[[श्रीभागवद्भक्तिरसायनम् Source: EB]]
[
[TABLE]
श्रीः
संपादकस्य वक्तव्यम्—
श्रीमद्धनुमद्भीममध्वान्तर्यामिरामकृष्णवेदव्यासात्मकसच्चिदानन्दविग्रह—
पूर्णतमाह्लादिनीशक्त्यभिन्नीकृतस्वरूपप्रेमावतारभगवत्श्रीश्रीगौरकृष्णः शरणम्।
हेलोद्धूलितखेदया विशदया प्रोभ्मीलदामोदया
शाम्यच्छास्त्रविवादया रसदया चित्तार्पितोन्मादया।
शश्वद्भक्तिविनोदया समदया माधुर्यमर्यादया
श्रीचैतन्य दयानिधे! तव दया भूयादमन्दोदया॥
इह किलानादिसंसारस्त्रोतसोह्यमानप्राणिसार्थप्रवृत्तिनिवहेषु चेष्टात्वानुमितकिञ्चिदुद्देश्यकत्ववटकफलस्वरूपजिज्ञासाप्रसक्तौ मुख्यामुख्यसाधारण्येन तदनन्तत्वेऽपि धर्मार्थकाममोक्षविधाभिस्तच्चतुष्ट्वंसंगिरन्ते तन्त्रज्ञाइति हि पुमर्थवादिनांदध्वन्यमानः पटहः।
अत्रेदमालोच्यते— अदृष्टोपायत्वेन धर्मस्य; दृष्टोपायत्वेवार्थस्य; जन्यमुख्यफलत्वेन कामस्य; नित्यमुख्यफलत्वेन मोक्षस्य; समर्पकत्वेन तत्तत्प्रमापकवचनानांचारितार्थ्येऽपि; भूम्ना शास्त्रेषूपलभ्यमानानां मुक्तेरप्यमभिलषणीयतामवग मयतां—
“त्वत्कभाऽमृतपाथोधौ विहरन्तो महामुदः।
कुर्वन्ति कृतिनः के चिच्चतुर्वर्गंतृणोपमम्”॥
तथा
“त्वत्साक्षात्करणाह्लादविशुद्धाब्धिस्थितस्य मे।
सुखानि गोष्पदायन्ते ब्राह्माण्यपि जगद्गुरो!"॥
तथा
“न साधयति मां योगो न सांख्यं धर्म उद्भव!।
न स्वाध्यायस्तपस्यागो यथा भक्तिर्ममोर्जिता”॥
इत्यादीनां संप्रतिपञ्चप्रमाणभावानां वचनानामुक्तपुमर्थेष्वन्यतममप्यपरिगृहवालूनां सावकाशताया दुःसंपादतया वैवर्ण्यंमा प्रसज्जीति सरणिः का चित्प्रदर्शनीनैव,
न च पुमर्थेषु प्रथमचरमयोरुपायत्वात्तृतीयस्य नाशित्वेनानर्हत्वेऽपि तुरीयपरतैवोक्तवाक्यानां वक्तव्येति सांप्रतम्? ब्राह्मचतुर्वर्गादिपदोपादानात्तस्याप्यनङ्गीकृतिस्फोरणाद्,
न च मोक्षपदव्यपदेश्यानां नानात्वेन सायुज्यस्यैव तच्चतुष्टयघटकता; तदन्येषामुक्तवाक्यीयतात्पर्यविषयतेति वाच्यम्? विशेषग्राहकाभावादुक्तवाचोयुक्तेरप्रामाणिकत्वात्,
तस्मादुक्तजातीयवचनानां भगवत्प्रेमस्वरूपफलपरत्वमेव न्याय्यं, यच्च क्वचन साधनभक्तिपराणां वचसामपि पुमर्थचतुष्टयानाग्रहित्वं तदपि साध्याभिप्रायकतया सुयोजम्, एवं च तादृशप्रेम्णः पञ्चमपुरुषार्थतोक्तिः सुसमज्जसैव श्रुतिस्मृत्यादिशास्त्रेषु,
न च भगवत्प्रेम्णि मुक्तेर्नान्तरीयतया तच्चतुष्ट्वेनैवोपपत्तौ पुमर्थेषु पञ्चमसिद्धान्तोऽनतिप्रयोजनक इति शङ्क्यम्?
भगवत्प्रेमाणमुद्दिश्य साधने प्रवृत्तस्य पुंसस्तत्प्रेमत्वस्यैवोद्देश्यताऽवच्छेदकत्वंयुक्तं न त्त्वानुषङ्गिकमुक्तित्वस्य; प्रधानेन व्यपदेशा भवन्तीति न्यायाद्,
एवं सिद्धे भगवत्प्रेम्णः पञ्चसपुरुषार्थत्वे तदधिगमोपायकुक्षिप्रविष्टाः कायिकवाचिकमानसिकव्यापाराः सर्वेऽपि साधनभक्तिव्यवहार्याः, तथा च भक्तिशद्वो भजनंभक्तिरिति व्युत्पत्त्या प्रेमवाचको भजत्यनयेति व्युत्पत्त्या श्रवणादिसाधनवाचकश्चेति न किमप्यसौष्ठवम्,
एवं च पुरुषेणार्थ्यमाने धर्मार्थकाममोक्षप्रेमपञ्चके प्रथमद्वयं स्वरूपतः फलतश्च तार्त्तियीकं स्वरूपतः प्राकृतमत एव नश्वरतया विवेकिभिर्हेयपक्षे निक्षिप्तं, यद्यपि धममात्रस्य नेयं दशा; प्रत्यवायप्रयोजकीभूताभावप्रतियोगिकर्मज्ञन्यधर्मस्यस्वाश्रयशोधनविधया तुरीयपञ्चमपुमर्थाधिगमप्रयोजकतयाऽत्यन्तमुपादेयत्वात्;तथाऽपि तदितरस्मिन्तथाऽऽत्मतायामविवादाद्, शिष्टौ द्वौ तु स्वरूपतोऽप्राकृतावपि प्राकृतेस्वेव साधनेष्वायतेते।
तानि च साधनानि कर्माष्टाङ्गज्ञानभक्तियोगाश्चत्वारः—
“योगाश्रयो मया प्रोक्ता नृणां श्रेयोविधित्सया।
ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्र चिद्”॥ इति
श्रीमुखोक्तेः; यद्यपि श्रृङ्गप्राहिकयाऽष्टाङ्गयोगोऽत्र नोक्तः; तथाऽपि ज्ञानान्त-
र्गतत्वेनोक्तप्राय एवेति के चिद् वस्तुतस्तु व्यञ्जनलवणन्यायेनानुक्तोऽपि स नान्तरीयकतयाऽवगम्यत एव,
तत्रादौ नित्यकर्मानुष्ठानाद्विशुद्धेऽन्तःकरणे; वैराग्योपोद्बलिते चेतस्यद्रुतचित्तानां तत्त्वज्ञानोदयान्मुक्त्यधिगमः, यद्वा— श्रवणादिसाधनसाहायकाद् द्रुते चेतसि रुच्यादिक्रमेण भगवति प्रेमोदयः, इत्थमधिकारिभेदेन व्यवस्था निर्धारिता शास्त्रैः,
एवं चाद्रतचित्तानां वर्त्मान्यन्यत्र प्रदर्श्य; द्रुतचित्तानामेतत्प्रदिदर्शयिपुर्विपश्चिदग्रेसरः श्रीमधुसूदनसरस्वतीयतिर्भगवद्भक्तिरसायनं ग्रन्थं निबध्नन् संदर्भसौकर्य्यात्र चिकीर्षितोल्लासत्रये; प्रथमे तावदुल्लासे स्वरूपभूमिकासाधनसहितंभक्तिसामान्यं प्रदर्श्य, द्वितीयेऽस्मिन् भक्तिविशेषान्निरूप्य; तृतीये तस्मिन् सपरिकरं सोपपत्तिकं भक्तिरसं व्यवातिष्टिपत्।
अस्मिन्निबन्धे प्रधानतयोपपाद्यस्य भक्तिरसस्य संक्षेपतस्तत्त्वमवजिगमिषूणामुत्कण्ठाविनोदायैतत्संबद्धावश्यज्ञेयसंकलनस्य प्रतुष्टुपया किंचिदुपक्रम्यते—
इह तावद् रससंबद्धाः प्रश्नाः सक्षेपतश्चत्त्वारः समापतन्ति— रसःकिंप्रमाणकः? किंप्रयोजनः? किंस्वरूपः? कथं चापलब्धव्यः? इति,
तत्र—
“मानाधीना मेयसिद्धिर्मानसिद्धिश्च लक्षणाद्”—
इत्यभियुक्तोक्त दिशा रसो येन प्रमित्सितव्यस्तदीये हि स्वरूपे यथार्थज्ञानसाधनत्वात्मके फलतः सर्वसिद्धान्तरीत्या पर्यवसिते तत्संख्यायां तैर्थिकानां सगोत्रकलहस्यानपेक्षणीयत्वेनोत्थापनानर्हत्वात् प्रकृताचार्य्यानुमोदितानामेव प्रमाणानामुपगन्तव्यतायां रसप्रस्थानिभिराचार्य्यैः प्रत्यक्षानुमानागमा एव प्रमाणत्वेनोपेयन्त इति वक्तुं युज्यते,
यद्यपि प्रमेयविशेषनिरूपणप्रवणतावशंवदेन शास्त्रकारेण “परमतमप्रतिषिद्धमनुमतं भवती’‘ति नयमनुरुध्य; प्रकृतविषयकसर्वोक्तिव्रातस्यानुसर्त्तव्यताप्रसक्तावपि रसनादाभिन्नतानिबन्धनसमानतन्त्रसिद्धान्तादरेण संगीतशास्त्रोदितत्वप्रयुक्तं; रसप्रत्यायनधूर्वहतयाऽत्यादृतव्यञ्जनायां यदुपज्ञताऽस्ति तेषां वैयाकरणानां राद्धान्ते महाभाष्यकारादिभिर्व्यवहृतत्वायत्तं; चरमोपेयतया पारमार्थिकस्वरूपप्रदर्शनपरायणानां महर्षिशाण्डिल्यादीनां सूत्राक्षरतो वा लब्धं त्रैविध्यमुक्त निष्ठमेवेति प्रकृते निर्दिष्टा प्रमाणत्रय्येवेहानुमुद्यत इति पक्षः शक्यस्वीकरणः,
परेषामत्रैषान्तर्भावादेत्त्रिकेणैव रसः प्रमातव्यः, यद्यपि रसस्य प्रकाशाभिन्नतया नापरेण प्रकाश्यताऽपेक्षा; तथाऽपि कथमपेक्षेत्यादिकमुपरिष्टान्निपुणतरमुपपाद्दनीयम्, तत्र प्रत्यक्षं तावन्नाव्यदर्शिनां सहृदयानामानुभविकमेवेति नेह किमपि विवक्षणीयम्; अनुमानमपि पक्षीकृतात्मनि “आत्मनस्तु कामाये”त्यादिभिः श्रुतिभगवतीभिः प्रमापितेन निरतिशयप्रेमास्पदत्वेन हेतुना खल्वानन्दात्मकत्त्वसाधकतया स्वभ्युपगममेव, निरतिशयानन्दस्य रसात्मकतयाऽऽत्मनश्च रसाभिन्नतयातदभिन्नाभिन्नस्य तदात्मकताया औत्सर्गिकत्वादिकमपिस्वरूपविवेचने प्रतिपिपादयिष्यमाणम्, आगमस्तु “रसो वै सः” इत्यादिरपिकिलोपक्रमोपसंहारादिभिर्निर्णीततत्परताको नैव तिरोहित इति प्रमाणसिद्धेरसत्त्वेन का चिद् विमतिः, ततश्च निरतिशयानन्दसाक्षात्कार एव प्रयोजनत्वेनावधार्य्यतेऽन्नेत्यास्माकीनः समयः।
प्रयोजने चेदमीये निश्चिकीषितव्येऽयमेव प्रयोजनात्मेति सिद्धान्तः— तथा हि प्रयोजनं हि फलं, तच्च मुख्यगौणरूपतया द्विविधं फलान्तरेच्छाऽधीनेच्छाविषयत्वंगौणत्वं, तदनधीनेच्छाऽऽस्पदत्वं तु मुख्यत्वं, तत्त्वं च सुख एव विश्राम्यतीत्यत्र नैव विवादो विश्वजनीनानुभवसिद्धत्वाद्,
यद्यपि लोके सुखत्वेन व्यवह्रियमाणं न वस्तुतः सुखं, विनाशित्वेन दुःखाधायकत्वाद्, यदाहुर्महर्षिपतञ्जलिपादाः— “परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्चसर्वमेव दुःखं विवेकिनः” अत एव दुःखमिश्रितत्वेन सुखस्यापि मधुसंपृक्तगरलवद्धेयत्वात्तदपि दिध्वंसयिषितव्यमेवेति महर्षिगोतमपादा व्यवातिष्ठिपन्, तथाऽपि वास्तविकसुखमलभमानाः संसारिणस्तदाभासेनैव कृतकृत्यंमन्यमानाः समवलोक्यन्ते,
वस्तुतः सुखं च “आनन्दं ब्रह्मणो विद्वान्” “तस्यैवानन्दस्यान्येमात्रामुपजीवन्ती"त्यादिभिर्भगवतीभिः श्रुतिभिरेवावगमितं, तच्चात्मस्वरूपघटकतया परिणामादिदुःखकालुष्यासंपृक्तमित्यात्मस्वरूपावगत्या स्ववगममौपनिषदप्रस्थानाध्वनीनैः, अतएवेदं विविच्यमानं रसतत्त्वंसाहित्यदर्शनपरमजीवातुरूपात्मस्वरूपोपजीव्यतयाऽऽश्रित्य चतुर्मुखादिभरतमुन्यन्ताचार्याणामार्यप्रमाणोपबृंहितं रसशास्त्रत्वेन व्यवदेश्यं न दर्शनान्तरैर्गतार्थमाशङ्कितव्यम्,
दर्शनान्तरेषु किल लोकायतिकसौगतानामात्मनः शाश्वतिकतैव दुर्कमेति निर्द्दिष्टदूषणं जागरूकमेव,
विंवसनसमये कथमपि नित्यत्वेऽपि तस्वानन्दता शशविषाणायमानैव,
नैयायिकवैशेषिकाणां मते तन्नित्यत्वेऽपि निरानन्दतैवैतस्य स्वरूपं, सानन्दता तु दुःखवत्ताऽऽवृतैवेति न सिषाधयिषितसिद्धिः,
कापिलपातञ्जलानामपि तथात्वेन तथात्वमेवेति नाभीष्टपूर्त्तिः,
अध्वरमीमांसाविदां नयेषु प्रायेणोक्तचर्य्येवाशान्तिः क्व चिन्मुक्तौ नित्यसुखाभिव्यक्त्यभ्युपगमेऽपि दुर्निवाराऽर्थान्तरता; मुक्तितः पूर्वं तदीयव्यक्तेरसत्कल्पत्वाद्,
अनयैव दिशाऽऽत्मनोऽनानन्दतावादिनामवशिष्टदर्शनानां सिद्धान्तेभ्योऽप्यगतार्थता विवेक्तव्या,
औपनिषद-सिद्धान्तिनां त्वद्वैनविशिष्टाद्वैतशुद्धाद्वैतद्वैताद्वैतद्वैतवादिनां पञ्चानामपि प्रस्थानेषु चात्मतत्त्वस्य नित्यतयाऽऽनन्दतया च महतः संवादस्य सत्त्वेऽपि न तथाऽऽनुकूल्यं यादृशप्रयोजनसंपिपादयिषयाऽऽचार्य्या रसशास्त्रमुपनिवियेन्त्सवएनदाविरबीभवन्, एतच्चानुपदमेव स्वरूपनिर्णये वक्ष्यते।
रसस्वरूपजिज्ञासायां तावदात्मैव रस इति रसदर्शनिनां राद्धान्तः— “रसो वै सः” “आनन्दं ब्रह्मणो विद्वान्” “आनन्दाद्ध्येवेमानी"ति श्रौतवचनानि स्वरूपतटस्थलक्षणाभ्यामात्मानमेव लक्षयन्ति, आत्मा चात्र यद्यपि ब्रह्मपरमात्मादिपर्यायोभगवानेवोपक्रमोपसंहारादिभिस्तात्पर्यास्पदतयाऽवजिगमिषितस्तथाऽपि प्रतिबिम्बतया परिच्छिन्नतया वस्तुतया वा “यथाऽग्नेर्विस्फुलिङ्गाः” “ममैवांशो जीवलोके” “अंशो नानाव्यपदेशाद्’‘इत्यादिश्रुतिस्मृतिब्रह्मसूत्रादिभिर्व्यवस्थापितो जीवोऽपि तत्त्वदृशा सच्चिदानन्दात्मा; परन्तु सिन्धोर्विन्दुरिव तत्स्वमावः कणकल्पः सुतरांतदुपात्तसरणितः सर्वांश एव न तादृशो, नातो जगत्कर्तृत्वाद्यापत्तिरर्थं चैनं तर्कोपष्टब्धानि “जगद्व्यापारवर्जमि’‘त्यादिप्रमाणान्युपोद्बलयन्ति, अत एवायं तदीयतटस्थशक्त्यात्मकतया शास्त्रेषु व्यवह्नियते,
सच्चिदानन्दस्वरूपस्य भगवतः किल तिस्रः शक्तयः शास्त्रप्रमिताः स्वरूपातटस्थाबहिरङ्गाख्यास्तासां स्वरूपाख्यायां पुनस्तावत्थोभिदाः संधिनीसंविद्ह्लादिनीनामिकाः, तथा च तत्त्वतो भगवत्स्वरूपसजातीयः सर्वथा तद्विजातीयबहिरङ्गातोविलक्षणः सन् जीवः तटस्थ इति गीयते, एवं चोक्तस्वरूपो जीवोऽपि रसवद-
वाच्यतां नार्हतीति न, न खलु रससमुद्रस्य विन्दु रसान्यो भक्तिमर्हति, एतदेवाभिप्रेत्य रसशास्त्राचार्य्याः प्राकृताप्राकृतभेदतो द्वैविध्य्नं रसस्य संगिरमाणास्तथैवोपापीपदन्, मूलं चैतदीयमाम्नेयपुराणादिषु व्यक्तमेव, आचार्यभरतमुनिना तु यानुपचिकीर्षुणा न्यबन्धि नाट्यशास्त्रं, ते किलानादिकालतो बम्भ्रम्यमाणप्रपञ्चचक्रचङ्कमणताचणा; अपरिशीलितचरपरमपुमर्थप्रापकपद्धतयः सुकुमारमतयोद्विविधवासनावासितहृदयाःकाव्यार्थचिन्तनालङ्कर्मीणयोग्यतापरिपचेलिमचातुरीका विनेयाः; तानेनान्
“असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहत—
इत्यादिस्वरूपेण गुडजिह्विकान्यायेन चरमगन्तव्यदिक्संमुखीनीकर्तुकामेन परमरसास्वादमाधुरीसंपल्लेशोऽपि यदवधि नानुभवगोचरीकार्येत तदवधि कथमिवादसीयमर्म स्पहृयालवोऽमी क्रियेरन्निति विचिन्त्य दुष्करप्रवृत्यास्पदानि निःश्रेयसप्रापणपटूनि श्रवणादीनि साधनान्यव्यापार्यापि निखिलानर्थनिदानाज्ञानमः नुन्मूल्यापि चिरसंचितचरकर्मकलापानपरिप्लुष्यापि जनैर्यथा तादृशं वस्वास्वादपदवीं नीयेत यादृशं तत् तान्यव्यापार्य्य, तदुन्मूल्य; तान् परिप्लुष्य सूरिभिस्तथा क्रियते, स प्रकारो दिव्यज्ञानमन्दरेण निगमपयोधीन्प्रमथ्य नाट्याम्नायपीयूषवपुराविरकारि, सुतरां प्रथमभूमिकारूढानामधिकारिणामुपकारः प्राकृतरसपरिचयेन यथा सुकरो; न तथाऽप्राकृतरसज्ञापनेनेत्यधिकारानुरूपमुपदेष्टारः श्रद्धेयवचनाः फलेग्रहियत्नाश्च भवन्ति नापरथा, अतो मुनिनाऽस्यैव प्रबन्धो निर्बन्धेनाबन्धि नापरस्य, नैतावता स नास्त्येव नानुमत एव वेत्यवगन्तव्यं, कथमन्यथाऽऽत्मदर्शनासाधनतायामस्य शास्त्रस्य दर्शनता, कथं चोपक्रम एव चतुर्वर्गाप्तिप्रयोजकतोक्तिरस्य संगच्छेत कथं च रसताऽपि जीवस्वरूपघटकानन्दस्य? रसत्वप्रतिपादिका हि भगवती श्रुतिः उपक्रमोपसंहारादिपरिचारकवृन्दसेविता खलु स्वेष्टमाप्नोति,
न च तत्सध्रीचीनश्रुतितात्पर्यविषयाभिन्नत्वाज्जीवस्य नोक्तापत्तिरिति वाच्यम्? तयोरभेदस्य याथातथ्यचिन्तायामुदस्यापि संप्रतिपन्नभेदकालेऽभेदोक्तेरनुपयुक्तत्वात्, प्रदर्शितविधया शास्त्रप्रवृत्त्युपजीव्यविरोधाच्च, एतेन ज्ञानकाण्डेन रसकाण्डस्यगतार्थतया काण्डान्तरारम्भचर्चा मुधैति वदन्तो निरस्ताः प्रयोजनपार्थक्यं हि प्रस्थानपार्थक्यं प्रयोजयति, तच्चैहिकमामुष्मिकं वा, उत्कृष्टमपकृष्टं वांऽशतइत्यन्यदे-
तद् इत्थं चैष रसःप्राकृतालम्बनकतया प्राकृत इति व्यवह्रियते, अप्राकृतालम्बनकोऽप्राकृत इति शास्त्रविदां मर्यादा व्यवहारासंकरार्थमादरणीयैव, द्वैविध्यं चैतदाचार्यभरतेनापि बहुशो ध्वनितमप्यनधिकार्य्यत्वेन नाभिहितं, तदेव पुनराग्नेयादौस्पष्टमुक्तं नेयता काऽपि क्षतिः।
यत्तु प्राकृताप्राकृतौ रसौ क्रमेण लौकिकालौकिकावित्युच्येते इति तन्न समीचीनम्, उभयोरप्यलौकिकत्त्वाद्, न हि जातु लौकिको रसोऽध्यात्मविद्यानां प्रधानत्वेन प्रतिपाद्योभवितुमर्हति, स हि तृतीयपुमर्थंगृह्योऽन्यथा प्रस्थानभेदानुपपत्त्या बाभ्रव्यादिसंहितानामामर्थक्यमापतेदित्यादिर्भूयानुपप्लवः स्याद्, अलौकिकत्वं चैनयोर्लौकिकमर्यादाऽतिशायित्वाद्, दर्शयिष्यते चानुपदमेतद्, प्राकृतत्वंच पादविभूतिविलासविजृम्भितत्वं, त्रिपादवैभवं चाप्राकृतमिति वस्तुस्थितिः, अत्र प्राकृतो रस उच्यते, अप्राकृतस्तु भाव इति नाट्यशास्त्रीया परिभाषा,
वस्तुतस्त्वप्राकृतो भक्तिरस उच्यते— रसत्वव्यपदेशजीवातोस्तादृशानन्दात्मकताया उभयत्र सत्त्वादिति।
रसोपलब्धिप्रकारस्वेषः— वक्ष्यमाणस्वरूपकैर्विभावानुभावसात्त्विकसंचारिभिर्व्यक्तोव्यक्तिविषयीकृतः स्थाय्येव रसतां भजतेऽयमर्थस्तु यावद्रसदर्शनिभिरनुमोदितोऽपि स्थायिस्वरूपे तद्व्यक्तो च प्रक्रियाभेदो मतभेदनिबन्धनोऽस्त्येव-तत्र-आहंकारिके चित्तेकारणविशेषोद्बुद्धसत्त्वे स्वेतरगुणावभिभूय प्रकाशमाने जातु चिदनुभूतरत्यादिस्थायिसंस्कारोऽप्युद्बुद्धीभूय प्रतीयमान उपचीयमानः पुष्यमाणोऽभिन्नायमाननेदिष्टचिच्छक्त्याऽऽमीयत्वेन भुज्यमानो रसव्यपदेशभागिति कापिली प्रक्रिया, परन्त्वसौ जडत्वपरप्रकाश्यत्वप्राकृतत्वादिमत्त्वाद्भिन्नमेव वस्तु नास्माकीनो रसः, भौतिके चित्ते हेतुविशेशादुदितम्रदिमनि मुद्रितो रत्यादिस्थाय्याकारः संस्कारः स्वोद्बोधकमहिमतिरस्कृतावृतिकचिद्विशिष्टो रस इत्यौपनिषदैकदेशिनां सरणिः, अत्र पूर्वोक्तदोषासत्त्वेऽपि चितोऽङ्गत्त्वोक्त्या श्रुतिस्वारस्यभङ्गोऽस्त्येव, एतद्दोषं परिहर्त्तुकामैः कैश्चित् स्थाय्यवच्छिन्नभग्नावरणचिदेव रस उक्तः; किन्त्वेवमपि गौणत्वभानप्रयुक्तास्वारस्ये समाहितेऽप्यव्यवहितोत्तरवाक्यसहितवाक्यैकवाक्यतास्वारस्यभङ्गस्तदवस्थएव, तद् वाक्यं च— “रसं ह्येवायं लब्ध्वाऽऽनन्दीभवती”ति; एतद्वाक्यघटकार्यपदार्थकर्तृकलाभकर्मैव भवता रसत्वेन विवक्ष्यतेऽतः स्पष्ट एव स्वारस्यभङ्गोभग्नावरणचैतन्यस्यैवायंपदार्थतया कर्तृकर्मणोरभेदापत्तेः।
न च सावरणस्यैवार्यत्वेनकर्त्तृतयाऽनावरणस्य कर्मतयौपाधिकभेदेनाविरोधाच्च स्वारस्यभङ्ग इति वाच्यम्? स्वप्रकाशवादे किलावरणभङ्गमन्तरेणेतरस्थानपेक्षणादावरणमङ्गादेवानन्दीभवनप्राप्तेः पूर्वांशवैयर्थ्यस्य वज्रलेपायितत्वाद्,
एतेन सावरणोऽयमनावरणं रसं लब्ध्वेत्यादिवाचोयुक्तयः प्रत्युक्ताः, सावरणोऽनावरणः सन्नित्यादिनैव भवदिष्टसिद्धेः, तस्मादखिलानि कण्टकितसंकीर्णवर्त्मान्युत्सृज्य परिष्कृतघण्टापथेन संचरिष्णूनां रसविदामेष सिद्धान्तः— सः=प्रकृतः स्वरूपतटस्थलक्षणलक्षितो ब्रह्मपरमात्मपर्यायो भगवान्, वै=निश्चयेन, रसः=रसपदार्थः, तमेनं रसमेव=नापरं लब्ध्वा हि=यतः, अयं=स्वल्पानन्दो जीवः, आनन्दीभवति प्रशस्तानन्दो भवतीति, इत्थमेवोक्तौ प्रकृतशास्त्रस्य दर्शनताऽपि परमपुमर्थप्रापकतया संगच्छते,
न चावरणभङ्गवैशिष्ट्येऽपि परमपुमर्थसंपादकत्वाक्षतिरिति वाच्यम्? तथा सन्युत्तरमीमांसयैव गतार्थतायां भवन्मते शास्त्रस्यानारम्भणीयताऽऽपत्तेः,
न चेष्टापत्तिः, अन्यैर्भवदभिमतानारम्भणेऽपि तुल्ययुक्त्येष्टापत्तेः सुवचत्वाद्,
न चोत्तरमीमांसायामपि प्रस्थानान्तरे कथंकारं रसशास्त्रारम्भणीयतानिर्वाहइति शङ्क्यम्? गुड़जिह्विकान्यायेन तथोपेयप्रतिपत्त्यर्था इत्यादिपूर्वोक्तयुक्तेः सार्थक्यसंभवाद,
न चास्माभिरपि सार्थक्यमेवं सुसंपादमिति वक्तव्यम्? अपारमार्थिकतापिशाचीभयादेवमुपगन्तुं भवतोऽसामर्थ्यात्, प्रकृतशास्त्रकृदभिमतरसस्य भवन्मते चरमोपेयत्वाभावाच्च,
तथा च परमर्षिभरताचार्यसूत्रं— “विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः” इति, अत्र विभावयन्ति आविर्भावयन्ति=उद्बोधयन्ति प्रसुप्तस्थायिनमिति विभावा आलम्बनानि उद्दीपनानि च, एवं च विषयतासंबन्धेन स्थायिविशिष्टमालम्बनं, स्वोद्बोधजनकतासंबन्धेन स्थायिविशिष्टमुद्दीपनं, स्थायिपोषकत्वे सयालम्बनचेष्टारूपोऽनुभावः, आलम्बनाऽवच्छेदेनाविर्भूष्णुतिरोभूष्णुः स्थायिपोषकरूपो व्यभिचारीति विवेचनीयं, सूत्रे पञ्चमी हेत्वर्था, हेतुत्वं तु कारकत्वज्ञापकत्वान्यतररूपं, ज्ञापकत्वं च— तद्विषयकज्ञानजनकज्ञानविषयत्वं, ज्ञानं चात्र त्रिविधं— प्रत्यक्षम, अनुमितिः, शाद्वधीश्च, प्रत्यक्षं तु द्विविधं— यथाऽर्थमयथाऽर्थंच द्वितीयं पुनर्द्विधा दोषजन्यं भ्रमत्वेन प्रसिद्धम्, इच्छाजन्यम् आरोपत्वेन ख्यातम्!
एवं च— दमयन्त्यादिदर्शनजनलादिसमवेतरत्वाद्युद्बोधस्य तत्कार्यकटाक्षादिसहचरितोत्कण्ठाऽऽदीनां चानुकार्य्यनलादिनैव संबन्धात्तत्रैव रस उत्पन्नो; नटे तु तत्तदनुकृत्या सादृश्यमूलकारोप इति भट्टलोल्लटादयः।
के चन नाट्यादिषु प्रकटविभावादिषु व्यञ्जनया नलादौ दमयन्त्यादिरतौ ज्ञातायां भावनादोषेण कल्पितनलत्वाद्यवच्छिन्ने स्वस्मिन् समुत्पन्नोऽनिर्वचनीयोदमयन्त्यादिविषयकरत्यादिरेव रस इति समगिरिषत।
अन्ये तु व्यञ्जनाऽनिर्वचनीयख्यात्यनुपगमाद् भावनादोषेणात्मनि नलाद्यभेदग्राही दमयन्त्यादिरतिमदभेदबोधो विषयासत्त्वेऽपि मानसो भ्रम एव रस इत्यास्थिषत।
परे तु श्रीशङ्कुकानुपायिनः नलत्वेन गृहीते नटात्मके पक्षेऽकृत्त्रिमत्वेन गृहीतैर्विभावादिहेतुभिर्नलादिगतरत्यादिरनुमीयमानो रस इत्युपागमन्।
अपरे च नाट्यादिना व्यक्तिविशेषवृत्तित्वनिरूपितत्वाभ्यां जनितेऽपि स्थायिज्ञाने भावनया तयोः प्रमोषाद् रतित्त्वादिनैव प्रतीतरत्यादेः स्ववृत्तिरत्यादिसाजात्येनानुभूतचररत्यादिसंस्कारोद्बोधे ज्ञानस्य स्वप्रकाशत्वेन सत्त्वोद्रेकेणानन्दरूपी रसः शब्दस्य भोगाख्यतृतीयव्यापारेण साक्षात् क्रियत इत्यभ्युपागुर्भट्टनायकानुवर्तिनः।
इत्थं स्वस्वशेमुषीविकाससाहायकमवलम्ब्य, पारमर्षसूत्रवटकसंयोगपञ्चमीनिष्पत्त्यर्थविविधतयाऽभियुक्ताः स्वस्वमतानुरूप्येण रसतत्त्वं प्राचीकशन्, परन्तु मुनिसंमतरहस्यानाकलाच्छास्त्रसिद्धान्तिनामननुमतान्येवाखिलान्येवोक्तमतानि तदनुसारीणीतराणि चानिर्दिष्टान्येकदेशिमतानि।
इमानि चाश्रद्धाबीजानि संक्षेपतः प्रधानानि—
तत्र प्रथमे तावद्विप्रकृष्टत्वादलौकिकत्त्वात् काल्पनिकारोपविषयत्वादर्थान्तरता।
द्वितीयस्मिन् विमतानिर्वचनीयत्वाद् भ्रमविषत्वात्तथात्त्वम्।
तृतीयेऽपि भ्रमारपदत्वं तादृशमेव।
तुरीये भेदग्रहेण बाधात् कथमपि भेदाग्रहेऽपि नलादौ भैम्यादिरतिग्रहस्य सामाजिकप्रवृत्त्यनौपयिकत्वात्, श्रव्यस्थले पक्षधर्मताज्ञानविरहाच्चाभिमतरसपरिपन्थिताऽनिबार्य्या।
पञ्चमे तु प्रमाणागोचरस्य शब्दनिष्टक्रमिकव्यापारत्रयस्यैवारुन्तुदतेति।
श्रीमदभिनवगुप्ताचार्यास्तु— विभावानुभावव्यभिचारिभिः संयोगाद्=व्यञ्जनाद्,रसस्य=स्थाप्युपहितचिदानन्दात्मनः, निष्पत्तिः=स्वरूपप्रकाश इति
सूत्रार्थं सिद्धान्तयन्ति स्म, फलबलकल्प्येन विभावादीनां साधारणीकरणात्मना व्यापारेण सर्वथा हि विशेषांशप्रभोषात् सामाजिकात्मनि स्थायी व्यज्यमानो रसः, दशमस्त्त्वमसीत्यादिरीतितः शब्दादप्यरोक्षज्ञानाभ्युपगमान्नपारोक्ष्यप्रयुक्तमपि वैरस्यम्, उक्तालौकिकव्यापारमहिम्ना लौकिककारणकार्य्यभावाभावाद्दुःखजनकतया क्लृप्तेभ्योऽपि सुखोत्पत्तेः सुरतक्षणवर्त्त्यधरदशनादाविवानुभविकत्त्वादन्तःकरणावृत्तित्वाञ्चालौकिकत्वं निष्प्रत्यूहमेव, कार्यत्त्वज्ञाप्यत्त्वाभावाद् भूतवर्त्तमानभविष्यत्त्ववैधुर्य्यात् सविकल्पकनिर्विकल्पकवेद्यत्त्वविरहाच्च तादृशत्वं सुचचं, नित्यत्वानन्दत्वस्वप्रकाशत्त्वादिकं त्वात्मत्वादेव निर्विवाद्मेव, उत्पादविनाशिकादाचित्कत्वादिव्यवहारा अपि चर्वणानिबन्धना भवितुमर्हन्ति, इत्येव निष्कर्षं तत्रभवन्मम्मटभट्टाः समाद्रियन्ते स्म, अन्येऽपि रसशास्त्रनिबन्धारः प्रायेणैनामेव दिशमनुसस्रुः।
इयाँस्तु विशेषः— सर्वमप्येतद्दिग्दर्शनविधया विनेयोन्मुखीकरणाय भरताचार्य्येण प्राकृतरसनिरूपणव्याजेन प्रदर्शितं, वास्तविकतयोद्देश्यभूतोऽप्राकृतरसस्तु श्रीभगवदालम्बनक एव तस्यैवाखिलशेषित्वेन चरमप्राप्यतया परमपुमर्थफलत्वेन चोपनिषत्स्मृतिपुराणादिषु व्यवस्थापितत्वेन निखिलशास्त्रदर्शनानां साक्षात्परम्परासाधारण्येन तन्निरूपणौपयिकभूयःप्रकारानाश्रित्य तत्रैव पर्यवसानस्याखिलसंमतत्वाद्।
एवं च निसर्गतोऽलौकिके तस्मिन् यादृगलौकिकतासंपादनाय नाट्यादिषु तादृशानन्दानुभवानुगुणसाधारणीकरणोररीकरणमुपेयते तादृशत्वस्यौत्सर्गिकतयाऽऽनन्दव्यक्तिप्रयोजकत्वांशे फलानुपधानेऽपि परत्रोपयोगित्वेन नाप्रयोजकताऽत एव प्रकारभेदोन्नयनायाचार्य्यैरेषभक्तिरसनाम्ना व्यपदिश्यते व्यतानि चायमितोऽपि बंहिष्ठविधाभिः श्रीकृष्णद्वैपायनादिभिराचार्यरिति न तिरोहितं विशेषं विदुषां,— रसमात्रस्य चास्य गौणमुख्यादिभेदाः तत्प्रभेदा विभावादीनां चातिभूमानं प्राप्ताविभेदप्रकाराः प्रबन्धेन बहुषु निबन्धेषु निरूपिताः तत्तत्प्रकीर्णत्वादिरूपैस्तत्सर्वं पुनरवसरे कदाऽपि विज्ञसहृदयेभ्य उपायनीकरिष्यते यत्तूपहृतं तन्निजसौजन्प्रगरिभ्णा मरालचातुरीधुरीणाः स्वपरविवेचनविधुरा नैरपेक्ष्यपवित्रमनसाऽङ्गीकुर्वन्त्वित्याशासानो विरमति मुधा विस्तराद्।
इदानीं ग्रन्थकृत्संबद्धं यथाविदितमितिहासप्रियलोकानां मुदेसूच्यते— अयं हि भगवद्भक्तिरसायनस्य कर्त्ता श्रीमधुसूदनसरस्वतीयतिः पूर्वबङ्गेषु फरीदपुरनगराभ्यर्णकोटालीपाड़ाग्रामस्थवैदिकश्रेणिकब्राह्मणरामचन्द्रभट्टाचार्य्यवंशजः पुरन्दरमिश्र-
तनयः कमलनयननामा श्रीनवद्वीपधामस्थाद् हरिरामतर्कवागीशादधीतान्वीक्षिकीकः विश्वेश्वरसरस्वतीतोऽधिगतप्रव्रज्यासंस्कारमधुसूदनसरस्वत्याख्यो माधवसरस्वतीकृपयाऽवाप्तब्रह्मविद्योऽधिकाशि चिरमुवासेति; वृत्तं श्रीनवद्वीपस्थनव्यन्यायास्मदध्यापकमहामहोपाध्यायपरमपूज्य श्री६यदुनाथशर्मनैयायिकसार्वभौमभट्टर्चायचरणेभ्योऽध्ययनवेलायामेव प्रसङ्गतोऽस्माभिराकर्णि।
काशीमधिवसंश्चायं महाभागोऽनेकानन्तेवासिनोऽध्यापयन्; तदानीं काशीस्थप्रतिष्ठितान्ववायिनं शेषोपाख्यगोविन्दनामानं छात्रमप्यध्यजीगपत्, स खलु श्रीमच्छङ्काराचार्य्यपादनिबद्धस्य “सर्ववेदान्तसिद्धान्तरहस्या"ख्यग्रन्थस्य टीकांनिर्मायान्ते—
“गुरुणा मधुसूदनेन यत्
करुणाऽऽपूरितचेतसोपदिष्टम्।
तदिदं प्रकटीकृतं मयाऽस्मिन्
भगवच्छंकरपूज्यपादमूले”
पद्यमदो निबबन्ध,
अयं च शेषगोविन्दपण्डितःकंसवधपारिजातहरणचम्पूकर्त्तुःशेषकृष्णविद्वद्वरस्य तनयः इत्यपि तट्टीकाऽवसाने चूर्णिकालेखतः स्पष्टमेव प्रतीयते,
शेष कृष्णमहोदयस्तु पेरुभट्टस्य विद्यागुरुरासीदिति तदानीन्तनभारतसम्राजः शाहजहाँनस्य विशिष्टप्रीतिकृपाऽऽस्पदतां भजमानस्य जगन्नाथपण्डितराजस्य रसगङ्गाधरारम्भपद्यांशतः स्फुटमवगम्यते, सुतरामुक्तसम्राट्समयासन्नकालवर्त्त्येव प्रकृतग्रन्थकार इति संभवमवलम्ब्य, षोडशी शताद्बी किलास्य समय इति निर्विचिकित्सम्, इदमित्थन्तया तु समयो नाधुनाऽप्यवधृतः।
श्रीमधुसूदनसरस्वतीकृता निबन्धास्त्वेतावन्तः समुपलभ्यन्ते—
१ अद्वैतसिद्धिः।
२ वेदान्तकल्पलता।
३ अद्वैततत्त्वरक्षणम्।
४ श्रीमद्भागवतटीका।
५ श्रीभगवद्गीताव्याख्या गूढार्थदीपिका।
६ संक्षेपशारीरकव्याख्या सारसंग्रहः।
७ श्रीशंकराचार्यपादकृताया “न भूमिर्न तोयमि’‘त्यादिदशश्लोक्या व्याख्या “सिद्धान्तविन्दु” नामिका।
८ पुष्पदन्ताचार्यकृतस्य श्रीशिवमहिमस्तवस्य हरिहरपरा टीका।
९ वोपदेवकृतहरिलीलाऽऽख्यग्रन्थस्य टीका।
१० भगवद्भक्तिरसायनम्।
एषु तुरीयादिनवमान्ता निबन्धा व्याख्याऽऽत्मकाः, शिष्टाश्चत्वारस्तु स्वतन्त्राः, तुरीयमात्रं विहाय सर्वे पूर्णाः सुप्रापाश्च।
प्रकृतस्य भगवद्भक्तिरसायनस्योल्लासत्रयघटितस्य टीकाऽपि मूलकृतैवारब्धा परन्तु प्रथमोल्लासमात्रं व्याख्यातुमपारि, परस्तादन्तरायाकुलतया नारचीति किंवदन्त्याभियुक्ती।
सोऽयं ग्रन्थः प्रौढिम्नोपयोगितयाऽनितरत्रोपलब्धप्रमाणतर्कयुक्त्युपष्टब्धत्वेन च जगतः कियदुपकारालङ्कर्मीणतामावक्ष्यतीति विचक्षणाः सर्वपथीनशेमुषीका निर्मत्सराः शास्त्रसिद्धान्तमर्मानुसंधित्सव एवालोचनेनावगन्तारस्तदर्थमिह नायास्यतेऽस्माभिः।
कतिपयाब्दतः पूर्वं पूर्वबङ्गान्तर्गतपावनाप्रान्तीयताडासाद्यधीशेन राज्ञाऽस्मदीयशिष्येण भगवदैकान्तिकभक्तिभाजा वनमालिदासमहोदयेन श्रीवृन्दावनसेविना श्रीभगद्राधाविनोदविग्रहं प्रतिष्ठाप्य; भक्तिकाण्डग्रन्थान् प्रचिकाशयिषुणाऽनेकानेनान् प्रकाशय्यैकदैवोऽपि ग्रन्थः; प्रख्यातचरवैदुषीकैर्द्वैतरहस्यप्रतिष्ठापकधुरीणैर्माध्वसंप्रदायाचार्यैरर्चनीयचरणैरस्मत्तातगोस्वामिश्रीगोपीलालमहाराजैर्महता यत्नेन संगृह्य पुरुषक्रमायाते स्वेन वर्धिते च श्रीवृन्दावनस्थेऽस्मदीयश्रीमदनगोपालपुस्तकालये रक्षितस्तत्र विराजमानेभ्यः संगीतागमपारदर्शिभ्यो माध्वसंप्रदायावार्येभ्यः पूज्यपादास्मद्भ्रातृविद्याभूषणश्रीवनमालिलालमहाराजेभ्य आनीय तदानींतत्संबद्धप्रबन्धकेन नित्यस्वरूपब्रह्मचारिणा परिचायितेन केनापि संशोधर्य्य मुद्रितः किन्तु शोधकानवधानादिनाऽत्यन्तमशुद्धिपूर्ण एव मूलकुट्टीकाऽन्वितः प्रथमोल्लासात्मकः प्रकाशमलभत,
तदेवं जातेऽप्यस्य मुद्रणेऽशुद्धिवंहिम्नाऽपूर्णतया चारुन्तुदतामवबुध्यः; पुनरस्य प्रकाशनमिच्छुभिरात्मीयैरनिवार्यानुरोधैरवशिष्टोल्लासद्वयटीकापूर्त्तयेभृशमनुरुध्यमानेन मया यथामति स्वरचितया प्रेमप्रपाऽऽरुपया टीकया चिटीकोल्लासहयमटीकि,
परन्त्त्वतदर्हेणापि जनेनैनेनानुष्ठीयमानं साहसमेतत्क्षमिष्यन्ते सौजन्यधौरेया इति मत्वैव कश्मीरजमहार्घवस्त्रे शणवासःखण्डस्यूतिः कृता।
तदिदृं पूर्णटीकया समं भक्तिरसायनं विषयसूच्यादिना सध्रीचीनं श्रीमता विद्याऽऽलयादिविविधानुकरणीयसत्कर्त्तव्यसार्थकीक्रियमाणकमलेन विज्ञवरेण विद्याऽनुरागिणा सौजन्यादिगुणशेबधिना भगवद्भक्तिभाजा श्रेष्ठिवर्येण गोयनकोपाख्येन श्रीगौरीशंकरगुप्तमहोदयेन प्रकाश्यमानायामच्युतग्रन्थमालायां द्वितीयपुष्पत्वेन काश्यां विकासितम्।
ग्रन्थस्यास्य पुस्तकमेकं पूर्वोक्तं मुद्रितमादिमोल्लासात्मकं सटीकं, द्वितीयं च मूलमात्रं श्रीवृन्दावनस्थमुक्तचरमस्मदीयं, तृतीयं तु नानाग्रन्थसंग्रहैकरसिकस्य काशिकस्य देशोपकारकत्वप्रसिद्धस्य बाबूश्रीशिवप्रसादगुप्तस्य प्रतिलिप्यात्मकं यत् किलात्रत्यविश्वविद्याऽऽलयेऽध्यापकेन श्रीमता एम्० ए० पदवीकेन महतोपनामकेन पण्डितश्रीगङ्गाप्रसादशर्ममहोदयेन स्वयं विलिख्यास्मभ्यं दत्तम्,
एवं भगवत्कृपया निर्विघ्नं समाप्तमुद्रणेऽस्मिन्निबन्धरत्ने कृतज्ञतापाशितोऽनेकधन्यवादैरुक्तमहतामहोदयमभिनन्दयन्, शेषे च येन सूचिपत्रादिसंपादनेन भूयानस्प्रदायासो विभज्यात्तः तं वस्तिमण्डलवास्तव्यं सरयूपारीणं पङ्किपावनान्वयजं काशिकविश्वविद्याऽऽलयीयोच्चश्रेणावायुर्वेदमधीयानं स्वशिष्यं श्रीब्रह्मशंकरशर्माणमप्यदभ्राशिषैधयमानः, प्रकृतनिबन्धरसास्वादलोलुपानभिरूपरूपान् मानुष्यकनान्तरीयकदोषजास्त्रुटीरुपेक्ष्यैतदालोचनायानुरुन्धन्ननावश्यकविस्तरादुपरमन्;
प्रीयतां चानेन व्यापारेण भगवान् श्रीराधिकारमणतनुः श्रीगौरकृष्ण इति प्रार्थयते—
श्रीमन्माध्वसंप्रदायाचार्य्यदार्शनिकसार्वभौमसाहित्यदर्शनाद्याचार्य्य-
तर्करत्नन्यायरत्न-
गोस्वामिदामोदरशास्त्री।
वै० सं० १९८४
श्रीवसन्तपञ्चम्यां—
काश्याम्
इति शम्।
<MISSING_FIG href=”../books_images/U-IMG-1733552141image_2024-12-07_114540304.png”/>
[TABLE]
| विषयसंख्या, | |
| २२ | तत्रैवानुमानम् |
| २३ | तत्रैव भाष्यवार्त्तिककारयोः सम्प्रतिः |
| २४ | अत्रैव विद्याऽऽरण्यमतम् |
| २५ | मानसवस्तुनो वहिर्भेदप्रतीतिः |
| २६ | बाह्याभ्यन्तरभावयोर्मिथो वैलक्षण्यान्तरम् |
| २७ | चित्तभावस्य विशेषनिरूपणोपक्रमः |
| २८ | चित्तस्य भगवद्विषयकतायामेव कृतकृत्यता |
| २९ | उपेक्षायाः प्रकृतानुपयोगित्वम् |
| ३० | शास्त्रनिर्दिष्टोपायैश्चित्तस्य भगवद्विषयकतासम्पादनम् |
| ३१ | शास्त्रीयोपायानाम् भूमिकाभेदः |
| ३२ | प्रथमा भूमिका महत्सेवा |
| ३३ | द्वितीया भूमिका तद्दयापात्रता |
| ३४ | तृतीयाभूमिका तद्धर्मेषु श्रद्धा |
| ३५ | चतुर्थीभूमिका हरि गुणश्रुतिः |
| ३६ | पञ्चभीभूमिका रत्यङ्कुरोत्पत्तिः |
| ३७ | षष्ठीभूमिका स्वरूपाधिगतिः |
| ३८ | सप्तमीभूमिका प्रेमबृद्धिः |
| ३९ | अष्टमीभूमिका परानन्दस्फूर्त्तिः |
| ४० | नवमीभूमिकास्वतो भगवद्धर्मनिष्ठा |
| ४१ | दशमीभूमिका तद्गुणशालिता |
| ४२ | एकादशीभूमिका प्रेम्णः परा काष्ठा |
| ४३ | स्वरूपभूमिकासाधनसहितभक्तिसामान्यनिरूपणोपसंहारपूर्वकप्रथमोल्लाससमाप्तिः |
| ४४ | द्वितीयोल्लासारम्भः |
| ४५ | भक्तिविशेषनिरूपणारम्भः |
| ४६ | चित्ताद्रुभेदाद्भक्तिभेदः |
| ४७ | कामस्य चित्ताद्रावकत्वोक्तिः |
| विषयसंख्या, | |
| ४८ | रतेर्द्वैविध्यम् |
| ४९ | क्रोधस्य चित्तद्रावकत्वोक्तिः |
| ५० | द्वैषस्य द्विविधफलकत्वम् |
| ५१ | उक्तद्वैविध्यप्रदर्शनम् |
| ५२ | भयलक्षणम् |
| ५३ | स्नेहलक्षणं तद्द्वैविध्यञ्च |
| ५४ | द्वितीयविधायाः पुनस्त्रैविध्यम् |
| ५५ | हर्षलक्षणं तत्प्रकाराश्च |
| ५६ | प्रथमविधानिरूपणम् |
| ५७ | द्वितीयविधानिरूपणम् |
| ५८ | तृतीयविधानिरूपणम् |
| ५९ | चतुर्थविधानिरूपणम् |
| ६० | शोकलक्षणम् |
| ६१ | प्रसङ्गप्राप्त दयालक्षणम् |
| ६२ | जुगुप्सात्रैविध्यम् |
| ६३ | दयोत्साहलक्षणम् |
| ६४ | दानोत्साहलक्षणम् |
| ६५ | धर्मोत्साहलक्षणम् |
| ६६ | शमलक्षणम् |
| ६७ | उक्तान्यभावानां चित्ताद्रावकत्वम् |
| ६८ | चितद्रुतीनां स्थायित्वम् |
| ६९ | भावषट्कस्याभक्तिरूपता |
| ७० | तत्र कारणम् |
| ७१ | भावविशेषस्य भगवद्विषयकत्वेऽप्यभक्तित्वम् |
| ७२ | तत्रैव हेतुः |
| ७३ | भक्तित्वयोग्यभावाः |
| ७४ | एषां भक्तिरसत्वम् |
| विषयसंख्या, | |
| ७५ | भक्तिरसनिर्देशः |
| ७६ | अमिश्ररतिनिर्देशः |
| ७७ | अमिश्ररतिस्थायिकरसाः |
| ७८ | श्रृङ्गाररसनिर्देशः |
| ७९ | रसानां पुनश्चातुर्विध्यम् |
| ८० | तेषां निरूपणम् |
| ८१ | भक्तेः प्रकारान्तराणि |
| ८२ | उक्तप्रकारेषु द्वयोरेव रतित्वम् |
| ८३ | प्रकारान्तरेण भक्तेः पुनस्त्रैविध्यम् |
| ८४ | उक्तत्रैविध्यविशदीकरणम् |
| ८५ | भक्तिम्प्रति द्रुतेः कारणत्वम् |
| ८६ | रतिप्रीत्योस्तादात्म्यम् |
| ८७ | रतेस्तारतम्यम् |
| ८८ | रतेः पुनरल्पाधिकत्वे तत्त्रैविध्यञ्च |
| ८९ | उक्तत्रैविध्यस्य स्थलप्रदर्शनम् |
| ९० | उक्तत्रैविध्याया भक्तेः पुनर्भेदाष्टकम् |
| ९१ | समारोपजायां विशेषः |
| ९२ | उक्तभक्तेः पुनद्वविध्यम् |
| ९३ | अनुपाधिभक्तिरेकैव |
| ९४ | सोपाधिभक्तिस्त्रिधा |
| ९५ | निरुपाधिभक्तिविवरणम् |
| ९६ | तत्रैव वैलक्षण्यम् |
| ९७ | साधनदिगुपदेशः |
| ९८ | गौणरतितो रसस्थितिः |
| ९९ | स्वरूपभाग्भक्तेः स्वरूपम् |
| १०० | भगवद्भक्ते रसत्वस्थापनम् |
| १०१ | तत्रैव प्रतिवन्दी |
| विषयसंख्या, | |
| १०२ | द्वितीयोल्लाससमाप्तिश्च |
| १०३ | तृतीयोल्लासारम्भः |
| १०४ | रससम्बद्धशङ्काचतुष्टयम् |
| १०५ | प्ररथमशङ्कोत्तरम् |
| १०६ | द्वितीयशङ्कोत्तरम् |
| १०७ | स्थायिनो द्वैविध्यम् |
| १०८ | तत्र कारणम् |
| १०९ | तस्य विशदीकरणम् |
| ११० | विभावतायोग्यवस्तुनिर्देशः |
| १११ | अनुभावतायोग्यतन्निर्देशः |
| ११२ | सञ्चारितायोग्यतन्निर्देशः |
| ११३ | मिलितानामेषां कारणत्वम् |
| ११४ | तेषामलौकिकत्वप्रतिपादनम् |
| ११५ | रसस्य द्वैविध्यम् |
| ११६ | मतान्तरे रसव्यवस्था |
| ११७ | रसस्य संलक्ष्यक्रमत्वे युक्तिः |
| ११८ | प्रसङ्गात् संलक्ष्यक्रमनिर्देशः |
| ११९ | असंलक्ष्यक्रमध्वनिविशदीकरणम् |
| १२० | प्रसङ्गतो रसप्रतिबन्धकनिर्देशः |
| १२१ | तत्साधकनिर्देशः |
| १२२ | पूर्वोक्ततृतीयशङ्कोत्तरम् |
| १२३ | शाब्दज्ञानस्याऽपि प्रत्यक्षत्वम् |
| १२४ | चतुर्थशङ्कोत्तरम् |
| १२५ | अन्योक्तरमवैलक्षण्ये सम्प्रतिपत्तिः |
| १२६ | निष्कृष्टसिद्धान्तः |
| १२७ | उक्तार्थे मीमांसकानुमोदनम् |
| १२८ | तत्रैव प्रभाकरानुमतिः |
| विषयसंख्या, | |
| १२९ | एकदेशिमतनिराकरणम् |
| १३० | शब्दस्य नियोगपरत्वनियमभङ्गः |
| १३१ | अत्रैवाद्वैतवादिनामप्यनुमोदनम् |
| १३२ | ग्रन्थस्योपसंहारः |
| ग्रन्थान्ते सौकर्थार्थं पार्थक्येन मूलकारिकापाठश्च |
<MISSING_FIG href=”../books_images/U-IMG-1733557500image_2024-12-07_131458616.png”/>
सटीकम्
भक्तिरसायनम्।
<MISSING_FIG href=”../books_images/U-IMG-17336522121124.PNG”/>
भक्तिसामान्यनिरूपणनामकः
प्रथम उल्लासः।
पदनखनिविष्टमूर्त्तिक एकादशतामिवावहन्निष्ठाम्।
यं समुपास्ते गिरिशस्तं वन्दे नन्दमन्दिरे कञ्चित्॥
ग्रन्थारम्भे सम्भावितविघ्ननिवारणबुद्ध्या भगवदनुध्यानरूपं मङ्गलमङ्गीकुर्वन्नादौ प्रेक्षापूर्वकारिप्रवृत्त्यङ्गतयाऽभिधेयप्रयोजनसम्बन्धानाचष्टे शिष्टाग्रणीर्ग्रन्थकारः—
नवरसमिलितं वा केवलं वा पुमर्थं-
परममिह मुकुन्दे भक्तियोगं वदन्ति।
निरुपमसुखसंविद्रूपमस्पृष्टदुःखं-
तमहमखिलतुष्ट्यै शास्त्रदृष्ट्या व्यनज्मि॥१॥
कर्मयोगोऽष्टाङ्गयोगो ज्ञानयोगो भक्तियोग इति चत्वारः पुमर्थत्वेन प्रसिद्धा योगाः।
योगास्त्रयो मया प्रोक्ता नृणां श्रेयोविधित्सया।
ज्ञानं कर्म्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्र चिद्॥
[श्री०भा० ११।२०]
इति भगवद्वचनेनाष्टाङ्गयोगोऽपि ज्ञानयोगान्तर्गतो द्रष्टव्यः।
मन एकत्र संयुञ्ज्याज्जितश्वासो जितासनः।
वैराग्याभ्यासयोगेन ध्रियमाणमतन्द्रितः॥
[श्री०भा० ११।९]
इत्यादिना तस्यापि व्युत्पादनात्।
तत्र “गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्म्मनामकरणान्नप्राशनचौलोपनयनानि चत्वारि वेदव्रतानि स्नानं सहधर्म्मचारिणीसंयोगः पञ्चानां यज्ञानामनुष्ठानमष्टकाद्या पार्वणः श्राद्धं श्रावण्याग्रहायणी चैत्र्याश्वयुजी चेति सप्त पाकयज्ञसंस्थाः, अग्न्याधेयमग्निहोत्रं दर्शपौर्णमासौ चातुर्मास्यान्याग्रयणेष्टिः निरूढपशुबन्धः सौत्रामणी चेति सप्त हविर्यज्ञसंस्थाः, अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडशी बाजपेयोऽतिरात्रोऽप्तोर्यामइति सप्त सोमसंस्था” श्चेत्यादिशास्त्रविहितो वर्णाश्रमधर्म्मरूपः कर्मयोगोऽन्तःकरणशुद्धिसाधनत्वेन तावत्पर्यन्तमनुष्ठेयः।
तावत् कर्म्माणि कुर्व्वीत नो निर्विद्येत यावता।
मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते॥
[श्री०भा० ११।२०]
इति भगवद्वचनाद्,
निर्व्विण्णचित्तं ब्राह्मणं ब्रह्मिष्ठं गुरुमुपासीतेत्यादिश्रुतेश्च।
अन्तःकरणशुद्धिसाधनत्वं च तस्य “धर्मेण पापमपनुदति तस्माद्धर्म्मं परमं वदन्ति”, “येन केन यज्ञेनापि वा दर्विहोमे नानुपहतमना एव भवती"त्यादिश्रुतिसिद्धम्।
ततश्चाद्रुतचित्तस्य निर्व्वेदपूर्वकं तत्त्वज्ञानं द्रुतचित्तस्य तु भगवत्कथाश्रवणादिभागवतधर्मश्रद्धापूर्व्विका भक्तिरित्यवधित्वेन द्वयमप्युपात्तम्, ततोऽन्तःकरणशुद्ध्याऽष्टाङ्गयोगमनुष्ठाय तैलधारावदविच्छिन्नभगवदेकाकारमत्ययपरम्पराऽऽत्मकैकाग्रतायोग्यंमनः सम्पादयेत्।
यदाऽऽरम्भेषु निर्व्विण्णो विरक्तः संयतेन्द्रियः।
अभ्यासेनात्मनो योगी धारयेदचलं मनः॥
धार्य्यमाणं मनो यर्हिभ्राम्यदाश्वनवस्थितम्।
अतन्द्रितोऽनुरोधेन मार्गेणात्मवशं नयेद्॥
[श्री०भा० ११।२०]
इत्यादिभगवद्भवचनात्।
तस्मिंश्च सति—
“अमानित्वमदम्भित्व” मित्याद्यारभ्य “एतज्ज्ञानमिति प्रोक्त-“मित्यन्तेन ग्रन्थेन [१३अ०७-११] भगवद्गीतोपनिषदुपदिष्टो ज्ञानयोगः प्रतिष्ठितो भवति देहेन्द्रियाद्यनासङ्गात्मकः।
साङ्ख्येन सर्व्वभावानां प्रतिलोमानुलोमतः।
भवाप्ययावनुध्यायेन्मनो यावत् प्रसीदति॥
निर्व्विण्णस्य विरक्तस्य पुरुषस्योक्तवेदिनः।
मनस्त्यजति दौरात्म्यं चिन्तितस्यानुचिन्तया॥
यमादिभिर्योगपथैरान्वीक्षिक्या च विद्यया।
ममार्च्चोपासनाऽऽद्यैर्वा नान्यैर्योग्यं स्मरेन्मनः॥
[श्री०भा० ११।२०]
इत्यादिभगवद्वचनात्।
अत्र “मनो यावत् प्रसीदती"ति भक्तियोग एव ज्ञानावधित्वेनोक्तः, भक्तियोगं विना मनसः सम्यक्प्रसादाभावाद्, “मनस्त्यजति दौरात्म्य"मित्यत्रापि स एव योगः। “ममार्च्चोपासनाऽऽद्यैर्वे"ति “मयि चानन्ययोगेन भक्तिरव्यभिचारिणी"ति ज्ञानयोगान्तर्गतया साधनभक्त्येत्यर्थः!
ततश्च—
प्रोक्तेन भक्तियोगेन भजतो माऽसकृन्सुने!।
कामा हृदय्या नश्यन्ति सर्वे मयि हृदि स्थिते॥
[श्री०भा० ११२०]
इत्यादिभगवद्वचनानुसारिण्या साधनभक्तिनिष्ठया निखिलमपि प्रमाणं भगवत्येव प्रतिष्ठापयतः सकलविषयविमुखमनसोमहाभागस्य कस्य चिद्भगवद्गुणगरिमग्रन्थनरूपग्रन्थश्रवणजनितद्रुतिरूपायां मनोवृत्तौ सर्वसाधनफलभूतायां गृहीतभगवदाकारायां विभावानुभावव्यभिचारिसंयोगेन रसरूपतया “विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्तिरि"ति;
विभावो द्विविधः— आलम्वनविभाव उद्दीपनविभावश्च, तत्रालम्वनविभावो भगवान्, उद्दीपनविभावः तुलसीचन्दनादिः, अनुभावो नेत्रविक्रियाऽऽदिः, व्यभिचारिणो भावानिर्वेदादयः, व्यक्तीभवद्भगवदाकारतारूपरसाख्यः स्थायी भावः परमानन्दसाक्षात्कारात्मकः प्रादुर्भवति स एव भक्तियोग इति तं परमं निरतिशयं पुरुषार्थं वदन्ति रसज्ञाः;
‘तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः।
न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिह॥
यत्कर्म्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यत्।
योगेन दानधर्म्मेण श्रेयोभिरितरैरपि॥
सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा।
स्वर्गापवर्गं मद्धाम कथञ्चिद्यदि वाञ्छति॥
न किञ्चित् साधवो धीरा भक्ता ह्येकान्तिनो मम।
वाञ्छन्त्यपि मया दत्तं कैवल्यमपुनर्भवम्॥
नैरपेक्ष्यं परं प्राहुर्निःश्रेयसमनल्पकम्।
तस्मान्निराशिषो भक्तिर्निरपेक्षस्य मे भवेत्॥
न मय्येकान्तभक्तानां गुणदोषोद्भवा गुणाः।
साधूनां समचित्तानां बुद्धेः परमुपेयुषाम्॥
[श्री०भा० ११।२०]
इत्यादिवचनानि तदनुभवितारश्च। दुःखासम्भिन्नसुखं हि परमपुरुषार्थ इति सर्वतत्त्रसिद्धान्तः। धर्मार्थकाममोक्षाश्चत्वारः पुरुषार्था इति प्रसिद्धिस्तु लाङ्गलं जीवनमितिवत् साधने फलत्ववचनादौपचारिकी, अतो न सुखमेव पुरुषार्थ इति पक्षहानिः। सुखं दुःखाभावश्च द्वौ पुरुषार्थाविति तार्किकाः, तन्न— लाघवेन सुखमात्रस्यैव पुरुषार्थत्वकल्पनात्। इच्छाजनकत्वे हि ज्ञानस्य सुखविषयकत्वमेवावच्छेदकं न तु सुखदुःखाभावान्यतरविषयकत्वंगौरवाद्, दुःखाभावस्य तु सुखपरिचायकत्वेनोपयोगः।
यत्तु न्यायनिबन्धकारैः शङ्कितं दुःखाभावस्य सुखार्थत्वेनैवोपयोगेऽभिहिते सुखस्यापि दुःखाभावार्थिनोपयोगो वक्तुं शक्यते विनिगमनाविरहात् तस्मादुभयं पुरुषार्थ इति।
तदयुक्तम्-व्याप्यव्यापकभावस्यैव विनिगमकत्वाद्, यदा सुखं तदा दुःखाभाव इति हि व्याप्तिः सर्वसम्मता निरुपाधिसहचारदर्शनाद्, अतो दुःखाभावस्य सुखकालेऽवश्यम्भावित्वात् सुखपरिचायकत्वमुपपद्यते तद्व्यापकत्वात्तस्य, यदा दुःखाभावस्तदा सुखमिति न तद्व्याप्तिः सुषुप्तिप्रलयादौ व्यभिचाराद्, अतो दुःखाभावस्य सुखाव्याप्यत्वान्नतत्परिचायकत्वं सुखस्य, व्यापकत्वं हि व्याप्यस्थितिहेतुत्वेनान्यथासिद्धं, सुखञ्च न दुःखाभावव्यापकमतस्तदेव स्वतन्त्रः पुरुषार्थः, दुःखाभावस्य सुखार्थत्वेनोपयोगे सर्वदुःखशून्यस्य दुःखाभावस्य मोक्षस्य पुरुषार्थत्वं न स्यादिति चेद्? दीयतां जलाञ्जलिस्तस्मै, परमानन्दरूपत्वेन तु तस्य पुरुषार्थत्वं वेदान्तविदो वदन्ति; अतो भगवद्भक्तियोगस्यापि दुःखासम्भिन्नसुखत्वेनैव परमपुरुषार्थत्वमित्याह—“निरुपमसुखसंविद्रुपमस्पृष्टदुःख"मिति।
एतेन भक्तिर्न पुरुषार्थो धर्म्मार्थकाममोक्षेष्वनन्तर्भाषादित्यादिकं सर्वमपास्तम्।
धर्म्मार्थकामानां स्वतःपुरुषार्थत्वाभावात् तज्जन्यसुखस्यैव पुरुषार्थत्वे गौरवादननुगमाच्च, धर्मजन्यत्वादिविशेषणं परित्यज्य सुखमात्रं पुरुषार्थ इति स्थिते समाधिसुखस्येव भक्तिसुखस्यापि स्वतन्त्रपुरुषार्थत्वात्, तस्य मोक्षसमीपवर्त्तितया मोक्षान्तर्भूतत्वे योगजधर्म्मजन्यतया धर्मान्तर्भूतत्वे वा; भक्तिसुखस्यापि भागवतधर्म्मजन्यतया धर्मान्तर्भावस्य श्रद्धाजडान् प्रति वक्तुं शक्यत्वाद् भक्तस्य संसारमोक्षस्यावश्यकत्वाद् मोक्षान्तर्गतो वा भक्तियोगः, तस्मात् पुरुषार्थचतुष्टयान्तर्गतत्वेन वा स्वातन्त्र्येण वाऽयं भक्तियोगः पुरुषार्थः परमानन्दरूपत्वादिति निर्व्विवादम्।
तस्य परमानन्दरूपतामुपपादयन्नवान्तरविभागमाह—
“नवरसमिलितं वा केवलं वे"ति, स्पष्टमेतदुपरिष्टात् करिष्यते। “मुकुन्द” इति भक्तियोगस्य विषयनिर्द्देशः सर्वान्तर्य्यामी सर्वेश्वर एव भक्तिरसालम्वनविभाव इति वक्ष्यते,
ग्रन्थादौ मङ्गलमाचरतां—
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम्।
येषां हृदि स्थितो साक्षाद् मङ्गलायतनं हरिः॥
इति स्मृतेः, “तमहं व्यनज्मी"ति अभिधेयसम्बन्धनिर्द्देशः, “शास्त्रदृष्ट्ये"त्यमूलत्वनिवारणम्, “अखिलतुष्ट्या"यिति प्रयोजननिर्देशः, साधूनां हि तुष्टिः स्वाभाविकी; अन्येषामप्येतद्ग्रन्थोक्तयुक्तिभिरसम्भावनाविपरीतभावनाऽऽदिनिवृत्त्याऽन्तःकरणशुद्धेर्हेतोरित्यभिप्रायः।
के पुनर्भक्तियोगस्य पुमर्थवादाः? शृणु तान्—
न ततोऽन्यः शिवः पन्था विशतः संसृताविह।
वासुदेवे भगवति भक्तियोगो यतो भवेत्॥
[श्री०भा० २।२]
धर्म्मः स्वनुष्ठितः पुंसां विश्वक्सेनकथासु यः।
नोत्पादयेद् यदि रतिं श्रम एव हि केवलम्॥
[श्री०भा० १।२]
दानव्रततपोहोमजपस्वाध्यायसंयमैः।
श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हिसाध्यते॥
[श्री०भा० १०।४७]
भगवान् ब्रह्म कार्त्स्नेन त्रिरन्वोक्ष्यमनीषया।
तदध्यवस्यत् कूटस्थो रतिरात्मन् यतो भवेत्॥
[श्री०भा० २।२]
एतावानेव लोकेऽस्मिन् पुंसां निःश्रेयसोदयः।
तीव्रेण भक्तियोगेन मनो मय्यर्पितं स्थिरम्॥
[श्री०भा० ३।२५]
या निर्वृतिस्तनुभृतां तव पादपद्म-
ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात्।
सा ब्रह्मणि स्वमहिमन्यपि नाथ! मा भूत्
किन्त्वन्तकोसिलुलितात् पततां विमानाद्॥,
[श्री०भा० ४।९]
इत्यादयः।
अत्र हि सर्वसुकृतसाधत्वेन सर्ववेदतात्पर्य्यविषयत्वेन चार्थान्निःश्रेयसनिर्वृत्तिशब्दाभ्याञ्च साक्षादेव पुरुषार्थत्वं दर्शितम्।
गीतासु च—
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना।
श्रद्धाबान् भजते यो मां स मे युक्ततमो मतः॥
[गीता ६]
इत्यादिना।
ननु भक्तियोगस्य साधनत्वमपि बोधयन्त्यन्ये बादाः—
वासुदेवे भगवति भक्तियोगः प्रयोजितः।
जनयत्याशु वैराग्यं ज्ञानं यत्तदहैतुकम्॥
[श्री०भा० १।२]
अकामः सर्वकामो वा मोक्षकाम उदारधीः।
तीव्रेण भक्तियोगेन यजेत पुरुषं परम्॥
[श्री०भा० २।३]
के चित् केवलया भक्त्या वासुदेवपरायणाः।
अधं धुन्वन्ति कार्त्स्न्येन नीहारमिव भास्करः॥
[श्री०भा० ६।१]
गीतासु च—
भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्॥
[१८ अ।५५]
इत्यादयः। अत्रान्यसाधनत्वेन साक्षादपुरुषार्थत्वं स्पष्टमेवोक्तम्?
अत्रोच्यते— फलसाधनभेदेन भक्तिद्वैविध्योपपत्तेरदोषः, तथा हि— “भजनमन्तःकरणस्य भगवदाकारतारूपं भक्ति"रिति भावव्युत्पत्त्या भक्तिशब्देन फलमभिधीयते, तस्य च निरतिशयपुमर्थत्वात् पूर्वोक्तवादानां प्रामाण्यमव्याहतम्, तथा “भज्यते सेव्यते भगवदाकारमन्तःकरणं क्रियतेऽनये"ति करणव्युत्पत्त्याभक्तिशब्देन श्रवणकीर्त्तनादि साधनमभिधीयते, तस्य च स्वयंपुरुषार्थत्वाभावात् साधनत्ववादानामपि प्रामाण्यमविरुद्धम्। यथा “विज्ञप्तिर्विज्ञान"मिति भावव्युत्पत्त्या ‘विज्ञानमानन्दोब्रह्म’ [३।९।२८ बृ०आ०उ०] इत्यत्र विज्ञानशब्दोब्रह्मणि वर्त्तते, “विज्ञायतेऽनेने’‘ति करणव्युत्पत्या ‘विज्ञानंयज्ञंतनुते’ [२।५।१। तैत्ति०उ०] इत्यादावन्तःकरणे वर्त्तते तद्वत्। एतच्च स्पष्टीकृतं प्रबुद्धेन—
स्मरन्तः स्मारयन्तश्च मिथोऽघोघहरं हरिम्।
भक्त्या सञ्जातया भक्त्या विभ्रत्युत्पुलकां तनुम्॥ इति
[श्री०भा० ११ स्क० ३ अ०]
अत्र करणव्युत्पत्त्या प्रथमभक्तिशब्दो भागवतधर्म्मेषु प्रयुक्तः, द्वितीयस्तु भावव्युत्पत्त्या फले।
इति भागवतान् धर्म्मान् शिक्षन् भक्त्या तदुत्थया।
नारायणपरो मायामञ्जस्तरति दुस्तराम्॥
[श्री० भा० ११ स्क० ३ अ०]
इत्युपसंहारे प्रथमभक्तिपदस्थाने भागवतधर्म्मशब्दप्रयोगाद्। न चाध्ययनस्याक्षरग्रहणात्मकस्याप्यक्षरग्रहणमेव फलं गुर्व्वधीनत्वतदनधीनत्वाभ्यां विशेषाद्, एवमत्रापि भागवतधर्म्मरूपा भक्तिरेव गुर्व्वधीनत्वेन साधनं तदनधीनत्वेन च निष्ठांप्राप्ता सती सैव फलमिति, न साधनफलभेदेन भक्तिद्वैविध्योपपत्तिरिति वाच्यम्,
क्व चिद्रुदन्त्यच्युतचिन्तया क्वचि-
द्धसन्ति नन्दन्ति वदन्त्यलौकिकाः।
नृत्यन्ति गायन्त्यनुशीलयन्त्यजं-
भवन्ति तूष्णीं परमेत्य निर्वृता इति
मध्ये कृतकृत्यत्वपरामर्शाद्, यदा ह्यध्ययनफलस्याक्षरग्रहणस्यार्थज्ञानानुष्ठानादिवद् भागवतधर्म्मजनिताया भक्तेरपि फलान्तरसाधनत्वमभविष्यत् तदा परं पुरुषार्थं प्राप्य निर्वृतास्तूष्णींभवन्तीति कृतार्थतां नावक्ष्यद्, अपि तु तदनन्तरमनुष्ठेयान्तरमपेक्षेत न च निर्दिशति; तस्मात् साधनफलभेदेन भक्तिद्वैविध्योपपत्तेः, साधनत्ववचनानां फलत्ववचनानाश्च विषयविभागेन सर्वत्राविरोधः सिद्धः, “अधं धुन्वन्ति कार्त्स्न्येने"त्यादिफलसाधनयोः समानफलरूपाया अपि भक्तेर्दृष्टादृष्टरूपताया वक्ष्यमाणत्वाद्; एवं च—
इदं हि पुंसस्तपसः श्रुतस्य वा
स्विष्टस्य सूक्तस्य च बुद्धदत्तयोः।
अविच्युतोऽर्थः कविभिर्निरूपितो-
यदुत्तमश्लोकगुणानुवर्णनम्॥
[श्री०भा० १ स्क० ५ अ०]
निवृत्ततर्षैरुपगीयमानाद्
भवौषधाच्छ्रोत्रमनोऽभिरामाद्।
क उत्तमश्लोकगुणानुवादात्
पुमान् विरज्येत विना पशुघ्नाद्
[श्री०भा० १० स्क० १ अ०]
इत्यादौ साधनवचनं फलपरतया योजनीयम्, ‘गोभिः श्रीणीतमत्सर’मितिवद्, अत्र हि गोप्रभवैः क्षीरैर्मत्सरं सोमं मिश्रयेदित्यर्थः स्थितः पूर्व्वतन्त्रे, उत्तरतन्त्रे च महतः परमव्यक्तमित्यत्राव्यक्तशब्दस्तत्प्रभवशरीरमाचष्ट इति स्थितमानुमानिकाधिकरणे “सूक्ष्मन्तु तदर्थत्वादि”त्यत्र। एवमत्रापि गुणानुवर्णनगुणानुवादशब्दौ तज्जन्यप्रीतिपरतया योज्यौ, अन्यथा परमपुरुषार्थत्वायोगात्।
ननु तर्हि नामान्तरेण ब्रह्मविद्यैव भगवद्भक्तिरित्युक्तं तथा हि—
तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति।
यज्ञेन दानेन तपसाऽनाशकेन
[४।४।२२। वृ०आ०उ०]
इत्यादिश्रुत्या सर्व्वसुकृतसाध्यत्वेन ब्रह्मविद्या प्रतिपादिता सर्वापेक्षाऽधिकरणे च तथैव निर्णीता, इहापि पूर्वोदाहृतवचनैः सर्व्वसुकृतसाध्यत्वेन लक्षणेन भगवद्भक्तेर्ब्रह्मविद्यारूपतायाः प्रतिपादनात्, तस्याश्च निरतिशयपुमर्थत्वस्य चतुर्लक्षणमीमांसयाऽ-
प्रतिपत्तिविप्रतिपत्तिनिवारणेन व्यवस्थापितत्वाद् व्यर्थोऽयं विचारारम्भ इति चेद्?
न–स्वरूपसाधनफलाधिकारिवैलक्षण्याद्भक्तिब्रह्मविद्ययोः, द्रवीभावपूर्व्विका हि मनसो भगवदाकारता सविकल्पकवृत्तिरूपा भक्तिः, द्रवीभावानुपेताऽद्वितीयात्ममात्रगोचरा निर्व्विकल्पकमनसो वृत्तिर्ब्रह्मविद्या, भगवद्गुणगरिमग्रन्थनरूपग्रन्थश्रवणंभक्तिसाधनम्, ‘तत्त्वमस्या’दिवेदान्तमहावाक्यं ब्रह्मविद्यासाधनम्, भगवद्विषयकप्रेमप्रकर्षो भक्तिफलम् सर्व्वानर्थमूलाज्ञाननिवृत्तिर्ब्रह्मविद्याफलम्, प्राणिमात्रस्य भक्तावधिकारः, ब्रह्मविद्यायान्तु साधनचतुष्टयसम्पन्नस्य परमहंसपरिव्राजकस्याधिकारः। सर्व्वयज्ञदानादिसुकृतसाध्यत्वं समानं भक्तिब्रह्मविद्ययोः स्वर्गविविदिषयोरिव, यथा “स्वर्गकामो दर्शपौर्णमासाभ्यां यजेते”ति स्थित एव स्वर्गसाधनत्वे सर्व्वकामेभ्यो “दर्शपौर्णमासा"विति वाक्येन फलान्तरसाधनत्वमपि बोध्यते, तथा"तमेतं वेदानुवचनेने"त्यादिना स्थित एव फलसाधनत्वे संयोगपृथकत्वन्यायेन विविदिषासाधनत्वमपि बोध्यते, एवं भक्तिब्रह्मविद्ययोरपि स्वर्गब्रह्मविद्ययोरिव फलसाधनभावाभावश्च तुल्यसाधनसाध्यत्वञ्च भविष्यति, सामग्र्यैक्ये हि कार्य्यैक्यं न तु कारणमात्रैक्येऽतिप्रसङ्गात्।
ननुब्रह्मविद्याऽतिरिक्तत्वे भक्तेः स्वर्गादिवद्निरतिशयपुरुषार्थत्वं न स्यादिति चेद्?
न–स्वर्गादेर्नियतदेशकालशरीरेन्द्रियादिभोग्यत्वेन सर्वत्रोपभोक्तुमशक्यत्वात् क्षयित्वपारतन्त्र्यलक्षणदुःखद्वयानुविद्धत्वेन निरतिशयत्वाभावेऽपि; भक्तिसुखधारायाः सर्वदेशकालशरीरेन्द्रियादिसाधारण्येन ब्रह्मविद्याफलवदुपभोक्तुं शक्यत्वात् क्षयित्वपारतन्त्र्यलक्षणद्वयानुरोधाभावेन निरतिशयित्वोपपत्तेः, तदुक्तम्—
हित्वा स्वधर्म्मं चरणाम्बुजं हरे-
र्भजन्नपक्वोऽथ पतेत्ततो यदि।
यत्र क्ववाऽभद्रमभूदमुष्य किं-
को वाऽर्थ आप्तो भजतां स्वधर्म्मतः॥
[श्री०भा० १ स्क० ५ अ०]
न वै जनो जातु कथञ्चनाव्रजे-
न्मुकुन्दसेव्यन्यवदङ्ग! संसृतिम्।
स्मरन्मुकुन्दाङ्घ्र्युपगूहनं पुन-
र्विहातुमिच्छेन्न रसग्रहो यतः॥
[श्री०भा० १ स्क० ५ भ०]
सकृन्मनः कृष्णपदारविन्दयो-
र्निवेशितं तद्गुणरागि यैरिह।
न ते यमं पाशभृतश्च तद्भटान्-
स्वप्नेऽपि पश्यन्ति हि चीर्णनिष्कृताः॥
[श्री०भा० ६ स्क० १ अ०]
इत्यादि। अत एवापत्तावपि दुःखासंस्पर्शित्वप्रतिपादनायास्पृष्टदुःखमिति विशेषणमुपात्तम्, अत एव च न परिणतिविरसेन स्वर्गादिना साम्यम्, एतेन लौकिकरसवैलक्षण्यमपि व्याख्यातम्।
तस्यापि शास्त्राविहितत्वेन पापक्षयाहेतुत्वेनापत्तौ दुःखसंस्पर्शित्वात्, भक्तेस्तु दृष्टादृष्टफलतया महान् विशेषो वक्ष्यते।
नन्वेवं सति भक्तिसुखाद्वैराग्यासम्भवेन मुमुक्षुत्वासम्भवात्तदधिकारिकचतुर्लक्षणमीमांसाऽऽरम्भो न स्यादिति चेत्? सत्यम्; भक्तिसुखासक्तान् प्रति तस्या अनारम्भाद्, भजनीयस्वरूपनिर्णयार्थं भक्तानामपि तद्विचारस्यावश्यकत्वाच्च, भक्तिसुखाद्वैराग्यं न स्यादिति त्विष्टमेव; नापादितम्।
आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे।
कुर्व्वन्त्यहैतुकीं भक्तिमित्थम्भूतगुणो हरिः॥
[श्री०भा० १ स्क० ७ भ०]
इत्यादिना जीवन्मुक्तानामपि भगवद्भक्तिप्रतिपादनात्॥१॥
तस्मादस्य ग्रन्थस्य नामकथनद्वारा प्रयोजनमुद्दिशति—
संसाररागेण बलीयसा चिरं-
निपीडितैस्तत्प्रशमेऽतिशिक्षितम्।
इदं भवद्भिर्बहुधा व्ययातिगं-
निपीयतां भक्तिरसायनं बुधाः॥२॥
स्पष्टम्॥२॥
भगवद्भक्तेरसरूपतया पुमर्थतां वक्तुं प्रथमं सामान्यलक्षणमाचष्टे—
द्रुतस्य भगवद्धर्म्माद्धारावाहिकतां गता।
सर्वेशे मनसो वृत्तिर्भक्तिरित्यभिधीयते॥३॥
भगवद्धर्म्मश्च भगवद्गुणश्रवणं न तु धर्म्मबुद्ध्या तदनुष्ठानपर्य्यन्तं विवक्षितम्—
“तस्मात् केनाप्युपायेन मनः कृष्णे निवेशयेद्”
[श्री०भा० ७ स्क० १ अ०]
इंत्यत्रापि केनाप्युपायेनेति धर्म्मबुद्ध्याऽनुष्ठितेनायत्नसिद्धेन वा भगवद्गुणश्रवणेनेत्यर्थः। तेन शिशुपालादौ नाव्याप्तिः, भगवद्गुणश्रवणेन वक्ष्यमाणकामक्रोधाद्युद्दीपनद्वारा द्रवावस्थां प्राप्तस्य चित्तस्य धारावाहिकी या सर्वेशविषया वृत्तिर्भगवदाकारतेत्यर्थ; तदाकारतैव हि सर्वत्र वृत्तिशब्दार्थोऽस्माकं दर्शनेऽतः सा भक्तिरित्यभिधीयते शास्त्रविद्भिः,
तथा च शास्त्रम्—
मद्गुणश्रुतिमात्रेण मयि सर्व्वगुहाशये।
मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ॥
लक्षणं भक्ति योगस्य निर्गुणस्य ह्युदाहृतम्।
[श्री०भा० ३ स्क० २९ अ०]
अत्राविच्छिन्नेति धारावाहिकता दर्शिता, यथा गङ्गाम्भस इति दृष्टान्तेन दार्ष्टान्तिकेऽपि मनसि द्रवावस्था, मयि सर्व्वगुहाशये मनोवृत्तिरिति सर्वेशाकारता, तेनाद्रवावस्थायां धारावाहिक्यपि वृत्तिर्द्रवावस्थायामाशु विनाशिनी सा द्रवत्वधारावाहिकत्वप्रयुक्ताऽप्यसर्वेशविषया न भक्तिरित्युक्तम्॥३॥
तदेव स्पष्टयितुं चित्तचेष्टितमाचष्टे—
चित्तद्रव्यं हि जतुवत् स्वभावात् कठिनात्मकम्।
तापकैर्विषयैर्योगे द्रवत्वं प्रतिपद्यते॥४॥
जतुनो हि दहनात्मकतापकयोगमन्तरेण काठिन्यशान्तिर्न भवति; सौरालोकादियोगे तु शिथिलीभावमात्रं न द्रुतिरिति सर्व्वसिद्धम्, एवं चित्तस्यापि वक्ष्यमाणकामादिविषयात्मकतापकसंयोगं विना न द्रवीभावो; विषयमात्र संयोगपाटवे तु शिथिलीभावमात्रमिति तापकपदोपादानेन सूचितम्॥४॥
तानेव तापकानाह—
कामक्रोधभयस्नेहहर्षशोकदयाऽऽदयः।
तापकाश्चित्त जतुनस्तच्छान्तौ कठिनन्तु तत्॥५॥
एषां प्रत्येकं लक्षणं भेदांश्च वक्ष्यति, यद्विषये कामादीनामुद्रेकस्तद्विषये चित्तस्य द्रवीभावः; पुनर्विषयान्तरसश्चारादिना कामादितिरोभावे काठिन्यमेवेत्यर्थः॥५॥
द्रवीभावप्रयोजनमाह—
द्रुते चित्ते विनिक्षिप्तः स्वाकारोयस्तु वस्तुना।
संस्कारवासनाभावभावनाशब्दभागसौ॥६॥
न तु विनश्यता ज्ञानेन जनितस्तार्किकादिपरिकल्पित आत्मगुण इत्यर्थः॥६॥
शिथिलीभावमात्रन्तु मनो गच्छत्यतापकैः।
न तत्र वस्तु विशति वासनात्वेन किञ्चन॥७॥
तु; ईषदर्थे, अतापकैरीषत्तापकैः सौरालोकादिस्थानीयैर्विषयैर्योगे सति मनः किञ्चिदवयवविशरणमात्रं प्राप्नोति, अतः शिथिलीभूते जतुनीव तादृशे मनसि न किञ्चिद्वस्तु वासनात्वेन विशति, किन्तु वासना वैलक्ष्यण्येन तदाभासत्वेनैव विशतीत्यर्थः॥७॥
चित्तद्रुतौ भवति वासना; शिथिलीभावे तु वासनाऽऽभास इत्यत्र विनिगमकमाह—
द्रवतायां प्रविष्टं सद्यत् काठिन्यदशां गतम्।
चेतः पुनर्द्रुतौ सत्यामपि तन्नैव मुञ्चति॥८॥
द्रवावस्थाप्रविष्टहिङ्गलादिरङ्गस्य जतुनः पुनः काठिन्यापनयनेन काष्ठादिसंयोगे जायमाने यथा स एव रङ्गः प्रतिभासते शैथिल्यावस्थाप्रविष्टस्तु रङ्गोन तथा, एवं द्रवावस्थे चेतसि यद्वस्तुस्वरूपं प्रविष्टं सत् काठिन्यदशापर्य्यन्तं स्थितं तत् पुनर्द्रवीभावान्तरेण विषयान्तरे गृह्यमाणेऽपि प्रकाशमानत्वाच्चेतसा न त्यज्यतेऽतः सा वासनेत्युच्यते, शैथिल्यावस्थाप्रविष्ठन्तु काठिन्यावस्थापर्य्यन्तं न तिष्ठति तिष्ठद्वा विषयान्तरग्रहणसमये चित्तेन त्यज्यत इति स वासनाऽऽभास इत्यर्थः। अत एव यस्यैव द्रुते चित्ते
भगवदाकारता प्रविष्टा स सर्व्वदा तद्भानात् कृतकृत्यो भवतीत्युक्तम्,
सर्व्वभूतेषु यः पश्येद्भगवद्भावमात्मनः।
भूतानि भगवत्यात्मन्येष भागवतोत्तमः॥
[श्री०भा० ११ स्क० २ अ०]
इति सर्व्वभूतग्रहणसमयेऽपि द्रवावस्थामविष्टाया भगवदाकारताया एव प्रकाशनाज्जतुरङ्गवत् सर्व्वभूते भगवद्भानोपपत्तिः स च भागवतोत्तमः, एतादृशसंस्कारस्याविनाशित्वादिति भावः। अत एव ब्रह्मविदेवैतादृश इत्यपास्तम्, तस्य ब्रह्मविदो द्रवावस्थाया अनपेक्षितत्वेनोत्तममध्यमप्राकृतभक्तेष्वगणनीयत्वाद्, अत्र तु द्रवावस्थापरिपुष्टौ “सर्व्वभूतेषु यः पश्ये” दित्यवस्थायां भागवतोत्तमः उक्तः, ईषद्द्रवावस्थायान्तु वासनाऽऽभासेन—
ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च।
प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः॥
[श्री०भा० ११ स्क० २ अ०]
इत्युक्तम्, एतादृगवस्थावतोऽग्रे द्रवावस्थाया उत्पत्स्यमानत्वादित्यर्थः। यस्य तु चित्ते न द्रवावस्थां पुष्टा नापीषदुत्पन्ना किन्तु स्वयं तदर्थं भागवतधर्म्मान् श्रद्धयाऽनुतिष्ठति स काठिन्यावस्थाविनाशसामग्य्रविशिष्टः—
अर्च्चायामेव हरये पूजां यः श्रद्धयेहते।
न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः॥
[श्री०भा० ११ स्क० २ अ०]
इत्युक्तम्, प्रकृतिरारम्भस्तस्यां वर्त्तमानः प्राकृतः, साम्प्रतं प्रारब्धभक्तिसाधनानुष्ठान इत्यर्थः।
इयमेव द्रवावस्था प्रणयानुरागस्नेहादिशब्दैरपि सङ्कीर्त्त्यते, यथा—
विसृजति हृदयं न यस्य साक्षा-
द्धरिरवशाभिहितोऽप्यघौघनाशः।
प्रणयरशनया घृताङ्घ्रिपद्मः-
स भवति भागवतप्रधान उक्तः॥
[श्री०मा० ११ स्क० २ अ०]
प्रणयो द्रवावस्था स एव रशना रज्जुबद् बन्धनसाधनं तस्यां द्रवावस्थायां प्रविष्टस्य पुनर्निर्गमनाभावादित्यर्थः, द्रवावस्थापविष्टभगवत्स्वरूपभानस्य त्रिविधत्वादुत्तमभागवतोऽपि त्रिविधः, तत्राद्यं प्रपञ्चसत्यत्वभानसहितं यथा—
खं वायुमग्निं सलिलं महीञ्च
ज्योतींषि सत्त्वानिदिशो द्रुमादीन्।
सरित्समुद्राँश्च हरेः शरीरं-
यत् किञ्च भूतं प्रणमेदनन्यः॥
[श्री०भा० ११ स्क० २ अ०]
इत्यादि, अनेन प्राकृतो भागवतोत्तमः। द्वितीयं प्रपञ्चमिथ्यात्वभानसहितं यथा—
तस्मादिदं जगदशेषमसत्स्वरूपं-
स्वप्नाभमस्तधिषणं पुरुदुःखदुःखम्।
त्वय्येव नित्यसुखबोधतनावनन्ते
मायात उद्यदपि यत् सदिवावभाति॥
[श्री०भा० १० स्क० १४ अ०]
अनेन मध्यमो भागवतोत्तमः। तृतीयं प्रकारद्वयेनापि प्रपञ्चभानरहितं यथा—
ध्यायतश्चरणाम्भोजं भावनिर्वृतचेतसा।
औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन्मे शनैर्हरिः॥
प्रेमातिभारनिर्भिन्नपुलकाङ्गोऽतिनिर्वृतः।
आनन्दसम्प्लवे लीनो नापश्यमुभयं मुने!॥
[श्री० भा० १ स्क० ६ अ०]
अनेनोत्तमो भागवतोत्तमः साधनाभ्यासपरिपाकेणोत्तम भूमिलाभः॥८॥
द्रवावस्थाप्रविष्टविषयाकारस्यानपायित्वे स्थायिशब्दोऽपि तत्र मुख्य एव न पारिभाषिक इत्याह—
स्थायिभावगिराऽतोऽसौ वस्त्वाकारोऽभिधीयते।
व्यक्तश्च रसतामेति परानन्दतया पुनः॥९॥
विभावानुभावव्यभिचारिसंयोगेनाभिव्यक्तः स्थायिभाव एव सभ्याभिनेययोर्भेदतिरोधानेन सभ्यगत एव सन् परमानन्दसाक्षात्काररूपेण रसतामाप्नोतीति रसविदां मर्य्यादा।
तदुक्तमाचार्य्यभरतेन—
‘विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्ति’रिति, अतो भक्तेरपि रसतां वक्तुं स्थायिभावो निरूप्यत इति भावः॥९॥
स्थायिभावस्य रसत्वोपपत्तये परमानन्दरूपतामुपपादयति—
भगवान् परमानन्दस्वरूपः स्वयमेव हि।
मनोगतस्तदाकाररसतामेति पुष्कलम्॥१०॥
बिम्बमेव ह्युपाधिनिष्ठत्वेन प्रतीयमानं प्रतिबिम्बमित्युच्यते, परमानन्दश्च भगवान् मनसि प्रतिबिम्बितः स्थायिभावतामासाद्य रसतामापादयतीति भक्तिरसस्य परमानन्दरूपत्वं निर्व्विवादम्, वाप्यालम्वनविभावस्थायिभावयोरैक्यं बिम्बप्रतिबिम्बभावत्वेन भेदस्य व्यवहारसिद्धत्वाद्, ईशजीवयोरिव॥१०॥
नन्वेवं भगवदाकारस्य परमानन्दरूपस्य स्थायिभावत्वेन भक्तिरसस्य परमानन्दरूपत्वमस्तु, कान्ताऽऽदिविषयाणां शृङ्गारादिरसानामतथात्वात् कथं परमानन्दरूपता? इत्यत आह—
कान्ताऽऽदिविषयेऽप्यस्ति कारणं सुखचिद्धनम्।
कार्य्याकारतया भेदेऽप्यावृतं मायया स्वतः॥११॥
“आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते आनन्देन जातानि जीवन्ति आनन्दं प्रयन्त्यभिसंविशन्ति” (तै० उ० भृ० व०) इत्यादिश्रुत्या हि परमानन्दरूपं ब्रह्म जगदुपादानमिति प्रतिपादितम्। “जन्माद्यस्य यतः” (ब्र० सू० १ अ० १ पा० २ सू०) इति न्यायेन तथैव निर्णीतम्। उपादानाभिन्नञ्च सर्व्वं कार्य्यं मृदभिन्नघटवत् सर्वत्र दृष्टम् “सर्व्वं खल्विदं ब्रह्म” (छा० ३ अ० १५ ख०) “इदं सर्व्वं यदयमात्मा” (बृ० अ० ४) “सदेव सोम्येदमग्र आसीत्” (छा० ६ अ० २ ख०) इत्यादिश्रुतिभिश्च तथैव प्रतिपादितम् “तदनन्यत्वमारम्भणशब्दादिभ्यः” (ब्र० सू० २ अ० १ पा० १५ सू०) इति न्यायेन च निर्णीतम्। एवं सत्यप्यखण्डानन्दाद्वयाकारेण तदभाने हेतु मायानिमित्तावावरणविक्षेपावित्याह–कार्य्येति। अकार्य्यस्यापि कार्य्याकारेण भानं विक्षेपः, अखण्डानन्दाकारेण स्वतोऽभानमावरणम्।
तदुक्तम्—
ऋतेऽर्थं यत प्रतीयेत न प्रतीयेत चात्मनि।
तद्विद्यादात्मनो मायां यथा भासो यथा तमः॥इति ११॥
[श्री०भा० २ स्क० ९ अ०]
कथं तर्हि तस्य भानमित्यत आह—
सदज्ञातञ्च तद् ब्रह्म मेयं कान्ताऽऽदिमानतः।
मायावृतितिरोधाने वृत्त्या सत्त्वस्थया क्षणम्॥१२॥
अज्ञातज्ञापकत्वेनैव हि सर्व्वेषां मानानां मानता, अन्यथा स्मृतेरपि मानताऽऽपत्तेः, अज्ञातञ्च स्वप्रकाशतया भासमानचैतन्यमेव, न जडं तस्य भानाप्रसक्त्या तत्रावरणकृत्याभावाद्, अतः कान्ताऽऽदिगोचरमानानामज्ञातज्ञापकत्वेन प्रामाण्याय तत्तदवच्छिन्नचैतन्यमेव विषयो वाच्यः, अन्यथा तदयोगात्, तथा च सात्त्विक्या प्रमाणजनितापरोक्षवृत्त्याऽऽवरणतिरोभावे सति तत्तद्विषयावच्छिन्नत्वेन भासते, वस्तुतः परमानन्दरूपविषयोपादानचैतन्यावच्छिन्नचैतन्यस्वरूपाभानाच्च न सद्यो मुक्तिः स्वप्रकाशभङ्गो वा॥१२॥
ततः किमत आह—
अतस्तदाविर्भावित्वं मनसि प्रतिपद्यते।
किञ्चिन्न्यूनाञ्च रसतां याति जाड्यविमिश्रणात्॥१३॥
विषयावच्छिन्नचैतन्यमेव द्रवावस्थमनोवृत्त्यारूढतयाऽऽविर्भावित्वं प्राप्य रसतां प्राप्नोतीति न लौकिकरसस्यापि परमानन्दरूपताऽनुपपत्तिः, अत एवानवृच्छिन्नचिदानन्दघनस्य भगवतः स्फुरणाद्भक्तिरसेऽत्यन्ताधिक्यमानन्दस्य, लौकिकरसे तु विषयावच्छिन्नस्यैव चिदानन्दांशस्य स्फुरणात् तत्रानन्दस्य न्यूनतैव, तस्माद्भक्तिरस एव लौकिकरसानुपेक्ष्य सेव्य इत्यर्थः॥१३॥
इति वेदान्तसिद्धान्तस्थापिना रसतोदिता।
साङ्ख्यसिद्धान्तमाश्रित्याप्यधुना प्रतिपद्यते॥१४॥
स्थायिनो रसतेत्यनुषङ्गः॥१४॥
एतावदेव व्युत्पादयितुं साङ्ख्यसिद्धान्तं व्युत्पादयति—
तमोरजःसत्त्वगुणा मोहदुःखसुखात्मकाः।
तन्मयी प्रकृतिर्हेतुः, सर्व्वं कार्य्यञ्च तन्मयम्॥१५॥
तथा हि— साङ्ख्या एवमाचक्षते— सर्व्वे भावाः सुखदुःखमोहात्मकैकसामान्यप्रकृतिकाः सुखदुःखमोहात्मकत्वेन प्रतीयमानत्वात्।ये यदात्मकत्वेन प्रतीयन्ते ते तदात्मकसामान्यप्रकृतिकाः, यथा मृदात्मकतया प्रतीयमाना मृत्सामान्यप्रकृतिका घटशरावादयः, अनुगतकारणातिरिक्तसामान्यानभ्युपगमाद्, न घटत्वादिना व्यभिचारः, सुखदुखमोहात्मकत्वेन चैते प्रतीयन्ते तस्मात्तत्सामान्यप्रकृतिका इत्यनुमानेन सुखदुःखमोहात्मकप्रकृतिसिद्धिः, तत्र यत् सुखं तत् सत्त्वं, यद्दुःखं तद्रजः, यो मोहोविषादः स तम इति तस्मात्त्रिगुणात्मकतासिद्धिः।
न च परमाणुभिर्ब्रह्मणा चार्थान्तरता, परमाणुवादे कार्य्यकारणयोर्भेदाभ्युपगमेन तेषामतीन्द्रियत्वेन च तदात्मकतया कस्यापि कार्य्यस्य प्रतीयमानत्वाभावात् परमाणुषु प्रमाणाभावाच्च सर्गाद्यकालीनकार्य्योपादानानुमानस्य लाघवतर्कसहकारेणैकोपादानविषयकत्वात् क्षित्यादिकर्त्रनुमानस्यैककर्त्तृविषयकत्ववत् कार्य्यकारणयोरभेदाभ्युपगमेऽपि न जगतो ब्रह्मात्मना प्रतीयमानत्वं सम्भवति, ब्रह्मणः सर्व्वलौकिकमानागोचरत्वाभ्युपगमात्, सद्रूपेण ब्रह्मापि सर्व्वप्रमाणगोचरः, तथा च तदात्मना कार्य्यस्य प्रतीयमानत्वमस्त्येवेति चेत्? किमनेनाकाण्डताण्डवेन ब्रह्मणोनिःसामान्यविशेषत्वेन नानारूपासम्भव इति साङ्ख्यसङ्ख्यावतामभिमानः॥१५॥
ननु भवतामसिद्धो हेतुः सुखदुःखमोहानामान्तराणां बाह्यघटादितादात्म्यासम्भवात्, सम्भवे वा सर्व्वं वस्तु सर्व्वंप्रमातारं प्रति त्र्याकारतया प्रथेत? इत्यत आह—
त्रिगुणात्मकमेकैकं वस्तु त्र्याकारमीक्ष्यते।
निजमानससङ्कल्पभेदेन पुरुषैस्त्रिभिः॥१६॥
न तावदान्तरबाह्ययोस्तादात्म्यसम्भवः, बाह्यानामेव मनःप्रतिबिम्बितत्वेनान्तरत्वात्, नापि सर्व्वान प्रति तुल्यभानप्रसङ्गः तत्तद्वासनारूपसहकारिभेदात्॥१६॥
एतदेवोदाहरति—
कामिन्याः सुखता भर्त्रा सपत्न्या दुःखरूपता।
तदलाभात्तथाऽन्येन मोहत्वमनुभूयते॥१७॥
भर्त्तारं प्रति हि कामिन्याः सत्त्वांश एवोद्रिच्यते, सपत्नीं प्रति तु रजोंऽश एव, तां कामयमानमन्यञ्च तामविन्दन्तं तमोंऽश एव, अतः क्रमेण तेषु सुखदुःखविषादाः प्रादुर्भवन्त्यतो व्यवस्थोपपत्तिः वासनाभेदेनैकस्मिन्नपि भानभेदो भट्टाचार्य्यैरप्युक्तः
“परिव्राङ्कामुकशुनामेकस्यां प्रमदाननौ।
कुणपः कामिनी भक्ष्यमिति तिस्रो विकल्पना” इति॥१९॥
फलितमाह—
एवं सति सुखाकारः प्रविष्टो मानसे यदा।
तदा स स्थायिभावत्वं प्रतिपद्य रसो भवेत्॥१८॥
क्रोधादिभावस्यापि रजस्तमोऽमिश्रितत्वोद्रेकनिबन्धनचित्तद्रुतिफलितत्वात् सुखमयत्वमित्यभिप्रायः, द्रवीभावस्य सत्त्वधर्म्मत्वात्तं विना च स्थायिभावासम्भवात् सत्त्वगुणस्य च सुखरूपत्वात सर्व्वेषां भावानां सुखमयत्वेऽपि रजस्तमोंऽशमिश्रणात्तारतम्यमवगन्तव्यम्, अतो न सर्व्वेषु रसेषु तुल्यसुखानुभवः। उपरिष्टाच्च स्पष्टीकरिष्यते॥१८॥
अत्राहुस्तार्किकाः— नित्यं निरवयवमणुपरिमाणं मनस्तस्य कथं सावयवदृष्टान्तेन द्रवीभावद्वारा विषयाकारपरिणामो वक्तुं शक्यते? न हि निरवयवस्य ह्रासवृद्धी सम्भवतः, तस्मादुक्तस्थायिभावनिरूपणमसङ्गतमिति तत्राह—
परमाण्वेकरूपन्तु चित्तं न विषयाकृति।
इत्यादिमतमन्येषामप्रामाण्यादुपेक्षितम्॥१९॥
आदिशब्दाद्विभु मन इति प्राभाकराणां; समनन्तरप्रत्यय एवोत्तरज्ञानकारणतया मन इति सौगतानाञ्च; मतं सङ्गृहीतम्। अयं भावः— करणत्वात् परमाण्वादिवत्, इन्द्रियत्वाच्चक्षुरादिवत् मनसो मध्यमपरिमाणत्वमनुमीयते, न चाणुत्वानुमाने किञ्चिल्लिङ्गमस्ति।
नापि नित्येन्द्रियत्वाच्छोत्रवत् विभुत्वानुमानं, नित्यत्वस्यासिद्धत्वाद्, आकाशस्यापि नित्यत्वाभावेन तत्कार्य्यश्रोत्रस्य सुतरां नित्यत्वाभावाद्, अत एव जन्यस्य विभुत्वाभावान्मध्यमपरिमाणत्वानुमानस्य श्रोत्रेण व्यभिचारः, यदिन्द्रियं यद्गुणग्राहकं तदिन्द्रियं तद्गुणवदिति व्याप्तेः, यथा चक्षुरादेः स्वग्राह्यगुणवद्भतारभ्यत्वं साध्यतेतथा मनसोऽपि पञ्चमहाभूतग्राहकत्वेन तद्वत्त्वनिश्चयात् स्वग्राह्यगुणवत्येव भूतारभ्यत्वं साध्यतां विशेषाभावात्।
न च विजातीयानामनारम्भकत्वं विशेषः, सुवर्णसूत्रैः षट्टसूत्रैः कार्पाससूत्रैश्च विजातीयैरेकपटारम्भदर्शनात्। तत्रावयव्यनङ्गीकारेऽन्यत्रापि तथाऽनङ्गीकारसम्भवादवयविनो दत्तजलाञ्जलिताप्रसङ्गात्, तस्मादपञ्चीकृतपञ्चमहाभूतारभ्यं सत्त्वप्रधानं सङ्कोचविकाशशीलं स्वच्छद्रव्यचक्षुवन्मूर्त्तद्रव्याभिघातयोग्यञ्च देहपरिमाणं मनोऽभ्युपगन्तव्यं, सिद्धान्ते सुख-
दुःखेच्छाज्ञानादीनां तदाश्रयत्वाभ्युपगमात्, तेषाञ्च सर्व्वशरीरव्यापित्वेनोपलम्भात्, तदाश्रयस्य मनसोऽपि सर्व्वशरीरव्यापित्वाद् अणुत्वाभावे युगपत्सर्व्वेन्द्रियसम्बन्धसम्भवाद् युगपन्नानाज्ञानोत्पत्तिप्रसङ्ग इति चेद्? न—एकेनेन्द्रियेणैकदैकमेव ज्ञानं जन्यतइति नियमस्तावदावयोः समः, अन्यथा युगपच्चाक्षुषज्ञानद्वयोत्पत्तिः किं न स्यात्? नानेन्द्रियजन्यज्ञानानान्तु युगपदुत्पत्तिरिष्यत एव दीर्घांशष्कुलींभक्षयतः शब्दस्पर्शरूपरसगन्धानां युगपदनुभवात्, सुषुप्त्यन्यथाऽनुपपत्त्या त्वङ्मनःसंयोगजं ज्ञानमत्र कारणत्वेन त्वयाऽभ्युपगमाद् रसनावच्छिन्नत्वङ्मनःसंयुक्तस्य गुडस्य युगपद्रसस्पर्शोपलम्भस्तवापि दुर्निवारः, तस्मान्नास्मदभ्युपगते मनसि श्रुतिस्मृतिन्यायसिद्धेविमतिः सम्भवति, समनन्तरप्रत्ययस्त्वतिनिर्युक्तिकत्वादुपेक्षितः, विस्तरस्त्वस्मदीयवेदान्तकल्पलतायामनुसन्धेयः॥१९॥
अतः स्वच्छस्वभावस्य सावयवस्य मनसो दर्पणादिवद् विषयाकारग्राहकत्वं वेदान्तशास्त्रे साङ्ख्यशास्त्रे च यन्निरूपितं तत् प्रामाणिकत्वाद्वेदान्ते समीचीनमेवेत्याह—
गृह्णाति विषयाकारं मनो विषययोगतः।
इति वेदान्तिभिः साङ्ख्यैरपि सम्यङ् निरूपितम्॥२०॥
यद्यपि साङ्ख्ययानामाहङ्कारिकं मनः; ब्रह्मवादिनान्तु मते भौतिकमिति महान् विशेषस्तथाऽपि विषयाकारग्राहकत्वं समानमिति तुल्यवदुभयोरुपन्यासः॥२०॥
द्रवीभावपूर्व्वकं चित्तस्य विषयाकारभजनमित्यत्र भाष्यकारवचनमुदाहरति—
मूषासिक्तं यथा ताम्रं तन्निभं जायते तथा।
घटादि व्याप्नुवच्चित्तं तन्निभं जायते ध्रुवम्॥२१॥
मूषायां पुटपाकयन्त्रे तद्द्वारा द्रवीभूतं ताम्रं यन्त्रप्रतिमाऽऽद्याकारघटिते मृदादिसंस्थानविशेषे सिक्तं सत्तदुदरस्थसंस्थानाकारं भवति द्रुतत्वाद्, एवं रागद्वेषादिना द्रवीभूतं चित्तं चक्षुरादिद्वारा यत्र सिक्तं भवति स्वयमपि तद्विषयाकारं भवतीति कारिकाऽर्थः॥२१॥
यद्यप्यस्मिन् वाक्ये सामान्यत एव द्रवीभाव उक्तस्तथाऽप्यनुभवबलाद रागद्वेषादिविषये व्यवस्थाप्यते तदभावे तु शिथिलीभावमात्रमित्युक्तमधस्ताद्, मनो विषयाकारं विषयगतावरणनिवर्त्तकत्वादालोकवदित्यनुमानमस्मिन्नर्थे प्रमाणमाह—
व्यञ्जको वा यथाऽऽलोको व्यङ्ग्यस्याकारतामियात्।
सर्व्वार्थव्यञ्जकत्वाद्धीरर्थाकारा प्रदृश्यते॥२२॥
व्यञ्जकस्य तदाकारत्वाभावे तद्गतावरणनिवृत्तेरदर्शनादित्यर्थः॥२२॥
भगवत्पूज्यपादानामियमुक्तिः सयुक्तिका।
तथा वार्त्तिककारैरप्ययमर्थो निरूपितः॥२३॥
व्यञ्जको वेत्याद्युक्तिर्वार्त्तिककाराणामपि युक्तिरनुमानरूपा दर्शिता।
वार्त्तिककाराणां वाक्यान्तरमुदाहरति—
मातुर्मात्राभिनिष्पत्तिर्निष्पन्नं मेयमेति च।
मेयाभिसङ्गतं तच्च मेयाभत्वं प्रपद्यते॥
मातुश्चिदश्चिद्ग्रन्थिरूपात्सचित्कादन्तःकरणाद् वृत्तिज्ञानाख्यस्य द्रवीभावपूर्व्वकस्य मातृशब्दवाच्यस्य परिमाणविशेष-
स्याभिनिष्पत्तिर्भवति तच्च परिमाणविशेषात्मकं मानं निष्पन्नंसच्चक्षुरादिद्वारा घटादिविषयपर्य्यन्तं गच्छति, शरीरावच्छिन्नमन्तःकरणमत्यजदेव कुल्याजलवद, ततश्च घटादिसम्बद्धं सद् मेयाकारतां प्राप्नोति, ततश्च तत्र चैतन्याभिव्यक्त्या घटाद्युपलम्भ इति कारिकाऽर्थः। सर्व्वा चेयं प्रक्रियाऽस्माभिर्विस्तरेण सिद्धान्तविन्दो प्रतिपादिता, ग्रन्थगौरवभिया नोदाह्रियते॥२३॥
पञ्चदश्यां विद्यारण्यैरप्ययमथों दर्शितः, तमुपसंहारव्याजेनाह—
अतो मांसमयी योषित् काचिदन्या मनोमयी।
मांसमय्या अभेदेऽपि भिद्यतेऽत्र मनोमयी॥२४॥
मनोमयाकारभेदं विनैकस्मिन् भौतिके पिण्डे भेदमत्ययायोगात्॥२४॥
भेदप्रतीतिमेव सर्व्वसिद्धामुदाहरति—
भार्या स्नुषा ननान्दा च याता मातेत्यनेकधा।
जामाता श्वशुरः पुत्रः पितेत्यादि पुमानपि॥२५॥
भिद्यत इत्यनुषङ्गः॥२५॥
एकानेकत्ववैधर्म्यमुक्त्वा विनाशित्वाविनाशित्ववैधर्म्यान्तरमाह—
बाह्यपिण्डस्य नाशेऽपि तिष्ठत्येव मनोमयः।
अतः स्थायीति विद्वद्भिरयमेव निरूपितः॥२६॥
अपिशब्दाद्वाह्यस्य देशकालादिना व्यवधानेऽपि मनोमयोऽव्यवहित एवेत्यर्थः॥२६॥
एवं स्वभावतो भावस्वरूपमुपवर्णितम्।
विशेषेण तु सर्व्वेषां लक्षणं वक्ष्यते पृथक्॥२७॥
मनोमयो विषयाकार एवाविनाशित्वात् स्थायीति कथि-
तम्, तस्य तु रतिहासादिरूपेण भेदस्तल्लक्षणं च वक्ष्यतेऽनन्तरोल्लास इत्यर्थः। यस्माद् द्रुतचित्तप्रविष्टो विषयाकारोऽनपायोऽस्मात्स्थायी भावः॥२७॥
भगवन्तं विभुं नित्यं पूर्णं बोधसुखात्मकम्।
यद् गृह्णाति द्रुतं चित्तं किमन्यदवशिष्यते॥२८॥
विभुमिति सर्व्वदेशव्यापकत्वं, नित्यमिति सर्व्वकालव्यापकत्वं, पूर्णमित्यद्वितीयतया सर्व्वद्वैतप्रमाऽधिष्ठानत्वं, बोधसुखात्मकमिति निरतिशयपुमर्थत्वं दर्शितम्, एतादृशेन भगवदाकारेण मनोगतेनानादिकालप्रविष्टासङ्ख्यविषयाकाराणां कबलीकरणात्तन्मात्रपरिस्फूर्त्या कृतकृत्यो भवतीत्यर्थः॥२८॥
द्रवीभावस्य प्रयोजनं पूर्व्वोक्तमेव स्मारयति तत्र प्रयत्नदार्ढ्याय—
कठिना शिथिला वा धीर्न गृह्णाति न वास्यते।
उपेक्षाज्ञानमित्याहुस्तद्बुधाः प्रसरादिषु॥२९॥
कठिना धीर्न गृह्णात्येव शिथिला तु गृह्णात्यपि न वास्यते द्रवीभावाभावादिति पूर्व्वमेवोक्तं, द्रवीभावः काठिन्यमीषद् द्रवत्वंशैथिल्यं, तच्च द्रवावस्थाकार्य्यभूतसात्त्विकभावादित्यवसेयम्, ते च
स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः।
वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विका गुणाः॥
इत्यभिप्रायः, अत एव भगवद्वविषये काठिन्यं निन्द्यते—
तदश्मसारं हृदयं बतेदं यद् गृह्यमाणैर्हरिनामधेयैः।
न विक्रियेताथ यदा विकारो नेत्रे जलं गात्ररुहेषु हर्षः॥
[श्री०भा० २ स्क० ३ अ०]
कथं विना रोमहर्षं द्रवता चेतसा विना।
विनाऽऽनन्दाश्रुकलया शुद्ध्येद्भक्त्या विनाऽऽशयः॥
(श्री०भा० ११ स्क० १४ अ०)
भक्तिश्च द्रवता चेतसा विना कथं स्यात्? द्रवच्चित्तञ्चकथं रोमहर्षमानन्दाश्रु विना जायत इत्यर्थः। अश्रुपुलकयोरभिधानं स्तम्भस्वेदादीनामप्युलक्षणम्, यतो द्रवत्वाभावे चित्तं न वास्यतेऽतो बुधाः पण्डिताः कामक्रोधादिनाऽस्यन्दीभूतपाषाणादिप्रतिमतया ज्ञानमुपेक्षाज्ञानं संस्काराजनकमित्याहुः।
तथा चाहुर्न्यायवार्त्तिककृतः—
“यन्न सुखसाधनं न दुःखसाधनं तदेवोपेक्षणीय"मिति सुखसाधने रागः संस्कारहेतुर्दुःखसाधने द्वेषस्तथा तदुभयाभावे तु चित्तद्रवत्वाभावान्न जायते संस्कार इत्यर्थः, एतावान् हि सर्व्वेषां शास्त्राणां रहस्यभूतोऽर्थो यद् विषयाकारतानिराकरणपूर्व्यकं चित्तस्य भगवादाकारतासम्पादनम् सर्व्वेषामपि शास्त्राणामत्रैव व्यापारभेदेन पर्य्यवसानात्॥२९॥
नन्वनादिकाले द्रवचित्ते प्रविष्टतत्तदिष्टानिष्टविषयकोटिसङ्कीर्णता चित्तस्य स्वभावभूता शीततेव तोयस्योष्णतेव दहनस्य सञ्चरिष्णुतेव पवनस्य कथं निवर्त्ततां धर्म्मिणि सत्यसति वा स्वभावानुपमर्द्दादित्यत आह—
काठिन्यं विषये कुर्य्याद् द्रवत्वं भगवत्पदे।
उपायैः शास्त्रनिर्दिष्टैरनुक्षणमतो बुधः॥३०॥
विषयाकारता हि न चित्तस्य स्वभावभूता तस्या आगन्तुकहेतुजन्यत्वात्, तथा हि–स्थूलविषयाकारताहेतुरिन्द्रियसन्निकर्षादि जागरणे, सूक्ष्मविषयाकारताहेतुर्मनोगतवासना स्वप्ने, तदुभयाभावे तु सुषुप्तिवन्निर्व्विषयमेव चित्तं भवति, सुषुप्तौ चित्तलयाभिधानं निर्व्विषयकत्वाभिप्रायमेव एतच्च भगवता सूत्रकारेणैव प्रदर्शितम्—
“तदापीतेः संसारव्यपदेशात् (ब्रह्मसू।४।२।८सू) अपीति-
र्लयः, मर्य्यादायामाङ् आपीतिं लयं मर्य्यादीकृत्य तस्य मनसोलयात् पूर्व्वकाले संसारव्यपदेशः, न तु तल्लये सतीति सूत्रार्थः। तथा च सुषुप्तावपि पुनरुत्थानेन संसारव्यपदेशस्य सत्त्वान्न मनोलयः, विवरणकाराणान्तु “केयं सूक्ष्मता नामे” त्यादिना मनोलयाभिधानं तत्परमतखण्डनाभिप्रायेण न तु स्वमतानुसारेण सूत्रविरोधादिति भावः॥३०॥
भगवदाकारता तु चित्तस्य स्वाभाविकी तस्य कारणीभूतसूक्ष्मकारणानिर्वचनीयविचित्रानेकशक्तिमन्मायाधिष्ठानस्य विभोः सर्व्वान्तर्य्यामिणः सर्व्वत्रानुगतत्वाद् यथा घटस्य जलादिपूर्णता कारणसाध्या; आकाशपूर्णता तु स्वतस्तस्य सर्व्वव्यापकत्त्वात्तद्वत्, तदुक्तं वार्त्तिककारपादैः—
वियद्वस्तुस्वभावानुरोधादेव न कारकात्।
वियत्सम्पूर्णतोत्पत्तौ कुम्भस्येव दशा धियाम्॥
घटदुःखादिरूपत्वं धियां धर्म्मादिहेतुतः।
स्वतः सिद्धाऽऽत्मसम्बोधव्याप्तिर्वस्त्वनुरोधत इति,
चित्तस्य भगवदाकारतायाः स्वाभाविकत्वेन हेत्वनपेक्षायांशास्त्रस्य क्वोपयोग इति चेद्? अन्याकारताविरोधिभगवदाकारतासम्पादनयित्यवेहि। या हि स्वाभाविकी भगबदाकारता चित्तस्य; विषयाकारतासहचरितत्वात् तत्साधकत्वाच्च न तद्विरोधिनी, शास्त्रजन्या तु साधनोपक्रमे परोक्षे भासमानाभ्यासक्रमेण विषयाकारतां शनैः शनैस्तिरोदधती साधनपरिपाकेणापरोक्षतां नीता सती तां समूलघातमुपहन्ति, अत एवोक्तम्—
यर्ह्यब्जनाभचरणैषणयोरुभक्त्या
चेतोमलानि विधमेद् गुणकर्म्मजानि।
तस्मिन् विशुद्ध उपलभ्यत आत्मतत्त्वं-
साक्षाद् यथाऽमलदृशोः सवितुः प्रकाशः॥
(श्री०भा०११ स्क० ३अ०)
यथाऽग्निना हेम मलं जहाति
ध्मातं पुनः सम्भजते च रूपम्।
आत्मा च कर्म्मानुशयं विधूय
मद्भक्तियोगेन भजत्यथो माम्॥
यथा यथाऽऽत्मा परिमृज्यतेऽसौ
मत्पुण्यगाथाश्रवणाभिधानैः।
तथा तथा पश्यति वस्तु सूक्ष्मं-
चक्षुर्यथैवाञ्जनसम्प्रयुक्तम्॥
विषयान् ध्यायतश्चित्तं विषयेषु विषज्जते।
मामेव स्मरतश्चित्तं मय्येव प्रविलीयते॥
तस्मादसदभिध्यानं यथा स्वप्नमनोरथम्।
हित्वा मयि समाधत्स्व मनो मद्भावभावितम्॥
(श्री० भा० ११ स्क० १४ अ०)
एतावान् योग आदिष्टो मच्छिष्यैः सनकादिभिः।
सर्व्वतो मन आकृष्य मय्याद्धाऽऽवेश्यते यथा॥
(श्री० भा० ११ स्क० १३ अ०)
स च श्रीकपिलदेवेनोक्तः—
अनिमित्तनिमित्तेन स्वधर्म्मेणामलात्मना।
तीव्रया मयि भक्त्या च श्रुतसम्भृतया चिरम्॥
ज्ञानेन दृष्टतत्त्वेन वैराग्येण बलीयसा।
तपोयुक्तेन योगेन तीब्रेणात्मसमाधिना॥
प्रकृतिः पुरुषस्येह दह्यमाना त्वहर्निशम्।
तिरोभवित्री शनकैरग्नेर्योनिरिवारणिः॥
(श्री० भा० ३ स्क० २७ अ०)
प्रकृतिः स्वाभाविकी विषयाकारतेत्यर्थः। हंसगीतासु च—
गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रभो!।
कथमन्योन्यसन्त्यागो मुमुक्षोरतितितीर्षोः॥
(श्री० भा० ११ स्क० १३ अ०)
इति सनकादिप्रश्नस्योत्तग्म् भगवानुवाच—
मनसा वचसा दृष्ट्या गृह्यतेऽन्यैरपीन्द्रियैः।
अहमेव न मत्तोऽन्यदिति बुध्यध्वमज्जसा॥
(श्री० भा० ११ स्क० १३ अ०)
जाग्रत्स्वप्नसुषुप्तञ्च गुणतो बुद्धिवृत्तयः।
तासां विलक्षणो जीवः साक्षित्वेन व्यवस्थितः॥
यर्हिसंसृतिबन्धोऽयमात्मनो गुणवृत्तिदः।
मयि तुर्य्येस्थितो जह्यात् त्यागस्तद्गुणचेतसाम्॥
अहङ्कारकृतं बन्धमात्मनोऽर्थविपर्य्ययम्।
विद्यान् निर्व्विद्य संसारचिन्तां तुर्य्ये स्थितस्त्यजेत्॥
यावन्नानाऽर्थधीः पुंसो न निवर्त्तेत युक्तिभिः।
जागर्त्यपि स्वपन्नज्ञः स्वप्ने जागरणं यथा॥
असत्त्वादात्मनोऽन्येषां भावानां तत्कृता भिदा।
गतयो हेतवश्चास्य मृषा स्वप्नधियो यथा॥
यो जागरे बहिरनुक्षरणधर्मिणोऽर्थान्
भुङ्क्ते समस्तकरणैर्हृदि तत्सदृक्षान॥
स्वप्ने सुषुप्त उपसंहरते स एकः
स्मृत्यन्वयात् त्रिगुणवृत्तिदृगिन्द्रियेशः॥
एवं विमृश्य गुणतो मनसस्त्र्यवस्था-
मन्मायया मयि कृता इति निश्चितार्थाः।
संछिद्य हार्द्दमनुमानसदुक्तितीक्ष्ण-
ज्ञानासिना भजत माऽखिलसंशयाधिम्॥
[ श्री० भा० ११ स्क० १३ अ० ]
एवं जिज्ञासयाऽपोह्य नानात्वभ्रममात्मनि।
उपारमेत विरजं मनो मय्यर्प्य सर्व्वगे॥इत्यादि।
[श्री० भा० ११ स्क० ११ अ०]
अयमत्र निष्कर्षः— चित्तेष्वाकारसमर्पका विषयास्ते भगवद्व्यतिरिक्ता न भवन्ति भगवत्यध्यस्तत्वाद् भगवत एव सद्रूपतया घटः सन् पटःसन्नित्यादिसदाकारेणैव सर्व्वविषयाणां स्फुरणात्। “सर्वं खल्विदं ब्रह्म” “तज्जलानि” ति छान्दो० ३।१४।१ श्रुत्या भगवदेकोद्भवत्वभगवदेकस्थितत्वभगवदेकलयत्वेन मृद्घटवदभेदबोधनात् स्वप्नादिप्रपञ्चवद्वाध्यत्वाच्च। अत एव भगवदाकारस्फुर्त्त्याते सर्व्वे निवर्त्तमाना सद्रूपा एव भवन्ति, अधिष्ठानज्ञाननिवर्त्त्यत्वादध्यस्तानाम्। एवं सति विषयनिष्ठः सर्व्वोऽपि प्रेमा भगवत्येवार्पितो भवति तद्व्यतिरिक्तास्फुरणाद्; एतादृशी चावस्था प्रह्लादेन प्रार्थिता—
या प्रीतिरविवेकानां विषयेष्वनपायिनी।
त्वामनुस्मरतः सा मे हृदयान्मापसर्प्पतु॥ इति
(वि० पु० १ अंश २० अ० १९)
तस्मादेतादृशयुक्त्यनुसन्धानेन सर्वाधिष्ठानसन्मात्रं परिपूर्णसच्चिदानन्दघनं भगवन्तमद्बयमात्मानं निश्चिन्वता स्वप्निकविषयेष्विव जाग्रद्विषयेष्वप्यनुगतानुसन्धानेन वैराग्यं महदुप जायते वशीकाराख्यम्, एतच्च सूत्रितं भगवता पतञ्जलिना—
“दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्” इति (पान०सू०)
चतुर्व्विधं हि वैराग्यं साध्यसाधनभावापन्नमागमप्रसिद्धम्; तत्र महता प्रयासेनापि चित्तदोषानवश्यं निराकरिष्यामीत्यध्यवसायात्मकं प्रथमं यतमानसंज्ञा वैराग्यम्। ततो निरन्तरमुपायानुष्ठाने क्रियमाण एतावन्तो दोषा इदानीं क्षीणा-
एतावन्तश्चावशिष्यन्त इति चिकित्सकवत् प्रतिक्षणमवधानं द्वितीयं व्यतिरेकसंज्ञा वैराग्यम्; एवं प्रतिक्षणं भूमिकाद्वयाभ्यासं कुर्व्वतः सर्व्वतो भावेन बहिरिन्द्रियाणां विषयेष्वप्रवृत्तिर्याऽन्तःकरणवासनायां सत्यामपि सा तृतीयमेकेन्द्रियसंज्ञा वैराग्यम्, एवं भूमिकात्रयाभ्यासाद् दृष्टेषु वनिताऽऽदिष्वानुश्रविकेषु स्वर्गादिषु चेन्द्रियैर्गृह्यमाणेष्वपि दोषदर्शनपरिपाकजन्या स्पृहाऽऽत्मका या चित्तवृत्तिः सा चतुर्थ वशीकारसंज्ञा वैराग्यम्। तदपि द्विविधमपरं परञ्च; द्वितीयं सूत्रितं पतञ्जलिना— “तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम्” इति, पुरुषख्यातिरात्मज्ञानं तदनन्तरं तद्गुणेषु शब्दादिषु वैतृष्ण्यं वैराग्यं तत्परं श्रेष्ठफलरूपत्वात्, ततः पूर्व्वन्त्वपरं साधनरूपत्वादित्यर्थः, तस्य च लिङ्गमितरफलनिरपेक्षत्वेन मोक्षमात्रस्पृहयालुत्वं, यथा मुचुकुन्दस्य—
न कामयेऽन्यं तव पादसेवना-
दकिञ्चनप्रार्थ्यतमाद् वरं विभो!।
आराध्य कस्त्वामपवर्गदं हरे!
वृणीत आर्य्योवरमात्मबन्धनम्॥
तस्माद्बिसृज्याशिष ईश! सर्व्वतो-
रजस्तमःसत्त्वगुणानुबन्धनाः।
निरञ्जनं निर्गुणमद्वयं परं-
त्वां ज्ञप्तिमात्रं पुरुषं व्रजाम्यहम्॥
चिरमिह वृजिनार्त्तस्तप्यमानोऽनुतापै-
रवितृषषडमित्रोऽलब्धशान्तिः कथञ्चित्॥
शरणद! समुपेतस्त्वत्पदाब्जं परात्म-
न्नभयममृतशोकं पाहि माऽऽपन्नमीश!॥इति।
[श्री० भा० १० स्क० ५१ अ०]
एतादृशदशायाञ्चभगवत्प्रेमाऽऽनन्दपराकाष्ठामधिरोहतीति तं प्रति भगवतोक्तम्—
क्षात्रधर्म्मस्थितो जन्तूनवधीर्मृगयाऽऽदिभिः।
समाहितस्तत्तपसा जह्यघं मदपाश्रयः॥
जन्मन्यनन्तरे राजन्! सर्व्वभूतसुहृत्तमः।
भूत्वाद्विजवरस्त्वं वै मामन्ते ब्रह्म यास्यसि।इति।
[श्री० भा० १० स्क० ५१ अ०]
अपरवैराग्यञ्च सूत्रितम् पतञ्जलिना— “दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्” इति। तेन च न प्रेमकाष्ठेति न तदानीमेव कृतार्थता परवैराग्याभावेन भक्तिप्रकर्षाभावात् तस्यैव च कृतकृत्यताहेतुत्वादित्यर्थः। परवैराग्यलिङ्गमोक्षपर्यन्तं सकलफलनिरपेक्षत्वं, यथा—
इमं लोकं तथैवामुमात्मानमुभयायिनम्।
आत्मानमनु ये चेह ये रायःपशवो गृहाः॥
विसृज्य सर्व्वानन्यांश्च मामेवं विश्वतो मुखम्।
भजन्त्यनन्यया भक्त्या तान् मृत्योरतिपारये॥
[श्री० भा० ३ स्क० ३५ अ०]
सालोक्यसाष्टिंसामीप्यसारूप्यैकत्वमप्युत।
दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः॥
[श्री० भा० ३ स्क० २९ अ०]
नैकात्मतां मे स्पृहयन्ति के चि-
न्मत्पादसेवाऽभिरता मदीहाः।
येऽन्योन्यतो भागवताः प्रसज्य
सभाजयन्ते मम पौरुषाणि॥
[श्री० भा० ३ स्क० २५ अ०]
न पारमेष्ठ्यं न महेन्द्रधिष्ण्यं-
न सार्व्वभौमं न रसाऽधिपत्यम्।
न योगसिद्धीरपुनर्भवं वा
वाञ्छन्ति यत्पादरजः प्रपन्नाः॥
[श्री० भा० ११ स्क० १४ अ०]
प्रह्लादः—
अहं त्वकामस्त्वद्भक्तस्त्वन्तु स्वाम्यनपाश्रयः।
नान्यथेहावयोरर्थो राजसेवकयोरिव॥
[श्री० भा० ७ स्क० १० अ०]
पृथुः—
न कामये नाथ! तदप्यहं ध्रुवं-
न यत्र युष्मच्चरणाम्बुजासवः।
महत्तमान्तर्हृदयान्मुखच्युतो-
विधत्स्व कर्णायुतमेष मे वरः॥
[श्री० भा० ४ स्क० २० आ०]
ध्रुवः—
या निर्वृतिस्तनुभृतां तव पादपद्म-
ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात्।
सा ब्रह्मणि स्वमहिमन्यपि नाथ! मा भूत्।
किन्त्वन्तकासिलुलितात् पततां विमानात्॥
[श्री० भा० ५ स्क० ९ अ०]
महिष्यः—
न वयं साध्वि! साम्राज्यं स्वाराज्यं भौममप्युत।
वैराग्यं पारमेष्ठ्यं वा आनन्त्यं वा हरेः पदम्॥
कामयामह एतस्य श्रीमत्पादरजः श्रियः।
कुचकुङ्कुमगन्धाढ्यं मृर्द्ध्ना वोढुं गदाभृतः॥
[श्री० भा० १० स्क० ८३ अ०]
इन्द्रः—
प्रत्यानीताः परम! भवता त्रायतान्नः स्वभागा-
दैत्याक्रान्तं हृदयकमलं त्वद्गृहं प्रत्यबोधि।
कालग्रस्तं क्रियदिदमहो नाथ! शुश्रूषतां ते
मुक्तिस्तेषां न हि बहुमता नारसिंहापरैः किम्॥
[श्री० भा० ७ स्क० ८ अ०]
तथा—
यस्य भक्तिर्भगवति हरौ निःश्रेयसात्मनि।
विक्रीडतोऽमृताम्भोधौ किं तुच्छैः खातकोदकैः॥
[श्री० भा० ६ स्क० १२ अ०]
वृत्रः—
न नाकपृष्ठं न च पारमेष्ठ्यं-
न सार्व्वभौमं न रसाऽधिपत्यम्।
न योगसिद्धीरपुनर्भवं वा
समञ्जस! त्वां विरहय्य काङ्क्षे॥
(श्री० भा० ६ स्क० ११ अ०)
श्रुतयः—
दुरधिगमात्मतत्त्वनिगमाय तवात्ततनो-
श्चरितमहामृताब्धिपरिवर्त्तपरिश्रमणाः।
न परिलषन्ति के चिदपवर्गमपीश्वर! ते
चरणसरोजहंसकुलसङ्गविसृष्टगृहाः॥
(श्री० भा० १० स्क० ८७ अ०)
एवमन्यदप्यूहनीयम्। एतादृशमोक्षपर्य्यन्तसकलफलनिरपेक्षस्वरूपे परवैराग्ये सति; फलान्तरे प्रेम्णोऽनुदयात् परमानन्दरूपे परमात्मन्येव प्रेमा परां काष्ठामारोहति यथा वृत्रस्य—
अजातपक्षा इव मातरं खगाः
स्तन्यं यथा वत्सतराः क्षुधाऽऽर्ताः।
प्रियं प्रियेव व्युषितं विषण्णा
मनोऽरविन्दाक्ष! दिदृक्षते त्वामिति॥
[श्री० भा० ६ स्क० ११ अ०]
अत एव ज्ञानं विना परवैराग्याभावस्तदृते च भगवत्प्रेमपरकाष्ठाऽभावात्तदर्थं ज्ञानवैराग्ये दृढीकर्त्तव्ये, तदुक्तम्—
असेवयाऽयं प्रकृतेर्गुणानां-
ज्ञानेन वैराग्यविजृम्भितेन।
योगेन मय्यापतया च भक्त्या
मां प्रत्यगात्मानमिहावरुन्धे॥
[श्री० भा० ३ स्क० २५ अ०]
ज्ञानवैराग्ययुक्तेन भक्तियोगेन योगिनः।
क्षेमाय पादमूलं मे प्रविशन्त्यकुतोभयम्॥
[श्री० भा० ३ स्क० २५ अ०]
इत्यच्युताङ्घ्रि भजतोऽनुवृत्त्या
भक्तिर्विरक्तिर्भगवत्प्रबोधः।
भवन्ति वै भागवतस्य राजन्!
ततः परां शान्तिमुपैति साक्षात्॥
[श्री० भा० ११ स्क० २ अ०]
भागवतस्य भगवद्धर्मानुष्ठातुःपुण्यगाथाश्रवणकर्त्तुःप्रथमं भगवत्मबोधस्ततः परं वैराग्यं ततः प्रेमलक्षणा भक्तिरित्यर्थः। एतच्च दर्शितमुद्धवाय श्रीभगवता—
ज्ञानिनस्त्वहमेवेष्टः स्वार्थो हेतुश्चसम्मतः।
स्वर्गश्चैवापवर्गश्च नान्योऽर्थो मदृते प्रियः॥
ज्ञानविज्ञानसम्पन्नाः पदं श्रेष्ठं विदुर्म्मम।
ज्ञानी प्रियतमोऽतो मे ज्ञानेनासौ बिभर्ति माम्॥
[श्री० भा० ११ स्क० १९ अ०)
कीदृशं तज्ज्ञानमित्याकाङ्क्षार्या सङ्क्षेपेण तदुक्तम्—
त्वय्युद्धवाश्रयति यस्त्रिविधो विकारो-
मायाऽन्तरापतति नाद्यपवर्गयोर्यत्।
जन्मादयोऽस्य यदमी तव तस्य किं स्यु-
राद्यन्तयोर्यदसतोऽस्ति तदेव मध्ये॥
(श्री० भा० ११ स्क्र० १९ अ०)
भगवद्व्यतिरिक्तं सर्वं मायामयत्वात् स्वप्नवन्मायिकं तुच्छंदुःखरूपञ्च हेयं, भगवान् प्रत्यगभिन्नपरमात्मैव सत्यः स्वप्रकाशपरमानन्दरूपो नित्यो विभ्रुश्चोपदेय इतिस्वरूपं ज्ञानमित्यर्थः। भगवद्गीतासु च तदेवोक्तम्—
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन!।
आर्त्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ!॥
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः॥
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम्।
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्॥
बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः॥इति
गीता ७ अ०
वासुदेवातिरिक्तं सर्वे नास्ति मायिकत्वेन तुच्छत्वाद्, वासुदेव एवात्मत्वात् प्रियतमः सत्यः स्थायिभाव इत्यर्थः। एतादृशज्ञानपूर्वकवैराग्यञ्च दर्शितम्—
श्रुतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम्।
प्रमाणेष्वनवस्थानाद्विकल्पात् स विरज्यते॥
कर्मणां परिणामित्वादावैरिञ्च्यादमङ्गलम्।
विपश्चिन्नश्वरं पश्येददृष्टमपि दृष्टवत्।
[श्री० भा० ११ स्क० १९ अ०]
तथाऽन्यत्र—
कर्माण्यारभमाणानां दुःखहत्यै सुखाय च।
पश्येत् पाकविपर्य्यासं मिथुनीचारिणां नृणाम्॥
नित्यार्त्तिदेन वित्तेन दुर्लभेनात्ममृत्युना।
गृहापत्याप्तपशुभिः का प्रीतिः साधितैश्वलैः॥
एवं लोकं परं विद्यान्नश्वरं कर्मनिर्मितम्।
सतुल्यातिशयध्वंसं यथा मण्डलवर्त्तिनाम्॥इति॥
[श्री० भा० ११ स्क० ३अ०]
कीदृशी भगवद्धर्मानुष्ठातुर्ज्ञानवैराग्यपूर्विका भगवति भक्तिरुदेतीत्याकाङ्क्षायामुक्तम्—
यद्यनीशो धारयितुं मनो ब्रह्मणि निश्चलम्।
मयि कर्माणि सर्वाणि निरपेक्षः समाचर॥
श्रद्धालुर्मे कथाः शृण्वन् सुभद्रा लोकपावनीः।
गायन्ननुस्मरन् जन्म कर्म चाभिनयन् मुहुः॥
मदर्थे धर्मकामार्थानाचरन् मदपाश्रयः।
लभते निश्चलां भक्तिं मय्युद्भव! सनातने॥
[श्री० भा० ११ स्क० ११ अ०]
तथा—
भक्तियोगः पुरैवोक्तः प्रीयमाणाय तेऽनघ!।
पुनश्च कथयिष्यामि मद्भक्तेः कारणं परम्॥
श्रद्धाऽमृतकथायां मे शश्वन्मदनुकीर्त्तनम्।
परिनिष्ठायान्तु पूजायां स्तुतिभिः स्तवनं मम॥
आदरः परिचर्य्यायां सर्व्वाङ्गैरभिबन्दनम्।
मद्भक्तपूजाऽभ्यधिका सर्व्वभूतेषु मन्मतिः॥
मदर्थेष्वङ्गचेष्टा च वचसा मद्गुणेरणम्।
मय्यर्पणञ्च मनसः सर्व्वकामविवर्ज्जनम्॥
मदर्थेऽर्थपरित्यागो भोगस्य च सुखस्य च।
इष्टं दत्तं हुतं जप्तं मदर्थे यद् व्रतं तपः॥
एवं धर्म्मैर्मनुष्याणामुद्धवात्मनिवेदिनाम्।
मयि सञ्जायते भक्तिः कोऽन्योऽर्थोऽस्यावशिष्यते॥
[श्री० भा० ११ स्क० १९ अ०]
तथाऽन्यत्र—
तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम्।
शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम्॥
तत्र भागवतान् धर्माञ्छिक्षेद्गुर्वात्मदैवतः।
अमाययाऽनुवृत्त्या यैस्तुष्येदात्माऽऽत्मदो हरिः।
सर्वतो मनसोऽसङ्गमादौ सङ्गञ्च साधुषु।
दयां मैत्रीं प्रश्रयञ्च भूतेष्वद्धा यथोचितम्॥
शौचं तपस्तितिक्षां च मौनं स्वाध्यायमार्जवम्।
ब्रह्मचर्य्यमहिंसाञ्च समत्वं,द्वन्द्वसंज्ञयोः॥
सर्वत्रात्मेश्वरान्वीक्षां कैवल्यमनिकेतताम्।
विविक्तं चीरवसनं सन्तोषं येन केन चित्॥
श्रद्धां भागवते शास्त्रे निन्दामन्यत्र चापि हि।
मनोवाक्कायदण्डञ्च सत्यं शमदमावपि॥
श्रवणं कीर्त्तनं ध्यानं हरेरद्भुतकर्मणः।
जन्मकर्म्मगुणानाञ्च तदर्थेऽखिलचेष्टितम्॥
इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मनः प्रियम्।
दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम्॥
एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम्।
परिचर्य्यांचोभयत्र महत्सु नृषु साधुषु॥
परस्परानुकथनं पावनं भगवद्यशः।
मिथो रतिर्मिथस्तुष्टिर्निर्वृतिर्मिथ आत्मनः॥
स्मरन्तः स्मारयन्तश्च मिथोऽघौघहरं हरिम्।
भक्त्या सञ्जातया भक्त्या बिभ्रत्युत्पुलकां तनुम्॥
क्वचिद्रुदन्त्यच्युतचिन्तया क्व चि—
द्धसन्ति नन्दन्ति वदन्त्यलौकिकाः।
नृत्यन्ति गायन्त्यनुशीलयन्त्यजं—
भवन्ति तूष्णीं परमेत्य निर्वृताः॥
इति भागवतान् धर्मान् शिक्षेद्भक्त्या तदुत्थया।
नारायणपरो मायामञ्जस्तरति दुस्तराम्॥ इति।
[श्री० भा० ११ स्क० ३ अ०]
तस्मादेवंविधैः शास्त्रीयैरुपायैर्मनः शुद्धिं सम्पादयेदित्यर्थः।३०।
शास्त्रीयानेवोपायान् प्रतिपन्नजनबुद्धिसौकर्य्याय भूमिकाभेदन वक्तुं प्रतिजानीते—
उपायाः प्रथमस्कन्धे नारदेनोपवर्णिताः।
सङ्क्षेपात्तानहं वक्ष्ये भूमिभेदविभागतः॥३१॥
** **स्पष्टम्॥३१॥
तानेवाह—
प्रथमं महतां सेवा तद्दयापात्रता ततः।
श्रद्धाऽथ तेषां धर्मेषु ततो हरिगुणश्रुतिः॥३२॥
ततो रत्यङ्कुरोत्पत्तिः स्वरूपाधिगतिस्ततः।
प्रेमबृद्धिः परानन्दे तस्याथ स्फुरणं ततः॥३३॥
भगवद्धर्मनिष्ठातः स्वस्मिंस्तद्गुणशालिता।
प्रेम्णोऽथ परमा काष्ठेत्युदिता भक्तिभूमिका॥३४॥
तथा व्यासनारदसंवादे नारदः—
अहं पुराऽतीतभवेऽभवं मुने!
दास्याश्च कस्याश्चन वेदवादिनाम्।
निरूपितो बालक एव योगिनां-
शुश्रूषणे प्रावृषि निर्विविक्षताम्॥
ते मय्यपेताखिलचापलेऽर्भके
दान्तेऽधृतक्रीडनकेऽनुवर्त्तिनि।
चक्रुः कृपां यद्यपि तुल्यदर्शनाः
शुश्रूषमाणे मुनयोऽल्पभाषिणि॥
उच्छिष्टलेपाननुमोदितो द्विजैः
सकृत्स्म भुञ्जे तदपास्तकिल्बिषः।
एवं प्रवृत्तस्य विशुद्धचेतस-
स्तद्धर्म एवात्मरुचिः प्रजायते॥
तत्रान्वहं कृष्णकथाः प्रगायता-
मनुग्रहेणाशृणवं मनोहराः।
ताः श्रद्धया मेऽनुपदं विशृण्वतः
प्रियश्रवस्यङ्ग! ममाभवद्रुचिः॥
तस्मिंस्तदा लब्धरुचेर्महामते!
प्रियश्रवस्यस्खलिता मतिर्मम।
ययाऽहमेतत् सदसत्स्वमायया
पश्ये मयि ब्रह्मणि कल्पितं परे॥
इत्थं शरत्प्रावृषिकावृतू हरे-
र्विशृण्वतो मेऽनुसवं यशोऽमलम्।
संकीर्त्त्यमानं मुनिभिर्महात्मभि-
र्भक्तिः प्रवृत्ताऽऽत्मरजस्तमोऽपहा॥
तस्यैवं मेऽनुरक्तस्य प्रश्रितस्य हतैनसः।
श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च॥
ज्ञानं गुह्यतमं यत्तत् साक्षाद्भगवतोदितम्।
अन्ववोचन् गमिष्यन्तः कृपया दीनवत्सलाः॥
येनैवाहं भगवतो वासुदेवस्य वेधसः।
मायाऽनुभावमविदं येन गच्छन्ति तत्पदम्॥
एतत् संसूचितं ब्रह्मँस्त्वया यद्विचिकित्सितम्।
यदीश्वरे भगवति कर्म ब्रह्मणि भावितम्॥
आमयो यश्च भूतानां जायते येन सुव्रत!
तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम्॥
एवं नृणां कियायोगाः सर्वे संसृतिहेतवः।
त एवात्मविनाशाय कल्पन्ते कल्पिताः परे॥
यदत्र क्रियते कर्म भगवत्परितोषणम्।
ज्ञानं यत्तदधीनं हि भक्तियोगसमन्वितम्॥
कुर्वाणा यत्र कर्माणि भगवच्छिक्षयाऽसकृत्।
गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च॥
ॐ नमो भगवते तुभ्यं वासुदेवाय धीमहि।
प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च॥
इति मूर्त्त्यभिधानेन मन्त्रमूर्तिममूर्त्तिकम्।
यजते यज्ञपुरुषं स सम्यग्दर्शनः पुमान्॥
इमं स्वनिगमं ब्रह्मन्नवेत्य मदनुष्ठितम्।
अदान मे ज्ञानमैश्वर्य्यं स्वस्मिन् भावञ्च केशवः॥
[श्री० भा० १ स्क० ५ अ०]
भगवत्सेवा द्विविधा, भगवद्भक्तसेवा साक्षाद्भगवत्सेवा च, तत्राद्या यथा—
महत्सेवां द्वारमाहुर्विमुक्ते-
स्तमोद्वारं योषितां सङ्गिसङ्गम्।
महान्तस्ते समचित्ताः प्रशान्ता-
विमन्यवः सुहृदः साधवो ये।
ये वा मयीशे कृतसौहृदार्था-
जनेषु देहम्भरवार्त्तिकेषु।
गृहेषु जायाऽऽत्मजरातिमत्सु
न प्रीतियुक्ता यावदर्थाश्च लोके।
[श्री० भा० ५ स्क० ५ अ०]
तथा—
प्रसङ्गमजरं पाशमात्मनः कवयो विदुः।
स एव साधुषु कृतो मोक्षद्वारमपावृतम्॥
तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम्।
अजातशत्रवः शान्ताः साधवः साधुभूषणाः॥
मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम्।
मत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः॥
मदाश्रयाः कथामृष्टाः शृण्वन्ति कथयन्ति च।
तपन्ति विविधास्तापा नैतान् मद्गतचेतसः॥
त एते साधवः साध्वि! सर्वसङ्गविवर्जिताः।
सङ्गस्तेष्वथ ते प्रार्थ्यः सङ्गदोषहरा हि ते॥
[श्री० भा० ३ स्क० २५ अ०]
तथा—
यत्पादसंश्रयाः सूत! मुनयः प्रशमायनाः।
सद्यः पुनन्त्युपस्पृष्टाः स्वर्धुन्यापोऽनुसेवया॥
[श्री० भा० १ स्क० १अ०]
तुलयाम लवेनापि न स्वर्गं नापुनर्भवम्।
भगवत्सङ्गिसङ्गस्य मर्त्त्यानां किमुताशिषः॥
[श्री० भा० १ स्क० १८ अ०]
तथा—
दुर्लभो मानुषो देहो देहिनां क्षणभङ्गुरः।
तत्रापि दुर्लभं मन्ये वैकुण्ठप्रियदर्शनम्॥
अत आत्यन्तिकं क्षेमं पृच्छामो भवतोऽनघाः!
संसारेऽस्मिन् क्षणार्द्धोऽपि सत्सङ्गः शेवधिर्नृणाम्॥
(श्री० भा० ११ स्क० २ अ०)
तथा—
न रोधयति मां योगो न साङ्ग्यं धर्म उद्धव!
न स्वाध्यायस्तपस्त्यागो नेष्टापूर्त्तं न दक्षिणाः॥
व्रतानि यज्ञाश्छन्दांसि तीर्थानि नियमा यमाः।
यथाऽबरुन्धे सत्सङ्गः सर्व्वसङ्गापहो हि माम्॥
सत्सङ्गेन हि दैतेया यातुधाना मृगाः खगाः।
गन्धर्व्वाप्सरसो नागाः सिद्धाश्चारणगुह्यकाः॥
विद्याधरा मनुष्येषु वेश्याः शूद्राः स्त्रियोऽन्त्यजाः।
रजस्तमः प्रकृतयस्तस्मिंस्तस्मिन् युगेऽनघ!
वहवो मत्पदं प्राप्तास्त्वाष्ट्रकायाधवादयः॥
साक्षाद्भगवत्सेवा यथा—
वृषपर्व्वा बलिर्बाणो मयश्चाथ विभीषणः।
सुग्रीवो हनुमानृक्षो गजो गृध्रो वणिक्पथः॥
व्याधः कुब्जा व्रजे गोप्यो यज्ञपत्न्यस्तथाऽपरे।
ते नाधीतश्रुतिगरणा नोपासितमहत्तमाः॥
अत्रतातप्ततपसः सत्सङ्गान्मामुपागताः।
केवलेन हि भावेन गोप्या गावो नगा मृगाः॥
येऽन्ये मूढधियो नागाः सिद्धा मामीयुरञ्जसा।
यं न योगेन साङ्ख्येन दानव्रततपोऽध्वरैः।
व्याख्यास्वाध्यायसंन्यासैः प्राप्नुयाद् यत्नवानपि॥
[श्री० भा० ११ स्क० १२ अ०]
मत्कामा रमणं जारमस्वरूपविदोऽषलाः।
ब्रह्म मां परमं प्रापुः सङ्गाच्छतसहस्रशः॥
तस्मात् त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनाम्।
प्रवृत्तिञ्च निवृत्तिञ्च श्रोतव्यं श्रुतमेव च॥
मामेकमेव शरणमात्मानं सर्व्वदेहिनाम्।
याहि सर्व्वात्मभावेन यास्यसि ह्यकुतोभयः॥
[श्री० भा० ११ स्क० १२ अ०]
तदयमत्र निष्कर्षः— भगवत्सङ्गं वा भगवत्सङ्गिसङ्गं वा यथायोग्यमन्तरेण न भगवति भक्तिरुदेति। एवावांस्तु विशेषः भगवत्सङ्गिनां कृतार्थत्वान्नान्यसङ्गापेक्षा, भगवत्सङ्गिसङ्गानान्तु
विद्यत एव फलतया भगवत्सङ्गापेक्षेति, व्याख्याता द्विविधा महत्सेवा। तद्दयापात्रता ततः। तेषां महतां स्वविषयात् स्वकीयैः सुशीलताऽऽदिगुणैर्भवति ते च गुणा भगवतोक्ताः—
कृपालुरकृतद्रोहस्तितिक्षुः सर्व्वदेहिनाम्।
सदासारोऽनवद्यात्मा समः सर्व्वोपकारकः॥
कामैरहतधीर्दान्तो मृदुः शुचिरकिञ्चन।
अनीहो मितभुक् शान्तः स्थिरो मच्छरणो मुनिः॥
अप्रमत्तो गभीरात्मा धृतिमान् जितषड्गुणः।
अमानी मानदः कल्पोमैत्रः कारुणिकः कविः॥
(श्री० भा० ११ स्क० ११ अ०)
तथा—
मदभिज्ञं गुरुं शान्तमुपासीत मदात्मकम्।
अमानी मत्सरो दक्षो निर्म्ममो दृढसौहृदः॥
असत्वरोऽर्थजिज्ञासुरनसूयुरमोघवाक्।
जायाऽपत्यगृहक्षेत्रस्वजनद्रविणादिषु॥
उदासीनः समं पश्यन् सर्वेष्वर्थमिवात्मनः।
[श्री० भा० ११ स्क० १० अ०]
इत्यादि। उदाहरणं प्रह्लादो यथा—
तस्य दैत्यपतेः पुत्राश्चत्वारः परमाद्भुताः।
प्रह्लादोऽभून्महांस्तेषां गुणैर्महदुपासकः॥
ब्रह्मण्यः शीलसम्पन्नः सत्यसन्धो जितेन्द्रियः।
आत्मवत् सर्व्वभूतानामेकः प्रियसुहृत्तमः॥
दासवत् संनतार्याङ्घ्रिः पितृवत् दीनवत्सलः।
भ्रातृवत् सदृशः स्निग्धो गुरुष्वीश्वरभावनः।
विद्याऽऽर्थरूपजन्माढ्योमानदम्भविवर्जितः॥
नोद्विग्नचित्तो व्यसनेषु निस्पृहः
श्रुतेषु दृष्टेषु गुणेष्ववस्तुदृक्।
दान्तेन्द्रियमाणशरीरधीः सदा
प्रशान्तकामो रहितासुरोऽसुरः॥
[श्री० भा० ७ रुक० ४ अ०]
एतादृशशिष्यगुणाभावे तु महत्तमसङ्गो निरर्थक इति तद्दयापात्रता भवति द्वितीया भूमिका। साऽपि द्विविधा—
स्वप्रयत्नानपेक्षा तत्सापेक्षा च, तत्राद्या यथा—
तप्तहेमनिकायाभं शितिकण्ठं त्रिलोचनम्।
प्रसादसुमुखं वीक्ष्य प्रणेमुर्जातकौतुकाः॥
स तान् प्रपन्नार्त्तिहरो भगवान् धर्म्मवत्सलः।
धर्म्मज्ञान् शीलसम्पन्नान् प्रीतान् प्रीत उवाच ह॥
श्रीरुद्र उवाच—
यूयं वेदिषदः पुत्रा विदितं वश्चिकीर्षितम्।
अनुग्रहाय भद्रं व एवं मे दर्शनं कृतम्॥
यः परं रंहसः साक्षात् त्रिगुरणाज्जीवसंज्ञितात्।
भगवन्तं वासुदेवं प्रपन्नः स प्रियो हि मे॥
स्वधर्म्मनिष्ठः शतजन्मभिः पुमान्
विरिञ्चतामेति ततः परं हि माम्।
अव्याकृतं भागवतोऽथ वैष्णवं-
पदं यथाऽहं विबुधाः कलाऽत्यये॥
अथ भागवता यूयं प्रियाः स्थ भगवान् यथा।
न मद्भागवतानाञ्च प्रेयानन्योऽस्ति कर्हि चित्॥
इदं विविक्तं जप्तव्यं पवित्रं मङ्गलं परम्।
निःश्रेयसकरञ्चापि श्रयतां तद्वदामि वः॥
इत्यनुक्रोशहृदयो भगवानाह ताञ्छिवः।
बद्धाञ्जलीन् राजपुत्त्रान् नारायणपरो वचः॥
[श्री० भा० ४ स्क० २४ अ०]
इत्यादौरुद्रप्राचेतससंवादे, यथा वा
ते मय्यपेताखिलचापलेऽर्भके।
[श्री० भा० १ स्क० ५ अ०]
इत्यत्र। स्वप्रयत्नपेक्षा यथा ध्रुवनारदसंवादे ध्रुवः—
सोऽयं शमो भगवता सुखदुःखहतात्मनाम्।
दर्शितः कृपया पुंसा दुर्द्दर्शोऽस्मद्विधैस्तु यः॥
अथापि मेऽविनीतस्य क्षात्तं धर्ममुपेयुषः।
सुरुच्या दुर्व्वचोबाणैर्न भिन्ने श्रयते हृदि॥
पदं त्रिभुवनोत्कृष्टं जिगीषोः साधु वर्त्म मे।
ब्रूह्यस्मत्पितृभिर्ब्रह्मन्नन्यैरप्यनधिष्ठितम्॥
नूनं भवान् भगवतो योऽङ्गजः परमेष्ठिनः।
विनुदन्नटते वीणां हिताय जगतोऽर्कवत्॥
इत्युदीरितमाकर्ण्य भगवान् नारदस्तदा।
प्रीतः प्रत्याह तं बालं सद्वाक्यमनुकम्पया॥
श्रीनारद उवाच—
जनन्याऽभिहितः पन्थाः स वै निःश्रेयसस्य ते।
भगवान् वासुदेवस्त्वं भज तत्प्रवरणात्मना॥
धर्म्मार्थकाममोक्षाख्यं य इच्छेच्छ्रेय आत्मनः।
एकं ह्येव हरेस्तत्र कारणं पादसेवनम्॥
तत् तात! गच्छ भद्रं ते यमुनायास्तटं शुचि।
पुण्यं मधुवनं यत्र सांनिध्यं नित्यदा हरेः॥
[श्री० भा० ४ स्क० ८ अ०]
इत्यादि। श्रद्धाऽथ तेषां धर्मेषु पूर्वोक्तगुणसम्पन्नस्य महत्तमान् सेवमानस्य तादृशधर्मानुष्ठानादहमपि कृतार्थोभवेयमिति रुचिविशेषरूपा श्रद्धा तद्धर्मेषु भवति, ततश्च स्वयमनुतिष्ठति, तदुक्तम्—
शुश्रूषोः श्रद्दधानस्य वासुदेवकथारुचिः।
स्यान्महत्सेवया विप्राः! पुण्यतीर्थनिषेवणात्॥
यदनुध्याऽसिना युक्ताः कर्म्म ग्रन्थिनिबन्धनम्।
छिन्दन्ति कोविदास्तस्य को न कुर्य्यात् कथारतिम्॥
[श्री० भा० १ स्क० २ अ०]
ज्ञानं यदा प्रतिनिवृत्तगुणोर्म्मिचक्र-
मात्मप्रसाद उभयत्र गुणेष्वसङ्गः।
कैवल्यसम्मतपथस्त्वथ भक्तियोगः
को निर्व्वृतो हरिकथासु रतिं न कुर्य्यात्।
[श्री० भा० २ स्क० ३ अ०]
इत्यादि। हरिकथा पदमन्येषामपि भागवतधर्माणामुपलक्षणम्।
यथाऽह ब्रह्मा—
तदस्तु मे नाथ! स भूरिभागो-
भवेऽत्र वाऽन्यत्र तु वा तिरश्चाम्।
येनाहमेकोऽपि भवज्जनानां—
भूत्वानिषेवे तव पादपल्लवम्॥
[श्री० भा० १० स्क १४ अ०]
इत्यत्र पादसेवनम्। एवमन्यदप्यूह्यम्। इयञ्चश्रद्धा साधनपरिपाकेन वर्द्धमानैहिकामुष्मिकसर्व्वविषयारुचिमुपजनयन्ती बुभुक्षेव भक्ष्यमत्रैकशरणं भगवद्धर्म्माचरणैकजीवनं पुण्यमासादयति।
तथा परीक्षितः—
नैषाऽतिदुःसहा क्षुन्मां त्यक्तोदमपि बाधते।
पिवन्तं त्वन्मुखाम्भोजच्युतं हरिकथामृतम्॥
[श्री० भा० २ स्क० ३अ०]
इत्यादि। अथ वा शौनकादीनाम्—
आयुर्हरति वै पुंसामुद्यन्नस्तञ्चयन्नसौ।
तस्यर्त्ते यः क्षणो नीत उत्तमश्लोकवार्त्तया॥
[भा० २ स्क० ३ अ० १७]
बिले बतोरुक्रमविक्रमान् ये
न शृण्वतः कर्णपुटे नरस्य।
जिह्वाऽसती दार्दुरिकेव सूत!
न चोपगायत्युरुगायगाथाः॥
भारः परं पट्टकिरीटजुष्ट-
मप्युत्तमाङ्गं न नमेन्मुकुन्दम्।
शावौकरौ नो कुरुतः सपर्य्यां-
हरेर्लसत्काञ्चनकङ्कणौ वा॥
बर्हायिते ते नयने नराणां-
लिङ्गानि विष्णोर्न निरीक्षतो ये।
पादौ नृणां तो द्रुमजन्मभाजौ
क्षेत्राणि नानुव्रजतो हरेर्यौ॥
जीवञ्छवो भागवताङ्घ्रिरेणून्
न जातु मर्त्त्योऽभिलभेत यस्तु।
श्रीविष्णुपद्यामनुजस्तुलस्पाः
श्वसञ्छवो यस्तु न वेद गन्धम्॥
तदश्मसारं हृदयं बतेदं-
यद् गृह्यमाणैर्हरिनामधेयैः।
न विक्रियेताथ यदा विकारो-
नेत्रे जलं गात्ररुहेषु हर्षः॥
[श्री० भा० २ स्क० ३ आ०]
इत्यादि। श्रद्धाविहीनास्तु विषयभोगपराः, के चित् पाण्डित्यादिगर्वेण भगवद्भक्तनिन्दापराः सन्तो निरयेऽपि निन्दनीया एव ते भवन्ति। तत्र प्रथमे यथा—
यन्न व्रजन्त्यघभिदो रचनाऽनुवादा-
च्छृणवन्ति येऽन्यविषयाः कुकथा मतिघ्नीः।
यास्तु श्रुता हतभगैर्नृभिरात्तसारा-
स्तांस्तान् क्षिपन्त्यशरणेषु तमःसु हन्त॥
[श्री० भा ३ स्क० १५ अ०]
तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्युत।
न खादन्ति न मेहन्ति किं ग्रामपशवोऽपरे॥
श्वविड्वराहोष्ट्रस्वरैः संस्तुतः पुरुषः पशुः।
न यत्कर्णपथोपेतो जातु नाम गदाग्रजः॥
[श्री० भा० २ स्क० ३ अ०]
इत्यादि। भगवद्भक्तनिन्दापरा यथा—
मुखबाहूरुपादेभ्यः पुरुषस्याश्रमैः सह।
चत्वारो जज्ञिरे वर्णा गुणैर्विप्रादयः पृथक्॥
य एषां पुरुषं साक्षादात्मप्रभवमीश्वरम्।
न भजन्त्यवजानन्ति स्थानाद् भ्रष्टाः पतन्त्यधः॥
दूरं हरिकथाः के चिद् दूरे चाच्युतकीर्त्तनाः।
स्त्रियः शूद्रादयश्चैव तेऽनुकम्प्या भवादृशाम्॥
[श्री० भा० ११ स्क० ५ अ०]
रजसा घोरसङ्कल्पाः कामुका अहिमन्यवः।
दाम्भिका मानिनः पापा विहसन्त्यच्युतप्रियान्॥
वदन्ति तेऽन्योन्यमुपासितस्त्रियो-
गृहेषु मैथुन्यपरेषु चाशिषः।
यजन्त्यसृष्टान्नविधानदक्षिणं-
वृत्त्यै परं घ्नन्ति पशूनतद्विदः॥
श्रिया विभूत्याऽभिजनेन विद्यया
त्यागेन रूपेण बलेन कर्म्मणा।
जातस्मयेनान्धधियः सहेश्वरान्
सतोऽवमन्यन्ति हरिप्रियान् खलाः॥
सर्व्वेषु शश्वत् तनुभृत्स्ववस्थितं
यथा स्वमात्मानमभीष्टमीश्वरम्।
वेदोपगीतञ्च न शृण्वतेऽबुधा-
मनोरथानां प्रवदन्ति वार्त्तया॥
[श्री० भा० ११ स्क० ५ अ०]
हित्वाऽत्यायासरचिता गृहापत्यसुहृच्छ्रियः।
तमो विशन्त्यनिच्छन्तो वासुदेवपराङ्मुखाः॥
[श्री० भा० ११ स्क० ५ अ०]
न भजति कुमनीषिणां स इज्यां-
हरिरधनात्मधनप्रियो रसज्ञः।
श्रुतधनकुलकर्म्मणां मदैर्ये
विदधति पापमकिञ्चनेषु सत्सु॥
[श्री० भा० ४ स्क० ३१ अ०]
एवमन्यदप्यूहनीयम्। तस्माद्भगवद्धर्म्मश्रद्धा भवतितृतीया भूमिका।
ततो हरिगुणश्रुतिः। यथा—
इत्थं परस्य निजवर्त्मरिरक्षयाऽऽत्त-
लीलातनोस्तदनुरूपविडम्बनानि।
कर्म्माणि कर्म्मकषणानि यदुत्तमस्य
श्रूयादमुष्य पदयोरनुवृत्तिमिच्छन्॥
मर्त्त्यस्तयाऽनुसवमेधितया मुकुन्द-
श्रीमत्कथाश्रवणकीर्त्तनचिन्तयेति।
तद्धाम दुस्तरकृतान्तजयापवर्गं-
ग्रामाद्वनं क्षितिभुजोऽपि ययुर्यंदर्थाः॥
[श्री० भा० १० स्क० ९० अ०]
संसारसिन्धुमतिदुस्तरमुत्तितीर्षो-
र्नान्यः स्रवो भगवतः पुरुषोत्तमस्य।
लीलाकथारसनिषेवणमन्तरेण
पुंसो भवेद्विविधदुःखदवार्द्दितस्य॥
[श्री० भा० १२ स्क० ४ अ०]
निवृत्ततर्षैरुपगीयमाना-
द्भवौषधाच्छ्रोत्रमनोऽभिरामात्।
क उत्तमश्लोकगुणानुवादात्
पुमान् विरज्येत विना पशुघ्नात्।
[श्री० भा० १० स्क० १ अ०]
हरिगुणश्रुतिरिति कृत्स्नभागवतधर्म्मोपलक्षणम्। तथा च—
को नु राजन्निन्द्रियवान् मुकुन्दचरणाम्बुजम्।
न भजेत् सर्व्वतोमृत्युरुपास्यममरोत्तमैः॥
[श्री० भा० ११ स्क० २ अ०]
तच्च भजनं विवृतम्—
श्रवणं कीर्त्तनं विष्णोः स्मरणं पादसेवनम्।
अर्च्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम्॥
इति पुंसाऽर्पिता विष्णौ भक्तिश्चेन्नवलक्षणा।
क्रियेत भगवत्यद्धा तन्मन्येऽधीतमुत्तमम्॥
[श्री० भा० ७ स्क० ५अ०]
** **तदेवं संक्षिप्तम्—
तस्माद् भारत ! सर्वात्मा भगवानीश्वरो हरिः।
श्रोतव्यः कीर्त्तितव्यश्च स्मर्त्तव्यश्चेच्छताऽभयम्॥
[श्री० भा० २ स्क० १ अ०]
क्रमेणोदाहरणम्—
सङ्कीर्त्त्यमानो भगवाननन्तः
श्रुतानुभावो व्यसनं हि पुंसाम्।
प्रविश्य चित्तं विधुनोत्यशेषं-
यथा तमोऽर्कोऽभ्रमिवातिवातः॥
मृषागिरस्ता ह्यसतीरसत्कथा-
न कथ्यते यद्भगवानधोऽक्षजः।
तदेव सत्यं तदिहैव मङ्गलं-
तदेव पुण्यं भगवद्गुणोदयम्॥
तदेव रम्यं रुचिरं नवं नवं-
तदेव शश्वन्मनसो महोत्सवम्।
तदेव शोकार्णवशोषणं नृणां-
यदुत्तमश्लोकयशोऽनुगीयते॥
न तद्वचश्चित्रपदं हरेर्यशो-
जगत्पवित्रं प्रगृणीत कर्हि चित्।
तद् ध्वाङ्क्षतीर्थं न तु हंससेवितं-
यत्राच्युतस्तत्र हि साधवोऽमलाः॥
स वाग्विसर्गो जनताऽघसंप्लवो-
यस्मिन् प्रतिश्लोकमबद्धवत्यपि।
नामान्यनन्तस्य यशोऽङ्किन्तानि यत्
शृण्वन्ति गायन्ति गृणन्ति साधवः॥
[श्री० भा० १२ स्क० १२ अ०]
यशःश्रियामेव परिश्रमः परो-
वर्णाश्रमाचारतपःश्रुतादिषु।
अविस्मृतिः श्रीधरपादपद्मयो-
र्गुणानुवादश्रवणादरादिभिः॥
अविस्मृतिः कृष्णपदारविन्दयोः
क्षिणोत्यभद्राणि समं तनोति च।
सत्त्वस्य शुद्धिं परमात्मभक्तिं-
ज्ञानञ्च विज्ञानविरागयुक्तम्॥
[श्री० भा० १२ स्क० १२ अ०]
स्मरतः पादकमलमात्मानमपि यच्छति।
किं त्वर्थकामान् भजतो नान्याभीष्टान् जगद्गुरुः॥
दृष्टं तवाङ्घ्रियुगलं जनतापवर्गं-
ब्रह्मादिभिर्हृदि विचिन्त्यमगाधबोधैः।
संसारकूपपतितोत्तररणावलम्बं-
ध्यायंश्चराम्यनुगृहाण यथा स्मृतिः स्यात्॥
[श्री० भा० १० स्क० ६९ अ०]
तं नः समादिशोपायं येन ते चरणाब्जयोः।
स्मृतिर्यथा न विरमेदपि संसरतामिह॥
[श्री० भा० १० स्क० ७३ अ०]
तस्माद्रजोरागविषादमन्यु-
मानस्पृहादैन्यभयाधिमूलम्।
हित्वागृहंसंसृतिचक्रबालं-
नृसिंहपादं भजताकुतोभयम् इति॥
[श्री० भा० ५ स्क० १८ अ०]
अहो बतैषां किमकारि शोभनं-
प्रसन्न एषां स्विदुत स्वयं हरिः।
यैर्जन्म लब्धं नृषु भारताजिरे
मुकुन्दसेवौपयिकं स्पृहा हि नः॥
[श्री० भा० ५ स्क० १९ अ०]
याः सम्पर्यचरन् प्रेम्णा पादसंवाहनादिभिः।
जगद्गुरुं भर्तृबुद्ध्या तासां किं वर्ण्यते तपः॥
[वि० पु०]
वैदिकस्तान्त्रिको मिश्र इति मे त्रिविधो मखः।
त्रयाणामीप्सितेनैव विधिना मां समर्च्चयेत्॥
[श्री० भा० ११ रक० २७ अ०]
एवं क्रियायोगपथैः पुमान् वैदिकतान्त्रिकैः।
अर्च्चन्नुभयतः सिद्धिं मत्तो विन्दत्यभीप्सिताम्॥
[श्री० भा० ११ स्क० २७ अ०]
यत्पादयोरशठधीः सलिलं प्रदाय
दूर्वाङ्कुरैरपि बिधाय सतीं सपर्य्याम्।
अप्युत्तमां गतिमसौ भजते त्रिलोकीं-
दाश्वानविक्लवमनाः कथमार्त्तिमृच्छेत्॥
[वि० पु०]
अहो प्रणामाय कृतः समुद्यमः
प्रपन्नाभक्तार्थविधौ समाहितः।
यल्लोकपालैस्त्वदनुग्रहोऽमरै-
रलब्धपूर्वोपसदे सुरेर्पितः॥
[वि० पु०]
तत्तेऽनुकम्पां सुसमीक्षमाणो-
भुञ्जान एवात्मकृतं विपाकम्।
हृद्वाग्वपुर्भिर्विदधन्नमस्ते
जीवेत यो मुक्तिपदे स दायभाक्॥
[श्री० भा० १० स्क० १४ अ०]
ममाद्यामङ्गलं नष्टं फलवांश्चैव मे भवः।
यन्नमस्ये भगवतो योगिध्येयाङ्घ्रिपङ्कजम्॥
[श्री० भा० १० स्क० ३८ भ०]
पतितः स्खलिता वार्त्तः क्षुत्वा वाऽप्यवशो गृणन्।
हरये नम इत्युच्चैः मुच्यते घोरकिल्विषात्॥
[श्री० भा० १२ स्क० १२ अ०]
नताः स्म ते नाथ पदारविन्दं-
बुद्धीन्द्रियप्राणमनोवचोभिः।
यच्चिन्त्यतेऽन्तर्हृदि भावयुक्तै-
र्मुमुक्षुभिः कर्ममयोरुपाशात्॥
गीतासु च—
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे॥
[गीता १८अ०]
यन्नामश्रुतिमात्रेण पुमान् भवति निर्मलः।
तस्य तीर्थपदः किं वा दासानामवशिष्यते॥
[श्री० भा० ९ स्क० ५ अ०]
किं चित्रमच्युत!तवैतदशेषबन्धो!
दासेष्वनन्यशरणेषु यदात्मसात्त्वम्।
योऽरोचयत्सह मृगैः स्वयमीश्वराणां-
श्रीमत्किरीटतटपीडितपादपीठः॥
[श्री० भा० ११ स्क० २९ अ०]
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वाऽनुसृतस्वभावात्।
करोति यद्यत् सकलं परस्मै
नारायणायेति समर्पयेत् तत्॥
[श्री० भा० ११ स्क० २ अ०]
अहो भाग्यमहो भाग्यं नन्दगोपब्रजौकसाम्।
यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम्॥
[श्री० भा० १० स्क० १४ अ०]
इत्थं सतां ब्रह्मसुखानुभूत्या
दास्यं गतानां परदैवतेन।
मायाऽऽश्रितानां नरदारकेण
साकं विजहुः कृतपुण्यपुञ्जाः॥
[श्री० भा० १० स्क० १४ अ०]
मर्त्त्योयदा त्यक्तसमस्तकर्म्मा
निवेदितात्मा विचिकीर्षितो मे।
तदाऽमृतत्वं प्रतिपद्यमानो-
मयाऽऽत्मभूयाय च कल्पते वै॥
[श्री० भा० ११ स्क० २९ अ०]
धर्म्मार्थकाम इति योऽभिहितस्त्रिवर्ग-
ईक्षा त्रयी नयदमौ विविधा च वार्त्ता।
मन्ये तदेतदखिलं निगमस्य सत्यं-
स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः॥
[श्री० भा० ७ स्क० ६ अ०]
देवर्षिभूतात्मनृणां पितॄणां-
न किङ्करो नायमृणी च राजन्!
सर्व्वात्मना यः शरणं शरण्यं-
गतो मुकुन्दं परिहृत्य कर्त्तम्॥
[श्री० भा० ११ स्क० ५ अ०]
तस्मादेवंरूपेण यथाशक्ति भागवतधर्म्मानुष्ठानं भवति चतुर्थभूमिका, एतच्चतुष्टयं साधनमेव।
ततो रत्यङ्कुरोत्पत्तिः। भक्तिर्नाम भक्तिरसस्थायिभावोद्रुतचित्तप्रविष्टभगवदाकारतारूपःसंस्कारविशेष इति वक्ष्यते, स एव धर्म्मोभगवतो धर्म्मानुष्ठानात्मकबीजस्य। तदुक्तम्—
सतां प्रसङ्गान्मम वीर्य्यसंविदो-
भवन्ति हृत्कर्णरसायनाः कथाः।
तज्जोषणादाश्वपवर्गवर्त्मनि
श्रद्धा रतिर्भक्तिरनुक्रमिष्यति॥
[श्री० भा० ३ स्क० २५ अ०]
श्रद्धा भक्तिरसानुभवे, ततो रतिः स्थायी भावः, ततः स एव भक्तिरसतां प्राप्तोऽनुक्रमेण भविष्यतीत्यर्थः।
एवं मनः कर्म्मवशं प्रयुङ्क्ते
अविद्ययाऽऽत्मन्युपधीयमाने।
प्रीतिर्न यावन्मयि वासुदेवे
न मुच्यते देहयोगेन तावत्॥
भवापवर्गो भ्रमतो यदा भवे-
ज्जनस्य तर्ह्यच्युत! सत्समागमः।
सत्सङ्गमो यर्हि तदैव सद्गतौ
परावरेशे त्वयि जायते रतिः॥
[श्री० भा० १० स्क० ५१ अ०]
त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत्।
रतिमुद्वतादद्धा गङ्गेवौधमुदन्वति॥
[वि० पु०]
कर्म्मभिर्भ्राम्यमाणानां यत्र क्वापीश्वरेच्छया।
मङ्गलाचरितैर्दानै रतिर्नः कृष्ण ईश्वरे॥
[श्री० भा० १० क० ४७ अ०]
इयं पञ्चमी भूमिका भक्तेः स्वरूपम्, एतस्या एव परिपाकविशेषादन्याः षड् भूमिकाः फलभूताः।
स्वरूपाधिगतिस्ततः। प्रत्यगात्मस्वरूपस्य स्थूलसूक्ष्मदेहद्वयातिरिक्तत्वेन साक्षात्कारः षष्ठी भूमिका।अन्यथा देहेन्द्रियादिविक्षेपेण जाताया अपि रतेरनिर्वाहात्। तदुक्तम्—
ज्ञानं निःश्रेयसार्थाय पुरुषस्यात्मदर्शनम्।
यदाहुर्वर्णये तत्ते हृदयग्रन्थिभेदनम्॥
अनादिरात्मा पुरुषो निर्गुणः प्रकृतेः परः।
प्रत्यग्धामा स्वयंज्योतिर्विश्वं येन समन्वितम्॥
स एष प्रकृतिं सूक्ष्मां दैवीं गुणमयीं विभुः।
यदृच्छयैवोपगतामभ्यपद्यत लीलया॥
गुणैर्विचित्राः सृजतीं स्वरूपाः प्रकृतिं प्रजाः।
विलोक्य मुमुहे सद्यः स इह ज्ञानगूहया॥
[वि० पु०]
एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान्।
कर्म्मसु क्रियमाणेषु गुणैरात्मनि मन्यते॥
तदस्य संसृतिर्बन्धः पारतन्त्र्यञ्च तत्कृतम्।
भवत्यकर्त्तरीशस्य साक्षिणो निर्व्वृतात्मनः॥
[श्री० भा० ३ स्क० २६ अ०]
तथा—
आत्मा नित्योऽव्ययः शुद्ध एकःक्षेत्रज्ञ आश्रयः।
अविक्रियः स्वदृग्हेतुर्व्यापकोऽसङ्ग्यनावृतः॥
एतैर्द्वादशभिर्विद्वानात्मनो लक्षणैः परैः।
अहंगमेत्यसद्भावं देहादौ मोहजं त्यजेत्॥
(श्री० भा० ७ स्क० ७ अ०)
एवं शुद्धे त्वंपदलच्येऽवगते तत्पदलच्येण सहाभेदज्ञानं भवति। तदप्युक्तम्—
कृष्णमेनमवेहि त्वमात्मानमखिलात्मनाम्।
जगद्धिताय सोऽप्यत्र देहीवाभाति मायया॥
(श्री० भा० १० स्क० १४ अ०)
इत्यादि। एतादृशज्ञानस्य च भक्त्युत्तरकालत्वं दर्शितम्—
वासुदेवे भगवति भक्तियोगः प्रयोजितः।
जनयत्याशु वैराग्यं ज्ञानञ्चयदहेतुकम्॥
(श्री० भा० १ स्क० २ अ०)
श्रेयःसृतिभक्तिमुदस्य ते विभो!
क्लिश्यन्ति ये केवलबोधलब्धये।
तेषामसौ क्लेशल एव शिष्यते
नान्यद्यथा स्थूलतुषावघातिनाम् ॥
[श्री० भा० १० स्क० १४ अ०]
इत्यादि। एतादृशतत्त्वज्ञाने सति वैराग्यदार्ढ्याद् भगवति प्रेम्णो वृद्धिर्भवतीति सप्तमी भूमिका यथा—
न्यस्तक्रीडनको बालो जडवत् तन्मनस्तया।
कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम्॥
आसीनःपर्य्यटनश्नन शयानः प्रपिबन् ब्रुवन्।
नानुसन्धत्त एतानि गोविन्दपरिरम्भितः॥
क्व चिद्रुदति वैकुण्ठचिन्ताशबलचेतनः।
क्व चिद्धसति तच्चिन्ताहाद उद्गायति क्व चित्॥
नदति क्वचिदुत्कण्ठो विलज्जो नृत्यति क्व चित्।
क्व चित् तद्भावनायुक्तस्तन्मयोऽनुचकार ह॥
क्व चिदुत्पुलकस्तूष्णीमास्ते संस्पर्शनिर्वृतः।
अस्पन्दप्रणयानन्दसलिलामीलितेक्षणः॥
स उत्तमश्लोकपदारविन्दयो-
र्निषेवयाऽकिञ्चनसङ्गलब्धया।
तन्वन् परां निर्वृतिमात्मनो मुहु-
र्दुःसङ्गदीनस्य मनःशमं व्यधात्॥
[श्री० भा० ७ स्क० ४ अ०]
तथा—
एवं निर्ज्जितषड्वर्गैःक्रियते भक्तिरीश्वरे।
वासुदेवे भगवति यया संलभ्यते रतिः॥
निशम्य कर्म्माणि गुणानतुल्यान्
वीर्य्याणि लीलातनुभिः कृतानि।
यदाऽतिहर्षोत्पुलकाश्रुगद्गदं-
प्रोत्कण्ठ उद्गायति रौति नृत्यति॥
यदा ग्रहग्रस्त इव क्व चिद्धस-
त्याक्रन्दते ध्यायति वन्दते जनम्।
मुहुः श्वसन् वक्ति हरे! जगत्पते!
नारायणेत्यात्मगतिर्गतत्रपः॥
तदा पुमान् मुक्तसमस्तबन्धन-
स्तद्भावभावानुकृताशयाकृतिः।
निर्द्दग्धवानुशयो महीयसा
भक्तिप्रयोगेण समेत्यधोऽक्षजम्॥
अधोऽक्षजालम्बमिहाशुभात्मनः
शरीरिणः संसृतिचक्रशातनम्।
तद्ब्रह्मनिर्व्वाणसुखं विदुर्बुधा-
स्ततो भजध्वं हृदये हृदीश्वरम्॥
[श्री० भा० ७ स्क० ७ अ०]
एवमन्यदप्यूहनीयम् एतादृशस्य सप्तमीपर्यन्त एव साधनाभ्यासः, अतः परन्तु भूमिकाचतुष्टयमयत्नसाध्यम्।
तस्याथ स्फुरणं ततः, तस्य प्रेमास्पदीभूतस्य भगवतः साक्षात्कारःप्रेमातिशयहेतुकोऽष्टमी भूमिका, तदुक्तम्—
नैकात्मतां मे स्पृहयन्ति के चि-
न्मत्पादसेवाऽभिरता मदीहाः।
येऽन्योन्यतो भागवताः प्रसज्य
सभाजयन्ते मम पौरुषाणि॥
पश्यन्ति ते मे रुचिराण्यम्ब! सन्तः
प्रसन्नवक्त्रारुलोचनानि।
रूपाणि दिव्यानि वरप्रदानि
साकं वाचं स्पृहणीयां वदन्ति॥
तैर्दर्शनीयावयवैरुदार-
विलासहासेक्षितवामसूक्तैः।
हृतात्मनो हृतप्रारणांश्च भक्ति-
रनिच्छतो गतिमण्वीं प्रयुङ्क्ते॥
[श्री० भा० ३ स्क० २५ अ०]
एवमन्यदप्यूह्यम्।
भगवद्धर्म्मनिष्ठाऽतः, यथा श्रीविष्णुपुराणे—
शालग्रामे महाभागो भगवन्न्यस्तमानसः।
उवास रुचिरं कालं मैत्रेय! पृथिवीपतिः॥
अहिंसाऽऽदिष्वशेषेषु गुणेषु गुणिनां वरः।
अवाप परमां काष्ठां मनसश्चापि संयमे॥
यज्ञेशाच्युत! गोविन्द! माधवानन्त! केशव!
कृष्ण! विष्णो! हृषीकेशेत्याह राजा स केवलम्॥
नान्यज्जगाद मैत्रेय! किञ्चित् स्वप्नान्तरेष्वपि।
एतत्परं तदर्थञ्च विना नान्यदचिन्तयत्॥
समित्पुष्पकुशादानं चक्रे देवक्रियाकृते।
नान्यानि चक्रे कर्म्माणि निःसङ्गो योगतापसः॥
[वि० पु०]
पृथिवीपतिर्भरतः। श्रीभागवते च—
अम्बरीषो महाभागः सप्तद्वीपवतीं महीम्।
अव्ययाञ्चश्रियं लब्ध्वा विभवञ्चातुलं भुवि॥
मेनेऽतिदुर्लभं पुंसां सर्वं तत् स्वप्नसंस्तुतम्।
विद्वान् विभवनिर्वाणं तमो विशति यत् पुमान्॥
वासुदेवे भगवति तद्भक्तेषु च साधुषु।
प्राप्तो भावं परं विश्वं येनेदं लोष्टवत्स्मृतम्॥
स वै मनः कृष्णपदारविन्दयो-
र्वचांसि वैकुण्ठगुणानुवर्णने।
करौ हरेर्मन्दिरमार्ज्जनादिषु
श्रुति चकाराच्युतसत्कथोदये॥
मुकुन्दलिङ्गालयदर्शने दृशौ
तद्भृत्यगात्रस्पर्शेऽङ्गसङ्गमम्।
घ्राणञ्च तत्पादसरोजसौरभे
श्रीमत्तुलस्या रसनां तदर्पिते॥
पादौ हरेः क्षेत्रपदानुसर्पणे
शिरो हृषीकेशपदाभिवन्दने।
कामञ्च दास्ये न तु कामकाम्यया
यदुत्तमश्लोकजनाश्रया रतिः॥
एवं सदा कर्म्मकलापमात्मनः
परेऽधियज्ञे भगवत्यधोऽक्षजे।
सर्वात्मभावं विदधन्महीमिमां-
तन्निष्ठविप्राभिहितः शशास ह॥
[श्री० भा० ९ स्क० ४ अ०]
यथा वा—
तं मोपयातं प्रतियन्तु विप्रा-
गङ्गा च देवी धृतचित्तमीशे।
द्विजोपसृष्टः कुहकस्तक्षको वा
दशत्वलं गायत विष्णुगाथाः॥
पुनश्च भूयाद्भगवत्यनन्ते
रतिः प्रसङ्गश्च तदाश्रयेषु।
महत्सु यां यामुपयामि सृष्टिं-
मैत्र्यस्तु सर्वत्र नमो द्विजेभ्यः॥
इति स्म राजाऽध्यवसाययुक्तः
प्राचीनमूलेषु कुशेषु धीरः।
उदङ्मुखो दक्षिणकूल आस्ते
समुद्रपत्न्याः स्वसुतन्यस्तभारः॥
[श्री० भा० १ स्क० १९ भ०]
राजा परीक्षित्।
एवं हि तस्मिन् नरदेवदेवे
प्रायोपविष्टे दिवि देवसङ्काः।
प्रशस्य भूमौ व्यकिरन् प्रसूनै-
र्मुदा मुहुर्दुन्दुभयश्च नेदुः॥
[श्री० भा० १ स्क० १९ अ०]
यथा वा—
वयन्त्विह महायोगिन्! भ्रमन्तः कर्म्मवर्त्मसु।
त्वद्वार्त्तया तरिष्यामस्तावकैर्दुस्तरं तमः॥
[श्री० भा० ११ स्क० ६ अ०]
त्वयोपभुक्तस्रग्गन्धवासोऽलङ्कारचर्च्चिताः।
उच्छिष्टभोजिनो दासास्तव मायां जयेम हि॥
[श्री० भा० ११ स्क० ६ अ०]
एवमन्यदप्यूहनीयम्। भगवद्धर्म्मनिष्ठा प्रयत्नपूर्विकासाधनं, स्वतःसिद्धा तु भगवद्धर्म्मनिष्ठा भवति फलभूता नवमी भूमिका। स्वस्मिंस्तद्गुणशालिता, यथा—
अथो विभूतिं मम मायया चिता-
मैश्वर्य्यमष्टाङ्गमनुप्रवृत्तम्।
श्रियं भागवतीं वा स्पृहयन्ति भद्रां-
परस्य मे तेऽश्नुवते तु लोके॥
[श्री० भा० ३ स्क० २५ अ०]
न कर्हि चिन्मत्पराः शान्तरूपे
नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः।
येषामहं प्रिय आत्मा सुतश्च
सखा गुरुः सुहृदो दैवमिष्टम्॥
[श्री० भा० ३ स्क० २५ अ०]
एवमविनश्वरभगवत्तुल्यगुणाविर्भावो भवति दशमी भूमिका।
प्रेम्णोऽथ परमा काष्ठा प्राणपरित्यागावधिविरहासहिष्णुतारूपा, यथा—
गोपीनां परमानन्द आसीद्गोविन्ददर्शने।
क्षणं युगशतमिव यासां येन विना भवत्॥
[श्री० भा० १० स्क० १९ अ०]
अटति यद्भवानह्रि काननं-
त्रुटिर्युगायते त्वामपश्यताम्।
कुटिलकुन्तलं श्रीमुखञ्चते
जड उदीक्षतां पक्ष्मकृद् दृशाम्॥
[श्री० भ० १० स्क० ३१ अ०]
यर्ह्यम्बुजाक्षापससार भो भवान्
कुरून् मधून् वाऽथ सुहृद्दिदृक्षया।
तत्राब्दकोटिप्रतिमः क्षणो भवे-
द्रविं विनाऽक्ष्णोरिव नस्तवाच्युत!॥
[श्री० भा० १ स्क० ११ अ०]
अन्तर्गृहगताः काश्चिद्गोप्योऽलब्धविनिर्गमाः।
कृष्णं तद्भावनायुक्ता दध्युर्गीलितलोचनाः॥
दुःसहप्रेष्ठविरहतीव्रतापधुताशुभाः।
ध्यानप्राप्ताच्युताश्लेषनिर्वृत्या क्षीणमङ्गलाः॥
तमेव परमात्मानं जारबुद्ध्याऽपि सङ्गताः।
जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः॥
[श्री० भा० १० स्क० २९ अ०]
इत्यादि। अनन्तरोल्लासे चैतत्सप्रपञ्चमुदाहरिष्यते प्रेमेत्युपरम्यते।
लक्षणं भगवद्भक्तेः साधनं सोपपत्तिकम्
सभूमिकं स्वरूपञ्च यथाबुद्धीह वर्णितम्॥३७॥
इति श्रीपरमहंसपरिब्राजकाचार्य्यश्रीमधुसूदनसरस्वतीविरचिते भगवद्भक्तिरसायने स्वरूपभूमिकासाधनसहितभक्तिसामान्यनिरूपणं नाम प्रथम उल्लासः समाप्तः॥
—————
अथ श्रीमधुसूदनसरस्वतीविरचितभक्तिरसायनस्य
प्रेमप्रपासहितो–
भक्तिविशेषप्रतिपादको—
द्वितीयोल्लासः।
श्रीश्रीगौरकृष्णः शरणम्।
सच्चित्सौख्यात्मदेहे प्रकृतिगुणकरणेनाप्यसंसृष्टरूपे
शक्तित्रैविध्ययुक्तेऽनुपधिनिजकृपामात्रतो जीवलभ्ये॥
दाम्नाबद्धे जनन्या प्रणयरशनया गोपसीमन्तिनीभिः
कृष्णे चैतन्यदेवे निरवधिरमलप्रीतिरस्माकमास्ताम्॥१॥
यः श्रीबृन्दाविपिनवसतिं श्रीलगोपालभट्टं-
शालिग्रामात्प्रकटिततनुर्भक्तजीवातुरूपः॥
श्रीमद्राधारमणवपुषाऽऽश्वास्य विभ्राजमानोऽ-
द्याप्यस्त्येवाखिलनतजनाभीष्टपूर्तिं विधातुम्॥२॥
श्रीमदानन्दतीर्थादितत्त्वारामान्तिमान् गुरून्॥
श्रीमद्विद्यागुरून् सर्वान् साञ्जलि प्रणमाम्यहम्॥३॥
यतिकुञ्जरमधुसूदनसरस्वतीवैदुषीसिद्धे॥
भगवद्भक्तिरसायनभक्तिरसायननिबन्धेऽस्मिन्॥४॥
उल्लासत्रयशालिन्याद्येऽस्मिन् मूलकुट्टीका॥
शिष्टद्वये विटीकेऽपेक्षितटीके चिकीर्ष्यते टीका॥५॥
निजयोग्यायोग्यत्वे न कृता चिन्ता मयोत्कहृदयेन॥
भक्तिरसायनसेवनमाश्रयितुं तापतप्तेन॥६॥
दैवात् सरस्वतीयां सरस्वतीं वै सरस्वतीं प्राप्य॥
तीर्थोद्दिधीर्षुभावोऽप्युचितोऽस्ति मिमङ्क्षुचित्तस्य॥७॥
मत्सरशालिन इह चेत्कुर्य्युर्निजकार्यमस्ति न हि खेदः॥
जीयासुः कलहंसितमनसो भगवत्प्रसादेन॥८॥
इह किल चिरादौपकर्णिकतामचकलद् वृत्तमेतदैतिह्यमुद्राऽङ्कितं विद्वद्गोष्ठीगरिष्ठपारम्परीतः प्रसूतम्—पारावारकूलङ्कषयशाः परमहंसपरिब्राजकतल्लजो विपश्चिन्मण्डलीमण्डनः श्रीमधुसूदनसरस्वतीमहानुभावोऽद्वैतकादसमरभेरीयमाणाद्वैतसिद्ध्यादिनिबन्धप्रख्यातप्रावीण्योऽपि ज्योतिरानन्दसमुद्रे संचरिष्णुरपि ज्योतिष्मदानन्दाकृष्टिवशंवदतया भागवतभावसुभगम्भावुकतामनुभवन् प्रस्तूयमानं ग्रन्थं कारिकाऽऽत्मकं ग्रन्थित्वैनं विपरीतुकामः प्रथममेवोल्लासं विवृत्योपररामोपरतिश्श्चेयं देहोपरतौ कारणान्तरोपरतौ वाऽऽयतिष्ठेयं विचिकित्साऽप्यैतिह्यानुगृहीतैवेत्थंकारमव्याख्यानैवेदमीयोल्लासद्वयी प्रथमानाऽऽस्ते, सैवाधुना व्याचिस्यास्यते—
एवं ग्रन्थकारस्तावत्सप्तत्रिंशत्कारिकाभिः स्वरूपभूमिकासाधनसहितस्य भक्तिसामान्यस्य निरूपणेन प्रथमोल्लासं समाप्य; तदन्ते प्रतिज्ञातं भक्तिविशेषनिरूपणमारभते— द्रुत इत्यादिना।
द्रुते चित्ते प्रविष्टा या गोविन्दाकारता स्थिरा॥
सा भक्तिरित्यभिहिता विशेषस्त्वधुनोच्यते॥१॥
अनन्तरोल्लासे कथितप्रकारेण
“चित्तद्रव्यं हि जतुवत्स्वभावात्कठिनात्मकम्।
तापकैर्विषयैर्योगे द्रवत्वं प्रतिपद्यते”॥
इत्यादिना; तत्रैव
“कामक्रोधभयस्नेहहर्षशोकदयाऽऽदयः।
तापकाश्चित्तजतुनः……….”
इत्यादिनोक्तैःकामादिभिश्चित्ते द्रुतिं नीयमाने;
“द्रुते चित्ते विनिक्षिप्तः स्वाकारो यस्तु वस्तुने”—
त्याद्युक्तरीत्या प्रविष्टा या भगवदाकारता स्थिरेत्यनेनोक्ताकारतायाः स्थायित्वं द्योतितं; यथा तत्रैव—
“स्थायिभावगिराऽतोऽसौ वस्त्वाकारोऽभिधीयते”
इत्युक्तः, सा भक्तिरिति कथिता
“द्रुतस्य भगवद्धर्माद्धारावाहिकतां गता।
सर्वेशे मनसो वृत्तिर्भक्तिरित्यभिधीयते”
इति प्रतिपादितदिशा; अधुना=द्वितीयोल्लासे, विशेषः=भक्तिसामान्यस्यावान्तरभेदः प्रतिपाद्यते॥१॥
प्रतिज्ञातविशेषस्य सकारणकतां दर्शयति— चित्तद्रुतेरिति।
चित्तद्रुतेः कारणानां भेदाद् भक्तिस्तु भिद्यते॥
तान्युक्तानि तु संक्षेपाद् व्याख्यायन्तेऽधुना स्फुटम्॥२॥
चित्तस्य मनसो द्रुतेद्रवीभावस्य म्रदिम्न इति यावत् कारणानाम्=उत्पादकानां भेदाद्=वैलक्षण्याद्, भक्तिरपि तुरप्यर्थः, भिद्यते=पृथक्प्रकारा भवति, तानि=कारणानि संक्षेपादेव, उद्देशमात्रेणैव तुरेवार्थः, संक्षेपश्च तदीयलक्षणाद्यनुक्तिरूपः, उक्तानि=प्रथमोल्लासे कामक्रोधेत्यादिकारिकयेति शेषः, तान्येवात्रोल्लासे लक्षणनिर्वचनादिना विशदीक्रियन्त इति तुरीयचरणार्थः॥२॥
संक्षिप्योक्तान् चित्तद्रावकान् विवरीतुं प्रथममुद्देशक्रमेण स्वरूपलक्षणभेदैः कामं विवृणोति—काम इति।
कामः शरीरसंबन्धविशेषः स्पृहयालुता॥
संनिधानासंनिधानभेदेन स भवेद् द्विधा॥३॥
यद्यपि भावार्थकप्रत्ययान्तस्य विशिष्टवाचकपदस्य विशेषणपरताया आनुभविकत्वेन स्पृहयालुताऽपि स्पृहैव सा चेच्छेति काम इच्छाऽऽत्मक एवात्र पर्यवस्यति, तथाऽपि प्रकृते सामान्यवाचकपदानां विशेषपरत्वं लक्षणया योगरूढ्या वा संपाद्य विषयविशेषविषयकेच्छात्वेनेच्छाविशेषस्य विवक्षिततया शरीरसंबन्धविशेषत्वेन सा लिलक्षयिष्यते, शरीरशद्बश्चात्रौचित्यात्सात्मकशरीरबोधकः, संबन्धश्च विषयतारूपस्तं विशिनष्टि=अवगाहते तथा च सात्मकशरीरविषयावगाहिनीच्छेति फलति, तादृशविषयस्य नैकट्यानैकट्याभ्यां द्वैविध्यमुपपादयति—संनिधेत्यादिना, अत्र च सांनिध्यं न संयोगादिरूपम्, असांनिध्यं च तदभावरूपमित्यास्थेयं तथा सति मानविप्रलम्भेऽतिव्याप्तेः क्वचिदसंयुक्तावस्थे संभोगे चाव्याप्तेः किन्तु रतिस्थायिकत्वे सति संयोगभागस्मीत्यनुभवसाक्षिकचित्तवृत्तिविशेषशालितायां संभोगः, रतिस्थायिकत्वे सति न संयोगभागस्मीत्यनुभवसाक्षिकचित्ततृत्तिविशेषशालितायां विप्रलम्भ इति विवेचनीयं रसज्ञैः॥३॥
उक्तसंनिधानासंनिधानाभ्यां क्रमेण संभोगविप्रयोगौ भवतइत्याह — तज्जेति।
तज्जन्यायां द्रुतौ चित्ते या स्याच्छीकृष्णनिष्ठता॥
संभोगविप्रयोगाख्या रतिः सा सा क्रमाद् भवेत्॥४॥
एवं च संनिधानप्रयुक्तद्रवशालिनि चित्ते या श्रीकृष्णाकारता निविष्टा सा रतिः संभोगाख्या, तथाऽसंनिधानप्रयुक्तद्रवशालिनि चित्ते या श्रीकृष्णाकारता निविष्टा सा विप्रलम्भाख्या रतिरुच्यत इत्याशयः।
यद्यपि भगवद्विग्रहमात्रस्यैव साम्यातिशयविनिर्मुक्तसच्चिदा-
नन्दघनात्मकतया रसत्वेनाविर्भावः प्रतिपिपादयिषितस्तथैवोक्तं च मूलकृता—
“भगवान् परमानन्दस्वरूपः स्वयमेव हि॥
मनोगतस्तदाकाररसतामेति पुष्कलम्”इत्यादिना
तथाऽपि यावद्रसस्वरूपतयाऽऽविर्भावरूपफलोपधायकता पूर्णतमत्वप्रकाशनेन विशिष्टधर्मिणि श्रीकृष्णाख्य एवेति रहस्यमार्मिकप्रवरो मूलकारः श्रीकृष्णनामैवोद्दिष्टवान् युक्तं चैतत् पादविभूतौ नित्यप्रकटलीलायां शान्तदास्यसख्यवात्सल्यमाधुर्य्यान्तमुख्यभक्तिरसनिर्यासरूपता यादृशविशिष्टप्रकारैरभिव्यञ्जिता भगवता तादृशविशिष्टप्रकारैरेवोपासकैरास्वादनीयतामर्हति सर्वथोपास्ये नापरथेति, ध्वनितश्चायमर्थो—
ये यथा मां प्रपद्यन्ते ताँस्तथैव भजाम्यहमि—
त्यादिना‚ पराक्रान्तं चात्र सूरिभिर्भक्त्याचार्य्यैरन्यत्र भूरीति तत एवावधारणीयं नेह विस्तरभिया तत्प्रतायते।
अत्रयद्यपि ग्रन्थान्तरेषु रसशास्त्रनिबन्धकैर्बहुभिर्व्यक्तिंभजमानस्यैव रसविशेषस्य संयोगवियोगविशेषावुक्तौ; तन्मूलंचाचार्यभरतमहर्षेः “तस्य द्वे अधिष्ठाने संभोगो विप्रलम्भश्चे”ति चूर्णकं प्रतिभाति‚ तथाऽपि प्रकृते मूलकारः संभोगविप्रयोगाख्येत्यनेन रतिं व्यशिंषदित्यत्र प्रमाणं त्विदमेव यथा शृङ्गाररसस्थायिताऽवच्छेदकतया रतित्वसामान्यसिद्धिस्तथा विप्रलम्भादिस्थायिताऽवच्छेदकतया तद्विशेषात्मकस्य रतिगतवैलक्षण्यस्यापि सिद्धिं को नाम वारयितुमीष्टे, ध्वन्यते स्म चैषा पद्धतिराचार्यभरतमहर्षिप्रणीताद् “दृश्यते हि भावेभ्यो रसानामभिनिर्वृतिरि”त्यादिसूत्रतः, तस्मात्साधुरेव रतेरपि तादृशविशेषणीकृतिर्मूलकृत इति सर्वमनवद्यम् । एतयोरुदाहरणे क्रमेण यथा—
बाहुप्रसारपरिरम्भकरालकोरु—
नीविस्तनालभननर्मनखाग्रपातैः।
क्ष्वेल्याऽवलोकहसितैर्व्रजसुन्दरीणा—
मुत्तम्भयन् रतिपतिं रमयांचकार॥
[ श्री० भा० स्क० १० अ० २९]
गत्याऽनुरागस्मितविभ्रमेक्षितै—
र्मनोरमालापविहारविभ्रमैः।
आक्षिप्तचित्ताः प्रमदा रमापते—
स्तास्ता विचेष्टा जगृहुस्तदात्मिकाः॥४॥
[ श्री० भा० स्क० १० अ० ३० ]
क्रमप्राप्तं क्रोधं लक्षयन् तत्प्रयुक्तद्रुतिशालिनि चित्ते निविष्टाकारतां रतितो भिनत्ति —क्रोध इति।
क्रोध ईर्ष्यानिमित्तं तु चित्ताभिज्वलनं भवेद्॥
तज्जन्यायां द्रुतौ सा तु द्वेषशब्देन गृह्यते॥५॥
पराभ्युदयाद्यंसहिष्णुताऽऽत्मकेर्ष्याजनितं मनसो दीप्तत्वं—क्रोधो भवति, तुशब्देनेर्ष्येतरन्निमित्तं व्यवच्छिन्नं ज्ञेयं, तेन क्रोधेन जन्यायां चित्तद्रुतौ निविष्टा सा श्रीकृष्णाकारता द्वेषपदवाच्या भवति, अत्रापि तुना क्रोधान्यद्द्रावकं निरस्तंबोध्यम्॥५॥ उक्तस्य चित्ताभिज्वलनस्य फलभेदेन द्वैविध्यं दर्शयति—अत्रेति।
अत्र चेतोव्याकुलत्वं सोपद्रावकदर्शनात्॥
उपद्रावकनाशार्थं तत्प्रीत्यर्थं च तद् द्विधा॥६॥
अत्र=द्वेषे सति,चेतसो व्याकुलत्वं=विक्षेपो जायते, अस्मिंश्चसति मनस्तापादीनामुपद्रवजनकानासुदयात् तन्निवृत्तिरिष्यते, सा च द्वेषसाफल्येन भवतीति चित्तव्याकुलत्वस्योपद्रावक-
नाशार्थकता लभ्यते, तदेवोक्तम्—“उपद्रावकनाशार्थमि”ति, कदा चिच्च चित्तप्रीतयेऽपि तद्रव्यकुलत्वं पर्यवस्यति, अत उक्तं— तत्प्रीत्यर्थं चेति, उपपत्तिश्चैतदीयाऽनन्तरकारिकाविवरणे व्यक्तीभाविनी॥६॥
पूर्वोक्तं द्वैविध्यं विशदयति—तत्रेति।
तत्राद्यं द्वेष एव स्याद् द्वितीयं रतिशब्दभाक्॥
उपरिष्टात्तदुभयं मया स्पष्टीकरिष्यते॥७॥
तत्र = तयोरुपद्रावकनाशार्थकतया तत्प्रीत्यर्थकतया च द्विविधयोर्व्याकुलत्वयोः, प्रथमं व्याकुलत्वं द्वेष उच्यते, द्वितीयं च रतिविशेषः, या रतिर्मानाख्यविप्रलम्भतां भजते, तत्र यद्यपि रतिरेव स्थायिभावः तथाऽपि किंचिद्विप्रियदर्शनश्रवणादिमयुक्तेर्ष्याकषायितत्वं विप्रलम्भविशेषताप्रयोजकतासमर्पकाभ्यामन्वयव्यतिरेकाभ्यां वैशिष्ट्यं प्रत्याय्यमानं दुरपन्हवमिति रसमार्मिका विदाङ्कुर्वन्तु‚ उपरिष्टाद= “ईर्ष्याजभयजौ द्वेषौ”“कामजे द्वेरती” इति वक्ष्यमाणाभ्यां कारिकाभ्याम्, उभयं=द्वेषरतिद्वयंमया= कारिकारूपमूलकृता, स्पष्टीकरिष्यते विवरिष्यते।
द्वेषे प्रत्युदाहरणं यथा—
इत्थं निशम्य दमघोषसुतः स्वपीठा–
दुत्थाय कृष्णगुणवर्णनजातमन्युः।
उत्क्षिप्य बाहुमिदमाह सदस्यमर्षी
संश्रावयन्भगवते परुषाण्यभीतः॥
अत्र श्रीभगवद्विषयकेर्ष्यया प्रदीप्तचेतसः शिशुपालस्य द्वेषः।
[ श्री० भा० स्क० १० अ० ७४ ]
प्रीतिप्रयोजकेर्ष्यायामुदाहरणं यथा—
राधामञ्जुलमन्दिरादुपगतश्चन्द्रावलीसूचिवान्
राधे! क्षेममिहेति तस्य वचनं श्रुत्वाऽऽह चन्द्रावली।
कंस ! क्षेममये विमुग्धहृदये ! कंसः क्व दृष्टस्त्वया
राधा क्वेति विलज्जितो नतमुखः स्मेरो हरिः पातु वः॥
अत्रेर्ष्याहेतुको मानश्चन्द्रावल्याः॥७॥
क्रमप्राप्तं भयं लक्षयति—द्वेषेति।
द्वेषाहेतुः स्वमन्तूत्थं वैक्लव्यं चित्तगं तु यत्॥
तज्जन्यायां द्रुतौ याऽऽस्ते रतिः सा भयमुच्यते॥८॥
यद्यपि द्वेषभयस्थले रतिरेव स्थायिनी किन्तु संकीर्णमिश्रता केवलमिश्रिता वा; नैषा शुद्धा, द्वेषे चित्तव्याकुलत्वस्य विरोधिनः सत्त्वात्‚ प्रीत्यर्थकतायामेव विप्रलम्भयोग्यतया स्थायित्वम्, उपद्रावकनिरासार्थकतायां न स्थायित्वम् अत एव " तत्राद्यं द्वेष एव स्याद्” इत्युक्त्यातत्त्वं पर्युदस्तं, भयेऽपि संकीर्णमिश्रिततया केवलमिश्रिततया वा रतेः स्थायित्त्वं‚ तत्तु
“ईर्ष्याजभयजौ द्वेषौ भगवद्विषयावपि।
न भक्तिरसतां यातः साक्षाद् द्रुतिविरोधतः”
इत्यादिना मूलकार एव निषेधमुखेनोपपादयिष्यति, तथाऽपि **“**प्रीतिभीविस्मयास्तथा” “तथा प्रीतिर्भयानकः” इत्युपसंहरन् कारिकाकृद्भयमपि भक्तिरसे संकीर्णविधयोपात्तवान्, तदेवाभिसंधायात्र द्वेषाहेतुरिति विशेषणमुपादत्ते, अयं भावः चित्तगतं निजापराधजनितं वैक्लव्यं विजातीयत्रासविशेषो मृत्युशरणानुसंहित्यादिजनकं यदा भवेत्तदाऽनेन सध्रीचीना रतिर्भयानकभक्तिरसतां विन्दते, द्वेषजनकतायां तु न तथात्वं भजते द्वेषस्य तापकतया चित्तद्रवशोषणादिति परमार्थः॥८॥
उद्देशरीत्या प्राप्तं स्नेहं विवृणोति—स्नेह इति।
स्नेहः पुत्रादिविषयः पाल्यपालकलक्षणः।
सेव्यसेवकभावोऽन्यः सोऽप्युक्तस्त्रिविधो बुधैः॥९॥
सोऽपि = सेव्यसेवकभावरूपोऽपि‚ त्रिविधत्वमव्यवहितोत्तरकारिकया वक्ष्यते, स्पष्टमन्यत्॥९॥
द्वितीयप्रकारकस्नेहस्योक्तं त्रैविध्यं पद्यार्धेन विभज्यस्नेहं— विवृणोति सार्धपद्येन—भगवेति।
भगवद्दास्यसंख्याभ्यां मिश्रितं चापरं जगुः॥
या कृष्णाकारता चित्ते तज्जन्यद्रुतिशालिनि॥१०॥
पाल्यपालकभावेन सा बत्सलरतिर्भवेत्॥
सेव्यसेवकभावेन प्रेयोरतिरितीर्य्यते॥११॥
भगवन्निरूपितं दास्यं तत्संपर्कि सख्यं चेति द्वे, एनयोर्मिश्रणे चैकमित्थं त्रिधा सेव्यसेवकभावमूचुः प्राचीना रसशास्त्राचार्य्याः,अत्र यद्यपि मूलकृतोक्तेसेव्यसेवकभावे त्रैविध्यप्रयोजकं किमपि नासूचि तथाऽपि रसज्ञेष्वभियुक्ततमैः प्रीतिस्थायिको—दास्यरसः विश्रम्भस्थायिकः सख्यापरनामकः प्रेयान् रस इत्थं—दास्यसख्यरसद्वयी व्यवास्थापि सैवेहोपादेया परमतमप्रतिषिद्धमनुमतमिति न्यायेन समानतन्त्रसिद्धान्तरीत्या चेति प्रभुताज्ञाननिबन्धनसादरचाञ्चल्यात्मकसंभ्रमस्थायिकत्वेन, मुक्तसंभ्रमगाढ़विश्वासप्राणविश्रम्भस्थायिकत्वेन च दास्यसख्ययोर्भेद इति बोध्यम्। एवं चोक्तसंभ्रमविश्रम्भप्रयुक्तद्रवशालितायांचित्ते क्रमेण निविष्टा श्रीकृष्णाकारता संभ्रमरतिः विश्रम्भरतिश्र्चोच्येते, पाल्यपालकरूपे स्नेहे सति द्रुतचित्ते तदाकारता वात्सल्यरतिर्भवति, सेव्यसेवकभावेन द्रुतचित्ते तदाकारता प्रेया-
रतिः, निष्कृष्टप्रकारेणेयमेव प्रेयोरतिरुद्दिष्टनामद्वयवती यथायथंव्यवहृियत इति भावः॥१०-११॥
क्रमागतं हर्ष लक्षयन् तत्प्रकाराँश्च दर्शयति—हर्ष इति।
हर्षश्चित्तसमुल्लासः कथ्यते स चतुर्विधः॥
एकः परानन्दमयः श्रीशमाहात्म्यकारणम्॥१२॥
हर्षत्वं हीष्टप्राप्त्यादिजन्यत्वे सति सुखविशेषत्वं‚ तदेव समुल्लासपदेनाभिलप्यते समुदुपसृष्टस्य लसतेस्तादृगर्थकत्वात्‚ सचतूरूपः, तेष्वाद्यमाह—“एकः परानन्दमयः”, एकः = प्रथमः, प्रधानं वा
“एतदन्तं हि शास्त्रेषु साधनाम्नानमिष्यत—”
इत्युपसंहारात् परानन्दमयः =निरतिशयानन्दप्रचुरः, एतदीयप्राधान्यं सूचयति—“श्रीशमाहात्म्यकारणम्” अत्र माहात्म्यरूपविषयेण विषयि तज्ज्ञानमुपलक्ष्यते, अन्यथा तन्माहात्म्यस्य शाश्वतिकतया तत्कारणाप्रसिद्धेरसंगत्यापत्तेः तथा च भगवन्महत्त्वानुभवजनकत्वयोग्य इति पर्यवस्यति॥१२॥
तज्जन्यां रतिं विवृणोति — तज्जेति।
तज्जन्यायां द्रुतौ शुद्धा रतिर्गोविन्दगोचरा।
एतदन्तं हि शास्त्रेषु साधनाम्नानमिष्यते॥१३॥
तज्जन्यायां चित्तद्रुतौ भगवद्विषयिका रतिः शुद्धा, अपरैः संकरमिश्ररणाभावादिति भावः, प्राधान्यं निगमयति**—**एतदन्तमिति, शास्त्रेषु परमपुमर्थोपलब्ध्युपायप्रतिपादकेषु, हि निश्चयेन, साधनानां= परमपुमर्थप्रापकारणाम् आम्ननम्=उपदेशः, इष्यते परमपुरुषार्थिभिरिति शेषः। उक्तं चैतत् स्वयमेव भगवता श्रीमदृषभेण—
पराभवस्तावदबोधजातो यावन्न जिज्ञासत आत्मतत्त्वम्।
यावत् क्रियास्तावदिदं मनो वै कर्मात्मकं येन शरीरबन्धः॥
एवं मनः कर्मवशं प्रयुङ्क्ते अविद्ययाऽऽत्मन्युपधीयमाने।
प्रीतिर्न यावन्मयि वासुदेवे न मुच्यते देहयोगेन तावद्॥इत्यादिना॥१३॥
[ श्री० भा० स्क० ५ अ० ५ ]
हर्षस्य द्वितीयं प्रकारं दर्शयति — व्रीडेति।
व्रीडाविकृतवाग्वेषचेष्टाऽऽदिजनितोऽपरः।
तज्जन्यायां द्रुतौ चेतोविकासो हास उच्यते॥१४॥
लज्जया विरूपैर्वाग्वेषचेष्टाऽऽदिभिरुत्पादितो द्वितीयविधोहर्षः, चित्तस्यैतज्जन्ये द्रवे यो विकासो विस्तारः स हासः॥१४॥
तस्यैव तृतीयं तं निरूपयति — लोकोत्तरेति।
लोकोत्तरचमत्कारिवस्तुदर्शनजः परः॥
तज्जन्यायां द्रुतौ चेतो विकासो विस्मयो मतः॥१५॥
लोकोत्तरस्य= अस्वाभाविकस्य, चमत्कारिणः= सुखविशेषजनकस्य वस्तुनो, दर्शनाद्= ज्ञानाद्, अत्र दृशिर्ज्ञानसामान्यपरः श्रवणादपि तादृशस्य तदुत्पत्तेः, जातो हर्षस्तृतीयभेदः, तेन जनितायां द्रुतौ चित्तस्य यो विकास उल्लासः स विस्मयः॥१५॥
तदीयं तुरीयं प्रकारं कथयति—युद्धेति।
युद्धादितापजनितोवीराणां जायतेः परः॥
जितचित्तस्य विस्तारो द्रुतस्योत्साह उच्यते॥१६॥
युद्धादितो यस्तापः प्रज्वलनं ततो जनितो बीराणां शूराणांहर्षः परश्चतुर्थः, वीरेषु योधिप्रतियोधिनोः कतरीयोऽयमत-
आह— जितेति, जितस्य चित्ते निर्द्दिष्टतापतो द्रुते यो विस्तारऔन्नत्यापरपर्यायः स उत्साहः कथ्यते॥ १६॥
यथोद्देशं शोकं लक्षयति— इष्टेति।
इष्टविच्छेदजनितो यश्चित्ते क्लिष्टतोदयः॥
तज्जन्यायां द्रुतौ विष्टा रतता शोक उच्यते॥१७॥
इष्टस्य=प्रियस्य, विच्छेदाद्=वियोगतो जनितो यः चित्ते क्लिष्टतायाः= व्याकुलत्वस्य, उदयस्तज्जन्यायां द्रुतौ प्रविष्टा रतिः शोक उच्यते ॥१७॥
चित्तद्रावकत्वेन निर्दिष्टेषु संदर्भशुद्ध्यर्थं दयां लक्षयति—दयेति।
दया घृणा स्याद्विषयतुच्छत्वज्ञानदीर्घिका॥
तया द्रुते तु मनसि जुगुप्सा जायते त्रिधा॥१८॥
विषयाणाम्= इन्द्रियाथानां‚ तुच्छत्वस्य= क्षुद्रत्वस्य ज्ञानेन दीर्घा=महती, घृणां= दया स्यात्, तुच्छत्वज्ञानं च त्रिधा भवति विषयेषु‚ तेषामुद्वेजकत्वेन क्षोभकत्वेन विवेकानास्पदत्वे न च, अत एव जुगुप्साऽपि दयया द्रुते चित्ते त्रिधा व्यवहियते॥१८॥
त्रैविध्यमेव कारिकाद्वयेन दर्शयति — पूतीत्यादिना।
प्रतिब्रणादिविषये कथितोद्वेगिनी बुधैः॥
श्मशानोत्थपिशाचादिविषया क्षोभिणी भवेत्॥१९॥
देहेन्द्रियादिदुःखे त्वविचारणपुरःसरा॥
घृणा शुद्धेति कविभिः सा जुगुप्सा प्रकीर्त्तिता॥२०॥
दुर्गन्धव्रणादिविषयिका जुगुप्सोद्वेगिनी, श्मशानपिशाचादिविषयिकेयं क्षोभिणी, शरीरेन्द्रियादिनिबन्धनदुःखविषयि-
का सा शुद्धा घृणा बाह्योपाधिसंपर्काभावाद्, एषा तु विवेकवैधुयप्रयुक्ता, एवं दया त्रिविधा भवति॥१९-२०॥
प्रसङ्गप्राप्तान् उत्साहविशेषान् लक्षयन पूर्वं दयोत्साहं निर्द्दिशति—या त्विति।
या तु शोच्यस्य रक्षाऽर्थं प्रवृत्तिरनुकम्पया॥
तया द्रुते तु मनसि दयोत्साहः स्मृतो बुधैः॥२१॥
शोच्यस्य दयनीयस्य, रक्षाऽर्थं =दुःखप्रहाणार्थम्, अनुकम्पया = कृपया या प्रवृत्तिः = चेष्टा तया मनसि द्रुते दयोत्साहउदेति॥२१॥
दानोत्साहं लक्षयति — सर्वेति।
सर्वस्वमपि दास्यामि प्रार्थयेति च यो महान्॥
उद्यमो द्रुतचित्तस्य दानोत्साहः स उच्यते॥२२॥
हे अर्थिन्! त्वं प्रार्थय= स्वाभीष्टं वस्तु याचस्व, तुभ्यं सर्वस्वमपि दास्यामि, इत्याकारो यो महान् प्रशंसनीयः, उद्यमः=उत्साहो दातुः स दानोत्साहः कथ्यते॥२३॥
धर्मोत्साहं लक्षयति—तथेति।
तथा स्वधर्मरक्षाऽर्थं या प्रवृत्तिः प्रयत्नतः॥
तथा चित्तस्य विस्तारो धर्मोत्साहो द्रुतौ भवेद्॥२३॥
एवं स्वधर्मस्य रक्षाऽर्थं= परिपालनाय, वास्तविकी या चेष्टा;तया द्रुते चित्ते य उत्साहो भवेत् स धर्मोत्साह उच्यते॥२४॥
चित्तद्रावकनिर्द्देशिकायां कारिकायामुक्तेनादिशब्देन ग्राह्यंशमं लक्षयति—वशीति।
वशीकाराख्यवैराग्यंयत् कामास्पृहताऽऽत्मकम्॥
तेन द्रुतस्य चित्तस्य प्रकाशः शम उच्यते॥२४॥
यत् कामस्य = कामनाविषयत्वावच्छिन्नस्य, अस्पृहता = रागशून्यता, तत्स्वरूपं वशीकाराख्यं वैराग्यं= वीतरागता, यथाहुर्भगवत्पतञ्जलिपादाः—“दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्”, दृष्टेषु = ऐहलौकिकेषु‚आनुश्रविकेषु = पारलौकिकेषु विषयेषु वितृष्णस्य = वीतरागस्य वैराग्यं वशीकारपदवाच्यं भवति, तेन निरुक्तवैराग्येण द्रुते चित्ते प्रकाशः=आलोकः,शमः शान्तिरुच्यते॥२४॥
एवं चित्तद्रावकान् प्रदर्श्य; भावान्तरेषु चित्तद्रुतिजनकत्वाभावं प्रदर्शयति—इतोऽन्यथेति।
इतोऽन्यथा तु चित्तस्य न द्रुतिर्विद्यते क्व चित्॥
तदभावात्तु भावो न निरुक्तान्योऽस्ति कश्चन॥२५॥
इतः = कामक्रोधभयस्नेहहर्षशोकदयाशमैश्चित्तं यथा द्राव्यतेतादृशप्रकाराद्, अन्यथा = प्रकारान्तरेण, क्व चित्=सहृदये,चित्तस्य द्रतिर्नानुभविकी, तदभावात्= चित्तद्रुत्यजननाद्, उक्ताद् भावाष्टकाद् भिन्नः कोऽपि भावः स्थायिभावो नास्ति,अयं भावः—निरूपणीयत्वेन प्रकृते सर्वस्मिन्नपि सावान्तरभेदे भक्तिरसे जीवातुतया स्थायिभावस्यैव प्रयोजकतेति निर्विवादमेव, स्थायिता च तन्निरूपिता रतित्वावच्छिन्नस्य साधारणे साधारण्याः असाधारणेऽसाधारण्या इत्यन्यदेतद्,स्थायिभूता=रतिस्तु “स्थायिभावगिराऽतोऽसौ वस्त्वाकारोऽभिधीयत”इत्युक्तदिशा भगवदाकारतैव, तदाकारता च “द्रुते चित्ते विनिक्षिप्तः स्वाकारो यस्तु वस्तुने”त्यादिरीत्या चित्तद्रवमपेक्षते, तदीयद्रुतिश्च द्रावकाधीना, द्रावकाश्चकामादयोऽष्टावेव नान्ये, इत्यर्थादागतोक्ताष्टकातिरिक्तेषु स्थायित्वायोग्यता, तस्मादुपपन्नं भावो न निरुक्तान्योऽस्तीति॥२५॥
उक्तमेवान्वयमुखेन विशदयति— यावेति।
यावत्यो द्रुतयश्चित्ते भावास्तावन्त एव हि॥
स्थायिनो, रसतां यान्ति विभावादिसमाश्रयात्॥२६॥
यद्यपि यावत्योद्रुतयश्चित्तेतावन्त एव स्थायिभावा इत्यापाततः प्रतीयमानोऽप्यर्थो नासंगतस्तथाऽपि प्रातिस्विकरूपेण द्रुतिसमसंख्यकत्वे स्थायिनामानन्त्येनैषामियत्ता दुरवधारणैव स्यात्, न स्याच्च नियमोऽपि किंजातीयस्थायिनः किंजातीयद्रुतिका इत्यत्र,अतोऽनुगमकं रूपं किंचिद्ध वक्तुमुचितं, द्रावकाणां कामादीनां परम्परयाऽनुगमकत्वेतेषामपि स्वतोऽननुगतत्वेन कथमिवापरानुगमकता भवेत्तस्माद् अनुगतैःकामत्वादिभिः उपाधिताऽवच्छेदकैरनुगतीकृतैः कामादिभिरुपाधिभिरुपाहिताश्चित्तीया द्रुतयोऽप्यनुगमयितव्यतामासाद्यः स्वात्मकान् स्थायिनोऽनुगमयन्तीति चित्तद्रावकताऽवच्छेदकानां कामत्वादीनामष्टत्वेन तदवच्छिन्नकामाद्युपाधिनिरूपितोपाधेयताऽवच्छेदकावच्छिन्नचित्तद्रुतीनामप्यष्टतया तदभिन्नाः स्थायिनोऽपि तावन्तएवेति स्वनुगमास्ते, नियमश्च तादृशस्तदीयः सुकर इत्यभिसंधायैव मूलकृता “यावत्यो द्रुतय”इत्याद्युक्तमिति प्रतिभाति। अत्र तावन्त एव स्थायिन इत्युक्त्या ते रसत्वेनाविर्भूष्णुताशालिन इति प्रत्ययस्य यद्यपि यादृश्या द्रुत्या स्थायित्वेनाभिमतया रसाविर्भावौपयिकविभावादिसाकल्पसमवधानं कुतोऽपि प्रतिबन्धकान्नासादितं तामादायाप्रमात्वं दुर्वारमेव, न चोक्तप्रत्ययोऽप्रामाणिकएवेति वाच्यम्, “रसावस्थः परं भावः स्थायितां प्रतिपद्यते”इति सिद्धान्ताद्यस्य भावस्य रसावस्थाऽवश्यं भाविनी तस्यैव स्थायित्वोपगमात्; तथाऽपि रसाविर्भावस्वरूपयोग्यत्वस्योक्तस्थलीयद्रुतावपि सत्त्वेनादोषात्, तथा च रसत्वेनाविर्भावयो-
ग्यताऽवच्छेदकावच्छिन्नस्यैव रसनिरूपितस्थायित्वमिष्यत इति रसदर्शनविदां राद्धान्त इति दिक्॥२६॥
चित्तद्रुतिसामान्यानां स्थायिनां रसतां भगवद्विषयकत्वेऽपवदति—धर्मोत्साह इति।
धर्मोत्साहो दयोत्साहो जुगुप्सा त्रिविधा शमः॥
षडप्येतेन विषया भगवद्विषया न हि॥२७॥
एतेन—विभावादिसमाश्रयाद् यावदुक्तद्रुत्यात्मकस्थायिनां रसभावेन, धर्मदयोत्साहौ जुगुप्सात्रयं शमः षडपि विषयाः—लौकिकविभावादिप्रयोज्यरसास्वादस्य स्थायित्वेन विषया भवन्ति, परन्तु भगवद्विषया न हि भवन्ति। अथ वा—एते नेत्यत्र पदद्वयम्, एते षड़पि प्रकृतस्य भक्तिरसस्य न विषयाः—न स्थायिनः, हि यतः, न भगवद्विषयाः, भजनीयविषयकत्वाभावाद् भक्त्यङ्गत्वासंभव इत्यर्थः। इत्थं व्याख्यान एव मूलकृतोऽपि स्वारस्यमव्यवहितोत्तरकारिकातः प्रतायते॥२७॥
उक्तमेवार्थं द्रढयति — धर्मेति॥
धर्मवीरो दयावीरो बीभत्सः शान्त इत्यमी।
अतो न भक्तिरसतां यान्ति भिन्नास्पदत्वतः॥२८॥
धर्मानुबन्धी वीररसो दयाऽनुबन्धी वीररसो जुगुप्सात्रयनिष्ठस्थायितानिरूपको बीभत्सः शान्त इमे षडपि भक्तिरसतां नाप्नुवन्ति भजनीयालम्बनकत्वाभावात्, तदेवाह—“भिन्नास्पदत्वतः” भजनीयभिन्नालम्बनकलादित्यर्थः, स्पष्टप्रतिपत्त्यर्थं भक्तिरसप्रत्युदाहरणविधयैते प्रदर्श्यन्ते,
तत्र धर्मवीरो यथा—
राज्यं च वसु देहश्चभार्या भ्रातृसुताश्चये।
यच्च लोके ममायत्तं तद् धर्माय सदोद्यतम्॥
अत्र महाराजयुधिष्ठिरस्योत्साहो धर्मविषयकः,
दयावीरो यथा—
स त्त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्त्तयितुं यतस्व।
दिनावसानोत्सुकबालवत्सा विमुच्यतां धेनुरियं महर्षेः॥
अत्र महाराजदिलीपस्योत्साहो धेनुविषयकदयाऽनुबन्धी, उद्वेगिन्या जुगुप्साया स्थायिन्या निरूपको बीभत्सो यथा—
विकीर्णहरिचन्दनद्रविरिण यत्र / लीलालसा
निपेतुरतिचञ्चलाश्चतुरकामिनीदृष्टयः।
तदेतदुपरिभ्रमन्निबिड़गृध्रजालं जनै—
र्लुठत्कृमि कलेवरं पिहितनासिकैर्वीक्ष्यते॥
क्षोभिण्या जुगुप्साया स्थायिन्या निरूपको बीभत्सो यथा—
उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोथभूयांसि मांसा-
न्यंसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा॥
आर्त्तः पर्य्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्का—
दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति।
दुःखनिबन्धनाया शुद्धजुगुप्सायाः स्थायिन्या निरूपकोबीभत्सो यथा—
गात्रं संकुचितं गतिर्विगलिता भ्रष्टा च दन्तावलि-
र्दृष्टिर्नश्यति बर्धते बधिरता वक्त्रं च लालायते।
वाक्यं नाद्रियते च बान्धवजनैर्भार्या न शुश्रूषते।
हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते॥
अत्रायं विशेषः—अविवेकसमानाधिकरणायामेवास्यां घृणायां बीभत्सविशेषस्थायिता, तत्सामानाधिकरण्ये तु शान्तनिरूपिता संचारिता ज्ञेया।
शान्तस्य यथा—
आस्तामकण्टकमिदं वसुधाऽधिपत्यं—
त्रैलोक्यराज्यमपि नैव तृणाय मन्ये।
निःशङ्कसुप्तहरिणीकुलसंकुलासु
चेतः परं वलति शैलवनस्थलीषु॥
इत्थं षट्त्स्वप्येषु भिन्नास्पदतया भक्तिरसता नास्ति।
अत्र शान्तस्य रसत्वे रसदर्शनिनां सगोत्रकलहश्चिरादनुवर्त्तते-तत्राचार्य्यभरतमहर्षिणा तु—
“शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः।
बीभत्साद्भुतसंज्ञाश्चेत्यष्टौ नाट्ये रसाः स्मृताः॥
एते ह्यष्टौ रसाः प्रोक्ता द्रुहिणेन महात्मने”ति
सूत्रयताऽष्टौ रसानुक्त्वास्थायिनोऽप्यष्टावेवोक्तास्तदव्यवहितोत्तरं च निर्वेदादयः संचारिणो निर्द्दिष्टाः, एतदेवानुरून्धाना अत्रभवन्मम्मटभट्टा अपि रसाष्टकमेव प्रोच्य;
“निर्वेद स्थायिभावोऽस्ति शान्तोऽपि नवमो रसः”
इति भङ्ग्यन्तरेण शान्तं निर्द्दिश्य रसानुपसमहार्षुः, एवमितरेऽप्येतदनुयायिनो निबन्धारस्तथैवोक्तवन्तः, एवं स्थिते के चन ऋृजवोऽष्टावेव रसा वस्तुतयेत्यवादीधरन्,
“शान्तस्य शमसाध्यत्वान्नटे च तदसंभवात्।
अष्टावेव रसा नाट्ये न शान्तस्तत्र युज्यते”
इत्युपापीपदंश्चोक्तमर्थम्, किन्त्वेतन्न समीचीनं, सिद्धान्ते नटे रससामान्यस्यैवानुत्पत्त्या तन्निष्ठः शमाभावोऽकिञ्चित्करोऽन्यथा तत्र रत्याद्यभावाद्रसान्तराणामप्यनुपपत्तिरत एव
संगीतरत्नाकरे नृत्याध्याये श्रीमन्निशङ्कशार्ङ्गदेवाः—
“तदचारु यतः किंचिन्न रसं स्वदते नटः।
सामाजिकास्तु लिहते रसान् पात्रं नटो मतः”॥
“ते शुद्धहृदयाः शान्तं स्वविभावविभावितम्।
एकाग्रचेतसः सन्तोऽनुभवन्तीति युज्यते”
“रतिहासशुचः क्रोधोत्साहौभयजुगुप्सते।
विस्मयश्चाथ निर्वेदःस्थायिभावा नवेत्यमी”
इत्यादिना नवरसीमभ्युपगच्छन्तो नव स्थायिनो व्यवातिष्ठिपन्,
न च संगीतशास्त्रे तथोक्तेः प्रकृते किमायातमिति शङ्कनीयम्, चरमोपेयरसप्रतिपादकत्वेन समानतन्त्रसिद्धान्तनयेन तदुक्तेर्निर्विवादमादरणीयतमत्वाद्,
न चैवमपि मुनिवचनविरोधो दुष्परिहरो निर्मूलकता चेति दोषद्वयमापततीति वाच्यम्, एतदेवाशङ्यतत्रैव नृत्याध्याये—
“उद्दिश्य स्थायिनः प्राप्ते समये व्यभिचारिणाम्।
अमङ्गलमपि ब्रूते पूर्वं निर्वेदमेव यत्”॥
मुनिर्मेनेऽस्य तन्ननं स्थायिताव्यभिचारिते।
पूर्वापरान्वयो ह्यस्य मध्यस्थस्यानुषङ्गतः”
इति समादधिरे ते, तथा च निर्वेदस्य स्थायिनामन्ते संचारिणामादावुल्लेखान्मध्यमणिन्यायेन देहलीदीपकन्यायेन वोभयतैव महर्ष्यनुमतेति कल्प्यते,
न च तदीयकल्पनायामपि किं मूलमिति चोद्यम्?
श्रीमदग्निपुराणे रसनिरूपणाध्याये—
शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः।
बीभत्साद्भुतशान्ताख्याः…………….
इति वचनेन नवत्वं रसानां भगवच्छ्रीकृष्णद्वैपायनपादाअपि समनुमन्यन्ते स्म,
अत एव पण्डितराजा अपि रसानां नवत्वस्थापने “मुनिवचनं चात्र मानमि”ति सममूसुचन्, तत्रत्यमुनिशद्बेनाग्निपुराण-
स्मर्त्तृपादा एव, न तु नाट्यस्मृतिस्मर्त्तृपादा ग्राह्याः, नाट्यसूत्रेषु निर्द्दिष्टवचनानुलम्भादिति सर्वपथीना विपश्चितोऽनुशीलयन्तु,
न चैवं स्थितेऽग्निपुराण एव “स्थायिनोऽष्टौ रतिमुखाः”,इति वचनोपलब्ध्या कतमः स्थायी निर्वासनीयः कतमस्य वा रसत्वमुच्चिच्छित्सितव्यमिति संकटे विवादाकुलतया शमशान्तयोरेवैतत्सौभाग्यं फलिष्यतीत्यपि सांप्रतम्, क्लृप्ते खलु शान्तस्य रसत्वेतन्निरूपिता स्थायिता क्वत्येति विचारणायां परम्पराऽऽगतान् मतभेदान् श्रीशार्ङ्गदेवा एवोदटङ्कयन्—
“जुगुप्सां स्थायिभावं तु शान्ते के चिद्रभाषिरे।
उत्साहमाहुरन्ये ऽन्ये शमं सर्वान् परे विदुः”॥
इति प्रतिपादयन्तः।
एवं च शान्तीयस्थायित्वे मतचतुष्टये नाट्यसूत्रानुमतं तृतीयमतम्, आग्नेयानुमोदितं प्रथमं द्वितीयं वाऽस्तु; द्वयोरप्यष्टान्तर्गतत्वाविशेषात्, स्थायिविषयकमतभेदस्य—
“उपेयप्रतिपत्त्यर्था उपाया अव्यवस्थिताः”।
“गुणे त्वन्याय्यकल्पना”इत्यादिरीत्याऽकिंचित्करत्वात्,“स्थायिनोऽष्टौ रतिमुखाः” इत्याग्नेयवचनघटकस्थायिपदस्य स्थायिताऽवच्छेदके तात्पर्यं, तेन न वैषम्यं, तात्पर्यग्राहिका च त्यैव रसानां नवत्वोक्तिः।
नन्वेवं शान्तीयस्थायिभावविषये मतचतुष्टये जुगुप्सात्वादीनां चतुर्णां शान्तव्यक्तिकारणताऽवच्छेदकतया व्यभिचारात् कार्य्यकारणभावानुपपत्तिरिति चेद्?न—ईदृशस्थले कार्यताऽवच्छेदककुक्षावव्यवहितोत्तरत्वनिवेशस्य सर्वानुमोदितत्वाद्, न च सर्वान् परे विदुरिति तुरीये मते जुगुप्साऽऽदित्रयस्यापि स्थायित्वे कतमीयधर्मस्य स्थायिताऽवच्छेदकत्वं स्यादिति शङ्क्यम्?
अत्र मते जुगुप्सात्वोत्साहत्वशमत्वेषु शान्तीयस्थायिताऽवच्छेदकतायां व्यासज्यवृत्तित्वस्योपगमात्, परन्त्वेतत्सर्वमपि प्राकृतालम्बनकतया प्राकृतरसाभिप्रायकं ज्ञातव्यम्, प्रकृते तु भक्तिरसंनिरूपयितुं प्रवृत्तो मूलकारोऽप्राकृतं भजनीयं भगवन्तमालम्बमाना ये स्थायिनो रसपदवीमध्यासितुमर्हन्ति त एव भक्तिरसताभाजो भवन्तीति सिद्धान्तमनुसरन् शान्तस्यापि भक्तिरसतां पर्य्युदास्थत्।
परमार्थतस्तु— रसतत्त्वाभिरूपतल्लजा भक्तिरसेषु मधुरान्तिमानं मुख्यान् रसान् प्रतिपादयन्तः तेष्वादिमं शान्तं मुख्यभक्तिरसं प्राहुः— उपपत्तिश्चात्रेत्थम्—भक्तिरसमात्रं प्रति भगवद्विषया रतिः स्थायिभाव इति तु क्लृप्तमेव, तदुक्तं—
“स्थायी भावोऽत्र स प्रोक्तः श्रीकृष्णविषया रतिः”
इयं च रतिर्मुख्या गौणी चेति द्विधा, तत्र
“शुद्धसत्वविशेषात्मा रतिर्मुख्येति कीर्त्तिता”
तथा
“विभावोत्कर्षजो भावविशेषो योऽनुगृह्यते।
संकुचन्त्या स्वयं रत्या सा गौणी रतिरुच्यते,”
एवं मुख्यां गौणीं च रतिं लक्षयित्वा;
“शुद्धा प्रीतिस्तथा सख्यं वात्सल्यं प्रियतेत्यसा”वि-
त्यादिना मुख्यायाः पञ्चविधत्वमुपपाद्य;
“सामान्याऽसौ तथा स्वच्छा शान्तिश्चेत्यादिमा त्रिधे”-
त्यादिना शुद्धाया एव रतेर्विशेषः शान्तिरित्युक्तं, ततश्च
“प्रायः शमप्रधानानां ममतागन्धवर्जिता।
परमात्मतया कृष्णे जाता शान्ती रतिर्मता”—
इत्यादिना शान्त्यात्मिका रतिरुपसंहृता, एवं च शान्तिरतिस्थायिकः शान्तो भक्तिरसः सिद्धः, उदाहृतश्च—
हरिवल्लभसेवया समन्तादपवर्गानुभवं किलावधीर्य्य।
घनसुन्दरमात्मनोऽप्यभीष्टं परमं ब्रह्म दिदृक्षते मनो मे॥
न चैतदखिलमप्रामाणिकमिति भ्रमितव्यम्? आग्नेये किल
अक्षरं ब्रह्म परमं सनातनमजं विभुम्।
वेदान्तेषु वदन्त्येकं चैतन्यं ज्योतिरीश्वरम्॥
आनन्दः सहजस्तस्य व्यज्यते स कदा चन।
व्यक्तिः सा तस्य चैतन्यचमत्काररसाहूया॥
इत्यादिना भूयसा प्रबन्धेनोपपादितत्वाद्, इतोऽपि विशेषः श्रीमद्भागवतादिषु द्रष्टव्यः, नाट्यसूत्रे तु प्राकृतरसनिरूपणानुरोधाद्दास्यसख्यवात्सल्यानां भावतोक्ता, सैव च प्राकृतरसनिरूपणप्रवृत्तैर्निबन्धकारैः प्राच्यैरुदीच्यैश्चानूदितेति तदनुक्तिमात्रतो नाप्रामाणिकता, नापि न्यूनता, नतरां विरुद्धता च, प्रकृतमूलकारश्चशान्तरसस्य भक्तिरसबहिष्ट्वंविषयविरागात्मकनिर्वेदपर्यायं शममभिप्रेत्यैवोक्तवान्, बीभत्से च तथात्वं भगवदालम्बनकरत्या साक्षादनुपस्कृतत्वज्जुगुप्सायाः, धर्मदयोत्साहयोस्तु स्पष्टैव भिन्नालम्बनकतेति विचिन्त्यैव सुसूक्ष्मदृशा सुधियोऽवधारयन्त्विति सर्वमवदातम्॥२८॥
भक्तिरसताऽनर्हताप्रसङ्गेव स्थलान्तरमपि तादृशं दर्शयतईर्ष्येति।
ईर्ष्याजभयजद्वेषौ भगवद्विषयावपि॥
न भक्तिरसतां यातः साक्षाद् द्रुतिविरोधतः॥२९॥
ईर्ष्योक्तस्वरूपा तज्जन्यो भयजन्यश्च द्वेषौ भगवन्तं विषयीकुर्वन्तावपि साक्षादेव चित्तद्रवविरोधिनावतो न भक्तिरसतां भजतः,
अयं भावः—यथा जुगुप्साऽऽदयो हि चित्तद्रावकाः सन्तोऽपि भगवदनालम्बनकतया भक्तिरसत्वपदवीं प्राप्तुं नोत्सहन्ते; तथोक्तद्वेषद्वयमपि भगवद्विषयकमपि चित्तद्रावकत्त्वाभावाद् भक्तिरसीभवितुं न क्षमते, एवं च भगवद्विषयकत्वे सति चित्तद्रावकभावत्वमेव मूलकृन्मते भक्तिरसोदयत्वावच्छिन्नजन्यतानिरूपितजनकताऽवच्छेदकमिति न का चिदनुपपत्तिरापत्तिर्वेति॥२९॥
उक्तद्वेषयोः सत्त्वेभक्तानास्वाद्यतां सहेतुकमाह—शुद्धइति।
शुद्धो रौद्ररसस्तत्र तथा रौद्रभयानकः॥
नास्वाद्यः सुधिया प्रीतिविरोधेन मनागपि॥३०॥
शुद्ध ईर्ष्याजनितक्रोधस्थायिको रौद्ररसः तथेर्ष्याजन्यद्वेषसंकीर्णभयस्थायिको रौद्रभयानकश्च यद्यपि परत्र रसौ भवतोभक्तिरसत्वं तु तत्र नायाति, तत्र हेतुः प्रीतिविरोधेनेति, अयंभावः—अपर्य्यनुयोज्यो हि वस्तुस्वभावः तेन यद्विषयेर्ष्याभवेन्न जातु तद्विषयिका प्रीतिरुदेति ततश्च भक्तिरसास्वादलिप्सुमतिना किंचिदपि तत्रास्वादो न प्राप्यते॥३०॥
तर्हि के भावा भगवद्विषयीभावार्हा इत्याह—कामजे इति।
कामजे द्वेरती शोकः प्रीतिभीविस्मयास्तथा॥
उत्साहो यदि दाने च भगवद्विषया अमी॥३१॥
कामजे द्वे रती— संभोगविप्रलम्भीये, शोकप्रीतिभीविस्मयादानोत्साहश्च, एते भावा भगवद्विषया भवन्ति॥३१॥
एतेषां रसत्वं भक्तिरसत्वं चाह—व्यामिश्रेति।
घ्यामिश्रभावरूपत्वं यान्त्येते क्षीरनीरवत्॥
विभावादिसमायोगे तथा भक्तिरसा अपि॥३२॥
एते भावा विभावादीनां समायोगे=संबन्धे समानविषयिकत्वे विभावादिविषयकसमूहालम्बनज्ञानविषयताशालित्वे सतीति यावद् व्यामिश्रतां= पार्थक्यप्रतीत्यनर्हताऽऽख्येन विशेषेण; आस मन्ताच्चर्वणाविश्रान्तिक्षणावधि मिश्रणं प्रातिस्विकरूपेणाविवेच्यतां भजन्ति, तत्र दृष्टान्तः—क्षीरनीरवदिति, क्षीरनीरयोर्यथा मिश्रणे किंचिदपि पार्थक्यं नोपलभ्यते तथा, तदा चैते रसपदवाच्या भवन्ति, भगवद्विषयकत्वे तु भक्तिरसा उच्यन्ते॥३३॥
तानेवोद्दिशति—शृङ्गेति।
शृङ्गारः करुणो हास्यस्तथा प्रीतिर्भयानकः॥
अद्भुतो युद्धवीरश्च दानवीरश्च मिश्रिताः॥३३॥
प्रायेणेथं कारिका स्पष्टा, मिश्रिता इति अयं भावः–मूलकृताऽनुपदमेव भावानां चातुर्विध्यं वक्ष्यते, तदनुसारेण रसानामपि तथात्वं विवक्ष्यते, तत्र भावानां भगवद्विषयकत्वेन विभावादिसंपर्के मिश्रितत्वेन परिभाषेष्यते, तदेवोक्तं मिश्रिता इति, अतएव प्रीतिरप्यत्र सख्याख्या ज्ञेया, दास्यवात्सल्ययोः शृङ्गग्राहिकया शुद्धत्वेन वक्ष्यमाणत्वादिति भावः। एषामुदाहरणेषु— संभोगशृङ्गारो यथा—
दोर्भ्यां संयमितः पयोधरभरेणापीडितः पाणिजै–
राविद्धो दशनैः क्षताधरपुटः श्रोणीतटेनाहतः।
हस्तेनानमितः कचेऽधरसुधापानेन संमोहितः
कृष्णः कामपि तृप्तिमाप तदहो कामस्य वामा गतिः॥
विप्रलम्भशृङ्गारस्तु—
अभिलाषविरहेर्ष्याप्रवासशापहेतुकतया पञ्चविध इति तत्रभवन्मम्मटभट्टाःप्राहुः के चित्तु—
“पूर्वानुरागमानाख्यप्रवासकरुणात्मना।
विमलम्भाभिधानोऽयं शृङ्गारः स्याच्चतुर्विधः”
इत्थं तच्चतुष्ट्वंवदन्ति, रसशास्त्राचार्य्याभियुक्ततल्लजास्तु—पूर्वरागमानप्रवासप्रेमवैचित्त्यभेदात्तस्य चातुर्विध्यमुपगच्छन्ति, पूर्वमतविरोधस्तु नोद्भाव्यः—पूर्वरागेणाभिलाषस्य, मानेनेर्ष्यायाः, प्रेमवैचित्त्यस्य विशेषेण विरहस्य, शापस्य च शप्तयोरैकाधिकरण्येपाण्डुमाद्योरिवविरहेण, वैयधिकरण्ये यक्षतत्कान्तयोरिव प्रवासेनान्तर्भावं प्रतिपादयन्ति, दिङ्मात्रेणोदाह्रियते—
अकस्मादेकस्मिन् पथि सखि मया यामुनतटं—
व्रजन्त्या दृष्टो यो नवजलधरश्यामलतनुः।
स दृग्भङ्ग्या किं वाऽकुरुत न हि जाने तत इदं—
मनो मे व्यालोलं क्व चन गृहकृत्ये न लगति॥
अत्र पूर्वरागः।
करुणो यथा—
तं नागभोगपरिवीतमदृष्टचेष्ट—
मालोक्य तत्प्रियसखाः पशुपा भृशार्त्ताः।
कृष्णेऽर्पितात्मसुहृदर्थकलत्रकामा—
दुःखाभिशोकभयमूढधियो निपेतुः॥
हास्यो यथा—
यास्याम्यस्य न भीषणस्य सविधे जीर्णस्य शीर्णाकृते–
र्मातनेष्यति मां पिधाय कपटादाधारिकायामसौ।
इत्युक्त्वा चकिताक्षमद्भुतशिशावुद्वीक्षमाणे हरौ
हास्यं तस्य निरुन्धतोऽप्यतितरां व्यक्तं तदाऽऽसीन्मुनेः॥
दास्यनामा प्रीतिर्यथा—
नवाम्बुधरबन्धुरः करयुगेन वक्त्राम्बुजे
निधाय मुरलीं स्फुरत्पुरटनिन्दिपट्टाम्बरः।
शिखण्डकृतशेखरः शिखरिणस्तटे पर्यटन्
प्रभुर्दिवि दिवौकसो भुवि धिनोति नः किङ्करान्॥
भयानको यथा—
दंष्ट्राकोटिकठोरकूटकटुना ब्रह्माण्डभाण्डस्थितं—
सर्वं चर्वयसीव हन्त वदनेनोद्गीर्णपूर्णत्विषा।
जिह्वाऽग्रेण समग्रमुग्रमहसा लेलिह्यसे रोदसी
ग्रस्तं मामिह पाहि पाहि भगवन् पार्थोऽप्यपार्थोऽभवम्॥
अद्भुतो यथा—
चित्रं बतैतदेकेन वपुषा युगपत्पृथक्।
गृहेषु व्द्यष्टसाहस्रं स्त्रिय एक उदावहत्।
युद्धवीरो यथा—
गुणं कर्णाकृष्टं करकिसलयं तृणशिखरे
धनुश्चक्रीभूतं निपतदिषुवृन्दं तत इतः।
रिपून् भूमौ सुप्तान् कलयति समं देवनिकरे
जरासंधस्याजौ जयति भुजवीर्य्यं मुरभिदः॥
दानवीरो यथा—
यजन्ति यज्ञं क्रतुभिर्यमादृता—
भवन्त आम्नायविधानकोविदाः।
स एव विष्णुर्वरदोऽस्तु वा परो—
दास्याम्यमुष्मै क्षितिमीप्सितां मुने !॥
सर्वेष्वेषूदाहरणेषु भगवदालम्बनकत्वेन भक्तिरसः॥३४॥
मिश्रितत्वप्रसङ्गादमिश्रां रतिं निर्दिशति—शुद्धेति।
शुद्धा च वत्सलरतिः प्रेयोरतिरिति त्रयी॥
भावान्तरामिश्रितत्वादमिश्रा रतिरुच्यते॥३४॥
स्पष्टैषा कारिका॥३४॥
उक्तरतिस्थायिकान् रसानाह—विशुद्ध इति।
विशुद्धो वत्सलः प्रेयानिति भक्तिरसास्त्रयः॥
रसान्तरामिश्रितास्ते भवन्ति परिपुष्कलाः॥३५॥
इतिशब्दोहेतौ, यतो रतिस्त्रिविधा ततो रसा अपि त्रयोभवन्ति, शुद्धरतिस्थायिको विशुद्धाख्यो, वत्सलरतिस्थायिकोवत्सलाभिधः, प्रेयोरतिस्थायिकः प्रेयोनामा, त्रिविधा रसाः, ते रसा भावान्तरामिश्रितस्थायिकतयैव रसान्तरामिश्रिता अतएव परिपुष्कलाः=निसर्गपूर्णस्वभावका इत्यर्थः।
एषामुदाहरणानि यथा—
तत्र विशुद्धभक्तिरसः—
हरिवल्लभसेवया समन्तादपवर्गानुभवं किलावधीर्य्य।
घनसुन्दरमात्मनोऽप्यभीष्टं परमं ब्रह्म दिदृक्षते मनो मे॥
वात्सल्यभक्तिरसः—
सुतमङ्गुलिभिः स्न्नुतस्तनी चिबुकाग्रे दधती दयाऽऽर्द्रधीः।
समलालयदालयात् पुरः स्थितिभाजं व्रजराजगेहिनी॥
प्रेयोभक्तिरसः—
श्रीदामदोर्विलसितेन कृतोऽपि कामं—
दामोदर! त्वमिह दर्पधुरादरिद्रः ।
सद्यस्त्वया तदपि कत्थनमेव कृत्वा
देव्यै हिये त्रयमदायि जलाञ्जलीनाम्॥३५॥
वैशिष्ट्यं विवक्षुः सिंहावलोकितकेन पुनः शृङ्गारमाह—
शृङ्गेति।
शृङ्गारो मिश्रितत्वेऽपि सर्वेभ्यो बलवत्तरः।
तीव्रतीव्रतरत्वं तु रतेस्तत्रैव वीक्ष्यते॥३६॥
मिश्रितत्वेऽपि कामेनेति शेषः, “तज्जन्यायां द्रुतौ चित्ते”इत्यादिना पूर्वोक्तत्वात् शृङ्गारः सर्वेभ्यः = केवल संकीर्णमिश्रितस्वेतरकेवलमिश्रितशुद्धेभ्यः, बलवत्तरः=निरतिशयचमत्कारात्मकः, तमपि कर्त्तव्ये तरबुक्तिः शृङ्गारतदितरयोर्निर्धार्य्यतानिरूपकतामाश्रित्य; बोध्या, तादृशत्वे हेतुमाह— तीव्रेति, रतेः संभोगे तीव्रता, विप्रलम्भे तीव्रतरता, उपलक्षणं चैतत् तत्रापि तीव्रतमता पूर्वरागे ज्ञेया, कुतस्त्येयं मधुररतेर्विधेत्यस्य तु नैसर्गिकीत्येवोत्तरं तदुक्तम्—
“नदीनां ललनानां च भुजङ्गानां तथैव च।
प्रेम्णां चैव गतिर्वक्राकारणं तत्र नाप्यते”॥इति॥३६॥
रसानां चातुर्विध्यं दर्शयति — के चिदिति।
के चित् केवलसंकीर्णाः केचित् संकीर्णमिश्रिताः।
के चित् केवलमिश्राश्च शुद्धाश्च स्युश्चतुर्विधाः॥३७॥
तत्र रतेर्भावान्तरयोगे केवलसंकीर्णा रसाः, भावान्तरसंकीर्णत्वे सति भगवद्भिन्नालम्बनकत्वे संकीर्णमिश्रितास्ते, भगवद्विषयकत्वेऽपि भावान्तरयोगे केवलमिश्रितास्ते, भावान्तरासध्रीचीनतायां शुद्धाः, भगवद्विषयकत्वं त्वत्रानुक्तमपि बोध्यमेव भक्तिरसस्य प्रकरणाद्॥३७॥
इदमेव विशदयति—तत्रेत्यादिकारिकात्रयेण—
तत्र केवलसंकीर्णा रौद्रो रौद्रभयानकः।
धर्मवीरो दानवीरो बीभत्सः शान्त इत्यपि॥३८॥
मिश्रा एवान्यविषयाः प्रोक्ताः संकीर्णमिश्रिताः।
भगद्विषयास्ते तु ख्याताः केवलमिश्रिताः॥३९॥
शुद्धास्त्रयः पुरैवोक्ताः संकीर्य्यन्ते न केन चित्।
एवं निरूपिता भक्तिः संक्षेपादुच्यते पुनः॥४०॥
तत्र क्रोधभयोत्साहजुगुप्सानिर्वेदसंयोगतः संकीर्णाः रौद्रादिशान्तान्ता उच्यन्ते, किन्त्वेतैरपि रसत्वेन सालम्बनकैर्भवितव्यमेव, तथा च भगवदालम्बनकत्वे केवलमिश्रिताः, तद्भिन्नालम्बनकत्वे संकीर्णमिश्रिताः, भावान्तरसंयुक्ततादशायामेव भगवद्विषयाः शुद्धाः, एवं प्रभेदाद्यप्रदर्शनपूर्वककथनात्मकात् संक्षेपाद् भक्तिरसो निरूपितः, पुनः कथ्यते प्रकारान्तरैरिति शेषः। एवं कारिकात्रयस्य वर्त्तलार्थोऽत्र ज्ञेयः, उदाहरणानि च केवलमिश्रितानां शुद्धानां च प्रदर्शितान्येव, केवलसंकीर्णानां तु संकीर्णमिश्रितानामेवान्तर्गतानि एषां तु प्रकृतानुपयोगितया न दर्शितानि भगद्भिन्नविषयकत्वेन सुज्ञानानि, बहुत्र बहुभिरुक्तान्येवातोजिज्ञासुभिस्तत एव ज्ञेयानि॥३८–३९–४०॥
तान्येव भक्तेः प्रकारान्तराणि द्वाभ्यामाह— राजसीति।
राजसी तामसी शुद्धसात्त्विकी मिश्रिता च सा।
ईर्ष्याजद्वेषजाऽऽद्या स्याद् भयजद्वेषजा परा॥४१॥
हर्षजा शुद्धसत्त्वोत्था कामशोकादिजेतरा॥
सत्त्वजत्वे तु सर्वासां गुणान्तरकृता भिदा॥४२॥
पुनर्भक्तिः चतुर्विधा—रजः प्रधाना, तमः प्रधाना, सत्वाभिभूतरजस्तमाः, मिश्रिता च तत्रेर्ष्यातो जाताद् द्वेषाज्जाता आद्या = राजसी, भयतो जाताद् द्वेषाज्जाता परा =तामसी, हर्षतो जाता तृतीया, कामतः शोकतः आदिपदग्राह्येभ्यः= ईर्ष्याजनकभिन्नभयस्नेहहर्षदयाऽन्तेभ्यो जाता; इतरा= मिश्रिता,
अत्रेदमनुसंधेयं— प्रथमोल्लासे प्रथममौपनिषदप्रस्थानसंमतरसप्रक्रिया, चरमं सांख्यप्रस्थानानुसारिणी तद्रीतिरुक्ता, तत्र प्रथममतेन सार्धकारिकया भक्तिचतुष्ट्वमुक्तं, तुपदेन सांख्यरीतिमाश्रित्याह—सत्त्वेति, यद्यपि सांख्यनये—
“एवं सति सुखाकारः प्रविष्टो मानसे यदे”-
त्यादिनोक्तविधया सर्वासामेव त्रिगुणात्मकतायामप्यभिभूतेतरगुणद्वयीकसत्त्वोद्भूतत्वेन सत्त्वजत्त्वव्यवहारस्तथाऽपि वृत्त्युदयोत्तरकालोपनिपतितकारणान्तरप्रयुक्तरजस्तमःप्रकटतावि शेषसहचरीणां तासां राजसीत्वादिव्यवहारोऽपि सुकरइत्याह— गुणान्तरकृता भिदेति, तथा च तदानीं यदीयं प्राधान्यं तन्नाम्नोल्लेखः “प्रधानेन व्यपदेशा भवन्ती”ति न्यायेनेति निष्कर्षः॥४१॥४२॥
उक्तचतुर्विधभक्तिस्थायिषु वैलक्षण्यमाह—तत्रेति।
तत्र ते रतितां नैव यातः सुखविरोधतः॥
रतिशब्दं तु भजतः सुखमय्यौ परे द्रुती॥४३॥
तत्र=तासु भक्तिषु, ते प्रथमोद्दिष्टे राजसीतामस्यौ रतितां = रतिस्वभावं नैव यातः = जात्वपि न प्राप्नुतः, तत्र हेतुः—सुखवियोगतः—सुखविरोधिदुःखानुशयिनोद्वेषस्योदयो विरुन्ध्यादेव सुखं; न पुनरनुरुन्ध्यादिति भावः, यथाहुर्भगवत्पतञ्जलिपादाः—“सुखानुशयी रागः,” दुःखानुशयीद्वेषः,”इति परे चरमोद्दिष्टे तु द्रुती सत्त्वप्रधान्योदिते सत्यौ सुखमय्यावतो रतिशब्दं भजतः = चित्तस्य रमणादन्वर्थतया रतिपदवाच्ये भवत इति भावः॥४३॥
उक्ताया भक्तेः पुनः प्रकारान्तरैस्त्रैविध्यमाह— भक्तिरिति।
भक्तिश्चतुर्विधाऽप्येषा भगवद्विषया स्थिरा॥
दृष्टादृष्टोभयैकैकफला भक्तिस्त्रिधा भवेत्॥४४॥
पूर्वोक्तचातुर्विध्याऽप्येषा भक्तिर्भगवद्विषया सती स्थिरा चेद् दृष्टादृष्टोभयफला, दृष्टमात्रफला, अदृष्टमात्रफला, एवंत्रिधा भवेत्॥४४॥
अविशिष्योक्तं त्रैविध्यं व्यवस्थापयितुमाह —राजसीति।
राजसी तामसी भक्तिरदृष्टफलमात्रभाक्॥
दृष्टादृष्टोभयफला मिश्रिता भक्तिरिष्यते ॥४५॥
पूर्वोक्तभक्तिचतुष्टये राजसीतामस्यौ भक्ती केवलमदृष्टफले, मिश्रिता च भक्तिर्दृष्टादृष्टोभयफला भवति॥४५॥
उभयफलाया रूपान्तरं स्थलं च दर्शयन् दृष्टफलायाः पात्रमाह— शुद्धेति।
शुद्धसत्त्वोद्भवाऽप्येवं साधकेष्वस्मदादिषु॥
दृष्टमात्रफला सा तु सिद्धेषु सनकादिषु॥४६॥
दृष्टादृष्टोभयफला भक्तिः पूर्वोक्तासु शुद्धसत्वाऽपि भवति, सा चास्मदादिषु=साधकेषु सुखरूपदृष्टफलस्य दुरितनिवृत्त्याद्यभ्युदयनिःश्रेयसादिरूपादृष्टफलस्य चोत्पादिका, दृष्टमात्रफला तु सा सिद्धेषु— निसर्गादाप्तकामेषु सनकादिषु कुमारयोगीन्द्रमहाभागवतेषु तेषामदृष्टफलोत्पत्तिक्षेत्रताविरहाद्, न च तेषामाप्तकामत्वेन दृष्टफलयोग्यताऽपि न संभवतीति वाच्यम्? आप्तकामानामपि कर्मनिबन्धनवासनाऽधीनफलकामनाया अभावेऽपि भगवद्भक्तिरसानुबुभूषायांबाधकाभावाद्, यथोक्तं—
आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे॥
कुर्वन्त्यहैतुकीं भक्तिमित्थम्भूतगुणो हरिः॥
अयं भावः—बन्धप्रयोजककामना एव हेयपक्षे निक्षिप्ता न तु बन्धविरोधिन्यः, किं चाप्तकामा न प्राकृतवस्त्वभावेन प्रवर्त्तितास्तत् कामयन्ते, परन्तु भजनीयभगवत्स्वरूप एव तादृशी
लोकातीता का चन शक्तिर्या ह्यात्मारामानप्याकर्षति, सिद्धाचेयं धर्मिग्राहकमानतस्तादृशस्वभावेति न पर्य्यनुयोज्यतामर्हति, स्वभावस्यापर्य्यनुयोज्यत्वात् तदुक्तं —श्रीमदक्षपादमहर्षिचरणः—
“दृष्टानुमितानां निषेधपर्य्यनुयोगानुपपत्तिः” इति॥४६॥
भक्तेर्दृष्टादृष्टफलकत्वमुपपादयति —दृष्टेति।
दृष्टादृष्टफला भक्तिः सुखव्यक्तेर्विधेरपि॥
निदाघदूनदेहस्य गङ्गास्नानक्रिया यथा॥४७॥
भक्तेः सुखव्यक्तिः प्रत्यक्षेति दृष्टफलकत्वं विधेः=भक्तिविधायकशास्त्रतः, तच्च “आत्मेत्येवोपासीते,”त्यादिर्भगवती श्रुतिः,
“तस्माद् भारत! सर्वात्मा भगवान् हरिरीश्वरः।
श्रोतव्यः कीर्त्तितव्यश्च स्मर्त्तव्यश्चेच्छताऽभयम्’॥
इति परमहंससंहिताश्रीमद्भागवतादि, न चैतावता विधिरवगतः फले किमायातमिति वाच्यम्?अत्रैवाभयस्य फलत्वेन निर्द्देशाद्, न चैवमस्याधिकारविधित्वेनोत्पत्तिविधित्वायोगात्कथंभक्तिविधायकत्वमिति वाच्यम्, निर्द्दिष्टचर्य्याः श्रुतिभगवत्या एव भक्तिविधायकत्वात्तस्मादुभयफलकत्वं निर्विवादम् अत्र दृष्टान्तः— निदाघेति, गङ्गास्नानात्तापनिवृत्त्यादिकं दृष्टफलंदुरितध्वंसादिकमदृष्टफलं–चेत्युभयं यथा; तथेहापीति भावः॥४७॥
राजसीतामस्योरदृष्टमात्रफलकतामुपपादयति— रजेति।
रजस्तमोऽभिभूतस्य दृष्टांशः प्रतिबध्यते॥
शीतवातातुरस्येव नादृष्टांशस्तु हीयते॥४८॥
रजसा तमसा चाभिभूतस्य = अभिभूतसत्त्वकस्य जनस्य, दृष्टांः= दृष्टफलभागः, प्रतिबध्यते = निरुध्यते, वर्त्तमानदेहावच्छेदेन क्रियमाणकर्मफलोपभोगं प्रति तद्देहावच्छेदेनेन प्रारब्धकर्मणामसति विरोधिनि प्रतिबन्धकताया उत्सर्गसिद्धत्वा-
दिति तात्पर्यम्, अदृष्टांशः = अदृष्टफलभागः, न तु हीयते= नैव निरुध्यते, भाविशरीरावच्छेदेन भोक्ष्यमाणकर्मफलोपभोगंप्रति प्रारब्धकर्मरणामप्रतिबन्धकत्वादिति भावः, तत्र दृष्टान्तः—शीतेत्यादि, यथा शीतवातादिभिरार्त्तस्य गङ्गास्नाने जन्यमानंसुखं प्रतिरुध्यते न तु जनिष्यमाणमामुष्मिकमभ्युदयादिकंतथेत्यर्थः॥४८॥
अदृष्टमात्रफलविरोधः कुत्रेति दर्शयति— तथैवेति।
तथैव जीवन्मुक्तानामदृष्टांशो न विद्यते॥
स्नात्वा भुक्तवतां भूयो गङ्गायां क्रीडतां यथा॥४९॥
यथा रजस्तमोऽभिभूतानां दृष्टांशः प्रतिबध्यते; तथैव जीवन्मुक्तानामदृष्टांशो न विद्यते = प्रतिबध्यते, तेषां चरमदेहकतया; चरमदेहध्वंसस्य भाविभोगे प्रतिबन्धकत्वाद्, अथ वा— न विद्यते = नोत्पद्यते, कर्मफलभोगत्वावच्छिन्नं प्रति कर्मजन्यशरीरस्यावच्छेदकतासंबन्धेन कारणत्वाद्, अन्तिमदेहानां जीवन्मुक्तानां तु प्रारब्धकर्माधीनदेहत्यागोत्तरं भोगार्हदेहस्यैवाभावाद्, यद्वा समवायेन भोगं प्रति समवायेनादृष्टस्य कारणतया; तेषामदृष्टाभावाददृष्टफलाभावः, अत्र दृष्टान्तः— स्नात्वेति। स्नातभुक्तवतां गङ्गास्नानस्यावैधतयाऽपूर्वजनकत्वाभावान्नादृष्टफलप्रयोजकता, दृष्टफलं त्वस्त्येव यथा तथा प्रकृतेऽपि न च भोजनाद्युत्तरमपि गङ्गास्नानस्योपरागादिप्रयुक्तत्वे वैधत्वं संभवतीति वाच्यम्? क्रीडतामिति स्त्रातृविशेषणस्वारस्येन चिक्रीडिषानिबन्धन एव तत्स्नानेऽदृष्टफलानुत्पादकत्वे तात्पर्य्यादिति॥४९॥
दृष्टादृष्टे स्वयं निर्वूते— वर्तमानेति।
वर्तमानतनुप्राप्यं फलं दृष्टमुदाहृतम्॥
भाविदेहोपभोग्यं यत्तददृष्टमुदीरितम् ॥५०॥
स्पष्टार्थेयं कारिका॥५॥
राजस्यां तामस्यां वा भक्तौ रत्यनुद्बोधं विशदयति— रजेत्यादिद्वाभ्याम्।
रजस्तमः प्रचण्डत्वे सुखव्यक्तिरसत्समा॥
तीव्रवायुविनिक्षिप्तदीपज्वालेव भासते॥५१॥
तस्मात्स्वयंप्रभाऽऽनन्दाकाराऽपि मतिसंततिः॥
प्रतिबन्धकवशान्न स्यात्सखव्यक्तिपदास्पदम्॥५२॥
रजस्तमउद्रेके वर्त्तमानाऽपि सुखव्यक्तिः सुखास्वादाप्रतिष्ठानादसत्कल्पा, स्वकार्य्याकरणादिति भावः, यथा प्रखरपवनकम्प्राप्रदीपशिखा स्वकर्त्तव्यसमुचितवस्तुप्रकाशाक्षमाऽसत्समाना तथेयमतः स्वतःप्रकाशसुखात्मिकाऽपि चित्संततिः खलु रजस्तमोऽतिरेकरूपप्रतिबन्धतः सुखात्मतया न भासते, स्वतःप्रकाशत्वसुखरूपत्वे तु विस्तरभिया नेह प्रतायेते महत्याऽरभट्याऽन्यत्रोपपादिते तत एवावगन्तव्ये॥५१॥ ॥५२॥
रजोऽभिभूतरतेः स्थलमाह— रजइति।
रजःप्रबलसत्त्वांशादीर्ष्याजद्वेषमिश्रिता।
मनोवृत्तिः परानन्दे चैद्यस्य न सुखायते॥५३॥
रजः प्रबलं यस्मात्तादृशात्सत्त्वांशादुदिताया ईर्ष्यातोजातेन द्वेषेण मिश्रिता मनोवृत्तिः सुखावहा न भवति यथा शिशुपालस्य, उदाहरणं तु पूर्वोक्तमनुसंधेयमिति॥५३॥
तमोऽभिभूतरतेः स्थलमाह— तम इति।
तमः प्रबलसत्त्वांशाद् भीतिजद्वेषमिश्रिता।
मनोवृत्तिः परानन्दे कंसस्य न सखायते॥५४॥
तमः प्रवलं यस्मात्तादृशात्सत्त्वांशादुद्भूताया भीतितो–
जातेन द्वेषेण मिश्रिता मनोवृत्तिरपि सुखावहा न भवति यथा कंसस्य—
आसीनः संविशँस्तिष्ठन् भुञ्जानः पर्यटन्महीम्॥
चिन्तयानो दृषीकेशमपश्यत्तन्मयं जगत्॥
कंसो; हरेवरानुबन्धदिति चानुस्यूते॥५४॥
एवं रजस्तमोऽभिभूतसत्त्वस्थले रतेर्दृष्टफलाभावं प्रदर्श्यादृष्टफलं दर्शयति—तयोरिति।
तयोर्भाविशरीरे तु प्रतिबन्धक्षये सति।
सैव चित्तद्रुतिर्भक्तिरसतां प्रतिपद्यते॥५५॥
तयोः= चैद्यकंसयोः, भाविशरीरे=भगवद्धस्ततो निधनसौभाग्यलाभोत्तरलब्धदिव्यदेहे, सति तु प्रतिबन्धत्तये=शापादिप्रयुक्तनियतकालादिकैहिकभोगोपयोगिदेहावसाने, सैव = अतिपूर्वं लब्धा, चित्तद्रुतिः= भगवदाकारताऽऽत्मा, स्पष्टमन्यद्, अत्र प्रमाणं तु— “भूयो ममान्तिकमितां तदनुग्रहो मे”इत्यादि “ददर्श चक्रायुधमग्रतो यस्तदेव रूपं दुरवापमाप”इत्यादि च श्रीमद्भागवतादिवचनानि द्रष्टव्यानीति॥५५॥
प्रतिबद्धदृष्टफलकभक्तिकाः पूर्वं चेद्यादय एवासन्नैवं बोध्यं, किन्त्विदानीमपि तादृशा वर्त्तन्त इत्याह— अधुनेति।
अधुनाऽपि भजन्तो ये द्वेषात् पाशुपतादयः।
तेषामप्येवमेव स्यादथ वाऽनेन तुल्यता॥५६॥
अधुनाऽपि = वर्त्तमानसमयेऽपि ये भगवति द्वेषवन्तः स्वस्वाभीष्टं भजन्ते, पाशुपतपदं भगवत्प्रातिकूल्यमाचरतामखिलानामुपलक्षणम्, आदिशद्वः सदृशपरः, तेषामपि = भगवद्विद्वेषिणामपि, एवमेव = भगवत्कृपया प्रतिबन्धनिरासे देहान्तर एव भक्तिसुखानुभूतिः, तुल्यता = भागवतजनकृपातो वा यथा
तत्प्राप्तिः, न चैषां भगवद्भक्तिरेव नासीत्कुतः प्रतिबन्धापगमे तदाविर्भाव इति विचिकित्सितव्यम्,
“येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयाऽन्विताः।
तेऽपि मामेव कौन्तेय! यजन्त्यविधिपूर्वकमिति”
श्रीमुखवाक्यतस्तेऽपि भगवतो विधिरूपतदाज्ञाविरुद्धमकारैस्तमनुसरन्त आज्ञाऽतिक्रमप्रयुक्तापराधजनितभोगोत्तरमनुसरणफलभाजो भवन्तीति तात्पर्य्यादिति॥५६॥
भक्तिं प्रति द्रुतेः कारणत्वं दर्शयति—द्रुताविति।
द्रुतौ सत्यां भवेद् भक्तिरद्रुतौ तु न किं चन।
चित्तद्रुतेरभावेन वेनस्तु कतमोऽपि न॥५७॥
निष्कर्षमाह—द्रुतौ सत्यां भगवद्भक्तिरुदेतुमर्हति, द्रुत्यभावे तु न किमपि दृष्टादृष्टोभयात्मकेष्वन्यतममपि, फलमिति शेषः अतएव वेनः = परमभागवतमहाराजचक्रवर्त्तिपृथोर्जनकः, न कतमोऽपि = सात्त्विकराजसतामसभक्तिमत्सु मध्य इति शेषः॥५७॥
फलितमाह — रजेति।
रजस्तमोविहीना तु भगद्विषया मतिः।
सुखाभिव्यञ्जकत्वेन रतिरित्यभिधीयते॥५८॥
उक्तप्रायार्थकत्वेन स्फुटेयं कारिका॥५८॥
सुखविशेषाभिव्यञ्जकत्वेन सिद्धाया रतेः स्वरूपमाह— स्नेहेति।
स्नेहस्यैव विकारः प्रिययोरत्यन्तभावनादनिशम्।
विरहासहिष्णुताऽऽमा प्रीतिविशेषो रतिर्नाम॥५९॥
स्नेहस्य = संस्कारताऽऽत्मकानागततां विहायोद्बोधं प्राप्तस्यात एव प्रथमावस्थतयाऽनवाप्तपरिपोषस्य सुखविशेषस्य,
एवपदेन भावान्तरासंसृष्टस्य यो विकारः=परिणामः, प्रिययोः=स्निग्धयोः— स्ववृत्त्यालम्बनतानिरूपकत्वस्ववृत्त्याश्रयतानिरूपकत्वैतदन्यतरसंबन्धेन वस्तुविशिष्टेन स्नेहेनालम्बनताऽऽश्रयताऽन्यतरसंबन्धेन विशिष्टयोरिति यावद्;इत्थमनुक्तौ यत्किंचिद्विषयकस्नेहाश्रययोरन्योन्यमुदासीनयोर्ग्रहणेऽतिप्रसङ्गः स्यात्; तत्समवेताद् अनिशम्= धारावाहित्वेन, अत्यन्ताद्=भावनीयेतरानवगाहिनो, भावनात्=सोत्कण्ठचिन्तनाद् विरहस्य= अभीष्टविषयकप्रत्यक्षाभावज्ञानस्य, यद्यपि परत्र विरहशब्देनाभावो बुध्यते; किन्तु प्रकृते विशिष्टाभावज्ञानं विवक्ष्यते, ज्ञानानुक्तौ यत्र प्रेमवैचित्त्यादौ तादृशप्रत्यक्षसत्त्वेऽप्यभावबुद्धौ विरहोद्गारोऽनुभवसिद्धस्तत्रानुपपत्तेः, याऽसहिष्णुता = परिहार्य्यत्वप्रकारकदुःस्वविषयकज्ञानाभावः, तथा च तादृशदुःखकारणे व्यवहृियमाणे सह्यासह्यत्वे भाक्ते, तदात्मा = तत्प्रवृत्तिनिमित्तकः प्रीतिविशेषोरतिः, एवं च — वस्तुविशिष्टस्नेहविशिष्टव्यक्तिसमवेतविषयान्तरानवगाहिधारावाहिसोत्कण्ठ-चिन्तनप्रयुक्तोऽभीष्टविषयकप्रत्यक्षाभावप्रयोज्यपरिहार्य्यत्वप्रकारकदुःखविषयकज्ञानाभाव विशिष्टःभावान्तरासंसृष्टस्नेहपरिणामप्रीतिविशेषो रतिरिति फलितम्,
स्नेहे वैशिष्ट्यं च— स्ववृत्त्यालम्बनतानिरूपकत्वस्ववृत्त्याश्रयतानिरूपकत्वैतदन्यतरसंबन्धेन, व्यक्तौ वैशिष्ट्यं च— आलम्बनताऽऽश्रयताऽन्यतरसंबन्धेन, प्रीतिविशेषे तादृशाभाववैशिष्ट्यं च स्वाश्रयसमवेतत्वस्वप्रतियोगिज्ञानविषयदुःखप्रयोजकाभावप्रतियोगिप्रत्यक्षविषयाभीष्टविषयकत्वैतदुभयसंबन्धेनेति— निष्कर्षः॥५९॥
रजस्तमोऽपसरणानुसारेण रतेस्तारतम्यमाह— रजेति।
रजस्तमः समुच्छेदतारतम्येन गम्यते।
तुल्येऽपि साधनाभ्यासे तारतम्यं रतेरपि॥६०॥
साधनस्याभ्यासे समानेऽपि रजसस्तमसश्चोच्छेदेऽल्पे रतेरपि सुखावहताऽल्पा, रजसस्तमसश्च तस्मिन्नधिकेऽस्या अप्येषाऽधिका प्रतीयते॥६०॥
प्रकारान्तरेण रतेरल्पाधिकते दर्शयति— विरह इति।
विरहे यादृशं दुःखं तादृशी दृश्यते रतिः।
मृदुमध्याधिमात्रत्वाद् विशेषोऽत्रापि वीक्ष्यते॥६१॥
वियोगे यत्परिमाणं दुःखमनुभूयते तत्परिमाणा रतिरुदेति, कारणं चात्र द्रुतितारतम्यमेव, विरहतापानुसारिणी चेतोद्रुतिः, तदनुसारिणी च रत्युद्भूतिः, अत्रापि = दुःखानुसारिणि रतितारतम्येऽपि, मृदुतया मध्यतया तीव्रतया विशेषस्तारतम्यमनुभूयते॥६१॥
उक्तत्रैविध्यस्य स्थलं दर्शयति— वैकुण्ठ इति।
वैकुण्ठे द्वारकायांच श्रीमद्बृन्दावने तथा।
मृदुतीव्रा मध्यतीव्रा तीव्रतीव्रा च सा क्रमात्॥६२॥
स्पष्टार्थेयं कारिका॥६२॥
उक्तत्रैविध्यायाः पुनरष्टौ भेदानाह—इयमिति।
इयं निसर्गसंसर्गौपम्याध्यात्माभियोगजा।
संप्रयोगाभिमानाभ्यां समारोपे स्थिता तथा॥६३॥
इयं = मृदुतीव्रत्वादिभेदवती, निसर्गजा—
“निसर्गःसुदृढाभ्यासजन्यः संस्कारउच्यते”
इत्युक्तलक्षणात्संस्कारविशेषात्मनिसर्गाज्जाता, संसर्गजासंसर्गः संबन्धः, स च—
“संबन्धः कुलरूपादिसामग्रीगौरवं भवेद्”
इत्युक्तलक्षणात्तस्माज्जाता, औपम्यजा—औपम्यम्= उपमा-
“यथा कथं चिदप्यस्य सादृश्यमुपमोदिता”
इत्युक्तलक्षणादौपम्याज्जाता, अध्यात्मजा— एतस्या एव नामान्तरं स्वरूपजा, तदुक्तं—
“अजन्यस्तु स्वतः सिद्धः स्वरूपं भाव उच्यते”
अस्माज्जाताऽध्यात्मजा, अभियोगजा—
“अभियोगो भवेद् भावव्यक्तिः”
इत्युक्ताभियोगजा, संप्रयोगजा—
“संभोगे जायते या तु रतिः सा संप्रयोगजा”
इत्युलक्षणसंप्रयोगजा, अभिमानजा—
“सन्ति भूरीणि रम्याणि प्रार्थ्यं स्यादिदमेव मे।
इति यो निर्णयो धीरैरभिमानः स उच्यते”
इत्युक्तरूपादभिमानाज्जाता, समारोपजा—इयं वैषयिकीनाम्नाऽपि व्यवह्रियते—तत्र
“शब्दस्पर्शादयः पञ्च विषयाः किल विश्रुताः”
इति प्रसिद्धेभ्यो विषयेभ्यो जाता। आसामुदाहरणानि—
तत्र निसर्गजायाः—
असुन्दरः सुन्दरशेखरो वा गुणैर्विहीनो गुणिनां वरो वा।
द्वेषी मयि स्यात्करुणाऽम्बुधिर्वा कृष्णः स एवाद्य गतिर्ममायम्॥
संबन्धजायाः—
वीर्यं कन्दुकिताद्रिरूपमखिलक्ष्मामण्डले मण्डनं—
जन्माभीरपुरन्दरस्य भवने पारेपरार्धं गुणाः।
लीला काऽपि जगच्चमत्कृतिकरीत्येतस्य लोकोत्तरा
वृत्तिर्वेणुधरस्य दुर्मुखि! धृतिं कस्याः क्षणं रक्षति॥
औपम्यजायाः—
नवाम्बुधरमाधुरी स्फुरति मूर्त्तिरुवीतले
कृशोदरि! दृशोरियात्पथि किमीदृशो वा युवा।
पुरः सुमुखि! गोपतेः सदसि संनिविष्टस्य मे
पितुर्वितनुते नटो यमनुकृत्य नृत्यक्रमम्॥
अध्यात्मजायाः—
इयं व्यक्तिर्गोपी न भवति पुरः किं तु कुतुकी
हरिर्नारीवेषो यदखिलसुरस्त्रीर्धुवति नः।
जगन्नेत्रश्रेणीतिमिरहरणायाम्बरमणिं–
विना कस्यान्यस्य प्रियसखि! भवेदौपयिकता॥
अभियोगजायाः—
मदधरविलुठद्विलोचनान्तं-
मृदुललतानवपल्लवं दशन्तम्।
सखि! हरिमवलोक्य भानुजाया–
स्तटविपिने स्फुटदन्तराऽस्मि जाता॥
संप्रयोगजायाः—
सहोष्यतामिह प्रेष्ठ! दिनानि कति चिन्मया।
रमस्व नोत्सहे त्यक्तुं सङ्गं तेऽम्बुरुहेक्षण!॥
अभिमानजायाः—
स्फुरन्तु बहवः क्षितौ मधुरिमोर्मिधौरेयकाः–
विदग्धमरणयोगुणावलिपतिंवराभिर्वृताः।
न यस्य शिखिचन्द्रकः शिरसि नैव वेणुर्मुखे
न धातुरचना तनौ सखि! तृणाय मन्ये न तम् इति॥६३॥
समारोपजायां विशेषमाह —स्पर्श इति।
स्पर्शे शब्दे तथा रूपे रसे गन्धे च केवले।
समुच्चिते च सा तत्रेत्येकैका षड्विधा भवेत्॥६४॥
केवलात् स्पर्शादितः समुदितात्तत्पञ्चकाच्च तत्र = समारोपे, सा = मृदुतीव्रत्वादिभेदा, एकैका = प्रत्येकमपि षोढा ज्ञेया॥
अस्याः क्रमादुदाहरणानि—
स्पर्शजायाः—
व्रजं मुष्टिग्राह्ये तमसि निगिरत्यङ्गमिह मे
सखि! स्पर्शं दैवाद्यदवधि परं कस्य चिदगात्॥
गृहीता जागर्या तदवधि सहैवाङ्गजगणैः
सशङ्कैर्या पश्य क्षणमपि न साऽद्याप्युपरता॥
शब्दजायाः—
एकस्य द्रुतमेव लुम्पति मतिं कृष्णेति नामाक्षरं—
सान्द्रोन्मादपरम्परामुपनयत्यन्यस्य वंशीकलः॥
एष स्निग्धघनद्युतिर्मनसि मे लग्नः सकृद्वीक्षणा—
त्कष्टं धिक् पुरुषत्रये रतिरभून्मन्ये मृतिः श्रेयसी॥
रूपजायाः—
कृताकृष्टिक्रीडं किमपि तव रूपं मम सखी
सकृद् दृष्ट्वा दूरादहितहितबोधोञ्झितमतिः।
हताशेयं प्रेमानलमनुविशन्ती सरभसं—
पतङ्गीवात्मानं मुरहर! मुहुर्दाहितवती॥
रसजायाः—
पुलकयति यदङ्गं सेवते गात्रभङ्गं—
वहति हृदि तरङ्गं सद्य एवाद्य मुग्धा।
तदघदमनवक्त्रोद्गीर्णताम्बूलमल्पं—
स्फुटमविदितमास्ये न्यस्तमस्यास्त्रयाऽऽलि!॥
गन्धजायाः—
विभ्राजन्ते क सखि! सुखिनः शाखिनो मोहनास्ते
येषां पुष्पैरियमनुपमा वैजयन्ती कृताऽस्ति।
पश्याकृष्टभ्रमरपटला यातयामाऽपि कामं—
या भूयोभिर्मम परिमलैः स्तम्भयत्यद्य चेतः॥
समुच्चितविषयजायाः—
दृष्टः स्वप्नेषु सख्या अपहृतिमकरोः स्वान्तबाह्येन्द्रियाणां—
तस्मादेव क्षणात्सा व्रजपतितनय! व्याकुलाऽऽस्ते नितान्तम्।
चक्षू रूपे निमग्नं मृदुलतमतनुस्पर्शभिक्षुस्त्वगासीद्
घ्राणं ते गात्रगन्धे रसनमधरगं स्निग्धवाक्येषु कर्णः॥
अनयैव दिशा तीव्रतीव्रतरयोरप्युदाहरणानि ज्ञेयानि॥६४॥
उक्ताया भक्तेः पुनर्द्वैविध्यमाह — शुद्धेति।
शुद्धा व्यामिश्रिता चेति पुनरेषा द्विधा भवेत्॥
तत्रानुपाधिः शुद्धा स्यात्सोपाधिर्मिश्रितोदिता॥६५॥
अत्रोपाधिरन्याभिसन्धिः स चानुपदं स्पष्टीभावी, शेषः स्पष्टः॥६५॥
एतयोरनुपाधिं दर्शयति— अन्विति।
अनपाधिः परानन्दमहिमैकनिबन्धना॥
भजनीयगुणानन्त्यादेकरूपैव सोच्यते॥६६॥
परः = साम्यातिशयशून्यो, य आनन्दः तस्य महिमा एकमद्वितीयं निबन्धनं प्रयोजकं यस्या भक्तेः सा, निरुपाधिः, ननु भगवतो गुणानालम्ब्येयंबहुधा भवितुमर्हतीति चेद्?न — तदीयगुणानामानन्त्यात्तथा गणनाऽसंभविनीत्येकैवं वक्तुं सुशकेति॥६६॥
सोपाधिं दर्शयन्निरुपाधिं विवृणोति— कामेति।
कामसंबन्धभयतः सोपाधिस्त्रिविधा भवेत्॥
विभावादिसमायोगे शुद्धभक्तिरसो भवेत्॥६७॥
पूर्वार्धं स्पष्टमेव, यदा च भक्तिरसस्य विभावादयः समुदीयुः किन्तु भक्तिरसस्थायिनी रतिराश्रयगतभावान्तरेण न संकीर्य्येत तदा शुद्धा भक्तिर्भवेत्॥६७॥
निरुपाधिं विवृणोति कारिकाद्वयेन— शृङ्गेत्यादिना।
शृङ्गारमिश्रिता भक्तिः कामजा भक्तिरिष्यते॥
संबन्धजा रतिर्याति पूर्वोक्तां रसतां द्वयोः॥६८॥
एको बत्सलभक्त्याख्यः प्रेयोभक्तिस्तथाऽपरा॥
भयजा रतिरध्यास्ते रसं प्रीतिभयानकम्॥६९॥
अत्र कामजा रतिः पूर्वं दर्शिता, संबन्धजाऽपि सा द्वयोः— वात्सल्यसख्ययोरसयोः रसतां यातीत्यपि दर्शितम्, प्रेयोभक्तिरसः=सख्यम्, भयकारणजन्यचेतोद्रुत्यात्मा रतिः प्रीतिभयानकाख्यमिश्रितरसस्य स्थायिनी भवतीति भावः॥६८,६९॥
तन्मिश्रणे सति वैलक्षण्यमाह— एकेति।
एकदा यद्यपि व्यक्तमिदं रतिचतुष्टयम्॥
तदा तु पानकरसन्यायेन परमो रसः॥७०॥
यदि तु कारणसामग्रीसमवधानाद् एकदा कामसंबन्धद्वयभयजानां रतीनां चतुष्टयमेकाश्रय एवोदीयात् तदा तु पानके=समुचितैलामरिचसंयुक्तसितामधुरतमीकृतपानीयविशेषे, रसस्य=रसनाग्राह्यगुणविशेषस्य न्यायेन विलक्षणो रसोऽनुभूयते, तत्र यथा चित्ररसोऽत्रापि तथा चित्ररसोऽनुभवसिद्धो दुरपन्हव—इति हार्दो भावः॥७०॥
नन्वनेकरतिस्थले यदि पानकरसरीत्या चित्ररस एव स्यात्तदा रसानां पार्थक्येनास्वादानुपपत्तिरत आह— एकेति।
एकद्व्यादिरसव्यक्तिभेदाद्रसभिदा भवेत्॥
तस्मात् क्व चित्तदभ्यासं कुर्याद्रतिचतुष्टये॥७१॥
पृथक् पृथग्रसव्यक्त्या रसानां भेदः सुकरः, तस्मात् क्वापि यत्रान्तर्यामिप्रेरणादिना चित्तमुन्मुखीभवेत् तत्रैवाभ्यासं कुर्यात् साधनेच्छुरिति शेषः, निर्धार्य्यमाणतानिरूपकमाह—रतिचतुष्टय इति, अत्रेदमाकूतम्— रतिचतुष्टयपदेनानुपदोक्तानां शुद्धकामजसंबन्धजभयजानां रतीनां ग्रहणं कर्त्तव्यं, यद्यपि संबन्धजे द्वे रती स्त इति तासां पञ्चतयत्वं तथाऽपि संबन्धजत्वस्य विभाजकताऽवच्छेदकत्वमाश्रित्य चतुष्टयत्वं संगमयितव्यं, भयशब्दसमावेशात्तु न भेतव्यमृजुमतिभिः, नात्र व्यालादेरिव भयं विवक्षितं, परन्तु दासैर्गौरवमर्यादारक्षणसंभ्रमादितो यथा प्रभुतोभेतव्यं तादृशमेव निविवेशयिषितम्, एतच्चानुगुणं दास्यस्थायिन्याः प्रीतेः, तत एव प्रीतिशब्दः संसृष्टः, एवं च पञ्चापि मुख्या भक्तिरसाः संगृहीताः—शुद्धया रत्या शान्तः, भयजयाऽनया दास्यम्, संबन्धजया त्वेनया सख्यबात्सल्ये, कामजया तया शृङ्गार इति सुधीभिर्विवेचनीयमिति निखिलं चतुरश्रम्॥७१॥
सर्वप्रधानभक्तेषु तच्चतुष्टयं दर्शयन् साधनदिक् प्रदर्शनमुपदिशति— व्रजेति।
व्रजदेवीषु च स्पष्टं दृष्टं रतिचतुष्टयम्॥
तच्चित्तालम्बनत्वेन स्वचित्तं तादृशं भवेत्॥७२॥
व्रजदेवीषु रतिचतुष्टयं शास्त्रप्रसिद्धं, ततश्चान्येनापि तत्
सिषाधयिषुणा तासां चित्तमालम्ब्य कृते साधने तादृशचित्तताप्राप्तिस्वरूपयोग्यता शक्यसंपादना, न चैतदप्रमाणकमिति भ्रमितव्यम्? पातञ्जलदर्शने हि वीतरागचित्तालम्बिनस्तादृशचित्तता सिद्धान्तिता, तुल्ययुक्त्त्या भगवद्रतिरञ्जितचित्तालम्बनेन तादृशचित्तताऽपि निर्विवादा, ध्वनितश्चायमर्थो “वीतरागविषयं वा चित्तम्”अस्मिन् प्रकरणे तत्रेति॥७२॥
अधुना गौणरतितो रसस्थितिमाह— रसेति।
रसान्तरविभावादिसंकीर्णा भगवद्रतिः॥
चित्ररूपवदन्यादृग्रसतां प्रतिपद्यते॥७३॥
हास्यादिविभावादिसमवधाने भगवद्रतिः चित्रस्सतां भजति, नानावर्णकसूत्रारब्धचित्रपटवदिति भावः॥७३॥
अन्यविभावादिराहित्ये कीदृशो रसस्तमाह— रसान्तरेति।
रसान्तरविभावादिराहित्ये तु स्वरूपभाक्॥
दशमीमेति रसतां सनकादेरिवाधिकाम्॥७४॥
अत्र भगवद्रातिरित्यनुवर्त्तते, तथा च रसान्तरविभावादिराहित्ये तु भगवद्रतिः स्वरूपभाक्= भगवत्स्वरूपभाक् सती सनकादीनां रतिरिवाधिकामत एव दशमीं रसतां भजते, अत्र प्राकृतरसेषु व्यवह्रियमाणं नवत्वमपेक्ष्यैवाधिकत्वं दशमत्वं ज्ञेयं,—न च शान्तेऽन्तर्भावात्कथमधिकत्वमिति शङ्क्यम्? शान्तस्य निर्वेदस्थायिकताया एवान्यत्र प्रसिद्धत्वाद्, यदि तु मुख्यरसेषु शुद्धरतिस्थायिकः शान्तो गृह्येत, तदा दशमत्वोक्तिरसंगता स्यात्, प्रकृतकारिकायां विभावशब्देनोद्दीपनं ग्राह्यं, भगवत=आलम्बनस्य सर्वत्राद्वितीयतयाऽनुस्यूतत्वात्, तद्राहित्ये हि निरालम्बना रतिरेव न स्याद्दूरे रसताचर्चेति विवेचनीयम्॥७४॥
भगवद्विषया रतिर्न रसीभावार्हा;वा स्वसामग्रीपुष्टा न रसत्वेन व्यवहार्य्येति शङ्कां परिहरति—रतिरित्यादिभिश्चतसृभिः कारिकाभिः।
रतिर्देवादिविषया व्यभिचारी तथोर्जितः॥
भावः प्रोक्तो रसो नेति यदुक्तं रसकोविदैः॥७५॥
देवान्तरेषु जीवत्वात् परानन्दाप्रकाशनात्॥
तद्योज्यं; परमानन्दरूपे न परमात्मनि॥७६॥
कान्तादिविषया वा ये रसाद्यास्तत्र नेदृशम्॥
रसत्वं पुष्यते पूर्णसुखास्पर्शित्वकारणात्॥७७॥
परिपूर्णरसा क्षुद्ररसेभ्यो भगवद्रतिः॥
खद्योतेभ्य इवादित्यप्रभेव बलवत्तरा॥७८॥
देवादीत्यत्रादिना पूज्यमित्रपुत्रजातीयानां संग्रहः, ऊर्जितोव्यञ्जनया प्रत्यायितो व्यभिचारी, जीवत्वात्= क्षुद्रानन्दात्मकत्वात्तस्य तथात्वमौपाधिकं वास्तविकं वेत्यन्यदेतद्, ईदृशम्=पूर्णानन्दस्वभावम्, परिपूर्णरसा=परिपूर्णरसीभवनार्हा, अन्यत्सर्वमतिरोहितम्॥७५–७८॥
उक्तापतिं प्रतिबन्द्याऽपि परिहरन्नुल्लासमुपसंहरति— क्रोधेत्यादिना द्वाभ्याम्।
क्रोधशोकभयादीनां साक्षात्सुखविरोधिनाम्॥
रसत्वमभ्युपगतं तथाऽनुभवमात्रतः॥७९॥
इहानुभवसिद्धेऽपि सहस्रगुणितो रसः॥
जडेनेव त्वया कस्मादकस्मादपलभ्यते॥८०॥
इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमधुसूदनसरस्वतीविरचिते भगवद्भक्तिरसायने भक्तिविशेषप्रतिपादको नाम द्वितीयोल्लासः।
ये साक्षात् सुखप्रतिकूलाः क्रोधादयः, तेषां रसत्वं विभावादिव्यापारसाधारणीकरणानुभवगृह्यतयाऽभ्युपगतं यदि, तर्हि भगवतीनां श्रुतीनाम् “एतस्यैवानन्दस्यान्य आनन्दा मात्रामुपजीवन्ती”त्येवंजातीययथार्थानुभवसहस्रसिद्धे साम्यातिशयरहितपरिपूर्णानन्दरूपे भगवति रते रसता सहसाऽज्ञेनेव कुतोनिवार्य्यते रसज्ञंमन्येन त्वया, तस्मादुक्तनिवारणमप्रामाणिकमिति भावः॥७९–८०॥
इति श्रीमन्माध्वसंप्रदायाचार्यदार्शनिकसार्वभौमसाहित्यदर्शमाद्याचार्यतर्करत्नन्यायरत्नगोस्वामिश्रीदामोदरशास्त्रिविरचितायां भक्तिरसायनव्याख्यायां प्रेमप्रपायां भक्तिविशेषप्रतिपादको नाम द्वितीयोल्लासः
<MISSING_FIG href=”../books_images/U-IMG-1734108494Screenshot2024-12-13221726.png”/>
अथ श्रीमधुसूदनसरस्वतीविरचितभक्तिरसायनस्य
प्रेमप्रपासहितो—
भक्तिरसप्रतिपादकः
तृतीय उल्लासः।
श्रीश्रीगौरकृष्णः शरणम्।
एवं कारिकाणामशीत्या ग्रन्थकारो भक्तेः स्वरूपविशेषान् प्रदर्श्यः क्रमायातं भक्तिरसं प्रतिपादयितुं तृतीयमुल्लासमारभमाणः प्रथमं रसस्वरूपादिकं निरूपयितुकामः पृच्छति-नन्विति।
ननु कोयं रसो नाम किंनिष्ठो वा भवेदसौ।
अस्य प्रत्यायकः को वा प्रतीतिरपि कीदृशी॥१॥
नन्विति वाक्यारम्भे;
“वाक्यारम्भेऽप्यनुनयामन्त्रणानुज्ञयोरयीति हैमः, न तु प्रश्ने तस्य किंशब्दशक्त्यैव लाभाद्, अयं =वर्णनीयत्वेन संनिकष्टः, नामेति प्रसिद्धौ—
“नाम प्राकाश्यसंभाव्यक्रोधोपशमकुत्सने”इत्यमरः, तथा च प्रसिद्धोऽयं रसः कः? किंनिष्ठो वा? अस्य का वा बोधकः? प्रतीतिश्चकीदृगिति॥१॥
तत्र प्रथमप्रश्नमुत्तरयति— विभेति।
विभावैरनुभावैश्च व्यभिचारिभिरप्युत।
स्थायी भावः सुखत्वेन व्यज्यमानो रसः स्मृतः॥२॥
भावश्चपूर्वोक्तसंस्कारात्मा रत्याख्यः, तस्य स्थायित्वंसजातीयैर्विजातीयैर्वाऽनुपमर्द्यत्वं, तदुक्तम्—
“सजातौयैर्विजातीयैरतिरस्कृतमूर्त्तिमान्।
यावद्रसं वर्त्तमानः स्थायी भाव उदाहृतः”॥
अयमेव भावो विभावैरनुभावैर्व्यभिचारिभिः सुखरूपतया प्रतीयमानो रस उच्यते, तत्र विभावयति= वासनाऽऽत्मतथा स्थितां रतिमास्वादाङ्कुरयोग्यतां नयति, इति विभाव आलम्बनत्वेनोद्दीपनत्वेन द्विविधः, तदुक्तम्—
“विभाव्यते हि रत्यादिर्यत्र येन विभाव्यते।
विभावो नाम स द्वेधाऽऽलम्बनोद्दीपनात्मकः”॥
तत्रालम्बनो यथा—
अयं कम्बुग्रीवः कमलकमनीयाक्षिपटिमा
तमालश्यामाङ्गद्युतिरतितरां छत्रितशिराः।
दरश्रीवत्साङ्कः स्फुरदरिदराद्यङ्कितकरः
करोत्युच्चैर्मोदं मम मधुरमूर्तिर्मधुरिपुः॥
उद्दीपनो यथा—
ध्यानं बलात् परमहंसकुलस्य भिन्दन्
निन्दन् सुधामधुरिमाणमधीरधर्मा।
कन्दर्पशासनधुरां मुहुरेव शंसन्
वंशीध्वनिर्जयति कंसनिषूदनस्य॥
अनु पश्चात् स्थाय्युद्धोधानन्तरं भावयति=स्थायिनमास्वादयतीत्यनुभावः, अयमपि स्वाभाविकत्वौपाधिकत्वाभ्यां द्विधा, तत्र पूर्वधर्माक्रान्ताः सात्त्विका उच्यन्ते, परधर्माक्रान्ता अनुभावाः—तदुक्तम्—
“ते स्तम्भस्वेदरोमाञ्चाः स्वरभङ्गोऽथ वेपथुः।
वैवण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः॥
तथा—
“स्मितं गीतं कटाक्षश्च भुजक्षेपश्च हुंकृतिः।
तनुमोटनजृम्भाऽऽदिश्चानुभावः प्रकीर्त्त्यते”इति च,
तत्र सात्त्विकीया दिग्यथा—
कुन्दैर्मुकुन्दाय मुदा सृजन्ती
स्रजं वरां कुन्दविडम्बिदन्ती।
बभूव गान्धवरसेन वेणो—
र्गान्धर्विका स्पन्दनशून्यगात्री॥
अपरा यथा—
रागडम्बरकरम्बितचेताः
कुर्वती तव नवं गुणगानम्।
गोकुलेन्द्र! कुरुते जलतां सा
राधिकाऽद्यसुहृदां दृषदां च॥
विशेषेणाभिमुख्येन चरन्तीति व्यभिचारिणः, तदुक्तम्—
“विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः ।
स्थायिन्युन्मग्ननिर्मग्नाः कल्लोला इव वारिधौ” इति,
ते च—
“निर्वेदग्लादिशङ्काऽऽख्यास्तथाऽसूयामदश्रमाः।
आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः॥
व्रीडा चपलता हर्ष आवेगो जडता तथा।
गर्वोविषाद औत्सुक्यं निद्राऽपस्मार एव च॥
सुप्तिर्विबोधोऽमर्षश्चावहित्थस्तथोग्रता।
मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च॥
त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः।
त्रयस्त्रिंशदमी भावा रसस्य सहकारिणः॥
तत्र निर्वेदः—
महार्त्तिविप्रयोगेर्ष्यासद्विवेकादिकल्पितम्।
स्वावमाननमेवात्र निर्वेद इति कथ्यते॥
अत्र चिन्ताऽश्रुवैवर्ण्यदैन्यनिश्वसितादयः।
यथा—
भवतु माधवजल्पमशृण्वतोः
श्रवणयोरलमश्रवणिर्मम।
तमविलोकयतोरविलोकनिः
सखि! विलोकनयोस्तु किलानयोः॥
ग्लानिः—
ओजः सोमात्मकं देहे बलपुष्टिकृदस्य तु।
क्षयाच्छ्रमाधिरत्याद्यैर्ग्लानिर्निष्प्राणता मता॥
कम्पाङ्गजाड्यवैवर्ण्यकार्श्यदृग्भ्रमणादिकृत्।
यथा—
गुम्फितुं निरुपमां वनस्रजं—
चारुपुष्पपटलं विचिन्वती।
दुर्गमे क्लमभरातिदुर्बला
कानने क्षरणमभून्मृगेक्षणा॥
शङ्का—
स्वीयचौर्य्यापराधादेः परक्रौर्यादितस्तथा।
स्वानिष्टोत्प्रेक्षणं यत्तु सा शङ्केत्यभिधीयते॥
अत्रास्यशोषवैवर्ण्यदिक्प्रेक्षालीनताऽऽदयः।
यथा—
सतर्णकं डिम्भकदम्बकं हरन्
सदम्भमम्भोरुहसम्भवस्तदा।
तिरोभविष्यन् हरितश्चलेक्षणै—
रष्टाभिरष्टौ हरितः समीक्षते॥
असूया—
द्वेषः परोदयेऽसूया स्यात् सौभाग्यगुणादिभिः।
तत्रेर्ष्याऽनादराक्षेपा दोषारोपो गुणेष्वपि॥
अपवृत्तिस्तिरोवीक्षा भ्रुवोर्भङ्गुरताऽऽदयः।
यथा—
अस्या अमूनि नः क्षोभं कुर्वन्त्युच्चैः पदानि यत्।
यैकाऽपहृत्य गोपीनां धनं भुङ्क्तेऽच्युताधरम्!
मदः—
विवेकहर उल्लासो मदः स द्विविधो मतः।
मधुपानभवोऽनङ्गविक्रियाभरजोऽपि च॥
गत्यङ्गवाणीस्खलनदृग्धूर्णारक्तिमादिकृत्।
यथा—
भभभ्रमति मेदिनी ललललम्बते चन्द्रमाः
कृकृष्ण! ववद द्रुतं हहहसन्ति किं वृष्णयः।
सिसीधु मुमुमुञ्च मे पपपपानपात्रे स्थितं—
मदस्खलितमालपन् हलधरः श्रियं वः क्रियात्॥
श्रमः—
अध्वनृत्यरताद्युत्थः खेदः काम इतीर्य्यते।
निद्रास्वेदाङ्गसंमर्दजृम्भाश्वासादिभागसौ॥
यथा—
तासां रतिविहारेण श्रान्तानां वदनानि सः।
प्रामृजत् करुणः प्रेम्णा शन्तमेनाङ्ग! पाणिना॥
आलस्यम्—
सामर्थ्यस्यापि सद्भावे क्रियाऽनुन्मुखता हि या।
तृप्तिश्रमादिसंभूता तदालस्यमुदीर्यते॥
अत्राङ्गभङ्गो जृम्भा च क्रियाद्वेषोऽक्षिमर्दनम्।
शय्याऽऽसनैकप्रियतातन्द्रानिद्राऽऽदयोऽपि च॥
यथा—
सुष्ठु निःसहतनुः सुबलोऽभूत् प्रीतये मम विधाय नियुद्धम्।
मोटयन्तमभितो निजमङ्गं नाहवाय सहसाऽऽह्वयतामुम्॥
दैन्यम्—
दुःखत्रासापराधाद्यैरनौर्जित्यं तु दीनता।
चाटुकृन्मान्द्यमालिन्यचिन्ताऽऽङ्गजडिमादिकृत्॥
यथा—
अभिद्रवति मामीश! शरस्तप्तायसः प्रभो!।
कामं दहतु मां नाथ! मा मे गर्भो निपात्यताम्॥
चिन्ता—
ध्यानं चिन्ता भवेदिष्टानाप्त्यनिष्टाप्तिनिर्मितम्।
श्वासाधोमुख्यभूलेखवैवर्ण्योन्निद्रता इह॥
विलापोत्तापकुशता बाष्पदैन्यादयोऽपि च।
यथा—
कृत्त्वा मुख्यान्यवशुचः श्वसनेन शुष्य—
द्विम्बाधराणि चरणेन भुवं लिखन्त्यः।
अस्त्रैरुपात्तमषिभिः कुचकुङ्कुमानि
तस्थुर्मृजन्त्य उरुदुःखभराः स्म तूष्णीम्
मोहः—
मोहो हृन्मूढता हर्षाद्विश्लेषाद् भयतस्तथा।
विषादादेश्च; तत्र स्याद्देहस्य पतनं भुवि॥
शून्येन्द्रियत्वं भ्रमणं तथा निश्चेष्टाताऽऽदयः।
यथा—
कृष्णं महाबकग्रस्तं दृष्ट्वा रामादयोऽर्भकाः।
बभूवुरिन्द्रियाणीव विना प्राणान् विचेतसः॥
स्मृतिः—
या स्यात् पूर्वानुभूतार्थप्रतीतिः सदृशेक्षया।
दृढाभ्यासादिना याऽपि सा स्मृतिः परिकीर्त्तिता॥
भवेदत्र शिरःकम्पो भ्रूविक्षेपादयोऽपि च॥
यथा—
विलोक्य श्याममम्भोदमम्भोरुहविलोचना।
स्मारं स्मारं मुकुन्दं सा स्मारं विक्रममन्वभूत्॥
धृतिः—
धृतिः स्यात् पूर्णताज्ञानदुःखाभावोत्तमाप्तिभिः।
अप्राप्तातीतनष्टार्थानभिसंशोचनादिकृत्॥
यथा—
हरिलीलासुधासिन्धोस्तटमप्यधितिष्ठतः।
मनो मम चतुर्वर्गं तृणायापि न मन्यते॥
व्रीडा—
नवीनसङ्गमाकार्य्यस्तवावज्ञाऽऽदिना कृता।
अधृष्टता भवेद्ब्रीडा तत्र मौनं विचिन्तनम्॥
अवगुण्ठनभूलेखौ तथाऽधोमुखताऽऽदयः।
यथा—
गोविन्दे स्वयमकरोः सरोजनेत्रे!
प्रेमान्धा वरवपुरर्पणं सखि! त्वम्
कार्पण्यं न कुरु दरावलोकदाने
विक्रीते करिणि किमङ्कुशे विवादः॥
चपलता—
रागद्वेषादिभिश्चित्तलाघवं चापलं भवेत्।
तत्राविचारपारुष्यस्वच्छन्दाचरणादयः॥
यथा—
श्वो भाविनि त्वमजितोद्वहने विदर्भान्
गुप्तः समेत्य पृतनापतिभिः परीतः।
निर्मथ्य चैद्यमगधेशबलं प्रसह्य
मां राक्षसेन विधिनोद्वह वीर्य्यशुल्काम्॥
हर्षः—
अभीष्टेक्षणलाभादिजाता चेतःप्रसन्नता।
हर्षः स्याद्; इह रोमाञ्चः स्वेदोऽश्रुमुखफुल्लता॥
आवेगोन्मादजडतास्तथा मोहादयोऽपि च।
यथा—
तत्रैकांऽसगतं बाहुं कृष्णस्योत्पलसौरभम्।
चन्दनालिप्तमाघ्राय हृष्टरोमा चुचुम्ब ह॥
आवेगः—
चित्तस्य संभ्रमो यः स्यादावेगोऽयं स चाष्टधा।
प्रियाप्रियानलमरुद्वर्षोत्पातगजारितः॥
प्रियोत्थे पुलकः सान्त्वं चापल्याभ्युद्गमादयः।
यथा—
प्रेक्ष्य बृन्दावनात् पुत्रमायान्तं प्रस्तुतस्तनी।
संकुला पुलकैरासीदाकुला गोकुलेश्वरी॥
जडता—
जाड्यमप्रतिपत्तिः स्वादिष्टानिष्टश्रुतीक्षणैः।
विरहाद्यैश्च तन्मोहात् पूर्वावस्थाऽपराऽपि च।
अत्रानिमिषतातूष्णींभावविस्मरणादयः।
यथा—
गोविन्दं गृहमानीय देवदेवेशमादृतः।
पूजायां नाविदत् कृत्यं प्रमोदोपहृतो नृपः॥
गर्वः—
साभाग्यरूपतारुण्यगुणसर्वोत्तमाश्रयैः।
इष्टलाभादिना चान्यहेलनं गर्व ईर्यते॥
तत्र सोल्लुण्ठवचनं लीलाऽनुत्तरदायिता।
स्वाङ्गेक्षा निन्हवोऽन्यस्य वचनाश्रवणादयः॥
यथा—
हस्तमुत्क्षिप्य यातोऽसि बलात् कृष्ण! किमद्भुतम्।
हृदयाद्यादि निर्यासि पौरुषं गणयामि ते॥
विषादः—
इष्टानवाप्तिमारब्धकार्यासिद्धिविपत्तितः।
अपराधादितोऽपि स्यादनुतापो विषण्णता॥
अत्रोपायसहायानुसन्धिश्चिन्ता च रोदनम्।
विलापश्वासवैवर्ण्यमुखशोषादयोऽपि च॥
यथा—
पश्येश मेऽनार्य्यमनन्त आद्ये
परात्मनि त्वय्यपि मायिमायिनि।
मायां वितत्येक्षितुमात्मवैभवं–
ह्यहं कियानैच्छमिवार्चिरग्नौ॥
औत्सुक्यम् —
कालाक्षमत्वमौत्सुक्यमिष्टेक्षाऽऽप्तिस्पृहाऽऽदिभिः।
मुखशोषत्वराचिन्तानिश्वासास्थिरताऽऽदिकृत्॥
यथा—
प्राप्तं निशम्य नरलोचनपानपात्र–
औत्सुक्यविश्लथितकेशदुकूलबन्धाः।
सद्यो विसृज्य गृहकर्म पतींश्च तल्पे–
द्रष्टुं ययुर्युक्तयः स्म नरेन्द्रमार्गे॥
निद्रा—
चिन्ताऽऽलस्यनिसर्गक्लमादिभिश्चित्तमीलनं निद्रा।
तत्राङ्गभङ्गजृम्भाजाड्यश्वासाक्षिमीलनानि स्युः॥
यथा—
संक्रान्तधातृ चित्रा
सुरतान्ते सा नितान्ततान्ताऽद्य।
वक्षसि निक्षिप्ताङ्गी
हरेर्विशाखा ययौ निद्राम्॥
अपस्मारः—
दुःखोत्थधातुवैषम्यादद्भुतश्चित्तविप्लवः।
अपस्मारोऽत्र पतनं धावनास्फोटनभ्रमाः॥
कम्पः फेनस्रुतिर्बाहुक्षेपविक्रोशनादयः।
यथा—
फेनायते प्रतिपदं क्षिपते भुजोर्मि–
माघूर्णते लुठति कूजति लीयते च।
अम्बा तवाद्य विरहे चिरमम्बुराज–
वेलेव वृष्णितिलक! व्रजराजराज्ञी॥
स्वप्नः—
सुप्तिर्निद्रा विभावा स्यान्नानाऽर्थानुभवात्मिका।
इन्द्रियोपरतिश्वासनेत्रसंमीलनादिकृत्॥
यथा—
कामं तामरसाक्ष! केलिरभितः प्रादुष्कृता शैशवी
दर्पः सर्पपतेस्तदस्य तरसा निर्धूयतामुद्धुरः।
इत्युत्स्वप्नगिरा चिराद् यदुसभां विस्माययन् स्माययन्
निःस्वासेन दरोत्तरङ्गदुदरं निद्रां गतो लाङ्गली॥
विबोधः—
अविद्यामोहनिद्राऽऽदेर्ध्वंसाद्बोधः प्रबुद्धता।
यथा—
विन्दन् विद्यादीपिकां स्वस्वरूपं–
बुद्धध्वा सद्यः सत्यविज्ञानरूपम्।
निष्प्रत्यूहं तत् परं ब्रह्म मूर्त्तं–
सान्द्रानन्दाकारमन्वेषयामि॥
अमर्षः—
अधिक्षेपापमानादेः स्यादमर्षोऽसहिष्णुता।
तत्र स्वेदः शिरःकम्पो विवर्णत्वं विचिन्तनम्॥
उपायान्वेषणाक्रोशवैमुख्योत्ताड़नादयः॥
यथा—
निर्धौतानामखिलधरणीमाधुरीणां धुरीणा
कल्याणी मे निवसति वधूः पश्य पार्श्वे नवोढा।
अन्तर्गोष्ठे चटुल! नटपन्नत्र नेत्रत्रिभागं—
निःशङ्कस्त्वं भ्रमसि भविता नाकुलत्वं कुतो मे॥
अवहित्थम्—
अवहित्थाऽऽकारगुप्तिर्भवेद् भावेन केन चि।
अत्राङ्गादेः पराऽभ्यूहः स्थानस्य परिगूहनम्।
अन्यत्रेक्षा वृथा चेष्टा वाग्भङ्गीत्यादयः क्रियाः।
यथा—
सात्राजितीसदनसीमनि पारिजाते
नीते प्रणीतमहसा मधुसूदनेन।
द्राघीयसीमपि विदर्भभुवस्तदेर्ष्यां—
सौशील्यतः किल न कोऽपि विदाम्बभूव॥
उग्रता—
अपराधदुरुक्त्यादिजातं चण्डत्वमुग्रता।
वधबन्धशिरःकम्पभर्त्सनोत्ताडनादिकृत्॥
यथा—
स्फुरति मयि भुजङ्गीगर्भविभ्रंसिकीर्त्तौ
विरचयति मदीशे किल्विषं कालियोऽषि।
हुतभुजि बत कुर्यां जाठरे बौषडेनं—
सपदि दनुजहन्तुः किन्तु रोषाद्विभेमि॥
मतिः—
शास्त्रादीनां विचारोत्थमर्थनिर्धारणं मतिः।
अत्र कर्त्तव्यकरणं संशयभ्रमयोश्छिदा॥
उपदेशश्च शिष्याणामूहापोहादयोऽपि च।
यथा—
व्यामोहाय चराचरस्य जगतस्ते ते पुराणागमा—
स्तां तामेव हि देवतां परमिकां जल्पन्तु कल्पावधि
सिद्धान्ते पुनरेक एव भगवान् विष्णुः समस्तागम—
व्यापारेषु विवेचनव्यतिकरं नीतेषु निश्चीयते॥
व्याधिः—
दोषोद्रेकवियोगाद्यैर्व्याधयस्तु ज्वरादयः।
अत्र स्तम्भः श्लथाङ्गत्वं श्वासोत्तापक्लमादयः॥
यथा—
तव चिरविरहेण प्राप्य पीडामिदानीं—
दधदुरुजडिमानि ध्मापितान्यङ्गकानि।
श्वसितपवनधाटीदाहितघ्राणवाटं—
लुठति धरणिपृष्ठे गोष्ठवाटीकुटुम्बम्॥
उन्मादः—
उन्मादो हृद्भ्रमः प्रोदानन्दापद्विरहादिजः।
अत्रदृहासनटनं संगीतं व्यर्थचेष्टितम्॥
प्रलापधावनक्रोशविपरीतक्रियाऽऽदयः॥
यथा—
गायन्त्य उच्चैरमुमेव संहता—
विचिक्युरुन्मत्तकवद् वनाद्वनम्।
पप्रच्छुराकाशवदन्तरं बहि—
भूतेषु सन्तं पुरुषं वनस्पतीन्॥
मरणम्—
विषादव्याधिसंत्राससंप्रहारक्लमादिभिः।
प्राणत्यागो मृतिस्तस्यामव्यक्ताक्षरभाषणम्॥
विवर्णमात्रताश्वासमान्द्यहिक्काऽऽदयः क्रियाः।
यथा—
अनुञ्जासश्वासा मुहुरसरलोत्तानितदृशो—
विवृण्वन्तः काये किमपि नववैवर्ण्यमभितः।
हरेर्नामाव्यक्तीकृतमलघुहिक्कालहरिभिः
प्रजल्पन्तः प्राणान् जहति मथुरायां सुकृतिनः॥
त्रासः—
त्रासः क्षोभो हृदि तडिद्घोरसत्त्वोग्रनिस्वनैः।
पार्श्वस्थालम्बरोमाञ्चकम्पस्तम्भभ्रमादिकृत्॥
यथा—
बाढं निविडया सद्यस्तडिता ताडितेक्षणः।
रक्ष कृष्णेति चुक्रोश कोऽपि गोपीस्तनन्धयः॥
वितर्कः—
विमर्शात् संशयादेश्चवितर्कस्तूह उच्यते।
एष भूक्षेपणशिरोऽङ्गलिसंचालनादिकृत्॥
यथा—
असौ किं तापिच्छो न हि यदमलश्रीरिह गतिः
पयोदः किं वाऽयं न यदिह निरङ्को हिमकरः।
जगन्मोहारम्भो गुरुमधुरवंशीध्वनिरितो—
ध्रुवं मूर्धन्यद्रेर्विधुमुखि! मुकुन्दो विहरति॥इति॥
अत्र च “विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्ति”— रिति पारमर्षसूत्रं प्रमाणमवगन्तव्यम् विस्तरस्त्वस्य “सरसः के चि” दित्यत्र प्रदर्शयिष्यते॥२॥
संप्रति किंनिष्ठो वेति द्वितीयप्रश्नमुत्तरयति—सुखेति।
सुखस्यात्मस्वरूपत्वात्तदाधारो न विद्यते॥
तद्व्यञ्जिकाया वृत्तेस्तु सामाजिकमनः प्रति॥३॥
रसात्मकस्य सुखस्य “रसो वै सः”रसं ह्येवायं लब्ध्वाऽऽनन्दीभवति”“एष ह्येवानन्दयाति”इत्यादयो भगवत्यः श्रुतयः परमात्मनो रसरूपत्वं संगिरन्ते, अतश्चात्मन एव जगदाधारता “कुक्षिस्थाखिलभुवनमि” त्याद्यागमैरवधारिता , तदाधारस्य वास्तविकस्याप्रसिद्धेराह—“तदाधारो न विद्यते”इति
तुशद्बेन मुख्यतदाधाराप्रसिद्धावपि तद्व्यञ्जकवृत्त्याधारस्य गौणतदाधारत्वं तु सुवचमिति सूचयन्नाह—सामेति, तथा च वृत्तेरित्यत्र षष्ट्यर्थस्य निरूपितत्वस्याधारतायामन्वयात्ः तद्व्यञ्जकव्यक्तिनिरूपिताधारता तु सामाजिकमनसीति भावः, मनःशद्वोत्तरं द्वितीया च प्रतियोगनिबन्धनेति ज्ञेयम्।
अत्र यद्यपि तच्छद्बेन रसस्यैव परामर्शः किन्तु रसस्य स्वयंप्रकाशत्वेन वृत्तिफलव्याप्यता स्थायिनि विवक्षितेति तद्व्यञ्जिकेत्यत्र स्थायिव्यञ्जिकेत्यर्थे तात्पर्यं पर्यवस्यति, सामाजिकशब्देन चानुकार्यानुकर्त्तृगतत्वं रसस्याननुमतमिति सूचितं; परन्तु प्राकृतस्थलीयेयं व्यवस्थेति तु न विस्मर्त्तव्यम्, अप्राकृतस्थले तु रसात्मैवानुकार्य इति विशेषः॥३॥
इदानीं स्थायिनो लौकिकालौकिकत्वे व्यवस्थापयति काव्येति—
काव्यार्थनिष्ठा रत्याद्याः स्थायिनः सन्ति लौकिकाः॥
तदबोद्धृनिष्ठास्त्वपरे तत्समा अप्यलौकिकाः॥४॥
काव्ये योऽर्थो वर्णनीयोऽभिनेयो वा तन्निष्ठा रत्यादयो— लौकिकाः लोकसिद्धनियमानुसारिणः सुखकारणसहकृताः सुखजननस्वभावाः; दुःखकारणसहकृता दुःखजननस्वभावा इति यावद्, अयमपि नियमःप्राकृतस्थलीय एवावधार्य्यः
रसानुभवितृ सामाजिकनिष्ठासत्वपरे समानविषयकत्वादिना तत्तुल्या अपि किलालौकिका उच्यन्ते॥४॥
उक्तवैषम्ये बीजमाह— बोध्येति।
बोध्यनिष्ठा यथास्वं ते सुखदुःखादिहेतवः॥
बोद्धृनिष्ठास्तु सर्वेऽपि सुखमात्रैकहेतवः॥५॥
ते=स्थायिनो रतिक्रोधादयः, बोध्यनिष्ठाः=वर्णयितव्या–
भिनेतव्यनिष्ठाः; यथास्वं=सुखजननस्वभावाः सुखहेतवः; दुःखजननस्वभावा दुःखहेतवो भवन्ति लोकनियमाक्रान्ततया न तंव्यभिचरन्तीत्यर्थः, सर्वेऽपि पुनः सामाजिकवृत्तयः केवलसुखजनकाः, अयमत्राभिसंधिः—लोके हि पुत्रादेर्जन्मादीनां सुखकारणत्वं तस्य मरणादीनां दुःखकारणत्वं च यदानुभविकं तन्न पुत्रसामान्यस्य; किन्तु स्वनिरूपितत्वविशिष्टत्वेन ज्ञातस्यैव,शत्रुपुत्रादेस्तेषां प्रत्युत व्यत्ययेन तथात्वदर्शनाद्, काव्ये तु धर्मिग्राहकमानसिद्धस्य व्यक्तिविशेषनिरूपितत्वादिप्रमोषणात्मकसाधारणीकरणव्यापारस्य महिम्ना दुःखप्रयोजकविशेषांशाभानान्नैव दुःखाधायकता, न च तुल्ययुक्त्या सुखप्रयोजकविशेषांशाभानस्यापि प्रतिबन्धात्सुखाधायकताऽपि कथंकारं स्यादिति वाच्यम्, प्रमोषस्य फलबलकल्प्यत्वेन दुःखाननुभवात्तत्प्रमोषः कल्प्यते, सुखानुभवाद् निधुवनसहचराधरक्षतादिवत् तत्प्रमोषास्वीकाराद्, अथ वा मा भूदेवान्तःकरणजं सुखं, साधारणीकरणव्यापृतित एव भग्नावरणचिदात्मकरसस्यैवानन्दात्मकतयोल्ला सात्मुखसाक्षात्कृतेरवर्जनीयत्वाद्, दुःखप्रत्ययस्तु कुतस्त्यः स्याद्, विगलितवेद्यान्तरसंपर्कस्यापि रसेऽनुभवसिद्धतया तद्भानायोग्यत्वाच्चेति साधुक्तं सुखमात्रैकहेतव इति॥५॥
उक्तमर्थं विशदयति — अत इति।
अतो न करुणादीनां रसत्वं प्रतिहन्यते॥
भावानां बोद्धृनिष्ठानां दुःखाहेतुत्वनिश्चयात्॥६॥
सामाजिकनिष्ठानां भावानां=स्थाय्यादीनां यतो दुःखजनकाभावस्य निश्चयोऽतः करुणभयानकादीनां रसत्वं न विरुध्यते, अन्यथा तेषामनुभवार्थंजनानां साग्रहा प्रवृत्तिर्नोपपद्येत; प्रवृत्तिंप्रतीष्टसाधनत्वज्ञानस्य कारणत्वादिति भावः॥६॥
भावप्रसङ्गतो विभावतायोग्यं वस्तु निर्द्दिशति— तत्रेति।
तत्र लौकिकरत्यादेः कारणं लौकिकं तु यत्॥
काव्योपदर्शितं तत्तु विभाव इति कथ्यते॥७॥
तेषु भावेषु लौकिकरत्यादेर्यत् कारणं लोके विषयतासंबन्धेनेति शेषः, तदेव काव्येषूपदर्शितं वर्णितम्; अभिनीतं च विभाव इति कथ्यते; विभावयति साधारणीकरोतीति व्युत्पत्त्येत्यर्थः॥७॥
क्रमिकमनुभावतायोग्यं तन्निर्द्दिशति—लौकिकेति।
लौकिकस्यैव रत्यादेर्लोके यत् कार्यमीक्षितम्॥
काव्योपदर्शितं तत्स्यादनुभावपदास्पदम्॥८॥
लोक एवं व्यवहृतस्य रत्यादेर्यत् कार्य्यं भ्रूविक्षेपकटाक्षादि तदेव काव्येष्वनुभावपदवाच्यं भवेदलौकिकानुभावनव्यापारवत्त्वादिति भावः॥८॥
व्यभिचारितायोग्यं तन्निर्द्दिशति— लौकिकस्यैवेति।
लौकिकस्यैव रत्यादेर्ये भावाः सहकारिणः॥
काव्योपदर्शितास्ते तु कथ्यन्ते व्यभिचारिणः॥९॥
लोकोत्पन्नरत्यादीनां सहकारिणो निमित्तभूता भावाब्रीड़ादयो हि काव्येषु व्यभिचारिण उच्यन्ते, पूर्ववदेवालौकिकव्यभिचारणव्यापारवत्त्वादित्यर्थः॥९॥
मिलितानामेषां रत्याद्युद्बोधं प्रति कारणत्वमाह—अलौकिकेति।
अलौकिकस्य रत्यादेः सामाजिक निवासिनः॥
उद्बोधे कारणं ज्ञेयं त्रयमेतत्समुचितम्॥१०॥
सामाजिकनिष्ठस्यात एवालौकिकस्य रत्यादे स्थायिन–
उद्बोधे विभावानुभावव्यभिचारिणां त्रयं समुदितं कारणं भवतीति ज्ञातव्यम्, अयं भावः—यद्यपि लोके रत्यादिकं प्रति कारणकार्य्यसहकारिताऽऽपन्नानि वस्तूनि तथाऽपि काव्येषु पानकरसन्यायेनास्वादं प्रति कारणताभाञ्जि संपद्यन्ते, पदार्थस्वभावस्य पर्यनुयोगानर्हत्वादिति तु तत्त्वम्॥१०॥
उक्तालौकिकत्वबोधकत्वमेव भावानामुपपादयति—ज्ञातेति।
ज्ञातस्वपरसंबन्धादन्ये साधारणात्मना॥
लौकिकं बोधयन्ति भावं भावास्त्रयोऽप्यमी॥११॥
त्रयोप्यमी भावाः=विभावानुभावव्यभिचार्य्याख्याः, ज्ञातः स्वस्य परस्य च संबन्धो निरूपितत्वाश्रयत्वादिको यस्य तादृशादलौकिकात् कारणादेः, अन्येऽलौकिकव्यापारसाधारणीकरणाख्यशालितयाऽलौकिकाः सन्तोऽलौकिकं=साधारणीभूतं; भावं स्थायिनं बोधयन्ति॥११॥
ततः किं फलतीत्याह— भावेति।
भावत्रितयसंसृष्टस्थायिभावावगाहिनी॥
समूहालम्बनात्मैका जायते सात्त्विकी मतिः॥१२॥
भावानां=विभावानुभावसंचारिणां त्रितयेन=समुदायेन संसृष्टो यथायथमुद्बोधितः प्रत्यायितः परिपोषितो यः स्थायिभावस्तद्विषयिका समूहालम्बनं नानाप्रकारतानिरूपितनानाविशेष्यतानिरूपकं यज्ज्ञानं तद्रूपा समुद्रिक्तसत्त्वकचेतः परिणामात्मिका वृत्तिर्जायते, प्रपानकरसन्यायेनेति भावः॥१२॥
तया किं क्रियत इत्याह— सेति।
साऽनन्तरक्षणेऽवश्यं व्यनक्ति सुखमुत्तमम्॥
तद् रसः, के चिदाचार्य्यास्तामेव तु रसं विदुः॥१३॥
सा=पूर्वोक्ता मतिः, अनन्तरक्षणे=स्वाव्यवहितोत्तरक्षणे, सुखं लोकोत्तरानन्दमत एवोत्तममवश्यमसंशयं व्यनक्ति व्यञ्जनयाऽवगमयति; तद्=व्यक्तीकृतं सुखं रसः कथ्यते,
के चिदाचार्यास्तु तामेव=समूद्दालम्बनात्मिकां मतिमेव रसं वदन्ति एवपदेन तादृशमत्या व्यज्यमानमुखस्य रसत्वंव्यवच्छिद्यते।
अत्र रसविषये बहवो मतभेदाः सन्ति, सर्वेषां चैषां मूलंतत्रभवदाचार्यभरतर्षिसूत्रं यथा—“विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिरि”ति, अत्र संयोगादियं पञ्चमी हेत्वर्था, हेतुत्वं च कारकत्वज्ञापकत्वान्यतररूपं ज्ञापकत्वं तु तद्विषयकज्ञानजनकज्ञानविषयत्वरूपं, ज्ञानं चेह त्रिविधं– प्रत्यक्षम्, अनुमितिः, शाद्बधीश्च, प्रत्यक्षं च द्विविधं यथाऽर्थमयथाऽर्थंच, द्वितीयं पुनर्द्विधादोषजन्यं भ्रमत्वेन प्रसिद्धम्, इच्छाजन्यमारोपत्वेन ख्यातम्,
एवं च दमयन्त्यादिदर्शनजनितनलादिसमवेतरत्याद्युद्बोधस्य तत्कार्यकटाक्षादिसहचरितोत्कण्ठाऽऽदीनां चानुकायनलादिनैव संबन्धात्तत्रैव रसस्योत्पत्तिः; नटे तु तत्तदनुकृत्या सादृश्यमूलकारोप इति भहलोल्लटादीनां मतम्।
केचन नाट्यादिषु प्रकटविभावादिषु व्यञ्जनया नलादौ दमयन्त्यादिरतौ ज्ञातायां भावनादोषेण कल्पितनलत्वावच्छिन्ने स्वस्मिन् समुत्पन्नोऽनिर्वचनीयो दमयन्त्यादिविषयकरत्यादिरेव रस इति समगिरिषत।
अन्ये तु व्यञ्जनाऽनिर्वचनीयख्यात्यनभ्युपगमाद् भावनादोषेणात्मनि नलाद्यभेदग्राही दमयन्त्यादिरतिमदभेदबोधो विषयासत्त्वेऽपि मानसो भ्रम एव रस इत्यास्थिषत।
श्रीशङ्ककानुयायिनस्तु नलत्वेन गृहीते नटात्मके पक्षेऽकृ–
त्रिमत्वेन गृहीतैर्विभावादिहेतुभिर्नलादिगतरत्यादिरनुमीयमानोरस इत्यभ्युपागमन्।
भट्टनायकानुवर्त्तिनस्तु— नाट्यादिना व्यक्तिविशेषवृत्तित्वनिरूपितत्वाभ्यां जनितेऽपि स्थायिज्ञाने भावनया तयोः प्रमोषाद् रतित्वादिनैव प्रतीतरत्यादेः स्ववृत्तिरत्यादिसाजात्येनानुभूतचररत्यादिसंस्कारोद्बोधे ज्ञानस्य स्वप्रकाशत्वेन सत्त्वोद्रेकेणानन्दरूपोरसः शब्दस्य भोगाख्यतृतीयव्यापारेण साक्षात् क्रियत इत्युपागुः।
इत्थं स्वस्वशेमुषीविकाससाहायकमवलम्ब्य पारमर्षसूत्रघटकपञ्चमीनिष्पत्तिपदार्थवैविध्येनाभियुक्ताः स्वस्वमतानुसारेण रसतत्त्वं प्रत्यपीपदन्, परन्तु मुनिसंमतरहस्यानाकलनाच्छास्त्रसिद्धान्तिनामश्रद्धेयान्येवा खिलान्युक्तमतानि तदनुसारीणि पराणि चानिद्दिष्टान्येकदेशिमतानि।
तत्राश्रद्धाबीजानि चेमानि संक्षेपतः प्रधानानि–प्रथमे तावद् विप्रकृष्टत्वाल्लौकिकात्वात्काल्पनिकत्वादर्थान्तरता।
द्वितीयस्मिन् विमतत्वादनिर्वचनीयस्यभ्रमविषयत्वाच्च तथात्वम्।
तृतीयेऽपि भ्रमास्पदत्वं तादृशमेव।
तुरोये भेदग्रहेण बाधात् कथमपि भेदाग्रहेऽपि नलादौ भैम्यादिरतिग्रहस्य सामाजिकप्रवृत्त्यनौपयिकत्वात् श्रव्यस्थले पक्षधर्मताज्ञानविरहाच्चाभिमतरसपरिपन्थिताऽनिवार्य्या।
पञ्चमे तु प्रमाणागोचरस्य शब्दनिष्ठक्रमिकव्यापारत्रयस्यैवारुन्तुदतेति।
अभिनवगुप्ताचार्यमम्मटभट्टादयस्तु— साधारणीकृतिव्यापारमहिमभग्नावरणचिद्विशिष्टस्थायी रस इति सिद्धान्तयन्ति स्म।
एतदेव मतं मूलकारेण के चिदित्यादिना सूचितम्, अस्वरसबीजं त्वत्र श्रुतिविरोध एव श्रुतौ हि “रसो वै सः”
“रसं ह्येवायं लब्ध्वाऽऽनन्दी भवती”त्यादिनाऽऽत्मैव रस उक्तः, कथितमते तु तद्विशिष्टस्थायीति तत्प्राधान्याप्राधान्यादिविरोधः स्फुट एव।
वस्तुतस्तु तादृशस्थायिविशिष्टश्चिदात्मैव रसः सोऽपि न जीवात्मा परन्तु सच्चिदानन्दविग्रहः परमात्मैव, अन्यथोक्तद्वितीयश्रुतिवाक्यार्थानुपपत्तेस्तादवस्थ्यं स्यादित्यलं बहुना॥१३॥
तेषां प्रत्येकविज्ञानं कारणत्वेन तैर्मतम्।
स्थायीभावो रस इति प्रयोगस्तूपचारतः॥१४॥
के चिदिति मते व्यवस्थामाह— तेषामिति।
तैः=समूहालम्बनात्मिकां मतिं रसमभ्युपगच्छद्भिः, तेषां=विभावादीनां, प्रत्येकविज्ञानं कारणमुच्यते रसप्रतीतेरिति यावत्, स्थायिभावस्य रसत्वेन व्यवहारस्तूपचारतःकारणे कार्यबोधकशब्देन व्यपदेशो गौण इत्यर्थः॥१४॥
एवमव्यवधानेन क्रमो यस्मान्न लक्ष्यते
असंलक्ष्यक्रमव्यङ्ग्य ध्वनिं तस्मादिमं विदुः॥१५॥
रसस्यासंलक्ष्यक्रमव्यङ्ग्यत्वेनव्यवहारमुपपादयति—एवमिति।
समूहालम्बनमतेरव्यवहितोत्तरक्षणे रसव्यक्ताववश्यं क्रमोऽनुमीयमानोऽस्ति, किन्तूत्पलपत्रशतवेधन्यायेन क्षिप्रभावितया न लक्ष्यते, तदेवोक्तमत्रभवद्भिर्मम्मटभट्टैः—“न खलु विभावानुभावव्यभिचारिण एव रसोऽपि तु रसस्तैरित्यस्ति क्रमः केवलमसौ लाघवान्न लक्ष्यते”इत्यादिना, अत एव चासंभवक्रममनुक्त्वाऽसंलक्ष्यक्रमः कथ्यते एतदेवाह—एवमव्यवधानेनेत्यादिनेति निष्कृष्टोऽर्थः, ध्वन्यतेऽर्थोऽनेनेति व्यञ्जनव्यापारोऽ–
पि ध्वनिशब्दव्यवहार्य्यः, स चाभिधालक्षणाव्यापारयोरेकतरस्याव्यवहितोत्तरं प्रसरतीत्यतोऽभिधामूला, लक्षणमूला च पूर्वं द्विधोच्यते व्यञ्जना, इयं किल विवक्षितान्यपरवाच्यध्वनिरविवक्षितवाच्यध्वनिश्च क्रमेणोच्यते, तत्र मूलभूतलक्षणायाअन्वयानुपपत्तितात्पर्यानुपपत्तिप्रयुक्ततया द्वैविध्येन; तन्मूलध्वनिरपि क्रमेणात्यन्ततिरस्कृतवाच्योऽर्थान्तरसंक्रमितवाच्यश्चोच्यते, तथा विवक्षितान्यपरवाच्योऽभिधामूलोऽपि ध्वनिर्द्विप्रकारोव्यङ्ग्यप्रतीतिक्रमस्य लक्ष्यत्वालक्ष्यत्वाभ्यां प्रथमः संलक्ष्यक्रमोऽन्योऽसंलक्ष्यक्रमः सोऽयं प्रकृतकारिकया प्रतिपादित इति॥१५॥
प्रसङ्गात्संलक्ष्यक्रमध्वनिमपि दर्शयति— व्यवेति।
व्यवधानात्कमो लक्ष्यो वस्त्वलंकारयोर्ध्वनौ।
लक्ष्यव्यङ्ग्यक्रमं तस्माद् ध्वनिमेतं प्रचक्षते॥१६॥
अयंभावः— वाच्यबोधोत्तरं व्यञ्जिजिषितप्रतीत्यौपयिकसामग्रीसंधानेन व्यवधीयमाना भवति व्यङ्ग्यव्यक्तिरत आह— व्यवधानादिति, इदमिहावधेयं— पूर्वोक्ता व्यञ्जना प्रकारान्तरेण पुनर्द्विविधा— शाब्दीतथाऽऽर्थी, तत्र—
“अनेकार्थस्य शद्बस्य वाचकत्वे नियन्त्रिते॥
संयोगाद्यैरवाच्यार्थधीकृद् व्यापृतिरञ्जनम्”
इत्युक्तप्रकारा शाद्बी, तथा—
“वक्तृबोद्धव्यकाकूनां वाक्यवाच्यान्यसंनिधेः॥
प्रस्तावदेशकालादेवशिष्ट्यात् प्रतिभाजुषाम्॥
योऽर्थस्यान्यार्थधीहेतुर्व्यापारो व्यक्तिरेव सा”
इत्युक्तरीत्या चार्थी, संयोगादयश्च— महाभाष्याद्वितीयमार्मिकमहावैयाकरणमहाक विमहायोगिमहाराजभर्तृहरिणा निर्दिष्टाः—
“संयोगो विप्रयोगश्च साहचर्य्यं विरोधिता।
अर्थः प्रकरणं लिङ्गं शद्वस्यान्यस्य संनिधिः॥
सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः॥
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः”इति,
एवं च शाब्दध्वनिः संलक्ष्यक्रमो विधात्रयवान्— तदुक्तम्—
“अनुस्वानाभसंलक्ष्यक्रमव्यङ्ग्यस्थितिस्तु यः।
शब्दार्थोभयशक्त्युत्थस्त्रिधा स कथितो ध्वनिः”॥
तत्र शब्दशक्त्युत्थः—
“अलंकारोऽथ वस्त्वेव शब्दाद्यत्रावभासते।
प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा”॥
इति रीत्याऽलंकारात्मना वस्त्वात्मना च द्विधा, तदेतदुक्तं—“वस्त्वलंकारयोर्ध्वनावि”ति—
तत्रालंकारात्मा ध्वनिर्यथा—
सोऽयं वसन्तसमयः समियाय यस्मिन्
पूर्णं तमीश्वरमुपोढनवानुरागम्।
गूढग्रहा रुचिरया सह राधयाऽसौ
रङ्गाय संगमयिता निशि पौर्णमासी॥
अत्र प्रकृतश्रीकृष्णवर्णनेऽप्रकृतचन्द्रवर्णनमसंबद्धं मा भूदिति चन्द्रकृष्णयोरुपमानोपमेयभावे पर्यवसानादलंकारध्वनिः।
वस्तुरूपोऽयं यथा—
अध्वानं व्रजधूर्त्त! मा वृणु पुरः पश्याम्बरान्ते दृशं—
निक्षिप्योरुपयोधरोन्नतिमिमां नष्टेन्दुलेखाश्रियम्।
नव्या कञ्चुलिकोज्ज्वला तनुरियं रागेण वल्गुश्रिया
यावन्न स्तिमिता सती कुटिल? मे वैवर्ण्यमापद्यते॥
अत्राध्वानं–व्रज–मा–अम्बरपयोधरेन्दुलेखारागादिपदैः स्वाभिप्रायाविष्कृतिरूपं वस्तु व्यज्यते।
एवं दिङ्मात्रमुदाहृतं विस्तरभियाऽर्थशक्त्युभयशक्त्युत्थभेदतत्प्रभेदा न दर्शिताः॥१६॥
असंलक्ष्यक्रमध्वनिविषयं विशदयति—रसेति।
रसभावतदाभासभावशान्त्यादिरक्रमः॥
अनन्तरक्षणे यस्माद् व्यज्यतेऽवश्यमेव सः॥१७॥
असंलक्ष्यक्रमव्यङ्ग्यो न केवलं योगरूढ्यनुगृहीतो रसः किन्तु योगाश्रयाद्रस्यत इति रसव्युत्पत्त्या रसो भावो रसाभासो भावाभासो भावशान्तिर्भावोदयो भावसंधिर्भावशबलत्वं चेत्यष्टावपि रसपदार्थाः। अन्यत्पूर्वमुक्तम्। एषामुदाहरणानि—
तत्र रसो यथा—
धृते पाणिद्वन्द्वे झटिति झणितं रत्नवलयै–
र्हृते नीवीग्रन्थौ मुखरितममन्दं रशनया।
प्रियायाः स्वानन्दप्रतिहतधियः किन्त्वपघनो–
घनोत्तृष्णं कृष्णं प्रति समतनोत्तर्जनमिव॥
भावश्व—
“रतिर्देवादिविषया व्यभिचारी तथाऽञ्जितः”
इत्युक्तरूपः—
स यथा—
दिवि वा भुवि वा ममास्तु वासो–
नरके वा नरकान्तक! प्रकामम्।
अवधीरितशारदारबिन्दौ–
चरणौ ते मरणेऽपि चिन्तयामि॥
अत्र भगवद्विषयकत्वाद्रतेर्भावत्वम् ।
“तदाभासा अनौचित्यप्रवर्त्तिताः”
तदुक्तम्—
“अनौचित्यादृते नान्यद् रसभङ्गस्य कारणम्” इति,
ततश्चानौचित्यप्रवृत्तो रसो भावश्च रसाभासभावाभासौ क्रमाद् भवतः, तत्र रसाभासो यथा—
गन्धर्वि!कुर्वाणमवेक्ष्यलीलामग्रे धरण्यां सखि! कामपालम्। आकर्णयन्ती च मुकुन्दवेणुं भिन्नाऽद्य साध्वि! स्मरतोद्विधाऽसि॥
अत्र बले, कृष्णे चैकस्या गन्धर्व्याः कस्याश्चिद्रतिरनुचिता,तदुक्तम्—
“एकत्र चेदनासक्तिस्तिर्यङ्म्लेच्छगता रतिः।
योषितोऽनेकरक्तिश्च रसाभासस्त्रिधोदितः”॥
भावाभासो यथा—
राकासुधाकरमुखी तरलायताक्षी
सा स्मेरयौवनतरङ्गितविभ्रमाङ्गी।
तत् किं करोमि विदधे कथमत्र मैत्रीं–
तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः॥
अत्र श्रीजानकीप्रणयविषयिका दशाननचिन्ताऽनुचितेति तदाभासता।
भावशमो यथा—
म्लानाऽसि किं प्रेयसि!, मामकीनं—
हृत् पृच्छ, पृच्छामि तदित्युरोऽस्याः।
स्पृशन्निदं स्वस्थमिदं स्म कृष्णो—
ब्रवीति, सा नम्रमुखी बभूव॥
अत्र विषादस्य शान्तिः।
भावोदयो यथा—
आलीजनैर्मण्डनकेलिकाले
विभूष्यमाणा वृषभानुपुत्री।
उरोगते नीलमणीन्दुहारे
स्विन्ना सकम्पा पुलकाकुलाऽऽसीत्।
अत्र हर्षस्योदयः।
भावसन्धिर्यथा—
सुचिरमनुचरीभिः पाठितां कृष्णगाथां—
सदसि शुकवधूभिः शृण्वती गीयमानाम्।
प्रणयसदयमेकं तासु विन्यस्यतीयं—
चकितचकितमन्यन्नेत्रमास्ये गुरूणाम्॥
अत्रौत्सुक्यत्रासयोः संधिः।
भावशाबल्यं यथा—
पतिरतिकुपितो मनः प्रमत्तं खलनिकरः किल दूषणाभिधायी।
मुररिपुरपि वेषपेशलोऽसौ भण विमले! कमुपायमाश्रयामि॥
अत्र भयचपलताशङ्कौत्सुक्यानां शबलता। इति॥१७॥
रसप्रसङ्गात् तत्कारणेषुप्रदर्शनीयेषु बाधकैकसत्त्वे साधकसहस्रस्याप्यकिञ्चत्करत्वमिति न्यायेन तत्सामग्रीघटकं प्रतिबन्धकाभावं निर्द्देष्टुमभावज्ञानकारणीभूतप्रतियोगिज्ञानविषयमाह— श्रुतीति।
श्रुतिदुष्टादयो दोषा ये रसप्रतिबन्धकाः॥
तदभावोऽपि सामग्र्यां निविष्टोऽनिष्टहानिकृत्॥१८॥
रसस्य प्रतिबन्धका विरोधिनो ये दोषाः श्रुतिदुष्टादयः; तेषामभावोऽपि रसव्यक्तिसंपादकसामग्रीघटकीकर्त्तव्यो, येनानिष्टो रसप्रत्ययप्रतिरोधो न भवेदित्यर्थः॥१८॥
बाधकाभावमुक्त्वा संप्रति साधकविशेषानाह—या इति।
या रीतियो ये च गुणास्तज्ज्ञानमपि कारणम्॥
अलंकारायश्च विज्ञाता भवन्ति परिपोषकाः॥१९॥
अत्र रीतित्वं शब्दसंघटनाऽऽत्मकव्यापारविशेषत्वं, गुणत्वं—च रसोत्कर्षकत्वे सति रसाव्यभिचरितस्थितिकत्वम्, अलंकारत्वं तु रसादिभिन्नव्यङ्गभिन्नत्वविशिष्टशब्दार्थान्यतरनिष्ठविषयितासंबन्धावच्छिन्नचमत्कृतिजनकताऽवच्छेदकताऽवच्छेदकत्वम्, एते च साक्षात्परम्परासाधारण्येन रसोपकारका इति वर्त्तलार्थः॥१९॥
अस्य प्रत्यायकः को वेति तृतीयप्रश्नमुत्तरयति—गुणेति।
गुणालंकाररीतीनां भावानां च निवेदकः॥
तस्य प्रत्यायकः शब्दो वृत्त्या व्यञ्जनरूपया॥२०॥
गुणादीनां तथा विभावादीनां बोधकः शब्दो रसस्य व्यञ्जनया वृत्त्या प्रत्यायको व्यञ्जक इत्यर्थः। वृत्तिश्चार्थबोधानुकूलः शब्दनिष्ठः सम्बन्धविशेषः स चाभिधैवेति वैयाकरणाः, लक्षणाऽपि द्वितीयेति नैयायिकादयः, व्यञ्जनाऽपि तृतीयेत्यालङ्कारिकाः। एतस्या वृत्तित्वं त्वावश्यकमिति काव्यप्रकाशादौ महता संनाहेन प्रत्यपादीति जिज्ञासुभिस्ततएवावसेयमिह नैव वितायते विस्तरभियेति॥२०॥
रसव्यक्तेःशाब्दत्वेऽपि प्रत्यक्षत्वमुपपादयति— वृत्तिरिति।
वृत्तिः कार्याऽपरोक्षाऽस्य शब्दस्य सुखगर्भिणी॥
दशमस्त्वमसीत्यादिवाक्योत्थमतिवृत्तिवत्॥२१॥
अस्य=रसप्रत्यायकस्य शब्दस्य सुखविषयिकाऽपरोक्षा वृत्तिः कार्य्या=स्वीकार्यानुभवानुरोधाद्, अथ वा शब्दस्य प्रमाणस्य तादृगपरोक्षा वृत्तिः कार्यरूपा फलात्मिका प्रमितिरिति
यावत्, तत्र निदर्शनं दशमेति—यथा “केचन दश जना ग्रामतोगङ्गास्नानाद्यर्थं गताः स्नात्वेह वृक्षमूले समुदित्य सर्वे वयं गमिष्याम इति कृतसमयाः स्नातागतास्तत्रात्मानं विहाय स्वान्गणयन्तो नवत्वं प्रतीत्य सहचरवियोगभ्रमाद् विक्रोशन्तः केनापि चतुरेणागत्य विक्रोशहेतुं पृष्टेभ्यस्तमाकर्ण्यपुनर्गणनायादिष्टेषु तेष्वन्यतमः पूर्ववत् स्वेतरान् यदा नवाजीगणत्तदैवैनेन दशमस्त्वमसीत्युक्ते तदीयवाक्यादात्मानं दशमत्वेन साक्षात्कुर्वति तस्मिन् सहर्षास्ते यथाऽऽगतं जग्मुः”, तथाऽत्रापि शब्दतोऽपरोक्षज्ञानं निर्बाधमिति भावः॥२१॥
अधुना “प्रतीतिरपि कीदृशी”ति तुरीयं प्रश्नं समाधातुमाह—नित्यमिति।
नित्यं सुखमभिव्यक्तं “रसो वै स” इति श्रुतेः॥
प्रतीतिः स्वप्रकाशस्य निर्विकल्पसुखात्मिका॥२२॥
अयमभिसंधिः—सुखं द्विविधं प्रथममापामरगोचरताऽऽस्पदंसत्त्वगुणपरिणामरूपं दुःखानुविद्धमतएव हेयकुक्षिनिक्षिप्तमपि सहजाभिनिवेशवशंवदैराग्रहेण सादरमुपादीयमानं जड़तत्वमुदयाप्ययशालि, चरमं तु नित्यचिदानन्दात्मस्वरूपं वस्तुतः सुखपदवाच्यं विवेकिधुरीणैरुपेयं नित्यं परन्त्वविद्याऽऽवृततया तथात्वेनानिशमननुभूयमानमावरण भङ्गेऽभिव्यज्यमानं रसत्वेन साक्षात् क्रियते, प्रकृते चावरणभङ्गो न प्रपञ्चकारणाविद्यानिवृत्तिनिबन्धनस्तादृशस्य श्रवणमनननिदिध्यासनायत्तस्वात्, किन्तु विभावादिज्ञानप्रयुक्तसाधारणीकरणनिबन्धनस्तात्कालिकस्तन्निवृत्तौ तस्यापि निवृत्तिरेतावान् विशेषः, तादृशसुखस्य रसत्वे मानं भगवती श्रुतिरेव, तदाह—“रसो वै सः”आत्मत्रादेवास्य स्वप्रकाशस्य=प्रकाशान्तरानधीनप्रकाशस्य प्रतीतिः साक्षात्कृति–
निर्विकल्पसुखात्मिका, सुखात्मिकेति स्वरूपकथनं, निर्विकल्पत्वोक्त्याविगलितवेद्यान्तरता तदानीन्तनी ध्वनिता॥२२॥
एवं रससंबद्धं प्रश्नचतुष्टयं समाधायान्यैरुक्तं रसे वैलक्षण्यं संप्रतिपत्त्याऽऽह—कार्येति।
कार्यज्ञाप्यादिवैधर्म्यं यत्तु कैश्चिन्निरूपितम् ॥
तदप्येतेन मार्गेण योज्यं शास्त्राविरोधतः॥२३॥
यत्तु— रसे मृत्कुलालादीनां कार्यतो घटादेस्तथा दीपादीनांज्ञाप्यतस्तस्मादेव वैधर्म्यं वैलक्षण्यं कैरपि प्रदर्शितम्, अयंभावः— रसस्य कार्यत्वेऽन्वयव्यतिरेकाभ्यां विभावादिज्ञानकारएकत्वमेव वक्तव्यं, तच्चासंभवि; द्रव्येतरस्य समवायिकारणत्वस्यादृष्टत्वाद्, ज्ञानस्यात्मविशेषगुणतयाऽसमवायिकारणत्वस्यापि दुर्वचत्वात्, परिशेषाद् निमित्तत्वं वाच्यम्, एतदप्ययौक्तिकं; तथात्वे विभावादिज्ञाननाशप्रयोज्यनाशप्रतियोगित्वं रसप्रतीतेरानुभविकं नोपपद्यते, न हि निमित्तकारणनाशात् कार्यनाशो लोकेदृष्टचर इति कार्यतो वैधर्म्यं ज्ञाप्यतोऽपि ज्ञापकसमसत्ताकत्वंतत्स्फुटमेव, लोके हि ज्ञाप्यो घटादिर्ज्ञापकात् प्रदीपादेर्विषमसत्ताकएव प्रसिद्धः, एवमुक्तं तद् वैधर्म्यम्; एतेन मार्गेण श्रुतिप्रमितेन रसस्यात्मानन्यत्वनयेन योज्यं संगमनीयम्।
नन्वेवं रसस्य कार्यज्ञाप्यविचित्रत्वे प्रदर्शितचरभरताचार्यसूत्रघटकपञ्चम्यर्थासंगतिर्वज्रलेपायिताऽत आह—“शास्त्राविरोधत”इति इदमत्राकूतं— भग्नावरणचितो हि रसत्वे विशेष्यांशमादाय कार्यज्ञाप्यवैधर्म्यं सुवचं, विशेषणांशमादाय तु पञ्चम्यर्थसमन्वय इति न कोऽपि विरोधः॥२३॥
निष्कृष्टसिद्धान्तमाह—परमेति।
परमानन्द आत्मैव रस इत्याहुरागमाः॥
शब्दतस्तदभिव्यक्तिप्रकारोऽयं प्रदर्शितः॥२४॥
यद्यप्यापाततो भग्नावरणचित्त्वेन जीवात्मा रसः प्रतीयते निर्दिष्टसूत्रेण; तथाऽपि रसप्रतिपादका आगमाः– “रसं ह्येवायंलब्ध्वाऽऽनन्दी भवति” “एष ह्येवानन्दयाति” “एतस्यैवानन्दस्यान्ये मात्रामुपजीवन्ती”त्यादयः; परमः=साम्यातिशयशून्यआनन्द आत्माऽर्थात् परमात्मैव रस इत्याहुः, उपक्रमोपसंहारादितात्पर्यनिर्णायकसमष्टिसध्रीचीना इति शेषः परथा हि प्रामाण्यंतेषां दुरापं स्यादिति हृदयम्, उक्तसूत्रं तु गुड़जिह्विकान्यायेन लौकिकरसास्वादप्रत्यायनाय विनेयोन्मुखीकरणार्थें प्रवृत्तमपि न परमात्मनो रस केन्द्रतां वारयितुं प्रभवति, “यत्परः शब्दः सशब्दार्थ”इति न्यायादुभयत्र तात्पर्यसत्वे वाक्यभेदप्रसङ्गाच्च, ततश्चान्यतोऽवगमितं भगवतो रसत्वं शब्दतः खल्वभिव्यङ्क्तुमयंप्रकारो भक्तिरसास्वादनौपयिकः प्रदर्शितः॥२४॥
उक्तप्रकारेण सुखाभिव्यक्तिः शब्दतो न केवलमस्माभिरेवोच्यते; किन्तु मीमांसकैरपि भङ्ग्यैषाऽभ्युपगतेति दर्शयति— अर्थेति।
अर्थवादाधिकरणे नवशैलादिवर्णनम्॥
श्रोतणां सुखमात्रार्थमिति भट्टैरुदाहृतम्॥२५॥
पूर्वमीमांसायाः प्रथमाध्यायगतद्वितीयपादस्यार्थवादाधिकरणे “विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः” इतिजैमिनीयसिद्धान्तसूत्रीयशावरभाष्यव्याख्याने तन्त्रवार्तिके तत्रभवत्कुमारिलभट्टपादैः “केचित् स्वयमेव श्रूयमाणगन्धमादनवर्णकप्रभृतयः प्रीतिं जनयन्ति“इत्यादिना संदर्भेण यदुक्तं; तत् श्रोतृणां सुखमात्रार्थमेवातः स्पष्टैव शब्दात्मुखव्यक्तिः॥२५॥
उक्तार्थे गुरुप्रभाकराणामपि न वैमत्यमित्याह— कार्येति।
कार्यान्वितत्ववादेऽपि न विरोधोऽस्ति कश्चन॥
यस्मात् कृतीप्सितत्वेन कार्यं सुखमपीष्यते॥२६॥
कार्यान्वितपदार्थानामेव शाब्दबोधो नान्येषामिति वदतांगुरूणामपि मते कृत्याऽऽप्तुमेषणीयस्यैव कार्यपदार्थतयोक्तकार्यत्वस्य सुखेऽप्यक्षतेरिति भावः॥२६॥
एकदेशिमतं निगकरोति—अलौकिकेति।
अलौकिकनियोगे तु न किंचिन्मानमीक्ष्यते॥
लोके वाचां च सर्वेषां तत्परत्वं न युज्यते॥२७॥
लोकानवगतप्रवर्त्तनापरवाक्यस्यैव प्रामाण्यमिति मते न किमपि साधकं प्रत्युत बाधकमस्ति अयं भावः—प्रवृत्तिनिवृत्तिप्रयोजकत्वं वाक्यविशेषस्य वेदे यथा; लोकेऽपि तथा, न च लोके सर्वेषां व्यवहर्त्तृणां प्रवर्त्तकादिवाक्यानां तादृशनियोगे तात्पर्यं वक्तुंसुशकम्, अनुभवविरोधादित्याशयः॥२७॥
लोकविरोधं प्रदर्श्य; तादृशनियोगपरत्वएव शब्दस्य प्रामाण्यमित्यपि निरस्यति—प्रयोजनेति।
प्रयोजनवदज्ञातज्ञापकत्वं च मानता॥
शब्दस्य कार्यपरता त्वाचार्यैरेव खण्डिता॥२८॥
चो हेतौ, यतो मानता=प्रवर्त्तकज्ञानस्य प्रमाणता; प्रयोजनवत्त्वेसति यदज्ञातं मानान्तरानधिगतं तद्विषयकज्ञानजनक त्वं वेदलोकसाधारणं निर्विवादमास्थेयं, कार्य्यपरता तु शब्दस्यप्रमाणभूतस्येति शेषः, आचार्य्यैः=अद्वैतवादप्रतिष्ठापकतत्रभवत्श्रीशंकराचार्य्यैःखण्डिता, ब्रह्मसूत्रभाष्ये समन्वयाधिकरणादाविति वाक्यशेषः॥२८॥
इदानीमुक्ताचार्य्यैर्यादृशी प्रवृत्त्यङ्गताऽऽपन्ना प्रमा व्यवहारेऽनुमोदिता तादृशीं दर्शयति— देवतेति।
देवताऽधिकृतिन्यायात् पदैरन्यपरैरपि॥
प्रयोजनवदज्ञाताबाधितार्थमतिर्भवेद्॥२९॥
उत्तरमीमांसायाः प्रथमाध्याये तृतीयपादे देवताऽधिकरणे “भावं तु बादरायणोऽस्ति हि”इति सिद्धान्तसूत्रेऽद्वैतभाष्यकाराचार्याः—“विध्युद्देशार्थवादयोस्त्वर्थवादस्थानि पदानि पृथगन्वयं वृत्तान्तविषयं प्रतिपद्यानन्तरं कैमर्थ्यवशेन कामं विधेः स्तावकत्वं प्रतिपद्यन्ते”, इत्यादिप्रबन्धेनान्यपरैः= विधेयस्तुतितात्पर्यकैरपि पदैः=अर्थवादघटकैः, फलवती मानान्तरानवाप्ता मानान्तराबाधिता च प्रमा, प्रवत्त्यङ्गमिति शेषः, भवेद्, इति सिद्धान्तयन्ति स्म, तथा चान्यपरैरपि पदैर्बोधो दुर्निवार इति फलितम्॥२९॥
एवं च प्रकृतेऽपि नानुपपत्तिरित्याह—तस्मेति।
तस्मादन्यपरत्वे वा स्वातन्त्र्ये वा पदानि नः॥
व्यञ्जयन्ति परानन्दं सहकार्यानुरूप्यतः॥३०॥
इति श्रीपरमहंसपरिव्राजकाचार्य्यश्रीमधुसूदनसरस्वतीविरचिते श्रीभगवद्भक्तिरसायने भक्तिरसप्रतिपादको–
नाम तृतीयोल्लासः॥
ग्रन्थश्च संपूर्णः।
तस्माद्=अर्थवादस्थलायुक्तमकाराद्, नः=अस्माकं भक्तिरसास्वादमभिलाषुकाणां पदानि स्वघटितवाक्यप्रतिपाद्येतरतारप–
र्यकाणि स्वप्रयोज्यतात्पर्यपराणि वा सहकारिणां=विभावानुभावव्यभिचारिव्यापाराणाम् आनुकूल्यात् परानन्दं साम्यातिशयविनिर्मुक्तं भक्तिरसं व्यञ्जनया प्रतिपादयन्तीति निर्विवादमित्यखिलमवदातम्॥३०॥
इति श्रीमन्माध्वसंप्रदायाचार्य्यदार्शनिकसार्वभौमसाहित्यदर्शनाद्याचार्यतर्करत्नन्यायरत्नगोस्वामिश्रीदामोदरशास्त्रि-
विरचितायां भगवद्भक्तिरसायन व्याख्यायां प्रेमप्रपायां भक्तिरसप्रतिपादको नाम तृतीयोल्लासः। निबन्धश्च समाप्तः॥
<MISSING_FIG href=”../books_images/U-IMG-1734704821SANSKRIT.jpg”/>
भक्तिरसायनम्।
<MISSING_FIG href=”../books_images/U-IMG-1734705283SSANSKRIT.jpg”/>
भक्तिसामान्यनिरूपणनामकः
प्रथम उल्लासः।
नवरसमिलितं वा केवलं वा पुमर्थं–
परममिह मुकुन्दे भक्तियोगं वदन्ति॥
निरुपमसुखसंविद्रूपमस्पृष्टदुःखं–
तमहमखिलतुष्ट्यैशास्त्रदृष्ट्या व्यनज्मि॥१॥
संसाररागेण बलीयसा चिरं निपीडितैस्तत्प्रशमेऽतिशिक्षितम्। इदं भवद्भिर्बहुधा व्ययातिगं निपीयतां भक्तिरसायनं बुधाः॥२॥
द्रुतस्य भगवद्धर्म्माद्धारावाहिकतां गता॥
सर्वेशे मनसो वृत्तिभक्तिरित्यभिधीयते॥३॥
चित्तद्रव्यं हि जतुवत् स्वभावात् कठिनात्मकम्॥
तापकैर्विषयैर्योगे द्रवत्वं प्रतिपद्यते॥४॥
कामक्रोधभयस्नेहहर्षशोकदयाऽऽदयः॥
तापकाश्चित्तजतुनस्तच्छान्तौ कठिनन्तु तत्॥५॥
द्रुते चित्ते विनिक्षिप्तः स्वाकारो यस्तु वस्तुना॥
संस्कारवासनाभावभावनाशब्दभागसौ॥६॥
शिथिलीभावमात्रन्तु मनो गच्छत्यतापकैः॥
न तत्र वस्तु विशति वासनात्वेन किञ्चन॥७॥
द्रवतायां प्रविष्टं सद् यत् काठिन्यदशां गतम्॥
चेतः पुनर्द्रुतौ सत्यामपि तन्नैव मुञ्चति॥८॥
स्थायिभावगिराऽतोऽसौ वस्त्वाकारोऽभिधीयते॥
व्यक्तश्च रसतामेति परानन्दतया पुनः॥९॥
भगवान् परमानन्दस्वरूपः स्वयमेव हि॥
मनोगतस्तदाकाररसतामेति पुष्कलम्॥१०॥
कान्ताऽऽदिविषयेऽप्यस्ति कारणं सुखचिद्धनम्॥
कार्य्याकारतया भेदेऽप्यावृतं मायया स्वतः॥११॥
सदज्ञातञ्जतद् ब्रह्म मेयं कान्ताऽऽदिमानतः॥
मायावृतितिरोधाने वृत्त्या सत्त्वस्थया क्षणम्॥१२॥
अतस्तदाविर्भावित्वं मनसि प्रतिपद्यते॥
किञ्चिन्न्यूनाञ्च रसतां याति जाड्यविमिश्रणात्॥१३॥
इति वेदान्तसिद्धान्तस्थापिना रसतोदिता॥
साङ्ख्यसिद्धान्तमाश्रित्याप्यधुना प्रतिपद्यते॥१४॥
तमोरजःसत्त्वगुणा मोहदुःखसुखात्मका॥
तन्मयी प्रकृतिर्हेतुः सर्व्वं कार्य्यञ्च तन्मयम्॥१५॥
त्रिगुणात्मकमेकैकं वस्तु त्र्याकारमीक्ष्यते॥
निजमानससङ्कल्पभेदेन पुरुषैस्त्रिभिः॥१६॥
कामिन्याःसुखता भर्त्रा सपत्न्या दुःखरूपता॥
तदलाभात्तथाऽन्येन मोहत्वमनुभूयते॥१७॥
एवं सति सुखाकारः प्रविष्टो मानसे यदा॥
तदा स स्थायिभावत्वं प्रतिपद्य रसो भवेत्॥१८॥
परमाणवेकरूपन्तु चितं न विषयाकृति॥
इत्यादिमतमन्येषामप्रामाण्यादुपेक्षितम्॥१९॥
गृह्णाति विषयाकारं मनो विषययोगतः।
इति वेदान्तिभिः साङ्ख्यैरपि सम्यङ् निरूपितम्॥२०॥
मूषासिक्तं यथा ताम्रं तन्निभं जायते तथा॥
घटादि व्याप्नुवच्चित्तं तन्निभं जायते ध्रुवम्॥२१॥
व्यञ्जको वा यथाऽऽलोको व्यङ्ग्यस्याकारतामियात्॥
सर्व्वार्थव्यञ्जकत्वाद्धीरर्थाकारा प्रदृश्यते॥२२॥
भगवत्पूज्यपादानामियमुक्तिः सयुक्तिका॥
तथा वार्त्तिककारैरप्ययमर्थो निरूपितः॥२३॥
अतो मांसमयी योषित् का चिदन्या मनोमयी।
मांसमय्या अभेदेऽपि भिद्यतेऽत्र मनोमयी॥२४॥
भार्य्यास्नुषा ननान्दा च याता मातेत्यनेकधा॥
जामाता श्वशुरः पुत्रः पितेत्यादि पुमानपि॥२५॥
बाह्यपिण्डस्य नाशेऽपि तिष्ठत्येव मनामयः॥
अतः स्थायीति विद्वद्भिरयमेव निरूपितः॥२६॥
एवं स्वभावतो भावस्वरूपमुपवर्णितम्॥
विशेषेण तु सव्वषां लक्षणं वक्ष्यते पृथक्॥२७॥
भगवन्तं विभुं नित्यं पूर्णं बोधसुखात्मकम्॥
यद् गृह्णाति द्रुतं चित्तं किमन्यदवशिष्यते॥२८॥
कठिना शिथिला वा धीर्न गृह्णाति न वास्यते॥
उपेक्षाज्ञानमित्याहुस्तद्बुधाः प्रस्तरादिषु॥२९॥
काठिन्यं विषये कुर्य्यात् द्रवत्वं भगवत्पदे॥
उपायैः शास्त्रनिर्दिष्टैरनुक्षणमतो बुधः॥३०॥
उपायाः प्रथमस्कन्धे नारदेनोपवर्णिताः॥
सङ्क्षेपात्तानहं वक्ष्ये भूमिभेदविभागतः॥३१॥
प्रथमं महतां सेवा तद्दयापात्रता ततः॥
श्रद्धाऽथ तेषां धर्मेषु ततोहरिगुणश्रुतिः॥३२॥
ततो रत्यङ्कुरात्पत्तिः स्वरूपाधिगतिस्ततः॥
प्रेमबृद्धिः परानन्दे तस्याथ स्फुरणं ततः॥३३॥
भगवद्धर्मनिष्ठातः स्वस्मिंस्तद्गुणशालिता॥
प्रेम्णोऽथ परमा काष्ठेत्युदिना भक्तिभूमिका॥३४॥
लक्षणं भगवद्भक्तेः साधनं सोपपत्तिकम्॥
सभूमिकं स्वरूपञ्च यथाबुद्धीह वर्णितम्॥३५॥
इति श्री परमहंसपरिब्राजकाचार्य्यश्रीमधुसूदनसरस्वतीविरचिते भगवद्भक्तिरसायनोस्वरूपभूमिकासाधनसहितभक्तिसामान्यनिरूपणं नाम
प्रथम उल्लासः समाप्तः॥
<MISSING_FIG href=”../books_images/U-IMG-1734287736Screenshot2024-12-16000520.png”/>
भक्तिविशेषप्रतिपादको-
द्वितीय उल्लासः।
द्रुते चित्ते प्रविष्टा या गोविन्दाकारता स्थिरा॥
सा भक्तिरित्यभिहिता विशेषस्त्वधुनोच्यते॥१॥
चित्तद्रुतेः कारणानां भेदाद् भक्तिस्तु भिद्यते॥
तान्युक्तानि तु संक्षेपाद् व्याख्यायन्तेऽधुना स्फुटम्॥२॥
कामः शरीरसंबन्धविशेषः स्पृहयालुता॥
संनिधानासंनिधानभेदेन स भवेद् द्विधा॥३॥
तज्जन्यायां द्रुतौ चित्ते या स्याछ्रीकृष्णनिष्ठता॥
संभोगविप्रयोगाख्या रतिः सा सा क्रमाद् भवेत्॥४॥
क्रोध ईर्ष्यानिमित्तं तु चित्ताभिज्वलनं भवेद्॥
तज्जन्यायां द्रुतौ सा तु द्वेषशब्देन गृह्यते॥५॥
अत्र चेतोव्याकुलत्वं सोपद्रावकदर्शनात्॥
उपद्रावकनाशार्थं तत्प्रीत्यर्थं च तद् द्विधा॥६॥
तत्राद्यं द्वेष एव स्याद् द्वितीयं रतिशद्धभाक्॥
उपरिष्टात्तदुभयं मया स्पष्टीकरिष्यते॥७॥
द्वेषाहेतुः स्वमन्तूत्थं वैक्लव्यं चित्तगं तु यत्॥
तज्जन्यायां द्रुतौ याऽऽस्ते रतिः सा भयमुच्यते॥८॥
स्नेहः पुत्रादिविषयः पाल्यपालकलक्षणः॥
सेव्यसेवकभावोऽन्यः सोऽप्युक्तस्त्रिविधो बुधैः॥९॥
भगवद्दास्यसख्याभ्यां मिश्रितं चापरं जगुः॥
या कृष्णाकारता चित्ते तज्जन्यद्रुतिशालिनि॥१०॥
पाल्यपालकभावेन सा बत्सलरतिर्भवेत्॥
सेव्यसेवकभावेन प्रेयोरतिरितीर्य्यते॥११॥
हश्चित्तसमुल्लासः कथ्यते स चतुर्विधः॥
एकः परानन्दमयः श्रीशमाहात्म्यकारणम्॥१२॥
तज्जन्यायां द्रुतौ शुद्धा रतिर्गोविन्दगोचरा॥
एतदन्तं हि शास्त्रेषु साधनाम्नानमिष्यते॥१३॥
ब्रीडाविकृतवाग्वेषचेष्टाऽऽदिजनितोऽपरः॥
तज्जन्यायां द्रुतौ चेतोविकासो हास उच्यते॥१४॥
लोकोत्तरचमत्कारिवस्तुदर्शनजः परः॥
तज्जन्यायां द्रुतौ चेतोविकासो विस्मयो मतः॥१५॥
युद्धादितापजनितो वीराणां जायते परः॥
जितचित्तस्य विस्तारो द्रुतस्योत्साह उच्यते॥१६॥
इष्टविच्छेदजनितो यश्चित्ते क्लिष्टतोदयः॥
तज्जन्यायांद्रुतौ विष्टा रतता शोक उच्यते॥१७॥
दया घृणा स्याद्विषयतुच्छत्वज्ञानदीर्घिका॥
तया द्रुते तु मनसि जुगुप्सा जायते त्रिधा॥१८॥
पूतिव्रणादिविषये कथितोद्वेगिनी बुधैः॥
श्मशानोत्थपिशाचादिविषया क्षोभिणी भवेत्॥१९॥
देहेन्द्रियादिदुःखे त्वविचारणपुरःसरा॥
घृणा शुद्धेति कविभिः सा जुगुप्सा प्रकीर्त्तिता॥२०॥
या तु शोच्यस्य रक्षाऽर्थं प्रवृत्तिरनुकम्पया॥
तया द्रुते तु मनसि दयोत्साहः स्मृतो बुधैः॥२१॥
सवस्वमपि दास्यामि प्रार्थयेति च यो महान्।
उद्यमो द्रुतचित्तस्य दानोत्साहः स उच्यते॥२२॥
तथा स्वधर्मरक्षार्थं या प्रवृत्तिः प्रयत्नतः॥
तथा चित्तस्य विस्तारो धर्मोत्साहो द्रुतौ भवेद्॥२३॥
वशीकाराख्यवैराग्यं यत् कामास्पृहताऽऽत्मकम्॥
तेन द्रुतस्य चित्तस्य प्रकाशः शम उच्यते॥२४॥
इतोऽन्यथा तु चित्तस्य न द्रतिर्विद्यते क्वचित्॥
तदभावात्तु भावो न निरुक्तान्योऽस्ति कश्चन॥२५॥
यावत्यो द्रुतयश्चित्ते भावास्तावन्त एव हि॥
स्थायिनो रसतां यान्ति विभावादिसमाश्रयात्॥२६॥
धर्मोत्साहो दयोत्साहो जुगुप्सा त्रिविधा शमः॥
षडप्येतेन विषया भगवद्विषया न हि॥२७॥
धर्मवीरो दयावीरो बीभत्सः शान्त इत्यमी॥
अतो न भक्तिरसतां यान्ति भिन्नास्पदत्वतः॥२८॥
ईर्ष्याजभयजद्वेषौ भगवद्विषयावपि॥
न भक्तिरसतां यातः साक्षाद् द्रुतिविरोधतः॥२९॥
शुद्धो रौद्ररसस्तत्र तथा रौद्रभयानकः॥
नास्वाद्यः सुधिया प्रीतिविरोधेन मनागपि॥३०॥
कामजे द्वे रती शोकः प्रीतिभीविस्मयास्तथा॥
उत्साहो यदि दाने च भगवद्विषया अमी॥३१॥
व्यामिश्रभावरूपत्वं यान्त्येते क्षीरनीरवत्॥
विभावादिसमायोगे तथा भक्तिरसा अपि॥३२॥
शृङ्गारः करुणो हास्यस्तथा प्रीतिर्भयानकः॥
अद्भुतो युद्धवीरश्चदानवीरश्च मिश्रिताः॥३३॥
शुद्धा च वत्सलरतिः प्रेयोरतिरिति त्रयी॥
भावान्तरामिश्रितत्वादमिश्रा रतिरुच्यते॥३४॥
विशुद्धो वत्सलः प्रेयानिति भक्तिरसास्त्रयः॥
रसान्तरामिश्रितास्ते भवन्ति परिपुष्कलाः ॥३५॥
शृङ्गारो मिश्रितत्वेऽपि सर्वेभ्यो बलवत्तरः॥
तीव्रतीव्रतरत्वं तु रतेस्तत्रैव वीक्ष्यते॥३६॥
के चित् केवलसंकीर्णाः के चित् संकीर्णमिश्रिताः॥
के चित् केवलमिश्राश्चशुद्धाश्च स्युश्चतुर्विधाः॥३७॥
तत्र केवलसंकीर्णा रौद्रो रौद्रभयानकः॥
धर्मवीरो दानवीरो बीभत्सः शान्त इत्यपि॥३८॥
मिश्रा एवान्यविषयाः प्रोक्ताः संकीर्णमिश्रिताः॥
भगद्विषयास्ते तु ख्याताः केवलमिश्रिताः॥३९॥
शुद्धास्त्रयः पुरैवोक्ताः संकीर्य्यन्ते न केन चित्॥
एवं निरूपिता भक्तिः संक्षेपादुच्यते पुनः॥४०॥
राजसी तामसी शुद्धसात्त्विकी मिश्रिता च सा॥
ईर्ष्याजद्वेषजाऽद्या स्याद् भयजद्वेषजा परा॥४१॥
हर्षजा शुद्ध सत्त्वोत्था कामशोकादिजेतरा॥
सत्त्वजत्वे तु सर्वासां गुणान्तरकृता भिदा॥४२॥
तत्र ते रतितां नैव यातः सुखविरोधतः॥
रतिशब्दं तु भजतः सुखमय्यौ परे द्रुती॥४३॥
भक्तिश्चतुर्विधाऽप्येषा भगवद्विषया स्थिरा॥
दृष्टादृष्टोभयैकैकफला भक्तिस्त्रिधा भवेत्॥४४॥
राजसी तामसी भक्तिरदृष्टफलमात्रभाक्॥
दृष्टदृष्टोभयफला मिश्रिता भक्तिरिष्यते॥४५॥
शुद्धसत्त्वोद्भवाऽप्येवं साधकेष्वस्मदादिषु॥
दृष्टमात्रफला सा तु सिद्धेषु सनकादिषु॥४६॥
दृष्टादृष्टफला भक्तिः सुखव्यक्तेर्विधेरपि॥
निदाघदूनदेहस्य गङ्गास्नानक्रिया यथा॥४७॥
रजस्तमोऽभिभूतस्य दृष्टांशः प्रतिबध्यते॥
शीतवातातुरस्येव नादृष्टशस्तु हीयते॥४८॥
तथैव जीवन्मुक्तानामदृष्टांशो न विद्यते॥
स्नात्वा भुक्तवतां भूयो गङ्गायां क्रीडतां यथा॥४९॥
वर्तमानतनुप्राप्यं फलं दृष्टमुदाहृतम्॥
भाविदेहोपभोग्यं यत्तददृष्टमुदीरितम्॥५०॥
रजस्तमः प्रचण्डत्वे सुखव्यक्तिरसत्समा॥
तीव्रवायुविनिक्षिप्तदीपज्वालेव भासते॥५१॥
तस्मात्स्वयंप्रभाऽऽनन्दाकाराऽपि मतिसंततिः॥
प्रतिबन्धकवशान्न स्यात्सुखव्यक्तिपदास्पदम्॥२२॥
रजःप्रबलसत्त्वांशादीर्ष्याजद्वेषमिश्रिता॥
मनोवृत्तिः परानन्दे चैद्यस्य न सुखायते॥५३॥
तमः प्रबलसत्वांशाद् भीतिजद्वेषमिश्रिता॥
मनोवृत्तिः परानन्दे कंसस्य न सुखायते॥५४॥
तयोर्भाविशरीरे तु प्रतिबन्धक्षये सति॥
सैव चित्तद्रुतिर्भक्तिरसतां प्रतिपद्यते॥५५॥
अधुनाऽपि भजन्तो ये द्वेषात् पाशुपतादयः॥
तेषामप्येवमेव स्यादथ वाऽनेन तुल्यता॥५६॥
द्रुतौ सत्यां भवेद्भक्तिरद्रुतौ तु न किं चन॥
चित्ततेद्रुरभावेन वेनस्तु कतमोऽपि न॥५७॥
रजस्तमोविहीना तु भगद्विषया मतिः॥
सुखाभिव्यञ्जकत्वेन रतिरित्यभिधीयते॥५८॥
स्नेहस्यैव विकारः प्रिययोरत्यन्तभावनादनिशम्॥
विरहासहिष्णुताऽऽत्मा प्रीतिविशेषो रतिर्नाम॥५९॥
रजस्तमःसमुच्छेदतारतम्येन गम्यते॥
तुल्येऽपि साधनाभ्यासे तारतम्यं रतेरपि॥६०॥
विरहे यादृशं दुःखं तादृशी दृश्यते रतिः॥
मृदुमध्याधिमात्रत्वाद् विशेषोऽत्रापि वीक्ष्यते॥६१॥
वैकुण्ठे द्वारकायां च श्रीमद्बृन्दावने तथा॥
मृदुतीव्रा मध्यतीव्रा तीव्रतीव्रा च सा क्रमात्॥६२॥
इयं निसर्गसंसर्गौपम्याध्यात्माभियोगजा॥
संप्रयोगाभिमानाभ्यां समारोपे स्थिता तथा॥६३॥
स्पर्शे शब्दे तथा रूपे रसे गन्धे च केवले॥
समुच्चिते च सा तत्रेत्येकैका षड्द्विधा भवेत्॥६४॥
शुद्धा व्यामिश्रिता चेति पुनरेषा द्विधा भवेत्॥
तत्रानुपाधिः शुद्धा स्यात्सोपाधिर्मिश्रितोदिता॥६५॥
अनुपाधिः परानन्दमहिमैकनिबन्धना॥
भजनीयगुणानन्त्यादेकरूपैव सोच्यते॥६६॥
कामसंबन्धभयतः सोपाधिस्त्रिविधा भवेत्॥
विभावादिसमायोगे शुद्धभक्तिरसो भवेत्॥६७॥
शृङ्गारमिश्रिता भक्तिः कामजा भक्तिरिष्यतेः॥
संबन्धजा रतिर्याति पूर्वोक्तां रसतां द्वयोः॥६८॥
एको वत्सलभक्त्याख्यः प्रेयोभक्तिस्तथाऽपरा॥
भयजा रतिरध्यास्ते रसं प्रीतिभयानकम्॥६९॥
एकदा यद्यपि व्यक्तमिदं रतिचतुष्टयम्॥
तदा तु पानकरसन्यायेन परमो रसः॥७०॥
एकद्व्यादिरसव्यक्तिभेदाद्रसभिदा भवेत्॥
तस्मात् क्व चित्तदभ्यासं कुर्याद्रतिचतुष्टये॥७१॥
व्रजदेवीषु च स्पष्टं दृष्टं रतिचतुष्टयम्॥
तच्चित्तालम्बनत्वेन स्वचित्तं तादृशं भवेत्॥७२॥
रसान्तरविभावादिसंकीर्णा भगवद्रतिः॥
चित्ररूपवदन्याग्रसतां प्रतिपद्यते॥७३॥
रसान्तरविभावादिराहित्ये तु स्वरूपभाक्॥
दशमीमेति रसतां सनकादेरिवाधिकाम्॥७४॥
रतिर्देवादिविषया व्यभिचारी तथोर्जितः॥
भावः प्रोक्तो रसो नेति यदुक्तं रसकोविदैः॥७५॥
देवान्तरेषु जीवत्वात् परानन्दाप्रकाशनात्॥
तद्योज्यं; परमानन्दरूपे न परमात्मनि॥७६॥
कान्तादिविषया वा ये रसाद्यास्तत्र नेदृशम्॥
रसत्वं पुष्यते पूर्णसुखास्पर्शित्वकारणात्॥७७॥
परिपूर्णरसा क्षुद्ररसेभ्यो भगवद्रतिः॥
खद्योतेभ्य इवादित्यप्रभेव बलवत्तरा॥७८॥
क्रोधशोकभयादीनां साक्षात् सुखविरोधिनाम्॥
रसत्वमभ्युपगतं तथाऽनुभवमात्रतः॥७९॥
इहानुभवसिद्धेऽपि सहस्रगुणितो रसः॥
जडेनेव त्वया कस्मादकस्मादपलप्यते॥८०॥
इति श्रीपरमहंसपरिव्राजकाचार्य्यश्रीमधुसूदनसरस्वतीविरचिते भगवद्भक्तिरसायने भक्तिविशेषप्रतिपादको नाम द्वितीयोल्लासः
<MISSING_FIG href=”../books_images/U-IMG-1734286766Screenshot2024-12-15234910.png”/>
भक्तिरसप्रतिपादकः
तृतीय उल्लासः ।
ननु कोऽयं रसो नाम किंनिष्ठो वा भवेदसौ॥
अस्य प्रत्यायकः को वा प्रतीतिरति कीदृशी॥१॥
विभावैरनुभावैश्च व्यभिचारिभिरप्युत॥
स्थायी भावः सुखत्वेन व्यज्यमानो रसः स्मृतः॥२॥
सुखस्यात्मस्वरूपत्वात्तदाधारो न विद्यते॥
तद्व्यञ्जिकाया वृत्तेस्तु सामाजिकमनः प्रति॥३॥
काव्यार्थनिष्ठा रत्याद्याः स्थायिनः सन्ति लौकिकाः॥
तद्बोद्धृनिष्ठास्त्वपरे तत्समा अप्यलौकिकाः॥४॥
बोध्यनिष्ठा यथास्वं ते सुखदुःखादिहेतवः॥
बोद्धृनिष्ठास्तु सर्वेऽपि सुखमात्रैकहेतवः॥५॥
अतो न करुणादीनां रसत्वं प्रतिहन्यते॥
भावानां बोद्धृनिष्ठानां दुःखाहेतुत्वनिश्चयात्॥६॥
तत्र लौकिकरत्यादेः कारणं लौकिकं तु यत्॥
काव्योपदर्शितं तत्तु विभाव इति कथ्यते॥७॥
लौकिकस्यैव रत्यादेर्लोके यत् कार्यमीक्षितम्॥
काव्योपदर्शितं तत्स्यादनुभावपदास्पदम्॥८॥
लौकिकस्यैव रत्यादेर्ये भावाः सहकारिणः॥
काव्योपदर्शितास्ते तु कथ्यन्ते व्यभिचारिणः॥९॥
अलौकिकस्य रत्यादेः सामाजिकनिवासिनः॥
उद्बोधे कारणं ज्ञेयं त्रयमेतत्समुच्चितम्॥१०॥
ज्ञातस्वपरसंबन्धादन्ये साधारणात्मना॥
अलौकिकं बोधयन्ति भावं भावास्त्रयोऽप्यमी॥११॥
भावत्रितयसंसृष्टस्थायिभावावगाहिनी॥
समूहालम्बनात्मैका जायते सात्त्विकी मतिः॥१२॥
साऽनन्तरक्षणेऽवश्यं व्यनक्ति सुखमुत्तमम्॥
तद् रसः के चिदाचार्य्यास्तामेव तु रसं विदुः॥१३॥
तेषां प्रत्येकविज्ञानं कारणत्वेन तैर्मतम्॥
स्थायीभावो रस इति प्रयोगस्तूपचारतः॥१४॥
एवमव्यवधानेन क्रमो यस्मान्न लक्ष्यते॥
असंलक्ष्यक्रमव्यङ्ग्यं ध्वनिं तस्मादिमं विदुः॥१५॥
व्यवधानात्क्रमो लक्ष्यो वस्त्वलंकारयोर्ध्वनौ॥
लक्ष्यव्यङ्ग्यक्रमं तस्माद् ध्वनिमेतं प्रचक्षते॥१६॥
रसभावतदाभासभावशान्त्यादिरक्रमः॥
अनन्तरक्षणे यस्माद् व्यज्यतेऽवश्यमेव सः॥१७॥
श्रुतिदुष्टादयो दोषा ये रसप्रतिबन्धकाः॥
तदभावोऽपि सामग्रयां निविष्टोऽनिष्टहानिकृत्॥१८॥
या रीतियो ये च गुणास्तज्ज्ञानमपि कारणम्॥
अलंकाराश्च विज्ञाता भवन्ति परिपोषकाः॥१९॥
गुणालंकाररीतीनां भावानां च निवेदकः॥
तस्य प्रत्यायकः शब्दो वृत्त्या व्यञ्जनरूपया॥२०॥
वृत्तिः कार्याऽपरोक्षाऽस्य शब्दस्य सुखगर्भिणी॥
दशमस्त्वमसीत्यादिवाक्योत्थमतिवृत्तिवत्॥२१॥
नित्यं सुखमभिव्यक्तं “रसो वै स” इति श्रुतेः॥
प्रतीतिः स्वप्रकाशस्य निर्विकल्पसुखात्मिका॥२२॥
कार्यज्ञाप्यादिवैधर्म्यं यत्तु कैश्चिन्निरूपितम्॥
तदप्येतेन मार्गेण योज्यं शास्त्राविरोधतः॥२३॥
परमानन्द आत्मैव रस इत्याहुरागमाः॥
शब्दतस्तदभिव्यक्तिप्रकारोऽयं प्रदर्शितः॥२४॥
अर्थवादाधिकरणे नवशैलादिवर्णनम्॥
श्रोतृणां सुखमात्रार्थमिति भट्टैरुदाहृतम्॥२५॥
कार्यान्वितत्ववादेऽपि न विरोधोऽस्ति कश्चन॥
यस्मात् कृतीप्सितत्वेन कार्यं सुखमपीष्यते॥२६॥
अलौकिकनियोगे तु न किंचिन्मानमीक्ष्यते॥
लोके वाचां च सर्वेषां तत्परत्वं न युज्यते॥२७॥
प्रयोजनवदज्ञातज्ञापकत्वं च मानता॥
शब्दस्य कार्यपरता त्वाचार्यैरेव खण्डिता॥२८॥
देवताऽधिकृतिन्यायात् पदैरन्यपरैरपि॥
प्रयोजनवदज्ञाताबाधितार्थमतिर्भवेद्॥२९॥
तस्मादन्यपरत्वे वा स्वातन्त्र्ये वा पदानि नः॥
व्यञ्जयन्ति परानन्दं सहकार्यानुरूप्यतः॥३०॥
इति श्रीपरमहंसपरिव्राजकाचार्य्यश्रीमधुसूदनसरस्वतीविरचिते श्रीभगवद्भक्तिरसायने भक्तिरसप्रतिपादको नाम तृतीयोल्लासः। ग्रन्थश्चसम्पूर्णः॥
श्रीः
सटीक भक्तिरसायनस्य शुद्धिपत्रम्–
[TABLE]
अत्र १३५ पृष्ठे— नवमी पङ्क्तिः सप्तमपङ्क्तिस्थाने; तथा षोडशीसप्तदश्यौपङ्क्तीचतुर्दशीपञ्चदश्योः पङ्क्तयोः स्थाने पठनीयाः।
इति।
]