तृतीयपरिच्छेदः
मुक्तिसाधननिरूपणम्
ननु - कथं विद्ययैव ब्रह्मप्राप्तिः । यावता कर्मणामपि तत्प्राप्तिहेतुत्वं स्मर्यते− ‘तत्प्राप्तिहेतुर्विज्ञानं कर्म चोक्तं माहामुने’ (वि. पु. ६ । ५ । ६०) इति ।
सत्यम् । ‘नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३ । ८) इति श्रुतेः नित्यसिद्धब्रह्मावाप्तौ कण्ठगतविस्मृतकनकमालावाप्तितुल्यायां विद्यातिरिक्तस्य साधनत्वासम्भवाच्च । ब्रह्मावाप्तौ परम्परया कर्मापेक्षामात्रपरा तादृशी स्मृतिः ।
कर्मणां विविदिषाविद्याफलकत्वविचारः
क्व तर्हि कर्मणामुपयोगः ।
अत्र भामतीमतानुवर्तिन आहुः - ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन’(बृ. उ. ४ । ४ । २२) इति श्रुतेः विद्यासम्पादनद्वारा ब्रह्मावाप्त्युपायभूतायां विविदिषायामुपयोगः । नन्विष्यमाणायां विद्यायामेवोपयोगः किं न स्यात् ? न स्यात् – प्रत्ययार्थस्य प्राधान्यात् , ‘विद्यासंयोगात् प्रत्यासन्नानि विद्यासाधनानि शमदमादीनि, विविदिषासंयोगात्तु बाह्यतराणि यज्ञादीनि’ इति सर्वापेक्षाधिकरणभाष्याच्च । ननु – विविदिषार्थं यज्ञाद्यनुष्ठातुर्वेदनगोचरेच्छावत्त्वे विविदिषायाः सिद्धत्वेन तदभावे वेदनोपायविविदिषायां कामनाऽसम्भवेन च विविदिषार्थं यज्ञाद्यनुष्ठानायोगात् न यज्ञादीनां विविदिषायां विनियोगो युक्त इति चेत्, न – अन्नद्वेषेण कार्श्यं प्राप्तस्य तत्परिहारायान्नविषयौन्मुख्यलक्षणायामिच्छायां सत्यामपि उत्कटाजीर्णादिप्रयुक्तधातुवैषम्यदोषात् तत्र प्रवृत्तिपर्यन्ता रुचिर्न जायत इति तद्रोचकौषधविधिवत् ‘निरतिशयानन्दरूपं ब्रह्म, तत्प्राप्तौ विद्या साधनम्’ इत्यर्थे प्राचीनबहुजन्मानुष्ठितानभिसंहितफलकनित्यनैमित्तिककर्मोपसञ्जातचित्तप्रसादमहिम्नासम्पन्नविश्वासस्य पुरुषस्य ब्रह्मावाप्तौ विद्यायां च तदौन्मुख्यलक्षणायामिच्छायां सत्यामपि अनादिभवसञ्चितानेकदुरितदोषेण आस्तिककामुकस्य हेयकर्मणीव विषयभोगे प्रावण्यं सम्पादयता प्रतिबन्धात् विद्यासाधने श्रवणादौ प्रवृत्तिपर्यन्ता रुचिर्न जायत इति प्रतिबन्धनिरासपूर्वकं तत्सम्पादकयज्ञादिविधानोपपत्तेः – इति ।
विवरणानुसारिणस्त्वाहुः – ‘प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्य प्राधान्यम्’ इति सामान्यन्यायात् ‘इच्छाविषयतया शब्दबोध्य एव शाब्दसाधनताऽन्वयः’ इति स्वर्गकामादिवाक्ये क्लृप्तविशेषन्यायस्य बलवत्त्वात् । ‘अश्वेन जिगमिषति’ ‘असिना जिघांसति’ इत्यादिलौकिकप्रयोगे अश्वादिरूपसाधनस्य ‘तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्’(छा. उ. ८ । १ । १) ‘मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. २ । ४ । ५) इत्यादिवैदिकप्रयोगे तव्यार्थभूतविधेश्च सन्प्रत्ययाभिहितेच्छाविषय एव गमनादौ अन्वयस्य व्युत्पन्नत्वाच्च प्रकृत्यभिहितायां विद्यायां यज्ञादीनां विनियोगः । ननु तथा सति यावद्विद्योदयं कर्मानुष्ठानापत्त्या ‘त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक् परं पदम्’ इत्यादिश्रुतिसिद्धा कर्मत्यागरूपस्य सन्न्यासस्य विद्यार्थता पीड्येतेति चेत् , न – प्राग् बीजावापात् कर्षणं तदनन्तरमकर्षणमिति कर्षणाकर्षणाभ्यां व्रीह्यादिनिष्पत्तिवत् ‘आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ॥’ (भ. गी. ६ । ३) इत्यादिवचनानुसारेण चेतसश्शुद्धौ विविदिषादिरूपप्रत्यक्प्रावण्योदयपर्यन्तं कर्मानुष्ठानं ततः सन्न्यासः इति कर्मतत्सन्न्यासाभ्यां विद्यानिष्पत्त्यभ्युपगमात् । उक्तं हि नैष्कर्म्यसिद्धौ – ‘प्रत्यक्प्रवणतां बुद्धेः कर्माण्युत्पाद्य शुद्धितः । कृतार्थान्यस्तमायान्ति प्रावृडन्ते घना इव ॥’ (१ । ४९) इति ।
कर्मणां विद्यार्थत्वपक्षेऽपि विविदिषापर्यन्तमेव कर्मानुष्ठाने विविदिषार्थत्वपक्षात् को भेद इति चेत् , अयं भेदः – कर्मणां विद्यार्थत्वपक्षे द्वारभूतविविदिषासिद्ध्यनन्तरमुपरतावपि फलपर्यन्तानि विशिष्टगुरुलाभान्निर्विघ्नश्रवणमननादिसाधनानि निवृत्तिप्रमुखानि सम्पाद्य विद्योत्पादकत्वनियमोऽस्ति । विविदिषार्थत्वपक्षे तु श्रवणादिप्रवृत्तिजननसमर्थोत्कटेच्छासम्पादनमात्रेण कृतार्थतेति नावश्यं विद्योत्पादकत्वनियमः । ‘यस्यैते चत्वारिंशत् संस्काराः’ (गौ. ध. सू. १ । ८ । २५) इति स्मृतिमूले कर्मणामात्मज्ञानयोग्यतापादकमलापकर्षणगुणाधानलक्षणसंस्कारार्थत्वपक्ष इव - इति वदन्ति ॥
ननु केषां कर्मणाम् उदाहृतश्रुत्या विनियोगो बोध्यते ।
अत्र कैश्चत् उक्तं−’वेदानुवचतेन’ इति ब्रह्मचारिधर्माणां ‘यज्ञेन दानेन’ इति गृहस्थधर्माणां च ‘तपसाऽनाशकेन’ इति वानप्रस्थधर्माणां च उपलक्षणम् इत्याश्रमधर्माणामेव विद्योपयोगः । अत एव ‘विहितत्वाच्चाश्रमकर्मापि’ (ब्र. सू. ३ । ४ । ३२) इति शारीरकसूत्रे विद्यार्थकर्मस्वाश्रमकर्मपदप्रयोगः - इति ।
कल्पतरौ तु − नाश्रमधर्माणामेव विद्योपयोगः, ‘अन्तरा चापि तु तद्दृष्टेः’ (ब्र. सू. ३ । ४ । ३६) इत्यधिकरणे अनाश्रमिविधुराद्यनुष्ठितकर्मणामपि विद्योपयोगनिरूपणात् । न च −विधुरादीनामनाश्रमिणां प्राग्जन्मानुष्ठितयज्ञाद्युत्पादितविविदिषाणां विद्यासाधनश्रवणादावधिकारनिरूपणमात्रपरं तदधिकरणम् , न तु तदनुष्ठितकर्मणां विद्योपयोगनिरूपणपरमिति−शङ्क्यम् । ‘विशेषानुग्रहश्च’ (ब्र. सू. ३ । ४ । ३८) इति तदधिकरणसूत्रतद्भाष्ययोः तदनुष्ठितानां जपादिरूपवर्णमात्रधर्माणामपि विद्योपयोगस्य कण्ठत उक्तेः । ‘विहितत्वाच्चाश्रमकर्मापि’ इति सूत्रे आश्रमकर्मपदस्य वर्णधर्माणामप्युपलक्षणत्वात् इत्यभिप्रायेण−उक्तम् । आश्रमधर्मव्यतिरिक्तानामप्यस्ति विद्योपयोगः, किं तु नित्यानामेव । तेषां हि फलं दुरितक्षयं विद्या अपेक्षते, न काम्यानां फलं स्वर्गादि । तत्र यथा प्रकृतौ क्लृप्तोपकाराणामङ्गानामतिदेशे सति न प्राकृतोपकारातिरिक्तोपकारकल्पनम् , एवं ज्ञाने विनियुक्तानां यज्ञादीनां नित्यक्लृप्तफलपापक्षयातिरेकेण न नित्यकाम्यसाधारणविद्योपयोग्युपकारकल्पनमिति ।
सङ्क्षेपशरीरके तु नित्यानां काम्यानां च कर्मणां विनियोग उक्तः । यज्ञादिशब्दाविशेषात् । प्रकृतौ क्लृप्तोपकाराणां पदार्थानां क्लृप्तप्राकृतोपकारातिदेशमुखेनैव विकृतिष्वतिदेशेन सम्बन्धः, न तु पदार्थानामतिदेशानन्तरमुपकारकल्पना, इति न तत्र प्राकृतोपकारातिरिक्तोपकारकल्पनाप्रसक्तिः । इह तु प्रत्यक्षश्रुत्या प्रथममेव विनियुक्तानां यज्ञादीनाम् उपदिष्टानामङ्गानामिव पश्चात्कल्पनीय उपकारः प्रथमावगतविनियोगनिर्वाहाय अक्लृप्तोऽपि सामान्यशब्दोपात्तसकलनित्यकाम्यसाधारणः कथं न कल्प्यः । अध्वरमीमांसकैरपि हि ‘उपकारमुखेन पदार्थान्वय एव क्लृप्तोपकारनियमः, पदार्थान्वयानन्तरम् उपकारकल्पने तु अक्लृप्तोऽपि विनियुक्तपदार्थानुगुण्येन उपकारः कल्पनीयः’ इति सम्प्रतिपद्यैव बाधलक्षणारम्भसिद्ध्यर्थम् उपकारमुखेन विकृतिषु प्राकृतान्वयो दशमाद्ये समर्थितः । किं च कॢप्तोपकारालाभात् नित्यानामेवायं विनियोग इत्यभ्युपगमे नित्येभ्यो दुरितक्षयस्य तस्माच्च ज्ञानोत्पत्तेः अन्यतः सिद्धौ व्यर्थोऽयं विनियोगः, अन्यतस्तदसिद्धौ ज्ञानापेक्षितोपकारजनकत्वं तेष्वकॢप्तमिति अविशेषात् नित्यकाम्यसाधारणो विनियोगो दुर्वारः । ननु – नित्यानां दुरितक्षयमात्रहेतुत्वस्य अन्यतः सिद्धावपि विशिष्य ज्ञानोत्पत्तिप्रतिबन्धकदुरितनिबर्हकत्वं न सिद्धम् , किन्तु अस्मिन् विनियोगे सति ज्ञानोद्देशेन नित्यानुष्ठानात् अवश्यं ज्ञानं भावति, इतरथा शुद्धिमात्रं न नियता ज्ञानोत्पत्तिः, इति सार्थकोऽयं विनियोग इति चेत्, तर्हि नित्यानामपि अक्लृप्तमेव ज्ञानोत्पत्तिप्रतिबन्धकदुरितनिबर्हणत्वं, ज्ञानसाधनविशिष्टगुरुलाभश्रवणमननादिसम्पादकापूर्वं च द्वारं कल्पनीयमिति अक्लृप्तोपकारकल्पनाविशेषात् न सामान्यश्रुत्यापादितो नित्यकाम्यसाधारणो विनियोगो भञ्जनीय इति ।
विद्यार्थकर्मसु अधिकारिविचारः
ननु-एवमपि कथं ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।’ (भ. गी. ३ । २०) इत्यादिस्मरणनिर्वाहः । न च तस्य विद्यार्थकर्मानुष्ठानपरत्वम् । विविदिषावाक्ये ब्राह्मणग्रहणेन ब्राह्मणानामेव विद्यार्थकर्मण्यधिकारप्रतीतेः । अतो जनकाद्यनुष्ठितकर्मणां साक्षादेव मुक्त्युपयोगो वक्तव्यः, मैवम्
- विविदिषावाक्ये ब्राह्मणग्रहणस्य त्रैवर्णिकोपलक्षणत्वात् । यथाहुः अत्रभवन्तो वार्तिककाराः ‘ब्राह्मणग्रहणं चात्र द्विजानामुपलक्षणम् । अविशिष्टाधिकारत्वात् सर्वेषामात्मबोधने ॥’ (४-४-१०२९) इति । न हि ‘विद्याकामो यज्ञादीननुतिष्ठेत्’ इति विपरिणमिते विद्याकामाधिकारविधौ ब्राह्मणपदस्याधिकारिविशेषसमर्पकत्वं युज्यते । उद्देश्ये विशेषणायोगात् । नापि-‘राजा स्वाराज्यकामो राजसूयेन यजेत’ इति स्वाराज्यकामाधिकारे राजसूयविधौ ‘स्वाराज्यकामो राजकर्तृकेण राजसूयेन यजेत’ इति कर्तृतया यागविशेषणत्वेन विधेयस्य राज्ञः, राजकर्तृकराजसूयस्य अराज्ञा सम्पादयितुमशक्यत्वात् अर्थादधिकारिकोटिनिवेशवत् , इह यज्ञादिकर्तृतया विधेयस्य ब्राह्मणस्य अर्थादधिकारिकोटिनिवेश इति युज्यते । ‘सर्वथापि त एवोभयलिङ्गात्’ (ब्र. सू. ३ । ४ । ३४) इति सूत्रे, अन्यत्र विहितानामेव यज्ञादीनां विविदिषावाक्ये फलविशेषसम्बन्धविधिः नापूर्वयज्ञादिविधिरिति व्यवस्थापितत्वेन, प्राप्तयज्ञाद्यनुवादेन एकस्मिन् वाक्ये कर्तृरूपगुणविधिः फलसम्बन्धविधिश्च इत्युभयविधानाद्वाक्यभेदापत्तेः । नापि-राजसूयवाक्ये राज्ञः कर्तृतया विधेयत्वाभावपक्षे राजपदसमभिव्याहारमात्राद्विशिष्टकर्तृकत्वलाभवत् , इह वाक्याभेदाय कर्तृतया ब्राह्मणाविधानेऽपि ब्राह्मणपदसमभिव्याहारमात्रेण ब्राह्मणकर्तृकत्वलाभात्, तदधिकारपर्यवसानमित्युपपद्यते । अन्यत्र त्रैवर्णिकाधिकारिकत्वेन क्लृप्तानाम् इहापि त्रैवर्णिकाधिकारात्मविद्यार्थत्वेन विधीयमानानां यज्ञादीनां त्रैवर्णिकाधिकारत्वस्य युक्ततया विधिसंसर्गहीनब्राह्मणपदसमभिव्याहारमात्रादधिकारसङ्कोचासम्भवेन ब्राह्मणपदस्य यथाप्राप्तविद्याधिकारिमात्रोपलक्षणत्वौचित्यात् ।
ननु विद्याधिकारिमात्रोपलक्षणत्वे शूद्रस्यापि विद्यायामर्थित्वादिसम्भवेन तस्यापि विद्यार्थकर्माधिकारप्रसङ्ग इति चेत् , न – ‘अध्ययनगृहीतस्वाध्यायजन्यतदर्थज्ञानवत एव वैदिकेष्वधिकारः’ (ब्र. सू. १ । ३ । ३४) इत्यपशूद्राधिकरणे अध्ययनवेदवाक्यश्रवणादिविधुरस्य शूद्रस्य विद्याधिकारनिषेधात् , ‘न शूद्राय मतिं दद्यात्’ (म. नु. ४ । ८०) इति स्मृतेः आपाततोऽपि तस्य विद्यामहिमावगत्युपायासम्भवेन तदर्थित्वानुपपत्तेश्च, तस्य विद्यायामनधिकारादिति केचित् ।
अन्ये त्वाहुः – शूद्रस्याप्यस्त्येव विद्यार्थकर्माधिकारः, तस्य वेदानुवचनाग्निहोत्राद्यसम्भवेऽपि कण्ठोक्तसर्ववर्णाधिकारश्रीपञ्चाक्षरमन्त्रराजविद्यादिजपपापक्षयहेतुतपोदानपाकयज्ञादिसम्भवात् ‘वेदानुवचनेन यज्ञेन दानेन’(बृ. उ. ४ । ४ । २२) इत्यादिपृथक्कारकविभक्तिश्रुतेः विधुरादीनां विद्यार्थजपदानादिमात्रानुष्ठानानुमतेश्च वेदानुवचनादिसमुच्चयापेक्षणात् । न च शूद्रस्य विद्यायामर्थित्वासम्भवः । ‘श्रावयेच्चतुरो वर्णान् कृत्वा ब्राह्मणमग्रतः ।’ इति इतिहासपुराणश्रवणे चातुर्वर्ण्याधिकारस्मरणेन पुराणाद्यवगतविद्यामाहात्म्यस्य तस्यापि तदर्थित्वसम्भवात् । ‘न शूद्राय मतिं दद्यात्’ इति स्मृतेश्च तदनुष्ठानानुपयोग्यग्निहोत्रादिकर्मज्ञानदाननिषेधपरत्वात् । अन्यथा तस्य स्ववर्णधर्मस्याप्यवगत्युपायासम्भवेन ‘शूद्रश्चतुर्थो वर्ण एकजातिः’ ‘तस्यापि सत्यमक्रोधश्शौचम्’ ‘आचमनार्थे पाणिपादप्रक्षालनमेवैके’ ‘श्राद्धकर्म’ ‘भृत्यभरणम्’ ‘स्वदारतुष्टिः’ ‘परिचर्या चोत्तरेषाम्’ (गौ. ध. सू. २ । १ । ५१-५७) इत्यादितद्धर्मविभाजकवचनानामननुष्ठानलक्षणाप्रामाण्यापत्तेः । न चैवं सति अपशूद्राधिकरणस्य निर्विषयत्वम् । तस्य ‘न शूद्रे पातकं किञ्चित् न च संस्कारमर्हति’ (मनु. १० । १२६) इत्यादि स्मृतेः गुरूपसदनाख्यविद्याङ्गोपनयनसंस्कारविधुरस्य शूद्रस्य सगुणविद्यासु निर्गुणविद्यासाधनवेदान्तश्रवणादिषु च अधिकारनिषेधपरत्वात् , निर्गुणविद्यायां शूद्रस्यापि विषयसौन्दर्यप्रयुक्तार्थित्वस्य निषेद्धुमशक्यत्वात् , अविधेयायां च तस्यां तदतिरिक्ताधिकाराप्रसक्त्या तन्निषेधायोगाच्च । न च तस्य वेदान्तश्रवणासम्भवे विद्यार्थकर्मानुष्ठानसम्भवेऽपि विद्यानुत्पत्तेः तस्य तदर्थकर्मानुष्ठानं व्यर्थमिति वाच्यम् । तस्य वेदान्तश्रवणाधिकाराभावेऽपि भगवत्पादैः -‘श्रावयेच्चतुरो वर्णान्’ इति चेतिहासपुराणाधिगमे चातुर्वर्ण्याधिकारस्मरणात् वेदपूर्वस्तु नास्त्यधिकारः शूद्राणामिति स्थितम् - इति अपशूद्राधिकरणोपसंहारभष्ये ब्रह्मात्मैक्यपरपुराणादिश्रवणे विद्यासाधनेऽधिकारस्य दर्शितत्वात्; विद्योत्पत्तियोग्यविमलदेवशरीरनिष्पादनद्वारा मुक्त्यर्थं भविष्यतीति त्रैवर्णिकानां क्रममुक्तिफलकसगुणविद्यार्थकर्मानुष्ठानवत् वेदान्तश्रवणयोग्यत्रैवर्णिकशरीरनिष्पादनद्वारा विद्योत्पत्त्यर्थत्वं भविष्यतीति शूद्रस्य विद्यार्थकर्मानुष्ठानाविरोधाच्च । तस्मात् विविदिषावाक्ये ब्राह्मणपदस्य यथाप्राप्तविद्याधिकारिमात्रविषयत्वेन शूद्रस्यापि विद्यार्थकर्माधिकारः सिद्ध्यत्येवेति ।
सन्न्यासस्य विद्योपयोगित्वनिरूपणम्
नन्वस्तु कर्मणां चित्तशुद्धिद्वारा विद्योपयोगः, सन्न्यासस्य किन्द्वारा तदुपयोगः ?
केचिदाहुः−विद्योत्पत्तिप्रतिबन्धकदुरितानामनन्तत्वात् किञ्चित् यज्ञाद्यनुष्ठाननिवर्त्यं किञ्चित् सन्न्यासापूर्वनिवर्त्यमिति कर्मवत् चित्तशुद्धिद्वारैव सन्न्यासस्यापि तदुपयोगः । तथा च गृहस्थादीनां कर्मच्छिद्रेषु श्रवणाद्यनुतिष्ठतां न तस्मिन् जन्मनि विद्यावाप्तिः, किं तु जन्मान्तरे सन्न्यासं लब्ध्वैव । येषां तु गृहस्थानामेव सतां जनकादीनां विद्या विद्यते, तेषां पूर्वजन्मनि सन्न्यासात् विद्यावाप्तिः । अतो न विद्यायां सन्न्यासापूर्वव्यभिचारशङ्काऽपीति ।
अन्ये तु - ‘शान्तो दान्त उपरतः’ (बृ. उ. ४। ४। २३) इत्यादिश्रुतौ उपरतशब्दगृहीततया सन्न्यासस्य साधनचतुष्टयान्तर्गतत्वात् , ‘सहकार्यन्तरविधिः’ (ब्र. सू. ३ । ४ । ४७) इति सूत्रभष्ये तद्वतः-विद्यावतः सन्न्यासिनः, बाल्यपाण्डित्यापेक्षया तृतीयमिदं मौनं विधीयते । “तस्मात् ब्राह्मणः पाण्डित्यम्” इत्यादिश्रुतौ (तेः) ततः प्राक् “भिक्षाचर्यं चरन्ति” इति सन्न्यासाधिकारात्’ इति प्रतिपादनात् , ‘त्यक्ताशेषक्रियस्यैव संसारं प्रजिहासतः । जिज्ञासोरेव चैकात्म्यं त्रय्यन्तेष्वधिकारिता ।’ (सं. वा. १२) इति वार्तिकोक्तेश्च सन्न्यासापूर्वस्य ज्ञानसाधनवेदान्तश्रवणाद्यधिकारिविशेषणत्वमिति तस्य विद्योपयोगमाहुः ।
अपरे तु - ‘श्रवणाद्यङ्गतया आत्मज्ञानफलता सन्न्यासस्य सिद्धा’ इति विवरणोक्तेः अनन्यव्यापारतया श्रवणादिनिष्पादनं कुर्वतः तस्य विद्यायामुपयोगः । दृष्टद्वारे सम्भवति अदृष्टकल्पनायोगात् । यदि त्वनलसस्य धीमतः पुरुषधौरेयस्य आश्रमान्तरस्थस्यापि कर्मच्छिद्रेषु श्रवणादिसम्पद्यते, तदा चतुर्ष्वाश्रमेषु सन्न्यासाश्रमपरिग्रहेणैव श्रवणादि निर्वर्तनीयमिति नियमोऽभ्युपेयः - इति ।
ननु अस्मिन् पक्षद्वये क्षत्रियवैश्ययोः कथं वेदान्तश्रवणाद्यनुष्ठानम् ? सन्न्यासस्य ब्राह्मणाधिकारिकत्वात्, ‘ब्राह्मणो निर्वेदमायात्’ ‘ब्राह्मणो व्युत्थाय’ ‘ब्राह्मणः प्रव्रजेत्’ इति सन्न्यासविधिषु ब्राह्मणग्रहणात् , ‘अधिकारिविशेषस्य ज्ञानाय ब्राह्मणग्रहः । न सन्न्यासविधिर्यस्माच्छ्रुतौ क्षत्रियवैश्ययो: ।’ (बृ. वा. ३ । ५ । ८८) इति वार्तिकोक्तेश्च−इति चेत् ।
अत्र केचित् - ‘यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत् गृहाद्वा वनाद्वा’ (जा. उ. ४) इत्यविशेषश्रुत्या ‘ब्राह्मणः क्षत्रियो वापि वैश्यो वा प्रव्रजेत् गृहात् । त्रयाणामपि वर्णानाममी चत्वार आश्रमाः ।’ इति स्मृत्यनुगृहीतया क्षत्रियवैश्ययोरपि सन्न्यासाधिकारसिद्धेः श्रुत्यन्तरेषु ब्राह्मणग्रहणं त्रयाणामुपलक्षणम् । अत एव वार्तिकेऽपि ‘अधिकारिविशेषस्य’ इति श्लोकेन भाष्याभिप्रायमुक्त्वा ‘त्रयाणामविशेषेण सन्न्यासः श्रूयते श्रुतौ । यदोपलक्षणार्थं स्यात् ब्राह्मणग्रहणं तदा ।’ (बृ. वा. ३ । ५ । ८९) इत्यनन्तरश्लोकेन स्वमते क्षत्रियवैश्ययोरपि सन्न्यासाधिकारो दर्शित इति - तयोः श्रवणाद्यनुष्ठानसिद्धिं समर्थयन्ते ।
अन्ये तु-अनेकेषु सन्न्यासविधिवाक्येषु ब्राह्मणग्रहणात् , उदाहृतजाबालश्रुतौ सन्न्यासविधिवाक्ये ब्राह्मणग्रहणाभावेऽपि श्रुत्यन्तरसिद्धं ब्राह्मणाधिकारमेव सिद्धं कृत्वा सन्न्यासावस्थायाम् ‘अयज्ञोपवीती कथं ब्रह्मणः’ इति ब्राह्मणपरामर्शाच्च ब्राह्मणस्यैव सन्न्यासाधिकारः । विरोधाधिकरणन्यायेन श्रुत्यविरुद्धस्यैव स्मृत्यर्थस्य सङ्ग्राह्यत्वात् । यत्तु सन्न्यासस्य सर्वाधिकारत्वेन वार्तिकवचनं तत् विद्वत्सन्न्यासविषयम् , न तु आतुरविविदिषासन्न्यासे भाष्याभिप्रायविरुद्धसर्वाधिकारप्रतिपादनपरम् । ‘सर्वा(कर्मा)धिकारविच्छेदि विज्ञानं चेदुपेयते । कुतोऽधिकारनियमो व्युत्थाने क्रियते बलात् ॥’ (बृ. वा. ३ । ५ । ९०) इत्यनन्तरश्लोकेन ब्रह्मज्ञानोदयानन्तरं जीवन्मुक्तिकाले विद्वत्सन्न्यास एव अधिकारनियमनिराकरणात् । एवं च − ब्राह्मणानामेव श्रवणाद्यनुष्ठाने सन्न्यासोऽङ्गम् , क्षत्रियवैश्ययोः तन्निरपेक्षः श्रवणाद्यधिकार इति, तयोः श्रवणाद्यनुष्ठाननिर्वाहः । न हि सन्न्यासस्य श्रवणापेक्षितत्वपक्षे श्रवणमात्रस्य तदपेक्षा नियन्तुं शक्यते । क्रममुक्तिफलकसगुणोपासनया देवभागं प्राप्तस्य श्रवणादौ सन्न्यासनैरपेक्ष्यस्य अवश्यं वक्तव्यत्वात्, देवानां कर्मानुष्ठानाप्रसक्त्या तत्त्यागरूपस्य सन्न्यासस्य तेष्वसम्भवात् - इत्याहुः ।
अपरे तु ‘ब्रह्मसंस्थोऽमृतत्वमेति’ (छा. उ. २ । २३ । १) इति श्रुत्युदिता यस्य ब्रह्मणि संस्थासमाप्तिः – अनन्यव्यापारत्वरूपं तन्निष्ठत्वं तस्य श्रवणादिषु मुख्याधिकारः । ‘गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा । न विचारपरं चेतो यस्यासौ मृत उच्यते । आसुप्तेरामृतेः कालं नयेद्वेदान्तचिन्तया ॥’ इत्यादिस्मृतिषु सर्वदा विचारविधानात् । सा च ब्रह्मणि संस्था विना सन्न्यासम् आश्रमान्तरस्थस्य न सम्भवति स्वस्वाश्रमविहितकर्मानुष्ठानवैयग्र्यात् , इति सन्न्यासरहितयोः क्षत्रियवैश्ययोः न मुख्य: श्रवणाद्यधिकारः । किं तु ‘दृष्टार्था च विद्या प्रतिषेधाभावमात्रेणाप्यर्थिनमधिकरोति श्रवणादिषु’ इति ‘अन्तरा चापि तु तद्दृष्टेः’ (ब्र. सू. ३ । ४ । ३६) इत्यधिकरणभाष्योक्तन्यायेन शूद्रवदप्रतिषिद्धयोस्तयोः विधुरादीनामिव देहान्तरे विद्याप्रापकेण अमुख्याधिकारमात्रेण श्रवणाद्यनुमतिः । न हि ‘अन्तरा चापि तु तद्दृष्टेः’ (ब्र. सू. ३ । ४ । ३६) इत्यधिकरणे विधुरादीनामङ्गीकृतः श्रवणाद्यधिकारो मुख्य इति वक्तुं शक्यते । ‘अतस्त्वितरज्ज्यायो लिङ्गाच्च’ (ब्र. सू. ३ । ४ । ३९) इति सूत्रकारेणैव तेषाममुख्याधिकारस्फुटीकरणात् । न च−तत्र तेषां श्रवणाद्यधिकार एव नोक्तः, किं तु तदीयकर्मणां विद्यानुग्राहकत्वमिति शङ्क्यम् । ‘दृष्टार्था च विद्या’ इत्युदाहृततदधिकरणभाष्यविरोधात् । न च −क्षत्रियवैश्ययोः सन्न्यासाभावात् अमुख्याधिकारे तत एव देवानामपि श्रवणादिष्वमुख्य एवाधिकारः स्यात् , तथा च क्रममुक्तिफलकसगुणविद्यया देवदेहं प्राप्य श्रवणाद्यनुतिष्ठतां विद्याप्राप्त्यर्थं सन्न्यासार्हं पुनर्ब्राह्मणजन्म वक्तव्यमिति ‘ब्रह्मलोकमभिसम्पद्यते, न च पुनरावर्तते’ (छा. उ. ८ । १५ । १) ‘अनावृत्तिः शब्दात्’ (ब्र. सू. ४ । ४ । २२) इत्यादिश्रुतिसूत्रविरोधः इति - वाच्यम् । देवानामनुष्ठेयकर्मवैयग्र्याभावात् स्वत एव अनन्यव्यापारत्वं सम्भवतीति क्रममुक्तिफलकसगुणविद्याभिधायिशास्त्रप्रामाण्यात् विनाऽपि सन्न्यासं तेषां मुख्याधिकाराभ्युपगमात् इत्याहुः ।
ननु - अमुख्याधिकारिणा दृष्टफलभूतवाक्यार्थावगत्यर्थम् अविहितशास्त्रान्तरविचारवत् क्रियमाणो वेदान्तविचारः कथं जन्मान्तरविद्यावाप्तावुपयुज्यते । न खल्वद्यतनविचारस्य दिनान्तरीयविचार्यावगतिहेतुत्वमपि युज्यते, दूरे जन्मान्तरीयतद्धेतुत्वम् । न च वाच्यं – मुख्याधिकारिणा परिव्राजकेन क्रियमाणमपि श्रवणं दृष्टार्थमेव, अवगतेर्दृष्टार्थत्वात् ; तस्य यथा प्रारब्धकर्मविशेषरूपप्रतिबन्धात् इह जन्मनि फलमजनयतो जन्मान्तरे प्रतिबन्धकापगमेन फलजनकत्वम् ‘ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात्’ (ब्र. सू. ३ । ४ । ५१) इत्यधिकरणे तथा निर्णयात् , एवममुख्याधिकारिकृतस्यापि स्यात् इति । यतः शास्त्रीयाङ्गयुक्तं श्रवणम् अपूर्वविधित्वपक्षे फलपर्यन्तमपूर्वं नियमविधित्वपक्षे नियमादृष्टं वा जनयति, तच्च जातिस्मरत्वप्रापकादृष्टवत् प्राग्भवीयसंस्कारमुद्बोध्य तन्मूलभूतस्य विचारस्य जन्मान्तरीयविद्योपयोगितां घटयतीति युज्यते । शास्त्रीयाङ्गविधुरं श्रवणं नादृष्टोत्पादकमिति कुतस्तस्य जन्मान्तरीयविद्योपयोगित्वमुपपद्यते, घटकादृष्टं विना जन्मान्तरीयप्रमाणव्यापारस्य जन्मान्तरीयावगतिहेतुत्वोपगमे अतिप्रसङ्गात् ।
उच्यते−अमुख्याधिकारिणाऽपि उत्पान्नविविदिषेण क्रियमाणं श्रवणं द्वारभूतविविदिषोत्पादकप्राचीनविद्यार्थयज्ञाद्यनुष्ठानजन्यापूर्वप्रयुक्तमिति तदेवापूर्वं विद्यारूपफलपर्यन्तं व्याप्रियमाणं जन्मान्तरीयायामपि विद्यायां स्वकारितश्रवणस्य उपकारितां घटयतीति नानुपपत्तिः । श्रवणादौ विध्यभावपक्षे तु सन्न्यासपूर्वकं कृतस्यापि श्रवणस्य अदृष्टानुत्पादकत्वात् प्रतिबन्धके सति तस्य जन्मान्तरीयविद्याहेतुत्वम् इत्थमेव निर्वाह्यम् ।
आचार्यास्तु−नियमविधिपक्षेऽपि अयमेव निर्वाहः । श्रवणमभ्यस्यतः फलप्राप्तेरर्वाक् प्रायेण तन्नियमादृष्टानुत्पत्तेः, तस्य फलपर्यन्तावृत्तिगुणकश्रवणानुष्ठाननियमसाध्यत्वात् । न हि नियमादृष्टजनकश्रवणनियमः फलपर्यन्तमावर्तनीयस्य श्रवणस्य उपक्रममात्रेण निर्वर्तितो भवति, येन तज्जन्यनियमादृष्टस्यापि फलपर्यन्तश्रवणावृत्तेः प्रागेवोत्पत्तिः सम्भाव्येत ।अवघातवत् आवृत्तिगुणकस्यैव श्रवणस्य फलसाधनत्वेन फलसाधनपदार्थनिष्पत्तेः प्राक् तन्नियममनिर्वर्तिवचनस्य निरालम्बनत्वात् , श्रवणावघाताद्युपक्रममात्रेण नियमनिष्पत्तौ तावतैव नियमशास्त्रानुष्ठानं सिद्धमिति तदनावृत्तावप्यवैकल्यप्रसङ्गाच्च-इत्याहुः ।
केचित्तु -दृष्टार्थस्यैव वेदान्तश्रवणस्य ‘दिने दिने तु वेदान्तश्रवणात् भक्तिसंयुतात् । गुरुशुश्रूषया लब्धात् कृच्छ्राशीतिफलं लभेत्’ इत्यादिवचनप्रामाण्यात् स्वतन्त्रादृष्टोत्पादकत्वमप्यस्ति । यथा अग्निसंस्कारार्थस्याधानस्य पुरुषसंस्कारेषु परिगणनात् तदर्थत्वमपि, एवं वचनबलादुभयार्थत्वोपपत्ते: । तथा च प्रतिदिनश्रवणजनितादृष्टमहिम्नैव आमुष्मिकविद्योपयोगित्वं श्रवणमननादिसाधनानाम् - इत्याहुः ।
निर्गुणोपासनात्मकयोगस्य ब्रह्मसाक्षात्कारसाधनत्वनिरूपणम्
एवं श्रवणमननादिसाधनानुष्ठानात् (प्रणाल्या) (प्रवणस्य) विद्यावाप्तिः इत्यस्मिन्नर्थे सर्वसम्प्रतिपन्ने स्थिते भारतीतीर्थाः ध्यानदीपे विद्यावाप्तौ उपायान्तरमप्याहुः-
‘तत् कारणं साङ्ख्ययोगाभिपन्नम्’ (श्वे. उ. ६ । १३) ‘यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।’ (भ. गी. ५ । ५) इति श्रुतिस्मृतिदर्शनात् यथा सङ्ख्यं नाम वेदान्तविचारः श्रवणशब्दितो मननादिसहकृतो विद्यावाप्त्युपायः, एवं योगशब्दितं निर्गुणब्रह्मोपासनमपि । न च निर्गुणस्योपासनमेव नास्तीति शङ्क्यम् । प्रश्नोपनिषदि शैब्यप्रश्ने ‘यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत’ (प्र. उ. ५ । ५) इति निर्गुणस्यैवोपासनप्रतिपादनात् । तदनन्तरं ‘स एतस्माज्जीवघनात् परात् परं पुरिशयं पुरुषमीक्षते’ इति उपासनाफलवाक्ये ईक्षतिकर्मत्वेन निर्दिष्टं यन्निर्गुणं ब्रह्म, तदेवोपासनावाक्येऽपि ध्यायतिकर्म, नान्यत् । ईक्षतिध्यानयोः कार्यकारणभूतयोरेकविषयत्वनियमात्
- इत्यस्यार्थस्य ईक्षतिकर्माधिकरणे भाष्यकारादिभिरङ्गीकृतत्वात् । अन्यत्रापि तापनीयकठवल्ल्यादिश्रुत्यन्तरे निर्गुणोपास्तेः प्रपञ्चितत्वात् । सूत्रकृताऽपि उपास्यगुणपरिच्छेदार्थमारब्धे गुणोपसंहारपादे निर्गुणेऽपि ‘आनन्दादयः प्रधानस्य’ (ब्र. सू. ३ । ३ । ११) इति सूत्रेण भावरूपाणां ज्ञानानन्दादिगुणानाम् ‘अक्षरधियां त्ववरोधः’ (ब्र. सू. ३ । ३ । ३३) इत्यादिसूत्रेण अभावरूपाणामस्थूलत्वादिगुणानां चोपसंहारस्य दर्शितत्वाच्च । ननु आनन्दादिगुणोपसंहारे उपास्यं निर्गुणमेव न स्यादिति चेत्, न-आनन्दादिभिरस्थूलत्वादिभिश्चोपलक्षितमखण्डैकरसं ब्रह्मास्मीति निर्गुणत्वानुपमर्दनेन उपासनासम्भवात् । ननु ‘तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’ (के. उ. १ । ५) इति श्रुतेः न परं ब्रह्मोपास्यमिति चेत् , ‘अन्यदेव तद्विदितात्’ (के. उ. १ । ४) इति श्रुतेः तस्य वेद्यत्वस्याप्यसिद्ध्यापातात् । श्रुत्यन्तरेषु ब्रह्मवेदनप्रसिद्धेः अवेद्यत्वश्रुतिर्वास्तवावेद्यत्वपरा चेत् , आथर्वणादौ तदुपासनप्रसिद्धेः तदनुपास्यत्वश्रुतिरपि वस्तुवृत्तपराऽस्तु ।
एवं च ‘श्रवणायापि बहुभिर्यो न लभ्यः’ (क. उ. १ । २ । ७) इति श्रवणात् येषां बुद्धिमान्द्यात् न्यायव्युत्पादनकुशलविशिष्टगुर्वलाभाद्वा श्रवणादि न सम्भवति, तेषामध्ययनगृहीतैर्वेदान्तैरापाततोऽधिगमितब्रह्मात्मभावानां तद्विचारं विनैव प्रश्नोपनिषदाद्युक्तम् आर्षग्रन्थेषु ब्राह्मवासिष्ठादिकल्पेषु पञ्चीकरणादिषु च अनेकशाखाविप्रकीर्णसर्वार्थोपसंहारेण कल्पसूत्रेष्वग्निहोत्रादिवत् निर्धारितानुष्ठानप्रकारं निर्गुणोपासनं सम्प्रदायमात्रविद्भ्यो गुरुभ्योऽवधार्य तदनुष्ठानात् क्रमेण उपास्यभूतनिर्गुणब्रह्मसाक्षात्कारः सम्पद्यते । अविसंवादिभ्रमन्यायेन उपास्तेरपि क्वचित् फलकाले प्रमापर्यवसानसम्भवात् , पाणौ पञ्च वराटकाः पिधाय केनचित् ‘करे कति वराटकाः’ इति पृष्टे ‘पञ्च वराटकाः’ इति तदुत्तरवक्तुः वाक्यप्रयोगमूलभूतसङ्ख्याविशेषज्ञानस्य मूलप्रमाणशून्यस्याहार्यारोपरूपस्यापि यथार्थत्ववत् निर्गुणब्रह्मोपासनस्य अर्थतथात्वविवेचकनिर्विचिकित्समूलप्रमाणनिरपेक्षस्य दहराद्युपासनवत् उपासनाशास्त्रमात्रमवलम्ब्य क्रियमाणस्यापि वस्तुतो यथार्थत्वेन दहराद्युपासनेनेव निर्गुणोपासनेन जन्यस्य स्वविषयसाक्षात्कारस्य श्रवणादिप्रणालीजन्यसाक्षात्कारवदेव तत्त्वार्थविषयत्वावश्यम्भावाच्च ।
इयांस्तु विशेषः - प्रतिबन्धरहितस्य पुंसः श्रवणादिप्रणाड्या ब्रह्मसाक्षात्कारो झटिति सिध्यतीति साङ्ख्यमार्गो मुख्यः कल्पः, उपास्या तु विलम्बेनेति योगमार्गोऽनुकल्पः इति ।
ब्रह्मसाक्षात्कारकरणविचारः
नन्वस्मिन् पक्षद्वयेऽपि ब्रह्मसाक्षात्कारे किं करणम् ?
केचिदाहुः−प्रत्ययाभ्यासरूपं प्रसङ्ख्यानमेव । योगमार्गे आदित आरभ्य उपासनरूपस्य साङ्ख्यमार्गे मननान्तरनिदिध्यासनरूपस्य च तस्य सत्त्वात् । न च तस्य ब्रह्मसाक्षात्कारकरणत्वे मानाभावः । ‘ततस्तु तं पश्यते निष्कलं ध्यायमानः’ (मु. उ. ३ । १ । ८) इति श्रवणात् । कामातुरस्य व्यवहितकामिनीसाक्षात्कारे प्रसङ्ख्यानस्य करणत्वक्लृप्तेश्च, ‘आ प्रायणात् तत्रापि हि दृष्टम्’ (ब्र. सू. ४ । १ । १२) इत्यधिकरणे ‘विकल्पोऽविशिष्टफलत्वात्’ (ब्र. सू. ३ । ३ । ५९) इत्यधिकरणे च दहराद्यहङ्ग्रहोपासकानां प्रसङ्ख्यानादुपास्यसगुणब्रह्मसाक्षात्काराङ्गीकाराच्च । ननु च−प्रसङ्ख्यानस्य प्रमाणपरिगणनेष्वपरिगणनात् तज्जन्यो ब्रह्मसाक्षात्कारः प्रमा न स्यात् । न च काकतालीयसंवादिवराटकसङ्ख्याविशेषाहार्यज्ञानवत् अर्थाबाधेन प्रमात्वोपपत्तिः । प्रमाणामूलकस्य प्रमात्वायोगात् । आहार्यवृत्तेश्च उपासनावृत्तिवत् ज्ञानभिन्नमानसक्रियारूपतया इच्छादिवदबाधितार्थविषयत्वेऽपि प्रमात्वानभ्युपगमात् । मैवम्; क्लृप्तप्रमाकरणामूलकत्वेऽपि ईश्वरमायावृत्तिवत् प्रमात्वोपपत्तेः, विषयाबाधतौल्यात् । मार्गद्वयेऽपि प्रसङ्ख्यानस्य विचारितादविचारिताद्वा वेदान्तात् ब्रह्मावगतिमूलकतया प्रसङ्ख्यानजन्यस्य ब्रह्मसाक्षात्कारस्य प्रमाणमूलकत्वाच्च । उक्तं च कल्पतरुकारैः— “वेदान्तवाक्यजज्ञानभावनाजापरोक्षधीः । मूलप्रमाणदार्ढ्येन न भ्रमत्वं प्रपद्यते ॥” न च प्रामाण्यपरतस्त्वापत्तिस्तु प्रसज्यते । अपवादनिरासाय मूलशुद्ध्यनुरोधात्” (ब्र.सू. १-१-१) इति ।
अन्ये तु−‘एषोऽणुरात्मा चेतसा वेदितव्यः’ (मु. उ. ३ । १ । ९) ‘दृश्यते त्वग्र्यया बुद्ध्या’ (क. उ. १ । ३ । १२) इत्यादिश्रुतेः मन एव ब्रह्मसाक्षात्कारे करणम् । तस्य सोपाधिकात्मनि अहंवृत्तिरूपप्रमाकरणत्वकॢप्तेः, ‘स्वप्नप्रपञ्चविपरीतप्रमात्रादिज्ञानसाधनस्यान्तःकरणस्य’ इत्यादिपञ्चपादिकाविवरणग्रन्थैरपि तथा प्रतिपादनात् ‘अहमेवेदं सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकः’ (बृ. उ. ४ । ३ । २०) इति श्रुत्युक्ते स्वाप्ने ब्रह्मसाक्षात्कार एव मनसः करणत्वसम्प्रतिपत्तेश्च, तदा करणान्तराभावात् । प्रसङ्ख्यानं तु मनस्सहकारिभावेनापि उपयुज्यते । ‘वाक्यार्थभावनापरिपाकसहितमन्तःकरणं त्वम्पदार्थस्यापरोक्षस्य तत्तदुपाध्याकारनिषेधेन तत्पदार्थताम् आविर्भावयति’ (ब्र.सू.१-१-१) इति भामतीवचनात् । ‘ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः’ (मु. उ. ३ । १ । ८) इति श्रुतावपि ज्ञानप्रसादशब्दितचित्तैकाग्र्यहेतुतयैव ध्यानोपादानात् । न तु प्रसङ्ख्यानं स्वयं करणम् । तस्य क्कचिदपि ज्ञानकरणत्वाक्लृप्तेः, कामातुरकामिनीसाक्षात्कारादावपि प्रसङ्ख्यानसहकृतस्य मनस एव करणत्वोपपत्त्या अक्लृप्तज्ञानकरणान्तरकल्पनायोगात्
- इत्याहुः ।
अपरे तु−‘तद्धास्य विजज्ञौ’ (छा. उ. ६ । १६ । ३) ‘तमसः पारं दर्शयति’ (छा. उ. ७ । २६ । २) ‘आचार्यवान् पुरुषो वेद तस्य तावदेव चिरम्’ (छा. उ. ६ । १४ । २) इत्यादिश्रुतिषु आचार्योपदेशानन्तरमेव ब्रह्मसाक्षात्कारोदये जीवन्मुक्तिश्रवणात् ‘वेदान्तविज्ञानसुनिश्चितार्थाः’ (मु. उ. ३ । २ । ६) इति ज्ञानान्तरनैराकाङ्क्ष्यश्रवणात् ‘तं त्वौपनिषदं पुरुषम्’ (बृ. उ. ३ । ९ । २६) इति ब्रह्मण उपनिषदेकगम्यत्वश्रवणाच्च, औपनिषदं महावाक्यमेव ब्रह्मसाक्षात्कारे करणम् । न मनः । ‘यन्मनसा न मनुते’ (के. उ. १ । ६) इति तस्य ब्रह्मसाक्षात्कारकरणत्वनिषेधात् । न चापक्वमनोविषयमिदम् । ‘येनाहुर्मनो मतम्’ (के. उ. १ । ६) इति वाक्यशेषे मनोमात्रग्रहणात् । न चैवं ‘यद्वाचाऽनभ्युदितम्’ (के. उ. १ । ४) इति शब्दस्यापि तत्करणत्वं निषिध्यत इति शङ्क्यम् । मनःकरणत्ववादिनामपि शब्दस्य निर्विशेषे परोक्षज्ञानकरणत्वस्याभ्युपगतत्वेन तस्य ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ (तै. उ. २ । ४ । १) इति श्रुत्यनुरोधेन शब्दार्थप्राप्तिरूपशक्तिमुखेन शब्दस्य तत्करणत्वनिषेधे तात्पर्यस्य वक्तव्यतया शक्यसम्बन्धरूपलक्षणामुखेन तस्य तत्करणत्वाविरोधात् । न च ‘मनसैवानुद्रष्टव्यम्’ (बृ. उ. ४ । ४ । १९) इति श्रुतिसिद्धं मनसोऽपि तत्करणत्वं न पराकर्तुं शक्यमिति वाच्यम् । शाब्दसाक्षात्कारजननेऽपि तदैकाग्र्यस्यापेक्षितत्वेन हेतुत्वमात्रेण तृतीयोपपत्तेः । ‘मनसा ह्येव पश्यति मनसा श्रृणोति’ (बृ. उ. १ । ५ । ३) इत्यादौ तथा दर्शनात् , गीताविवरणे भाष्यकारीयमनःकरणत्ववचनस्य मतान्तराभिप्रायेण प्रवृत्तेः - इत्याहुः ।
शाब्दापरोक्षसमर्थनम्
ननु तथाऽपि शब्दस्य परोक्षज्ञानजनकत्वस्वभावस्यापरोक्षज्ञानजनकत्वं न सङ्गच्छते इति चेत् अत्र केचित् - स्वतोऽसमर्थोऽपि शब्दः शास्त्रश्रवणमननपूर्वकप्रत्ययाभ्यासजनितसंस्कारप्रचयलब्धब्रह्मैकाग्र्यवच्चित्तदर्पणानुगृहीतः अपरोक्षज्ञानमुत्पादयति, शास्रीयसंस्कारसहकृताग्न्यधिकरणक इव होमोऽपूर्वम्
- इति कल्प्यते । ‘तरति शोकमात्मवित्’ (छा. उ. ७ । १ । ३) इति शास्त्रप्रामाण्यात् । अपरोक्षस्य कर्तृत्वाद्यध्यासस्य अपरोक्षाधिष्ठानज्ञानं विना निवृत्त्ययोगात् , औपनिषदे च ब्रह्मणि मानान्तराप्रवृत्तेः, शब्दादप्यपरोक्षज्ञानानुत्पत्तौ अनिर्मोक्षप्रसङ्गात् −इत्याहुः ।
अन्ये तु−भावनाप्रचयसाहित्ये सति बहिरसमर्थस्यापि मनसो नष्टवनितासाक्षात्कारजनकत्वदर्शनात् निदिध्यासनसाहित्येन शब्दस्याप्यपरोक्षज्ञानजनकत्वं युक्तमिति दृष्टानुरोधेन समर्थयन्ते ।
अपरे तु−अपरोक्षार्थविषयत्वं ज्ञानस्यापरोक्षत्वं नाम । अन्यानिरुक्तेः । अर्थापरोक्षत्वं तु नापरोक्षज्ञानविषयत्वम् , येनान्योन्याश्रयः स्यात् । किं तु तत्तत्पुरुषीयचैतन्याभेदः । अन्तःकरणतद्धर्माणां साक्षिणि कल्पिततया तदभेदसत्त्वात् , बाह्यचैतन्ये कल्पितानां घटादीनां बाह्यचैतन्ये वृत्तिकृततत्तत्पुरुषीयचैतन्याभेदाभिव्यक्त्या तदभेदसत्त्वाच्च न क्वाप्यव्याप्तिः । न च अन्तःकरणतद्धर्माणां ज्ञानादीनामिव धर्माधर्मसंस्काराणामपि साक्षिणि कल्पितत्वाविशेषात् आपरोक्ष्यापत्तिः । तेषामनुद्भूतत्वात् , उद्भूतस्यैव जडस्य चैतन्याभेदे आपरोक्ष्यम् इत्यभ्युपगमात् । एवं च सर्वदा सर्वपुरुषचैतन्याभिन्नत्वात् ‘यत्साक्षादपरोक्षाद्ब्रह्म’ (बृ. उ. ३ । ४ । १) इति श्रुत्या स्वत एवापरोक्षं ब्रह्मेति अपरोक्षार्थविषयत्वात् शाब्दस्यापि ब्रह्मज्ञानस्य अपरोक्षत्ववाचोयुक्तिर्युक्ता−इत्याहुः ।
अद्वैतविद्याचार्यास्तु − नापरोक्षार्थविषयत्वं ज्ञानस्यापरोक्ष्यम् , स्वरूपसुखापरोक्षरूपस्वरूपज्ञानाव्यापनात् । स्वविषयत्वलक्षणस्वप्रकाशत्वनिषेधात् । किं तु यथा तत्तदर्थस्य स्वव्यवहारानुकूलचैतन्याभेदोऽर्थापरोक्ष्यम् , एवं तत्तद्व्यवहारानुकूलचैतन्यस्य तत्तदर्थाभेदो ज्ञानापरोक्ष्यम् । तथा च चैतन्यधर्म एवापरोक्ष्यम् , न त्वनुमितित्वादिवत् अन्तःकरणवृत्तिधर्मः । अत एव सुखादिप्रकाशरूपे साक्षिणि स्वरूपसुखप्रकाशरूपे चैतन्ये च आपरोक्ष्यम् । न च घटाद्यैन्द्रियकवृत्तौ तदनुभवविरोधः । अनुभवस्य वृत्त्यवच्छिन्नचैतन्यगतापरोक्ष्यविषयत्वोपपत्तेः ।
ननु उक्तं ज्ञानार्थयोरापरोक्ष्यं हृदयादिगोचरशाब्दवृत्तिशाब्दविषययोरतिप्रसक्तम् , तत्र दैवात् कदाचित् वृत्तिविषयसंसर्गे सति वृत्त्यवच्छिन्नचैतन्यस्य विषयावच्छिन्नचैतन्यस्य चाभेदाभिव्यक्तेः अवर्जनीयत्वात् इति चेत् , न−परोक्षवृत्तेः विषयावच्छिन्नचैतन्यगताज्ञाननिवर्तनाक्षमतया तत्र अज्ञानेनावृतस्य विषयचैतन्यस्य अनावृतेन वृत्त्यवच्छिन्नसाक्षिचैतन्येन अभेदाभिव्यक्तेरभावात् आपरोक्ष्याप्रसक्तेः । अत एव जीवस्य संसारदशायां वस्तुतस्सत्यपि ब्रह्माभेदे न तदापरोक्ष्यम् , अज्ञानावरणकृतभेदसत्त्वात् । न चैवं ब्रह्मणो जीवापरोक्ष्यासम्भवात् असर्वज्ञत्वापत्तिः । अज्ञानस्य ईश्वरं प्रत्यनावारकतया तं प्रति जीवभेदानापादनात् । यं प्रति यदज्ञानमावारकं तस्य तं प्रत्येव स्वाश्रयभेदापादकत्वात् । अत एव चैत्रज्ञानेन तस्य घटाज्ञाने निवृत्ते अनिवृत्तं मैत्राज्ञानं मैत्रं प्रत्येव विषयचैतन्यस्य भेदापादकमिति न चैत्रस्य घटापरोक्ष्यानुभवानुपपत्तिरपि ।
ननु−एवं वृत्तिविषयचैतन्याभेदाभिव्यक्तिलक्षणस्यापरोक्ष्यस्य स्वविषयचैतन्यगताज्ञाननिवृत्तिप्रयोज्यत्वे तस्य अज्ञाननिवृत्तिप्रयोजकत्वायोगात् ज्ञानमात्रमज्ञाननिवर्तकं भवेदिति चेत् , न−यत् ज्ञानम् उत्पद्यमानं स्वकारणमहिम्ना विषयसंसृष्टमेवोत्पद्यते तदेवाज्ञाननिवर्तकमिति विशेषणात् , ऐन्द्रियकज्ञानानां तथात्वात् । एवं च शब्दादुत्पद्यमानमपि ब्रह्मज्ञानं सर्वोपादानभूतस्वविषयब्रह्मसंसृष्टमेव उत्पद्यत इति तस्याज्ञाननिवर्तकत्वम् अज्ञाननिवृत्तौ तन्मूलभेदप्रविलयादापरोक्ष्यं चेत्युपपद्यतेतराम् । नन्वेवम् अध्ययनगृहीतवेदान्तजन्येनापि तज्ज्ञानेन मूलाज्ञाननिवृत्त्या आपरोक्ष्यं किं न स्यात् । न च तत् सत्तानिश्चयरूपत्वाभावात् नाज्ञाननिवर्तकमिति वाच्यम् । तथापि कृतश्रवणस्य निर्विचिकित्सशाब्दज्ञानेन तन्निवृत्त्या मननादिवैयर्थ्यापत्तिरिति चेत् , न – सत्यपि श्रवणात् निर्विचिकित्सज्ञाने चित्तविक्षेपदोषेण प्रतिबन्धात् अज्ञाननानिवृत्त्या तन्निराकरणे मनननिदिध्यासननियमविध्यर्थानुष्ठानस्यार्थवत्त्वात् , भवान्तरीयमननाद्यनुष्ठाननिरस्तचित्तविक्षेपस्य उपदेशमात्रात् ब्रह्मापरोक्ष्यस्य इष्यमाणत्वाच्च इत्याहुः ।
अथैवमपि−कृतनिदिध्यासनस्य वेदान्तजन्यब्रह्मज्ञानेनेव घटादिज्ञानेनापि ब्रह्मज्ञाननिवृत्तिः किं न स्यात् । न च तस्य ब्रह्माविषयत्वात् न ततो ब्रह्माज्ञाननिवृत्तिरिति वाच्यम् । ‘घटस्सन्’ इत्यादिबुद्धिवृत्तेः सद्रूपब्रह्मविषयत्वोपगमात् । न च तत्र घटाद्याकारवृत्त्या तदज्ञाननिवृत्तौ स्वतःस्फुरणादेव तदवच्छिन्नं चैतन्यं सदिति प्रकाशते, न तस्य घटाद्याकारवृत्तिविषयत्वमिति – वाच्यम् । तदभावे घटविषयं ज्ञानं तदवच्छिन्नचैतन्यविषयमज्ञानमिति भिन्नविषयेण ज्ञानेन तदज्ञाननिवृत्तेरयोगात् , जडे आवरणकृत्याभावेन घटस्याज्ञानाविषयत्वात् । न च घटादिवृत्तेः तदवच्छिन्नचैतन्यविषयत्वेऽपि अखण्डानन्दाकारत्वाभावात् न ततो मूलाज्ञाननिवृत्तिरिति वाच्यम् । वेदान्तजन्यसाक्षात्कारेऽपि तदभावात् । न हि तत्र अखण्डत्वमानन्दत्वं वा कश्चिदस्ति प्रकारः । वेदान्तानां संसर्गागोचरप्रमाजनकत्वलक्षणाखण्डार्थत्वहानापत्तेः । न च वेदान्तजन्यज्ञानादेव तन्निवृत्तिनियम इति वाच्यम् । क्लृप्ताज्ञाननिवर्तकत्वप्रयोजकस्य रूपस्य ज्ञानान्तरेऽपि सद्भावे तथानियन्तुमशक्यत्वात् । न च घटाद्याकारवृत्तिविषयस्यावच्छिन्नचैतन्यस्यापि कल्पितत्वेन यत् मूलाज्ञानविषयभूतं सत्यमनवच्छिन्नचैतन्यं तद्विषयत्वाभावात् घटादिवृत्तीनां निवर्त्यत्वाभिमताज्ञानसमानविषयत्वलक्षणं कॢप्तप्रयोजकमेव नास्तीति वाच्यम् । तत्र अवच्छेदकांशस्य कल्पितत्वेऽपि अवच्छेद्यांशस्य अकल्पितमूलाज्ञानविषयचैतन्यरूपत्वात् , तस्य कल्पितत्वे घटवज्जडतया अवस्थाज्ञानं प्रत्यपि विषयत्वायोगेन अवस्थाज्ञानस्य मूलाज्ञानविषयाकल्पितचैतन्यविषयत्वस्य वक्तव्यतया तन्निवर्तकघटादिज्ञानस्यापि तद्विषयत्वावश्यम्भावेन तत्पक्षेऽपि ततो मूलाज्ञाननिवृत्तिप्रसङ्गस्य अपरिहारात् ।
घटादिज्ञानानां मूलाज्ञानानिवर्तकत्वसमर्थनम्
अत्राहुः आचार्याः − न चैतन्यं चक्षुरादिजन्यवृत्तिविषयः । ‘न सन्दृशे तिष्ठतिरूपमस्य न चक्षुषा पश्यति कश्चनैनम्’ (क. उ. २ । ३ । ९) ‘पराञ्चि खानि व्यतृणत्स्वयम्भूः तस्मात् पराङ् पश्यति नान्तरात्मन्’ (क. उ. २ । १ । १) इत्यादिश्रुत्या तस्य परमाण्वादिवत् चक्षुराद्ययोग्यत्वोपदेशात् ‘औपनिषदम्’ इति विशेषणाच्च । न च ‘सर्वप्रत्ययवेद्ये (वा) (च) ब्रह्मरूपे व्यवस्थिते ।’ इत्यादिवार्तिकविरोधः । तस्य घटाद्याकारवृत्त्युदये सति आवरणाभिभवात् स्वप्रभं सद्रूपं ब्रह्म ‘घटस्सन्’ इति घटवद्व्यवहार्यं भवतीति औपचारिकघटादिवृत्तिवेद्यत्वपरत्वात् । आवरणाभिभावकत्वं च घटादिज्ञानस्य घटादिविषयत्वादेव उपपन्नम् । घटादेरप्यज्ञानविषयत्वात् ‘घटं न जानामि’ ‘घटज्ञानेन घटाज्ञानं नष्टम्’ इति अवस्थाज्ञानस्य घटादिविषयत्वानुभवात् । न च - तत्र आवरणकृत्याभावादज्ञानाङ्गीकारो न युक्तः, तद्भासकस्य तदवच्छिन्नचैतन्यस्य आवरणादेव तदप्रकाशोपपत्तेरिति−वाच्यम् । उक्तभङ्ग्या जडस्य साक्षादज्ञानविषयत्वस्य प्रतिक्षेपेऽपि जडावच्छिन्नचैतन्यप्रकाशस्याज्ञानेनावरणम् , ततो नित्यचैतन्यप्रकाशसंसर्गेऽपि जडस्य ‘नास्ति न प्रकाशते’ इत्यादिव्यवहारयोग्यत्वमिति परम्परया अज्ञानविषयत्वाभ्युपगमात् साक्षात्परम्परया वा यदज्ञानावरणीयं तद्विषयत्वस्यैव ज्ञानस्य तदज्ञाननिवर्तकत्वप्रयोजकशरीरे निवेशात् । न चैवं घटादीनामुक्तरीत्या मूलाज्ञानविषयत्वमपीति घटादिसाक्षात्कारादेव मूलाज्ञाननिवृत्त्यापातः । फलबलात् तदज्ञानकार्यातिरिक्ततद्विषयविषयकत्वस्यैव तन्निवर्तकत्वे तन्त्रत्वात् ।
अथवा, मूलाज्ञानस्यैव जडं न विषयः । अवस्थाज्ञानानां तु अवच्छिन्नचैतन्याश्रितानां तत्तज्जडमेव विषयः । अन्यथा चाक्षुषवृत्त्या चन्दनखण्डचैतन्याभिव्यक्तौ तत्संसर्गिणो गन्धस्याप्यापरोक्ष्यापत्तेः, तदनभिव्यक्तौ चन्दनतद्रूपयोरप्यप्रकाशापत्तेः । न च - चाक्षुषवृत्त्या चन्दनतद्रूपावच्छिन्नचैतन्ययोरभिव्यक्त्या तयोः प्रकाशः, गन्धाकारवृत्त्यभावेन गन्धावच्छिन्नचैतन्यस्यानभिव्यक्त्या तस्याप्रकाशश्चेति - वाच्यम् । चैतन्यस्य द्विगुणीकृत्य वृत्त्ययोगेन एकद्रव्यगुणानां स्वाश्रये सर्वत्र व्याप्य वर्तमानानां पृथक्पृथग्गगनावच्छेदकत्वस्येव चैतन्यावच्छेदकत्वस्याप्यसम्भवात् । तेषां स्वाश्रयद्रव्यावच्छिन्नचैतन्येनैव शुक्तीदमंशावच्छिन्नचैतन्येन शुक्तिरजतवत् प्रकाश्यतया तस्याभिव्यक्तौ गन्धस्यापि (आपरोक्ष्यापत्तेः) प्रकाशस्य अनभिव्यक्तौ रजतादेरप्यप्रकाशस्य चापत्तेः । न च गन्धाकारवृत्त्युपरक्त एव चैतन्ये गन्धः प्रकाशत इति नियमः । प्रकाशसंसर्गस्यैव प्रकाशमानशब्दार्थत्वेन असत्यामपि तदाकारवृत्तौ अनावृतप्रकाशसंसर्गे अप्रकाशमानत्वकल्पनस्य विरुद्धत्वात् , अभिव्यक्तस्य च गन्धोपादानचैतन्यस्य गन्धासंसर्गोक्त्यसम्भवात् । तस्मात् यथा चैत्रस्य घटवृत्तौ तं प्रत्यावरकस्यैवाज्ञानस्य निवृत्तिरिति तस्यैव विषयप्रकाशो नान्यस्य, तथा तत्तद्विषयाकारवृत्त्या तत्तदावारकाज्ञानस्यैव निवृत्तेः न विषयान्तरस्यापरोक्ष्यम् , ‘अनावृतार्थस्यैव संविदभेदात् आपरोक्ष्यम् ‘इत्यभ्युपगमादिति प्रमातृभेदेनेव विषयभेदेनाप्येकत्र चैतन्ये अवस्थाज्ञानभेदस्य वक्तव्यतया अवस्थाज्ञानानां तत्तज्जडविषयकत्वमिति घटादिवृत्तीनां नावस्थाज्ञाननिवर्तकत्वे काचिदनुपपत्तिः, न वा मूलाज्ञाननिवर्तकत्वापत्तिः ।
न चैवमपि जीवविषयाया अहमाकारावृत्तेर्मूलाज्ञाननिवर्तकत्वापत्तिः । तस्याः स्वयम्प्रकाशमानचित्संवलिताचिदंशमात्रविषयत्वात् , ‘सोऽहम्’ इति प्रत्यभिज्ञाया अपि स्वयम्प्रकाशे चैतन्ये अन्तःकरणवैशिष्ट्येन सह पूर्वापरकालवैशिष्ट्यमात्रविषयत्वेन चैतन्यविषयत्वाभावात् − इति ।
केचित्तु - घटादिवृत्तीनां तत्तदवच्छिन्नचैतन्यविषयत्वमभ्युपगम्य ‘सर्वमानप्रसक्तौ च सर्वमानफलाश्रयात् । श्रोतव्येतिवचः प्राह वेदान्तावरुरुत्सया’ (बृ.वा. २-४-२१२) इति वार्तिकोक्तश्रोतव्यवाक्यार्थवेदान्तनियमविध्यनुसारेण वेदान्तजन्यमेव नियमादृष्टसहितं ब्रह्मज्ञानमप्रतिबद्धं ब्रह्माज्ञाननिवर्तकमिति घटादिज्ञानान्न तन्निवृत्तिप्रसङ्गः−इत्याहुः ।
अन्ये तु−तत्त्वमस्यादिवाक्यजन्यं जीवब्रह्माभेदगोचरमेव ज्ञानं मूलाज्ञाननिवर्तकम् , मूलाज्ञानस्य तदभेदगोचरत्वात् , इति न चैतन्यस्वरूपमात्रगोचरात् घटादिज्ञानात्तन्निवृत्तिप्रसङ्गः । न च अभेदस्य तत्त्वावेदकप्रमाणबोध्यस्य चैतन्यातिरेके द्वैतापत्तेः चैतन्यमात्रमभेदः इति तद्गोचरं घटादिज्ञानमप्यभेदगोचरमिति वाच्यम् । नह्यभेदज्ञानमिति विषयतो विशेषं ब्रूमः, किं तु तत्त्वम्पदवाच्यार्थधर्मिद्वयपरामर्शादिरूपकारणविशेषाधीनेन स्वरूपसम्बन्धविशेषेण चैतन्यविषयत्वमेव तदभेदज्ञानत्वम् ।
यथा हि विशेषणविशेष्यतत्सम्बन्धगोचरत्वाविशेषेऽपि विशिष्टज्ञानस्य विशेषणज्ञानादिकारणविशेषाधीनस्वरूपसम्बन्धविशेषेण तत्त्रितयगोचरत्वमेव समूहालम्बनव्यावृत्तं विशिष्टज्ञानत्वम् , यथा वा ‘स्थाणुत्वपुरुषत्ववान्’ इत्याहार्यवृत्तिव्यावृत्तं संशयत्वम् , विषयतो विशेषानिरूपणात् ; तथा घटादावपि ‘सोऽयं घटः’ इत्यादिज्ञानस्य स्वरूपसम्बन्धविशेषेण घटादिविषयत्वमेव केवलघटशब्दादिजन्यज्ञानव्यावृत्तं तदभेदज्ञानत्वम् । अतिरिक्ताभेदानिरूपणात् । अभावसादृश्यादीनामधिकरणप्रतियोग्यादिभिः स्वरूपसम्बन्धयुक्तानाम् अधिकरणेन आधाराधेयभावरूपः स्वरूपसम्बन्धविशेषः प्रतियोगिना प्रतियोग्यनुयोगिभावरूपः, इत्यादिप्रकारेण स्वरूपसम्बन्धे अवान्तरविशेषकल्पनावत् वृत्तीनां विषयेऽपि संयोगतादात्म्ययोरतिप्रसक्त्या विषयैः विषयविषयिभावरूपस्वरूपसम्बन्धवतीनां विषयविशेषनिरूपणासम्भवे क्लृप्त एव स्वरूपसम्बन्धे अवान्तरविशेषकल्पनेन अभेदज्ञानत्वादिपरस्परवैलक्षण्यनिर्वाहाच्च । एवं च ब्रह्मज्ञानस्य अभेदाख्यकिञ्चित्संसर्गगोचरत्वानभ्युपगमात् न वेदान्तानामखण्डार्थत्वहानिरपि−इत्याहुः ।
ब्रह्मज्ञानस्य मूलाज्ञाननिवर्तकत्वसमर्थनम्
ननु − घटादिज्ञानवत् ब्रह्मज्ञानस्यापि न मूलाज्ञाननिवर्तकत्वं युक्तम् , निवर्तकत्वे तदवस्थानासहिष्णुत्वरूपस्य विरोधस्य तन्त्रत्वात् , कार्यस्य चोपादानेन सह तादृशविरोधाभावात् इति चेत् − न - कार्यकारणयोः अन्यत्र तादृशविरोधादर्शनेऽपि एकविषयज्ञानाज्ञानभावप्रयुक्तस्य तादृग्विरोधस्य अत्र सत्त्वात् , कार्यकारणयोरप्यग्निसंयोगपटयोः तादृशविरोधस्य दृष्टेश्च । न च अग्निसंयोगात् अवयवविभागप्रक्रियया असमवायिकारणसंयोगनाशादेव पटनाशः नाग्निसंयोगादितिवाच्यम् । दग्धपटेऽपि पूर्वसंस्थानानुवृत्तिदर्शनेन मुद्गरचूर्णीकृतघटवदवयवविभागादर्शनात् तत्र अवयवविभागादिकल्पनाया अप्रामाणिकत्वात् । नापि तत्र तन्तूनामपि दाहेन समवायिकारणनाशात् पटनाश इति युक्तम् । अंशुतन्त्वादिभिस्सह युगपदेव पटस्य दाहदर्शनेन क्रमकल्पनायोगात् । यतोऽधस्तात् नावयवनाशः तत्रावयवे अग्निसंयोगादेव नाशस्य वाच्यत्वात् ।
ब्रह्मज्ञाननिवर्तकनिरूपणम्
ननु−अस्त्वेतदेवम् , तथापि सविलासाज्ञाननाशकमिदं ब्रह्मज्ञानं कथं नश्येत् , नाशकान्तरस्याभावात् − इति चेत् , न−यथा कतकरजः सलिलेन संयुज्य पूर्वयुक्तरजोऽन्तरविश्लेषं जनयत् स्वविश्लेषमपि जनयति, तथा आत्मन्यध्यस्यमानं ब्रह्मज्ञानं पूर्वाध्यस्तसर्वप्रपञ्चं निवर्तयत् स्वात्मानमपि निवर्तयतीति केचित् ।
अन्ये तु अन्यन्निवर्त्य स्वयमपि निवृत्तौ दग्धलोहपीताम्बुन्यायमुदाहरन्ति ।
अपरे तु अत्र दग्धतृणकूटदहनोदाहरणमाहुः ।
न च ध्वंसस्य प्रतियोग्यतिरिक्तजन्यत्वनियमः । अप्रयोजकत्वात् , निरिन्धनदहनादि ध्वंसे व्यभिचाराच्च । न च - ध्वंसस्य प्रतियोगिमात्रजन्यत्वेऽतिप्रसङ्गात् कारणान्तरमवश्यं वाच्यम् , निरिन्धनदहनादिध्वंसेऽपि कालादृष्टेश्वरेच्छादिकारणान्तरमस्ति इति - वाच्यम् । अतिप्रसङ्गापरिज्ञानात् । न च ‘घटादिध्वंसस्यापि कारणान्तरनिरपेक्षत्वं स्यात्’ इत्यतिप्रसङ्गः । ध्वंसमात्रे कारणान्तरनैरपेक्ष्यानभिधानात् । न च घटध्वंसदृष्टान्तेन ब्रह्मज्ञानध्वंसस्य कारणान्तरापेक्षासाधनम् । तद्दृष्टान्तेन मुद्गरपतनापेक्षाया अपि साधनापत्तेः । नापि ज्ञानध्वंसत्वसाम्यात् घटज्ञानादिध्वंसस्यापि कारणान्तरनैरपेक्ष्यं स्यादित्यतिप्रसङ्गः । सेन्धनानलध्वंसस्य जलसेकादिदृष्टकारणापेक्षत्वेऽपि निरिन्धनानलध्वंसस्य तदनपेक्षत्ववत् , जाग्रज्ज्ञानध्वंसस्य विरोधिविशेषगुणान्तरापेक्षत्वेऽपि सुषुप्तिपूर्वज्ञानध्वंसस्य तदनपेक्षत्ववच्च, मूलाज्ञाननिवर्तकज्ञानध्वंसस्य कारणान्तरसापेक्षत्वेऽपि तन्निवर्तकज्ञानध्वंसस्य तदनपेक्षत्वोपपत्तेः । नापि कारणान्तरनैरपेक्ष्ये स्वोत्पत्त्युत्तरक्षण एव नाशः स्यादित्यतिप्रसङ्गः । इष्टापत्तेः । तदुत्पत्त्युत्तरक्षण एव ब्रह्माध्यस्तनिखिलप्रपञ्चदाहेन तदन्तर्गतस्य तस्यापि तदैव दाहाभ्युपगमात् , निरिन्धनदहनध्वंसन्यायेन ब्रह्मज्ञानध्वंसस्यापि कालादृष्टेश्वरेच्छादिकारणान्तरजन्यत्वेऽप्यविरोधाच्च, ‘सर्वप्रपञ्चनिवृत्त्यनन्तरम् एकशेषस्य ब्रह्मज्ञानस्य निवृत्तिः’ इत्यनभ्युपगमेन युगपत् सर्वदाहे पूर्वक्षणे चिदविद्यासम्बन्धरूपस्य द्रव्यान्तररूपस्य वा कालस्य ईश्वरप्रसादरूपस्यान्तःकरणगुणविशेषस्य वा अदृष्टस्य अन्येषां च सत्त्वात् । न च − तत्र ज्ञानातिरिक्तकारणापेक्षणे ब्रह्मज्ञानस्य अमिथ्यात्वप्रसङ्गः, ज्ञानैकनिवर्त्यत्वं मिथ्यात्वमित्यभ्युपगमात् इति वाच्यम् । ज्ञानाघटितसामग्र्यनिवर्त्यत्वे सति ज्ञाननिवर्त्यत्वस्य तदर्थत्वात् । ‘नान्यः पन्थाः’ (श्वे. उ. ३ । ८) इति श्रुतेरपि तत्रैव ताप्तर्यात् । अतो युक्त एव दग्धदाह्यदहनादिन्यायः ।
केचित्तु - वृत्तिरूपं ब्रह्मज्ञनं नाज्ञानतन्मूलप्रपञ्चनिबर्हकम् । अज्ञानस्य प्रकाशनिवर्त्यत्वनियमेन जडरूपवृत्तिनिवर्त्यत्वायोगात् । किं तु तदारूढचैतन्यप्रकाशः तन्निवर्तकः । स्वरूपेण तस्य अज्ञानादिसाक्षितया तदनिवर्तकत्वेऽपि अखण्डाकारवृत्त्युपारूढस्य तस्य तन्निवर्तकत्वोपपत्तेः । ‘तृणादेर्भासिकाऽप्येषा सूर्यदीप्तिस्तृणं दहेत् । सूर्यकान्तमुपारुह्य तन्न्यायं तत्र योजयेत् ॥’ इत्यभियुक्तोक्तेः । एवं च, यथा (किञ्चित्) काष्ठमुपारुह्य ग्रामनगरादिकं दहन् वह्निः दहत्येव तदपि काष्ठम् , तथा चरमवृत्तिमुपारुह्य निखिलप्रपञ्चमुन्मूलयन् अखण्डचैतन्यप्रकाशः तन्निवर्तनेऽपि प्रगल्भत इति तन्नाशे न काचिदनुपपत्तिः − इत्यहुः ।
अन्ये तु – ब्रह्मज्ञानमज्ञानस्यैव निवर्तकम् , ज्ञानाज्ञानयोरेव साक्षाद्विरोधात् , प्रपञ्चस्य तु उपादाननाशान्नाश इति प्रपञ्चान्तर्गतब्रह्मज्ञानस्यापि तत एव नाशः । न च प्रपञ्चस्य ज्ञानानिवर्त्यत्वे मिथ्यात्वानुपपत्तिः । प्रपञ्चनिवृत्तेः साक्षात् ज्ञानजन्यत्वाभावेऽपि ज्ञानजन्याज्ञाननाशजन्यत्वात् , साक्षात् परम्परया वा ज्ञानैकनिवर्त्यत्वं मिथ्यात्वमित्यङ्गीकारात् । एवं च तत्त्वसाक्षात्कारोदयेऽपि जीवन्मुक्तस्य देहादिप्रतिभास उपपद्यते । प्रारब्धकर्मणा प्रतिबन्धेन, तत्त्वसाक्षात्कारोदयेऽपि प्रारब्धकर्मतत्कार्यदेहादिप्रतिभासानुवृत्त्या, उपादानाविद्यालेशानुवृत्त्युपपत्तेः । अज्ञानवत् प्रपञ्चस्यापि साक्षात् ब्रह्मसाक्षात्कारनिवर्त्यत्वे नायमुपपद्यते । विरोधिनि ब्रह्मसाक्षात्कारे सति प्रारब्धकर्मणः स्वयमेवावस्थानासम्भवेन अविद्यालेशनिवृत्तिप्रतिबन्धकत्वायोगात्
- इत्याहुः ॥
॥ इति शास्त्रसिद्धान्तलेशसङ्ग्रहे तृतीयः परिच्छेदः ॥