवाक्यमित्युक्तमपास्तम् । तत्तत्पदानां तत्तत्स्थान एव ऋजुगत्यान्त्रयं स्वीकृत्य उक्तसर्ववाक्यानां रुद्रवाक्यत्वे संभवति कस्यचिद्रुद्रवाक्यत्वं कस्यचिच्छ्रुतिवाक्यत्वमित्यस्य कल्पनस्यानौचित्यात् । व्यतिरिक्तपदस्य भवत्पक्ष कुत्राप्यन्वयानुपपत्तेश्च । सोऽहं नित्यानित्य इत्यादेरयमर्थः - अहंशब्दिते रुद्रे तच्छ- व्दार्थस्य परमात्मन उपादानोपादेयभावनिबन्धनतादात्म्य संबन्धेन मृद्घटः सर्व ख. ल्विदं ब्रह्मेत्यादाविवान्वयः । रुद्रस्य स्वरूपतो नित्यानित्यवस्त्वनुप्रविष्टत्वेन रूपेण नित्यानित्यवस्तुतादात्म्याभावेऽपि सर्वानुप्रविष्टपरमात्मतादात्म्यापन्नत्वेन रूपेण नि- त्यानित्यतादात्म्यमिति वोधयितुमहंपदस्य स इति विशेषणं दत्तम् । अन्यथा स इति पदं विना अहं नित्यानित्य इत्येव श्रूयेत । रुद्रस्य परमात्मोत्पन्नत्वं च ’ नाराय णाह्रझा जायते’ ‘नारायणादुद्रो जायते’ इत्यादिना रुद्रस्य नारायणाधीन - स्थितिकत्वं नारायणाधीनप्रलयवत्त्वं च ‘नारायणे प्रवर्धन्ते’ ‘नारायणे प्रलीयन्ते’ इत्यादिना च नारायणोपनिषदि प्रतिपादितं दृश्यते । यदधीनोत्पत्तिस्थितिप्रलय- कत्वं यस्य तस्य तत्तादात्म्यमित्यत्र ‘सर्वं खल्विदं ब्रह्म तज्जलानिति’ इति
- ४७
- श्रुतिः प्रमाणम्, कृत्स्नस्य प्रपञ्चस्य ब्रह्मत्वात् ब्रह्मणि लीयमानत्वात् तेन
- रक्ष्यमाणत्वाद्धेतोः
- ब्रह्मात्मकं जगदिति सं खल्वितिश्रुत्यर्थः । तथा च परमा- " स्मतादात्म्यापन्नत्वविशिष्टोऽहं नित्यानित्यतादात्म्यवानिति फलितम् । अहं ब्रह्मे- त्यादावपि इत्यस्यानुषङ्गेण वाक्यायों वर्णनीयः । ‘सं ते प्राणो वायुवतिन गच्छतां सं यजत्रैरङ्गानि इत्यादी प्रथम श्रुतस्य गम्धातोरनुषङ्गवत् ‘आत्मन आकाशः संभूतः, आकाशाद्वायुः’ इत्यादौ संभूतशब्दस्योपर्यनुपङ्गवञ्च । एवम् ‘मां यो वेद’ ‘स सर्वान्वेद’ इत्यस्य एवं परमात्मतादात्म्यापन्नत्वेन मां रुद्रं यो जानाति स सर्वाञ्जानातीत्यर्थः । ‘यो वै रुद्रः स भगवान्, यश्च ब्रह्मा भूर्भुवः- सुवस्तस्मै वै नमो नमः, शीर्षञ्जनपदों विश्वरूपोऽसि यश्च विष्णुर्यश्च महेश्वरः ’ इत्यादेः । यद्यपि ’ ततो देवा उर्ध्ववाहवस्तन्वन्ति’ इत्युपक्रमानुसारेण स्तुतितया न स्वार्थे तात्पर्यम् । उक्तं हि दीक्षितवर्यैः नृसिंहतापिन्याम् ’ यो वै नृसिंहो भगवा- न्यश्च ब्रह्मा भूर्भुवः सुवस्तस्मै वै नमो नमः, यश्च विष्णुः यश्च रुद्रः’ इत्यादेः अथ कैर्मन्त्रैर्देवः स्तुतो भवति स्वात्मानं दर्शयतीत्युपक्रमानुसारेण स्तुतित्वम्, ‘स्तुवन्नामसहस्त्रेण’ इत्युपक्रमानुसारान्नामसहस्रस्य स्तुतित्वं चेति । तथापि ‘यो वै रुद्रः स भगवान्’ इत्येतद्गताक्षरस्वरसगतिपर्यालोचने विष्णुपरत्वमेव तस्य प्रतीयते । तत्र रुद्रशब्दो भगवच्छन्द प्रतिपर्यायमभ्यस्तो दृश्यते । रुद्रशब्दस्य कोशेन शिवरूढत्ववत् ‘वासुदेवार्जुनाभ्यां वुन्’ इति सूत्र महाभाप्ये- नेयं क्षत्रियसमाख्या संज्ञेपा तत्र भगवत इति भगवच्छन्दस्य विष्ण्वसाधारणवासुदेव- पर्याग्रत्वोक्त्या विष्णुरूढत्वमविप्रतिपन्नम् । ‘शक्तिग्रहं व्याकरण -’ इत्याद्युक्तरीत्या कोशवद्वयाकरणस्यापि शक्तिग्राहकत्वात् । तत्र कैयटोsपि — ‘नित्यः कश्चिद्दे- वताविशेषः परमात्मा इह वासुदेवशब्देन गृह्यते ’ इत्याह । तथा च रुद्रस्य विष्णोश्च प्रतिपर्यायं प्रतिपाद्यत्वं दृश्यते अभ्याससामर्थ्यात् । रुद्रस्य प्रतिपाद्यत्वं तत्त्वोपदेष्टृत्वादिना आचार्यत्वप्रयुक्तम्। आचायेंऽपि यथा परमात्मनि भक्तिस्तथा मक्तिः कार्येति ‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता धर्वाः प्रकाशन्ते महात्मनः’ इति श्वेताश्वतरोपनिषत्प्रतिपादयति । विष्णोश्व
- ግረ
- योऽन-
- साक्षात्परमात्मत्वात्तद्भक्तेः परमपुरुषार्थतया प्रतिपाद्यत्वम् । विष्णोः परमात्मत्वमः | पदोदाहन कैयटवननेन श्रुत्यादिवहुप्रमाणे सिद्धमेव । द्वयोर्मध्ये विष्णोः प्राधान्यं रुद्रस्य तदुपसर्जनत्वमेव । तदुपसर्जनत्वं च वाक्यस्वरसगत्या प्रतीयते- यः परमात्मा रुद्रः रुद्रतादात्म्यापन्नः तादात्म्यस्योपादानोपादेयनिबन्धनस्थ सर्वं खल्वित्यादिश्रुतिसिद्धत्वात्, यश्च परमात्मा चतुर्मुखतादात्म्यापन्नः’ रुद्रचतुर्मुखतादात्म्यापन्नो भगवान्विष्णुः । तस्मै उभयतादात्म्यापन्नाय विष्णुरुः पाय परमात्मने नम इत्यर्थः । एवमन्येऽपि पर्याया एवमेव व्याख्येयाः । - कारः स प्रणवो यः प्रणवः स सर्वव्यापी, यः सर्वव्यापी सोऽनन्तः, न्तस्तत्तारम्, यत्तारं तत्सूक्ष्मम्, यत्सूक्ष्मं तच्छुक्लम्, यच्छुक्कं तद्वैद्युतम् यद्वैद्युतं तत्परं ब्रह्म’ इति प्रणवं प्रस्तुत्य ’ स एकः’ इत्यादिना प्रणवस्यैव नामान्युक्त्वा ‘अथ कस्मादुच्यते ओंकारः’ इत्यादिना ओंकारादीनि नामा- नि निरुच्यन्ते । न ह्यत्र नामनिर्वचनत्रलेन शिवस्य विष्णोर्वा प्रतिपादनमिति शक्यं वक्तुम्, ओंकारस्यैव प्रस्तुतत्वात् । ओंकारस्य च तद्वाच्यस्य च तादात्म्यविवक्षया तद्वाच्यस्यापि प्रस्तुतत्वे विष्णुरेव तद्वाच्यः स्वीकर्तव्यः, प्रणवस्य भगवदष्टाक्षरद्वादशाक्षरषडक्षरमन्त्रशरीरघटकतया विष्णोरेव तद्वाच्यत्वावगमात् । नारायणोपनिषदि ‘ओमित्येकाक्षरम्, नम इति द्वे अक्षरे, नारायणायेति पञ्चाक्षराणि, एतद्वै नारायणस्याष्टाक्षरं पदम्’ इति भगवन्मन्त्रशरीरघटकतया ओंकारो निवेशितः । न त्वेवं शैवपञ्चाक्षरादिदेवतान्तरमन्त्रेषु तन्मन्त्रघटकतया प्रणवनिवेशो दृश्यते येन देवतान्तरस्यापि प्रणववाच्यत्वं स्यात् । शैवपञ्चाक्षरे च प्रणवस्य मन्त्रवहिर्भाव एव दृश्यते । अत एव च स्त्रीशूद्रादीनां शैवपञ्चाक्षरेऽधिकारः । वस्तुतस्तु पञ्चाक्षरस्य श्रोतत्वमेव न सिध्यति, ‘नमः शिवाय च’ इति श्रुतौ चान्तस्य मन्त्रत्वश्रवणात् । ’ सदाशिवोम् ’ इति सदाशिवपदोत्तरमोंकारश्रवणात् सदाशिवस्य
- प्रणववाच्यत्वमपि
- .
- कैश्चिदुक्तं न युक्तम्; ‘सुब्रह्मण्योम्’ ‘भूर्भुवः सुवराप ओम् ? इत्यादाव प्रणवस्य दर्शनेन सुब्रह्मण्यादेरपि प्रणववाच्यतापत्तेः । इष्टापत्तौ ’ ओं तत्स
- दिनि निर्देशो ब्रह्मणस्त्रिविधः स्मृतः’ इति ‘ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनु- स्मरन् । यः प्रयाति स सद्भावं याति नास्त्यत्र संशयः’ इति च भगवद्गीता- वचनेन ‘ओमित्येवं सदा विप्राः पठत ध्यात केशवम्’ इति हरिवंशे शिववचनेन ‘हरिरोमिति वक्तव्यम्’ इति नारदव्यासशिक्षावचनेन च प्रणवः परब्रह्म- विष्णोर्वाचकः विष्णुस्तद्वाच्य इत्यवगमेन विष्णुप्रणवयोर्वाच्यवाचकत्व- भूतस्य बोधकोदाहृतबहुप्रमाणविरोधापत्तेरित्यलम् ।
- ‘तदेतचरितम्’ इत्यादेरयमर्थः - रुद्रस्य को भवानित्युपक्रमपर्या- लोचनया तच्चोपदेष्टृतया आचार्यत्वेन तदुपदेशादिरूपं रुद्रचरितमिति । अग्निरि- त्यादिना भस्म गृहीत्वा निमृज्याङ्गानि संस्पृशेत् व्रतमेतत्पाशुपतम् । पशुपाश- विमोक्षायेत्यस्यायमर्थः पशुयागसाधनतया विहितस्य पशोर्यत्पाशेन बन्धनं तन्मोचनकाले ‘अदितिः पाशान्प्रमुमोक्तुं’ इति मन्त्रस्य लिङ्गेन साधनत्ववत् अनारभ्याधीतेन अग्निरित्यादिवाक्येन पशुपाशविमोक्षणोद्देशेन अग्निरित्यादि- मन्त्राभिमन्त्रितभस्मना पाशुकसर्वाङ्गलेपनस्य विधानात् यागाङ्गभूतपशुपाशविमो- क्षणकाले भस्मना पश्ववयवेषु लेपनं कर्तव्यमिति । एवमर्थवर्णन एव च पशुपा शशब्दयोः प्रसिद्धार्थः स्वीकृतो भवति । न हि प्राणिसामान्ये पशुशब्दस्य शक्तिग्राहकं कोशादिकमुपलभ्यते । न वा पशुशब्दो वेदशास्त्रसंपन्ने महापुरुषे मनुष्यसामान्ये वा दृष्टप्रयोग उपलभ्यते । न हि रशनावाचकस्य पाशशव्दस्य संसारबन्धनरूपार्थे शक्तिग्राहककोशादिकं प्रयोगो वा उपलभ्यते । चतुप्पाज्जन्तौ तु पशुशब्दस्य शक्तिग्राहककोशः प्रयोगश्च दृश्यते रशनायां पाशशब्दस्य चेत्यलम् । कैवल्योपनिपद्विलासः ।
- T
- ध्यात्वा मुनिर्गच्छति भूतयोनिमित्यादिवाक्यश्रुतभूतयोनिः । विष्णुर्न चेशो यत आदिवाक्ये कैवल्यगे विष्णुगतेर्निरुक्तिः ॥
- ’ अधीहि भगवन्ब्रह्मविद्यां वरिष्ठां सदा सद्भिः सेव्यमानां निगूढाम् । ययाचिरात्सर्वपापं व्यपोह्य परात्परं पुरुषमुपैति विद्वान्’ इत्यादिना कैवल्योपनिपदि यया विद्यया सर्वपापविमोचनपूर्वकं नारायणाख्यं ब्रह्म प्राप्यते तां विद्यां मह्यं
- v. 7.
- ५०
- ब्रूहीत्यर्थकेन प्रश्नवाक्येन मुक्तभोग्यस्य नारायणरूपत्वावगमेन ‘उमासहाय परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् । ध्यात्वा मुनिर्गच्छति भूतयोनि समस्तसाक्षिं तमसः परस्तात्’ इत्युपसंहारे ध्यानप्राप्यत्वेन निर्दिष्टस्य भूतयोनेरपि नारायणरूपत्वमेव वक्तव्यम् । अन्यरूपत्वे उपक्रमविरोधापच्या उपक्रमाधि- करणविरोधापत्तिः । न च उपक्रमे नारायणासाधारणशब्दस्याश्रवणेनोपक्रमस्य
- नारायणपरत्वासिद्धौ तदनुरोधेनौपसंहारिकभूतयोनिशब्दस्य नारायणपरत्वं कथं स्यादिति वाच्यम्; पञ्चमवेदत्वेन प्रसिद्धे महाभारते मोक्षधर्मे नारायणीये ‘तस्यै- कत्वं महत्त्वं च स एकः पुरुषः स्मृतः । महापुरुषशब्दं हि विभकः सनातनः ’ इति नारायणं प्रकृत्य वचनमस्ति । इदं च वचनं हेतूपन्यासपूर्वकं नारायणस्य पुरुषशब्दवाच्यत्वं कथयति । हि यस्मात् सनातनः एको नारायणः महापुरुष- शब्दं विभर्ति तस्मात्स एकः महापुरुषशब्दधारी नारायण एवं पुरुषः स्मृतः पुरुषशब्दवाच्यत्वेन संमतः । स एक इत्यत्र एकशब्दः ‘एके मुख्यान्यके- वलाः’ इति कोशात् कैवल्यार्थकतया एवकारपर्याय इति वचनार्थः । न च एतद्वचनवत्सहेतुकं देवतान्तरे शक्तिग्राहकं किंचित्पुरुषशब्दस्योपलभ्यते । पूर्वमेवाहमिहासं तत्पुरुषस्य पुरुपत्वम्’ इत्यादिवचनं तु अवयवार्थप्रदर्शनपूर्वकं पुरुषशब्दप्रवृत्तिं कथयति । अतो नास्य रूढिग्राहकत्वम् । पुराणवचनानि बहूनि यथा शंकरशब्दोऽयं महादेवे व्यवस्थितः । तथा पुरुषशब्दोऽयं वासुदेवेऽव- तिष्ठते । एवं पुरुषशब्दोऽयं रूढ्या वक्ति जनार्दनम् ’ इत्यादीनि विष्णौ रूढिया - हकाणि सन्ति । ’ पुरुषो नाम संपूर्णः शिवः सत्यादिलक्षणः’ इत्यादि शिवे पुरुषशब्दवृत्तिग्राहकवचनं स्कान्देऽस्तीति दीक्षितवर्यैर्लिखितम् । तद्वचने च रूढि - वृत्तिग्राहकं किमपि पदं नोपलभ्यते । यद्यपि नामपदमस्ति तथापि ‘अपि वा नामधेयं स्याद्यदुत्पत्तावपूर्वमविधायकत्वात्’ इत्युद्भिदधिकरणे ‘तद्वयपदेशं च’ इति श्येना- धिकरणे च केवलयौगिकस्य गौणस्य च नामत्वनिर्धारणस्य भाट्टदीपिकायामुक्तत्वेन नामशब्दस्य रूढिग्राहकत्वानियमात् । शिवपुराणेषु शिवे पुरुषशब्दरूढिग्राहकव- चनान्युपलभ्येरंश्रेदुपलभ्यन्तां नाम । अनुपदोदाहृतमहाभारतवचने ’ स एकः
- 6
- ५१
- पुरुषः स्मृतः" इति एवकारार्थकेकशब्देन नारायणान्यस्य पुरुषशब्दवाच्यत्वम-
- तिषेधेन प्रबलपञ्चमवेदमहाभारतविरुद्धतया पुरुषशब्दस्य शिवरूढिग्राहकपुराण- वचनान्यप्रमाणान्येव । तथा च ‘परात्परं पुरुषमुपैति विद्वान्’ इति विद्या- प्राप्ये नारायणासाधारणपुरुपशव्दस्य दर्शनेन उपक्रमस्य नारायणपरत्वस्य निष्प्रत्यूहत्वात् । न च तत्क्रतुन्यायेन प्राप्यस्य भूतयोनेरुपाय कोटिप्रविष्टोमास- हायत्वमेव युक्तमिति शङ्कथम् । प्राप्यकोटिगत भूतयोनिशब्दस्य केवलयौगिक- त्वेन विशेप्यसाकाङ्क्षस्य प्राप्यकोटित्वेन स्वसमानजातीयोपक्रमगतपुरुषपदमु- ख्यार्थ विष्णुपरत्वे संभवति स्वविजातीयोपायको टिगतोमा सहायपरत्वासंभवात् । प्राप्यस्योपायको टिगतान्यरूपत्वे उक्तरीत्या शास्त्रेणैव सिद्धे तत्क्रतुन्यायस्य वचनविरुद्धत्वेन प्रकृतेऽप्रसरात् । अत एवाद्वैतिनां सिद्धान्ते ’ तद्य इत्थं विदुः ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिपमभिसंभवन्ति’ इत्यादौ अब्रह्मत्र- तोरपि पञ्चाग्निविद्योपासकस्यार्चिरादिद्वारा ब्रह्मप्राप्त्युक्तिर्वचनवलात्संगच्छत इत्युक्तम् | ’ यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये संपन्नो यथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकम्’ इत्यादौ तत्क्रतुन्यायमनादृत्य वच- नवलात्त्रिमात्रप्रणवे ब्रह्मदृष्टिं कुर्वतः प्रतीकोपासकस्य ब्रह्मप्राप्त्युक्तिश्चाद्वैतिनां संगच्छते । अत्र यद्यप्युमा सहायध्यानेन भूतयोनिरूपनारायणप्राप्तिः फलमित्यु- क्त्या साक्षादेव भगवत्प्राप्ति प्रत्युमा सहायध्यानस्य साधनत्वं प्रतीयते, तथापि उपक्रमे ‘परात्परं पुरुषमुपैति विद्वान्’ इत्यत्र पुरुषशब्दित भगवत्प्राप्ति प्रति साधनतया निर्दिष्टस्य विद्वानित्येतद्घटकीभूतवेदनस्य विषयाकाङ्क्षायामुपेयत्वा- ख्यप्राप्यत्वेन निर्दिष्टस्य पुरुषस्यैव संनिहितत्वेन विषयत्वौचित्यात् । पुरुष- शब्दितविष्णुध्यानादेव विष्णुप्राप्तिलक्षणं फलं सिध्यतीत्यवगमेन एतादृशो- पक्रमाविरोधाय औपसंहारिकोमा सहायध्यानगतं भगवत्प्राप्तिसाधनत्वं पुरुषशब्दित- विष्णुज्ञानद्वारकमित्यवसीयते । अत एव हरिवंशे कैलासयात्रायाम् ’ ज्ञात्वा मां सर्वयत्नेन ततो जानीत केशवम् । उपास्योऽयं हरिर्विप्रा उपायोऽस्मि हरेः स्मृतौ ॥
- ५२
- एष संसारविभवं व्यपोहति न संशयः’ इति देवानृषींश्च प्रति शिववचनमुक्ताक संगच्छते । एतेन उमासहायं ध्यात्वा मुनिर्भवति मननाख्यविष्णुज्ञानवान्भवनि, विष्णुज्ञानेन च भूतयोनिं गच्छतीत्यर्थवर्णनं वाक्यभेदापादकं प्रौढिमात्रेणोत्त मित्यवगन्तव्यम् । एतेन भूतयोनेस्तत्क्रतुन्यायेनामासहायत्वावश्यिकत्वेन ’ स ब्रह्मा
- स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् स एव विष्णुः’ इत्यादौ उपरितन- ग्रन्थे स इति तच्छब्देनोमासहायभूतयोनिमनूद्य ब्रह्मादीनां विभूतित्वकथनेन तुरीयमुमासहायं ब्रह्म सिध्यतीति शिवतत्त्वविवेकोक्तमपास्तम्, अनुपदोक्तरीत्या भूतयोनेर्विष्णुरूपत्वात् तत्क्रतुन्यायस्य चाप्रसरादुमासहायस्य तुरीयत्वकथना- सिद्धेः । वस्तुतस्तु त्रिमूर्तीनां मध्ये ’ स ब्रह्मा स शिवः’ इति विधिशिवयोविं भूतित्वकथने एवकारो न दृश्यते । त्रिमूर्त्यन्तर्गतविष्णोः स एव विष्णुरिति मूतयोनिमनृद्य विष्णुत्वोक्तौ एवकारो दृश्यते । तेन चावगम्यते भूतयोनिरेव विष्णुः, न तु विधिशिवाविव भूतयोनिविभूतिरिति तुरीयचेतनस्य द्वितीयस्य च स्वरूपैक्यं प्रतीयत इत्यलम् ।
- अथर्वशिखोपनिषद्विलासः ।
- शिखायां मात्राः स्युः प्रणवघटकास्तासु चरमा
- द्वितीयादेवैक्यं भजति तटिता स्वाङ्गनियतेः । तुरीयो देवोऽतो हरिरवगतो नेतर इति
- प्रसूतित्यागोक्तिर्विधिमुखसुरालम्बनपरा ॥
- ‘यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभि- संविशन्ति सद्विजिज्ञासस्व तद् ब्रह्म’ इतिश्रुति- ‘जन्माद्यस्य यतः १ - इतिसूत्राभ्यां ब्रह्मलक्षणतयोक्तं जगदुत्पत्तिस्थितिलयत्रयकारणत्वं हरिहरविरिञ्चानां मध्ये किंनिष्टमिति विशये विनिगमकाभावात्त्रयनिष्ठमिति प्राप्तेऽभिधीयते – जन्मादि- सूत्रोक्तब्रह्मलक्षणं न विधिशिवयोः संभवति, तत्सूत्रे जन्म आदि यस्य तज्जन्मादि अस्य परिदृश्यमानप्रपञ्चस्य यतस्तद्ब्रह्मेत्यर्थः प्रतीयते । तेन च जगज्जन्मस्थितिय्यत्रयकारणत्वं ब्रह्मणो लक्षणमिति सिध्यति, न तु जन्म
- ५३
- कारणत्वमात्रं स्थितिकारणत्वमात्रं लयकारणत्वमात्रम् । जन्मकारणत्वमात्रस्य ब्रह्मलक्षणत्वे सूत्रे जन्मास्येति निर्देष्टव्यम् । न तु जन्माद्यस्येति, आदिशब्दस्य facteria | श्रुतावपि जन्मस्थितिलयत्रयाश्रयं तच्छब्देनानूद्य ब्रह्मत्व- क्त्या त्र्यकारणत्वमेव ब्रह्मलक्षणमित्युक्तं भवति । अन्यथा यतो वा इमानि भूनानि
- जायन्ते तद्ब्रह्म, येन जातानि जीवन्ति तद्ब्रह्मेति जन्माद्येकैकाश्रयानु- वादार्थ तत्र तत्र तत्पदं स्यात् । ईदृशं च जन्मादित्रयकारणत्वं न क्वचिदपि श्रुतौ विधिशिवयोः प्रतिपादितं दृश्यते । विष्णौ तु ‘नारायणाद्ब्रह्मा जायते ’ ‘नारायणा द्रुद्रो जायते’ ‘नारायणादिन्द्रो जायते ’ ’ नारायणाद्वादशादित्या रुद्रा वसवः सर्वाणि च्छन्दांसि नारायणादेव समुत्पद्यन्ते नारायणे प्रवर्धन्ते नारायणे प्रलीयन्ते ब्रह्मा नारायणः शिवश्च नारायणः शक्रश्च नारायणः नारायण एवेदं सर्वम्’ इति नारायणोपनिषदि त्रिपाद्विभूति नारायणोपनिषदि च विधिशिवादिकृत्स्ननग- दुत्पत्तिस्थितिलयकारणत्वं कथितमस्ति । अतो जिज्ञास्यं ब्रह्म विष्णुरेवेति । ननु ‘ध्यायीतेशानम्, प्रध्यायितव्यम् इदं सर्व ब्रह्मविष्णुरुद्रेन्द्राः संप्रसूयन्ते सह भूतैः सर्वाणि चेन्द्रियाणि न कारणं कारणानां धाता ध्याता कारणं तु ध्येयः सर्वैश्वर्यसंपन्नः सर्वेश्वरः शंभुराकाशमध्ये सर्वमन्यत्परित्यज्य शिव एको ध्येयः शिवंकरः इति समाप्ताथर्वशिखा’ इत्यथर्वशिखोपनिषद्वाक्येन विष्णोर्जन- नोक्त्या न तस्य परब्रह्मत्वं संभवतीति चेन्न अस्यामुपनिषद्युपक्रमे प्रथमा रक्तपीता महद्ब्रह्मदैवत्या द्वितीया विद्युन्मती कृष्णा विष्णुदैवत्या तृतीया शुभाशुभा शुक्ला रुद्रदैवत्या यावसानेऽस्य चतुर्थ्यर्धमात्रा सा विद्युन्मती सर्ववर्णा पुरुषदैवत्या’ इति विष्णुदैवत्यद्वितीयमात्रायाः पुरुषदैवत्यचतुर्थार्धमात्रायाश्च विद्युन्मतीत्वोक्त्या इतरयोश्च तदनुक्त्या द्वितीयार्धमात्रादेवतयोः विष्णुपुरुषयोरै- क्यसिद्धया अर्धमात्रादैवपुरुषस्य परमात्मनः ‘नादान्ते परमात्मनि संप्रतिष्ठाप्य ध्यायीतेशानम्’ इत्युपरितनवाक्येन प्रणवान्तार्धमात्रा रूपत्वस्य कथनेन वाच्य - वाचकयोस्तादात्म्यरीत्या अर्धमात्रा देवतायाः पुरुषस्य परमात्मत्वं निष्प्रत्यूहमिति शेवैरप्यभ्युपगमेन तादृशपरमात्माभिन्नस्य विष्णोर्ब्रह्मविष्णुरुद्रेन्द्राः संप्रसूयन्ते
- "
- ,
- ५४
- इत्युपसं-
- इत्यत्र मुख्योत्पत्तिस्वीकारे परमात्मन एवोत्पत्तिरुक्ता स्यात् । तथा मनि : प्रसज्जेत । अत उपक्रमाविरोधाय विष्णोर्जनिरवताररूपोच्यनेन तु मुख्यत इत्यवगमेन विष्णोः परब्रह्मत्वाविरोधात् । किं च ‘ध्यायीतेशानम्’ इत्युपक्रमे यद्धानं विहितं तस्यैवार्थस्य ‘शिव एको ध्येयः शिवंकरः ’ हारात् उपक्रमोपसंहारयोरेकार्थत्वे एकवाक्यत्वेन तद्घटकीभूतानां तन्मध्यपतिता- नामपि सर्वेषां विधायकप्रत्ययघटितानामप्यर्थवादत्वस्य ‘पौर्णमासीदुपांशुयाजः स्यात्’ इति उपांशुयानाधिकरणे स्थापितन्यायेन ’ इदं सर्वे ब्रह्मविष्णुरुद्रेन्द्राः संप्र सूयन्ते’ इत्यादेरर्थवादत्वावश्यिकतया अर्थवादस्य च ’ स्तुतिमात्रमुपादानादिनि चेन्नापूर्वत्वात्’ ‘स्तुतयेऽनुमतिर्वा ’ इत्युत्तरतन्त्रसूत्ररीत्या स्वार्थतात्पर्य भावस्याव- गत्या उक्तार्थवादवाक्येन विष्णूत्पत्तेर्वक्तुमशक्यत्वाच्च तस्य परब्रह्मत्वं निष्प्रत्यूहम् । एतेन ‘विष्णुरित्था परममस्य विद्वाञ्जातो बृहन्नभिपाति तृतीयम्’ इनि ऋग्वेदश्रुत्या विष्णोरुत्पत्तिरित्युक्तमपास्तम् । उक्तश्रुत्या विष्णूत्पत्तेरेवान- तिपादनात् विष्णुर्बृहञ्जात इत्यन्वये उत्पत्तिरुक्ता भवेत् । स चायुक्तः । अव्यवहितान्वय संभव व्यवहितान्वयस्यासंभवात् । इत्थेति पदेन विष्णोरन्वयं स्वीकृत्य वाक्यं पदद्वयात्मकं परिसमाप्य अस्येति पदेन पदद्वयात्मक वाक्यो- पात्तस्य परामर्शनीयतया विष्णोरित्यस्य वृहजात इत्यन्वये अस्येतिपदपरामर्शनी- यार्थासंगतिप्रसङ्गाच्च । प्रत्युत विष्णोर्महामहिमत्वमेवानया श्रुत्या प्रतिपाद्यते विष्णुः इत्था पूर्वोक्तवमादिगुणविशिष्टः, अतोऽस्य विष्णोः परमं पदं विद्वान् जानन्पुरुषः बृहज्जातः महत्त्वं प्राप्तवान्, तृतीयं भूमिस्वर्गापेक्षया तृतीयं सत्यलोकाख्यं स्थानं पाति रक्षति चतुर्मुखभावं प्राप्नोतीति श्रुत्यर्थः स्वारसिकः प्रतीयते । यत्तु शिवतत्त्वविवेके ‘विष्णुर्वाकामयत पुण्यं श्लोकं शृणवानीति न मा पापिनी कीर्तिरागच्छेदिति स एतं विष्णवे शोणायै पुरोडाशं त्रिकपालं निरवपत्, ततो वै पुण्यं श्लोकमशृणुत’ इति नक्षत्रेष्ट्यर्थवादेन विष्णोः पापसंवन्धः कर्माधीन- मैश्वर्य च प्रतीयते । शतपथब्राह्मणे ’ पुरुषो ह वै नारायणो अकामयत, अतितिष्ठेयं सर्वाणि भूतान्यहमेवेदं सर्वं भूतानीति स इदं सर्वमभवत्’ इत्यनेन५५
- पुरुषमेधार्थवादेन पुरुषसूक्तसिद्धं सार्वात्म्यं विष्णोः कर्मायत्तं प्रतीयते । ‘वैष्णवं वामनमालभेत इति विध्यनन्तरं श्रुतेन ‘विष्णुरेव भूत्येमाल्लोकानभिनयति इत्यर्थवादेन विष्णुत्वस्य कर्मसाध्यत्वं प्रतीयते । तत्रैवामिप्रकरणे उख्याग्निभरण-
- संनिधौ श्रुतस्य ‘यद्विप्णुक्रमान्क्रमते ’ इति मन्त्रस्य प्रकृतकर्माङ्गभूतकर्तृसं- |स्कार विष्णुक्रमप्रतिपादकस्यानन्तरम् ’ विष्णुरेव भूत्वा यजमानञ्छन्दोभिरिमा- लोकाननभिजय्यानभिजयति’ इति वाक्येन ’ द्रव्य संस्कारकर्मसु परार्थत्वात्फ लश्रुतिरर्थवादः स्यात्’ इति चातुर्थिकन्यायादर्थवादभूतेन विष्णुत्वस्य कर्मसा भ्यत्वं प्रतीयते । छन्दोगानामृम्ग्रन्थे ‘सोमं राजानं वरुणमग्निमन्वारभामहे, आदित्यं विष्णुं सूर्य ब्रह्माणं च बृहस्पतिम्’ इति सोमविष्ण्वादीन्प्रकृत्य ’ इत एत उदारुहन् दिवः पृष्टान्यारुहन् प्रभुर्जयो यथा पथोद्यामङ्गिरसो ययुः’ इति प्रकृतसोमविष्ण्वादीनेत इति परामृश्य तेषां स्वर्गारोहणमुक्त्वा अङ्गिरसामिव विष्ण्वादिस्वर्गारोहणस्यापि प्रभुर्जय इति पदेन पाककर्मणः भ्रस्ज्धातोर्देवोद्देशेन हविःपाकार्थतया यज्ञेषु हविषां भर्जनं कृतवन्तः इत्यर्थकेन कर्मसाध्यत्वं प्रतीयते । सामवेद एव मयि वर्च इत्यनेन कल्पेन चत्वारि वर्षाणि प्रयुञ्जानस्त्र- याणां लोकानामाधिपत्यं गच्छतीति त्रिलोकाधिपत्यरूपविष्णुत्वस्य कर्मसाध्यत्वं प्रतीयते । अतो न विष्णोः परब्रह्मत्वमिति । तत्प्रौढिवादमात्रम् । तदुदाहृतार्थ- वादवाक्यानां स्वार्थतात्पर्याभावेन तैर्विष्णोः कर्माधीनैश्वर्यवत्त्वासिद्धेः । अन्यथा ‘ब्रह्म वा अकामयत ब्रह्मलोकमभिजयेयमिति, तदेतं ब्रह्मणे अभिजिते चरुं निरखपत्, ततो वै तद्ब्रह्मलोकमभिजयत्’ इत्यनेन नक्षत्रेष्ट्यर्थवादेन नपुंसक - लशब्दप्रतिपाद्यपरमात्मनोऽपि कर्माधीनैश्वर्यापत्तेः । ’ सत्यं ज्ञानमनन्तं ब्रह्म ’ ‘आत्मन आकाशः संभूतः ’ ’ तद्विजिज्ञासस्व तद्ब्रह्म’ इत्यादिश्रुतिविरोधात् । ‘ब्रह्म वाकामयत’ इत्यादेरसदर्थवादत्वं यद्या श्रीयते तर्हि नारायणोपनिषत् -
- यद्याश्रीयते ‘नारायणाद्ब्रह्मा जायते, नारायणादृद्रो जायते, शुद्धो देव एको नारायणः, न द्वितीयोऽस्ति कश्चित् ‘, यजुःसंहिता - ‘अग्निर्वै देवानामवमो विष्णुः परमः ‘, ’ अग्निरग्रे प्रथमो देवतानां संयातानामुत्तमो विष्णुरासीत्’ ‘नारायण-
- "
- ।
- ५६
- परं ब्रह्म तत्त्वं नारायणः परः । अन्तर्बहिश्र तत्सर्व व्याप्य नारायणः स्थितः। “तस्माद्विराडजायत विराजो अधि पूरपः ’ ’ तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते’, महोपनिषत् - ‘तस्य ध्यानान्तस्य नारायण स्य ललाटाक्षः शूलपाणिरजायत’, ऋक्संहिता ‘विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि । न ते विष्णो जायमानो न जातो देव- महिम्नः परमन्तमाप । विष्णोः पदे परमे मध्व उत्सः, परो मात्रया तन्वा वृधान, न ते महित्वमश्नुवन्ति’, तैत्तिरीयम्- ‘नारायणं महाज्ञेयम्’, सुबा लोप- निपत्– ‘एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः ‘, रामतापिनी — ‘रमन्ते योगिनोऽनन्ते सत्यानन्दे चिदात्मके । इति रामपदे - नासौ परं ब्रह्माभिधीयते । अर्धमात्रात्मको रामो ब्रह्मानन्दैकविग्रहः । श्रीरामस्थ मनुं काश्यां जजाप वृषभध्वजः । मन्वन्तरसहस्त्रैस्तु जपहोमार्चनादिभिः । ततः प्रसन्नो भगवान्श्रीरामः प्राह शंकरम् । वृणीष्व यदभीष्टं ते दास्यामि परमेश्वर’, गोपालतापिनी — ‘वृषभध्वजवन्द्याय पार्थसारथिरूपिणे’, कृष्णोपनिषत् - ‘वने वृन्दावने क्रीडन्गोपगोपीसुरैः सह । गोप्यो गाव ऋचस्तस्य यष्टिका कमलास- नः । वंशस्तु भगवान्रुद्रः शृङ्गमिन्द्रसखोऽसुरः । गोकुलं वनवैकुण्ठं तापसास्तत्र ते दुमाः । लोभक्रोधादयो दैत्याः कलिकालस्तिरस्कृतः । गोपरूपो हरिः साक्षान्मायाविग्रहधारणः । रुद्रो येन कृतो वंशस्तस्य माया जगत्कथम् । शेष- नांगो भवेद्रामः कृष्णो ब्रह्मैव शाश्वतम्’ इत्यादिनारायणोपनिषदुत्तरनारायण- यजुर्वेदऋक्संहितामहोपनिषत्सुबालोपनिषद्रामतापिनीगोपालतापिन्यादिश्रुतिशत - तवाक्यैर्विरोधात् । भवदुदाहतद्वित्राद्यर्थवादानामसदर्थवादत्वमका मेनाप्यङ्गीकर्त- व्यम्, ‘विरोधे गुणवादः स्यात्’ इति न्यायात् । ‘प्र, भूः, जय’ इति पदाध्यय नस्य संप्रदाय सिद्धत्वेन तद्विरोधेन भ्रस्ज्धातुघटितत्वं प्रभुर्जय इति पदस्याङ्गीकृत्य हविः पाककर्मकर्तृपरत्वं प्रभुर्जयपदस्य स्वीकृत्य विष्णोः कर्माधीनैश्वर्यवर्णनस्या- युक्तत्वात् मयि वर्च इत्यस्य विष्णुवाचकपदाघटितत्वेन विष्णुपरत्वस्यैव दूर- निरस्तत्वात् । एतेन प्रजापतौ हर आसीदिति रुद्रोत्पत्तिबोधकतैत्तिरीयशाखावच-
- नस्य
- "
- ५७
- तच्छ्रेयोरूपमत्य सृजत, तत्क्षत्त्रम् यान्यत्र देवक्षेत्राणि, इन्द्रो
- वरुणः सोमः पर्जन्यो रुद्रो मृत्युरीशानः’ इति वृहदारण्यकवचनस्य रुद्रे जीवत्वव्याप्य क्षत्रिय वर्णत्वोत्पत्तिमत्त्वसमर्पकस्य ‘विरुपाक्षोऽसि दन्तास्त्विं देवेषु ब्राह्मणः’ इत्युपक्रमकस्य ‘विरूपाक्षाय दन्ताञ्जये ब्रह्मणः पुत्राय ’ इति सामवेदीयप्रपद्मन्त्रस्य जीवत्वव्याप्यब्राह्मणजातिमत्त्वं विरूपाक्षे प्रति- पादयतः भर्थवादत्वं स्यादित्युक्तमपास्तम् | अर्थवादलिङ्गस्यापि शब्दस्य ‘ऊर्ध्व- रेतं विरूपाक्षं विश्वरूपाय वै नमः ’ ‘नमस्ते रुद्र मन्यव उतोत इपवे नमः ’ इत्यादाविव नमः शब्दस्य अजात इत्येव कश्चिद्भीरुः प्रपद्यते ’ रुद्र यत्ते मुखं दक्षिणं तेन मा पाहि’ इत्यादाविव प्रार्थनालिङ्गस्य ‘वायुर्वे क्षेपिष्ठा देवता’ इत्यादाविव विधिसमभिव्याहारस्य । दर्शनेनार्थवादत्वासंभवात् नमः शब्दस्यार्थवाद- लिङ्गत्वं यद्यपीयं स्तुतिस्तस्मै लोकात्मने नम इति वदद्भिः श्रीमच्छंकरभगवत्पादैः वैश्वानराधिकरणे स्पष्टीकृतम् । ‘यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः । सूर्यश्चक्षुर्दिशः श्रोत्रम्’ इति पादत्रयं प्राथमिकमनुदाहृत्य स्तुतित्वसू- चनार्थ नमः शब्दवटित - ’ तस्मै लोकात्मने नमः’ इति चतुर्थपादस्य गृहीतत्वात् । यत्तु ‘विश्वाधिको रुद्रो महर्षिः’ इति श्रुत्या विश्वशब्दवाच्यविष्ण्यपेक्षया रुद्रस्योत्कर्षसिद्धिरिति तन्न; विश्वशब्दस्य शक्तिग्राहककोशे विष्णुनामस्वप- रिगणनात् । सहस्त्रनामाध्याये योगेनैव विश्वशब्दस्य तस्मिन्शिव रुद्रमहादेवादि- शब्दादिवत्परिगणनात् विष्णोविश्वशब्दवाच्यत्वस्याभावे विष्णूत्कर्षस्य रुद्रे उक्तश्रुत्या वक्तुमशक्यत्वात्, अन्यथा ‘रुद्रो वा एष यदग्निः’ इति श्रुत्या स्वस्याग्नित्वोक्त्या ‘अग्निवें देवानामवमो विष्णुः परमः ’ इति विष्ण्वपेक्षया अपकृष्टत्ववत्सर्वदेवापेक्षयापि रुद्रे प्रसक्तस्यापकर्षस्य को वा निवारकः स्यात् । ‘विश्वाधि यो रुद्रो महर्षिः’ इति सर्वैस्तैत्तिरीयकैः पठ्यते न त्वधिक इति । यत्तु चमके ‘अग्निश्च मे विष्णुश्च मे ’ इत्यादिना अग्निविष्ण्वादीनां सर्वेषामपि फलत्वनिर्देशेन फलदाता रुद्र एवेति पर्यवस्यतीति, तन्न; ‘अग्नाविष्णू सजोषसा’ इन अग्निविष्णू चमकग्रन्थोपक्रमे प्रतिपाद्य अनन्तरम् ‘वाजश्च मे प्रसवश्च
- "
- r. S.
- शङ्कयम् ;
- ५८
- मे’ इत्यादिना वाजादीनामिन्द्रविष्ण्वादिदेवादीनां भोग्यतया प्रार्थनं कृतम् । भोग्यप्रदः क इत्याकाङ्क्षायां रुद्राध्यायप्रतिपादितरुद्रापेक्षया चमकग्रन्थोप क्रमवाक्यप्रतिपादिताग्निविष्ण्वन्यतरस्य संनिहितत्वेन भोग्यप्रदत्वमित्यस्यव न्या- य्यत्वात् । अन्यतरमध्ये विष्णोरेव तन्न्याय्यम् ‘अग्निरये प्रथमो देवतानां संयातानामुत्तमो विष्णुरासीत् ’ ‘अग्निर्वै देवानामवमो विष्णुः परमस्तदन्तरा वै सर्वा देवताः’ इत्यग्न्यपेक्षया सर्वदेवतापेक्षया च विष्णोरेवोत्कर्षनिष्कर्षात् । न च ’ विष्णुश्च मे ’ इति भोग्यकोटौ कथितस्य विष्णोः कथं तत्प्रदत्वमिति ‘ब्रह्मविदाप्नोति परम्’, ‘सोऽश्नुते सर्वान्कामान्सह, ब्रह्मणा विपश्चिता’ इति भोग्यकोटौ कथितस्य परमात्मनः ‘अन्नादो वसुदानो विन्दते वसु य एवं वेद’ ‘एष एव साधु कर्म कारयति यमेभ्यो लोकेभ्य उन्निनीपति, ‘एष ह्येवानन्दयाति’ इत्यादिश्रुत्या भोग्यदातृत्वोक्तेः । न च भोग्यको टो चमके रुद्रस्याकथनात्तस्यैव भोग्यदातृत्वमिति शङ्कयम; विनायक सुब्रह्मण्य- निर्ऋत्यादीनां बहूनामत्राकथनेन तेषां भोग्यप्रदत्वमिति वक्तुं शक्यत्वात् । अस्मिंश्चमकग्रन्थे तेषामनुपस्थितत्वान्न तदिति चेत्; रुद्रस्यापि तर्हि तत्रा- नुपस्थितत्वान्न तदिति च निष्प्रत्यूहम् । तस्माच्चमकग्रन्थोपक्रमे विष्णोः प्रस्तु- तत्वात्सर्वदेवोत्तमत्वेन फलदातृत्व समर्थत्वाच्च स एव चमको फलानां दातेति समीचीनः पन्था इत्यलमतिविस्तरेण ।
- ,
- यः कश्चिज्जन्मादिसूत्रविरोधमप्यङ्गीकृत्य जगज्जन्मस्थितिलयानामेकैक- कारणत्वमपि परब्रह्मलक्षणमिति ब्रूयात् तं प्रति ब्रूयात् कथमेतावता तवेष्ट- सिद्धिरिति । रुद्रस्यापि ब्रह्मलक्षणसिद्धिरेवेष्टमिति चेत् तर्हि प्रदृश्यतां जग- जन्मकारणत्वबोधकश्रुतिवाक्यम् । ‘ध्यायीतेशानं प्रध्यायितव्यम् इदं सर्वं ब्रह्मविष्णुरुद्रेन्द्राः संप्रसूयन्ते’ इति श्रुतिवाक्यं रुद्रस्य जगज्जन्मकारणत्व- प्रतिपादकमिति चेत्; तत्र वक्तव्यम् - उत्पत्तिमात्रं जगतः श्रूयते उत्पाद- कथ्ध न श्रूयते । प्रसूत्या उत्पादकः कश्चनाक्षेप्यः । स च किं श्रुतिसिद्धजग- स्कारणत्ववानुतान्यः कश्चिदिति संदेहे, ‘ध्यायीतेशानम्’ इति संनिधानादी-
- ५९
- ज्ञानस्योपस्थितत्वेन ईशानादिति पञ्चम्यन्तं पदं परिकल्प्य रुद्र एवं प्रसूति- कति कल्पना कार्या । सा च न संभवति, क्लृप्तकल्प्ययोर्मध्ये अपेक्षास्थले प्रत्यक्षश्रुतिक्लृप्तस्यैव विष्णाग्रहणं युक्तम्, न तु कल्प्यस्य रुद्रस्य । विष्णो- गत्कारणत्वे ’ तस्माद्विराडजायत, विराजो अधि पूरुषः’ इति विराट्छदित- हिरण्यगर्भादिकं प्रति सहस्रशीर्षत्वादिगुणविशिष्टविष्णुपरामर्शकतस्मादिति पञ्चम्य- ततच्छन्न कारणत्वसमर्पिका श्रुतिरेका । ‘नारायणाह्रह्मा जायते, नारायणा- द्रुद्रो जायते, नारायणात्प्राणः मनः सर्वेन्द्रियाणि च खं वायुज्योंतिरापः पृथिवी विश्वस्य धारिणी’ इति पञ्चम्यन्तनारायणशब्देन तस्य जगज्जन्मकारणत्व- प्रतिपादनपरा नारायणोपनिषच्छ्रतिरपरा । ‘एको ह वै नारायण आसीत्, न ब्रह्मा न च शंकरः, स मुनिर्भूत्वा समचिन्तयत्, तत एते व्यजायन्त, विश्वे हिरण्यगर्भविष्णुरुद्रेन्द्राः’ इति वेदान्त कौस्तुभमथ्वभाप्योदाहृतपैङ्गिश्रुतिरन्या । मध्वपाठे विष्णुपदं नास्ति, वेदान्तकौस्तुभकारपाठे तदस्तीत्येतावान्विशेषः । ‘तस्य ध्यानान्तस्य ललाटात्त्र्यक्षः शूलपाणिरजायत’ इति महोपनिषच्छ्रुति- रितरा । न ह्येवं कण्ठतः कारणत्वप्रतिपादनसमर्थपञ्चम्यन्तादिपदघटिता श्रुतिः रुदविपये क्वचिद्दृश्यते । ‘अहमेकः प्रथममासम्’ इत्यत्रापि पूर्व सत्त्वात्कारणत्व- मनुमेयम् । अतः परोक्षमेव तत्कारणत्वम् । प्रत्यक्षकारणत्वसंभवे न परोक्षं ग्राह्यम् । प्रत्यक्षं कर्मत्वमुत्सृज्य परोक्षं तत्कल्पयतो व्यर्थः प्रयासः स्यादिति श्रीमच्छंकरभगवत्पादैर्जिज्ञासाधिकरणे कथितत्वात् । ’ उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् । ध्यात्वा मुनिर्गच्छति भूतयोनिम्’ इति योनिशब्देनापि भूतकारणत्वं रुद्रस्य न सिध्यति । ‘योनिष्ट इन्द्रसदने अकारि ’ ‘रमणीयचरणा रमणीयां योनिमापद्यन्ते’ इत्यादौ योनिशब्दस्य स्थानाद्यर्था- न्तरेष्वपि बहुलं प्रयोगदर्शनेन कारणत्वमेव योनिशब्देनोच्यत इति प्रकरणोपपद- दृष्टान्तादिसमभिव्याहार नियामकं विना वक्तुमशक्यत्वात् । उक्तं हि श्रीमच्छं- करभगवत्पादैः ‘योनिश्च हि गीयते’ इति सूत्रभाष्ये- इतश्च ब्रह्म प्रकृतिः यत्कारणं ब्रह्म योनिरित्यपि पठ्यते वेदान्तेषु ’ कर्तारमीशं पुरुषं ब्रह्मयोनिम्
- ६०
- इति यद्भूतयोनिं परिपश्यन्ति धीराः’ इति च | स्थानवचनोऽपि योनिशब्दो दृष्टः ‘योनिष्ट इन्द्रसदने अकारि’ इति वाक्यशेपात् । तत्र प्रकृतिवचनता परिगृह्यते ‘थोर्णनाभिः सृजते गृहते च’ इत्येवंजातीयकादिति ग्रन्थेन । ननु पुरुषसूक्तस्य शिवपरत्वमुपबृंहणरूप शिवपुराणादिपर्यालोचन सिद्धम् । अतः ‘तस्माद्विराडजायत’ इति तदीयवाक्येन शिवस्यैव जगत्कारणत्वमुच्यत इति चेत्, न; ‘इदं विष्णुः प्रक्षस्य विष्णुः प्रकाव्यमुशनं वाराहमन्त्यं पुरुषत्रते । एषा वैष्णवी नाम संहिता ।
- एतां प्रयुञ्जन्विष्णुं प्रीणाति’ इति सामविधानब्राह्मणश्रुत्या पुरुषसूक्तस्य विष्णु- परत्वविष्णुप्रीतिकरत्वविष्णुदेवताकत्वप्रतिपादनेन उक्तश्रुतिविरुद्धशैवापबृंहण- वचनानां विरोधाधिकरणन्यायेनाप्रमाणत्वात् । वैष्णवीत्युदाहृतश्रुतिगततद्धितः सास्य देवतेत्यर्थे वर्तमानः पुरुषसूक्तस्य विष्णुदेवताकत्वं कथयति । यत्तु पुरुष- सूक्तगततृतीयऋचि ‘उतामृतत्वस्येशानः’ इति शिववा च केशानश्रुतिसत्त्वेन शिवस्यैव मोक्षदातृत्वं तृतीयऋचोक्तमिति, तन्न; मुद्गलोपनिषदि - ‘पुरुषसूक्तार्थ - निर्णयं व्याख्यास्यामः सहस्रशीर्षेत्यत्र सशब्दोऽनन्तवाचकः । अनन्त योजनं अनन्तयोजनं प्राह दशाङ्गुलवचस्तथा । तस्य प्रथमया विष्णोर्देशतो व्याप्तिरीरिता । द्वितीयया चास्य विष्णोः कालतो व्याप्तिरुच्यते । विष्णोर्मोक्षप्रदत्वं च कथितं तु तृतीयया । एतावानिति मन्त्रेण वैभवं कथितं हरेः । एतेनैव च मन्त्रेण चतुर्व्यूहो विभाषितः । त्रिपादित्यनया प्रोक्तमनिरुद्धस्य वैभवम् । तस्माद्विराडित्य- नया पाढनारायणाद्धरेः । प्रकृतेः पुरुषस्यापि समुत्पत्तिः प्रदर्शिता । यत्पुरुषेणे- त्यनया सृष्टियज्ञः समीरितः । सप्तास्यासन्परिधयः समिधश्च समीरिताः । तं यज्ञमिति मन्त्रेण सृष्टियज्ञः समीरितः ॥ अनेन चैव मन्त्रेण मोक्षश्च समुदी - रितः । नस्मादिति च मन्त्रेण जगत्सृष्टिः समीरिता । वेदाहमिति मन्त्राभ्यां वैभवं कथितं हरेः । यज्ञनेत्युपसंहारः सृष्टेमोक्षस्य चेरितः । य एवमेतज्जानाति स हि मुक्ती भवेत्’ इत्यत्र तृतीयमन्त्रेण ईशानपदघटितेन विष्णोरेव मोक्ष- प्रदत्वोक्तेः । ईशानशव्यस्य चात्र ससंबन्धिकत्वकथनेन शिवे रूढत्वा-
- सिद्धेः । ईशानशब्दस्य शाननन्तत्वे पाचकादिशब्दवत्केवलयौगिक त्वमेवे -
- .
- ६१
- त्यविप्रतिपन्नम् । चानशन्तत्वेऽपि रूढत्वं न संभवति । ‘रूढिशब्दप्रकारास्ता- च्छीलिकाः । न हि रूढिशब्दा गतिभिर्विशेष्यन्ते । न हि भवति देवदत्तः प्रदेवदत्तः’ इति ’ आढ्य सुभगस्थूल – ’ इति सूत्रमहाभाष्येण ताच्छीलिक प्रत्ययान्तशब्दस्य रूढिशब्दसादृश्योक्त्या रूढिशब्दत्वाभावप्रतीतेः । न हि चन्द्रसदृशे मुखे चन्द्रत्वम् । अत्र कैयटः- रूढिशब्दप्रकारा इति । यथा रूढिशब्देषु क्रिया केवलं व्युत्पत्त्यर्थमाश्रीयते गच्छतीति गौरिति । तेन गमन- क्रियारहितोऽपि गौर्भवति । गोपिण्डाच्चान्योऽयों गमनविशिष्टोऽपि गौर्न भवति तथा ताच्छीलिका अपि क्रिया विषयं ताच्छील्यमुपादाय क्रियावेशा- भावेऽपि प्रयुज्यन्ते प्रकारग्रहणं सादृश्यार्थमिति भाष्यगतप्रकारपदं सादृश्यार्थ- तया व्याख्यातवान् । अत एवार्थमहाभाष्यवाक्यरूपशक्तिग्राहको दाहृतव्याकरण- प्रमाणविरोधात् अर्वाचीननामकोशेषु ईशानशब्दस्य शिवनामसु परिगणनं प्रामा- दिकमित्यवगन्तव्यम् । एतेन प्रमिताधिकरणे अगुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य’ इत्यत्राङ्गुष्ठप्रमितस्य परमात्मत्वे ईशान- शब्दस्य वाचकश्रुतित्वेन ’ शब्दादेव प्रमितः’ इति सूत्रे शब्दशब्देन निर्दे- शात् ईशानशब्दस्य परमात्मनि शक्तिरावश्यिकी । अत एव श्रीमच्छंकर- भगवत्पादभाष्ये ईशान इति परमेश्वरो गम्यते इति वाचकश्रुतित्वोक्तिः संगच्छते । ‘ईशानो भूतभव्यस्य’ इति भूतभव्यनिरूपितेशितृत्वलिङ्गस्यैव सिद्धान्तहेतुत्वे अङ्गुष्ठमात्रत्वरूपपरिच्छिन्नपरिमाणरूपजीव लिङ्गाधीनजीवपूर्वपक्षस्य लिङ्गेन सि- द्धान्तकरणमयुक्तं स्यात् । सूत्रे शब्दशब्दनिर्देशो ऽप्ययुक्तः स्यात् । लिङ्गा- दित्येव सूत्रे निर्देशश्च स्यादिति शिवतत्त्वविवेककाराभिप्रायः परास्तः । शब्द- शब्दस्य श्रुतिवाक्यसाधारण्येन श्रुतिरूपरूढशब्द इव वाक्यरूपशब्देऽपि ‘शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम्’ इत्यादिसूत्रेषु प्रयोगदर्शनात् । न वाचकशब्द एव सूत्रे निर्दिष्ट इत्यत्र एतत्प्रमाणं भवति वाक्याधीनलिङ्गस्याप्य- पहतपाप्मत्वादेः ‘अन्तस्तद्धर्मोपदेशात्’ इत्यत्र ’ स एव सर्वेभ्यः पाप्मभ्य उदितः’ इति शब्दस्य उपदेशादिति शब्देन उक्तलिङ्गसमर्पकस्य ग्रहणेन
- गृहीतत्वात् । अत्रापि भूतभव्यनिरूपितेशितृत्वरूपपरमात्मलिङ्गस्य ‘ईशानों भूतभव्यस्य’ इति शब्दग्रहणद्वारा शब्दशब्देन ग्रहीतुं शक्यत्वात् ‘वालाग्रशन भागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः’ इति श्रुत्या जीव-
- स्याणुपरिमाणत्वावगमेन अङ्गुष्ठपरिमितत्वस्य जीवेऽप्यौपाधिकस्यैव वक्तव्य- |
- "
- तया परमात्मन्यपि तस्योपाधिकस्य संभवेन अङ्गुष्ठपरिमितत्वस्य पूर्वपक्ष- लिङ्गस्य जीवेश्वरसाधारणत्वेन परमात्मासाधारणभूतभव्येशानत्वप्रबल लिङ्गेनान्य- थाकरणस्य उचितत्वेन लिङ्गेन सिद्धान्तकरणे बाधकाभावात् । अत ए श्रीमच्छंकरभगवत्पादैः सिद्धान्तभाप्योपक्रमे ’ अङ्गुष्ठप्रमितः परमेश्वरो भवितु- मर्हति कुतः, शब्दात् ‘ईशानो भूतभव्यस्य’ इति । न हि निरङ्कुशं भूतभव्येशितृत्वं परमेश्वरादन्यत्र संभवति’ इति ग्रन्थेन । लिङ्गग्राहि भूतभव्यस्येशान इति वाक्यं सूत्रस्थशब्दशब्देन गृहीत्वा सिद्धान्तः प्रद- शितः । अभिधानश्रुतेरेव ईशान इति परमेश्वरो गम्यत इत्युत्तरवाक्यस्य उपक्रमवाक्यानुरोधेन ईशान इत्यस्य भूतभव्यस्येशान इत्येतत्परत्वम् अभिधान- श्रुतेरित्यस्य बोधकशब्दादित्यर्थत्वं चाश्रित्यार्थो वर्णनीयः ; अन्यथा सिद्धान्तो- पक्रमभाप्यविरोधापत्तेः । सिद्धान्तोपक्रमभाव्यस्य निगमनमेतदुत्तरवाक्यम् । अत एव निगमनभाये ईशानशब्दस्य परमात्म रूढत्वाभावसिद्धयर्थं गम्यत इत्युक्तम्, न त्वभिधीयत इति । तस्मादीशानशब्दः केवलयौगिक एवेति श्रीमच्छंकरभग- वत्पादानामभिप्रायः । यत्तु श्वेताश्वतरोपनिषदि ’ विश्वाधिको रुद्रो महर्षिः हिरण्यगर्भं जनयामास ’ इति वाक्यं सर्वकारणहिरण्यगर्भकारणत्वं रुद्रे प्रतिपा- दयतीति तन्न; ‘प्रजापतौ हर आसीत्, विरूपाक्षाय ब्रह्मणः पुत्राय नमः ’ इत्यादिबहुश्रुतिषु हिरण्यगर्भस्यैव रुद्रकारणत्वोक्त्या बह्वनुग्रहन्यायेन एकस्प ‘रुद्रो महर्षिर्हिरण्यगर्भं जनयामास’ इति वाक्यस्यौपचारिकत्वाश्रयणेन आवि- र्भावाधिष्ठानत्वपरतया नेयत्वात् । शरभोपनिषदि यदपि रुद्रस्य जगज्जन्मादि- त्र्यकारणत्वबोधकं वचनम्, तदपि न रुद्रस्य ब्रह्मलक्षणमर्पयितुमलम्, तदुपनि- यदि तत्तद्वाक्यावसानेषु ’ तस्मै रुद्राय नमो अस्तु’ इति स्तुतिलिङ्गनमः पदम-
- "
- ६३
- तिवाक्यस्यावृत्तिश्रवणेन तद्वाक्यस्यार्थवादत्वेन स्वार्थे जगज्जन्मादिकारणत्वे तात्पर्यासंभवात् । प्रत्युत तदुपनिषदि ‘एको विष्णुर्महद्भूतम्’ इत्यादिना ‘चतु–
- • चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु ।’ इत्यनेन विष्णोः परत्वं स्पष्टमेवोक्तम् । तस्माच्छ्रुतिषु जग- कारणत्वरूपब्रह्मलिङ्गं रुद्रादो क्वाप्यनुक्तमिति विष्णुरेव वेदसिद्धान्तरीत्या ’ परं ब्रह्मेति सिद्धम् । एतेन सर्वज्ञत्वसर्वशक्तित्व सर्वान्तर्यामित्वादेः कृत्स्नजग- त्कारणत्वरूपब्रह्मलक्षणव्याप्यतया व्यापकं निवर्तमानं व्याप्यमपि निवर्तयतीति न्यायेन रुद्रादिषु सर्वज्ञत्वादिनिवृत्त्यवगमः । क्वचिद्रुद्रादिषु सर्वज्ञत्वादिवचनं चेत् औपचारिकमेव तदित्यलमतिविस्तरेण ।
- यत्तु ‘तमो वा इदमेकमेकमासीत्’ इत्यारभ्य तत्परेणेरितं विषमत्वं प्रयातीत्येतद्वै रजसो रूपम्’ इत्यादिना तमोधिष्ठातुः परस्य संकल्पादविद्या- ख्यस्य तमसो गुणविभागं निरूप्य ’ तस्य प्रोक्ता अग्न्यास्तनवो अथ यो हास्य राजसोंशोऽसौ ब्रह्मा अथ यो हास्य नामसोंशोऽसौ रुद्रः अथ यो हास्य सात्त्विकशोऽसौ विष्णुः स वा एष एक:’ इति तमधिष्ठातुः परस्य रजोगुणाद्युपहिता अंशभेदा ब्रह्मादय इति प्रतिपादनेन तेभ्यः परं तत्त्वान्तरं तमोधिष्ठातृ परं ब्रह्म तुरीयमिति स्पष्टीकृतम् । तादृशस्य तुरीयस्य ब्रह्मणः ‘शिवमद्वैतं चतुर्थ मन्यन्ते’ इति माण्डूक्यश्रुत्या शिवरूपत्वं सिध्यति । ‘उमा- सहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् । ध्यात्वा मुनिर्गच्छति भूतयोनिम्’ इति कैवल्योपनिषच्छ्रुत्या उमासहायविग्रहस्य भूतयोने: ’ स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् । स एव विष्णुः स प्राणः’ इत्यादिना ब्रह्मविष्णुरुद्रत्रिमूर्तिविभूतिकत्वेन तुरीयत्वोक्त्या उमासहायविग्रहवत्त्वसिद्धिरिति शिव एव तुरीयं ब्रह्मेत्युक्तम्, तन्न; तुरीयसिद्धावपि तुरीयस्य विष्ण्वपेक्षया भिन्नत्वं न सिध्यति । किं तु विष्णुरूपत्वमेव सिध्यति, न तु विधिशिव- रूपत्वमपि । मैत्रायणीयोपनिषदि ’ तस्य प्रोक्ता अम्यास्तनवः’ इत्यादिनोक्तस्य तमोधिष्ठातुस्तुरीयस्य ‘अथ यो हास्य सात्त्विकौशोऽसौ विष्णुः, स वा एप
- ६४
- भूत-
- एक:’ इत्यनेन तच्छब्दोपात्तस्य तमोधिष्ठातुस्तुरीयस्य एपइतिपदोपात्तस्य सात्त्रि-
- विष्णोरे इति पदेनैकत्वोक्तेः । कैवल्योपनिषदि ’ ध्यात्वा मुनिर्गच्छति योनिम्’ इत्युक्तस्य भूतयोनेस्तुरीयत्वेनाभिमतस्य ‘स ब्रह्मा स शिवः सेन्द्रः सो- Sक्षरः परमः स्वराट्, स एव विष्णुः स प्राणः’ इति त्रिमूर्तिविभूतिकत्वोक्त्यवर ’ स एव विष्णुः’ इति तच्छब्देन भूतयोनिं परामृश्य विष्णुशब्देन च विष्णुं परामृश्य तयोः परस्परान्यत्वस्यैवकारेण व्यवच्छेद करणात् तुरीयस्य भूतयोनविष्णुरूपत्वा-
- कत्वात् । ब्रह्मा स शिवः’ इत्यत्र एवकारादर्शनेन विधिशिवयोस्तुरीयवि- भूतित्वमात्रम्, न तु तुरीयरूपत्वमिति स्पष्टमवगमात् । अथर्वशिखायाम् ‘यास्य द्वितीया मात्रा सा विष्णुदैवत्या विद्युन्मती यास्य/वसाने चतुर्थ्यर्धमात्रा पुरुषदैवत्या विद्युन्मती’ इति द्वितीयार्धमात्रयोर्विद्युन्मतीत्वोक्त्या ऐक्यप्रत्यभिज्ञानेन तद्देवतय- द्वितीय विष्णुतुरीयपुरुषयोरैक्यावगमेन तुरीयस्य विष्णुरूपत्वावगमात् । ब्रह्मदेव- त्यप्रथममात्रारुद्रदैवत्यतृतीयमानयोस्तुरीयार्धमात्रया ऐक्यप्रत्यभिज्ञापकलिङ्गस्य कस्याप्यदर्शनेन विधिशिवयोस्तुरीयरूपत्वासिद्धेः । न च ’ शिवमद्वैतं चतुर्थ मन्यन्ते’ इति माण्डूक्यवाक्येन तुरीयस्य शिवरूपत्वसिद्धिरित्यपि शङ्कयम्; माण्डूक्य एव ‘जागरितस्थानो वैश्वानरः प्रथमः पादः, स्वप्नस्थानस्तैजसो द्वितीयः पादः, सुपुप्तिस्थानः प्राज्ञस्तृतीयः पादः’ इति जाग्रदवस्थाविशिष्ट- विश्वसंज्ञकजीवस्वप्नावस्थाविशिष्टतैजससंज्ञिकजीवसुषुप्त्यवस्थाविशिष्टप्राज्ञसंज्ञिक जीवान् एकत्वेऽप्यवस्थया पृथग्भूतान्निर्दिश्यानन्तरम् ’ प्रपञ्चोपशमं शान्तं शिव- मद्वैतं चतुर्थं मन्यन्ते’ इति अवस्थात्रयविनिर्मुक्तस्य चतुर्थस्य मुक्त्यवस्थस्य जीवस्य शिवमिति मङ्गलरूपत्वोक्त्या भवदभिमततुरीये ब्रह्मविष्णुरुद्रापेक्षया तुरीयत्वस्य वक्तव्यत्वेन तत्र तदनुक्त्या भवदभिमततुरीयस्य शिवत्वासिद्धेः । न च ‘उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् । ध्यात्वा मुनिर्गच्छति भूतयोनिम्’ इति तुरीयस्य भूतयोनेरुमासहायत्वमुक्तमिति - क्यम्; उमासहायथ्यानात्तुरीयभूतयोनिप्राप्त्युक्तावपि भूतयोनेरुमा सहाय रूप- त्यासंभवस्य पूर्वमेवोक्तः । ननु मास्तु शिवस्य तुरीयत्वम् भवतु विष्णोरेव६५
- तत् । कथमेकस्य विष्णुचेतनस्य द्वितीयत्वतुरीयत्वे संभवत इति चेत्, शृणु- ‘सह पत्न्या विशालाक्ष्या नारायणमुपागमत्’ इति श्रीरामायणीयायोध्या- काण्डवचनप्रामाण्यात् ‘अजायमानो बहुधा विजायते, तस्य धीराः परि- जानन्ति योनिम्’ इति श्रुतिसनाथादेकस्यैव नारायणचेतनस्य द्विभुजदिव्य- मङ्गलविग्रहविशिष्टरामरूपेण सेवकत्वं तदन्यदिव्यमङ्गलविग्रहविशिष्टनारायण- रूपेण सेव्यत्वं चाश्रीयते । तथा सहस्रशीर्षत्वा दिविशिष्टेन केनचिद्दिन्यमङ्गल- विग्रहविशिष्टरूपेण तुरीयत्वम् । ‘सहस्रशीऋपं देवम्’ इति सहस्रशीर्षत्वादि- शरीर विशिष्टनारायणं प्रस्तुत्य ’ स ब्रह्मा स शिवः’ इत्यादिना ब्रह्मरुद्रादि- विभूतिकत्वाम्नानेन ब्रह्मरुद्रादिविभूतिकतुरीयनारायणस्य सहस्रशीर्षत्वादिविशिष्ट- दिव्यमङ्गलविग्रहप्रतीतेः; चक्रपाणित्वादिदिव्यमङ्गलविग्रहविशिष्टत्वेन रूपेण तस्यैव द्वितीयत्वम् । द्वितीयतया विष्णुशब्देन तत्र तत्र निर्दिष्टस्य विष्णोः सामवेदीयपİिशब्राह्मणे ‘विष्णवे चक्रपाणये स्वाहा’ इति चक्रपाणित्वोक्तेः विग्रहभेदेन द्वितीयत्वतुरीयत्वयोरविरोधः । यत्तु केनचित्कौलिना ’ या तस्य पार्श्वगा बाला सा पार्वत्यंशजो हरिः’ इत्यादिपुराणवचनमुदाहृत्य विष्णोः पार्वत्यंशत्वमुक्तम्, तन्न; दुर्गासूक्ते दुर्गा प्रस्तुत्य ‘वैष्णवीं लोक इह माद- यन्ताम्’ इति विष्णोः प्राधान्यं तन्निरूपिताप्राधान्यं च कथयन्त्या तद्धित- पदप्रत्ययघटितवैष्णवीति श्रुत्या विरुद्धतया विष्णोः पार्वत्यंशत्वपार्वत्यंशजत्वादि- बोधकपुराणादिवचनानां विरोधाधिकरणन्यायेनाप्रमाणत्वात् । ऋक्संहितायां लक्ष्मीसूक्ते ’ यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्’ इति लक्ष्मीवचनसरूपश्रुतिवचसा उग्रशब्दितस्य पार्वतीपते रुद्रस्य विष्णुपत्नीरूप- लक्ष्मीकृतत्वस्य तादृशलक्ष्म्यधीन रुद्रपदकत्वस्य वा कथने सति पार्वतीपतिजनक - लक्ष्म्याः पत्यौ विष्णौ कथं पार्वतीजन्यत्वं तदंशत्वं वा संभवेत् ?
- श्वेताश्वतरोपनिषद्विलासः ।
- यन्मूलकारणमबुध्यत सृष्टिवाक्यै-
- स्तब्रह्मविष्णुशिवमूर्तिषु किंस्वरूपम् ।
- V. 9.
- ६६
- एवं विमृश्य पुरुषेति पदस्य शक्तेः
- श्वेताश्वशब्दघटिता श्रुतिराह विष्णुम् ॥
- इदं तु बोध्यम् - श्वेताश्वतरोपनिषदि ‘ब्रह्मवादिनो वदन्ति, किं कारणं ब्रह्म कुतः स्म जाता जीवाम केन क्व च संप्रतिष्ठिताः केनाधिष्ठिताः सुखेतरेष पुरुष इनि वर्तामहे, ब्रह्मविदो व्यवस्था कालस्वभावो नियतिर्यदृच्छा भूतानि योनिः चिन्त्यम्, संयोग एषां न त्वात्मभावादात्माप्यनीशः सुखदुःखहेतोः’ इत्युपक्रमो ऽस्ति । तस्यार्थः– ‘सदेव सोम्येदमग्र आसीत् ’ ‘यतो वा इमानि भू भूतानि जायन्ते’ ‘तद्विजिज्ञासस्व तद्ब्रह्म’ इत्यादिश्रुतिभिरवगतं जगज्जन्मादिकारणं ब्रह्म किंरूपमिति श्रुत्यन्तरसिद्धं जगत्कारणं ब्रह्म सिद्धवत्कृत्य हरिहरविरिचा दोनां मध्ये कस्मिन्देवताविशेषे पर्यवस्यतीत्येका विचिकित्सा । वयं ब्रह्मविदो - ऽपि कुतः केन जनिता इति द्वितीया । केन वयं जीवनं प्राप्ता इति तृतीया । क्व च कस्मिन्प्रलयकाले वयं संप्रतिष्ठिता लीना इति चतुर्थी । सुखतद्भिन्नेषु केन वयं वर्तामह इति पञ्चमी । एतेषु विचिकित्सितविषयेषु ब्रह्मविद्वयवस्था कोदृशीति षष्ठी । कालस्वभाव इत्यादि चिन्त्यमित्यन्तं प्रथमविचिकित्सायाः वेदपुरुषेणोत्तरं दत्तम् । प्रथमविचिकित्सायाः प्रधानत्वेन तदुत्तरे क्रियमाणे सर्वविचिकित्साः प्रत्युत्तरिता भवन्तीति वेदपुरुषाभिप्रायः । कालः प्रसिद्धः । त्वभावो वस्तुशक्तिः । नियतिः पुण्यपापसंचयः । यदृच्छा आगन्तुकप्राप्तिः । भूतान्याकाशादीनि । इत्येतत्सर्वं योनिः पुरुष इति जगत्कारणपुरुष इति चिन्त्यं नेयम्, उपादानपुरुषात्मकत्वात् । उपादेयस्य कालादेः तादृशपुरुषत्वेन ज्ञेय- त्वमिति प्रत्युत्तरवाक्यस्वारसिकार्थः । योनिः पुरुष इत्यत्र इतिशब्दाभावे यत्क्तं तचिन्त्यमित्यत्रेव चिन्त्यशब्दस्योपेक्षणीयमित्यर्थः स्यात् । अत्र पुरुपशब्दोत्तरं चिन्त्यशब्दात्प्रागितिदस्तु वर्तते । तेनोक्त एवार्थः स्वारसिकः । उक्तप्रत्यु- त्तरवाक्येन किं देवतारूपमिति विचिकित्सितं कारणं ब्रह्म पुरुपदेवतारूप- मिति निर्णीनमिनि स्पष्टम् । किंचिदाशङ्कय श्रुतिरेव परिहरति । ए कालादीनां संयोगः परस्परसंबन्धः न योनिः आत्मनो जीवस्य सुखदुःखार्थ- पदस्य ६७ वोक्तसंयोगस्य भावात् अन्यतो भवनात् आत्मापि जीवोऽपि अनीशः योनि- विषयेऽसमर्थः । सुखदुःखान्वयाद्धेतोरिति । अस्मिन्नुपक्रमग्रन्थे किं देवनारूपं जगत्कारणं ब्रह्मेति विमृष्टजगत्कारणब्रह्मत्वस्य योनिः पुरुष इति चिन्त्यम् इत्यंशेन प्रत्युत्तरवाक्यगतेन पुरुषशब्दितदेवतायां विश्रान्तिरिति सिद्धया विष्णु- रेव जगत्कारणं ब्रह्मेति सिद्धम् । ‘तस्यैकत्वं महत्त्वं हि स एकः पुरुषः स्मृतः ’ इति महाभारतमोक्षधर्मनारायणीयवचनेन विष्णौ पुरुषशब्दशक्तिग्राहकेण पुरुष- विष्णावेव शक्त्यवगमात् । न ह्येवं शिवादिपु पुरुपशब्दशक्तिग्राहकं वचनमस्तीति शङ्कयम् : पुराणस्य वैदिकप्रस्थानात्प्रस्थानान्तरत्वेन वैदिकानाम- नादेयत्वस्य गायत्त्रीतत्त्वार्थविलासे सप्रमाणमुपपादितत्वात् । श्रुत्यादिषु विधि- शिवादौ पुरुषशब्दस्य प्रयोगमात्रं तु क्वचित्क्वचिद्विरलतया दृश्यते । तावता तु न शक्तिसिद्धिः । तहि गङ्गापदस्यापि तीरे शक्तिसिद्ध्यापत्तिः; उक्त- नारायणीयवचने ’ स एकः पुरुषः स्मृतः’ इत्येवकारार्थकैकशब्देन विष्णुभिन्ने पुरुपपदशक्तिनिराकरण विरोधापत्तेश्च । न विष्णुभिन्ने पुरुपपदस्य शक्तिः, किं तु निरूदलक्षणैव जीवत्वेन जीवबोधने । शिवत्यादिना शिवबोधने तु सांप्रतिकी । न च तर्हि पुरुषपदस्य विष्णौ शक्त्यङ्गीकारे वहिराज्याधिकरणविरोधः; वचनविरोधे न्यायाप्रवृत्तेः, ‘न हि वचनविरोधे न्यायः प्रवर्तते ’ इति न्यायात् । नस्मादुक्तश्वेताश्वतरोपनिषद्रीत्या विष्णुरेव जगत्कारणब्रह्मत्वाश्रयव्यक्तिविशेष इति निष्प्रत्यूहम् ! किं चास्यामुपनिपदि प्रथमाध्यायान्ते तद्ब्रह्मोपनिषत्परं तद्ब्रह्मोपनिषत्परमिति द्विरुक्त्या विचिकित्सितजगत्कारणब्रह्मत्वाश्रयदेवता- विशेषनिर्धारणसमाप्त्यवगमात् एतदुपनिषद्गता उपरितनाध्यायाः प्रथमाध्या- योक्तजगत्कारणब्रह्मरूपविष्णुसिद्धान्ताविरोधेन नेया इत्यविप्रतिपन्नम् । अन उत्तराध्यायगता रुद्रादिशब्दा अपि जगत्कारणे श्रूयमाणा योगेन विष्णुपरतया योजनीयाः; अन्यथोपक्रमस्थप्रथमाध्यायविरोधापत्तेः । न च प्रथमाध्याये जगत्कारणब्रह्मत्वविश्रान्तिपर्यवसानभूमिदेवताविशेषनिर्धारणार्थं विधिशिवादिवा- चकानां शब्दानां मध्ये कश्चिदपि शब्दोऽस्ति प्रत्युत पुरुषशब्दोक्तस्य विष्णोरेव ६८ वानको ‘अनन्तात्मा विश्वरूपः’ इति मन्त्रे अनन्तविश्वरूपशब्दावपि श्रुतौ । ‘अनन्तो हरिशेषयोः’ इति कोशात् ‘विश्वरूपों मुरारिः’ इति कोशाच्च तो शब्दौ विष्णुशक्तौ । किं च उपरितनाध्यायेषु ‘क्षरं प्रधानम्’ इति मन्त्र शिवस्य नियम्यकोटिप्रवेशः कृतः । ततः परम् ‘ब्रह्म परम्’ इति मन्त्र परवल भिन्नत्वं च निर्दिष्टम् । कथं नियम्यस्य परब्रह्मभिन्नस्य शिवस्य पृष्टजगत्कारण- ब्रह्मत्वं संभवति । सामोट्टूमः ख्यातः कान्च्याः पश्चाद्देशे रम्ये । तद्ग्रामस्था विप्रा वत्सास्त्वौदीच्याख्यास्तेषां मध्ये ॥ १ ॥ रघुनाथाख्य भूदेवस्त्वासीच्छास्त्रार्थतत्त्ववित् । पुत्रस्तस्य चतुस्तन्त्री रामभद्राख्यपण्डितः ॥ २ ॥ तस्य पुत्रद्वयं ख्यातं तत्रैकोऽय्याख्यभूसुरः । स तु विद्वान्सर्वशास्त्रे तुलजीन्द्रपुरेऽवसत् ॥ ३ ॥ तस्य पुत्रत्रयं जातं मध्यमो ऽण्णाख्यपण्डितः । यस्य शिष्यप्रशिष्यैस्तु भूपितं मण्डलं भुवः ॥ ४ ॥ तस्य पुत्रो हरेरंशः साक्षान्नारायणाह्वयः । अश्वत्थपूर्वपदकः प्रसिद्धः पृथिवीतले ॥ ५ ॥ पितुः सकाशात्संलब्ध सर्वशास्त्रार्थतत्त्ववित् । स्वपितुर्निकटे शास्त्रमद्वैतं ज्ञातुमागतात् ॥ ६ ॥ अहोविलाख्यविदुषो महाभाप्यं गृहीतवान् । स्वयंप्रकाशप्रमुखा यतिवर्या अपि स्वयम् ॥ ७ ॥ यस्मादधीतवेदान्तत्रितयाः ख्यातपण्डिताः । माध्वा रामानुजीयाश्च श्रीशांकरमतानुगाः ॥ ८ ॥ स्वस्वसिद्धान्तसंसिद्धग्रन्थतत्त्वबुभुत्सया । यस्य च्छात्रत्वमापद्य पाण्डित्ये प्रथिता बभुः ॥ ९॥ Artagna-G ६९ पातञ्जले महाभाष्ये गादाधर्यां च वार्त्तिके । भट्टपादकृते भाप्ये शबरस्वामिना कृते ॥ १० ॥ खण्डदेवकृतौ भारदीपिकायां च कौस्तुभे । ब्रह्मानन्द सरस्वत्या रचिता चन्द्रिका भिधा ॥ ११ ॥ कृतिस्तस्यां मध्वतन्त्रचन्द्रिकावनमालयोः । वेदान्ताचार्यरचिता शतदूपणिसंज्ञिका ॥ १२ ॥ कृतिस्तस्यां दोड्डयार्यरचिते चण्डमारुते । तत्तन्मतस्थभाव्येषु तथा विद्यान्तरेषु च ॥ १३ ॥ ज्ञानं यस्य महान्तोऽपि शास्त्रिणस्त्रयम्बकादयः । ज्ञात्वाश्रर्य मुदं चैव प्राप्ता इति हि शुश्रुमः ॥ १४ ॥ सीतापतेः पादपद्मे यन्मनोलिः सदा स्थितः । इति श्रुतं मया तस्य पुत्रः श्रीरामशंकरः ॥ १५ ॥ धर्मशास्त्रे तथा पूर्वतन्त्रे बुद्धिमवाप सः । तस्य पुत्रत्रयं तत्र ज्येष्ठो नारायणाह्वयः ॥ १९ ॥ श्रुतिस्मृतितदर्थेषु सम्यक्छ्रडासमन्वितः । कोदण्डपूर्वकैर्वर्णैर्नाम्ना रामेति विश्रुतः ॥ १७ ॥ कनिष्ठो मध्यमस्तत्र रामसुव्विति विश्रुतः । शिवरामार्य संज्ञानां देशिकानां महात्मनाम् ॥ १८ ॥ प्रसादात्सर्वशास्त्रज्ञो रामदास्यरसानुभूः । तेनायं रचितो ग्रन्थो लोकानुग्रहकाम्यया ॥ १९ ॥ इति विष्णुद्वेपकरमहाशैयमतमर्दनं संपूर्णम् । 7 The J @ mont be 237 17 Te n-Do kyan مدیر し Pygma rych! الا All 2 where 0 2210 G amge 136 120 n // that शुद्धिसूचिका J पृष्ठम्. पङ्क्तिः. शुद्ध पाठः شوری ३. इत्युपक्रम्य ११. २५. मन्त्रस्यायमर्थः १४. २०. विष्णोर्यज्ञशब्दस्य १६. १३. सर्वदेवकर्तृक • 99 १६. मनुष्येषु २३. २४. ० विष्णवर्चक ० २४.. १८. दर्शनात् २९. ११. ० वचनाभ्यां २६. २.१. •ऽर्जुनेन ४६. १५. कस्यचिच्छ्रति ०