चतुर्थपरिच्छेदः
जीवन्मुक्तिसदसद्भावोपपादनम्
अथ कोऽयमविद्यालेशः, यदनुवृत्त्या जीवन्मुक्तिः ?
आवरणविक्षेपशक्तिमत्या मूलाविद्यायाः प्रारब्धकर्मवर्तमानदेहाद्यनुवृत्तिप्रयोजको विक्षेपशक्त्यंश इति केचित् ।
क्षालितलशुनभाण्डानुवृत्तलशुनवासनाकल्पोऽविद्यासंस्कार इति − अन्ये ।
दग्धपटन्यायेनानुवृत्ता मूलाविद्यैवेति − अपरे ।
सर्वज्ञात्मगुरवस्तु − विरोधिसाक्षात्कारोदये लेशतोऽप्यविद्यानुवृत्त्यसम्भवात् जीवन्मुक्तिशास्त्रं श्रवणादिविध्यर्थवादमात्रम् , शास्त्रस्य जीवन्मुक्तिप्रतिपादने प्रयोजनाभावात् । अतः कृतनिदिध्यासनस्य ब्रह्मसाक्षात्कारोदयमात्रेण सविलासवासनाविद्यानिवृत्तिः – इत्यपि कञ्चित् पक्षमाहुः ।
अविद्यानिवृत्तिस्वरूपविचारः
अथ केयमविद्यानिवृत्ति: ?
आत्मैवेति ब्रह्मसिद्धिकाराः । न च तस्य नित्य(त्वेन)सिद्धत्वात् ज्ञानवैयर्थ्यम् । असति ज्ञाने अनर्थहेत्वविद्याया विद्यमानतया अनर्थमपि तिष्ठेदिति तदन्वेषणात् , ‘यस्मिन् सति अग्रिमक्षणे यस्य सत्त्वं यद्व्यतिरेके च अभावः तत् तत्साध्यम्‘ इति लक्षणानुरोधेन आत्मरूपाया अप्यविद्यानिवृत्तेः ज्ञानसाध्यत्वाच्च । ज्ञाने सति अग्रिमक्षणे आत्मरूपाविद्यानिवृत्तिसत्त्वं तद्व्यतिरेके तत्प्रतियोग्यविद्यारूपः तदभाव इति उक्तलक्षणसत्त्वात् ।
आत्मन्यैव अविद्यानिवृत्तिः । सा च न सती । अद्वैतहानेः । नाप्यसती । ज्ञानसाध्यत्वायोगात् । नापि सदसद्रूपा । विरोधात् । नाप्यनिर्वाच्या, अनिर्वाच्यस्य सादेः अज्ञानोपादानकत्वनियमेन मुक्तावपि तदुपादानाज्ञानानुवृत्त्यापत्तेः, ज्ञाननिवर्त्यत्वापत्तेश्च । किन्तु उक्तप्रकारचतुष्टयोत्तीर्णा पञ्चमप्रकारा इति आनन्दबोधाचार्याः ।
अविद्यावत् तन्निवृत्तिरप्यनिर्वाच्यैव । न च तदनुवृत्तौ तदुपादानाज्ञानस्याप्यनुवृत्तिनियमात् अनिर्मोक्षप्रसङ्गः । तदनुवृत्तौ प्रमाणाभावात् । उत्पत्तेः प्रथमसमयमात्रसंसर्गिभावविकारत्ववत् निवृत्तेरपि चरमसमयमात्रसंसर्गिभावविकारत्वोपपत्तेः । अत एव, यथा पूर्वं पश्चाच्च ‘उत्पत्स्यते’ ‘उत्पन्नः’ इति भाविभूतभावेन व्यवह्रियमाणाया उत्पत्तेः प्रथमसमयमात्रे ‘उत्पद्यते’ इति वर्तमानत्वव्यवहारः, तथा पूर्वं पश्चाच्च ‘निवर्तिष्यते’ ‘निवृत्तः’ इति भाविभूतभावेन व्यवह्रियमाणाया निवृत्तेः चरमसमयमात्रे ‘निवर्तते’ ‘नश्यति’ ‘ध्वंसते’ इति वर्तमानत्वव्यपदेशः । निवृत्तेरनुवृत्तौ तु चिरशकलितेऽपि घटे ‘इदानीं निवर्तते’ इत्यादिव्यवहारः स्यात् । आख्यातानां प्रकृत्यर्थगतवर्तमानत्वाद्यर्थाभिधायित्वात् ।
ननु च तेषां स्वाभिहितसङ्ख्याश्रयप्रकृत्यर्थकर्तृकर्मगतवर्तमानत्वाद्यर्थाभिधायकत्वं स्वाभिहितप्रकृत्यर्थानुकूलव्यापारगतवर्तमानत्वाद्यर्थाभिधायकत्वं वा अस्तु । तथा च निवृत्तिक्रियाकर्तुश्चिरचूर्णितस्य घटस्य तद्गतनिवृत्त्यनुकूलव्यापारस्य च अवर्तमानत्वात् नोक्तातिप्रसङ्ग−इति चेत् , न − आद्ये उत्पन्नेऽपि घटे उत्पद्यत इति व्यवहारापत्तेः । उत्पत्तिक्रियाकर्तुर्घटस्य वर्तमानत्वात् । द्वितीये आमवातजडीकृतकलेवरे उत्थानानुकूलयत्नवति उत्थानानुदयेऽपि ‘उत्तिष्ठति’ इति व्यवहारापत्तेः । आख्यातार्थस्य प्रकृत्यर्थभूतोत्थानानुकूलस्य यत्नरूपव्यापारस्य वर्तमानत्वात् । तस्मात् प्रकृत्यर्थगतमेव वर्तमानत्वादि आख्यातार्थ इति, ध्वंसस्य स्थायित्वे चिरनिवृत्तेऽपि घटे ‘निवर्तते’ इति व्यवहारो दुर्वारः ।
यदि च मुद्गरादिशकलिते घटे ध्वंसो नाम कश्चिदभावः तत्प्रतियोगिकः स्थायी भूतलाद्याश्रितः उपेयेत, तदा कपालमालापसरणे तदनपसरणेऽपि मणिकशरवादिकपालव्यावृत्तकपालसंस्थानविशेषादर्शने च किमिति स प्रत्यक्षो न स्यात् ।
कपालसंस्थानविशेषादिना अनुमेयो घटादिध्वंसो न प्रत्यक्ष इति चेत् तर्हि तेन मुद्गरनिपातकालीनस्य उत्पत्तिवद्भावविकाररूपतया प्रतियोग्याश्रितध्वंसस्य अनुमानं सम्भवतीति न ततः पश्चादनुवर्तमानप्रतियोग्यधिकरणाश्रिताभावरूपध्वंससिद्धिः । ‘इह भूतले घटो ध्वस्तः’ इति भूतले ध्वंसाधिकरणत्वव्यवहारस्य ‘इह भूतले घट उत्पन्नः’ इतिवत् भावविकारयुक्तप्रतियोग्यधिकरणत्वविषयत्वोपपत्तेः । घटध्वंसानन्तरं भूतले घटाभावव्यवहारस्य घटापसरणानन्तरं तदभावव्यवहारवत् समयविशेषसंसर्ग्यत्यन्ताभावावलम्बनतोपपत्त्या ध्वंसविषयत्वस्याकल्पनीयत्वाच्च ।
एवं सति घटोत्पत्तेः पूर्वं तदभावव्यवहारोऽपि अत्यन्ताभावेन चरितार्थ इति प्रागभावोऽपि न स्यादिति चेत् , सोऽपि माभूत् । नन्वेवं ‘प्रागभावाधारकालः पूर्वकालः’ ‘ध्वंसाधारः उत्तरकालः’ इति निर्वचनासम्भवात् काले पूर्वोत्तरादिव्यवहारः किमालम्बनः स्यात् ? घटादिषु प्रतियोगित्वादिव्यवहारवत् अखण्डकिञ्चिद्धर्मगोचरोऽस्तु । अभावस्वरूपस्थायिध्वंसाभ्युपगमेऽपि तेषु ध्वंसत्वादेरखण्डस्यैव वक्तव्यत्वात् । न च जन्याभावत्वरूपं सखण्डमेव ध्वंसत्वम् । ध्वंसप्रागभावरूपस्य घटस्य तद्ध्वंसत्वापत्तेः । न च सप्तमपदार्थरूपाभावत्वं विवक्षितम् । घटस्य प्रागभावं प्रत्यपि ध्वंसत्वाभावप्रसङ्गेन घटकाले प्रगभावोत्तरकालत्वव्यवहारस्य निरालम्बनत्वापत्तेः । न च प्रतियोग्यतिरिक्तः प्रागभावध्वंसः । तथा सति, तुल्यन्यायतया ध्वंसप्रागभावोऽपि प्रतियोग्यतिरिक्तः स्यादिति, प्रागभावध्वंसस्यापि प्रागभावोऽन्यः, तस्यापि कश्चित् ध्वंसः, तस्यापि प्रागभावोऽन्यः, इत्यप्रामाणिकानवधिकध्वंसप्रागभावकल्पनापत्तेः । न चान्यत् ध्वंसत्वम् आत्माश्रयादिशून्यं निर्वक्तुं शक्यम् , एवं प्रागभावत्वमपि, इत्यन्यत्र विस्तरः ।
तस्मान्न पूर्वं प्रागभावः, न च पश्चात् ध्वंसाभावः, मध्ये परं किञ्चित्कालम् अनिर्वचनीयोत्पत्तिस्थितिध्वंसरूपभावविकारवान् घटाद्यध्यासः । एवं च अविद्यानिवृत्तिरपि ब्रह्मसाक्षात्कारोदयानन्तरक्षणवर्ती कश्चिद्भावविकार इति तस्या मुक्तावनुवृत्त्यभावात् न तदनिर्वाच्यत्वे कश्चिद्दोष इति− अद्वैतविद्याचार्याः ।
मोक्षस्य स्थिरपुरुषार्थत्वोपपादनम्
नन्वेवमविद्यानिवृत्तेः क्षणिकत्वे मोक्षः स्थिरपुरुषार्थो न स्यादिति चेत् , भ्रान्तोऽसि । न ह्यविद्यानिवृत्तिः स्वयमेव पुरुषार्थ इति तस्या ज्ञानसाध्यत्वमुपेयते । तस्याः सुखदुःखाभावेतरत्वात् । किं तु अखण्डानन्दावारकसंसारदुःखहेत्वविद्योच्छेदे अखण्डानन्दस्फुरणं संसारदुःखोच्छेदश्च भवतीति तदुपयोगितया तस्यास्तत्त्वज्ञानसाध्यत्वमुपेयते ।
चित्सुखाचार्यास्तु − दुःखाभावोऽपि मुक्तौ न स्वतः पुरुषार्थः । सर्वत्र दुःखाभावस्य स्वरूपसुखाभिव्यक्तिप्रतिबन्धकाभावतया सुखशेषत्वात् । सुखस्यैव स्वतः पुरुषार्थत्वम् अन्येषां सर्वेषामपि तच्छेषत्वमिति सुखसाधनताज्ञानस्यैव प्रवर्तकत्वे सम्भवति, दुःखाभावस्यापि स्वतः पुरुषार्थत्वं परिकल्प्य तत्साधनप्रवर्तकसङ्ग्रहाय इष्टसाधनताज्ञानस्य इच्छाविषयत्वप्रवेशेन गुरुघटितस्य प्रवर्तकत्वकल्पनायोगात् । न च दुःखाभाव एव स्वतःपुरुषार्थः तच्छेषतया सुखं काम्यमिति वैपरीत्यापत्तिः । बहुकालदुःखसाध्येऽपि क्षणिकसुखजनके निन्दितग्राम्यधर्मादौ प्रवृत्तिदर्शनात् । तत्र क्षणिकसुखकालीनदुःखाभावस्य पुरुषार्थत्वे तदर्थं बहुकालदुःखानुभवायोगात् । न च तत्र क्षणिकसुखस्य पुरुषार्थत्वेऽपि दोषतौल्यम् । भावरूपे सुखे उत्कर्षापकर्षयोरनुभवसिद्धत्वेन क्षणमप्यत्युत्कृष्टसुखार्थं बहुकालदुःखानुभवोपपत्तेः । दुःखाभावे चोत्कर्षा(द्य)(पकर्षा)सम्भवात् । तस्मात् मुक्तौ संसारदुःखनिवृत्तिरप्यविद्यानिवृत्तिवत् सुखशेष इति अनवच्छिन्नानन्दप्राप्तिरेव स्वतःपुरुषार्थ इत्याहुः ।
नित्यसिद्धमोक्षमुद्दिश्य साधनानुष्ठाने प्रवृत्त्युपपादनम्
नन्वनवच्छिन्नानन्दः प्रत्यग्रूपतया नित्यमेव प्राप्तः । सत्यम् । नित्यप्राप्तोऽपि अनवच्छिन्नानन्दः तमावृत्य तद्विपरीतमनर्थं प्रदर्शयन्त्या अविद्यया संसारदशायामसत्कल्पत्वं नीत इति अकृतार्थताऽभूत् । निवर्तितायां च तस्यां निरस्ते निखिलानर्थविक्षेपे स्वकण्ठगतविस्मृतकनकाभरणवत् प्राप्यत इवेति औपचरिकी तस्य प्राप्तव्यतेति केचित् ।
अन्ये तु - संसारदशयां ‘नास्ति, न प्रकाशते’ इति व्यवहारयोग्यत्वरूपाज्ञानावरणप्रयुक्तस्य ’मम निरतिशयानन्दो नास्ति’ इति प्रत्ययस्य सर्वसिद्धत्वात् तदालम्बनभूतः कश्चत् ब्रह्मानन्दस्याभावः काल्पनिको यावदविद्यमनुवर्तते,अविद्यानिवृत्तौ च तन्मूलत्वान्निवर्तत इति, ‘यस्मिन् सत्यग्रिमक्षणे’ इत्यादिलक्षणानुरोधेन मुख्यमेव तस्य प्राप्यत्वम् इत्याहुः ।
अपरे तु - अवेद्यस्यापुरुषार्थत्वात् संसारदशायां सदप्यनवच्छिन्नसुखम् आपरोक्ष्याभावात् न पुरुषार्थः । न च− स्वरूपज्ञानेनापरोक्ष्यं तदाप्यस्ति, तस्य सर्वदा स्वरूपसुखाभिन्नत्वात् , वृत्तिज्ञानेनापरोक्ष्यं तु न मुक्तावपीति−वाच्यम् । न हि स्वव्यवहारानुकूलचैतन्याभेदमात्रमापरोक्ष्यम् । घटावच्छिन्नचैतन्याभिव्यक्तौ तदभिन्नस्य घटगन्धस्यापि आपरोक्ष्यापत्तेः । किन्तु अनावृतार्थस्य तदभेदः । तथा च अनावृतत्वांशः तत्त्वसाक्षात्कारे सत्येवेति निरतिशयसुखापरोक्ष्यस्य पुरुषार्थस्य विद्याप्राप्यत्वं युक्तम् इत्याहुः ।
इतरे तु−अस्तु व्यवहारानुकूलचैतन्याभेदमात्रमापरोक्ष्यम् , तथाऽपि अज्ञानमहिम्ना जीवभेदवत् चिदानन्दभेदोऽपि अध्यस्त इति संसारदशायां पुरुषान्तरस्य पुरुषान्तरचैतन्यापरोक्ष्यवत् अनवच्छिन्नसुखापरोक्ष्यमपि नास्ति । अज्ञाननिवृत्तौ तु चिदानन्दभेदप्रविलयात्तदापरोक्ष्यमिति तस्य विद्यासाध्यत्वम् इत्याहुः ।
मुक्तस्वरूपविचारः
अथ विद्योदये सति उपाधिविलयादपेतजीवभावस्य किमीश्वरभावापत्तिर्भवति, उत शुद्धचैतन्यमात्ररूपेणावस्थानम् ? इति विवेचनीयम् ।
उच्यते−एकजीववादे तदेकाज्ञानकल्पितस्य जीवेश्वरविभागादिकृत्स्रभेदप्रपञ्चस्य तद्विद्योदये विलयात् निर्विशेषचैतन्यरूपेणैवावस्थानम् ।
अनेकजीववादमभ्युपगम्य बद्धमुक्तव्यवस्थाङ्गीकारेऽपि यद्यपि कस्यचित् विद्योदये तदविद्याकृतप्रपञ्चविलयेऽपि बद्धपुरुषान्तराविद्याकृतः जीवेश्वरविभागादिप्रपञ्चोऽनुवर्तते, तथापि ‘जीव इवेश्वरोऽपि प्रतिबिम्बविशेषः’ इति पक्षे मुक्तस्य बिम्बभूतशुद्धचैतन्यरूपेणैवावस्थानम् । अनेकोपाधिषु एकस्य प्रतिबिम्बे सति एकोपाधिविलये तत्प्रतिबिम्बस्य बिम्बभावेनैवावस्थानौचित्येन प्रतिबिम्बान्तरत्वापत्त्यसम्भवात् । तत्सम्भवे कदाचिज्जीवरूपप्रतिबिम्बान्तरत्वापत्तेरपि दुर्वारत्वेन अवच्छेदपक्ष इव मुक्तस्य पुनर्बन्धापत्तेः । अत एव अनेकजीववादे अवच्छेदपक्षो नाद्रियते । यदवच्छेदेन मुक्तिः तदवच्छेदेनान्तःकरणान्तरसंसर्गे पुनरपि बन्धापत्तेः ।
“प्रतिबिम्बो जीवः विम्बस्थानीय ईश्वरः उभयानुस्यूतं शुद्धचैतन्यम्” , इति पक्षे तु मुक्तस्य यावत्सर्वमुक्तिसर्वज्ञत्वसर्वकर्तृत्वसर्वेश्वरत्वसत्यकामत्वादिगुणपरमेश्वरभावापत्तिरिष्यते । यथा−अनेकेषु दर्पणेषु एकस्य मुखस्यप्रतिबिम्बे सति एकदर्पणापनये तत्प्रतिबिम्बो बिम्बभावेनावतिष्ठते, न तु मुखमात्ररूपेण, तदानीमपि दर्पणान्तरसन्निधानप्रयुक्तस्य मुखे बिम्बत्वस्यानपायात् ; तथा एकस्य ब्रह्मचैतन्यस्य अनेकेषूपाधिषु प्रतिबिम्बे सति एकस्मिन् प्रतिबिम्बे विद्योदये तेन तदुपाधिविलये तत्प्रतिबिम्बस्य बिम्बभावेनावस्थानावश्यम्भावात् । न च मुक्तस्य अविद्याऽभावात् सत्यकामत्वादिगुणविशिष्टसर्वेश्वरत्वानुपपत्तिः । तदविद्याऽभावेऽपि तदानीं बद्धपुरुषान्तराविद्यासत्त्वात् । न हि ईश्वरस्येश्वरत्वं सत्यकामादिगुणवैशिष्ट्यं च स्वाविद्याकृतम् , तस्य निरञ्जनत्वात् । किं तु बद्धपुरुषाविद्याकृतमेव तत्सर्वमेष्टव्यम् ।
न च ‘यथाक्रतुरस्मिन् लोके पुरुषो भवति, तथेतः प्रेत्य भवति’ (छा.उ.३-१४) ‘तं यथायथोपासते’ (मुद्गलोपनिषत्.३) इत्यादिश्रुतिषु सगुणोपासकानामपि ईश्वरसायुज्यश्रवणान्मुक्तेः सगुणविद्याफलाविशेषापत्तिः । सगुणोपासकानामखण्डसाक्षात्काराभावात् नाविद्यानिवृत्तिः, न वा तन्मूलाहङ्कारादेर्विलयः । आवरणानिवृत्तेर्नाखण्डानन्दस्फुरणम् । ‘जगद्व्यापारवर्जं प्रकरणादसन्निहित्वाच्च’ (ब्र.सू. ४-४-१७) ‘भोगमात्रसाम्यलिङ्गाच्च’ (ब्र.सू.४-४-२१) इत्यादिसूत्रोक्तन्यायेन तेषां परमेश्वरेण भोगसाम्येऽपि सङ्कल्पमात्रात् स्वभोगोपयुक्तदिव्यदेहेन्द्रियवनितादिसृष्टिसामर्थ्येऽपि सकलजगत्सृष्टिसंहारादिस्वातन्त्र्यलक्षणं न निरवग्रहमैश्वर्यम् , मुक्तानां तु निस्सन्धिबन्धमीश्वरभावं प्राप्तानां तत्सर्वमिति महतो विशेषस्य सद्भावात् । न च परमेश्वरस्य रघुनाथाद्यवतारे तमस्वित्वदुःखसंसर्गादिश्रवणात् मुक्तानामीश्वरभावे पुनर्बन्धापत्तिः । तस्य विप्रशापामोघत्वादिस्वकृतमर्यादापरिपालनाय कथञ्चित् भृगुशापादि सत्यत्वं प्रत्याययितुं नटवदीश्वरस्य तदभिनयमात्रपरत्वात् । अन्यथा तस्य नित्यमुक्तत्वनिरवग्रहस्वातन्त्र्यसमाभ्यधिकराहित्यादिश्रुतिविरोधात् । तस्माद्यावत्सर्वमुक्ति परमेश्वरभावो मुक्तस्येति बिम्बेश्वर (पक्षे) (वादे) न कश्चिद्दोषः ॥
अयमेव पक्षः श्रुतिसूत्रभाष्याद्यनुगुणः । तथा हि− समन्वयाध्याये तावत् ‘दहर उत्तरेभ्यः’ (ब्र.सू.१-३-१४) इत्यधिकरणे ‘अथयदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन् अन्तराकाशः’ (छा.उ.८-१-१) इत्यादिश्रुतिनिर्दिष्टो दहराकाशो न भूताकाशः, नापि जीवः, किं तु परमेश्वरः, उत्तरेभ्यो - वाक्यशेषेभ्यः । ‘उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते’ ‘यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः’ (छा.उ.८-१-३) ‘एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सेऽपिपासः सत्यकामः सत्यसङ्कल्पः’ (छा.उ.८-१-५) इत्यादिना प्रतिपाद्यमानेभ्यो द्यावापृथिव्याद्याधारत्वलक्षणगुणेभ्यो हेतुभ्य’ इति निर्णीय ‘उत्तराच्चेदाविर्भूतस्वरूपस्तु’ (ब्र.सू. १-३-१९) इति सूत्रान्तरेण दहरविद्यानन्तरमिन्द्रप्रजापतिसंवादे ‘य आत्मापहतपाप्मा’ (छा.उ. ८-७-३) इत्यादिना अपहतपाप्मत्वादिगुणाष्टकयुक्तमात्मानमुपदेश्यमुपक्षिप्य ‘य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मा’ (छा.उ.८-७-४) इति जाग्रदवस्थायां द्रष्टृत्वेनाक्षिसन्निहितस्य ’य एष स्वप्ने महीयमानश्चरति एष आत्मा’(छा.उ. ८-१०-१) स्वप्नावस्थापन्नस्य तद्यत्रैतत्सुप्तस्समस्तस्सम्प्रसन्नः स्वप्नं न विजानाति एष आत्मा’ (छा.उ.८-११-१) इति सुषुप्त्यवस्थापन्नस्य ‘एषसम्प्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः’ (छा.उ.८-१२-३) इत्यवस्थात्रयोत्तीर्णस्य च जीवस्योपदेशात् जीवेऽप्यस्ति अपहतपाप्मत्वादिगुणाष्टकमिति न तद्दहराकाशस्य परमेश्वरत्वनिर्णायकम् । ‘य एष स्वप्ने’ इत्यादिपर्यायेषु प्रतिपर्यायं ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि’ (छा.उ.८-१०-४) इति श्रवणेन ‘स्फुटस्वप्नादिजीवलिङ्गानां द्वितीयादिपर्यायाणामेव जीवविषयत्वं प्रथमपर्यायस्य च ब्रह्मविषयत्वं’ इति चोद्यानवकाशात्−इत्याशङ्क्य तत्र चतुर्थपर्याये निरूप्यमाणः सकलबन्धविनिर्मुक्तत्वेनाविर्भूतस्वरूपो जीवः प्रतिपाद्यः, न तु सांसारिकावस्थाभेदकलुषितः, तत्र सत्यसङ्कल्पत्वादिगुणबाधात् अवस्थात्रयोपन्यासस्य तत्तदवस्थादोषाभिधानेन चतुर्थपर्यायोपदेशशेषत्वप्रतिपत्तेः’ इति समादधानः सूत्रकारः चतुर्थपर्याये प्रतिपाद्यस्य मुक्तस्येश्वरभावापत्तिं स्पष्टमाह । तदभावे मुक्तेऽपि सत्यसङ्कल्पत्वाद्ययोगात् अनुक्रान्तस्य गुणाष्टकस्य ईश्वरादन्यत्रापि भावे कृतशङ्कापरिहारालाभाच्च । तस्मिन् सूत्रे ‘तस्मात् यदविद्याप्रत्युपस्थापितमपारमार्थिकं जैवं रूपं कर्तृत्वभोक्तृत्वरागद्वेषादिदोषकलुषितमनेकानर्थयोगि तद्विलयनेन तद्विपरीतमपहतपाप्मत्वादिगुणकं पारमेश्वरं रूपं विद्यया प्रतिपद्यते’ इति भाष्यकारोऽप्यतिस्पष्टं मुक्तस्य सगुणेश्वरभावापत्तिमाह ।
अविरोधाध्यायेऽपि ‘एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते एष उ एवासाधु कर्म कारयति तं यमधो निनीषते’ (कौ.उ.३-८) इत्यादिश्रुतेः तत्तत्कर्मकर्तृत्वेन तत्तत्कर्मकारयितृत्वेन च उपकार्योपकारकभावेनावगतयोः जीवेश्वरयोः अंशांशिभावरूपसम्बन्ध निरूपणार्थत्वेनावतारिते ‘अंशो नानाव्यपदेशात्’ (ब्र.सू. २-३-४३) इत्यधिकरणे ‘जीवस्येश्वरांशत्वाभ्युपगमे तदीयेन संसारदुःखभोगेन ईश्वरस्यापि दुःखित्वं स्यात् , यथा लोके हस्तपादाद्यन्यतमांशगतेन दुःखेनांशिनो देवदत्तस्यापि दुःखित्वम् , तद्वत् ; ततश्च तत्प्राप्तानां महत्तरं दुःखं प्राप्नुयात् , ततो वरं पूर्वावस्था संसार एवास्तु इति सम्यग्ज्ञानानर्थक्यप्रसङ्गः’ इति शङ्काग्रन्थेन, भामत्यादिषु स्पष्टीकृतं बिम्बप्रतिबिम्बभावकृतासङ्करमुपादाय समाहितेन भाष्यकारो मुक्तस्य ईश्वरभावापत्तिं स्पष्टीचकार ।
साधनाध्यायेऽपि ‘सन्ध्ये सृष्टिराह हि’ (ब्र.सू . ३-२-१) इत्यधिकरणे स्वप्नप्रपञ्चस्य मिथ्यात्वे व्यवस्थापिते तत्र मिथ्याभूते स्वप्नप्रपञ्चे जीवस्य कर्तृत्वमाशङ्क्य ‘पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ’ (ब्र.सू.३-२-५) इति सूत्रेण ‘जीवस्येश्वराभिन्नत्वात् सदपि सत्यसङ्कल्पत्वादिकमविद्यादोषात्तिरोहितमिति न तस्य स्वप्नप्रपञ्चे स्रष्टृत्वं सम्भवति’ इति वदन् सूत्रकारः ‘तत्पुनस्तिरोहितं सत् परमभिध्यायतो यतमानस्य जन्तोर्विधूतध्वान्तस्य तिमिरतिरस्कृतेव दृक्छक्तिः औषधवीर्यात् ईश्वरप्रसादात्संसिद्धस्य कस्यचिदेवाविर्भवति, न स्वभावत एव सर्वेषां जन्तूनाम्’ इति तत्सूत्राभिप्रायं वर्णयन् भाष्यकारश्च मुक्तस्य स्वप्नसृष्ट्याद्युपयोगिसत्यसङ्कल्पत्वाद्यभिव्यक्त्यङ्गीकरेण परमेश्वरभावापत्तिं स्पष्टीचकार ।
फलाध्यायेऽपि ‘स्वेन रूपेणाभिनिष्पद्यते’ (छा.उ. ८-३-४) इति मुच्यमानविषयायां श्रुतौ केन रूपेणाभिनिष्पत्तिर्विवक्षिता इति बुभुत्सायां ‘ब्राह्मेण जैमिनिरुपन्यासादिभ्यः’ (ब्र.सू. ४-४-५) इति सूत्रेण यत् ब्राह्मं रूपमपहतपाप्मत्वादि सत्यसङ्कल्पत्वाद्यवसानं सर्वज्ञत्वसर्वेश्वरत्वादि च तेनाभिनिष्पत्तिः ‘य आत्मापहतपाप्मा’ (छा.उ. ८-७-१३) इत्याद्युपन्यासेन ‘स तत्र पर्येति जक्षत् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा’ (छा.उ. ८-१२-३) इत्याद्यैश्वर्यावेदनेन च इति जैमिनिमतम् , ‘चिति तन्मात्रेण तदात्मकत्वादित्यौडुलोमिः’ (ब्र.सू. ४-४-६) इत्यनन्तरेण सूत्रेण ‘एवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव’ (बृ.उ. ४-५-१३) इत्यादिश्रुत्या चैतन्यमात्रमात्मस्वरूपमित्यवगतेः तन्मात्रेणाभिनिष्पत्तिः−इति मतान्तरं चोपन्यस्य ‘एवमप्युपन्यासात् पूर्वभावादविरोधं बादरायणः’ (ब्र.सू. ४-४-७) इति सिद्धान्तसूत्रेण ‘वस्तुदृष्ट्या चैतन्यमात्रत्वेऽपि पूर्वेक्तगुणकलापस्य उपन्यासाद्यवगतस्य मायामयस्य बद्धपुरुषव्यवहारदृष्ट्या सम्भवात् न श्रुतिद्वयविरोधः’ इति अविरोधं वदन् सूत्रकारः, सूत्रत्रयमिदमुक्तार्थपरत्वेन व्याकुर्वन् भाष्यकारश्च, मुक्तस्येश्वरभावापत्तिं स्पष्टमनुमेने । भामतीनिबन्धृप्रभृतयश्च श्रुत्युपबृंहितमिदं सूत्रजातं भगवतो भाष्यकारस्य उदाहृतं वचनजातं च तथैवान्ववर्तन्त ।
न च श्रुत्युपबृंहितस्य एतावतः सूत्रभाष्यवचनजातस्य ‘ऐश्वर्यमज्ञानतिरोहितं सत् ध्यानादभिव्यज्यत इत्यवोचत् । शरीरिणः सूत्रकृदस्य यत्तु तदभ्युपेत्योदितमुक्तहेतोः ।’ (सं .शा. ३-१७५) इति सङ्क्षेपशारीरकोक्तरीत्या अभ्युपेत्यवादत्वं युक्तं वक्तुम् । तस्मान्मुक्तानामीश्वरभावापत्तेरवश्याभ्युपेयत्वात् एतदसम्भव एव प्रतिबिम्बेश्वरवादे दोषः । तदाहुः कल्पतरुकाराः − ‘न मायाप्रतिबिम्बस्य विमुक्तैरुपसृप्यता’(कल्पतरुः १-४-३) इति । एतदसम्भवश्च एकजीववादपारमार्थिकजीवभेदवादयोरपि दोषः ।
यत्तु कैश्चित् द्वैतिभिरुच्यते−भेदस्य पारमार्थिकत्वेन मुक्तौ जीवस्येश्वरभावाभावेऽपि तत्रापीश्वर इव पृथगपहतपाप्मत्वादिगुणसम्भवादविरोध इति, तत्तुच्छम् – तथा सति जीवस्यापहतपाप्मत्वादिकमस्तीति न तस्य ब्रह्मलिङ्गत्वमिति शङ्कापरिहारालाभेन ‘उत्तराच्चेदाविर्भूतस्वरूपस्तु’ (ब्र.सू.१-३-१९) इति सूत्रविरोधात् ‘ब्राह्मेण जैमिनिः’ (ब्र.सू.४-४-५) इति सूत्रे जीवगतस्यापहतपाप्मत्वादेः ‘उपन्यासादिभ्यः’ (ब्र.सू.४-४-६) इत्यत्रादिशब्दार्थत्वेन परेषामप्यभिमतस्य ‘जक्षत् क्रीडन् रममाणः’ (छा.उ.८-१२-३) इत्यादिश्रुत्युदितस्य जक्षणादेश्च ब्राह्मत्वनिर्देशविरोधाच्च । भेदे तेषां गुणानां सत्यत्वेन ‘चितितन्मात्रेण’ (ब्र.सू . ४-४-६) इति सूत्रोक्तस्य मुक्तजीवानां चैतन्यमात्रत्वस्य ‘एवमपि’ (ब्र.सू. ४-४-६) इतिसिद्धान्तसूत्रेऽङ्गीकारविरोधाच्च । ‘सम्पद्याविर्भावः’(ब्र.सू. ४-४-१) इत्यधिकारणविरोधाच्च । तत्र हि ’स्वेन रूपेणाभिनिष्पद्यते’ (छा.उ.८-३-४) इति श्रुतौ आगन्तुना केनचिद्रूपेणाभिनिष्पत्तिर्नोच्यते । स्वेनशब्दवैयर्थ्यापत्तेः । येन रूपेण आगन्तुना स्वयमभिनिष्पद्यते तस्यात्मीयत्वस्यावक्तव्यत्वात् । तस्मादात्मवाचिस्वशब्दोपादानात् नित्यसिद्धेन स्वस्वरूपेणैव अभिनिष्पत्तिर्विवक्षिता न तु केनचिद्धर्मेणेति व्यवस्थापितम् ।
किञ्चेदमपहतपाप्मत्वादि जीवस्य मुक्तावागन्तुकं चेत् , ‘सम्पद्याविर्भावः’ (ब्र.सू. ४-४-१) इति मुक्तावागन्तुकरूपनिषेधेन ‘पराभिध्यानात्तु तिरोहितम्’ (ब्र.सू. ३-२-५) ‘उत्तराच्चेदाविर्भूतस्वरूपस्तु’ (ब्र.सू.१-३-१९) इति अपहतपाप्मत्वादेर्बन्धमुक्त्योस्तिरोभावाविर्भावप्रतिपादनेन च विरोधः स्यादिति नित्यसिद्धं वाच्यमिति बन्धस्य मिथ्यात्वं दुर्वारम् ।
नित्यसिद्धमपहतपाप्मत्वं हि सर्वदा पाप्मरहितत्वम् । न च वस्तुतः सर्वदा पाप्मरहिते पाप्मसम्बन्धः तन्मूलककर्तृत्वभोक्तृत्वसम्बन्धो वा पारमार्थिकः सम्भवति । एवं च जीवस्येश्वराभेदोऽपि दुर्वारः । श्रुतिबोध्यतदभेदविरोधिबन्धस्य सत्यत्वाभावात् । अन्यथा संसारिणि नित्यसिद्धसत्यसङ्कल्पतिरोधानोक्त्ययोगाच्च । न हि जीवस्य संसारदशायामनुवर्तमानो यत्किञ्चिदर्थगोचरः कश्चिदस्त्यवितथसङ्कल्पः तिरोहित इति परैरपीष्यते । किं त्वीश्वरस्य यन्नित्यसिद्धं निरवग्रहं सत्यसङ्कल्पत्वं तदेव जीवस्य संसारदशायामीश्वराभेदानभिव्यक्त्या स्वकीयत्वेनानवभासमानं तं प्रति तिरोहितमित्येव समर्थनीयमिति घट्टकुटीप्रभातवृत्तान्तः ।
ननु अपहतपाप्मत्वं न पाप्मविरहः, किं तु पाप्महेतुकर्माचरणेऽपि पापोत्पत्तिप्रतिबन्धकशक्तियोगित्वमिति, न तस्य नित्यसिद्धत्वेन बन्धस्य मिथ्यात्वप्रसङ्गः । एवं सत्यसङ्कल्पत्वमपि शक्तिरूपेण निर्वाच्यमिति नेश्वराभेदप्रसङ्गः− इति चेत् , मैवम् - एवं शब्दार्थकल्पने प्रमाणाभावात् । न हि पापजननप्रतिबन्धिका शक्तिः संसाररूपपरिभ्रमणदशायां पापानुत्पत्त्यर्थं कल्पनीया । तदानीं तदुत्पत्तेरिष्टत्वात् । विद्योदयप्रभृति तु विद्यामाहात्म्यादेवाश्लेषः ‘तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात्’ (ब्र.सू. ४-१-१३) इति सूत्रेण दर्शितः । तत एव मुक्तावप्यश्लेष उपपद्यत इति व्यर्था शक्तिकल्पना । तस्मादुदाहृतश्रुतिसूत्रानुसारिभिः मुक्तजीवानां यावत्सर्वमुक्तिवस्तुसच्चैतन्यमात्रत्वाविरोधिबद्धपुरुषाविद्याकृतनिरवग्रहैश्वर्यतदनुगुणगुणकलापविशिष्टनिरतिशयानन्दस्फुरणसमृद्धनिस्सन्धिबन्धपरमेश्वरभावापत्तिरादर्तव्येति सिद्धम् ॥
undefined
विद्वद्गुरोर्विहितविश्वजिदध्वरस्य
श्रीसर्वतोमुखमहाव्रतयाजिसूनोः ।
श्रीरङ्गराजमखिनः श्रितचन्द्रमौलेः
अस्त्यप्पदीक्षित इति प्रथितस्तनूजः ॥
तन्त्राण्यधीत्य सकलानि सदाऽवदात-
व्याख्यानकौशलकलाविशदीकृतानि । आम्नायमूलमनुरुद्ध्य च सम्प्रदायं
सिद्धान्तभेदलवसङ्ग्रहमित्यकार्षीत् ॥
सिद्धान्तरीतिषु मया भ्रमदूषितेन
स्यादन्यथापि लिखितं यदि किञ्चिदस्य । संशोधने सहृदयास्सदया भवन्तु
सत्सम्प्रदायपरिशीलननिर्विशङ्काः ॥
॥ इति शास्त्रसिद्धान्तलेशसङ्ग्रहे चतुर्थः परिच्छेदः ॥
॥ समाप्तोऽयं ग्रन्थः ॥
॥ शिवाभ्यां नमः ॥