विस्तारः (द्रष्टुं नोद्यम्)
Based on the ed. by Divānji. Baroda : Oriental Institute 1933.
Input by Takahiro Kato
[GRETIL-Version vom 24.03.2017]
मधुसूदनसरस्वती: सिद्धान्तबिन्दु
अथ सिद्धान्तबिन्दु
उपोद्घातः
श्रीशङ्कराचार्यनवावतारं
विश्वेश्वरं विश्वगुरुं प्रणम्य ।
वेदान्तशास्त्रश्रवणालसानां
बोधाय कुर्वे कम् अपि प्रयत्नम् ॥
इह खलु साक्षात्परम्परया वा सर्वान् एव जीवान् समुद्दिधीर्षुर् भगवान् श्रीमच्छङ्करो ऽनात्मभ्यो विवेकेनात्मानं नित्यशुद्धबुद्धमुक्तस्वभावं सङ्क्षेपेण बोधयितुं दशश्लोकीं प्रणिनाय ।
नन्व् इदङ्कारास्पदेभ्यो ऽनात्मभ्यो विवेकेनाहङ्कारास्पदम् आत्मानं सर्वो लोको ऽहम् अस्मीति प्रत्येति दुःखं चानुभवति । तेन ज्ञातज्ञापकत्वान् निष्प्रयोजनकत्वाच् च आत्मतत्त्वप्रतिपादनं व्यर्थम् इति चेत्, न, चिद्भास्यत्वेन लक्षणेन इदङ्कारास्पदानाम् अपि देहेन्द्रियमनसां प्रतिभासतो ऽहङ्कारास्पदत्वेन तदविवेकात् तेन विशुद्धे ऽप्य् आत्मनि दुःखित्वाद्यभिमानात् शास्त्रीयेणैव ब्रह्मत्मैक्यज्ञानेन समूलस्य तस्य निवृत्तेः । तस्माद् अज्ञातज्ञापकत्वात् सप्रयोजनकत्वाच् चात्मतत्त्वप्रतिपादनं न व्यर्थम् ।
तस्य चात्मतत्त्वस्य “तत्त्वम् असि” (छु वि।८।७) “अहं ब्रह्मास्मि” (बउ इ।४।१०) इत्यादिवेदान्तमहावाक्यम् एव प्रमापकम् । वाक्यं च पदार्थज्ञानद्वारेणैव ज्ञापकम् इति तत्त्वम्पदार्थयोः प्रकृतवाक्यानुकूलयोर् अन्यतो ऽसिद्धत्वात् ताव् अपि शास्त्रेणैव प्रमातव्यौ यूपाहवनीयपदार्थवत् । ततश् च “यतो वा इमानि भूतानि जायन्ते येन वा जातानि जीवन्ति” (तु इइइ।१।१) इत्याद्याः सृष्ट्यादिश्रुतयस् तत्पदवाच्यार्थस्य समर्पिकाः “सत्यं ज्ञानम् अनन्तम्” (तु इइ।१) इत्याद्यास् तु लक्ष्यार्थस्य । एवं जाग्रत्स्वप्नसुषुप्त्यादिश्रुतयः “तद् यथा महामत्स्य उभे कूले अनुसञ्चरति” (बउ इव्।३।१८) इत्याद्यास् त्वम्पदवाच्यार्थस्य समर्पिकाः “यो ऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः” (बउ इव्।३।७) “न दृष्टेर् द्रष्टारं पश्येः” (बउ इइइ।४।२) इत्याद्यास् तु लक्ष्यार्थस्य । तेन प्रथमम् अवान्तरवाक्येभ्यो ऽनुभूतयोः शुद्धजीवब्रह्मणोस् तत्त्वमस्यादिवाक्ये मुखार्थान्वयानुपपत्तेर् लक्षणया स्मरणोपपत्तिः । सुषुप्तौ निर्विकल्पकसाक्षिचैतन्यानुभवाङ्गीकाराच् च अद्वितीयब्रह्मजिज्जापयिषया प्रवृत्तानां सत्यज्ञानादिपदानाम् उपाधिविशिष्टचैतन्ये शक्तत्वे ऽपि चैतन्यमात्रे तात्पर्येण तत्रैव तदंशे एव संस्कारोद्बोधाच् च । इच्छन्ति हि आकाशादिपदाद् अपि निर्विकल्पकं स्मरणं तात्पर्याधीनत्वाच् छब्दवृत्तेः । एतेन प्रमितिप्रमात्रोर् महावाक्यार्थबोधे भानम् अपास्तम् । असम्प्रज्ञातसमाधेः श्रुतिस्मृतिसिद्धत्वाच् च । पारोक्ष्यसद्वितीयत्वाभ्यां च न तत्त्वम्पदार्थमात्रानुभवाद् एव कृतकृत्यता । वाच्यार्थस्य च भेदावभासान् न पौनरुक्त्यम् । लक्ष्यार्थस्य चैकत्वाद् अखण्डार्थता । पदजन्यस्य च स्मरणस्य निर्विकल्पलवाक्यार्थानुकूलस्य निर्विकल्पकत्वम् अनुभववद् एवाविरुद्धम् । सविकल्पकवाक्यार्थबोधे च सविकल्पकपदार्थापस्थितिर् अङ्गम् । प्रकृते च निर्विकल्पको वाक्यार्थबोधस् तस्यैव प्रमात्वेनाज्ञाननिवर्तनसामर्थ्यात् । अतो न लक्ष्यतावच्छेदकम् अन्तरेण लक्षणानुपपत्तिः । प्रकृतवाक्यार्थानुकूलपदार्थोपस्थितिर् एव शक्तिलक्षणासाध्यत्वात् ।
ननु तर्हि वेदान्तवाक्येभ्य एव पदार्थोपस्थितौ वाक्यार्थबोधे च सति तस्य स्वत एव प्रामाण्यात् तेनाज्ञानतत्कार्यनिवृत्त्यनुपपत्तौ किं विचारेणेति चेत्, सत्यम्, वेदान्ता यद्य् अपि स्वतःप्रामाण्यान् निर्विकल्पकम् आत्मसाक्षात्कारं जनयन्ति तथापि मन्दमतीनां वादिविप्रतिपत्तिजसंशयप्रतिबन्धेन तस्याज्ञाननाशकत्वासामर्थ्यात् विचारेण तु संशयनिवृत्तौ निरपवादम् अज्ञाननिवृत्तिर् इति संशयबीजभूतवादिविप्रतिपत्तिनिराकरणार्थं विचार आरभ्यते ।
प्रथमो विभागः ।
त्वम्पदार्थनिर्णयः ।
तत्र त्वम्पदार्थे विप्रतिपत्तयः प्रथमं प्रदर्श्यन्ते । तत्पदार्थस्य शास्त्रतात्पर्यविषयतयाभ्यर्हितत्वे ऽपि त्वम्पदार्थस्य शास्त्रफलमोक्षभागितया ततो ऽप्य् अभ्यर्हितत्वात् ।
तत्र देहाकारपरिणतानि चत्वारि भूतान्य् एव त्वम्पदार्थ इति चार्वाकाः । चक्षुरादीनि प्रत्येकम् इत्य् अपरे । मिलितानीत्य् अन्ये । मन इत्य् एके । प्राण इत्य् अन्ये । क्षणिकं विज्ञानम् इति सौगताः । शून्यम् इति माध्यमिकाः । देहेन्द्रियातिरिक्तो देहपरिमाण इति दिगम्बराः । कर्ता भोक्ता जडो विभुर् इति वैशेषिकतार्किकप्राभाकराः । जडो बोधात्मक इति भाट्टाः । भोक्तैव केवलबोधात्मक इति साङ्ख्याः पातञ्जलाश् च । अविद्यया कर्तृत्वादिभाक् परमार्थतो निर्धर्मकः परमानन्दबोधरूप एवेत्य् औपनिषदाः । एवं सामान्यतो ऽहम्प्रत्ययसिद्धचिदात्मनि वादिविप्रतिपत्तिभिः सन्दिग्धे ऽहम्प्रत्ययस्यालम्बनविशेषनिर्णयायाह भगवान् आचार्यः –
न भूमिर् न तोयं न तेजो न वायुर् न खं नेन्द्रियं वा न तेषां समूहः ।
अनैकान्तिकत्वात् सुषुप्त्येकसिद्धस् तद् एको ऽविशिष्टश् शिवः केवलो ऽहम् ॥ १ ॥
अहम् अहम्प्रत्ययालम्बनम् । एकः अद्वितीयः । अविशिष्टः सर्वद्वैतबाधे ऽप्य् अवाधितः । शिवः परमानन्दबोधरूपस् तस्यैव मङ्गलरूपत्वात् । केवलो निर्धर्मकः । तेनाद्वितीयः सर्वप्रमाणाबाध्यः परमानन्दबोध एवाहम्प्रत्ययावलम्बनम् इत्य् औपनिषदपक्ष एव श्रेयान् इत्य् अर्थः । एतदुपपादनायेतरवादिमतानि निराकरिष्यन् प्रथमं देहात्मवादं निराकरोति न भूमिर् न तोयं न वायुर् न खम् इति । तत्राहम् इति सर्वत्र प्रत्येकं नञा सम्बध्यते । या भूमिः साहं न भवामि यो ऽहं स भूमिर् न भवतीति च परस्परतादात्म्याभावो दृष्टव्यः ।
यद्य् अपि वादिना प्रत्येकं भूम्यादेर् आत्मत्वं नाभ्युपेयते सङ्घातस्यैव तदभ्युपगमात् तथापि तन्मते अवयव्यनङ्गीकारात् पञ्चमतत्त्वाभ्युपगमप्रसङ्गेन च संयोगादिसम्बन्धानभ्युपगमात् संहन्तुर् अभावाच् च सङ्घातो नोपपद्यत इत्य् अभिप्रेत्य प्रत्येकं भूतनिराकरणेन भौतिकदेहात्मवादो निराकृतः ।
यद्य् अपि च भूतचतुष्टयतत्त्ववादिनो मते आवरणाभावत्वेनाभिमतस्य स्थिरस्यासत आकाशस्य देहानुपादानत्वं तथापि सिद्धान्ते तस्य भावत्वं देहोपादानत्वाद्यङ्गीकारात् तत्राप्य् आत्मत्वप्रसक्त्या तन्निराकृतम् । अथ वा न वायुर् इत्यन्तम् एव देहात्मवादस्य निराकरणं न खम् इति तु शून्यवादस्य खशब्दस्य शून्यवाचकत्वात् ।
नेन्द्रियम् इति प्रत्येकम् इन्द्रियाणाम् आत्मत्वनिरासः । न तेषां समूह इति मिलितानां भूतानां देहावयव्याकारेण परिणतानाम् इन्द्रियाणां च मिलितानां निरासः । पूर्वं सङ्घातम् अनभ्युपगम्य प्रत्येकं भूतानि निराकृतानि । अधुना तु सङ्घातम् अभ्युपगम्यापि निराकृतानीति भेदः । भूतनिराकरणेन भौतिकयोः प्राणमनसोर् निरासः । मनोनिराकरणेन मनोवृत्तेः क्षणिकविज्ञानस्य देहातिरिक्तस्य कर्तृत्वभोक्तृत्वादिविशिष्टस्य च निरासः । सिद्धान्ते ज्ञानेच्छासुखादीनाम् अन्तःकरणाश्रयत्वाभ्युपगमात् कामसङ्कल्पादीन् प्रकृत्य मन एवेति श्रुतेः (बउ इ।५।३) । तेन देहम् आरभ्य केवलभोक्तृपर्यन्तानां तत्तद्वाद्यभिमतानाम् अनात्मत्वं प्रतिज्ञातं भवति तत्र हेतुम् आह – अनैकान्तिकत्वाद् इति । व्यभिचारित्वात् विनाशित्वाद् इति यावत् । आत्मनो देशकालापरिच्छिन्नत्वात् परिच्च्छिन्नानां घटादिवद् अनात्मत्वात् खभिन्नस्य चात्मत्वाभावात्, आत्मन एकत्वे ऽपि सुखदुःखाद्याश्रयाणाम् अन्तःकरणानां भेदाभ्युपगमाद् व्यवस्थोपपत्तेः स्वेनैव स्वाभावग्रहणे विरोधात्, ग्राह्यकाले ग्राहकासत्त्वात् ग्राहकसत्त्वे ग्राह्याभावात् कृतहान्यकृताभ्यागमप्रसङ्गाच् च न तस्य ध्वंसप्रागभावौ । सद्रूपस्यात्मनः सर्वत्रानुगमाच् च नात्यन्ताभावसम्भवः । द्वैतस्य मिथ्यात्वेनाधिष्ठानसत्ताद् आत्म्यापन्नतयैव सिद्धत्वात्, शुक्तिरजतादिवद् अध्यस्तत्वेन तत्तादात्म्यभावानुपपत्तिः । तेनात्मना भावप्रतियोगी । अभावप्रतियोगिनश् च देहेन्द्रियादयः । तेनामी नात्मनः । किं तु स्वप्रकाशबोधरूप आत्मनि अद्वैते ऽप्य् अनाद्यनिर्वचनीयाविद्याकल्पिता अनिर्वचनीया एवेति सिद्धान्तरहस्यम् ।
ननु बोधरूप आत्मेति तवाभ्युपगमात् सुषुप्तौ च बोधाभावात् गाढं मूढो ऽहम् आसं न किञ्चिद् अवेदिषम् इति सुप्तोत्थितस्य परामर्शात् कथम् अव्यभिचारिता तस्येत्य् आशङ्क्याह – सुषुप्त्येकसिद्ध इति । अयम् अर्थः । आत्मनः सुषुप्तिसाक्षित्वान् न तत्र तदभावः, अन्यथा मूढो ऽहम् आसम् इति परामर्शानुपपत्तेः मातृमानम् इति मेएयानां व्यभिचारित्वे ऽपि तद्भावाभावसाक्षिणः कालत्रये ऽव्यभिचारात् ।
ननु प्रमाश्रयः प्रमाता स एव कर्ता भोक्ता प्रदीपवत् स्वपरसाधारणसर्वभासकश् चेति न घटादिवत् साक्षिसापेक्ष इति चेत्, न, विकारित्वेन स्वविकारसाक्षित्वानुपपत्तेः दृश्यस्य द्रष्टृत्वानुपपत्तेः प्रमातुश् च परिणामित्वेन दृश्यत्वात्, एकस्य कूटस्थस्यैव सर्वसाक्षित्वात् ।
ननु एकः कूटस्थो निर्धर्मकः साक्षी नाद्रियते ऽप्रामाणिकत्वाद् इति चेत्, न, “तम् एव भान्तम् अनुभाति सर्व तस्य भासा सर्वम् इदं विभाति (सु वि।१४, मुउ इइ।२।१०, कौउ इइ।५।१५), “न दृष्टेर् द्रष्टारं पश्येः (बउ इइइ।४।२)” “अदृष्टो द्रष्टा, नान्यो ऽतो ऽस्ति द्रष्टा (बउ इइइ।७।२३)” इत्यादि वदता वेदान्तप्रमाणराजेन तस्यैव सर्वसाक्षित्वेनाभिषिक्तत्वात् ।
ननु महद् एतद् इन्द्रजालं प्रमाश्रयान् कूटस्थान् विहाय कूटस्थप्रमाश्रयम् एव प्रमाणराजः सर्वसाक्षिणं करोतीति । बाढम्, इन्द्रजालम् एवैतत्स्वप्नवद् अविद्याविलसितत्वात् तथापि द्ष्श्यस्य घटादिवज् जडत्वेन कथं प्रमाश्रयत्वम् इति चेत्, न, दर्पणादिवद् अतिस्वच्छत्वेन चिद्बिम्बग्राहकत्वाच् चित्ताद् आत्म्याध्यासाद् वा ।
ननु नीरूपस्य निरवयवस्याअत्मनः कथं प्रतिबिम्ब इति चेत्, कात्रानुपपत्तिः, विभ्रमहेतूनां विचित्रत्वात्, जपाकुसुमरूपस्य नीरूपस्य निरवयवस्यापि स्फटिकादौ प्रतिबिम्बदर्शनाच् छब्दस्यापि प्रतिशब्दाख्यप्रतिबिम्बोपलम्भात् तयोः सम्प्रतिपन्नप्रतिबिम्बवैलक्षण्यनिरूपणात् ।
तथापीन्द्रियग्राह्यस्यैव प्रतिबिम्ब इति चेत्, न, व्यभिचारात्, अनिन्द्रियग्राह्यसाक्षिप्रत्यक्षस्याप्य् आकाशस्यापि जलादौ प्रतिबिम्बोपलम्भात् । अन्यथा जानुमात्रे ऽप्य् उदके अतिगम्भीर(ता)प्रतीतिर् न स्यात् । तर्हि अन्धस्य जले प्रतिबिम्बप्रतीतिः कुतो न जायते सालोकस्य साभ्रस्य प्रतिबिम्बितत्वात् तद्ग्रहणार्थं चक्षुषो ऽपेक्षणात् । एतेन नीलं नभ इत्यादिविभ्रमे ऽपि चक्षुरन्वयव्यतिरेकौ व्याख्यातौ तत्र सालोकस्याकाशस्याधिष्ठानत्वात् । तस्माच् चाक्षुषप्रतिबिम्बम् एव रूपसापेक्षम् इत्य् अवधेयम् ।
तथाप्य् आत्मनः प्रतिबिम्बे किं प्रमाणम् इति चेत्, शृणु – “रूपं रूपं प्रतिरूपो बभूव तद् अस्य रूपं प्रतिचक्षणाय (बउ इइ।५।१९)” “मायाभासेन जीवेशौ करोति (नु ९)” “एकधा बहुधा चैव द्ष्श्यते जलचन्द्रवत् (ब्बु १२)” इत्यादिश्रुतिः, “स एष इह प्रविष्टः (बउ इ।४।७)” “स एतम् एव सीमानं विदार्यैतयाद्वारा प्रापद्यत (ऐतु इ।३।१२)” “तत्सृष्ट्वा तद् एवानुप्राविशत् (तु इइ।६।१)” इत्यादि प्रवेशश्रुत्यन्यथानुपपत्तिः “आभास एव च (ब्स् इइ।३।५०)” “अत एव चोपमास्सुर्यकादिवत् (ब्स् इइइ।२।१८)” इत्यादिपारमर्षसूत्रणि च तत्र मानानि ।
तस्य च प्रतिबिम्बस्य सत्यम् एवेति प्रतिबिम्बवादिनः, मिथ्यात्वम् एवेत्य् आभासवादिनः । स्वरूपे तु न विवाद एवेत्य् अन्यद् एतत् । अचेतनविलक्षणत्वं तु तस्य श्रुतिसिद्धम् अनुभवसिद्धं च । तस्मात् सिद्धम् अन्तःकरणस्य प्रतिबिम्बाध्यासद्वारा प्रमातृत्वम् ।
ननु, अध्यासो ऽपि नोपपद्यते । तथाहि – आत्मनि वा अनात्माध्यस्यते अनात्मन्य् आत्मा वा । नाद्यः, तस्य निःसामान्यविशेषवत्वेन सर्वदाभासमानत्वेन सादृश्यादिरहितत्वेन चाधिष्ठानत्वासम्भवात् । नापि द्वितीयः, तस्य मिथ्यात्वाभ्युपगमात् । मिथ्यावस्तुनो ऽधिष्ठानत्वे शून्यवादप्रसङ्गात् । तस्य च सत्यत्वे तदनिवृत्तेर् अनिर्मोक्षप्रसङ्गाच् च । न हि सत्यं क्वचिन् निवर्तते, निवर्तमानं वा भ्रमज्ञानेन । श्रुतयश् च “भिद्यते हृदयग्रन्थिश् छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे (मु इइ।२।८)” “तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यते अयनाय (सु इइइ।८)” “तरति शोकम् आत्मवित् (छु विइ।१।३)” इत्याद्याः ज्ञानात् सर्वसंसारनिवृत्तिं दर्शयन्त्यः तस्य मिथ्यात्वं सूचयन्ति । “एकम् एवाद्वितीयम् (छु वि।२।१)” “अतो ऽन्यद् आर्तम् (बउ इइइ।४।२)” “नेह नानास्ति किञ्चन (बउ इव्।४।१९)” “अथात आदेशो नेति नेति (बउ इइ।३।६)” इत्याद्याः श्रुतयः साक्षाद् एव मिथ्यात्वं प्रतिपादयन्ति । दृश्यत्वेन शुक्तिरजतवन् मिथ्यात्वानुमानच् च । आत्मन्य अध्यस्ततयैव चानात्मनि सिद्धे तत्रात्माध्यासः । अनात्माध्यासेन चात्मनो दोषसादृश्यादिसम्भवात् तत्र चानात्माध्यास इत्यात्माश्रयादिदोषप्रसङ्गाच् च । एतेनात्मानात्माध्यासस्याविद्याकल्पितत्वान् न विकल्पावसर इत्य् अपास्तम् स्वप्रकाशात्मन्य् अविद्याया अप्य् अनुपपत्तेः । तथाहि सापि अध्यस्तानध्यस्ता वा । तत्राद्ये कथं नात्माश्रयादिदोषप्रसङ्गः । अन्त्ये तस्या अनुच्छेदाद् अनिर्मोक्षप्रसङः । सर्वस्याध्यासमूलत्वे च भ्रमप्रमादिव्यवस्था न स्यात् । एकस्यैवात्मनः प्रमाणप्रमेयप्रमितिप्रमातृरूपता च विरुद्धा, अविरोधाभ्युपगमे वा सौगतम् अतोपपत्तिर् इति ।
अत्रोच्यते – अहं मनुष्यह् कर्ता भोक्तेत्यादिप्रतीतिस् तावत् सर्वजनसिद्धा । सा च न स्मृतिर् अपरोक्षावभासत्वाद् भेदाग्रहपूर्वकत्वाच् च ।
नापि प्रमा श्रुतियुक्तिबाधितत्वात् । तथा च श्रुतयः “यो ऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः (बउ इव्।३।७)” “अयम् आत्मा ब्रह्म (बउ इइ।५।१९)” “सत्यं ज्ञानम् अनन्तं ब्रह्म (तु इइ।१)” “विज्ञानम् आनन्दं ब्रह्म (बउ इइइ।९।२८)” “य आत्मा अपहतपाप्मा (छु वि।७।१)” यत् साक्षाद् अपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरः (बउ इइइ।४।१)” “यो ऽशनायापिपासे शोकं मोहं जरां मृत्युम् अत्येति (बउ इइइ।५।१)” “स यत् तत्र किञ्चित् पश्यति अनन्वागतस् तेन भवति असङ्गो ह्य् अयं पुरुषः (बउ इव्।३।१५)” इत्याद्या अकर्तृभोक्तृपरमानन्दरूपताम् आत्मनो दर्शयन्ति । युक्तश् च
विकारी परिच्छिन्नत्वेनानात्मत्वापत्तेः स्वेनैव स्वस्य ग्रहणे कर्तृकर्मविरोधात् दृग्दृश्ययोश् च सम्बन्धानुपपत्तेः भेदेनाभेदेन वा धर्मधर्मिभावानुपपत्तेश् च । ज्ञानानित्यत्वपक्षे तत्तद्व्यक्तिभेदध्वंसप्रागभावसमवायज्ञानत्वजात्याद्यभ्युपगमे गौरवात्, एकत्वाभ्युपगमे चातिलाघवात्, घटज्ञानं पटज्ञानम् इत्य् उपाधिभेदपुरस्कारेणैव ज्ञानभेदप्रतीतेः । स्वतस् तु ज्ञानं ज्ञानम् इति एकस्वरूपावगमात्, तदुत्पत्तिविनाशप्रतीत्योश् चावश्यकल्प्यविषयसम्बन्धविषयतयाप्य् उपपत्तेः, उपाधिपरामर्शम् अन्तरेण स्वत एव घटाद् घटान्तरस्य भेदप्रतीतेस् तत्प्रतिबन्दीग्रहासम्भवाद् आकाशकालदिशाम् अपि नानात्वापत्तेश् च ।
कर्तृत्वादेर् वास्तवत्वे ऽनिर्मोक्षप्रसङ्गात् ।
स्वप्रकाशानभ्युपगमे च जगदान्ध्यप्रसङ्गात्, परमप्रेमास्पदत्वेन च तस्यानन्दरूपत्वात्, निर्धर्मकनित्यस्वप्रकाशसुखात्मक एवात्मा इत्यादयः ।
तस्मात् परिशेषाद् भ्रान्तिर् इयम् इति स्थिते तत्कारणम् अपि योग्यं किञ्चित् कल्पनीयम् । कल्प्यमानं च तदात्मन्य् अध्यस्ततयैव धर्मिग्राहकमानेन सिध्यतीति न जानामीति साक्षिप्रतीतिसिद्धम् अनिर्वाच्यम् अज्ञानम् एव तत् । न चेदम् अभावरूपम्, ज्ञानस्य नित्यत्वेन तदभावानुपपत्तेर् उक्तत्वात् ।
धर्मिप्रतियोगिज्ञानाज्ञानाभ्यां च व्याघातापत्तेः । नापि भ्रमसंशयतत्संस्कारपरम्परारुपम्, अपरोक्षत्वात्, अतीतानागतभ्रमसंशयतत्संस्काराणां चापरोक्षत्वेन ज्ञातुम् अशक्यत्वात्, आवरणात्मकत्वात्, भ्रमाद्युत्पादनत्वाच् च । आत्मनो निर्विकारत्वात्, अन्तःकरणादेश् च तज्जन्यत्वात्, “देवात्मशक्तिं स्वगुणैर् निगूढाम् (सु इ।३)” इति गुणवत्त्वश्रुतेश् च “मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् (सु इव्।१०)”
“इन्द्रो मायाभिः पुरुरूप ईयते (बउ इइ।५।१९)” “अनृतेन हि प्रत्यूढाः (छु विइइ।३।२)” “नीहारेण प्रावृत्ताः (त्स् इव्।६।२।२)” “भूयश् चान्ते विश्वमायानिवृत्तिः (सु इ।१०)” इत्यादिश्रुतेश् च मायाविद्यानिर्वाच्यम् अनृतं तत्त्वज्ञाननिवर्त्यञ् चाज्ञानम् एव स्वपराध्यासे कारणम् ।
न चात्माश्रयादिदोषप्रसङ्गः, अनादित्वेन तन्निरासात्, अनादित्वेनोत्पत्त्यभावात्, स्वप्रकाशात्मन एव तज्ज्ञप्तिरूपत्वात् ।
तेनाज्ञानाध्यासः, तद्विशिष्टे चैतन्ये ऽहङ्काराध्यासः, तद्विशिष्टे च कामसङ्कल्पादीनाम् अहङ्कारधर्माणाम् इन्द्रियधर्माणां च काणत्वबधिरत्वादीनाम् अध्याः ।
इन्द्रियाणां तु परोक्षत्वान् नापरोक्षधर्म्यध्यास इति सिद्धान्तः ।
तद्विशिष्टे च स्थूलदेहाध्यासः, धर्मिपुरस्कारेणैवाहं मनुष्य इत्य् आकारः, न तु स्वरूपतो ऽहं देह इत्य् अध्यासः, तथा प्रतीत्यभावात् । तद्विशिष्टे च स्थौल्यादीनां देहधर्माणाम् अध्यासः ।
तद्विशिष्टे बाह्यानां पुत्रभार्यादीनां साकल्यवैकल्यादिधर्माध्यासः । एवं चैतन्यस्याप्य् अहङ्कारादिषु देहपर्यन्तेष्व् अध्यासः संसर्गतः । अध्यासव्यवधानतारतम्याच् च प्रेमतारतम्यम् । तद् उक्तं वार्तिकामृए (बउभ्व् इ।४।१०३१) –
वित्तात् पुत्रः प्रियः पुत्रात् पिण्डः पिण्डात् तथेन्द्रियम् ।
इन्द्रियेभ्यः प्रियः प्राणः प्राणाद् आत्मा परः प्रियः ॥ इति ॥
पिण्डः स्थूलशरीरम्, प्राणोऽन्तःकरणम् । देहापेक्षया चेन्द्रियाणां प्रियत्वं शस्त्रवृष्ट्यादिधारापाते चक्षुषो निमीलनदर्शनाद् अनुभवसिद्धम् । तेनान्योन्याध्यासाच् चिदचिद्ग्रन्थिरूपो ऽध्यासः ।
एकतरस्याध्यासाङ्गीकारे ऽन्यतरस्याभानप्रसङ्गात्, अध्यस्तस्यैव भ्रमे भाननियमात् (स्स् इ।३६) “इमे रङ्गरजते” इति समूहालम्बनभ्रमवद् अवश्यम् इतरेतराध्यासः । सर्वबाधावधिभूतचैतन्यपरिशेषेण च न शून्यवादापत्तिः, सत्यानृतसम्भेदावभासत्वाद् अध्यासस्य । तस्मात् पूर्वपूर्वाध्यासमूल एवायम् उत्तरोत्तरो ऽहङ्काराद्यध्यासो बीजाङ्कुरवद् अनादिः । अविद्याध्यासश् च एक एवानादिः ।
नन्व् अध्यासस्यानादित्वे “स्मृतिरूपः परत्र पूर्वदृष्टावभासो ऽध्यास (ब्स्भ्)” इति वदता भाष्यकारेण स्मृतिरूपत्वेन संस्कारजन्यत्वम् उक्तं विरुद्ध्येत इति चेत्, न, कार्याध्यासाभिप्रायत्वात् तस्य, परत्र परावभास इत्य् एतावन् मात्रस्यैव उभयानुगतस्य लक्षणत्वात् ।
यद् वा “सत्यानृते मिथुनीकृत्य (ब्स्भ्)” इति भाष्यकारवचनात् सत्यमिथ्यावस्तुसम्भेदावभासो ऽध्यास इत्य् एव सिद्धान्तलक्षणम् । तेन कारणाध्यासे ऽपि न लक्षणाव्याप्तिः । कार्याध्यसस्य च प्रवाहरूपेण बीजाङ्कुरवद् अनादित्वाभिधानान् न को ऽपि दोषः ।
एवम् अध्यासे सिद्धे एकस्याप्य् आत्मनो जीवेश्वरादिव्यवस्था मानमेयादिप्रतिकर्मव्यवस्था चोपपद्यते । तथा हि – अज्ञानोपहित आत्मा अज्ञानतादात्म्यापन्नः स्वचिदाभासाविवेकाद् अन्तर्यामी साक्षी जगत्कारणम् इति च कथ्यते, बुद्ध्युपहितश् च तत्तादात्म्यापन्नः स्वचिदाभासाविवेकाज् जीवः कर्ता भोक्ता प्रमातेति च कथ्यत इति वार्तिककारपादाः ।
प्रतिदेहं बुद्धीनां च भिन्नत्वात् तद्गतचिदाभासभेदेन तदविविक्तं चैतन्यम् अपि भिन्नम् इव प्रतीयते । अज्ञानस्य तु सर्वत्राभिन्नत्वात् तद्गतचिदाभासभेदाभावात् तदविविक्तसाक्षिचैतन्यस्य न कदाचिद् अपि भेदभानम् इति ।
अस्मिंश् च पक्षे तत्त्वमादिपदे जहल्लक्षनैव साभासस्योपाधेर् वाच्यार्थांशस्य हानाद् आभासस्यापि जडाजडविलक्षणत्वेनानिर्वचनीयत्वात् । तद् उक्तं सङ्क्षेपशारीरके –
साभासाज्ञानवाची यदि भवति पुनर् ब्रह्मशब्दस् तथाहं ।
शब्दो ऽहङ्कारवाची भवति तु जहती लक्षणा तत्र पक्षे ॥ इति ॥
न चाभासस्यैव बद्धत्वात् केवलचैतन्यस्य च मुक्तत्वाद् बन्धमोक्षयोर् वैयधिकरण्यं स्वनाशार्थं प्रवृत्त्यनुपपत्तिश् चेति वाच्यम्, केवलचैतन्यस्यैवाभासद्वारा बद्धत्वाभ्युपगमात्, तदुक्तं वार्तिककारपादैः –
“अयम् एव हि नो ऽनर्थो यत् संसार्य् आत्मदर्शनम् (बुभ्व्)” इति ।
तेन शुद्धचैतन्यस्याभास एव बन्धः, तन्निवृत्तिश् च मोक्ष इति न किञ्चिदसमञ्जसम् । अथ वाभासाविविक्तं चैतन्यम् अपि तत्त्वमादिपदवाच्यम् । तेन वाच्यैकदेशस्यात्यागाद् अस्मिन् पक्षे जहदजहल्लक्षणैवेति न को ऽपि दोषः । अयम् एव पक्ष आभासवाद इति गीयते ।
अज्ञानोपहितं बिम्बचैतन्यम् ईश्वरः, अन्तःकरणतत्संस्कारावच्छिन्नाज्ञानप्रतिबिम्बितं चैतन्यं जीव इति विवरणकाराः । अज्ञानप्रतिबिम्बितं चैतन्यम् ईश्वरः, बुद्धिप्रतिबिम्बितं चैतन्यं जीवः, अज्ञानोपहितं तु बिम्बचैतन्यं शुद्धम् इति सङ्क्षेपशारीरककाराः । अनयोश् च पक्षयोः बुद्धिभेदाज् जीवनानात्वम् । प्रतिबिम्बस्य च पारमार्थिकत्वाज् जहल्लक्षणैव तत्त्वमादिपदेषु । इमम् एव प्रतिबिम्बवादम् आचक्षते ।
अज्ञानविषयीभूतं चैतन्यम् ईश्वरः, अज्ञानाश्रयीभूतं च जीव इति वाचस्पतिमिश्राः । अस्मिंश् च पक्षे अज्ञाननानात्वाज् जीवनानात्वम् ।
प्रतिजीवं च प्रपञ्चभेदः, जीवस्यैव स्वाज्ञानोपहिततया जगदुपादानत्वात् । प्रत्यभिज्ञा च अतिसादृश्यात् । ईश्वरस्य च सप्रपञ्चजीवाविद्याधिष्ठानत्वेन कारणत्वोपचाराद् इति । अयम् एव चावच्छेदवादः ।
अज्ञानोपहितं बिम्बचैतन्यम् ईश्वरः, अज्ञानप्रतिबिम्बितं चैतन्यं जीव इति वा, अज्ञानानुपहितं शुद्धचैतन्यम् ईश्वरः, अज्ञानोपहितं जीव इति वा, मुख्यो वेदान्तसिद्धान्त एकजीववादाख्यः । इमम् एव च दृष्टिसृष्टिवादम् आचक्षते । अस्मिंश् च पक्षे जीव एव स्वाज्ञानवशाज् जगदुपादानं निमित्तं च, द्ष्श्यं च सर्वं प्रईतिकम् । देहभेदाच् च जीवभेदभ्रान्तिः । एकस्यैव च स्वकल्पितगुरुशास्त्राद्युपबृंहितश्रवणमननादिदार्ढ्याद् आत्मसाक्षात्कारे सति मोक्षः । शुकादीनां मोक्षश्रवणं चार्थवाद एव । महावाक्ये च तत्पदमनन्तसत्यादिपदवदज्ञानानुपहितचैतन्यस्य लक्षणयोपस्थापकम् इत्याद्या अवान्तरभेदाः स्वयम् ऊहनीयाः ।
ननु, वस्तुनि विकल्पासम्भवात् कथं परस्परविरुद्धमतप्रामाण्यम्, तस्मात् किम् अत्र हेयं किम् उपादेयम् इति चेत्, क एवम् आह वस्तुनि विकल्पो न सम्भवतीति । स्थाणुर् वा पुरुषो वा राक्षसो वा इत्यादिविकल्पस्य वस्तुन्य् अपि दर्शनात् । अतात्त्विकी सा कल्पना पुरुषबुद्धिमात्रप्रभवा, इयं तु शास्त्रीया जीवेश्वरविभागादिव्यवस्था इति चेत्, नूनम् अतिमेधावी भवान् ।
अद्वितीयात्मतत्त्वं हि प्रधानं फलवत्त्वाद् अज्ञातत्वाच् च प्रमेयं शास्त्रस्य । जीवेश्वरविभागादिकल्पनास् तु पुरुषबुद्धिमात्रप्रभवा अपि शास्त्रेणानूद्यन्ते, तत्त्वज्ञानोपयोगित्वात् । फलवत् सन्निधाव् अफलं तदङ्गम् इति न्यायात् भ्रमसिद्धस्यापि श्रुत्यानुवादसम्भवात् । एतेन द्वैतज्ञानेनाद्वैतज्ञानस्य बाधो निरस्तः । घटादिद्वैतज्ञानयोस् समानाश्रयविषयत्वनियमात्, जडे च प्रमाणप्रयोजनयोर् अभावेनाज्ञानानन्ङ्गीकारात्, तदवच्छिन्नचैतन्याज्ञानाद् एव तत्राप्य् अज्ञानव्यवहारोपपत्तेः, प्रामाण्यस्य चाज्ञातज्ञापकरूपकत्वात् । अन्यथा स्मृतेर् अपि तदापत्तेर् इति । वेदान्तेषु सर्वत्र एवंविधविरोधे ऽयम् एव परिहारः । तदाहुर् वार्तिककारपादाः (बउभ्व् इ।४।४०२)
यया यया भवेत् पुंसां व्युत्पत्तिः प्रत्यगात्मनि ।
सा सैव प्रक्रिया ज्ञेएया साध्वी सा च व्यवस्था ॥ इति ॥
श्रुतितात्पर्यविषयीभूतार्थविरुद्धत्वं च हेयम् एवेति शतश उद्घोषितम् अस्माभिः । तस्मान् न किञ्चिद् एतत् ।
ननु भवत्य् अविद्यावशाज् जीवेश्वरादिविभागव्यवस्था मानमेयादिप्रतिकर्मव्यवस्था कथम् इति चेत्, उच्यते । दृष्यत्वाद् विनाशित्वाच् च परिच्छिन्नाप्य् अविद्यानिर्वचनीयत्वेन विचारासहा आवरणविक्षेपशक्तिद्वयवती सर्वगतं चिदात्मानम् आवृणोति, अङ्गुलिर् इव नयनपुरःस्थिता सूर्यमण्डलम् । तत्र चक्षुष एवावरणे ऽण्गुलेर् अप्य् अभानप्रसङ्गात् । अधिष्ठानावरणम् अन्तरेण च विक्षेपानुपपत्तेश् च । ततः सा पूर्वपूर्वसंस्कारजीवकर्मप्रयुक्ता सती निखिलजगदाकारेण परिणमते । सा च स्वगतचिदाभासद्वारा चित्तादात्म्यापन्नेति तत्कार्यम् अपि सर्वम् आभासद्वारा चिदनुस्यूतम् एव । तथा च चैतन्यस्य दीपवत्स्वसम्बद्धसर्वभासकत्वाज् जगदुपादानचैतन्यं प्रमाणापेक्षाम् अन्तरेणैव सर्वदा सर्वं भासयत् सर्वज्ञं भवति । तेन तत्र न मानमेयादिव्यवस्था । किन् तु जीवे तस्य बुद्ध्यवच्छिन्नत्वेन परिच्छिन्नत्वात् तेन चिदभिव्यक्तियोग्येन येनान्तःकरणेन यदा यत्सम्बद्धं भवति तद् एव तदा तदवच्छिन्नो जीवो ऽनुभवतीति न साङ्कर्यप्रसङ्गः ।
एवम् अत्र प्रक्रिया – शरीरमध्ये स्थितः सर्वशरीरव्यापकः सत्त्वप्राधान्येन सूक्ष्मपञ्चभूतारब्धः अन्तःकरणाख्यो ऽविद्याविवर्तो दर्पणादिवद् अतिस्वच्छो नेत्रादिद्वारा निर्गत्य योग्यान् घटादीन् विषयान् व्याप्य तत्तदाकारो भवति द्रुतताम्रादिवत् । तस्य च सौरालोकादिवत् झटित्ये एव स।कोचविकासाव् उपपद्येते । स च सावयवत्वात् परिणममानो देहाभ्यन्तरे घटादौ च सम्यग्व्याप्य देहघटयोर् मध्ये ऽपि चक्षुर्वद् अविच्छिन्नो ऽप्य् अवतिष्ठते । तत्र देहावच्छिन्नान्तःकरणभागो ऽहङ्काराख्यः कर्तेत्य् उच्यते । देहविषयमध्यवर्ती दण्डायमानस् तद्भागो वृत्तिज्ञानाख्यः क्रियेत्य् उच्यते । विषयव्यापकस् तद्भागो विषयस्य ज्ञानकर्मत्वसम्पादकम् अभिव्यक्तियोग्यत्वम् इत्य् उच्यते । तस्य च त्रिभागस्यान्तःकरणस्यातिस्वच्छत्वात् चैतन्यं तत्राभिव्यज्यते । तस्य चाभिव्यक्तस्य चैतन्यस्य एकत्वे ऽपि अभिव्यञ्जकान्तःकरणभागभेदात् त्रिधा व्यपदेशो भवति । कर्तृभागावच्छिन्नचिदंशः प्रमाता, क्रियाभागावच्छिन्नचिदंशः प्रमाणम्, विषयगताभिव्यक्तियोग्यत्वभागावच्छिन्नचिदंशः प्रमितिर् इति ।
प्रमेयं तु विषयगतं ब्रह्मचैतन्यम् एवाज्ञातम् । तद् एव ज्ञातं सत्, फलम् ।
अत्र च यस्मिन् पक्षे अन्तःकरणावच्छिन्नो जीवः, यस्मिंश् च पक्षे सर्वगतो ऽसङ्गो ऽविद्याप्रतिबिम्बो जीवः, तत्रोभयत्रापि प्रमातृचैतन्योपरागार्था विषयगतचैतन्यावरणभङ्गार्था चान्तःकरणवृत्तिः । यस्मिंश् च पक्षे अविद्यावच्छिन्नः सर्वगतो जीवः आवृत्तः तस्मिन् पक्षे जीवस्यैव जगदुपादानत्वेन सर्वसम्बद्धत्वात् आवरणभङ्गार्था वृत्तिर् इति विवेकः ।
ननु चिदुपरागार्था वृत्तिर् इति पक्षे स्वतोऽन्तःकरणसम्बद्धानां धर्माधर्मादीनां ब्रह्मणश् च वृत्तिम् अन्तरेण सर्वदा भानं स्यात् । न स्यात्, चैतन्यस्य तत्तदाकारत्वाभावात् । तदभावश् च स्वच्छे ऽपि ब्रह्मचैतन्ये आवरणात्, अनावृत्ते ऽपि शुक्तिरजतादाव् अस्वच्छत्वात्, धर्माधर्मादौ तु अस्वच्छत्वाद् आवृतत्वाद् वा । तेन स्वच्छे ऽप्य् आवृत्ते प्रमाणवृत्या तदाकारता, अनावृते स्वच्छे तु सुखदुःखादौ स्वत इति नान्तःकरणसम्बन्धमात्रेण भानप्रसङ्गः ।
ननु, ब्रह्मणः कथम् आवरणम्, निरवद्यस्वप्रकाशत्वेन सर्वज्ञत्वात् । सत्यम्, स्वसम्बद्धसर्वभासकतया सर्वज्ञम् अपि अन्तःकरणावच्छिन्नजीवाज्ञानविषयतया आवृतम् इति व्यपदेशात् । तस्माद् ब्रह्म जगदुपादानम् इति पक्षे चिदुपरागार्था आवरणभङ्गार्था च वृत्तिः, जीवोपादानत्वपक्षे तु आवरणभङ्गार्थैवेति ।
ननु, एकेनैव घटादिज्ञानेनावरणभङ्गे सद्यो मोक्षप्रसङ्गः, अज्ञानस्यैकत्वात् । नानाज्ञानपक्षे ऽपि एकस्य जीवस्यैकाञानोपाधित्वात् ।
न, उत्तेजकेन मणेर् इव वृत्यावरणस्याभिभवाङ्गीकारात् । तथा च प्रमाणजन्यान्तःकरणवृत्त्यभावसहकृतम् अज्ञानं सति भात्य् अपि वस्तुनि नास्ति न भाति इति प्रतीतिजननसमर्थम् आवरणम् इत्य् उच्यते । वृत्तौ जातायां त्व् अवच्छेदकाभावाद् विद्यमानम् अप्य् अविद्यमानसमम् एवेति न स्वकार्यसमर्थम् अज्ञानं तेनाभिभूतम् इत्य् उच्यते ।
ननु, एवं सति ब्रह्मज्ञानेनाप्य् अविद्याया अनिवृत्तेर् अनिर्मोक्षप्रसङ्गः । न, तत्त्वमस्यादिवाक्यार्थज्ञानाद् अविद्यानिवृत्त्यभ्युपगमात्, स्वविषयप्रमात्वेनैवाविद्यानिवर्तकत्वान् महावाक्यार्थज्,जानस्यैवाबाधितविषयतया प्रमात्वात् । प्रत्यक्षादीनां तु बाधितविषयतया भ्रमत्वे ऽपि व्यवहारसामर्थ्येन प्रामाण्याभिमानात्, ज्ञानादज्ञाननिवृत्तेर् अन्यत्रादर्शनं चाकिञ्चित्करम्, स्वानुभवसिद्धत्वात्, अन्यथानुपपत्तेश् च सर्वतो बलवत्त्वात् । तदुक्तम् (खण्डनखण्डखाद्यम् १)
अन्यथानुपपतिश् चेद् अस्ति वस्तुप्रसाधिका ।
पिनष्ठ्यसृष्तिवैमत्यं सैव सर्वबलाधिका ॥ इति ॥
अथ वा मूलाज्ञानस्यैवावस्थाज्ञानानि घटादिविषयावरणानि । अज्ञानस्य प्रागभावस्थानीयत्वेन यावन्ति ज्ञानानि तावन्त्य् अज्ञानानीत्य् अभ्युपगमात् एकेन च ज्ञानेनैकाज्ञानस्यैव नाशात्, घटादिज्ञानेनावरणनाशे ऽपि न काचिद् अनुपपत्तिः ।
ननु, अनुमानादिहिर् आवरणं निवर्तते न वा । आद्ये साक्षात्कारिभ्रमस्यापि शङ्खपीतत्वादेः श्वेतत्वाद्यनुमानादिना निवृत्तिप्रसङ्गः, अधिष्ठानाज्ञानोपादानकत्वेन भ्रमस्य तन्निवृत्तौ निवृत्तेः । यौक्तिकज्ञानेन च ब्रह्मण्यविद्यानिवृत्तेः साक्षात्कारार्थं श्रवणमननाद्यपेक्षणं न स्यात् । द्वितीये च वह्न्यादिव्यवहारो न स्यात्, प्रतिबन्धकस्य विद्यमानत्वात् । उच्यते – द्विविधम् आवरणम्, एकम् असत्त्वापादकम् अन्तःकरणावच्छिन्नसाक्षिनिष्ठम्, अन्यद् अभानापादकं विषयावच्छिन्नब्रह्मचैतन्यनिष्ठम्, घटम् अहं न जानामीत्य् उभयावच्छेदानुभवात् । तत्राद्यं परोक्षापरोक्षसाधारणप्रमामात्रेण निवर्तते । अनुमिते ऽपि वह्न्यादौ नास्तीति प्रत्ययानुदयात् । द्वितीयं तु साक्षात्कारेणैव निवर्तते । यन्निष्ठं यदाकारं ज्ञानं तन्निष्ठं तदाकारम् अज्ञानं नाशयतीति नियमात्, परोक्षापरोक्षनिष्ठत्वात् । तद् उक्तम् (पञ्च ७।४५)
परोक्षज्ञानतो नश्येद् असत्त्वावृत्तिहेतुता ।
अपरोक्षधिया नश्येद् अभानावृत्तिहेतुता ॥
तेनानुमानादेर् असत्त्वावरणनाशात् तत्र तद्व्यवहारः । अभानावरणनिवृत्त्या च सोपाधिकसाक्षात्कारिभ्रमनिवृत्तिर् इति । तस्मान् निर्धर्मकस्याप्य् आत्मनो ऽविद्यान्तःकरणतादात्म्याध्यासात् तद्धर्मकर्तृत्वभोक्तृत्वाद्यध्यास उपपद्यते ।
ननु त्वन्मते ऽनिर्वचनीयख्यात्यभ्युपगमात्, ये कर्तृत्वादयो ऽन्तःकरणधर्मा आत्मन्य् अध्यस्यन्ते ते ऽनिर्वचनीयास् तत्रोत्पद्यन्त इति वक्तव्यम् । तथा च व्यावहारिकप्रातीतिकभेदेन कर्तृत्वभोक्तृत्वादीनां द्वेधावभासः स्यात् । न स्यात्, तादात्म्याभिमानेनाविवेकात् । सकलधर्मविशिष्टस्यैवान्तःकरणस्यात्मन्य् अध्यस्तत्वेन द्वयाभावाद् वा । तस्माद् एकस्यैवात्मन उपाधिभेदेन प्रमात्रादिव्यवस्थोपपत्तेर् न सौगतमतापत्तिर् न वा विरोधः । अन्यापि व्यवस्थाः स्पष्टतरम् उपरिष्टाद् उपपादयिष्यन्ते । तस्माज् ज्ञानस्वरूपस्यात्मनः सुषुप्ताव् अव्यभिचाराद् देहेन्द्रियादीनां च व्यभिचाराद् दृश्यत्वाच् च तत्र तत्रात्मबुद्धिस् तेषां तेषां वादिनां भ्रान्तिर् इत्य् औपनिषदमतम् एव प्रमाणम् इति सिद्धम् ॥ १ ॥
स्याद् एतत् । आत्मनो निर्धर्मकत्वे प्रमात्रादिव्यवहारस्याध्यासमूलत्वे च “ब्राह्मणो यजेत” इत्येवमादीनां शास्त्राणाम् अप्रामाण्यप्रसङ्गः, अकर्तुर् अभोक्तुश् चात्मनः प्रवृत्त्युपपत्तेः, वेदाप्रमाण्ये च कुतो ब्रह्मसिद्धिर् अपि, तस्य तन्मात्रगम्यत्वात्, शास्त्रयोनित्वाद् इति न्यायात् । तथा च वेदप्रामाण्यार्थं प्रमात्रादिव्यवहारस्य सत्यत्वम् अभ्युपेयम् इत्य् आशङ्क्य, किं तत्त्वज्ञानात् पूर्वम् अप्रामाण्यम् आपद्यते ऊर्ध्वं वा । तत्राद्ये यावद् अविद्यानिवृत्तिव्यवस्थाया उपपादितत्वात् सर्वेषां प्रमाणानाम् अविद्यावद् विषयत्वेन तद्दशायां बाधाभावान् निष्प्रत्यूहं प्रामाण्यम् । द्वितीये त्व् इष्टापत्तिर् एवेत्य् आह –
न वर्णा न वर्णाश्रमाचारधर्मा न मे धारणाध्यानयोगादयो ऽपि ।
अनात्माश्रयाहम्ममाध्यासहानात् तदेको ऽवशिष्टः शिवः केवलो ऽहम् ॥ २ ॥
श्लोकार्थः । वर्णा ब्राह्मणक्षत्रियवैश्यशूद्राः । आश्रमाश् च ब्रह्मचारिगृहस्थवानप्रस्थभिक्षवः । आचाराः शौचस्नानादयः । धर्माः ब्रह्मचर्यगुरुसेवादयः । अत्र द्वन्द्वद्वयगर्भषष्ठितत्पुरुषेण वर्णानाम् आचाराः धर्माश् च आश्रमाणाम् अप्य् आचाराः धर्माश् च लभ्यन्ते । धारणा ब्रह्मणि बाह्यविषयत्यागेन मनसस् स्थैर्यम् । ध्यानं परमात्मचिन्तनम् । योगश् चित्तवृत्तिनिरोधः । आदिशब्देन श्रवणमननादयो गृह्यन्ते । सर्वेषां ज्ञानोत्तरकालम् असत्त्वे हेतुम् आह – अनात्माश्रयाहम्ममाध्यासहानाद् इति । अनात्मा आत्मविरोधिनी अविद्या, तदाश्रयस् तदुपादानो यो ऽहम्ममकाराद्यध्यासस् तस्य समूलस्यापि तत्त्वज्ञानेन हानात् तत्प्रयुक्तवर्णाश्रमादिव्यवहारो नास्तीत्य् अर्थः ॥ २ ॥
वर्णाश्रमादिव्यवहारस्य मिथ्याज्ञानमाअत्रमूलत्वेन मिथ्यात्वं द्रढयितुं तद्व्यतिरेके सुषुप्तौ, व्यतिरेकम् आह –
न माता पिता वा न देवा न लोका न देवा न यज्ञा न तीर्थं ब्रुवन्ति ।
सुषुप्तौ निरस्तातिशून्यात्मकत्वात् तदेको ऽवसिष्टः शिवः केवलो ऽहम् ॥ ३ ॥
श्लोकार्थः । माता जनकस्त्री । पिता जनकः पुमान् । देवा इन्द्रादयः आराध्याः । लोकास् तदाराधनफलानि स्वर्गादीनि । देवाः अलौकिकहिताहितसाधनप्रतिपादकानि ब्रह्मप्रतिपादकानि च प्रमाणवाक्यानि । यज्ञाः स्वर्गादिसाधनीभूता ज्योतिष्टोमादयः । तीर्थं यज्ञसाधनीभूतः कुरुक्षेत्रादिदेशः । एवं पापकर्मसाधनान्य् अप्य् उपलक्षणीयानि । सर्वेषां देहाभिमानमूकलत्वात् तदभावे स्वतःसम्बन्धाभावाद् अविद्यमानतेत्य् अर्थः । तथा च सुषुप्तिं प्रकृत्य श्रुतिः “अत्र पितापिता भवति मतामता देवादेवा वेदावेदाः स्तेनोऽस्तेनो भवति भ्रूणहाभ्रूणहा चाण्डालो ऽचाण्डालः पौल्कसो ऽपौल्कसः श्रमणो ऽश्रमणस् तापसो ऽतापसो ऽनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वाञ् छोकान् हृदयस्य भवति” (बउ ४।३।२२) इत्याद्या अभिमानाभावे सर्वान् अर्थनिवृत्तिम् अनुवदन्ति ।
ननु, सर्वव्यवहाराभावे शून्यतैव स्यात् । न, इत्य् आह – निरस्तातिशून्यात्मकत्वाद् इति । निरस्तम् अतिशून्यात्मकत्वं यस्मात् तत् तथा । भावप्रधानो निर्देशः । तस्य सुषुप्तिसाधकत्वात् पुनरुत्थानानुपपत्तेश् च । “अविनाशी वा अरे ऽयम् आत्मानुच्छित्तिधर्मा” (बउ ४।५।१४), “मात्रा संसर्गस् त्व् अस्य भवति”, “यद् वैतन् न पश्यति पश्यन् वैतन् न पश्यति” (बउ ४।३।२३), “न हि द्रष्टुर् दृष्टेर् विपरिलोपो विद्यते, अविनाशित्वात्, न तु तद्द्वितीयम् अस्ति ततो ऽन्यद् विभक्तं यत् पश्येत्” (बउ) इत्यादिश्रुतिभ्यश् चात्मचैतन्यस्य न सुषुप्तौ शून्यते ऽत्य् अर्थः । निराकृतम् अप्य् एतत् पुनर् अपि स्थूणानिखननन्यायेन निराक्रियते । यद् वा निरस्तम् अशनायाद्यतीतम् अद्वितीयम् अतिशून्यं यद् ब्रह्म तदात्मकत्वात् । तथा च श्रुतिः “यदा पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति, तद् यथा प्रियया स्त्रिया सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम् एवेम् एवायं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्” (छु वि।९।१) इति । तेन जगत्कारणीभूतसर्वज्ञसर्वशक्तिपरिपूर्णानन्दबोधरूपेण ब्रह्मणा सहैकत्वाद् असंसार्येव जीव इति सिद्धम् ॥ ३ ॥
द्वितीयो विभागः ।
तत्पदार्थनिर्णयः ।
एवं तावत् त्रिभिः श्लोकैः वादिविप्रतिपत्तिनिराकरणपूर्वकं त्वम्पदार्थो निर्धारितः । सम्प्रति तत्पदार्थस् तथैव निर्धारणीयः । तत्र निराकरणीया वादिविप्रतिपत्तयः प्रदर्श्यन्ते । ननु, न ब्रह्म सह जीवस्यैक्यम् उपपद्यते । तथा हि सच्छब्दवाच्यं जगत्कारणं ब्रह्म “सद् एव सोम्य इदम् अग्र आसीत्” (छु वि।२।१) इत्यादिवाक्येन प्रतिपादितम् । जगत्कारणं च प्रधानम् अचेतनम् इति साङ्ख्याः । पशुपतिर् एव जगत्कारणम्, स च चेतनो ऽपि जीवाद् भिन्नः स उपास्य एवेति पाशुपताः । भगवान् वासुदेव ईश्वरो जगत्कारणम्, तस्माद् उत्पद्यते सङ्कर्षणाख्यो जीवः, तस्मान् मनः प्रद्युम्नः, ततो ऽहङ्कारो ऽनिरुद्धः, तेन कार्यत्वाज् जीवस्य तेन सह न ब्रह्मणो वासुदेवस्यात्यन्ताभेद इति पञ्चरात्रिकाः । परिणामी नित्यः सर्वज्ञो भिन्नाभिन्न इति जैनास् त्रिदण्डिनश् च । नास्ति सर्वज्ञत्वाद्युपेतं ब्रह्म, आम्नायस्य क्रियापरत्वेन तत्र तात्पर्याभावात्, किन् तु वाग्धेन्वादिवत् सर्वज्ञत्वादिगुणविशिष्टतया जगत्कारणं परमाण्वादि वा जीवो वा उपास्य इति मीमांसकाः । अस्ति नित्यज्ञानादिमान् ईश्वरः सर्वज्ञः पृथिव्यादिकार्यलिङ्गानुमितः, स च जीवाद् भिन्न एवेति तार्किकाः । क्षणिकः सर्वज्ञ इति सौगताः । क्लेशकर्मविपाकाशयैर् अपरामृष्टो नित्यज्ञानरूपः प्रधानांशसत्त्वगुणप्रतिफलिततया सर्वज्ञः संसारिपुरुषविलक्षण एवेति पातञ्जलाः । अद्वितीयपरमानन्द एव ब्रह्म, तच् च जीवस्य वास्तवं स्वरूपं मायया च सर्वज्ञत्वादिविशिष्टं जगदुपादानं निमित्तं चेति औपनिषदाः ।
एवं वादिविप्रतिपत्तिभिः सन्दिग्धो तत्पदार्थे औपनिषदपक्षस्य परिशेषेण तन्निर्णयायाह भगवान् –
न साङ्ख्यं न शैवं न तत् पाञ्चरात्रं न नैनं न मीमांसकादेर् मतं वा ।
विशिष्टानुभूत्या विशुद्धात्मकत्वात् तद् एको ऽवशिष्टः शिवः केवलो ऽहम् ॥ ४ ॥
आदिशब्देनानुक्तानां सङ्ग्रहः । न तावद् अचेतनं जगदुपादानम्, “तद् ऐक्षत बहु स्यां प्रजायेय” (छु वि।२।३।) इति ईक्षणपूर्वकसृष्टिश्रवणात्, “अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि” (छु वि।३।२।) इति जीवात्मत्वव्यपदेशात्, “यस्मिन् विज्ञाते सर्वम् इदं विज्ञातं भवति” (मु इ।१।३।) इति चैकविज्ञानेन सर्वविज्ञानप्रतिज्ञानात्, प्रधानज्ञानेन च तदप्रकृतिकानां पुरुषाणां ज्ञातुम् अशक्यत्वात्, “ऐतदात्म्यम् इदं सर्वं तत् सत्यं स आत्मा तत् त्वम् असि” (छु वि।८।७) इति च तदभेदस्य नवकृत्वोपदेशात्, “तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः” (तु इइ।१।) इति श्रुत्यन्तराद् अचेतनस्य जगत्कारणत्वे विचित्ररचनानुपपत्तेः, प्रधानमहदादेर् अप्रामाणिकत्वाच् च न साङ्ख्यमतं साधु । एवं पाशुपतं पाञ्चरात्रिकं जैनं च मतं श्रुतियुक्तिबाधितत्वाद् अयुक्तम् । न च विधिशेषत्वाच् छ्रुतिर् न ब्रह्म प्रतिपादयतीति मीमांसकमतं युक्तम् असिद्धत्वाद् विधिशेषत्वस्य । न चार्थवादाधिकरणन्यायाद् विधिशेषत्वम्, वैषम्यात् । स्वतःप्रयोजनवदर्थाप्रतिपादकानां “वायुर् वै क्षेपिष्ठा देवता” (त्स् इइ।१।१।१।) इत्येवमादीनां स्वाध्यायविधिग्रहणान्यथानुपपत्त्या प्रयोजनवदर्थपरत्वे कल्पनीये शब्दभावनेतिकर्तव्यतांशसाकाङ्क्षस्य विधेः सम्प्रदानभूतदेवतादिस्तुतिद्वारेण तदंशपूरकत्वान् नष्टाश्वदग्धरथन्यायेन तदुभयैकवाक्यता इत्य् अर्थवादाधिकरणे निर्णीतम् । वेदान्तवाक्यजन्यज्ञानाच् च साक्षाद् एव परमानन्दप्राप्तिर् निःशेषदुःखनिवृत्तिश् च पुरुषार्थो लभ्यत इति निराकाङ्क्षत्वान् नान्यशेषत्वसम्भावना, प्रत्युत विधय एवान्तःकरणशुद्धिद्वारा तच्छेषतां स्वत एव प्रामाण्याद् अस्त्य् एव ब्रह्मेति न मीमांसकमतसिद्धिः । तार्किकादीनां च मतं “तत् त्वम् असि” (छु वि।८।७।), “अहं ब्रह्मास्मि” (बउ इ।४।१०।), “अयम् आत्मा ब्रह्म” (बउ इइ।५।१९।), “सत्यं ज्ञानं अनन्तं ब्रह्म” (तु इइ।१।) इत्यादिश्रुतिबाधितम्, “एकम् एवाद्वितीयं ब्रह्म” (छु वि।२।१।), “नेह नानास्ति किञ्चन” (बउ इव्।४।१९।) इत्यादिश्रुतिबाधितं च । भिन्नाभिन्नत्वं क्षणिकत्वं च “आकाशवत् सर्वगतश् च नित्यः” इत्यादिश्रुतिबाधितम् । अत्र च सर्वषां मतस्यासत्त्वे प्रतिज्ञाते विशुद्धात्मकत्वाद् इति हेतुः । निर्विकल्पकाद्वितीयचैतन्यरूपत्वाद् इत्य् अर्थः । अत्र हेतुः विशिष्टानुभूत्येति । विशिष्टा सविकल्पकानुभूतिभ्यो व्यावृत्ता या तत्त्वमस्यादिवाक्यजन्याखण्डानुभूतिस् तयेत्य् अर्थः । तेन सर्वव्यापकम् अद्वितीयं परमानन्दबोधरूपं च ब्रह्मेति सिद्धम् ॥ ४ ॥
ननु, “स य एषो ऽणिमा” (छु वि।८।१५।), “अणोर् अणीयान्” (त X।१२।१, कु इ।२।२०, स्वु इइइ।२०।) इति ब्रह्मणो ऽणुत्वश्रुतेः, “अङ्गुष्ठमात्रः पुरुषः” (कु इइ।४।१२।), “आराग्रमात्रो ह्य् अवरो ऽपि दृष्टः” (स्वु व्।८।) इत्यादिश्रुतिप्रतिपादिताणुजीवाभिन्नत्वाच् च न ब्रह्मणः सर्वव्यापकत्वम् इत्य् आशङ्क्य “ब्रह्मैवेदम् अमृतं पुरस्तात् ब्रह्म पश्चात् ब्रह्म दक्षिणतश् चोत्तरेण । अधश् चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वम् इदं वरिष्ठम्” (मु इइ।२।११।), “तद् एतद् ब्रह्मापूर्वम् अनपरम् अनन्तरम् अबाह्यम्” (बउ इइ।५।११।) इत्याद्याः श्रुतयो निर्विशेषम् एव ब्रह्म प्रतिपादयन्तीति पूरोवोक्तम् एव द्रढयन्न् आह –
न चोर्ध्वं न चाधो न चान्तर् न बाह्यं न मध्यं न तिर्यङ् न पूर्वापरा दिक् ।
वियद्व्यापकत्वाद् अखण्डैकरूपस् तद् एको ऽवशिष्टः शिवः केवलो ऽहम् ॥ ५ ॥
श्लोकार्थः । वियद्व्यापकत्वात् वियद्वद् व्यापकत्वात् “आकाशवत् सर्वगतश् च नित्य” इति श्रुतेः, वियतो व्यापकत्वाद् इति वा “ज्यायान् आकाशात्” (सत्ब्र् X।६।३।२), “महतो मयीयान्” (कु इइ।२०) इत्यादिश्रुतेः । जीवस्यापि सकलदेहव्यापिचैतन्योपलब्ध्या महत्त्वे ऽपि, उपाधिधर्माध्यासेनाराग्रमात्रत्वाभिधानात्, “बुद्धेर् गुणेनात्मगुणेन चैव ह्य् आराग्रमात्रो ह्य् अवरो ऽपि दृष्टः” (स्वु व्।८।) इति श्रुतेर् ब्रह्मणश् च सूक्ष्मत्वाभिप्रायेणाणुत्वव्यपदेशात् । शेषम् अतिरोहितार्थम् ॥ ५ ॥
ननु, ब्रह्मणो जगदुपादानत्वाद् उपादानोपादेययोश् चाभेदाद् विचित्रजगदभिन्नत्वेन ब्रह्मणः दुःखरूपत्वात् न तदभिन्नत्वेन जीवस्य परमपुरुषार्थप्राप्तिर् इत्य् आशङ्क्य ब्रह्मणः स्वप्रकाशपरमानन्दरूपत्वान् निखिलजगद्भ्रमाधिष्ठानत्वेन कारणत्वव्यपदेशाद् अध्यस्तेन च समं सम्बन्धाभावान् न तत्रानर्थलेशो ऽप्य् अस्तीत्य् आह –
न शुक्लं न कृष्णं न रक्तं न पीतं न कुब्जं न पीनं न ह्रस्वं न दीर्घम् ।
अरूपं तथा ज्योतिर् आकारकत्वात् तदेको ऽवशिष्टः शिवः केवलो ऽहम् ॥ ६ ॥
कुबुजम् अणु । पीनं महत् । तेनाणु महत् ह्रस्वं दीर्घं चेति चतुर्विधपरिमाणनिषेधात् द्रव्यत्वप्रतिषेधः । रूप्यत इति रूपं प्रमेयम् । न प्रमेयं अरूपम् । तेन सर्वेषाम् एव द्रव्यगुणकर्मादिपदार्थानां तत्तद्वाद्यभ्युपगतानां निषेधः । तथा च श्रुतिः “अस्थूलम् अनण्व् अह्रस्वम् अदीर्घम् अलोहितम्” (बउ इइइ।८।८।) इत्याद्याः “अशब्दम् अस्पर्शम् अरूपम् अव्ययं तथारसं नित्यम् अगन्धवच् च यत्” (कथु इ।३।१५।) इत्याद्याश् च सर्वानर्थशून्यं परमात्मस्वरूपं प्रतिपादयन्ति । श्रौतस्याप्य् अर्थस्य न्यायेन निर्णयाय हेतुम् आह – ज्योतिर् आकारकत्वाद् इति । स्वप्रकाशज्ञानरूपत्वेनाप्रमेयत्वात्, प्रमेयत्वे घटादिवज्जडत्वापत्तेः, “एतद् अप्रमेयं ध्रुवम्” (बउ इव्।४।२०।) इत्यादिश्रुतेश् चेत्य् अर्थः ॥ ६ ॥
तृतीयो विभागः
तत्त्वमसिवाक्यार्थनिर्णयः ।
ननु, कस्य ब्रह्मभाव उपदिश्यते, ब्रह्मणो ऽब्रह्मणो वा । नान्त्यः, तस्य जडत्वाद् असत्त्वाच् च, न प्रथमः उपदेशानर्थक्यात्, ब्रह्मभावस्य स्वतःसिद्धत्वात् । जीवस्य स्वतो ब्रह्मभावे ऽप्य् अविद्याव्यवधानं ज्ञानेन निवर्त्यत इति चेत्, न, अविद्यानिवृत्तेर् आत्मभिन्नत्वे द्वैतापत्तेर् ब्रह्मणो ऽसिद्धिप्रसङ्गात् । तद् उक्तं वार्तिके (बउभ्व् इइ।४।१४।)
“अव्यावृत्ताननुगतं वस्तु ब्रह्मेति भण्यते ।
ब्रह्मार्थो दुर्लभो ऽत्र स्याद् द्वितीये सति वस्तुनि” ॥ इति ॥
अभिन्नत्वे चोपदेशानर्थक्यम् इत्य् उक्तम् । अत्र किं परमार्थतः फलाभावम् अभिप्रैषि किं वा प्रतीतितो ऽपि । तत्राद्यम् इष्टापत्त्या परिहरति –
न शास्ता न शास्त्रं न शिष्यो न शिक्षा न च त्वं न चाहं न चायं प्रपञ्चः ।
स्वरूपावबोधो विकल्पासहिष्णुस् तद् एको ऽवशिष्टः शिवः केवलो ऽहम् ॥ ७ ॥
शास्ता उपदेशकर्ता गुरुः । शास्त्रम् उपदेशकरणम् । शिष्य उपदेशकर्म । शिक्षा उपदेशक्रिया । त्वं श्रोता । अहं वक्ता । अयं सर्वप्रमाणसन्निधापितः प्रपञ्चो, देहेन्द्रियादिर् अनर्थः, परमार्थतो नास्तीत्य् अर्थः । द्वितीयं निराकरोति – स्वरूपेति । अयम् अर्थः – यद्य् अप्य् अविद्यानिवृत्तिर् आत्मानात्मा वेति विकल्पने किम् अपि फलं निरूपयितुं न शक्यते तथापि स्वरूपावबोधो विज्ञानफलम् अनुभूयते । न चैतत् कथम् इति विकल्पनीयं सर्वद्वैतोपमर्देन विकल्पासहिष्णुत्वात् । न हि दृष्टे ऽनुपपन्नं नाम । तथा च श्रुतिः (गौक् इइ।३२।)
“न निरोधो न चोत्पत्तिर् न बद्धो न च साधकः ।
न मुमुक्षुर् न वै मुक्त इत्य् एषा परमार्थता” ॥
“ब्रह्म वा इदम् अग्र आसीत्, तद् आत्मानम् एवावेदाहं ब्रह्मास्मीति, तस्मात् तत्सर्वम् अभवत्” (बउ इ।४।७।) इत्याद्या पूर्वम् अपि ब्रह्मस्वरूपस्यैव सतो जीवस्य ज्ञानाद् ब्रह्मभावं दर्शयति सर्वं च द्वैतं वारयति ॥ ७ ॥
नन्व् आत्मनः स्वप्रकाशरूपत्वे सर्वदा समाने जाग्रत्स्वप्नसुषुप्त्यादिव्यवस्था कथम् । न च भ्रान्त्यैव व्यस्थेति वाच्यम्, तथा सति सर्वस्यैव स्वप्नत्वापत्तेर् इति चेत्, न, लक्षणतस् त्रयाणाम् अपि स्वप्नत्वे ऽपि प्रतिभासते ऽविद्यात्मकविशेषसम्भवाद् असद्विलक्षणत्वेन तु सविशेषत्वाद् व्यवस्थोपपत्तेः । परमार्थतस् तु कापि व्यवस्थेत्य् आह –
न जाग्रन् न मे स्वप्नको वा सुषुप्तिर् न विश्वो न वा तैजसः प्राज्ञको वा ।
अविद्यात्मकत्वात् त्रयाणां तुरीयस् तद् एको ऽवशिष्टः शिवः केवलो ऽहम् ॥ ८ ॥
अत्र लयक्रमेण पौर्वापर्ययनिर्देशः । तथा हि – अस्मन्मते पदार्थो द्विविधः, दृक् दृश्यश् च, अन्यवादिपरिकल्पितानां पदार्थानाम् अत्रैवान्तर्भावात् । तत्र दृक्पदार्थ आत्मा पारमार्थिक एकः सर्वदैकरुपो ऽप्य् औपाधिकभेदेन त्रिविधः, ईश्वरो जीवः साक्षी चेति । तत्र कारणीभूताज्ञानोपाधिर् ईश्वरः, अन्तःकरणतत्संस्कारावच्छिन्नाज्ञानोपहितो जीवः । प्रपञ्चितं चैतद् अधस्तात् । अविद्याप्रतिबिम्बेश्वरपक्षे बिम्बचैतन्यम्, बिम्बेश्वरपक्षे च बिम्बप्रतिबिम्बमुखानुगतमुखस्वरूपवज् जीवेश्वरानुगतं सर्वानुसन्धातृ चैतन्यम्, साक्षीत्य् उच्यते । वार्तिककारमते त्व् ईश्वर एव साक्षीति द्वैविध्यम् एव जीवेश्वरभेदेन द्ष्शः । तत्रेश्वरो ऽपि त्रिविधः । स्वोपाधिभूताविद्यागुणत्रयभेदेन विष्णुकारणीभूतरजौपहितो ब्रह्म स्रष्टा । हिरण्यगर्भस् तु महाभूतकारणत्वाभावान् न ब्रह्मा तथापि स्थूलभूतस्रष्टृत्वात् क्वचिद् ब्रह्मेत्य् उच्यते । कारणीभूततमौपहितो रुद्रः संहर्ता । एवं चैकस्यैव चतुर्भुजचतुर्मुखपञ्चमुखाद्याः पुमाकाराः श्रीभारतीभ्वान्याद्याश् च स्त्र्याकाराः । अन्ये च मत्स्यकूर्मादयो ऽनन्तावताराः लीलयैवाविर्भवन्ति भक्तानुग्रहार्थम् अवधेयम्,
“चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः ।
उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पना ॥” इति श्रुतेः ॥
जीवोऽ पि त्रिविधः, स्वोपाध्यवान्तरभेदेन विश्वतैजसप्राज्ञभेदात् । तत्राविद्यान्तःकरणस्थूलशरीरावच्छिन्नो जाग्रदवस्थाभिमानी विश्वः । स एव स्थूलशरीराभिमानरहित उपाधिद्वयोपहितः स्वप्नाभिमानी तैजसः । शरीरान्तःकरणोपाधिद्वयरहितो ऽन्तःकरणसंस्कारावच्छिन्नाविद्यामात्रोपहितः सुषुप्त्यभिमानी प्राज्ञः । एतेषां च स्वतन्त्रोपाधिभेदाभावेन स्वतन्त्रभेदाभावे ऽप्य् अवान्तरोपाधिभेदाद् एकत्वे ऽप्य् अवान्तरभेदो व्यहह्रियते । साक्षी तु सर्वानुसन्धाता सर्वानुगतस् तुरीयाख्य एकविध एव । तत्रोपाधिभेदेनापि न क्वचिद् भेदस् तदुपाधेर् एकरूपत्वात् । अविद्यातद्व्याप्यतत्कार्यात्मकः प्रपञ्चो दृष्यपदार्थः । तस्य चापारमार्थिकत्वे ऽपि व्यावहारिकसत्त्वाभ्युपगमात् न स्वाप्निकपदार्थवन् निरूपणं व्यर्थम्, उपासनादाव् उपयोगाद् इति । सो ऽपि त्रिविधः अव्याकृतामूर्तमूर्तभेदात् । तत्र साभासाविद्या मूर्तामूर्तप्रपञ्चबीजशक्तिरूपा तदजन्यत्वे ऽपि तन्निवृत्तौ निर्वर्तमानत्वेन तद्व्याप्यैश् चैतन्यतत्सम्बन्धजीवेश्वरविभागचिदाभासैः सहानादित्वाद् अव्याकृतम् इत्य् उच्यते । सा च स्वयं जडाप्य् अजडेन चिदाभासेनोज्ज्वलितपूर्वपूर्वसंस्कारजीवकर्मप्रयुक्ता सती शब्दस्पर्शरूपरसगन्धात्मकान्य् आकाशवायुतेजोजलपृथिव्याख्यानि पञ्चमहाभूतानि जनयति । तत्र पूर्वपूर्वभूतभावापन्नाया अविद्याया उत्तरोत्तरं प्रति कारणत्वात् पूर्वपूर्वभूतगुणानाम् उत्तरोत्तरभुतेष्व् अनुप्रेवेशः । एवम् अविद्यात एवान्धकारो ऽपि भावरूप एवावणात्मा चाक्षुषज्ञानविरोधी आलोकनाश्यश् च झटिति महाविद्युदादिवद् आविर्भवति तिरोभवति चेति सिद्धान्तः । संसारहेतुदेहोपादनत्वाभावाच् च श्रुतिषु सृष्टिप्रक्रियायाम् आम्नायत इत्य् अविरोधः । दिक्कालौ त्व् अप्रामाणिकत्वान् नोक्तौ, आकाशस्यैव दिग्व्यवहारजनकत्वव्यवस्थासम्भवात् “दिशः श्रोत्रम्” (बउ इइइ।२।१३।) इति श्रुतेश् च । कालस् त्व् अविद्यैव तस्या एव सर्वाधारत्वाद् इति । अयं चाव्याकृतपदार्थ ईश्वरोपाधिः ।
तानि च सूक्ष्माण्य् अप्य् अपञ्चीकृतानि पञ्चमहाभूतान्य् अमूर्ताख्यानि कारणैक्यात् सत्त्वरजस्तमोगुणात्मकानि सत्त्वांशप्राधान्येन ज्ञानक्रियाशक्तिप्रधानांशः प्राणः । स च पञ्चधा, प्राणो ऽपाणो व्यान उदानः समान इति । एवम् एकैकभुतेभ्यो ज्ञानक्रियाशक्तिभेदात् प्रत्येकम् इन्द्रियद्वयं जायते । आकाशाच् छ्रोत्रवाचौ, वायोस् त्वक्पाणी, तेजसश् चक्षुःपादौ, अद्भ्यो रसनपायू, पृथिव्या घ्राणोपस्थौ चेति । अत्र “तजोमयी वाक्” (छु वि।५।४।) इति श्रुतेस् तैजसी वाक्, पादस् तु नाभस इति केचित् । शब्दव्यञ्जकेन्द्रियत्वेन तु श्रोत्रवद्वाचो नाभसत्वम्, पादचिकित्सया च चक्षुषः स्वास्थ्यदर्शनाच् चक्षुर्वत् पादस्यापि तैजसत्वम् इति तु युक्तम् उत्पश्यामः । तेजोमयत्वश्रुतिस् तु मनसः पञ्चभूतकार्यस्यापि अन्नमयत्वश्रुतिर् इव तदुपकार्यतया व्याख्येया । मनसश् च पञ्चभूतगुणग्राहकत्वेन तद्वत्त्वनिश्चयात् पञ्चभूतात्मकत्वम् इत्य् अन्यद् एतत् । एतेषाम् अधिष्ठातारो देवा अपि ज्ञानक्रियाशक्तिप्रधानाः, दिगग्नी, वातेन्द्रौ, आदित्यविष्णू, वरुनमित्रौ, अश्विप्रजापती । तत्र ज्ञानशक्तिसमष्टिर् अन्तःकरणम्, क्रियाशक्तिसमष्टिः प्राणः । शब्दस्पर्शरूपसरगन्धग्राहकाणि श्रोत्रत्वक्चक्षूरसनघ्राणाख्यानि पञ्चज्ञानेन्द्रियाणि । त्वक्चक्षुषी स्वह्राह्यगुणाश्रयद्रव्यम् अपि गृह्णीतः । श्रोत्रम् अपि चक्षुर्वत् गत्त्वा शब्दग्राहकम् दूरे शब्द इति प्रत्ययात् । वचनादनागतिविसर्गानन्दजनकानि वाक्याणिपादपायूपस्थाख्यानि पञ्चकर्मेन्द्रियाणि । एतच् च सर्वं मिलित्वा सप्तदशकं लिङ्गं ज्ञानशक्तिप्राधान्येन हिरण्यगर्भ इति क्रियाशक्तिप्राधान्येन सूत्रम् इति चोच्यते । अयम् अमूर्तपदार्थः कार्यत्वात् व्यष्टौ समष्टौ च जीवोपाधिर् एव ।
तानि च तथाभूतानि भूतानि भोगायतनं शरीरं भोग्यं च विषयम् अन्तरेण भोगं जनयितुम् अशक्नुवन्ति जीवकर्मप्रयुक्तत्वात् स्थौल्याय पञ्चीकृतानि भवन्ति । तत्र च प्रत्येकं पञ्चभूतानि द्विधा विभज्यते । तत्र एकैको भागश् चतुर्धा विभज्यते । तद्भागचतुष्टयं च स्वभावं विहाय इतरभूतचतुष्टयार्धभागेषु प्रविशति इति स्वस्यार्धभागेनेतरेषाम् अष्ट्मभागेन च पञ्चीकरणान् मेलने ऽप्य् आधिक्याद् आकाशादिशब्दप्रयोगः ।
अत्र “त्रिवृतं त्रिवृतम् एकैकां करवाणि” (छु वि।३।३।) इति श्रुतेः “त्रिवृत्कुर्वत उपदेशात्” (ब्स् इइ।४।२०।) इति सूत्राच् च त्रयाणाम् एव मेलनप्रतीतेश् च त्रिवृत्करणम् एव केचिन् मन्यन्ते ते वियदधिकरणान्यायेनैव निराकृताः । तथा हि तैत्तिरीयके “तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः, आकाशाद् वायुः” (तु इइ।१।१।) इत्यादिश्रुतेः छान्दोग्ये च त्रयाणां तेजोबन्नानां सृष्टिश्रवणे ऽपि द्वयोर् उपसंहारः, तेजसः प्राथम्यपदार्थधर्मापेक्षया आकाशवायुपदार्थयोर् बलीयस्त्वात्, छान्दोग्ये चैकविज्ञानेन सर्वविज्ञानप्रतिज्ञानात्, आकाशवाय्वोर् अचेतनयोर् ब्रह्मकार्यत्वस्यावश्यं वाच्यत्वात् । तत्र पञ्चानाम् एव मेलने ऽप्य् अवयुत्यानुवादेन त्रिवृत्करणोपपत्तिः । त्रिवृतम् एवेति तु कल्पनायां वाक्यभेदप्रसङ्गः । “त्रिवृत्कुर्वत उपदेशात्” (ब्स् इइ।४।२०।) इति सूत्रं त्व् अनुवादकत्वान् न पञ्चीकरणं न्यायसिद्धं बाधितुम् उत्सहते । मेलनप्रतीतिश् च शरीरादौ पञ्चानाम् अविशिष्टैव, पञ्चीकृतपञ्चमहाभूतानीति च भाष्यकारवचनम् । तस्माद् अकम् अनेनानात्मचिन्तनेनेति दिक् ।
तानि च पञ्चीकृतानि पञ्चमहाभूतानि मूर्ताख्यानि मिलित्वा एकं कार्यम् इन्द्रियाणाम् अधिष्ठानं भोगायतनम् उत्पादयन्ति । तद् एव शरीरम् इत्य् उच्यते । तत्र सत्त्वप्रधानं देवशरीरम्, रजःप्रधानं मनुष्यशरीरम्, तमःप्रधानं तिर्यगादिस्थावरान्तं शरीरम् । तस्य च शरीरस्य पाञ्चभौतिकस्यापि चित्ररूपस्येव क्वचिन् न्यूनाधिकभावो भूतानां न विरुध्यते । एवं विषया अपि पञ्चीकृतैकैकभूतजन्याश् चतुर्दशभुवनाख्या ऊर्ध्वमध्याधोभावेन सत्त्वरजस्तमोंशप्रधानाः घटादयश् च । एतत् सर्वं ब्रह्माण्डाख्यं विराड् इति मूर्तम् इति चोच्यते ।
अयम् औपनिषदः सृष्टिक्रमः । तद्विपरीतो लयक्रमः । पञ्चीकृतपञ्चमहाभूततत्कार्यात्मकं विराडाख्यं मूर्तं पृथिव्याध्येकैकभूतलयेनामूर्ते ऽपञ्चीकृतपञ्चमहाभूतात्मके हिरण्यगर्भाख्ये स्वकारणे लीयते । स एव दैनन्दिनः प्रलयः । अमूर्तं चाव्याकृते परमेश्वरोपाधौ । अव्याकृतस्य त्व् अनादित्वेन कारणाभावान् न लयः, स्वकारणे सूक्ष्मरूपेणावस्थानं लय इति तल्लक्षणात् । अयम् एव प्राकृतः प्रलयः । ब्रह्मज्ञानाद् आत्यन्तिक उच्छेदस् तु आत्यन्तिकः प्रलयः । स च कारणक्रमेणैव, कारणोच्छेदाद् एव कार्योच्छेदात् । सर्वं च सृष्टिप्रलयादिकं स्वप्नसृष्टिप्रलयवद् अपारमार्थिकम् अपि वासनादार्ढ्यात् व्यवहारक्षमम् इति न मायिकत्वे ऽपि तुच्छत्वप्रसङ्गः । यथा चैतत् तथा व्यक्तम् आकरे ।
एवं स्थिते जागरणादिव्यवस्थोच्यते । इन्द्रियवृत्तिकालीनार्थोपलम्भो जागरणम् । तत्र च मूर्तं विराडाख्यं भोग्यं प्रत्यक्षादिप्रमाणषट्केन व्यवह्रियमाणत्वात् व्यावहारिकं विश्वाख्येन जीवेनोपभुज्यते । स च देहेन्द्रियादिषु प्रवेशात् व्यापनाद् वा विश्व इत्य् उच्यते, विश प्रवेशने विष्।ल् व्याप्ताव् इति च स्मरणात् । अत्र यद्य् अपि विश्वेनामूर्तम् अव्याकृतं चानुमानादिनानुभूयते, तथापि व्यावहारिकं सर्वं विश्वेनैव ज्ञायत इति नियमात् स्थूलशरीरोपाध्यभिमानित्वाच् च न तस्य अवस्थान्तरव्यापकत्वम् । शुक्तिरजतादिज्ञानानाम् अप्रामाणिकत्वात् तद्विषयस्याव्यावहारिकत्वे ऽपि इन्द्रियव्यापारकालीनत्वाज् जागरणोपपत्तिः । ज्ञानोत्पत्त्यादिप्रक्रिया चाधस्ताद् उक्तैव ।
एवं जाग्रभोगजनककर्मक्षये स्वाप्नभोगजनककर्मोदये च सति निराख्यया तामस्या वृत्त्या स्थूलदेहाभिमाने दूरीकृत्ते सर्वेन्द्रियेषु देवतानुग्रहाभावान् निर्व्यापारतया लीनेषु विश्वो ऽपि लीन इत्य् उच्यते । तदा च स्वप्नावस्था । तत्रान्तःकरणवासनानिमित्त इन्द्रियवृत्त्यभावकालीनो ऽर्थोपलम्भः स्वप्नः । तत्र च मन एव गजतुरगाद्यर्थाकारेण विवर्तते अविद्यावृत्त्या च ज्ञायत इति केचित् । अविद्यैव शुक्तिरजतादिवत् स्वप्नार्थकारेण परिणमते ज्ञायते चाविद्यावृत्त्येत्य् अन्ये । कः पक्षः श्रेयान्? उत्तरः । अविद्याया एव सर्वत्रार्थाध्यासज्ञानाध्यासोपादानत्वेन कल्पितत्वान् मनोगतवासनानिमित्तत्वेन च क्वचिन् मनःपरिणामत्वव्यपदेशात् । ननु, तदा मनसो दृश्याकारपरिणामानभ्युपगमे दृष्टृत्वसम्भवेनात्मनः स्वयञ्ज्योतिष्ट्।वासिद्धिर् इति चेत्, न, बहिरिन्द्रियजन्यवृत्त्यभावेन तदानीं मनसोऽग्राहकत्वात् तत्सहकारेणैव तस्य ग्राहकत्वनियमात्, सवृत्तिकान्तःकरणावच्छिन्नस्यैव चैतन्यस्य प्रमातृत्वनियमात् तदान्तःकरनसत्त्वे ऽपि प्रमात्रभावः ।
किमधिष्ठानं स्वप्नाध्यासस्य मनोवच्छिन्नं जीवचैतन्यम् इत्य् एके, मूलाज्ञानावच्छिन्नं ब्रह्मचैतन्यम् इत्य् अपरे । किं श्रेयः? मतभेदेनोभयम् अपि । तथा हि – जाग्रद्बोधेन स्वप्नभ्रमनिवृत्त्यभ्युपगमाद् अधिष्ठानज्ञानाद् एव च भ्रमनिवृत्तेः, ब्रह्मचैतन्यस्य चाधिष्ठानत्वे संसारदशायां तज्ज्ञानत्वाभावात् ज्ञानेन च सर्वद्वैतनिवृत्तेः न जाग्रद्बोधात् स्वप्ननिवृत्तिः स्यात् । “स हि कर्ता” (बउ इव्।३।१०।) इति च जीवकर्तृत्वश्रुतेः आकाशादिप्रपञ्चवत् सर्वसाधारण्यापत्तेश् च न मूलाज्ञानावच्छिन्नं ब्रह्मचैतन्यम् अधिष्ठानम् ।
ननु, जीवचैतन्यस्यानावृत्त्तत्वेन सर्वदाभासमानत्वात् कथम् अधिष्ठानत्वम्? सत्यम्, तत्रापि स्वप्नाध्यासानुकूलव्यावहारिकसङ्घातभानविरोध्यवस्थाज्ञानाभ्युपगमात्, स्वप्नदशायां चाहं मनुष्य इत्यादिप्रतीतिकसङ्घातान्तरभानाभ्युपगमात् शय्यायां स्वपिमीति शय्यान्तरवत् । भानसामग्र्यभावश् च तुल्य एव ।
ननु, अहं मनुष्य इत्यादिव्यावहारिकसङ्घातज्ञानस्य प्रमाणाजन्यत्वात् कथम् अज्ञाननिवर्तकता । अवस्थान्तरान्यथानुपपत्त्या तत्कल्पने सुषुप्ताव् अपि स्वप्नबाधकज्ञानम् आस्थीयेत, तच् चानिष्टं जाग्रत्त्वापत्तेर् इति चेत्, साध्व् अवोचः, स्वप्नावस्थाज्ञानस्यैवान्तःकरणलयसहितस्य सुषुप्तिरूपत्वान् न तत्र तद्बाधः । जागरणे तु मिथ्यैव स्वप्नो ऽभाद् इत्य् अनुभवाद् अहम् इति ज्ञानस्य प्रमाणाजन्यत्वे ऽपि यथार्थत्वात् शरीरादिज्ञानस्य च प्रमाणजन्यत्वाद् अवस्थाज्ञानविरोधित्वम् अनुभवसिद्धम् । विशेषाज्ञानं तु न प्रमाणजन्यवृत्तिम् अन्तरेण निवर्तते । साक्षिणश् चाविद्यानिवर्तकत्वाभावो ऽविद्यासाधकत्वेनैव धर्मिग्राहकमानसिद्ध इति न किञ्चिद् अवद्यम् । यावन्ति ज्ञानानि तावन्त्य् अज्ञानानीति चाभ्युपगमात् शुक्तिज्ञानेनेव व्यावहारिकसङ्घातज्ञानेनाज्ञाननिवृत्ताव् अपि पुनर् अपि कदाचिद् रजतभ्रमवन् न स्वप्नाध्यासानुपपत्तिर् इति जीवचैतन्यम् एवाधिष्ठानम् इति पक्षे न को ऽपि दोषः ।
यदा पुनर् ब्रह्मज्ञानाद् एवाज्ञाननिवृत्त्यभ्युपगमस् तदा रज्ज्वां दण्डभ्रमेण सर्पभ्रमतिरोधानवद् अधिष्ठानज्ञानाभावे ऽपि जाग्रद्भ्रमेण स्वप्नभ्रमतिरोभावोपपत्तेः ब्रह्मचैतन्यम् एव स्वप्नाध्यासाधिष्ठानम् इति पक्षे ऽपि न कश्चिद् दोषः । प्रतिजीवं स्वप्नाध्यासासाधारण्यं तु मनोगतवासनानाम् असाधारण्याद् एव ।
मनोवच्छिन्नं ब्रह्मचैतन्यम् एवाधिष्ठानम् एतस्मिन्न् अपि पक्षे ऽवस्थाज्ञानस्यावरकत्वाङ्गीकारान् न काप्य् अनुपपत्तिः । अत एव शास्त्रेषु क्वचित् क्वचित् तथा व्यपदेशः । ननु, मनोवच्छिन्नचैतन्यस्याधिष्ठानत्वे अहं गज इत्य् आहङ्कारसामानाधिकरण्येन गजप्रतीतिः स्यात् इदं रजतम् इति शुक्तिसामानाधिकरण्येन रजतप्रतीतिवत् नत्व् अयं गज इति । ब्रह्मचैतन्यस्याधिष्ठानत्वपक्षे ऽपि गज इत्य् आकारैर् एव प्रतीतिः स्यान् न त्व् अयं गज इति तत्रापीदङ्कारास्पदीभूतबाग्यार्थाभावस्य समानत्वाद् इति चेत्, न, आद्ये पक्षे अहङ्कारस्य शुक्तिवद् अधिष्ठानानवच्छेदकत्वात् शुक्ती रजतम् इतिवद् अहं गज इति न भ्रमकारप्रसङ्गः । अहम् इति ज्ञानस्येयं शुक्तिर् इति ज्ञानस्येव भ्रमविरोधित्वात्, इदमंशस्य च भ्रमाविरोधिन एव तत्र भानाभ्युपगमात् । अन्त्ये तु गज इत्य् आकारवद् अयम् इत्य् आकारो ऽपि कल्पित एव । उभयाकारबाधे ऽप्य् अधिष्ठानभूतचैतन्याबाधान् न शून्यवादप्रसङ्गः । जाग्रद्दशायाम् अपि शुक्तीदङ्कारविलक्षणस्य प्रातीतिकस्यैव रजतेदङ्कारस्य भानाभ्युपगमाच् च । “अध्यस्तम् एव हि परिस्फुरति भ्रमेषु” (स्श् इ।३६।) इति न्यायात् । शुक्तीइदमंशभानपक्षे ऽपि न इदमंशसत्यत्वम् अध्यासे प्रयोजकम्, किन्त्व् अधिष्ठानसत्यत्वम् । अधिष्ठानं च तत्राज्ञातशुक्तिचैतन्यम् इवात्रापि साक्षिचैतन्यं विद्यत एवेत्य् उपपादितम् । तस्मान् न पक्षद्वये ऽपि काप्य् अनुपपत्तिः ।
अत्र च स्वाप्निकपदार्थभोक्ता तैजस इत्य् उच्यते । पित्ताख्यतेजःप्रधानत्वाद् आदित्यादिज्योतिरन्तरेणापि भासकत्वाद् इति वा ।
एवं जाग्रत्स्वप्नभोगद्वयेन श्रान्तस्य जीवस्य तदुभयकारणकर्मक्षये ज्ञानशक्त्यवच्छिन्नस्य सवासनस्यान्तःकरणस्य कारणात्मनावस्थाने सति विश्रामस्थानं सुषुप्त्यवस्था । न किञ्चिद् अवेदिषम् इति कारणमात्रोपलम्भः सुषुप्तिः । तत्र जाग्रत्स्वप्नभोग्यपदार्थज्ञानाभावे ऽपि साक्ष्याकारम्, सुखाकारम्, अवस्थाज्ञानाकारं चाविद्यायाः वृत्तित्रयम् अभ्युपेयते । अहङ्काराभावाच् च नैका विशिष्टवृत्तिः सुषुप्त्यभावप्रसङ्गात् । अत एव वृत्तिरूपस्योपलम्भस्याभावान् न प्रलये ऽतिव्याप्तिः, तत्र तत्कल्पनाबीजाभावात्, इह च सुखम् अहम् अस्वाप्सं न किञ्चिद् अवेदिषम् इति सुप्तोत्थितस्य परामर्शात्, अननुभवे च परामर्शानुपपत्तेः । अन्तःकरणोपरागकालीनानुभवजन्यत्वाभावाच् च न तत्तोल्लेखाभावे ऽपि स्मरणत्वानुपपत्तिः । स्मरणे तत्तोल्लेखनियमाभावाच् च जाग्रद्दशायाम् अस्वाप्सम् इत्य् अनुभवानुपपत्तेः लिङ्गाभावेन च आश्रयासिद्ध्या चानुमानस्यासम्भवात् । अहङ्कारस् तु उत्थानसमय एवानुभूयते । सुषुप्तौ लीनत्वेन तस्याननूभूतत्वात् स्मरणानुपपत्तेः । मुखप्रतिबिम्बाश्रये दर्पणे जपाकुसुमलौहित्याध्यासे रक्तं मुखम् इति प्रतीतिवद् अहङ्काराश्रयसाक्षिचैतन्यस्य स्मरणाश्रयत्वात् अहम् अस्वाप्सम् इति सामानाधिकरण्यप्रतीतिः, न पुनर् अहं सुखीति वाश्रयतया । स्मृतिसंशयविपर्ययाणां साक्षिचैतन्याश्रयत्वनियमाद् अहङ्कारस्य च प्रमाणजन्यज्ञानाश्रयत्वात् प्रमात्वेनैव तत्कार्यतावच्छेदात्, अप्रमात्वावच्छेदेन च अविद्याया एव कारणत्वात् । अत एव अनाप्तवाक्यादिजन्यपरोक्षविभ्रमो ऽपि अविद्यावृत्तिर् एवेत्य् अभ्युपगमो वेदान्तविदाम् । तत्रान्तःकरणवृत्तिजनकसामग्रीसम्भवे ऽपि प्रमात्वाभावावरोधेनान्तःकरणस्यासामर्थ्यात् । नामादिषु ब्रह्माध्यासस् तु इच्छाधीनतया भ्रमप्रमाविलक्षणा मनोवृत्तिर् एव कामादिवत् । तद् उक्तं “अत एव चोदनाजन्यत्वान् मानसी क्रियैव सा, न ज्ञानम्” इति । एतेन तर्कस्यापि मनोवृत्तित्वं व्याख्यातम् । व्याप्यारोपेण व्यापकप्रसञ्जनात्मकस्य तस्य इच्छाधीनतया भ्रमप्रमाविलक्षणत्वात् । अत एव मनननिदिध्यासनसहिते श्रवणाख्ये वेदान्तविचारे श्रोतव्यो मन्तव्यो निदिध्यासितव्य इत्यादिविधिर् उपपद्यते, तस्य चतुर्विधान्वयव्यतिरेकादितर्करूपत्वात् । दृग्दृश्यान्वयव्यतिरेकः, साक्षिसाक्ष्यान्वयव्यतिरेकः, आगमापायितदवध्यन्वयव्यतिरेकः, दुःखिपरमप्रेमास्पदान्वयव्यतिरेक इति । अनुवृत्तव्यावृत्तान्वयव्यतिरेकः पञ्चमः । एतच् च सर्वेषां वेदान्तानुकूलतर्काणां चतुर्लक्षणीमीमांसाप्रतिपादितानाम् उपलक्षणम् इत्य् अभियुक्ताः । विस्तरस् तु वेदान्तकल्पलतिकायाम् अनुसन्धेयः ।
तद् एवं सुषुप्त्यवस्थायाम् अस्त्य् आनन्दभोगस् तद्भोक्ता च सुषुप्त्यभिमानी प्राज्ञ इत्य् उच्यते । प्रकर्षेणाज्ञत्वात् तदानीं विशेषावच्छेदाभावेन प्रकृष्टज्ञत्वाद् वा । तदानीं चान्तःकरणस्य लये ऽपि तत्संस्कारेणावच्छेदान् न जीवाभावप्रसङ्गः, न वा सार्वज्ञापत्तिः । ईश्वराभेदप्रतिपादनं च शर्रिरेन्द्रियाद्यभिमानरहितत्वेनोपचारात् । संस्कारस्य च निमित्तकारणत्वेन साक्ष्याश्रितकार्योपादानकोटाव् अप्रवेशान् न तद्भेदे ऽपि साक्षिभेदः । जागरणे त्व् अन्तःकरणस्य प्रमाश्रितकार्योपादानकोटौ प्रवेशात् तद्भेदेन प्रमातृभेद एव । साक्षिण एव चाधिकोपाधिविशिष्टस्य प्रमातृत्वान् न प्रतिसन्धानानुपपत्तिर् इति ।
मातृमानप्रभेदे ऽपि प्रतिदेहं न भिद्यते ।
साक्षी बाह्यार्थवद् यस्मात् स आत्मेत्य् उच्यते ततः ॥
व्यभिचारो मिथो यद्वत् प्रमात्रादेः स्वसाक्षिकः ।
सर्वमात्राद्यभावार्थसाक्षित्वान् न तथात्मनः ॥ (बउभ्व् इइइ।४।५४-५५।)
इति वार्तिककारपादैर् व्यवहारदशायाम् अपि साक्षिभेदनिराकरणात् सुषुप्तौ तद्भेदकल्पनं केषाञ्चिद् व्यामोहमात्रम् इत्य् अवधेयम् ।
ननु, दुःखम् अहम् अस्वाप्सम् इति कस्यचित् कदाचित् परामर्शात् सुषुप्तौ दुःखानुभवो ऽप्य् अस्तु । न, तदानीं दुःखसामग्रीविरहेण तदभावात् । सुखस्य चात्मस्वरूपत्वेन नित्यत्वात् शय्यादेर् असमीचीनत्वे च दुःखम् इत्य् उपचारात् दुःखम् अहम् अस्वाप्सम् इति प्रत्ययोपपत्तिः । अथ वा अवस्थात्रयस्यापि त्रैविध्याङ्गीकारात् सुषुप्ताव् अपि दुःखम् उपपद्यते । तथा हि प्रमाज्ञानं जाग्रज्जाग्रत्, शुक्तिरजतादिविभ्रमो जाग्रत्स्वप्नः, श्रमादिना स्तब्धीभावो जाग्रत्सुषुप्तिः । एवं स्वप्ने मन्त्रादिप्राप्तिः स्वप्नजाग्रत्, स्वप्ने ऽपि स्वप्नो मया दृष्ट इति बुद्धिः स्वप्नस्वप्नः, जाग्रद्दशायां कथयितुं न शक्यते स्वप्नावस्थायां च यत्किञ्चिद् अनुभूयते तत्स्वप्नसुषुप्तिः । एवं सुषुप्त्यवस्थायाम् अपि सात्विकी या सुखाकारा वृत्तिः सा सुषुप्तिजाग्रत्, तदनन्तरं सुखम् अहम् अस्वाप्सम् इति परामर्शः, तत्रैव या राजसी वृत्तिः सा सुषुप्तिस्वप्नः, तदनन्तरम् एव दुःखम् अहम् अस्वाप्सम् इति परामर्शोपपत्तिः, तत्रैव या तामसी वृत्तिः सा सुषुप्तिसुषुप्तिः, तदनन्तरं गाढं मूढो ऽहम् आसम् इति परामर्शः । यथा चैतत् तथा वासिष्ठवार्तिकामृतादौ स्पष्टम् ।
एवम् अध्यात्मं विश्वः, अधिभूतं विराट्, अधिदैवं विष्णुः, अध्यात्मं जाग्रत्, अधिदैवं पालनम्, अधिभूतं सत्त्वगुणः । एवम् अध्यात्मं तैजसः, अधिभूतं हिरण्यगर्भः, अधिदैवं ब्रह्माः, अध्यात्मं स्वप्नः, अधिदैवं सृष्टिः, अधिभूतं रजोगुणः । एवं अध्यात्मं प्राज्ञः, अधिभूतम् अव्याकृतम्, अधिदैवं रुद्रः, अध्यात्मं सुषुप्तिः, अधिदैवं प्रलयः, अधिभूतं तमोगुणः । एवम् अध्यात्माधिभूताधिदेवानाम् एकत्वात् प्रणवावयवत्रयसहितानाम् एतेषाम् उपहितानाम् ऐक्योपासनया हिरण्यगर्भलोकप्राप्तिः, अन्तःकरणशुद्धिद्वारा क्रममुक्तिश् च । एतत् सर्वोपाधिनिराकारणेन साक्षिचैतन्यमात्रज्ञानेन तु साक्षाद् एव मोक्ष इति । तद् एवं त्रयाणाम् अप्य् अवस्थात्रयसहितानां विश्वतैजसप्राज्ञानाम् अविद्यात्मकत्वात् दृ।श्यत्वेन च मिथ्यात्वाद् अनुपहितः केवलः साक्षी तुरीयाख्यो ऽहम् अस्मीत्य् अर्थः । एवं व्यवहारतः सर्वव्यवस्थोपपत्तेः परमार्थतः कस्या अप्य् अवस्थाया अभावान् न काप्य् अनुपपत्तिः । विस्तरेण चैतत् प्रपञ्चितम् अस्माभिर् वेदान्तकल्पलतिकायाम् इत्य् उपरम्यते ॥ ८ ॥
ननु, जाग्रत्स्वप्नसुषुप्त्यवस्थासहितानां त्रयाणाम् अपि तदभिमानिनां मिथ्यात्वात्, तत्साक्षिणो ऽपि मिथ्यात्वं स्यात्, अविशषात्, इत्य् आशङ्क्य विशेषाभिधानेन साक्षिणः सत्यत्वम् आह –
अपि व्यापकत्वाद् धितत्वप्रयोगात् स्वतः सिद्धभावाद् अनन्याश्रयत्वात् ।
जगत्तुच्छम् एतत् समस्तं तद् अन्यत् तद् एको ऽवशिष्टः शिवः केवलो ऽहम् ॥ ९ ॥
“न दृष्टेर् द्रष्टारं पश्येः” (बउ इइइ।४।२।) इति साक्षिणं प्रकृत्य “अतो ऽन्यद् आर्तम्” (बउ इइइ।४।२।) इति श्रुतेः साक्षिणो ऽन्यत् साक्ष्यं सर्वं जगत्तुच्छम्, न तु साक्षी । बाधावधित्वात् भ्रमाधिष्ठानतया ज्ञातत्वाच् च, तद्बाधग्राहकाभावाच् चेत्याद्यनुक्तसमुच्चयार्थः अपिशब्दः । “अथ यद् अल्पं तत् मर्त्यम्” (छु विइ।२४।१।) इति श्रुतेः परिच्छिन्नत्वतुच्छत्वयोः समव्याप्तत्वात् परिच्छिन्नत्वनिवृत्त्या तुच्छत्वनिवृत्तिर् इत्य् आह – व्यापकत्वाद् इति । “सर्वं खल्व् इदं ब्रह्म” (छु इइइ।१४।१।) इति सर्वात्मत्वोपदेशेन देशकालापरिच्छिन्नत्वात्, आकाशादीनां च देशकालपरिछिन्नत्वे ऽप्य् आपेक्षिकमहत्त्वेन व्यापकत्वोपचारात् । ननु, सर्वव्यापकत्वेन नित्यत्वाद् भावरूपत्वाच् चात्मा न दुःखनिवृत्तिरूपः, नापि सुखरूपः, सुखस्यानित्यत्वेन नित्यात्मरूपत्वानुपपत्तेः, तथा चात्मस्वरूपो मोक्षो ऽपुरुषार्थ एवेत्य् आशङ्क्य, न, इत्याह – हितत्वप्रयोगाद् इति । हितत्वम्, पुरुषार्थत्वम् । “तद् एतत् प्रेयः पुत्रात् प्रेयो वित्तात् प्रेयो ऽन्यस्मात् सर्वस्माद् अन्तरतरं यद् अयम् आत्मेति” (बउ इ।४।८।) “यो वै भूमा तत् सुखम्” (छु विइ।२३।१।) “एष एव परम आनन्दः” (बउ इव्।३।३३।) “विज्ञानम् आनन्दं ब्रह्म” (बउ इइइ।९।२८।) इत्यादिश्रुतिभ्यस् तस्य परमानन्दरूपत्वोपदेशात् । तस्य च नित्यत्वे ऽपि लोके धर्मजन्यतत्तदन्तःकरणवृत्तिव्यङ्ग्यतया तदुत्पत्तिविनाशोपचारः । अज्ञानव्यवहितस्य च तस्याप्राप्तस्येव ज्ञानमात्राद् अविद्यानिवृत्त्या प्राप्तिर् इव भवतीति तदुद्देशेन मुमुक्षुप्रवृत्त्युपपत्तिः । अध्यस्तस्य प्रपञ्चस्य दुःखस्वरूपस्याधिष्ठानत्वात् स एवाभाव इति दुःखाभावरूपत्वेनापि तस्य पुरुषार्थता ।
ननु, मोक्षे सुखं संवेद्यते न वा । नाद्यः, तदानीं देहेन्द्रियाद्यभावेन तद्व्यञ्जकाभावात्, व्यञ्जकाभावे ऽपि तत्संवेदनाभ्युपगमे संसारदशायाम् अपि तथा प्रसङ्गात् । न द्वितीयः, अपुरुषार्थत्वापत्तेः, ज्ञायमानस्यैव तस्य पुरुषार्थत्वात् । अत एव शर्करातद्भोजिनोर् इवेति वैष्णवं मन्यमानानाम् उद्गार इति चेत्, न, इत्याह – स्वतः सिद्धभावाद् इति । स्वप्रकाशज्ञानरूपत्वाद् इत्य् अर्थः । यद्य् अपि संसारदशायाम् अविद्यावृतरूपत्वाद् आत्मा परमानन्दरूपतया न प्रथते तथापि तत्त्वविद्ययाविद्यानिवृत्तौ स्वप्रकाशतया स्वयम् एव परमानन्दरूपेण प्रकाशत इति न व्यञ्जकापेक्षा । ननु, सुखस्य स्वप्रकाशज्ञानरूपत्वे ऽपि नात्मरूपता, ज्ञानस्य धात्वर्थरूपतया क्रियात्वेन साश्रयत्वात् जानामीति प्रतीतेः, ज्ञानम् अहम् अस्मीत्य् अप्रतीतेश् च । तथा च कथम् अद्वैतवाद इत्य् आशङ्क्य, न, इत्य् आह – अनन्याश्रयत्वाद् इति । “यत्साक्षाद् अपरोक्षाद् ब्रह्म य आत्मा सार्वान्तरः” (बउ इइइ।४।१।) इत्यादिश्रुतेः स्वप्रकाशज्ञानानन्दरूप एवात्मा, अन्तःकरणतादात्म्याध्यासेन च तद्वृत्तौ ज्ञानाध्यासाज् जानामीति तदाश्रयत्वप्रतीतिः । धात्वर्थत्वम् उत्पत्तिविनाशवत्त्वं चान्तःकरणवृत्तेर् इति ज्ञप्तिरूपमुखज्ञानस्य सर्वाधिष्ठानत्वेनान्याश्रयत्वाभावान् न द्वैतापत्तिः । तेन ज्ञानसुखात्मक आत्मा सत्यस् तद्भिन्नं च सर्वं जगद् असत्यम् इति सिद्धम् ॥ ९ ॥
ननु, सर्वस्य जगतस् तुच्छत्वे तन्निषेधेनात्मतत्त्वप्रतिपत्तिर् न स्यात् । न हि शशविषाणं निषिध्यते, क्वचित् प्रमितं क्वचिन् निषिध्यत इति न्यायात् । तथा च निषेधानुपपत्त्यैव न जगतस् तुच्छत्वम् इति, न, इत्य् आह –
न चैकं तदन्यद् द्वितीयं कुतः स्यात् न वा केवलत्वं न चाकेवलत्वम् ।
न शून्यं न चाशून्यम् अद्वैतकत्वात् कथं सर्ववेदान्तसिद्धं ब्रवीमि ॥ १० ॥
एकत्वसङ्ख्यायोगि एकम् । तद् अपेक्षाबुद्धिजन्यद्वित्वसङ्ख्यायोगि द्वितीयम् । तत एकाभावे द्वितीयं कुतः स्यात् । द्वितीयं च तृतीयादीनाम् अप्य् उपलक्षणम् । ननु, “एकम् एवाद्वितीयम्” (छु वि।२।१।) इति श्रुत्या एकत्वं प्रतिपाद्यते । न, इत्य् आह – न वा केवलत्वम् इति । केवलम् एकत्वम्, तस्याविद्यकत्वात् । यद्य् आत्मन एकत्वं श्रुत्या न प्रतिपाद्यते, तर्हि प्रत्यक्षादिप्रमाणवशाद् अनेकत्वं स्याद् इति चेत्, न, इत्य् आह – न चाकेवलत्वम् इति । अकेवलत्वम् अनेकत्वम्, “नेह नानास्ति किञ्चन” (बउ इव्।४।१९।), “एकम् एवाद्वितीयम्” (छु वि।२।१।), “अथात आदेशो नेति नेति” (बउ इइ।३।६।) इत्यादिश्रुतिभ्यः । तर्हि सर्वप्रतिषेधाच् छून्यम् एव स्याद् इति, न, इत्य् आह – न शून्यम् इति, “असन्न् एव स भवति असद् ब्रह्मेति वेद चेत्, अस्ति ब्रह्मेति चेद् वेद सन्तम् एनं ततो विदुर् इति” (तु इइ।६।), “सत्यं ज्ञानम् अनन्तं ब्रह्म” (तु इइ।१।) “सद् एव सोम्येदम् अग्र आसीत्” (छु वि।२।१।) इत्य् उपक्रम्य “ऐतदात्म्यम् इदं सर्वं तत् सत्यं स आत्मा तत् त्वम् असि” (छु वि।८।७।) इत्यादिश्रुतिभिः सत्यत्वज्ञानत्वादिधर्मवद् अपि स्यात्, न, इत्य् आह – न चाशून्यम् इति । एकम् अद्वितीयम् इति पदद्वयेन सर्वभेदप्रतिषेधे ऽप्य् एवकारेण धर्मधर्मिभावादिभेदाभेदप्रतिषेधात् । सर्वत्र हेतुम् आह – अद्वैतकत्वाद् इति । द्विधा इतं द्वीतं तस्य भावो द्वैतम् । तद् उक्तं वार्तिके “द्विधेतं द्वीतम् इत्य् आहुस् तद्भावो द्वैतम् उच्यते” (बउभ्व् इव्।३।१८०७।) इति । न विद्यते द्वैतं द्विधाभावो यत्र तद् अद्वैतम् इत्य् अक्षरार्थः । “सलिल एको दृष्टाद्वैतः” (बउ इव्।३।३२।) इतिश्रुतेः । प्रतियोगिज्ञानस्यैव लाघवेनाभावबुद्धौ कारणत्वात् द्वैतस्यानिर्वचनीयत्वाङ्गीकारेण प्रत्यक्षादिवेद्यत्वान् निषेधोपपत्तिर् इत्य् अर्थः । तर्ह्य् एतादृश आत्मा अङुलिनिर्देशेन प्रतिपाद्यताम् इति, न, इत्य् आह – कथं ब्रवीमीति । किम् आक्षेपे? अद्वैतकत्वेन वागविषयत्वात्, “अवचनेनैव प्रोवाच” (नुउ विइ।), “यतो वाचो निवर्तन्ते अप्राप्य मानसा सह” (तु इइ।४।), “न विज्ञानेर् विज्ञातारं विजानीयाः” (बउ इइइ।४।२।) इत्यादिश्रुतिभ्यः । वागविषयत्वे कथं वेदान्तानां तत्र प्रामाण्यम् इति चेत्, न, अविषये ऽप्य् आत्मनि तदाकारवृत्तिमात्रेण तदविद्यानिवर्तकत्वाद् इत्य् आह – सर्ववेदान्तसिद्धम् इति । तथा च श्रुतिः “यस्यामतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातम् अविजानताम्” (कु इइ।३।), “यन् मनसा न मनुते येनाहुर् मनो मतम्, तद् एव ब्रह्म त्वं विद्धि नेदं यद् इदम् उपासते” (कु इ।५।) इत्यादिर् अविषयत्वम् आत्मनो दर्शयति । तद् एवं वेदान्तवाक्यजन्याखण्दाकारवृत्त्या अविद्यानिवृत्तौ तत्कल्पितसकलानर्थनिवृत्तौ परमानन्दरूपः सन् कृतकृत्यो भवतीति सिद्धम् ॥ १० ॥
न स्तौमि तं व्यासम् अशेषम् अर्थं सम्यङ् न सूत्रैर् अपि यो बबन्ध ।
विनापि तैः सङ्ग्रथिताखिलार्थं तं शङ्करं स्तौमि सुरेश्वरं च ॥ १ ॥
लघुर् अपि बह्वर्थवहश् चिन्तामणिर् इव निबन्धो ऽयम् ।
मधुसूदनेन मुनिना विहितो गुणिनां विनोदाय ॥ २ ॥
यद् अत्र सौष्ठवं किञ्चित् तद्गुरोर् इव मे न हि ।
यद् अत्रासौष्ठवं किञ्चित् तन् ममैव गुरोर् न हि ॥ ३ ॥
बहुयाचनया मयायमल्पो बलभद्रस्य कृए कृतो निबन्धः ।
यद् अदुष्टम् इहास्ति यच् च दुष्टं तदुदाराः सुधियो विवेचयन्तु ॥ ४ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीभगवत्पूज्यपादशिष्यश्रीमधुसूदनसरस्वतीविरचितः सिद्धान्तबिन्दुनामा ग्रन्थः समाप्तः ।