द्वितीयपरिच्छेदः
द्वितीयपरिच्छेदस्य अविरोधाध्यायेन प्रथमपरिच्छेदेन च सङ्गतिसूचनपूर्वकं मिथ्यात्वश्रुतीनां प्रत्यक्षबाधनिरूपणम्
अथ कथमद्वितीये ब्रह्मणि वेदान्तानां समन्वयः, प्रत्यक्षादिविरोधात् इति चेत्,
न आरम्भणाधिकरणोदाहृतश्रुतियुक्तिभिः प्रत्यक्षाद्यधिगम्यप्रपञ्चस्य ब्रह्मविवर्ततया मिथ्यात्वावगमात् ।
ननु - न श्रुतियुक्तिभिः प्रपञ्चस्य मिथ्यात्वं प्रत्याययितुं शक्यते, “घटः सन्” इत्यादिघटादिसत्त्वग्राहिप्रत्यक्षादिविरोधात्−
अत्राहुः तत्त्वशुद्धिकाराः− न प्रत्यक्षं घटपटादि तत्सत्त्वं वा गृह्णाति, किं तु अधिष्ठानत्वेन घटाद्यनुगतं सन्मात्रम् । तथा च प्रत्यक्षमपि सद्रूपब्रह्माद्वैतसिद्ध्यनुकूलमेव । तथा सति ‘सत्’ ‘सत्’ इत्येव प्रत्यक्षं स्यात्, न तु ‘घटः सन्’ इत्यादिप्रत्यक्षमिन्द्रियान्वयव्यतिरेकानुविधायि इति चेत् , न – यथा भ्रमेषु इदमंशस्याधिष्ठानस्य प्रत्यक्षेण ग्रहणम् , इन्द्रियान्वयव्यतिरेकयोः तत्रैवोपक्षयः, रजतांशस्य त्वारोपितस्य भ्रान्त्या प्रतिभासः, तथा सर्वत्र सन्मात्रस्य प्रत्यक्षेण ग्रहणम् , तत्रैवेन्द्रियव्यापारः, घटादिभेदवस्तुप्रतिभासो भ्रान्त्या, इत्यभ्युपगमात् । ननु तद्वदिह बाधादर्शनात् तथाभ्युपगम एव निर्मूल इति चेत् , न - बाधादर्शनेऽपि देशकालव्यवहितवस्तुवत् घटादिभेदवस्तुनः प्रत्यक्षायोग्यत्वस्यैव तत्र मूलत्वात् । तथाहि − इन्द्रियव्यापारानन्तरं प्रतीयमानो घटादिः सर्वतो भिन्न एव प्रतीयते, तदा तत्र घटादिभेदे संशयविपर्ययादिदर्शनात् । यत्रापि स्थाण्वादौ पुरुषत्वादिसंशयः तत्रापि तद्व्यतिरिक्तेभ्यो भेदोऽसन्दिग्धाविपर्यस्तत्वात् प्रकाशत एव । भेदस्य च प्रतियोगिसहोपलम्भनियमवतो न प्रत्यक्षेण ग्रहणं सम्भवति । देशकालव्यवधानेन असन्निकृष्टानामपि प्रतियोगिनां सम्भवात् । भेदज्ञानं प्रतियोग्यंशे संस्कारापेक्षणात् स्मृतिरूपमस्तु प्रत्यभिज्ञानमिव तत्तांशे इति चेत् , न तथापि भेदगतप्रतियोगिवैशिष्ट्यांशे तदभावात् । न च कनकाचलो भेदप्रतियोगी वस्तुत्वात् इति भेदे प्रतियोगिवैशिष्ट्यगोचरानुमित्या तत्संस्कारसम्भवः । भेदज्ञानं विना अनुमित्यभावेन (अनुमानप्रवृत्त्ययोगेन)आत्माश्रयापत्तेः । पक्षसाध्यहेतुसपक्षाद्यभेदभ्रमे सति सिद्धसाधनादिना अनुमानाप्रवृत्त्या तदभेदज्ञानविघटनाय तद्भेदज्ञानस्यापेक्षितत्वात् । अस्तु तर्हि भेदांश इव प्रतियोगिवैशिष्ट्यांशेऽपि प्रत्यक्षमिति चेत् , न - प्रतियोगिनोऽप्रत्यक्षत्वे तद्वैशिष्ट्यप्रत्यक्षायोगात् । सम्बन्धिद्वयप्रत्यक्षं विना सम्बन्धप्रत्यक्षासम्भवात् । तस्मात् प्रत्यक्षायोग्यस्य प्रतियोगिनो भ्रान्तिरूप एव प्रतिभास इति तदेकवित्तिवेद्यत्वनियतस्य भेदस्य भेदैकवित्तिवेद्यत्वनियतस्य घटादेश्च भ्रमैकविषयत्वात् प्रत्यक्षं निर्विशेषसन्मात्रग्राहि अद्वैतसिद्ध्यनुकूलमिति ।
न्यायसुधाकृतस्त्वाहुः− घटादेरैन्द्रियकत्वेऽपि ‘सन् घटः’ इत्यादिरधिष्ठानसत्तानुवेध इति न विरोधः । एवं नीलो घट इत्यादिरधिष्ठाननैल्यानुवेधः किं न स्यादिति चेत् , न श्रुत्या सद्रूपस्य वस्तुनो जगदुपादानत्वमुक्तम् अविरोधात् सर्वसम्मतमिति तदनुवेधेनैव ‘सन् घटः’ इत्यादिप्रतिभासोपपत्तौ घटादावपि सत्ताकल्पने गौरवम् , तस्य रूपादिहीनत्वान्नैल्यादिकं घटादावेव कल्पनीयमिति वैषम्यादिति ।
सङ्क्षेपशारीरकाचार्यास्त्वाहुः− प्रत्यक्षस्य घटादिसत्त्वग्राहित्वेऽपि पराग्विषयस्य प्रत्यक्षादेस्तत्त्वावेदकत्वलक्षणप्रामाण्याभावान्न तद्विरोधेनाद्वैतश्रुत्यादिबाधशङ्का । अज्ञातबोधकं हि प्रमाणम् । न च प्रत्यक्षादि विषयस्य घटादेरज्ञातत्वमस्ति , जडे आवरणकृत्याभावेन अज्ञानविषयत्वानुपगमात् । स्वप्रकाशतया प्रसक्तप्रकाशं ब्रह्मैव अज्ञानविषय इति तद्बोधकमेव तत्त्वावेदकं प्रमाणम् , तदेव प्रमितिविषयः । अत एव श्रुतिरपि ‘आत्मा वा अरे द्रष्टव्यः’ इत्यात्मन एव प्रमेयत्वमिति नियच्छति । न हि द्रष्टव्य इत्यनेन दर्शनं विधीयते, प्रमाणपरतन्त्रस्य तस्य विध्यगोचरत्वात् , किं तु ‘आत्मा दर्शनार्हः’ इति अज्ञातत्वादात्मन एव प्रमेयत्वमुचितं ,नान्यस्येति नियम्यते − इति ।
केचित्तु - घटादिसत्त्वग्राहिणः प्रत्यक्षस्य प्रामाण्ये ब्रह्मप्रमाणन्यूनतानवगमेऽपि तद्ग्राह्यं सत्त्वमनुगतप्रत्ययात् सत्ताजातिरूपं वा, इहेदानीं घटोऽस्तीति देशकालसम्बन्धप्रतीतेः तत्तद्देशकालसम्बन्धरूपं वा, ‘नास्ति घट’ इति स्वरूपनिषेधप्रतीतेर्घटादिस्वरूपं वा पर्यवस्यति । तच्च स्वमिथ्यात्वेन न विरुध्यते । न हि मिथ्यात्ववादिनापि घटादेः स्वरूपं वा तस्य देशकालसम्बन्धो वा तत्र जात्यादिकं वा नाभ्युपगम्यते, किं तु तेषामबाध्यत्वम् । न चाबाध्यत्वमेव सत्त्वं प्रत्यक्षग्राह्यमस्त्विति वाच्यम् । ‘कालत्रयेऽपि नास्य बाधः’ इति वर्तमानमात्रग्राहिणा प्रत्यक्षेण ग्रहीतुमशक्यत्वात् - इत्याहुः ।
अन्ये तु - अबाध्यत्वरूपसत्त्वस्य प्रत्यक्षग्राह्यत्वेऽपि ‘प्राणा वै सत्यं तेषामेष सत्यं’ इति श्रुत्या प्रधानभूतप्राणग्रहणोपलक्षितस्य कृत्स्नस्य प्रपञ्चस्य ब्रह्मणश्च सत्यत्वोत्कर्षापकर्षप्रतीतेः, सत्यत्वे चाबाध्यत्वरूपे सर्वदैवाबाध्यत्वं किञ्चित्कालमबाध्यत्वम् इत्येवंविधोत्कर्षापकर्षं विना राजराजो मन्मथमन्मथ इत्यादि शब्दतात्पर्यगोचरनियन्तृत्वसौन्दर्यादीनामिव भूयोविषयत्वाल्पविषयत्वादिरूपोत्कर्षापकर्षासम्भवात्, विधान्तरेण तत्सम्भवेऽपि प्रपञ्चस्य ब्रह्मज्ञानबाध्यत्वश्रुत्यन्तरैकार्थ्यात् उक्तोत्कर्षापकर्ष एव पर्यवसानाच्च, प्रत्यक्षग्राह्यं घटादिसत्त्वं यावद्ब्रह्मज्ञानमबाध्यत्वरूपमिति न मिथ्यात्वश्रुतिविरोधः− इत्याहुः ।
श्रुतेः प्रत्यक्षात्प्राबल्यप्रयोजकविचारः
अपरे तु - प्रपञ्चस्य मिथ्यात्वसत्यत्वग्राहिणोः श्रुतिप्रत्यक्षयोः विरोधेऽपि दोषशङ्काकलङ्कितात् प्रथमप्रवृत्तात् प्रत्यक्षात् निर्दोषत्वात् अपच्छेदन्यायेन परत्वाच्च श्रुतिरेव बलियसी । ‘प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम्’ इति स्मरणाच्च । न च वेदैकगम्यार्थविषयमिदं स्मरणम् । तत्र प्रत्यक्षविरोधशङ्काया अभावेन शङ्कितप्रत्यक्षविरोध एव वेदार्थे वेदस्य प्राबल्योक्त्यौचित्यात् । ‘तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव । न तलं विद्यते व्योम न खद्योतो हुताशनः ॥ तस्मात् प्रत्यक्षदृष्टेऽपि युक्तमर्थे परीक्षितुम् । परीक्ष्य ज्ञापयन्नर्थान् न धर्मात् परिहीयते’ ॥ इति नारदस्मृतौ साक्षिप्रकरणे प्रत्यक्षदृष्टस्यापि प्रत्यक्षमविश्वस्य प्रमाणोपदेशादिभिः परीक्षणीयत्वप्रतिपादनाच्च । न हि नभोनैल्यप्रत्यक्षं नभसः शब्दादिषु पञ्चसु शब्दैकगुणत्वप्रतिपादकागमोपदेशमन्तरेण प्रत्यक्षादिना शक्यमपवदितुम् । न च ‘नभसि समीपे नैल्यानुपलम्भात् दूरे तद्धीर्दूरत्वदोषजन्ये’ति निश्चयेन तद्बाधः । दूरे नैल्यादर्शनात् समीपे तदनुपलम्भस्तुहिनावकुण्ठनानुपलम्भवत्सामीप्यदोषजन्यः इत्यपि सम्भवात्, अनुभवबलात् नभोनैल्यमव्याप्यवृत्तीत्युपपत्तेश्च । नापि दूरस्थस्य पुंसो यत्र भूसन्निहिते नभःप्रदेशे नैल्यधीः, तत्रैव समीपं गतस्य नैल्यबुद्धेरभावप्रत्यक्षेण बाधः । उपरिस्थितस्यैव नैल्यस्याभ्रनक्षत्रादेरिव दूरत्वदोषात् भूसन्निधानावभास इत्युपपत्तेः । पृथिव्यादिषु सङ्कीर्णतया प्रतीयमानानां गन्धादीनाम् ‘उपलभ्याप्सु चेद्गन्धं केचिद्ब्रूयुरनैपुणाः । पृथिव्यामेव तं विद्यात् अपो वायुं च संश्रितम्’ ॥ (म.भा.शा.२३८-७८) इत्यादिभिरागमैरेव व्यवस्थाया वक्तव्यत्वेन प्रत्यक्षादागमप्राबल्यस्य निर्विशङ्कत्वाच्च । न हि आजानसिद्धजलोपष्टम्भादिगतं गन्धादि ‘पृथिवीगुण एव गन्धः, न जलादिगुणः’ इत्यादिरूपेण अस्मदादिभिः प्रत्यक्षेण शक्यं विवेचयितुम् । पृथव्यादीनां प्रायः परस्परसंसृष्टतया अन्यधर्मस्यान्यत्रावभासः सम्भाव्यत इति शङ्कितदोषं प्रत्यक्षम्, अतस्त(त्रा) (दा)गमेन शिक्ष्यते - इति चेत् , तर्हीहापि ब्रह्मप्रपञ्चयोः उपादानोपादेयभावेन परस्परसंसृष्टतया अन्यधर्मस्यान्यत्रावभासः सम्भव्यत इति शङ्कितदोषं प्रत्यक्षं ‘अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् । आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ॥’ (दृग्दृश्यविवेकः -२०) इति वृद्धोक्तप्रकारेणागमेन व्यवस्थाप्यतामिति तुल्यम् । न चैवमुपजीव्यविरोधः । आगमप्रमाणेन वर्णपदवाक्यादिस्वरूपांशप्रत्यक्षमुपजीव्य अनुपजीव्यतत्सत्यत्वांशोपमर्दनात् - इत्याहुः ।
ननु - आगमस्य प्रत्यक्षात् बलीयस्त्वे ‘यजमानः प्रस्तरः’ इत्यत्र प्रत्यक्षाविरोधाय यजमानशब्दस्य प्रस्तरे गौणी वृत्तिर्न कल्पनीया । तथा ‘सोमेन यजेत’ इत्यत्र, वैयधिकरण्येनान्वये यागे इष्टसाधनत्वं सोमलतायां यागसाधनत्वं च बोधनीयमिति व्यापारभेदेन वाक्यभेदापत्तेः सामानाधिकरण्येनान्वये वक्तव्ये, प्रत्यक्षाविरोधाय सोमवता यागेनेति मत्वर्थलक्षणा न कल्पनीया । उभयत्रापि सत्यपि प्रत्यक्षविरोधे तदनादृत्य आगमेन बलीयसा प्रस्तरे यजमानाभेदस्य यागे सोमाभेदस्य च सिद्धिसम्भवात् इति चेत् –
अत्रोक्तं भामतीनिबन्धे – तात्पर्यवती श्रुतिः प्रत्यक्षात् बलवती, न श्रुतिमात्रम् । मन्त्रार्थवादानां तु स्तुतिद्वारभूतेऽर्थे वाक्यार्थद्वारभूते पदार्थ इव न तात्पर्यम् । तात्पर्याभावे मानान्तराविरुद्धदेवताविग्रहादिकं न तेभ्यः सिद्ध्येत् तात्पर्यवत्येव शब्दस्य प्रामाण्यनियमात् इति चेत् , न− ‘एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेत’ (ता.ब्रा .१७ - ७ - १) इति विशिष्टविधेः तात्पर्यागोचरेऽपि विशेषणस्वरूपे प्रामाण्यदर्शनेन उक्तनियमासिद्धेः । अत्र हि रेवतीऋगाधारं वारवन्तीयं साम विशेषणम् । न चैतत् सोमादिविशेषणवल्लेकसिद्धम् । येन तद्विशिष्टयागविधिमात्रे प्रामाण्यं वाक्यस्य स्यात् । नापि विशिष्टविधिना विशेषणाक्षेपः । आक्षेपाद्विशेषणप्रतिपत्तौ विशिष्टगोचरो विधिः, तस्मिंश्च सति तेन विशेषणाक्षेपः, इति परस्पराश्रयापत्तेः । अतो विशिष्टविधिपरस्यैव वाक्यस्य विशेषणस्वरूपेऽपि प्रामाण्यं वक्तव्यम् । अथ च न तत्र तात्पर्यम् । उभयत्र तात्पर्ये वाक्यभेदापत्तेः । एवमर्थवादानामपि विधेयस्तुतिपराणां स्तुतिद्वारभूतेऽर्थे न तात्पर्यमिति तेभ्यः प्रत्यक्षस्यैव बलवत्त्वात् तदविरोधाय तेषु वृत्त्यन्तरकल्पनम् । ‘सोमेन यजेत’ इत्यत्र विशष्टविधिपरे वाक्ये सोमद्रव्याभिन्नयागरूपं विशिष्टं विधेयमित्युपगमे तस्य विधेयस्य ‘दध्ना जुहोति’ इत्यादौ विधेयस्य दध्यादेरिव लोकसिद्धत्वाभावेन विधिपराद्वाक्यादेव रेवत्याधारवारवन्तीयविशेषणस्येव विना तात्पर्यं सिद्धिरेष्टव्या । न हि तात्पर्यविरहितादागमाद्यागसोमलताभेदग्राहिप्रत्यक्षविरुद्धार्थः सिद्ध्यतीति तत्रापि तदविरोधाय मत्वर्थलक्षणाश्रयणम् । अद्वैतश्रुतिस्तु उपक्रमोपसंहारैकरूप्यादिषड्विधलिङ्गावगमिताद्वैततात्पर्या प्रत्यक्षाद्बलवतीति ततः प्रत्यक्षस्यैव बाधः, न तदविरोधाय श्रुतेरन्यथानयनमिति ।
विवरणवार्तिके तु प्रतिपादितं−
न तात्पर्यवत्त्वेन श्रुतेः प्रत्यक्षात् प्राबल्यम् । ‘कृष्णलं श्रपयेत्’ इति विधेः श्रपणस्य कृष्णलार्थत्वप्रतिपादने तात्पर्येऽपि कृष्णले रूपरसपरावृत्तिप्रादुर्भावपर्यन्तमुख्यश्रपणसम्बन्धः प्रत्यक्षविरुद्ध इति तदविरोधाय श्रपणशब्दस्य उष्णीकरणमात्रे लक्षणाभ्युपगमात् , ‘तत्त्वमसी’तिवाक्यस्य जीवब्रह्माभेदप्रतिपादने तात्पर्येऽपि त्वम्पदवाच्यस्य तत्पदवाच्याभेदः प्रत्यक्षविरुद्ध इति तदविरोधाय निष्कृष्टचैतन्ये लक्षणाभ्युपगमाच्च । अर्थवादानामपि प्रयाजाद्यङ्गविधिवाक्यानामिव स्वार्थप्रमितावनन्यार्थता, प्रमितानामेवार्थानां प्रयोजनवशादन्यार्थता, इति प्रयाजादिवाक्यवत्तेषामप्यवान्तरसंसर्गे तात्पर्यमस्त्येव, वाक्यैकवाक्यत्वात् , पदैकवाक्यतायामेव परम् अवान्तरतात्पर्यानभ्युपगमः− इति विवरणाचार्यैर्न्यायनिर्णये व्यवस्थापनेन ‘यजमानः प्रस्तरः’ इत्यादीनामपि मुख्यार्थतात्पर्यप्रसक्तौ प्रत्यक्षाविरोधायैव लक्षणाभ्युपगमाच्च ।
कथं तर्हि श्रुतेः प्राबल्यम् ? उच्यते− निर्दोषत्वात् परत्वाच्च श्रुतिमात्रस्य प्रत्यक्षात् प्राबल्यम् इत्युत्सर्गः । किं तु श्रुतिबाधितमपि प्रत्यक्षं कथञ्चित् स्वोचितविषयोपहारेण सम्भावनीयम् , निर्विषयज्ञानायोगात् । अत एव अद्वैतश्रुतिविरोधेन तत्त्वावेदनात् प्रच्यावितं प्रत्यक्षम् अर्थक्रियासमर्थव्यावहारिकविषयसमर्पणेनोपपाद्यते । किं बहुना−’नेदं रजतं’ इति सर्वसिद्धप्रत्यक्षबाधितमपि शुक्तिरजतप्रत्यक्षम् अनुभवानुरोधात् पुरोदेशे शुक्तिसम्भिन्नरजतोपगमेन समर्थ्यते, न तु तद्विरोधेन व्यवहितमान्तरमसदेव वा रजतं विषय इति परिकल्प्यते । एवं च प्रस्तरे यजमानभेदग्राहिणो यावद्ब्रह्मज्ञानमनुवर्तमानस्य प्रत्यक्षस्य अर्थक्रियासंवादेन प्रातिभासिकविषयत्वाभ्युपगमेनोपपादनायोगात् ‘यजमानः प्रस्तरः’ इति श्रुतिबाध्यत्वे सर्वथा निर्विषयत्वं स्यादिति तत्परिहाराय उत्सर्गमपोद्य श्रुतिरेव तत्सिद्ध्यधिकरणादि प्रतिपादितप्रकारेण अन्यथा नीयते । न च अद्वैतश्रुतिप्रत्यक्षयोरिव इह श्रुतिप्रत्यक्षयोस्तात्त्विकव्यावहारिकविषयत्वोपगमेन प्रत्यक्षोपपादनं कर्तुं शक्यम् । ब्रह्मातिरिक्तसकलमिथ्यात्वप्रतिपादकषड्विधतात्पर्यलिङ्गोपपन्नानेकश्रुतिविरुद्धेन एकेनार्थवादेन प्रस्तरे यजमानतादात्म्यस्य तात्त्विकस्य प्रतिपादनासम्भवात् । एवं तत्त्वमसिवाक्येन त्वम्पदवाच्यस्य सर्वज्ञत्वाभोक्तृत्वाकर्तृत्वादिविशिष्टब्रह्मस्वरूपत्वबोधने तत्र असर्वज्ञत्वभोक्तृत्वादिप्रत्यक्षमत्यन्तं निरालम्बनं स्यादिति, तत्परिहाराय अहङ्कारशबलितस्य भोक्तृत्वादि ततो निष्कृष्टस्य शुद्धस्य उदासीनब्रह्मस्वरूपत्वमिति व्यवस्थामाश्रित्य भागत्यागलक्षणा आश्रीयते । एवं ‘कृष्णलं श्रपयेत्’ इत्यादावपि प्रत्यक्षस्यात्यन्तनिर्विषयत्वप्रसक्तौ तत्परिहाराय श्रुतौ लक्षणा । कथञ्चिद्विषयोपपादनसम्भवे तु न प्रबलायाः श्रुतेरन्यथानयनमिति न कश्चिदप्यव्यवस्थाप्रसङ्गः ।
अथवा ‘कृष्णलं श्रपयेत्’, ‘सोमेन यजेत’ इत्यादौ न प्रत्यक्षानुरोधेन लक्षणाश्रयणम् , किं त्वनुष्ठानाशक्त्या । न हि कृष्णले उष्णीकरणमिव मुख्यः पाकोऽनुष्ठातुं शक्यते । न वा सोमद्रव्यकरणको याग इव तदभिन्नो यागः केनचिदनुष्ठातुं शक्यते । न चानुष्ठेयत्वाभिमतस्य प्रत्यक्षविरोध एव अनुष्ठानाशक्तिरिति शब्दान्तरेण व्यवह्रियत इति वाच्यम् । ‘शशिमण्डलं कान्तिमत् कुर्यात्’ इति विधौ अनुष्ठेयत्वाभिमतस्य शशिमण्डले कान्तिमत्त्वस्य प्रत्यक्षाविरोधेऽप्यनुष्ठानाशक्तिदर्शनेन तस्यास्ततो भिन्नत्वात् । तथा च तत्र तत एव लक्षणाश्रयणम् ।
तस्मात् अपच्छेदन्यायादिसिद्धस्य श्रुतिबलीयस्त्वस्य न कश्चित् बाध इति ।
अथ कथमत्रापच्छेदन्यायप्रवृत्तिः ? उच्यते − यथा ज्योतिष्टोमे बहिष्पवमानार्थं प्रसर्पताम् उद्गातुरपच्छेदे सति ‘यद्युद्गाताऽपच्छिद्येत अदक्षिणं तं यज्ञम् इष्ट्वा तेन पुनर्यजेत’ इति श्रुतिनिरीक्षणेन जाता उद्गात्रपच्छेदनिमित्त(प्रायश्चित्त)कर्तव्यताबुद्धिः पश्चात् प्रतिहर्त्रपच्छेदे सति ‘यदि प्रतिहर्तापच्छिद्येत सर्ववेदसं दद्यात्’ इति श्रुतिनिरीक्षणेन जातया तद्विरुद्धप्रतिहर्त्रपच्छेदनिमित्त(प्रायश्चित्त)कर्तव्यताबुद्ध्या बाध्यते । एवं पूर्वं घटादिसत्यत्वप्रत्यक्षं परया तन्मिथ्यात्वश्रुतिजन्यबुद्ध्या बाध्यते । न चोदाहृतस्थले पूर्वनैमित्तिककर्तव्यताबुद्धेः परनैमित्तिककर्तव्यताबुद्ध्या बाधेऽपि पूर्वनैमित्तिककर्तव्यताबुद्धिजनकं शास्त्रं यत्रोद्गातृमात्रापच्छेदः उभयोरपि युगपदपच्छेदो वा उद्गात्रपच्छेदस्य परत्वं वा, तत्र सावकाशम् , प्रत्यक्षं तु अद्वैतश्रुत्या बाधे विषयान्तराभावान्निरालम्बनं स्यादिति वैषम्यं − शङ्कनीयम् । यत्र घटादौ श्रुत्या बाध्यं प्रत्यक्षं प्रवर्तते तत्रैव व्यावहारिकं विषयं लब्ध्वा कृतार्थस्य तस्य परापच्छेदस्थले सर्वथा बाधितस्य पूर्वापच्छेदशास्त्रस्येव विषयान्तरान्वेषणाभावात् । इहापि सर्वप्रत्ययवेद्यब्रह्मसत्तायां सावकाशं प्रत्यक्षमिति वक्तुं शक्यत्वाच्च ।
यत्तु - एकस्मिन्नपि प्रयोगे क्रमिकाभ्यां निमित्ताभ्यां क्रतौ तत्तन्नैमित्तिककर्तव्यतयोर्बदरफले श्यामरक्तरूपयोरिव क्रमेणोत्पादात् रूपज्ञानद्वयवत् कर्तव्यताज्ञानद्वयमपि प्रमाणमेवेति न परेण पूर्वज्ञानबाधे अपच्क्षेदन्याय उदाहरणम् । अत एवापच्छेदाधिकरणे (पू. मी . ६-५-१९)‘नैमित्तिक(शस्त्राणां)(शास्त्रस्य) ह्ययमर्थः निमित्तोपजननात् प्रागन्यथाकर्तव्योऽपि क्रतुः निमित्ते सत्यन्यथाकर्तव्यः’ इति शास्त्रदीपिकावचानमिति , तन्न ; अङ्गस्य सतः कर्तव्यत्वम् । न च पश्चाद्भाविप्रतिहर्त्रपच्छेदवति क्रतौ पूर्ववृत्तोद्गात्रपच्छेदनिमित्तकस्य प्रायश्चित्तस्याङ्गत्वमस्ति । आहवनीयशास्त्रस्य पदहोमातिरिक्तहोमविषयत्ववद्‘यद्युद्गातावऽपच्छेद्येत’ इति शास्त्रस्य पश्चाद्भाविप्रतिहर्त्रपच्छेदरहितक्रतुविषयत्वात् । उक्तं हि न्यायरत्नमालायाम् - ‘साधारणस्य शास्त्रस्य विशेषविषयादिना । सङ्कोचः क्लृप्तरूपस्य प्राप्तबाधोऽभिधीयते ॥’ इत्युक्तलक्षणप्राप्तबाधविवेचने , “तत्रैवं सति शास्त्रार्थो भवति , पश्चाद्भाव्युद्गात्रपच्छेदविधुरप्रतिहर्त्रपच्छेदवतः क्रतोस्सर्ववेदसदानमङ्गम् , एवमुद्गात्रपच्छेदेऽपि द्रष्टव्यम्’ इति । यत्तु शास्त्रदीपिकावचनमुदाहृतम् , तदपि ‘तेनोत्पन्नमपि पूर्वप्रायश्चित्तज्ञानं मिथ्या भवति, बाधितत्वात् , उत्तरस्य तु न किञ्चिद्बाधकमस्ति’ इति पूर्वकर्तव्यताबाध्यत्वप्रतिपादकग्रन्थोपसंहारपठितत्वात् ‘निमित्तोपजननात्प्राक् निमित्तोपजननं विना निमित्तोपजननाभावे सति अन्यथा कर्तर्व्योऽपि’ इति कृत्वाचिन्तामात्रपरम् , न तु ‘उत्तरनिमित्तोपजननात्प्राक्पूर्वनैमित्तिककर्तव्यता वस्तुत आसीत्’ इत्येवम्परम् । पूर्वग्रन्थसन्दर्भविरोधापत्तेः ।
आस्तां मीमांसकमर्यादा । श्यामतदुत्तररक्तरूपन्यायेन क्रमिककर्तव्यताद्वयोत्पत्त्युपगमे को विरोधः । उच्यते − तथा हि − किं तत्कर्तव्यत्वम् , यत् परनैमित्तिककर्तव्यतोत्पत्त्या निवर्तेत । न तावत् पूर्वनैमित्तिकस्य कृतिसाध्यत्वयोग्यत्वम् । तस्य पश्चादप्यनपायात् । नापि फलमुखं कृतिसाध्यत्वम् । तस्य पूर्वमप्यजननात् । नापि यदननुष्ठाने क्रतोर्वैकल्यं तत्त्वम् , अङ्गत्वं वा । अननुष्ठाने क्रतुवैकल्यप्रयोजकत्वस्य नियमविशेषरूपत्वेन, कर्माङ्गत्वस्य फलोपकारितया सन्निपातितया वा कारणत्वविशेषरूपत्वेन च, तयोः कादाचित्कत्वायोगेन स्वाभाविकत्वनिर्वाहाय ‘पश्चाद्भाविविरुद्धापच्छेदाभाववतः क्रतोः पूर्वापच्छेदनैमित्तिकमङ्गं तत्रैव तदननुष्ठानं क्रतुवैकल्यप्रयोजकं’ इति विशेषणीयतया पाश्चात्त्यापच्छेदान्तरवति क्रतौ पूर्वापच्छेदनैमित्तिके क्रत्वङ्गत्वस्य तदनुष्ठाने क्रतुवैकल्यप्रयोजकत्वस्य वा पाश्चात्त्यापच्छेदोत्पत्तेः पूर्वमसम्भवात् । न हि − वस्तु किञ्चिद्वस्त्वन्तरं प्रति कञ्चित्कालं व्यप्यं पश्चान्नेति वा, कञ्चित्कालं कारणं पश्चान्नेति वा, क्वचिद्दृष्टं युक्तं वा । नापि कर्तव्यत्वं नाम धर्मान्तरमेव आगमापाययोग्यं कल्प्यम् । मानाभावात् , विरुद्धापच्छेदशास्त्रयोः पदाहवनीयशास्त्रवद्व्यवस्थोपपत्तेः । तस्मात् निरालम्बनं क्रमिककर्तव्यताद्वयोत्पत्तिवचः ।
ननु चोपक्रमाधिकरणन्यायेन असञ्जातविरोधित्वात् प्रत्यक्षमेव आगमात् बलीयः किं न स्यात् ।
उच्यते − यत्रैकवाक्यता प्रतीयते तत्रैकस्मिन्नेवार्थे पर्यवसानेन भाव्यम् , अर्थभेदे प्रतितैकवाक्यताभङ्गप्रसङ्गात् । अतस्तत्र प्रथमसञ्जातप्रतिपक्षेण ‘प्रजापतिर्वरुणायाश्वमनयत्’ (तै.सं. २-३-१२) इत्याद्युपक्रमेण परकृतिसरूपार्थवादेन दातुरिष्टौ बुद्धिमधिरोपितायां तद्विरुद्धार्थं ‘यावतोऽश्वान् प्रतिगृह्णीयात्तावतो वारुणान् चतुष्कपालान्निर्वपेत्’ इत्युपसंहारगतपदजातम् उपजातप्रतिपक्षत्वात् यथाश्रुतार्थसमर्पणेन तदेकवाक्यतामप्रतिपद्यमानम् एकवाक्यतानिर्वाहाय णिजर्थमन्तर्भाव्य तदानुगुण्येनैवात्मानं लभत इति उपक्रमस्य प्राबल्यम् । यत्र तु परस्परमेकवाक्यता न प्रतीयते तत्र पूर्ववृत्तमविगणय्य लब्धात्मकं विरुद्धार्थकं वाक्यं स्वार्थं बोधयत्येवेति न तत्र पूर्ववृत्तस्य प्राबल्यम् । अत एव षोडशिग्रहणवाक्यं पूर्ववृत्तमविगणय्य तदग्रहणवाक्यस्यापि स्वार्थबोधकत्वमुपेयते । किन्तु उभयोर्विषयान्तराभावात् अगत्या तत्रैव विकल्पानुष्ठानमिष्यते । एवं च अद्वैतागमस्य प्रत्यक्षेणैकवाक्यत्वशङ्काभावात् पूर्ववृत्तमपि तदविगणय्य स्वार्थबोधकत्वमप्रतिहतम् । तदर्थबोधजनने च ‘पूर्वं परमजातत्वादबाधित्वैव जायते । परस्यानन्यथोत्पादात् नाद्याबाधेन सम्भवः ॥’ (तन्त्रवा ३-३-१४) इत्यपच्छेदन्यायस्यैव प्रवृत्तिः, नोपक्रमन्यायस्य । अत एव लोकेऽपि प्रथमप्रवृत्तं शुक्तिरूप्यप्रत्यक्षम् आप्तोपदेशेन बाध्यते इति ।
प्रपञ्चमिथ्यात्वश्रुतेः उपजीव्यप्रत्यक्षविरोध परिहारः
ननु−तथाप्युपजीव्यत्वेन प्रत्यक्षस्यैव प्राबल्यं दुर्वारम् । अपच्छेदशास्त्रयोर्हि न पूर्वं परस्योपजीव्यमिति युक्तः परेण पूर्वस्य बाधः । इह तु वर्णपदादिस्वरूपग्राहकतया मिथ्यात्वबोधकागमं प्रति प्रत्यक्षस्योपजीव्यत्वात् आगमस्यैव तद्विरुद्धमिथ्यात्वाबोधकत्वरूपो बाधो युज्यते । न च मिथ्यात्वश्रुत्या वर्णपदादिसत्यत्वांशोपमर्देऽपि उपजीव्यस्वरूपांशोपमर्दाभावात् नोपजीव्यविरोध इति वाच्यम् । ‘नेह नानास्ति किञ्चन’ (क. उ. २ । ४ । ११) इत्यादिश्रुतिभिः स्वरूपेणैव प्रपञ्चाभावबोधनात् ।
अत्र केचिदाहुः − वृषमानयेत्यादिवाक्यं श्रवणदोषात् वृषभमानयेत्यादिरूपेण शृण्वतोऽपि शाब्दप्रमितिदर्शनेन शाब्दप्रमितौ वर्णपदादिप्रत्यक्षं प्रमाभ्रमसाधारणमेवापेक्षितमिति अद्वैतागमेन वर्णपदादिप्रत्यक्षमात्रमुपजीव्यं न तत्प्रमा । तथा च वर्णपदादिस्वरूपोपमर्देऽपि नोपजीव्यविरोध इति ।
अन्ये त्वाहु: − शाब्दप्रमितौ वर्णपदादिस्वरूपसिद्ध्यनपेक्षायामपि अयोग्यशब्दात् प्रमित्यनुदयात् योग्यतास्वरूपसिद्ध्यपेक्षाऽस्ति । तदपेक्षायामपि नोपजीव्यविरोधः । ‘नेह नानास्ति’ इति श्रुत्या निषेधेऽपि यावद्ब्रह्मज्ञानमनुवर्तमानस्यार्थक्रियासंवादिनोऽसद्विलक्षणप्रपञ्चस्वरूपस्याङ्गीकारात् । अन्यथा प्रत्यक्षादीनां व्यावहारिकप्रमाणानां निर्विषयत्वप्रसङ्गात् । न च −स्वरूपेण निषेधेऽपि कथं प्रपञ्चस्वरूपस्यात्मलाभः , निषेधस्य प्रतियोग्यप्रतिक्षेपरूपत्वे व्याघातात् - इति वाच्यम् । शुक्तौ ‘इदं रजतं’ ‘नेदं रजतं’ इति प्रतीतिद्वयानुरोधेन अधिष्ठानगताध्यस्ताभावस्य बाधपर्यन्तानुवृत्तिकासद्विलक्षणप्रतियोगिस्वरूपसहिष्णुत्वाभ्युपगमात् । एतेन प्रपञ्चस्य स्वरूपेण निषेधे शशशृङ्गवदसत्त्वमेव स्यादिति निरस्तम् । ब्रह्मज्ञाननिवर्त्यस्वरूपाङ्गीकारेण वैषम्यात् । न च अस्याध्यस्तस्य अधिष्ठाने स्परूपेण निषेधे अन्यत्र तस्य स्वरूपेण निषेधः स्वतस्सिद्ध इति तस्य सर्वदेशकालसम्बन्धिनिषेधप्रतियोगित्वापत्त्या असत्त्वं दुर्वारम् । ‘सर्वदेशकालसम्बन्धिनिषेधप्रतियोगित्वमसत्त्वं’ इत्येवासत्त्वनिर्वचनात् , विधान्तरेण तन्निर्वचनायोगादिति−वाच्यम् । असतः सर्वदेशकालसम्बन्धिनिषेधप्रतियोगित्वमुपगच्छता तस्य तथात्वे, प्रत्यक्षस्य सर्वदेशकालयोः प्रत्यक्षीकरणायोगेन आगमस्य तादृशागमानुपलम्भेन च प्रमाणयितुमशक्यतया, अनुमानमेव प्रमाणयितव्यमिति तदनुमाने यत् सद्व्यावृत्तं लिङ्गं वाच्यं तस्यैव प्रथमप्रतीतस्य असत्त्वनिर्वचनत्वोपपत्ते: − इति ।
अपरे तु−नेह नानास्तीति श्रुतेः सत्यत्वेन प्रपञ्चनिषेध एव तात्पर्यं न स्वरूपेण । स्वरूपेण निषेधस्य स्वरूपाप्रतिक्षेपकत्वे तस्य तन्निषेधत्वायोगात् । तत्प्रतिक्षेपकत्वे प्रत्यक्षविरोधात् । न च सत्यत्वस्यापि ‘सन् घटः’ इत्यादिप्रत्यक्षसिद्धत्वात् न तेनापि रूपेण निषेधो युक्त इति वाच्यम् । प्रत्यक्षस्य श्रुत्यविरोधाय सत्यत्वाभासरूपव्यावहारिकसत्यत्वविषयत्वोपपत्तेः । न चैवं सति पारमार्थिकसत्यत्वस्य ब्रह्मगतस्य प्रपञ्चे प्रसक्त्यभावात् तेन रूपेण प्रपञ्चनिषेधानुपपत्तिः । यथा शुक्तौ रजताभासप्रतीतिरेव सत्यरजतप्रसक्तिरिति तन्निषेधः, अत एव ‘नेदं रजतं किं तु तत्’ ‘नेयं मदीया गौः किं तु सैव’ ‘नात्र वर्तमानश्चैत्रः किं त्वपवरके’ इति निषिध्यमानस्यान्यत्र सत्त्वमवगम्यते ; एवं सत्यत्वाभासप्रतीतिरेव सत्यत्वप्रसक्तिरिति तन्निषेधोपपत्तेः । अतो वर्णपदयोग्यतादिस्वरूपोपमर्दशङ्काभावान्नोपजीव्यविरोध इत्याहु: ।
अन्ये तु - ब्रह्मणि पारमार्थिकसत्यत्वम् , प्रपञ्चे व्यावहारिकसत्यत्वं सत्यत्वाभासरूपम् , शुक्तिरजतादौ प्रातिभासिकसत्यत्वं ततोऽपि निकृष्टम् , इति सत्तात्रैविध्यं नोपेयते । अधिष्ठानब्रह्मगतपारमार्थिकसत्तानुवेधादेव घटादौ शुक्तिरजतादौ च सत्त्वाभिमानोपपत्त्या सत्यत्वाभासकल्पनस्य निष्प्रमाणकत्वात् । एवं च प्रपञ्चे सत्यत्वप्रतीत्यभावात् तत्तादात्म्यापन्ने ब्रह्मणि तत्प्रतीतेरेव अविवेकेन प्रपञ्चे तत्प्रसक्तित्वोपपत्तेश्च सत्यत्वेन प्रपञ्चनिषेधे नोपजीव्यविरोधः, न वा अप्रसक्तनेषेधनम् । न च ब्रह्मगतपारमार्थिकसत्तातिरेकेण प्रपञ्चे सत्त्वाभासानुपगमे व्यवहितसत्यरजतातिरेकेण शुक्तौ रजताभासोत्पत्तिः किमर्थमुपेयत इति वाच्यम् । व्यवहितस्यासन्निकृष्टस्यापरोक्ष्यासम्भवात् तन्निर्वाहाय तदुपगमात् इत्याहुः ।
प्रतिबिम्बस्य बिम्बभेदाभेदाभ्यां मिथ्यात्वसत्यत्वविचारः
नन्वेवं प्रतिबिम्बभ्रमस्थलेऽपि ग्रीवास्थमुखातिरेकेण दर्पणे मुखाभासोत्पत्तिरुपेया स्यात् । स्वकीये ग्रीवास्थमुखे नासाद्यवच्छिन्नप्रदेशापरोक्ष्यसम्भवेऽपि नयनगोलकललाटादिप्रदेशापरोक्ष्ययोगात् , प्रतिबिम्बभ्रमे नयनगोलकादिप्रदेशापरोक्ष्यदर्शनाच्च । न च बिम्बातिरिक्तप्रतिबम्बाभ्युपगमे इष्टापत्तिः । ब्रह्मप्रतिबिम्बजीवस्यापि ततो भेदेन मिथ्यात्वापत्तेः ।
अत्र विवरणानुसारिणः प्राहुः− ग्रीवास्थ एव मुखे दर्पणोपाधिसन्निधानदोषात् दर्पणस्थत्वप्रत्यङ्मुखत्वबिम्बभेदानामध्याससम्भवेन न दर्पणे मुखस्याप्यध्यासः कल्पनीयः , गौरवात् । ‘दर्पणे मुखं नास्ति’ इति संसर्गमात्रबाधात् । मिथ्यावस्त्वन्तरत्वे ‘नेदं मुखं’ इति स्वरूपबाधापत्तेः । ‘दर्पणे मम मुखं भाति‘ इति स्वमुखाभेदप्रत्यभिज्ञानाच्च । न च ग्रीवास्थमुखस्याधिष्ठानस्यापरोक्ष्यासम्भवः । उपाधिप्रतिहतनयनरश्मीनां परावृत्य बिम्बग्राहित्वनियमाभ्युपगमात् । तन्नियमानभ्युपगमे परमाणोः कुड्यादिव्यवहितस्थूलस्यापि चाक्षुषप्रतिबिम्बभ्रमप्रसङ्गात् । न चाव्यवहितस्थूलोद्भूतरूपवत एव चाक्षुषप्रतिबिम्बभ्रमः नान्यस्येति नियम इति वाच्यम् । बिम्बस्थौल्योद्भूतरूपयोः क्लृप्तेन चाक्षुषज्ञानजननेन उपयोगसम्भवे विधान्तरेणोपयोगकल्पनानुपपत्तेः । कुड्यादिव्यवधानस्य प्रतिहतनयनरश्मिसम्बन्धविघटनं विनैव इह प्रतिबन्धकत्वे तथैव घटप्रत्यक्षादिस्थलेऽपि तस्य प्रतिबन्धकत्वसम्भवेन चक्षुःसन्निकर्षमात्रस्य कारणत्वविलोपप्रसङ्गाच्च, दर्पणे मिथ्यामुखाध्यासवादिनापि कारणत्रयान्तर्गतसंस्कारसिद्ध्यर्थं नयनरश्मीनां कदाचित् परावृत्त्य स्वमुखग्राहकत्वकल्पनयैव पूर्वानुभवस्य समर्थनीयत्वाच्च । न च नासादिप्रदेशावच्छिन्नपूर्वानुभवादेव संस्कारोपपत्तिः । तावता नयनगोलकादिप्रतिबिम्बाध्यासानुपपत्तेः, तटाकसलिले तटविटपिसमारूढादृष्टचरपुरुषप्रतिबिम्बाध्यासस्थले कथमपि पूर्वानुभवस्य दुर्वचत्वाच्च । एवं च उपाधिप्रतिहतनयनरश्मीनां बिम्बं प्राप्य तद्ग्राहकत्वेऽवश्यं वक्तव्ये फलबलात् - दर्पणाद्यभिहतानामेव बिम्बं प्राप्यतद्ग्राहकत्वम् , न शिलादिप्रतिहतानाम् , अनतिस्वच्छताम्रादिप्रतिहतानां मलिनोपाधिसम्बन्धदोषात् मुखादिसंस्थानविशेषाग्राहकत्वम् , साक्षात्सूर्यं प्रेप्सूनामिव उपाधिं प्राप्य निवृत्तानां न तथा सौरतेजसा प्रतिहतिरिति न प्रतिबिम्बसूर्यावलोकने साक्षात्तदवलोकन इव अशक्यत्वम् , जलाद्युपाधिसन्निकर्षे केषाञ्चित् उपाधिप्रतिहतानां बिम्बप्राप्तावपि केषाञ्चित् तदन्तर्गमनेनान्तरसिकतादिग्रहणं - इत्यादिकल्पनान्न कश्चिद्दोष इति ।
अद्वैतविद्याकृतस्तु प्रतिबिम्बस्य मिथ्यात्वमभ्युपगच्छतां त्रिविधजीववादिनां विद्यारण्यगुरुप्रभृतीनामभिप्रायमेवमाहु: − चैत्रमुखात् भेदेन तत्सदृशत्वेन च पार्श्वस्थैः स्पष्टं निरीक्ष्यमाणं दर्पणे तत्प्रतिबिम्बं ततो भिन्नं स्वरूपतो मिथ्यैव, स्वकरगतादिव रजतात् शुक्तिरजतम् । न च ‘दर्पणे मम मुखं भाति’ इति बिम्बाभेदज्ञानविरोधः । स्पष्टभेदद्वित्वप्रत्यङ्मुखत्वादिज्ञानविरोधेन अभेदज्ञानासम्भवात् , ‘दर्पणे मम मुखं’ इति व्यपदेशस्य स्वच्छायां मुखे स्वमुखव्यपदेशवत् गौणत्वाच्च । न च अभेदज्ञानविरोधात् भेदव्यपदेश एव गौणः किं न स्यादिति शङ्क्यम् । बालानां प्रतिबिम्बे पुरुषान्तरभ्रमस्य हानोपादित्साद्यर्थक्रियापर्यन्तस्य अपलपितुमशक्यत्वात् । न च प्रेक्षावतामपि स्वमुखविशेषपरिज्ञानाय दर्पणाद्युपादानदर्शनात् अभेदज्ञानमप्यर्थक्रियापर्यन्तमिति वाच्यम् । भेदेऽपि प्रतिबिम्बस्य बिम्बसमानाकारत्वनियमविशेषपरिज्ञानादेव तदुपादानोपपत्तेः । यत्तु - नात्र मुखमिति दर्पणे मुखसंसर्गमात्रस्य बाधः, न मुखस्येति , तन्न - ‘नेदं रजतमि’त्यत्रापि इदमर्थे रजततादात्म्यमात्रस्य बाधो न रजतस्येत्यापत्तेः । यदि च इदमंशे रजतस्य तादात्म्येनाध्यासात् नेदं रजतमिति तादात्म्येन रजतस्यैव बाधः न तादात्म्यमात्रस्य, तदा दर्पणे मुखस्य संसर्गितयाऽध्यासात् नात्रमुखमिति संसर्गितया मुखस्यैव बाधः न संसर्गमात्रस्येति तुल्यम् । यत्तु धर्मिणोऽप्यध्यासकल्पने गौरवमिति, तद्रजताभासकल्पनागौरववत् प्रामाणिकत्वान्न दोषः । स्वनेत्रगोलकादिप्रतिबिम्बभ्रमस्थले बिम्बापरोक्ष्यकल्पनोपायाभावात् । नयनरश्मीनामुपाधिप्रतिहतानां बिम्बप्राप्तिकल्पने हि दृष्टविरुद्धं बह्वापद्यते । कथं जलसन्निकर्षे केषुचिन्नयनरश्मिषु अप्रतिहतमन्तर्गच्छत्सु अन्ये जलसम्बन्धेनापि प्रतिहन्यमाना नितान्तमृदवः सकलनयनरश्मिप्रतिघातिनं किरणसमूहं निर्जित्य तन्मध्यगतं सूर्यमण्डलं प्रविशेयुः । कथं च चन्द्रावलोकन इव तत्प्रतिबिम्बावलोकनेऽपि अमृतशीतलतद्बिम्बसन्निकर्षाविशेषे लोचनयोः शैत्याभिव्यक्त्या आप्यायनं न स्यात् । कथं च जलसम्बन्धेनापि प्रतिहन्यमानाः शिलादिसम्बन्धेन न प्रतिहन्येरन् , तत्प्रतिहत्या परावृत्तौ वा नयनगोलकादिभिर्न संसृज्येरन् , तत्संसर्गे वा संसृष्टं न साक्षात्कारयेयुः । दोषेणापि हि विशेषांशग्रहणमात्रं प्रतिबध्यमानं दृश्यते, न तु सन्निकृष्टधर्मिस्वरूपग्रहणमपि । प्रतिमुखाध्यासपक्षे तु न किञ्चिद्दृष्टविरुद्धं कल्पनीयम् । तथा हि - अव्यवहितस्थूलोद्भूतरूपस्यैव चाक्षुषाध्यासदर्शनात् बिम्बगतस्थौल्योद्भूतरूपयोः स्वाश्रयसाक्षात्कारकारणत्वेन क्लृप्तयोः स्वाश्रयप्रतिबिम्बाध्यासेऽपि कारणत्वम् , कुड्याद्यावरणद्रव्यस्य त्वगिन्द्रियन्यायेन प्राप्यकारितयावगतनयनसन्निकर्षविघटनद्वारा व्यवहितवस्तुसाक्षात्कारप्रतिबन्धकत्वेन क्लृप्तस्य व्यवहितप्रतिबिम्बाध्यासेऽपि विनैव द्वारान्तरं प्रतिबन्धकत्वं च कल्पनीयम् । तत्र को विरोधः क्वचित्कारणत्वादिना क्लृप्तस्य फलबलादन्यत्रापि कारणत्वादिकल्पने । एतेन− उपाधिप्रतिहतनयनरश्मीनां बिम्बप्राप्त्यनुगमने व्यवहितस्योद्भूतरूपादिरहितस्य च चाक्षुषप्रतिबिम्बभ्रमप्रसङ्ग इति−निरस्तम् । किं च तदुपगम एव उक्तदूषणप्रसङ्गः । कथम् ? साक्षात् सूर्यावलोकन इव विनापि चक्षुर्विक्षेपम् अवनतमौलिना निरीक्ष्यमाणे सलिले तत्प्रतिहतानां नयनरश्मीनामूर्ध्वमुत्प्लुत्य बिम्बसूर्यग्राहकत्ववत् तिर्यक्चक्षुर्विक्षेपं विना ऋजुचक्षुषा दर्पणे विलोक्यमाने तत्प्रतिहतानां पर्श्वस्थमुखग्राहकत्ववच्च वदनसाचीकरणाभावेऽप्युपाधिप्रतिहतानां पृष्ठभागव्यवहितग्राहकत्वं तावत् दुर्वारम् । उपाधिप्रतिहतनयनरश्मीनां प्रतिनिवृत्तिनियमं विहाय यत्र बिम्बं तत्रैव गमनोपगमात् । तथा मलिनदर्पणे श्यामतया गौरमुखप्रतिबिम्बस्थले विद्यमानस्यापि बिम्बगतगौररूपस्य चाक्षुषज्ञानेऽनुपयोगितया पीतशङ्खभ्रमन्यायेनारोप्यरूपवैशिष्ट्येनैव बिम्बमुखस्य चाक्षुषत्वं निर्वाह्यमिति तथैव नीरूपस्यापि दर्पणोपाधिश्यामत्ववैशिष्ट्येन चाक्षुषप्रतिबिम्बभ्रमविषयत्वमपि दुर्वारम् । स्वतो नीरूपस्यापि नभसोऽध्यस्तनैल्यवैशिष्ट्येन चाक्षुषत्वसम्प्रतिपत्तेः । तस्मात् स्वरूपतः प्रतिमुखाध्यासपक्ष एव श्रेयन् । न च तत्रापि पूर्वानुभवसंस्कारदौर्घट्यम् । पुरुषसामान्यानुभवसंस्कारमात्रेण स्वप्नेष्वदृष्टचरपुरुषाध्यासवत् मुखसामान्यानुभवसंस्कारमात्रेण दर्पणेषु मुखविशेषाध्यासोपपत्तेः । इयांस्तु भेदः− स्वप्नेषु शुभाशुभहेत्वदृष्टानुरोधेन पुरुषाकृतिविशेषाध्यासः, इह तु बिम्बसन्निधानानुरोधेन मुखाकृतिविशेषाध्यास इति । न च प्रतिबिम्बस्य स्वरूपतो मिथ्यात्वे ब्रह्मप्रतिबिम्बजीवस्यापि मिथ्यात्वापत्तिर्दोषः । प्रतिबिम्बजीवस्य तथात्वेऽपि अवच्छिन्नजीवस्य सत्यतया मुक्तिभाक्त्वोपपत्तेरिति ।
यत्तु प्रतिबिम्बं दर्पणादिषु मुखच्छायाविशेषरूपतया सत्यमेवेति कस्यचिन्मतं, तन्न । छाया हि नाम शरीरादेः शरीरतदवयवैः आलोके कियद्देशव्यापिनि निरुद्धे तत्र देशे लब्धात्मकं तम एव । न च मौक्तिकमाणिक्यादिप्रतिबिम्बस्य तमोविरुद्धसितलोहितादिरूपवतः तमोरूपच्छायात्वं यक्तम् , न वा तमोरूपच्छायारहिततपनादिप्रतिबिम्बस्य तथात्वमुपपन्नम् । ननु - तर्हि प्रतिबिम्बरूपच्छायायाः तमोरूपत्वासम्भवे द्रव्यान्तरत्वमस्तु , क्लृप्तद्रव्यानन्तर्भावे तमोवत् द्रव्यान्तरत्वकल्पनोपपत्तेरिति चेत् , तत् किं द्रव्यान्तरं प्रतीयमानरूपपरिमाणसंस्थानविशेषप्रत्यङ्मुखत्वादिधर्मयुक्तं तद्रहितं वा स्यात् । अन्त्ये न तेन द्रव्यान्तरेण रूपविशेषादिघटितप्रतिबिम्बोपलम्भनिर्वाह इति व्यर्थं तत्कल्पनम् । प्रथमे तु कथम् एकस्मिन्नल्पपरिमाणे युगपदसङ्कीर्णतया प्रतीयमानानां महापरिमाणानामनेकमुखप्रतिबिम्बानां सत्यतानिर्वाहः । कथं च निबिडावयवानुस्यूते दर्पणे तथैवावतिष्ठमाने तदन्तः हनुनासिकाद्यनेकनिम्नोन्नतप्रदेशवतो द्रव्यान्तरस्योत्पत्तिः । किं च सितपीतरक्ताद्यनेकवर्णादिमतः प्रतिबिम्बस्योत्पत्तौ दर्पणमध्ये स्थितं तत्सन्निहितं न तादृशं कारणमस्ति । यद्युच्येत − ‘उपाधिमध्यविश्रान्तियोग्यपरिमाणानामेव प्रतिबिम्बानां महापरिमाणज्ञानं तादृशनिम्नोन्नतादिज्ञानं च भ्रम एव । यथापूर्वं दर्पणतदवयवावस्थानाविरोधेन तादृक्प्रतिबिम्बोत्पादनसमर्थं च किञ्चित् कारणं कल्प्यमि’ति । तर्हि शुक्तिरजतमपि सत्यमस्तु । तत्रापि शुक्तौ यथापूर्वं स्थितायामेव तत्तादात्म्यापन्नरजतोत्पादनसमर्थं किञ्चित्कारणं परिकल्प्य तस्य रजतस्य दोषत्वाभिमतकारणसहकृतेन्द्रियग्राह्यत्वनियमवर्णनोपपत्तेः किं शुक्तिरजतमसत्यं प्रतिबिम्बः सत्य इत्यर्धजरतीयन्यायेन । न च तथासति रजतमितिदृश्यमानायाः शुक्तेः अग्नौ प्रक्षेपे रजतवत् द्रवीभावापत्तिः । अनलकस्तूरिकादिप्रतिबिम्बस्यौष्ण्यसौरभ्यादिराहित्यवत् शुक्तिरजतस्य द्रवीभावयोग्यताराहित्योपपत्तेः । अथोच्येत – ‘नेदं रजतं’ ‘मिथ्यैव रजतमभात्’ इति सर्वसम्प्रतिपन्नबाधात् न शुक्तिरजतं सत्यमिति, तर्हि ‘दर्पणे मुखं नास्ति मिथ्यैवात्र दर्पणे मुखमभात्’ इत्यादि सर्वसिद्धबाधात् प्रतिबिम्बमप्यसत्यमित्येव युक्तम् । तस्मादसङ्गतः प्रतिबिम्बसत्यत्ववादः ॥
ननु तन्मिथ्यात्ववादोऽप्ययुक्तः । शुक्तिरजत इव कस्यचिदन्वयव्यतिरेकशालिनः कारणस्याज्ञानस्य निवर्तकस्य ज्ञानस्य चानिरूपणात् ।
अत्र केचित् – यद्यपि सर्वात्मनाऽधिष्ठानज्ञानानन्तरमपि जायमाने प्रतिबिम्बाध्यासे नाधिष्ठानावरणमज्ञानमुपादानं न वाऽधिष्ठानविशेषांशज्ञानं निवर्तकम् , तथाऽपि अधिष्ठानाज्ञानस्य आवरणशक्त्यंशेन निवृत्तावपि विक्षेपशक्त्यंशेनानुवृत्तिसम्भवात् तदेवोपादानम् । बिम्बोपाधिसन्निधिनिवृत्तिसचिवं चाधिष्ठानज्ञानं सोपादानस्य तस्य निवर्तकम् इति ।
अन्ये तु−ज्ञानस्य विक्षेपशक्त्यंशं विहाय आवरणशक्त्यंशमात्रनिवर्तकत्वं न स्वाभाविकम् । ब्रह्मज्ञानेन मूलाज्ञानस्य शुक्त्यादिज्ञानेनावस्थाज्ञानस्य च आवरणशक्त्यंशमात्रनिवृत्तौ तस्य विक्षेपशक्त्या सर्वदा अनुवृत्तिप्रसङ्गात् । न च विम्बोपाधिसन्निधिरूपविक्षेपशक्त्यंशनिवृत्तिप्रतिबन्धकप्रयुक्तं तत् । बिम्बोपाधिसन्निधानात् प्रागेव बिम्बे चैत्रमुखे दर्पणसंसर्गाद्यभावे दर्पणे चैत्रमुखाभावे वा प्रत्यक्षतोऽवगम्यमाने विक्षेपशक्त्यंशस्यापि निवृत्त्यवश्यम्भावेन तत्काले तयोस्सन्निधाने सति उपादानाभावेन प्रतिबिम्बभ्रमाभावप्रसङ्गात् । अतो मूलाज्ञानमेव प्रतिबिम्बाध्यासस्योपादानम् । न चात्राप्युक्तदोषतौल्यम् । पराग्विषयवृत्तिपरिणामानां स्वस्वविषयावच्छिन्नचैतन्यप्रदेशे मूलाज्ञानावरणशक्त्यंशाभिभावकत्वेऽपि तदीयविक्षेपशक्त्यंशानिवर्तकत्वात् । अन्यथा तत्प्रदेशस्थितव्यावहारिकविक्षेपाणामपि विलयापत्तेः । न च प्रतिबिम्बस्य मूलाज्ञानकार्यत्वे व्यावहारिकत्वापत्तिः । अविद्यातिरिक्तदोषाजन्यत्वस्य व्यवहारिकत्वप्रयोजकत्वात् , प्रकृते च तदतिरिक्तबिम्बोपाधिसन्निधानदोषसद्भावेन प्रातिभासिकत्वोपपत्तेः । न च −एवं सति बिम्बोपाधिसन्निधिनिवृत्तिसहकृतस्याप्यधिष्ठानज्ञानस्य प्रतिबिम्बाध्यासानिवर्तकत्वप्रसङ्गः, तन्मूलाज्ञाननिवर्तकत्वाभावात् − इति वाच्यम् , विरोधाभावात् । ब्रह्माज्ञाननिवर्तकत्वेपि तदुपादानकप्रतिबिम्बाध्यासविरोधिविषयकतया अधिष्ठानयाथात्म्यज्ञानस्य प्रतिबन्धकविरहसचिवस्य तन्निवर्तकत्वोपपत्तेः । अवस्थाज्ञानोपादानत्वपक्षेऽपि तस्य प्राचीनाधिष्ठानज्ञाननिवर्तितावरणशक्तिकस्य समानविषयत्वभङ्गेन प्रतिबन्धकाभावकालीनाधिष्ठानज्ञानेन निवर्तयितुमशक्यतया प्रतिबिम्बाध्यासमात्रस्यैव तन्निवर्त्यत्वस्योपेयत्वात् । अथवा स्वोपादानाज्ञाननिवर्तकब्रह्मज्ञाननिवर्त्य एवायमध्यासोऽस्तु । व्यावहारिकत्वापत्तिस्तु अविद्यातिरिक्तदोषजन्यत्वेन प्रत्युक्ता – इत्याहुः ।
स्वप्नाध्यासाधिष्ठानसत्तादिविचारः
एवं स्वप्नाध्यासस्यापि अनवच्छिन्नचैतन्ये अहङ्कारोपहितचैतन्ये वा अवस्थारूपाज्ञानशून्येऽध्यासात् ‘सुषुप्त्याख्यं तमोऽज्ञानं बीजं स्वप्नप्रबोधयोः’(उ. सा. १७ । २६) इति आचार्याणां स्वप्नजाग्रत्प्रपञ्चयोरेकाज्ञानकार्यत्वोक्तेश्च मूलाज्ञानकार्यतया स्वोपादाननिवर्तकब्रह्मज्ञानैकबाध्यस्य अविद्यातिरिक्तनिद्रादिदोषजन्यतयैव प्रातिभासिकत्वम् इति केचिदाहुः ।
अन्ये तु – ‘बाध्यन्ते चैते रथादयः स्वप्नदृष्टाः प्रबोधे’ इति भाष्योक्तेः ‘अविद्यात्मकबन्धप्रत्यनीकत्वात् जाग्रद्बोधवत्’ इति विवरणदर्शनात् उत्थितस्य स्वप्नमिथ्यात्वानुभवाच्च जाग्रद्बोधः स्वप्नाध्यासनिवर्तक इति ब्रह्मज्ञानेतरज्ञानबाध्यतयैव तस्य प्रातिभासिकत्वम् । न चाधिष्ठानयाथात्म्यागोचरं स्वोपादानाज्ञानानिवर्तकं ज्ञानं कथमध्यासनिवर्तकं स्यादिति वाच्यम् । रज्जुसर्पाध्यासस्य स्वोपादानाज्ञाननिवर्तकाधिष्ठानयाथात्म्यज्ञानेनेव तत्रैव स्वानन्तरोत्पन्नदण्डभ्रमेणापि निवृत्तिदर्शनात् - इत्याहुः ।
अपरे तु जाग्रद्भोगप्रदकर्मोपरमे सति जाग्रत्प्रपञ्चद्रष्टारं प्रतिबिम्बरूपं व्यावहारिकजीवं तद्दृश्यं जाग्रत्प्रपञ्चमप्यावृत्य जायमानो निद्रारूपो मूलाज्ञानस्यावस्थाभेदः स्वाप्नप्रपञ्चाध्यासोपादानम् , न मूलाज्ञानम् । न च निद्राया अवस्थाज्ञानरूपत्वे मानाभावः । मूलाज्ञानेनानावृतस्य जाग्रत्प्रपञ्चद्रष्टुः व्यावहारिकजीवस्य ‘मनुष्योऽहम् , ब्राह्मणोऽहम् , देवदत्तपुत्रोऽहं’ इत्यादिना स्वात्मानमसन्दिग्धविपर्यस्तमभिमन्यमानस्य तदीयचिरपरिचयेन तं प्रति सर्वदा अनावृतैकरूपस्य अनुभूतस्वपितामहात्ययादिजाग्रत्प्रपञ्चवृत्तान्तस्य च स्वप्नसमये केनचिदावरणाभावे जागरण इव स्वप्नेऽपि ‘व्याघ्रोऽहम् , शूद्रोऽहम् , यज्ञदत्तपुत्रोऽहं’ इत्यादिभ्रमस्य स्वपितामहजीवद्दशादिभ्रमस्य च अभावप्रसङ्गेन निद्राया एव तत्कालोत्पन्नव्यावहारिकजगज्जीवावारकाज्ञानावस्थाभेदरूपत्वसिद्धेः । न चैवं जीवस्याप्यावृतत्वात् स्वप्नप्रपञ्चस्य द्रष्ट्रभावप्रसङ्गः । स्वप्नप्रपञ्चेन सह द्रष्टुर्जीवस्यापि प्रातिभासिकस्य अध्यासात् । एवं च पुनर्जाग्रद्भोगप्रदकर्मोद्भूते बोधे व्यावहारिकजीवस्वरूपज्ञानात् स्वोपादाननिद्रारूपाज्ञाननिवर्तकादेव स्वाप्नप्रपञ्चबाधः । न चैवं तद्द्रष्टुः प्रातिभासिकजीवस्यापि ततो बाधे ‘स्वप्ने करिणमन्वभूवं’ इत्यनुसन्धानं न स्यादिति वाच्यम् । व्यावहारिकजीवे प्रातिभासिकजीवस्याध्यस्ततया तदनुभवात् व्यावहारिकजीवस्यानुसन्धानोपगमेऽप्यतिप्रसङ्गाभावात् −इत्याहुः ।
स्वप्नाध्यासाधिष्ठानविचारः
नन्वनवच्छिन्नचैतन्ये अहङ्कारोपहितचैतन्ये वा स्वाप्नप्रपञ्चाध्यास इति प्रागुक्तं पक्षद्वयमप्ययुक्तम् । आद्ये – स्वाप्नगजादेः अहङ्कारोपहितसाक्षिणो विच्छिन्नदेशत्वेन सुखादिवदन्तःकरणवृत्तिसंसर्गमनपेक्ष्य तेन प्रकाशस्य चक्षुरादीनामुपरततया वृत्त्युदयासम्भवेन तत्संसर्गमपेक्ष्य तेन प्रकाशस्य च, अयोगात् । द्वितीये ‘इदं रजतमि’तिवत् ‘अहं गजः’ इति वा, ‘अहं सुखी’तिवद् ‘अहं गजवान्’ इति वा अध्यासप्रसङ्गात् ।
अत्र केचित् आद्यपक्षं समर्थयन्ते−अहङ्कारानवच्छिन्नचैतन्यं न देहाद्बहिः स्वाप्नप्रपञ्चस्याधिष्ठानमुपेयते, किं तु तदन्तरेव । अत एव दृश्यमानपरिमाणोचितदेशसम्पत्त्यभावात् स्वाप्नगजादीनां मायामयत्वमुच्यते । एवं च अन्तःकरणस्य देहाद्बहिरस्वातन्त्र्यात् जागरणे बाह्यशुक्तीदमंशादिगोचरवृत्त्युत्पादाय चक्षुराद्यपेक्षायामपि देहान्तरन्तःकरणस्य स्वतन्त्रस्य स्वयमेव वृत्तिसम्भवात् देहान्तरन्तःकरणवृत्त्यभिव्यक्तस्यानवच्छिन्नचैतन्यस्याधिष्ठानत्वे न काचिदनुपपत्तिः । अत एव – यथा जागरणे सम्प्रयोगजन्यवृत्त्यभिव्यक्तशुक्तीदमंशावच्छिन्नचैतन्यस्थिताऽविद्या रूप्याकारेण विवर्तते, तथा स्वप्नेऽपि देहस्यान्तरन्तःकरणवृत्तौ निद्रादिदोषोपप्लुतायाम् अभिव्यक्तचैतन्यस्थाविद्या अदृष्टोद्बोधितनानाविषयसंस्कारसहिता प्रपञ्चाकारेण विवर्ततामिति ववरणोपन्यासे भारतीतीर्थवचनमिति ।
अन्ये तु अनवच्छिन्नचैतन्यं न वृत्त्यभिव्यक्तं सत्
स्वाप्नप्रपञ्चस्याधिष्ठानम्
, अशब्दमूलकानवच्छिन्नचैतन्यगोचरवृत्त्युदयासम्भवात् ।
अहङ्काराद्यवच्छिन्नचैतन्य एव
अहमाकारवृत्त्युदयदर्शनात् । तस्मात्
स्वतोऽपरोक्षमहङ्काराद्यनवच्छिन्नचैतन्यं
तदधिष्ठानम् । अत एव सङ्क्षेपशारीरके−
‘अपरोक्षरूपविषयभ्रमधीरपरोक्षमास्पदमपेक्ष्य भवेत् ।
मनसा स्वतो नयनतो यदि वा स्वपनभ्रमादिषु तथाप्रथितेः ॥’ (१ । ४१) इति
श्लोकेन अपरोक्षाध्यासापेक्षितमधिष्ठानापरोक्ष्यं क्वचित्स्वतः
क्वचिन्मानसवृत्त्या क्वचिद्बहिरिन्द्रियवृत्त्या इत्यभिधाय
‘स्वतोऽपरोक्षा चितिरत्र विभ्रमस्तथापि रूपाकृतिरेव जायते ।
मनोनिमित्तं स्वपतो मुहुर्मुहुर्विनापि चक्षुर्विषयं स्वमास्पदम् ।
मनोऽवगम्येऽप्यपरोक्षताबलात् तथाऽम्बरे रूपमुपोल्लिखन् भ्रमः ।
सितादिभेदैर्बहुधा समीक्ष्यते यथाऽक्षिगम्ये रजतादिविभ्रमः’ ॥ (१ । ४२,४३)
इत्याद्यनन्तरश्लोकेन स्वप्नाध्यासे स्वतोऽधिष्ठानापरोक्ष्यमुदाहृतम् । न
चाहङ्कारानवच्छिन्नचैतन्यमात्रमावृतमिति वृत्तिमन्तरेण न तदभिव्यक्तिरिति
वाच्यम् । ब्रह्मचैतन्यमेवावृतम्
अविद्याप्रतिबिम्बजीवचैतन्यमहङ्कारानवच्छिन्नमप्यनावृतम्
इत्युपगमात् । एवं च अहङ्कारानवच्छिन्नचैतन्येऽध्यस्यमाने स्वाप्नगजादौ
तत्समयनियताधिष्ठानगोचरान्तःकरण(णादि) वृत्तिकृताभेदाभिव्यक्त्या
प्रमातृचैतन्यस्यापि इदं पश्यामीति व्यवहारः − इत्याहुः ।
अपरे तु द्वितीयं पक्षं समर्थयन्ते−
अहङ्कारावच्छिन्नचैतन्यमधिष्ठानमिति अहङ्कारस्य विशेषणभावेनाधिष्ठानकोटिप्रवेशो नोपेयते, किं तु अहङ्कारोपहितं तत्प्रतिबिम्बरूपचैतन्यमात्रमधिष्ठानमिति , अतो ‘नाहं गजः’ इत्याद्यनुभवप्रसङ्ग इति ।
एवं शुक्तिरजतमपि शुक्तीदमंशावच्छिन्नचैतन्यप्रतिबिम्बे वृत्तिमदन्तःकरणगतेऽध्यस्यते । शुक्तीदमंशावच्छिन्नबिम्बचैतन्ये सर्वसाधारणे तस्याध्यासे सुखादिवदनन्यवेद्यत्वाभावप्रसङ्गात् इति केचित् ।
केचित्तु बिम्बचैतन्य एव तदध्यासमुपेत्य यदीयाज्ञानोपादानकं यत् तत् तस्यैव प्रत्यक्षं न जीवान्तरस्य इत्यनन्यवेद्यत्वमुपपादयन्ति ।
स्वाप्नपदार्थानुभवस्य अनैन्द्रियकत्वनिरूपणम्
ननु शुक्तिरजताध्यासे चाक्षुषत्वानुभवः साक्षाद्वा अधिष्ठानज्ञानद्वारा तदपेक्षणाद्वा समर्थ्यते । स्वाप्नगजादिचाक्षुषत्वानुभवः कथं समर्थनीयः ?
उच्यते −
न तावत् तत्समर्थनाय स्वाप्नदेहवद्विषयवच्च इन्द्रियाणामपि प्रातिभासिको विवर्तः शक्यतेवक्तुम् , प्रातिभासिकस्याज्ञातसत्त्वाभावात् । इन्द्रियाणां चातीन्द्रियाणां सत्त्वेऽज्ञातसत्त्वस्य वाच्यत्वात् ।
नापि व्यावकारिकाणामेवेन्द्रियाणां स्वस्वगोलकेभ्यो निष्क्रम्य स्वाप्नदेहमाश्रित्य स्वस्वविषयग्राहकत्वं वक्तुं शक्यते , स्वप्नसमये तेषां व्यापारराहित्यरूपोपरतिश्रवणात् । व्यावहारिकस्य स्पर्शनेन्द्रियस्य स्वोचितव्यावहारिकदेशसम्पत्तिविधुरान्तःशरीरे स्वाधिकपरिमाणकृत्स्नस्वाप्नशरीरव्यापित्वायोगाच्च । तदेकदेशाश्रयत्वे च तस्य स्वाप्नजलावगाहनजन्यसर्वाङ्गीणशीतस्पर्शानिर्वाहात् ।
अत एव−स्वप्ने जाग्रदिन्द्रियाणामुपरतावपि तैजसव्यवहारोपयुक्तानि सूक्ष्मशरीरावयवभूतानि सूक्ष्मेन्द्रियाणि सन्तीति तैः स्वाप्नपदार्थानामैन्द्रियकत्वम् इत्युपपादनशङ्कापि−निरस्ता । जाग्रदिन्द्रियव्यतिरिक्तसूक्ष्मेन्द्रियाप्रसिद्धेः ।
किञ्च ‘अत्रायं पुरुषः स्वयञ्ज्योतिः’ (बृ. उ. ४ । ३ । ९) इति जागरे आदित्यादिज्योतिर्व्यतिकराच्चक्षुरादिवृत्तिसञ्चाराच्च दुर्विवेकम् आत्मनः स्वयञ्ज्योतिष्ट्वमिति स्वप्नावस्थामधिकृत्य तत्रात्मनः स्वयञ्ज्योतिष्ट्वं प्रतिपादयति । अन्यथा तस्य सर्वदा स्वयञ्ज्योतिष्ट्वेन अत्रेति वैयर्थ्यात् । तत्र यदि स्वप्नेऽपि चक्षुरादिवृत्तिसञ्चारः कल्प्येत, तदा तत्रापि जागर इव तस्य स्वयञ्ज्योतिष्ट्वं दुर्विवेकं स्यादिति उदाहृता श्रुतिः पीड्येत । ननु स्वप्ने चक्षुराद्युपरमकल्पनेऽपि अन्तःकरणमनुपरतमास्त इति परिशेषासिद्धेः न स्वयञ्ज्योतिष्ट्वविवेकः । मैवम् – ‘कर्ता शास्त्रार्थवत्त्वात्’ (ब्र. सू. २ । ३ । ३३) इत्यधिकरणे न्यायनिर्णयोक्तरीत्या अन्तःकरणस्य चक्षुरादिकरणान्तरनिरपेक्षस्य ज्ञानसाधनत्वाभावाद्वा तत्त्वप्रदीपिकोक्तरीत्या स्वप्ने तस्यैव गजाद्याकारेण परिणामेन ज्ञानकर्मतयाऽवस्थितत्वेन तदानीं ज्ञानसाधनत्वायोगाद्वा परिशेषोपपत्तेः । न च स्वप्नेऽन्तःकरणवृत्त्यभावे उत्थितस्य स्वप्नदृष्टगजाद्यनुसन्धानानुपपत्तिः । सुषुप्तिक्लृप्तया अविद्यावृत्त्या तदुपपत्तेः । ‘सुषुप्तौ तदवस्थोपहितमेव स्वरूपचैतन्यम् अज्ञानसुखादिप्रकाशः, उत्थितस्यानुसन्धानमुपाधिभूतावस्थाविनाशजन्यसंस्कारेण’ इति वेदान्तकौमुद्यभिमते सुषुप्तावविद्यावृत्त्यभावपक्षे इहापि स्वाप्नगजादिभासकचैतन्योपाधिभूतस्वप्नावस्थाविनाशजन्यसंस्कारादनुसन्धानोपपत्तेश्च । अथवा ‘तदेतत् सत्त्वं येन स्वप्नं पश्यति’ (पै.र.ब्रा.उ) इत्यादिश्रुतेः अस्तु स्वप्नेऽपि कल्पतरूक्तरीत्या स्वाप्नगजादिगोचरान्तःकरणवृत्तिः । न च तावता परिशेषासिद्धिः । अन्तःकरणस्य अहमितिगृह्यमाणस्य सर्वात्मना जीवैक्येनाध्यस्ततया लोकदृष्ट्या तस्य तद्व्यतिरेकाप्रसिद्धेः परिशेषार्थं चक्षुरादिव्यापाराभावमात्रस्यैवापेक्षितत्वात् । प्रसिद्धदृश्यमात्रं दृगवभासयोग्यमिति निश्चयसत्त्वेनपरिशेषार्थमन्यानपेक्षणात् ।
तस्मात् सर्वथाऽपि स्वप्ने चक्षुरादिव्यापारासम्भवात् स्वाप्नगजादौ चाक्षुषत्वाद्यनुभवो भ्रम एव ।
ननु स्वप्नेऽपि ‘चक्षुरुन्मीलने गजाद्यनुभवः , तन्निमीलने न’ इति जागर इव गजाद्यनुभवस्य चक्षुरुन्मीलनाद्यनुविधानं प्रतीयत इति चेत् , ‘चक्षुषा गजादिकं पश्यामी’त्यनुभववत् अयमपि कश्चित् स्वप्नभ्रमो भविष्यति - यत् केवलसाक्षिरूपे स्वाप्नगजाद्यनुभवे चक्षुराद्यनुविधानं तदनुविधायिनी वृत्तिर्वा अध्यस्यते । किमिव हि दुर्घटमपि भ्रमं माया न करोति, विशेषतो निद्रारूपेण परिणता । यस्याः माहात्म्यात् स्वप्ने रथः प्रतीतः क्षणेन मनुष्य प्रतीयते, स च क्षणेन मार्जारः । स्वप्नद्रष्टुश्च न पूर्वापरविरोधानुसन्धानम् । तस्मादन्वयाद्यनुविधानप्रतीतितौल्येऽपि जाग्रद्गजाद्यनुभव एव चक्षुरादिजन्यः, न स्वाप्नगजाद्यनुभवः ।
दृष्टिसृष्टिवादनिरूपणम्
दृष्टिसृष्टिवादिनस्तु कल्पितस्याज्ञातसत्त्वमनुपपन्नमिति कृत्स्नस्य जाग्रत्प्रपञ्चस्य दृष्टिसमसमयां सृष्टिमुपेत्य घटादिदृष्टेश्चक्षुःसन्निकर्षानुविधानप्रतीतिं दृष्टेः पूर्वं घटाद्यभावेनासङ्गच्छमानां स्वप्नवदेव समर्थयमानाः जाग्रद्गजाद्यनुभवोऽपि न चाक्षुष इत्याहुः ।
ननु - दृष्टिसृष्टिमवलम्ब्य कृत्स्नस्य जाग्रत्प्रपञ्चस्य कल्पितत्वोपगमे कस्तस्य कल्पकः । निरुपाधिरात्मा वा, अविद्योपहितो वा । नाद्यः−मोक्षेऽपि साधनान्तरनिरपेक्षस्य कल्पकस्य सत्त्वेन प्रपञ्चानुवृत्त्या संसाराविशेषप्रसङ्गात् । न द्वितीयः − आविद्याया अपि कल्पनीयत्वेन तत्कल्पनात्प्रागेव कल्पकसिद्धेर्वक्तव्यत्वात् ।
अत्र केचिदाहुः − पूर्वपूर्वकल्पिताविद्योपहितोत्तरोत्तराविद्याकल्पकः । अनिदम्प्रथमत्वाच्च कल्पककल्पनाप्रवाहस्य नानवस्था दोषः । न च - अविद्याया अनादित्वोपगमाच्छुक्तिरजतवत् कल्पितत्वं न युज्यते, अन्यथा साद्यनादिविभागानुपपत्तेरिति - वाच्यम् । यथा स्वप्ने कल्प्यमानं गोपुरादि किञ्चित् पूर्वसिद्धत्वेन कल्प्यते किञ्चित्तदानीमुत्पाद्यमानत्वेन, एवं जागरेऽपि किञ्चित् कल्प्यमानं सादित्वेन कल्प्यते किञ्चिदन्यथेति तावता साद्यनादिविभागोपपत्तेः । एतेन कार्यकारणविभागोऽपि व्याख्यात इति ।
अन्ये तु−वस्तुतोऽनाद्येवाविद्यादि , तत्र दृष्टिसृष्टिर्नोपेयते, किं तु (ततः) अन्यत्र प्रपञ्चमात्रे − इत्याहुः ।
नन्वेवमपि श्रुतिमात्रप्रतीतस्य वियदादिसर्गतत्क्रमादेः कः कल्पकः । न
कोऽपि । किमालम्बना तर्हि ‘आत्मन आकाशः सम्भूतः’ (तै-उ-२-१)
इत्यादिश्रुतिः । निष्प्रपञ्चब्रह्मात्मैक्यावलम्बनेत्यवेहि ।
अध्यारोपापवादाभ्यां निष्प्रपञ्चब्रह्मप्रतिपत्तिर्भवतीति
तत्प्रतिपत्त्युपायतया श्रुतिषु सृष्टिप्रलयोपन्यासः
, न तात्पर्येण इति भाष्याद्युद्घोषः । व्यर्थस्तर्हि तात्पर्याभावे
वियत्प्राणपादयोर्वियदादिसर्गतत्क्रमादिविषयश्रुतीनां
परस्परविरोधपरिहाराय यत्नः । न व्यर्थः ।
न्यायव्युत्पत्त्यर्थम्
अभ्युपेत्यतात्पर्यं तत्प्रवृत्तेः । उक्तं हि
शास्त्रदर्पणे−
‘श्रुतीनां सृष्टितात्पर्यं स्वीकृत्येदमिहेरितम् ।
ब्रह्मात्मैक्यपरत्वात्तु तासां तन्नैव विद्यते ।’ (१ । ४ । ४) इति ।
ज्योतिष्टोमादिश्रुतिबोधितानुष्ठानात् फलसिद्धिः
स्वाप्नश्रुतिबोधितानुष्ठानप्रयुक्तफलसंवादतुल्या,
ज्योतिष्टोमादिश्रुतीनां च सत्त्वशुद्धिद्वारा ब्रह्मणि
तात्पर्यान्नाप्रामाण्यम् ,
इत्यादिदृष्टिसृष्टिव्युत्पादनप्रक्रियाप्रपञ्चस्तु
आकरग्रन्थेषु द्रष्टव्यः । अयमेको दृष्टिसमसमया
विश्वसृष्टिरिति दृष्टिसृष्टिवादः ।
अन्यस्तु− दृष्टिरेव विश्वसृष्टिः । दृश्यस्य दृष्टिभेदे प्रमाणाभावात् ,
‘ज्ञानस्वरूपमेवाहुर्जगदेतद्विचक्षणाः ।
अर्थस्वरूपं भ्राम्यन्तः पश्यन्त्यन्ये कुदृष्टयः ।’ (वि. पु. १ । ४ । ४०)
इति स्मृतेश्च इति - सिद्धान्तमुक्तावल्यादिदर्शितो दृष्टिसृष्टिवादः ।
द्विविधदृष्टिसृष्टिवादाद्विलक्षणसृष्टदृष्टिवादनिरूपणम्
द्विविधेऽपि दृष्टिसृष्टिवादे मनःप्रत्ययमलभमानाः केचिदाचार्याः सृष्टदृष्टिवादं रोचयन्ते – श्रुतिदर्शितेन क्रमेण परमेश्वरसृष्टम् अज्ञातसत्तायुक्तमेव विश्वम् , तत्तद्विषयप्रमाणावतरणे तस्य तस्य दृष्टिसिद्धिरिति । न चैवं प्रपञ्चस्य कल्पितत्वाभावे श्रुत्यादिप्रतिपन्नस्य सृष्टिप्रलयादिमतः प्रत्यक्षादिप्रतिपन्नार्थक्रियाकारिणश्च तस्य सत्यत्वमेवाभ्युपगतं स्यादिति वाच्यम् , शुक्तिरजतादिवत् सम्प्रयोगसंस्कारदोषरूपेण अधिष्ठानज्ञानसंस्कारदोषरूपेण वा कारणत्रयेण अजन्यतया कल्पनासमसमयत्वाभावेऽपि ज्ञानैकनिवर्त्यत्वरूपस्य सदसद्विलक्षणत्वरूपस्य प्रतिपन्नोपाधिगतत्रैकालिकनिषेधप्रतियोगित्वरूपस्य वा मिथ्यात्वस्याभ्युपगमात् । सत्यत्वपक्षे प्रपञ्चे उक्तरूपमिथ्यात्वाभावेन ततो भेदात् ।
नन्वेवं - अहङ्कारतद्धर्माणामपि उक्तरूपमिथ्यात्वं वियदादिवत् कल्पितत्वाभावेऽपि सिद्ध्यतीति, भाष्यटीकाविवरणेषु तदध्यासे कारणत्रितयसम्पादनादियत्नो व्यर्थः , इति चेत्−अहङ्कारादीनामपि केवलसाक्षिवेद्यतया शुक्तिरजतवत् प्रातिभासिकत्वमभिमतमिति चित्सुखाचार्याः ।
अभ्युपेत्यवादमात्रं तत् , ‘अद्वितीयाधिष्ठानब्रह्मात्मप्रमाणस्य चैतन्यस्य’ इत्यादितत्रत्यकारणत्रितयसम्पादनग्रन्थस्य, चैतन्यस्य प्रमाकरणत्वे वेदान्तकरणत्वादिकल्पनाभङ्गप्रसङ्गेन प्रौढिवादत्वस्य स्फुटत्वादिति रामाद्वयाचार्याः ।
मिथ्याभूतस्यार्थक्रियाकारित्वविचारः
ननु दृष्टिसृष्टिवादे सृष्टदृष्टिवादे च मिथ्यात्वसम्प्रतिपत्तेः कथं मिथ्याभूतस्यार्थक्रियाकारित्वम् ?
स्वप्नवदिति ब्रूमः । ननु स्वाप्नजलादिसाध्यावगाहनादिरूपार्थक्रिया असत्यैव । किं तु जाग्रज्जलादिसाध्या सा सत्या । अविशिष्टमुभयत्रापि स्वसमानसत्ताकार्थक्रियाकारित्वमिति केचित् ।
अद्वैतविद्याचार्यास्त्वाहुः− स्वाप्नपदार्थानां न केवलं प्रबोधबाध्यार्थक्रियामात्रकारित्वम् , स्वाप्नाङ्गनाभुजङ्गमादीनां तदबाध्यसुखभयादिजनकत्वस्यापि दर्शनात् । स्वाप्नविषयजन्यस्यापि हि सुखभयादेः प्रबोधानन्तरं न बाधोऽनुभूयते , प्रत्युत प्रबोधानन्तरमपि मनःप्रसादशरीरकम्पनादिना सह तदनुवृत्तिदर्शनात् प्रागपि सत्त्वमेवावसीयते । अत एव प्राणिनां पुनरपि सुखजनकविषयगोचरस्वप्ने वाञ्छा, अतादृशे च स्वप्ने प्रद्वेषः । सम्भवति च स्वप्नेऽपि ज्ञानवदन्तःकरणवृत्तिरूपस्य सुखभयादेरुदयः । न च - स्वाप्नाङ्गनादिज्ञानमेव सुखादिजनकम् , तच्च सदेवेति वाच्यम् , तस्यापि दर्शनस्पर्शनादिवृत्तिरूपस्य स्वप्नप्रपञ्चसाक्षिण्यध्यस्तस्य कल्पनामात्रसिद्धत्वात् । न ह्युपरतेन्द्रियस्य चक्षुरादिवृत्तयः सत्याः सम्भवन्ति । न च – तद्विषयापरोक्षमात्रं सुखजनकम् , तच्च साक्षिरूपं सदेवेति−वाच्यम् , दर्शनात् स्पर्शने कामिन्याः पदा स्पर्शनात् पाणिना स्पर्शने भुजङ्गमस्यामर्मस्थले स्पर्शनात् मर्मस्थले स्पर्शने सुखविशेषस्य भयविशेषस्य चानुभवसिद्धत्वेन स्वप्नेऽपि तत्तत्सुखभयादिविशेषस्य कल्पितदर्शनस्पर्शनादिवृत्तिविशेषजन्यत्वस्य वक्तव्यत्वादिति ।
तथा जागरे घटादिप्रकाशनक्षमतत्रत्यपुरुषान्तरनिरीक्ष्यमाणालोकवत्यपवरके सद्यः प्रविष्टेन पुंसा कल्पितस्य सन्तमसस्य प्रसिद्धसन्तमसोचितार्थक्रियाकारित्वं दृष्टम् । तेन तं प्रति घटाद्यावरणं दीपाद्यानयने तदपसरणं तन्नयने पुनरावरणम् इत्यादेर्दर्शनात् इत्यपि – केचित् ।
अन्ये तु पानावगाहनाद्यर्थक्रियायां जलादिस्वरूपमात्रमुपयोगि, न तद्गतं सत्यत्वम् , तस्य कारणत्वतदवच्छेदकत्वयोरभावादिति किं तेन । न चैवं सति मरुमरीचिकोदकशुक्तिरजतादेरपि प्रसिद्धोदकाद्युचितार्थक्रियाकारित्वप्रसङ्गः । ‘मरीचिकोदकादावुदकत्वादिजातिर्नास्तीति तद्विषयकभ्रमस्य उदकशब्दोल्लेखित्वं तदुल्लेखिपूर्वानुभवसंस्कारजन्यत्वप्रयुक्तं’ इति तत्त्वशुद्धिकारादि मते तत्तदर्थक्रियाप्रयोजकोदकत्वादिजात्यभावादेव तदप्रसङ्गात् । ‘तत्राप्युदकत्वादिजातिरस्ति, अन्यथा तद्वैशिष्ट्योल्लेखिभ्रमविरोधात् उदकाद्यर्थिनस्तत्र प्रवृत्त्यभावप्रसङ्गाच्च’ इति प्रातिभासिके पूर्वदृष्टसजातीयत्वव्यवहारानुरोधिनां मते क्वचिदधिष्ठानविशेषज्ञाने समूहाध्यासनाशात् क्वचिदधिष्ठानसामान्यज्ञानोपरमेण केवलाध्यासनाशात् क्वचित् गुञ्जापुञ्जादौ चक्षुषा वह्न्याद्यध्यासस्थले दाहपाकादिप्रयोजकस्योष्णस्पर्शादेरनध्यासाच्च तत्रतत्रार्थक्रियाऽभावोपपत्तेः, क्वचित् कासाञ्चिदर्थक्रियाणामिष्यमाणत्वाच्च । मरीचिकोदकादिव्यावर्तकस्यार्थक्रियोपयोगिरूपस्य वक्तव्यत्वे च श्रुतिविरुद्धं प्रत्यक्षादिना दुर्ग्रहं त्रिकालाबाध्यत्वं विहाय दोषविशेषाजन्यरजतत्वादेरेव रजताद्युचितार्थक्रियोपयोगिरूपस्य वक्तुं शक्यत्वाच्च । तस्मात् मिथ्यात्वेऽप्यर्थक्रियाकारित्वसम्भवात् मिथ्यैव प्रपञ्चः,न सत्यः - इति ।
प्रपञ्चमिथ्यात्वस्य मिथ्यात्वनिरूपणम्
ननु - मिथ्यात्वस्य प्रपञ्चधर्मस्य सत्यत्वे ब्रह्माद्वैतक्षतेः तदपि मिथ्यैव वक्तव्यमिति कुतः प्रपञ्चस्य सत्यत्वक्षतिः । ‘मिथ्याभूतं ब्रह्मणः सप्रपञ्चत्वं न निष्प्रपञ्चत्वविरोधि’ इति त्वदुक्तरीत्या मिथ्याभूतमिथ्यात्वस्य सत्यत्वाविरोधात् ।
अत्रोक्तमद्वैतदीपिकायां−
वियदादिप्रपञ्चसमानस्वभावं मिथ्यात्वम् । तच्च धर्मिणः सत्यत्वप्रतिक्षेपकम् । धर्मस्य स्वविरुद्धधर्मप्रतिक्षेपकत्वे हि उभयवादिसिद्धं धर्मिसमसत्त्वं तन्त्रम् , न पारमार्थिकत्वम् । घटत्वादिप्रतिक्षेपके पटत्वादौ अस्माकं पारमार्थिकत्वासम्प्रतिपत्तेः । ब्रह्मणः सप्रपञ्चत्वं न धर्मिसमसत्ताकमिति न निष्प्रपञ्चत्वप्रतिक्षेपकम् । अत एव−मिथ्यात्वस्य व्यावहारिकत्वे तद्विरोधिनोऽप्रातिभासिकस्य प्रपञ्चसत्यत्वस्य पारमार्थिकत्वं स्यादिति-निरस्तम् । धर्मिसमसत्ताकस्य मिथ्यात्वस्य व्यावहारिकत्वे धर्मिणोऽपि व्यावहारिकत्वनियमात् ।
अथवा यो यस्य स्वविषयसाक्षात्कारानिवर्त्यो धर्मः स तत्र स्वविरुद्धधर्मप्रतिक्षेपकः । शुक्तौ शुक्तितादात्म्यं तद्विषयसाक्षात्कारानिवर्त्यम् अशुक्तित्वविरोधि, तत्रैव रजततादात्म्यं तन्निवर्त्यम् अरजतत्वाविरोधि इति व्यवस्थादर्शनात् । एवं च प्रपञ्चमिथ्यात्वं कल्पितमपि प्रपञ्चसाक्षात्कारानिवर्त्यमिति सत्यत्वप्रतिक्षेपकमेव । ब्रह्मणः सप्रपञ्चत्वं तु ब्रह्मसाक्षात्कारनिवर्त्यमिति न निष्प्रपञ्चत्वप्रतिक्षेपकमिति । एतेन - शब्दगम्यस्य ब्रह्मणः सत्यत्वे शब्दयोग्यतायाः शाब्दधीप्रामाण्यस्य च सत्यत्वं वक्तव्यम् । प्रातिभासिकयोग्यतावता अनाप्तवाक्येन व्यावहारिकार्थस्य व्यावहारिकयोग्यतावता अग्निहोत्रादिवाक्येन तात्त्विकार्थस्य वा सिद्ध्यभावेन योग्यतासमानसत्ताकस्यैव शब्दार्थस्य सिद्धिनियमात् । अर्थबाधरूपप्रामाण्यस्यासत्यत्वे अर्थस्य सत्यत्वायोगाच्च । तथा च ब्रह्मातिरिक्तसत्यवस्तुसत्त्वेन द्वैतावश्यम्भावे सति वियदादिप्रपञ्चोऽपि सत्योऽस्त्विति-निरस्तम् ।
व्यावहारिकस्यार्थक्रियाकारित्वस्य व्यवस्थापितत्वेन व्यावहारिकयोग्यताया अपि सत्यब्रह्मसिद्धिसम्भवात् । ब्रह्मपरे वेदान्ते सत्यादिपदसत्त्वात् ब्रह्मसत्यत्वसिद्धेः । अग्निहोत्रादिवाक्ये तादृशपदाभावात् तत्सत्त्वेऽपि प्रबलब्रह्माद्वैतश्रुतिविरोधात् तदसिद्धिः इत्येव वैषम्योपपत्तेः । शब्दार्थयोग्यतयोः समानसत्ताकत्वनियमस्य निष्प्रमाणकत्वात् , घटज्ञानप्रामाण्यस्य अघटघटितत्ववत् सत्यभूतब्रह्मज्ञानप्रामाण्यस्यापि तदतिरिक्तघटितत्वेन मिथ्यात्वोपपत्तेश्च ।
जीवब्रह्मभेदनिरसनम्
तस्मात् आरम्भणाधिकरणोक्तन्यायेन कृत्स्नस्य वियदादिप्रपञ्चस्य मिथ्यात्वं वज्रलेपायते ।
ऐकात्म्यवादे सुखदुःखादिव्यवस्थोपपादनम्
ननु – आरम्भणशब्दादिभिरचेतनस्य वियदादिप्रपञ्चस्य मिथ्यात्वसिद्धावपि चेतनानामपवर्गभाजां मिथ्यात्वायोगात् अद्वितीये ब्रह्मणि समन्वयो न युक्तः । न च तेषां ब्रह्माभेदः प्रागुक्तो युक्तः । परस्परभिन्नानां तेषाम् एकेन ब्रह्मणाऽभेदासम्भवात् । न च तद्भेदासिद्धिः । सुखदुःखादिव्यवस्थया तत्सिद्धेः−इति चेत् ,
न−तेषामभेदेऽपि उपाधिभेदादेव तद्व्यवस्थोपपत्तेः ।
ननु उपाधिभेदेऽपि तदभेदानपायात् कथं व्यवस्था । न ह्याश्रयभेदेनोपपादनीयः विरुद्धधर्मासङ्करः तदतिरिक्तस्य कस्यचित् भेदोपगमेन सिद्ध्यति ।
अत्र केचिदाहुः−सिध्यत्येवान्तःकरणोपाधिभेदेन सुखदुःखादिव्यवस्था । ‘कामस्सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धाधृतिरधृतिर्ह्रीर्घीर्भीरित्येतत्सर्वं मन एव’ (बृ. उ. १ । ५ । ३) ‘विज्ञानं यज्ञं तनुते’ (तै. उ. २ । ५ । १) इत्यादिश्रुतिभिस्तस्यैव निखिलानर्थाश्रयत्वप्रतिपादनात् । ‘असङ्गो ह्ययं पुरुषः’ (बृ. उ. ४ । ३ । १५), ‘असङ्गो न हि सज्जते’ (बृ. उ. ४ । २ । ४) इत्यादिश्रुतिभिः चेतनस्य सर्वात्मना औदासीन्यप्रतिपादनाच्च । न चैवंसति कर्तृत्वादिबन्धस्य चैतन्यसामानाधिकरण्यानुभवविरोधः । अन्तःकरणस्य चेतनतादात्म्येनाध्यस्ततया तद्धर्माणां चैतन्यसामानाधिकरण्यानुभवोपपत्तेः । न चान्तःकरणस्य कर्तृत्वादिबन्धाश्रयत्वे चेतनः संसारी न स्यादिति वाच्यम् । कर्तृत्वादिबन्धाश्रयाहङ्कारग्रन्थितादात्म्याध्यासाधिष्ठानभाव एव तस्य संसार इत्युपगमात् । तावतैव भीषणत्वाश्रयसर्पतादात्म्याध्यासाधिष्ठाने रज्वादौ ‘अयं भीषणः’ इत्यभिमानवत् आत्मनोऽनर्थाश्रयत्वाभिमानोपपत्तेः । एतदभिप्रायेणैव ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) ‘अहङ्कारविमूढात्मा कर्ताहमिति मन्यते’ (भ. गी. ३ । २७) इत्यादिश्रुतिस्मृतिदर्शनाच्च । न च एकस्मिन्नेवात्मनि विचित्रसुखदुःखाश्रयतत्तदन्तःकरणानामध्यासात् आत्मन्याभिमानिकसुखदुःखादिव्यवस्था एवमपि न सिध्यतीति वाच्यम् । आध्यासिकतादात्म्यापन्नान्तःकरणगतानर्थजातस्येव तद्गतपरस्परभेदस्यापि अभिमानत आत्मीयतया आत्मनो यादृशमनर्थभाक्त्वं तदृशेन भेदेन तद्व्यवस्थोपपत्तेः । एतेन सुखदुःखादीनामन्तःकरणधर्मत्वेऽपि तदनुभवः साक्षिरूप इति तस्यैकत्वात् सुखदुःखानुभवरूपभोगव्यवस्था न सिध्यतीति
- निरस्तम् । तत्तदन्तःकरणतादात्म्यापत्त्या तत्तदन्तःकरणभेदेन भेदवत एव साक्षिणः तत्तदन्तःकरणसुखदुःखाद्यनुभवरूपत्वेन तद्व्यवस्थाया अप्युपपत्तेरिति ।
अन्ये तु−जडस्य कर्तृत्वादिबन्धाश्रयत्वानुपपत्तेः ‘कर्ता शास्त्रार्थवत्त्वात्’ (ब्र. सू. २ । ३ । ३३) इति चेतनस्यैव तदाश्रयत्वप्रतिपादकसूत्रेण च अन्तःकरणे चिदाभासो बन्धाश्रयः, तस्य चासत्यस्य बिम्बाद्भिन्नस्य प्रत्यन्तःकरणं भेदात् विद्वदविद्वत्सुखिदुःखिकर्त्रकर्त्रादिव्यवस्था । न चैवमध्यस्तस्य बन्धाश्रयत्वे बन्धमोक्षयोर्वैयधिकरण्यापत्तिः । अस्य चिदाभासस्य अन्तःकरणावच्छिन्ने स्वरूपतस्सत्यतया मुक्त्यन्वयिनि परमार्थजीवेऽध्यस्ततया कर्तृत्वाश्रयचिदाभासतादात्म्याध्यासाधिष्ठानभावः तस्य बन्ध इत्यभ्युपगमात्-इत्याहुः ।
अपरे तु ‘आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ (क. उ. १ । ३ । ४) इति सहकारित्वेन देहेन्द्रियैः तादात्म्ये मनसा च युक्तस्य चेतनस्य भोक्तृत्वश्रवणात् अन्तःकरणभेदेन तद्विशिष्टभेदात् व्यवस्था । न चैवं विशिष्टस्य बन्धः शुद्धस्य मोक्ष इति वैयधिकरण्यम् । विशिष्टगतस्य बन्धस्य विशेष्येऽनन्वयाभावात् , विशिष्टस्यानतिरेकात् - इत्याहुः ।
इतरे तु−अस्तु केवलश्चेतनः कर्तृत्वादिबन्धाश्रयः । स्फाटिकलौहित्यन्यायेन अन्तःकरणस्य तद्विशिष्टस्य वा कर्तृत्वाद्याश्रयस्य सन्निधानात् चेतनेऽपि कर्तृत्वाद्यन्तरस्याध्यासोपगमात् । न च तस्यैकत्वाद्व्यवस्थानुपपत्तिः । उपाधिभेदादेव तदुपपत्तेः । न चान्यभेदादन्यत्र विरुद्धधर्माणां व्यवस्था न युज्यत इति वाच्यम् मूलाग्ररूपोपाधिभेदमात्रेण वृक्षे संयोगतदभावव्यवस्थादर्शनात्, तत्तत्पुरुषकर्णपुटोपाधिभेदेन श्रोत्रभावमुपगतस्याकाशस्य तत्र तत्र शब्दोपलम्भकत्वानुपलम्भकत्वतारमन्द्रेष्टानिष्टशब्दोपलम्भकत्वादिवैचित्र्यदर्शनाच्च−इत्याहुः ।
एके तु - यद्याश्रयभेदादेव विरुद्धधर्मव्यवस्थोपपादननियमः, तदा चेतने निष्कृष्ट एव उपाधिवशात् भेदकल्पना अस्तु । अकल्पिताश्रयभेद एव व्यवस्थाप्रयोजक इति क्वाप्यसम्प्रतिपत्तेः, मणिमुकुरकृपाणाद्युपाधिकल्पितेन भेदेन मुखे श्यामावदातवर्तुलदीर्घभावादिधर्माणाम् अङ्गुल्युपष्टम्भोपाधिकल्पितेन भेदेन दीपे पाश्चात्यपौरस्त्यादिधर्माणां च व्यवस्थासम्प्रतिपत्तेः− इत्याहुः ।
उक्तव्यवस्थोपपादकोपाधिभेदविचारः
एवमुपाधिवशाद्व्यवस्थोपपादने सम्भाविते जीवानां परस्परसुखाद्यननुसन्धानप्रयोजक उपाधिः क इति निरूपणीयम् ।
अत्र केचिदाहुः− भोगायतनाभेदतद्भेदौ अनुसन्धानाननुसन्धानप्रयोजकोपाधी । शरीरावच्छिन्नवेदनायाः तदवच्छिन्नेनानुसन्धानात् , चरणावच्छिन्नवेदनायाः हस्तावच्छिन्नेनाननुसन्धानाच्च । ‘हस्तावच्छिन्नोऽहं पादावच्छिन्नवेदनामनुभवामि’ इत्यप्रत्ययात् । कथं तर्हि चरणलग्नकण्टकोद्धाराय हस्तव्यापारः । नायं हस्तव्यापारः हस्तावच्छिन्नानुसन्धानात् , किन्तु अवयवावयविनोश्चरणशरीरयोर्भेदासत्त्वेन चरणावच्छिन्नवेदना शरीरावाच्छिन्नेन ‘अहं चरणे वेदनावान्’ इत्यनुसन्धीयत इति तदनुसन्धानात् । एवं च चैत्रमैत्रशरीरयोरभेदाभावात् चैत्रशरीरावच्छिन्नवेदना न मैत्रशरीरावच्छिन्नेनानुसन्धीयते, नाप्युभयशरीरानुस्यूतावयवान्तरावच्छिन्ने नानुसन्धीयते, उभयानुस्यूतस्यावविनो भोगायतनस्यैवाभावात् इति न चैत्रशरीरलग्नकण्टकोद्धाराय मैत्रशरीरव्यापारप्रसङ्ग इति ।
अन्ये तु - विश्लिष्टोपाधिभेदोऽननुसन्धानप्रयोजकः । तथ च हस्तावच्छिन्नस्य चरणावच्छिन्नवेदनानुसन्धानाभ्युपगमेऽपि न दोषः । न चैवंसति गर्भस्थस्य मातृसुखानुसन्धानप्रसङ्गः । एकस्मिन्नवयविन्यवयवभावेनाननुप्रविष्टयोः विश्लिष्टशब्देन विवक्षितत्वात् , मातृगर्भशरीरयोस्तथात्वात्− इत्याहुः ।
न च ‘उद्यतायुधदोर्दण्डाः पतितस्वशिरोऽक्षिभिः । पश्यन्तः पातयन्ति स्म कबन्धा अप्यरीनिह ॥’ इति भारतोक्त्याविश्लेषेऽप्यनुसन्धानमवगतमिति-वाच्यम् । तत्रापि शिरःकबन्धयोरेकस्मिन्नवयविन्यवयवभावेनानुप्रविष्टचरत्वात् , शिरच्छेदानन्तरं मूर्छामरणयोरन्यतरावश्यम्भावेन दृष्टविरुद्धार्थस्य तादृशवचनस्य कैमुत्यन्यायेन योधोत्साहातिशयप्रशंसापरत्वात् , तदृक्प्रभावयुक्तपुरुषविशेषविषयत्वेन भूतार्थवादत्वेऽपि निरुक्तस्य उत्सर्गतोऽननुसन्धानतन्त्रत्वाविघाताच्च । अत एव उक्तवक्ष्यमाणपक्षेषु योगिनां जातिस्मराणां च शरीरान्तरवृत्तान्तानुसन्धाने न दोषप्रसक्तिः ।
अपरे तु - शरीरैक्यभेदौ अनुसन्धानतदभावप्रयोजकोपाधी । बाल्यभवान्तरानुभूतयोरनुसन्धानतदभावदृष्टेः । न च बाल्ययौवनयोरपि शरीरभेदः शङ्कनीयः । प्रत्यभिज्ञानात् । न च परिमाणभेदेन तद्भेदावगमः । एकस्मिन् वृक्षे मूलाग्रभेदेनेव कालभेदेनैकस्मिन्ननेकपरिमाणान्वयोपपत्तेः । ननु अवयवोपचयमन्तरेण न परिमाणभेदः, अवयवाश्च पश्चादापतन्तो न पूर्वसिद्धं शरीरं परियुज्यन्ते इति परिमाणभेदे शरीरभेद आवश्यकः − इति चेत् , न−प्रदीपारोपणसमसमयसौधोदरव्यापिप्रभामण्डलविकासतत्पिधानसमसमयतत्सङ्कोचाद्यननुरोधिनः परमाणुप्रक्रियारम्भवादस्य अनभ्युपगमात् । विवर्तवादे च ऐन्द्रजालिकदर्शितशरीरवत् विनैवावयवोपाचयं मायया शरीरस्य वृद्ध्युपपत्तेः− इत्याहुः ।
इतरे तु - अन्तःकरणाभेदतद्भेदाभ्यामनुसन्धानाननुसन्धानव्यवस्थामाहुः । अयं च पक्षः प्रागुपपादितः ।
केचित्तु अज्ञानानि जीवभेदोपाधिभूतानि नानेति स्वीकृत्य तद्भेदाभेदाभ्याम् अनुसन्धानाननुसन्धानव्यवस्थामाहुः ।
अत्र केचित् ‘अंशो नानाव्यपदेशात्’ (ब्र. सू. २ । ३ । ४३) इत्यधिकरणे ‘अदृष्टानियमात्’ (ब्र. सू. २ । ३ । ५१) ‘अभिसन्ध्यादिष्वपि चैवम्’ (ब्र. सू. २ । ३ । ५२) ‘प्रदेशादिति चेन्नान्तर्भावात्’ (ब्र. सू. २ । ३ । ५३) इति सूत्रतद्गतभाष्यरीतिमनुसृत्य एकस्मिन्नात्मनि उपाधिभेदेन व्यवस्थानुपगमे कणभुगादिरीत्याऽऽत्मभेदवादेऽपि व्यवस्थानुपपत्तितौल्यमाहुः । तथा हि−चैत्रचरणलग्नकण्टकेन चैत्रस्य वेदनोत्पादनसमये अन्येषामप्यात्मनां कुतो वेदना न जायते । सर्वात्मनां सर्वगतत्वेन चैत्रशरीरान्तर्भावाविशेषात् । न च − यस्य शरीरे कण्टकवेधादि तस्यैव वेदना, नान्येषामिति-व्यवस्था । सर्वात्मसन्निधावुत्पद्यमानं शरीरं कस्यचिदेव नान्येषामिति नियन्तुमशक्यत्वात् । न च यददृष्टोत्पादितं यच्छरीरं तत्तदीयमिति नियमः । अदृष्टस्यापि नियमासिद्धेः । यदा हि तददृष्टोत्पादनाय केनचिदात्मना संयुज्यते मनः, संयुज्यत एव तदा अन्यैरपि । कथं कारणसाधारण्ये क्वचिदेव तददृष्टमुत्पद्येत ।ननु- मनस्संयोगमात्रसाधारण्येऽपि ‘अहमिदं फलं प्राप्नवानि’ इति अभिसन्धिः अदृष्टोत्पादककर्मानुकूलकृतिः इत्येवमादि व्यवस्थितमिति तत एवादृष्टनियमो भविष्यति इति चेत् , न−अभिसन्ध्यादीनामपि साधारणमनस्संयोगादिनिष्पाद्यतया व्यवस्थित्यसिद्धेः । ननु स्वकीयमनस्संयोगोऽभिसन्ध्यादिकारणमिति मनस्संयोग एवासाधारणो भविष्यतीति, न -नित्यं सर्वात्मसंयुक्तं मनः कस्यचिदेव स्वम् इति नियन्तुमशक्यत्वात् । न च अदृष्टविशेषात् आत्मविशेषाणां मनसः स्वस्वामिभावसिद्धिः । तस्याप्यदृष्टस्य पूर्ववद्व्यवस्थित्यसिद्धेः । नन्वात्मनां विभुत्वेऽपि तेषां प्रदेशविशेषा एव बन्धभाज इति आत्मान्तराणां चैत्रशरीरे तत्प्रदेशविशेषाभावात् सुखदुःखादिव्यवस्था भविष्यतीति, न−यस्मिन् प्रदेशे चैत्रः सुखाद्यनुभूय तस्मात्प्रदेशादपक्रान्तः तस्मिन्नेव मैत्रे समागते तस्यापि तत्र सुखदुःखादिदर्शनेन शरीरान्तरे आत्मान्तरप्रदेशविशेषस्याप्यन्तर्भावात् ।
तस्मात् आत्मभेदेऽपि व्यवस्था दुरुपपादैव । कथञ्चित्तदुपपादने च श्रुत्यनुरोधाल्लाघवाच्च आत्मैक्यमङ्गीकृत्य तत्रैव तदुपपादनं कर्तुं युक्तमिति ।
सन्तु तर्ह्यणव एवात्मानः, यदि विभुत्वे व्यवस्था न सुवचा । मैवम्− आत्मनामणुत्वे कदाचित् सर्वाङ्गीणसुखोदयस्य करशिरश्चरणाधिष्ठानस्य चानुपपत्तेः ।
यदत्रार्वाचीनकल्पनम्-उत्क्रान्तिगत्यागतिश्रवणान्यथानुपपत्त्या ‘अणुर्ह्येवैष आत्मा यं वा एते सिनीतः पुण्यं च पापं च’ ‘वालाग्रशतभागस्य’ (श्वे. उ. ५ । ९) इत्यादिश्रुतिषु साक्षादणुत्वश्रवणेन च अणव एव जीवाः । तेषामणुत्वेऽपि ज्ञानसुखादीनां प्रदीपप्रभान्यायेन आश्रयातिरिक्तप्रदेशविशेषव्यापिगुणतया न सर्वाङ्गीणसुखानुपलब्धिः, ‘द्रोणं बृहस्पतेर्भागम्’ इत्यादिस्मृत्यनुरोधेन जीवानामंशसत्त्वात् करशिरश्चरणाद्यनुगतेषु सुखदुःखादियौगपद्यं कायव्यूहगतेषु योगिनां भोगवैचित्र्यं चेति न काचिदनुपपत्तिः । एवं च जीवानामणुत्वेनासङ्करात् सुखदुःखादिव्यवस्था विभोरीश्वरात् भेदश्च − इति ।
अत्रोक्तमद्वैतदीपिकायाम् - एवमपि कथं व्यवस्थासिद्धिः । चैत्रस्य ‘पादे वेदना शिरसि सुखम्’ इति स्वांशभेदगतसुखदुःखानुसन्धानवत् मैत्रगतसुखदुःखानुसन्धानस्यापि दुर्वारत्वात् अविशेषो हि चैत्रजीवात् तदंशयोः मैत्रस्य च भेदः । कायव्यूहस्थले वियुज्यान्यत्रप्रसरणसमर्थानामंशानां जीवाद्भेदावश्यम्भावात् , अंशांशिनोस्त्वया भेदाभेदाभ्युपगमाच्च । न च शुद्धभेदोऽननुसन्धानप्रयोजक इति वाच्यम् । शुद्धत्वं हि भेदस्य अंशांशिभावासहचरितत्वं वा अभेदासहचरितत्वं वा स्यात् ? नाद्यः (‘अंशो ह्येष परमस्य‘) ‘ममैवांशो जीवलोके’ (भ. गी. १५ । ७) ‘अंशो नानाव्यपदेशात्’ (ब्र. सू. २ । ३ । ४३) इति श्रुतिस्मृतिसूत्रैर्जीवस्य ब्रह्मांशत्वप्रतिपादनेन ब्रह्मजीवयोर्भोगसाङ्कर्यप्रसङ्गात् । ननु - जीवांशानां जीवं प्रतीव जीवस्य ब्रह्म प्रति नांशत्वम् , किं तु ‘चन्द्रबिम्बस्य गुरुबिम्बः शतांशः’ इतिवत् सदृशत्वे सति ततो न्यूनत्वमात्रमौपचारिकांशत्वमिति - चेत् , किं तदतिरेकेण मुख्यमंशत्वं जीवांशानां जीवं प्रति, यदत्राननुसन्धानप्रयोजकशरीरे निवेश्यते ? न तावत् पटं प्रति तन्तूनामिवारम्भकत्वम् । जीवस्यानादित्वात् । नापि महाकाशं प्रति घटाकाशादीनामिव प्रदेशत्वम् , टङ्कच्छिन्नपाषाणशकलादीनामिव खण्डत्वं वा । अणुत्वेन निष्प्रदेशत्वादच्छेद्यत्वाच्च । भिन्नाभिन्नद्रव्यत्वमंशत्वमभिमतमिति चेत् , न−तथा सति जीवेश्वरयोर्जीवानां च भोगसाङ्कर्यप्रसङ्गात् । स्वतो भिन्नानां तेषां चेतनत्वादिना अभेदस्यापि त्वयाऽङ्गीकारात् , समूहसमूहिनोर्भेदाभेदवादिनस्तव मते एकसमूहान्तर्गतजीवानां परस्परमप्यभेदसत्त्वाच्च स्वाभिन्नसमूहाभिन्नेन स्वस्याप्यभेदस्य दुर्वारत्वात् । ‘यदि संयोगादीनां जातेश्च अनेकाश्रितत्वं स्यात्, तदा गुणगुण्यादेरभेदात् घटाभिन्नसंयोगाभिन्नपटादेरपि घटाभेदः प्रसज्येत’ इत्यादि वदता त्वया तदभिन्नाभिन्नस्य तदभेदनियमाभ्युपगमात् । न च जीवान्तरसाधारणचेतनत्वादिधर्मैकरूप्यैकसमूहान्तर्गतत्वादिप्रयुक्ताभेदविलक्षणमभेदान्तरमंशांशिनोरस्ति भेदेऽप्यनुसन्धानप्रयोजकम् , यदत्रानतिप्रसङ्गाय विवक्ष्येत । तथा सति तस्यैव विशिष्य निर्वक्तव्यत्वापत्तेः । धर्मैकरूप्याद्यप्रयुक्तत्वमंशांशिनोरभेदे विशेष इति चेत् , न - जीवतदंशयोश्चेतनत्वादिधर्मैकरूप्यसत्त्वेन एकशरीरावच्छेदे कायव्यूहमेलने च समूहत्वेन च तयोरभेदे धर्मैकरूप्यादिप्रयुक्तत्वस्यापि सद्भावात् । धर्मैकरूप्यादिप्रयुक्ताभेदान्तरसत्त्वेऽपि जीवतदंशयोरंशांशिभावप्रयोजकाभेदो न तत्प्रयुक्त इति चेत् , न−तयोरभेदद्वयाभावात् , त्वन्मतेऽधिकरणैक्ये सति भेदस्याभेदस्य वा प्रतियोगिभेदेन तदाकारभेदेन वा अनेकत्वानभ्युपगमात् , तस्मादाद्यपक्षे सुस्थोऽतिप्रसङ्गः । एतेनैव द्वितीयपक्षोऽपि निरस्तः । अभेदासहचरितभेदस्याननुसन्धानप्रयोजकत्वे उक्तरीत्या त्वन्मते जीवब्रह्मणोर्जीवानां चाभेदस्यापि सत्त्वेनातिप्रसङ्गस्य दुर्वारत्त्वात् । ननु - अभेदप्रत्यक्षमनुसन्धाने तन्त्रमिति तदभावेऽननुसन्धानम् , स्वस्य स्वाभेदः स्वांशाभेदश्च प्रत्यक्ष इति तद्द्रष्टुर्दुःखाद्यनुसन्धानम् , जीवान्तरेणाभेदसत्त्वेऽपि तस्याप्रत्यक्षत्वात् न तद्दुःखाद्यनुसन्धानम् ; जातिस्मरस्य प्राग्भावीयात्मनापि अभेदस्य प्रत्यक्षसत्त्वात् तद्वृत्तान्तानुसन्धानम् , अन्येषां तदभावात् न; इत्यादि सर्वं सङ्गच्छते−इति चेत् , तर्ह्यैकात्म्यवादेऽपि सर्वात्मतावारकाज्ञानावरणात् चैत्रस्य न मैत्रात्माद्यभेदप्रत्यक्षमिति तत एव सर्वव्यवस्थोपपत्तेः व्यर्थः श्रुतिविरुद्ध आत्मभेदाभ्युपगमः । न चेत्थमपि प्रपञ्चतत्त्ववादिनस्तव व्यवस्थानिर्वाहः । सर्वज्ञस्येश्वरस्य वस्तुसज्जीवान्तराभेदप्रत्यक्षावश्यम्भावेन जीवेषु दुःखिषु ‘अहं दुःखी’ इत्यनुभवापत्तेः । अस्मन्मते तु ईश्वरः स्वाभिन्ने जीवे संसारं प्रतिबिम्बमुखे मालिन्यमिव पश्यन्नपि मिथ्यात्वनिश्चयात् न शोचतीति नैष प्रसङ्गः ।
स्यादेतत् - माभूदंशभेदः । करशिरश्चरणादीनां कायव्यूहस्य च अधिष्ठानम् , आत्मदीपस्यानपायिनी ज्ञानप्रभाऽस्ति व्यापिनीति सैव सर्वाधिष्ठानं भविष्यतीति चेत् , न−ज्ञानवदात्मधर्मस्य सुखदुःखभोगस्य ज्ञानमाश्रित्य उत्पत्त्यसम्भवेन करचरणाद्यवयवभेदेन अवयविनः, कायव्यूहवतः कायभेदेन च भोगवैचित्र्याभावप्रसङ्गात् । ‘सुखदुःखभोगादि ज्ञानधर्म एव नात्मधर्मः’ इत्यभ्युपगमे तद्वैचित्र्येण आत्मगुणस्य ज्ञानस्य भेदसिद्धावपि आत्मनो भेदासिद्ध्या भोगवैचित्र्यादिना आत्माभेदप्रतिक्षेपायोगात् । ‘भोगाद्याश्रयस्यात्मनोऽणुत्वेन प्रतिशरीरं विच्छिन्नतया तद्व्यापित्ववाद इव तदभेदवाद इव च न सर्वधर्मसङ्करापत्तिः’ इति मतहानेश्च ।
तस्माज्जीवस्याणुत्वोपगमेन व्यवस्थोपपादनं न युक्तमिति ।
नापि तेन तस्य ईश्वरात् भेदसाधनं युक्तम् । ‘उत्क्रान्त्यादिश्रवणात् साक्षादणुत्वश्रवणाच्च अणुर्जीवः’ इति वदतः तव मते ‘तत्सृष्ट्वा । तदेवानुप्राविशत् ।’ (तै. उ. २ । ६ । १) ‘अन्तःप्रविष्टश्शास्ता जनानाम्’ (तै. आ. ३ । ११) ‘गुहां प्रविष्टौ परमे परार्धे’ (क. उ. १ । ३ । १) इत्यादिश्रुतिषु प्रवेशादिश्रवणात् ‘स य एषोऽणिमा’ (छा. उ. ६ । ८ । ७) ‘एष म आत्माऽन्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा’(छा. उ. ३ । १४ । ३) इति श्रुतौ साक्षादणुत्वश्रवणाच्च परोऽप्यणुरेव सिध्येदिति कुतः परजीवयोर्विभुत्वाणुत्वाभ्यां भेदसिद्धिः । ननु − ‘आकाशवत् सर्वगतश्च नित्यः’(शत. ब्रा. १० । ६ । ३ । २) ‘ज्यायानन्तरिक्षात् ज्यायान्दिवः’ (छा. उ. ३ । १४ । ३) इत्यादिश्रवणात् सर्वप्रपञ्चोपादानत्वाच्च परस्य सर्वगतत्वसिद्धेः तदणुत्वश्रुतयः उपासनार्था दुर्ग्रहत्वाभिप्राया वा उन्नेयाः । प्रवेशश्रुतयश्च शरीराद्युपाधिना निर्वाह्याः न च जीवोत्क्रान्त्यादिश्रुतयोऽपि बुद्ध्याद्युपाधिना निर्वोढुं शक्या इति शङ्क्यम् । ‘तमुत्क्रामन्तं प्राणोऽनूत्क्रामति’ (बृ. उ. ४ । ४ । २) इति प्राणाख्यबुद्ध्युत्क्रान्तेः प्रागेव जीवोत्क्रान्तिवचनात् । ‘तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्’ (मु. उ. ३ । २ । ८) इति नामरूपविमोक्षानन्तरमपि गतिश्रवणाच्च । ‘तद्याथाऽनस्सुसमाहितमुत्सर्जन्यायादेवमेवायं शारीर आत्मा प्राज्ञेनात्मनाऽन्वारूढ उत्सर्जन् याति’ (बृ. उ. ४ । ३ । ३५) इति स्वाभाविकगत्याश्रयशकटदृष्टान्तोक्तेश्च - इति चेत् , नैतत्सारम्− ‘स वा एष महानज आत्मा योऽयं विज्ञानमयः’ (बृ. उ. ४ । ४ । २२) ‘घटसंवृतमाकाशं नीयमाने घटे यथा । घटो नीयेत नाकाशं तद्वज्जीवो नभोपमः’ । (अमृतबि-१३) इत्यादिश्रुतिषु जीवस्यापि विभुत्वश्रवणात् । त्वन्मते प्रकृतेरेव जगदुपादानत्वेन ब्रह्मणो जगदुपादानत्वाभावात् जीवस्य कायव्यूहगतविचित्रसुखदुःखोपादानत्ववत् अणुत्वेऽपि जगदुपादानत्वसम्भवाच्च, ततस्तस्य सर्वगतत्वासिद्धेः । तत्प्रवेशश्रुतीनां शरीरोपाधिकत्वकल्पने जीवोत्क्रान्त्यादिश्रुतीनामपि बुद्ध्युपाधिकत्वोपगमसम्भवात् ।
‘पञ्चवृत्तिर्मनोवद्व्यपदिश्यते’ (ब्र. सू. २ । ४ । १२) इति सूत्रभाष्ये बुद्धिप्राणयोः कार्यभेदाद्भेदस्य प्रतिपादितत्वेन बुद्ध्युपाधिके जीवे प्रथममुत्क्रामति प्राणस्यानूत्क्रमणोपपत्तेः । नामरूपविमोक्षानन्तरं ब्रह्मप्राप्तिश्रवणस्य प्राप्तरि जीव इव प्राप्तव्ये ब्रह्मण्यपि विभुत्वविरोधित्वात् , प्राकृतनामरूपविमोक्षानन्तरमपि अप्राकृतलोकविग्रहाद्युपधानेन ब्रह्मणः प्राप्तव्यत्ववादिमते प्राप्तुर्जीवस्यापि अप्राकृतदेहेन्द्रियादिसत्त्वेन तदुपधानेन ब्रह्मप्राप्तिश्रवणाविरोधात् , स्वाभाविकगत्याश्रयशकटदृष्टान्तश्रवणमात्रात् जीवस्य स्वाभाविकगतिसिद्धौ ‘गुहां प्रविष्टौ’ इति स्वाभाविकप्रवेशाश्रयजीवसमभिव्याहारेण ब्रह्मणोऽपि स्वाभाविकप्रवेशसिद्ध्यवश्यम्भावात् , ब्रह्मजीवोभयान्वयिन एकस्य प्रविष्टपदस्य एकरूपप्रवेशपरत्वस्य वक्तव्यत्वात् । तस्मात् परमते ब्रह्मजीवयोर्विभुत्वाणुत्वव्यवस्थित्यसिद्धेः ततो भेदसिद्धिप्रत्याशा दूरादपनेया । अस्मन्मते ब्रह्मात्मैक्यपरमहावाक्यानुरोधेन अवान्तरवाक्यानां नेयत्वात् ‘स्वरूपेण जीवस्य विभुत्वम् औपाधिकरूपेण परिच्छेदः’ इत्यादिप्रकारेण जीवब्रह्मभेदप्रापकश्रुतीनामुपपादनं भाष्यादिषु व्यक्तम् ।
तस्मात् अचेतनस्य प्रपञ्चस्य मिथ्यात्वात् चेतनप्रपञ्चस्य ब्रह्माभेदाच्च न वेदान्तानाम् अद्वितीये ब्रह्मणि विद्यैकप्राप्ये समन्वयस्य कश्चिद्विरोध इति ॥
॥ इति शास्त्रसिद्धान्तलेशसङ्ग्रहे द्वितीयः परिच्छेदः ॥