०४

आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॥१॥

एवं पादत्रयेण वेदान्तानां ब्रह्मणि समन्वयः प्रसाधितः। स न सङ्गच्छते। यतः कानिचिद्वेदान्तवाक्यानि प्रधानकारणत्वादिप्रतिपादकान्यपि लक्ष्यन्ते। अत ईक्षत्यधिकरणोक्तं प्रधानस्याशब्दत्वमप्ययुक्तमित्याशङ्कानिरासेन प्रसाधितसमन्वयदृढीकरणमस्य पादस्यार्थः। नन्वेवं सति श्रुतिविगानपरिहारः पादार्थ इत्युक्तं स्यात्। स तु द्वितीयाध्याये वियत्प्राणपादयोः करिष्यते। सत्यम्। तत्र कार्यविषयश्रुतिविगानपरिहारः, अत्र तु जगत्कारणे ब्रह्मणि समन्वयप्रतिष्ठार्थं कारणविषयश्रुतिविगानपरिहार इति भेदः। यद्यपि सोऽप्यत्रैव कर्तुं शक्यः, तथापि कार्ये वेदान्तानां न तात्पर्यमिति गमयितुमिह न कृतः, द्वितीयाध्याये तु तर्कपादे परपक्षाणां विप्रतिषेधादुपेक्ष्यत्वे वर्णिते तर्हि वेदान्तानामपि ब्रह्मसृज्यकार्यतत्क्रमादिविषये विप्रतिषेधोऽस्तीति शङ्कापरिहारस्तत्र वेदान्तानां तात्पर्यमभ्युपेत्य कृतः ।

‘‘इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः। महतः परमव्यक्तमव्यक्तात्पुरुषः परः। पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः’(क.उ.१-३-१०,११) इत्यत्राव्यक्तपदं प्रधानपरं शरीरपरं वेति स्मार्तक्रमश्रौतपरिशेषाभ्यामुभयोः प्रत्यभिज्ञानात् संशयः। तत्र य एव यन्नामानो यत्क्रमाश्च महदव्यक्तपुरुषाः साङ्ख्यस्मृतिप्रसिद्धाः ते तथैव इह प्रत्यभिज्ञायन्ते। अतो महदादिसकलविकारमूलकारणत्वेन महतः परं पुरुषभोग्यत्वेन पुरुषादवरञ्च यदव्यक्तनामकं स्वतन्त्रं स्मृतिप्रसिद्धं प्रधानं तदेवात्राव्यक्तपदेनोक्तमिति श्रुतिसिद्धमेव प्रधानस्य स्वातन्त्र्येण जगत्प्रकृतित्वं कपिलादिभिर्महर्षिभिः परिगृहीतमिति च ज्ञायते। एवञ्च यद्यपि प्रतिवेदान्तं ब्रह्मावगतिरूपं गतिसामान्यमस्ति , तथापि क्वचित् प्रधानमपि कारणत्वेन समन्वयविषय इति न सर्ववेदान्तानां जगत्कारणे ब्रह्मणि ऐककण्ठ्येन समन्वयः, न प्रधानस्याशब्दत्वं न च ब्रह्मलक्षणस्य शुद्धतेति पूर्वपक्षः। स्यादेतत्। पूर्वत्र ‘‘आत्मानं रथिनं विद्धि शरीरं रथमेव तु। बुद्धिन्तु सारथिं विद्धि मनः प्रग्रहमेव च। इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्’(क.उ.१-३-३,४) इत्यादावात्मशरीरबुध्यादयो रथिरथसारथ्याद्यात्मना रूपिताः। तत्र बुद्ध्यात्मनोर्मध्ये शरीरस्य श्रुतत्वादिहापि तयोर्मध्ये श्रुतमव्यक्तं शरीरं भवितुमर्हति ; स्मार्तक्रमतः श्रौतक्रमस्य बलीयस्त्वात्। न च वाच्यम् – अव्यक्तमिह महत्पुरुषयोर्मध्ये श्रुतम् , न तु बुद्ध्यात्मनोर्मध्ये – इति। पुरुषशब्दस्यात्मवाचित्वान्महच्छब्दस्य हैरण्यगर्भबुद्धिवाचितत्वात् , ‘मनो महान्मतिर्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वरः’ इति तन्नामसु पाठात् , बुद्धिशब्दस्य हिरण्यगर्भबुद्धिसाधारण्येऽपि व्यष्टिसमष्टिभेदेन पृथग्ग्रहणोपपत्तेः। महच्छब्दो महत्तत्त्ववाचीति साङ्ख्यपक्षेऽपि तथैव पृथग्ग्रहणस्योपपादनीयत्वात्। तन्मते बुद्धिशब्दस्य महत्तत्त्वाभिधानत्वाभ्युपगमात् ।

अपि च ‘आत्मानं रथिनं विद्धि’ इत्यारभ्य ‘‘विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः। सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्’(क.उ.१-३-९) इत्यन्तेन संयतमनोबुद्ध्याद्युपकरणवता पुरुषेण प्राप्यं विष्णोः परमं पदमुक्त्वा किं तत् परमं पदमित्याकाङ्क्षायामिन्द्रियादिभ्यः परत्वेन तत्प्रतिपादनार्थं तच्छेषत्वेन इन्द्रियादीन्यनुक्रान्तानि। तत्र पूर्वं रथिरथादिकल्पनायां गृहीता एवेन्द्रियादयोऽत्रापि ग्राह्याः ; प्रकृतत्वात्। एवञ्च रथत्वेन रूपितं शरीरं पुरुषपरत्वप्रतिपादकवाक्यस्थेन केनचित्पदेनाभिधानमपेक्षमाणं सत् स्वाभिधेयावरुद्धानीन्द्रियादिपदानि विहाय परिशिष्टमव्यक्तपदमनुधावति। अव्यक्तपदञ्च रथिरथादिरूपकविषयार्थमध्ये कञ्चिदर्थमभिधातुमपेक्षमाणं सत् स्वशब्दोपात्तानीन्द्रियादीनि विहाय परिशिष्टं शरीरमनुधावति। एवमन्योन्याकाङ्क्षालक्षणेन प्रकरणेनापि शरीरमेवाव्यक्तं भवितुमर्हतीति चेत् –

उच्यते – स्मार्तक्रमतः श्रौतक्रमस्य बलीयस्त्वं तावदसिद्धम् ; शब्दस्य स्वातन्त्र्येण प्रामाण्यमनभ्युपगच्छतां साङ्ख्यानां मते श्रुतिस्मृत्योरनुमानसिद्धार्थानुवादित्वेन तुल्यत्वात्। श्रौतक्रमोऽप्यसिद्धः ; रूपकवाक्ये रथित्वेन रूपितस्य संसारिणः सारथित्वेन रूपितस्य तदध्यवसायस्य च मध्ये शरीरम् , पुरुषपरत्ववाक्ये साङ्ख्यमते महत्तत्त्वरूपस्य सिद्धान्ते संसार्यात्मस्वरूपस्य च महत आत्मनः , प्राप्यवैष्णवपदरूपस्य पुरुषस्य च मध्ये अव्यक्तमिति भेदात्। सिद्धान्ते ‘महानात्मा’ इत्यस्य प्राग्ग्रथित्वेन रूपिते संसारिणि वृत्तिसम्भवे व्यष्टिसमष्टिभेदेन बुद्धिमहद्भेदकल्पनाक्लेशानौचित्यात्। अव्यक्तपदस्य शरीरपरत्वापादकं प्रकरणमप्यसिद्धम्। प्रधानस्याकांक्षावतः सन्निधावाम्नानं हि प्रकरणम्। तथा च किं तत्परं पदमिति निर्धारणाकांक्षस्य वैष्णवपदस्य सन्निधावाम्नानरूपेण प्रकरणेन इन्द्रियादीनि तदीयपरत्वप्रमिताववधितयोपयोगित्वेन तदङ्गानि भवन्तु नाम। इन्द्रियादयो रथिरथादिकल्पनायां गृहीता एवान्यूनानतिरिक्ता इहापि ग्राह्या इति केन प्रकरणेन सिद्ध्यति ? न हीन्द्रियादिभिरसंयतैर्जीवः पुनः पुनः संसारमेव प्राप्नुयात्संयतैस्तु मुक्तिमिति प्रदर्शनार्थे रथिरथादिरूपणेऽङ्गभावमासाद्य निराकांक्षा इन्द्रियादयः पुरुषपरत्वप्रतिपादनेऽप्यङ्गभावमपेक्षन्ते। नापि प्रधानं वैष्णवपदं स्वकीयपरत्वप्रतिपादने तेषामवधितयाऽङ्गभावमपेक्षते। तद्धि ‘सा काष्ठा सा परा गतिः’ इति निरतिशयोत्कर्षप्रतिपादनानुसारेण कृत्स्नस्य जगतः परत्वावधितयाङ्गभावमपेक्षते। न च कृत्स्नं जगद्रूपकवाक्ये गृहीतम्। शरीरेन्द्रियतद्विषयमनोबुद्धिभोक्तॄणामेव तत्र ग्रहणात्। अतस्तदाकांक्षानुसारेण साङ्ख्याभिमतपुरुषावरचतुर्विंशतितत्त्वात्मकसकलप्रपञ्चसमर्पकत्वमेवात्र इन्द्रियादिशब्दानां युक्तम्। तत्रेन्द्रियाणि ज्ञानकर्मार्थानि दश। अर्थाः पञ्च तन्मात्राः पञ्चमहाभूतरूपा दश। मनोऽन्तरिन्द्रियम्। बुद्धिरहङ्कारः। महानात्मा महत्तत्त्वम् अव्यक्तं प्रधानमिति सङ्घटते तेषां चतुर्विंशतितत्त्वसमर्पकत्वम्। बुद्धिशब्दाभिधेयमहत्तत्त्वप्रभवत्वादहङ्कारे बुद्धिशब्द उपपन्नः ।

एतेन – सन्निधानाद्रूपकवाक्यगतान्येवेन्द्रियादीनि ग्राह्याणीति निरस्तम् ; आकांक्षायाः सन्निधानाद्बलीयस्त्वात्। ‘अर्थतो ह्यसमर्थानामानन्तर्येऽप्यसंबन्धः’(जै.सू.४-३-११) इति जैमिनिसूत्रदर्शनात् ‘यस्य येनार्थसम्बन्धो दूरस्थेनापि तेन सः। अर्थतो ह्यसमर्थानामानन्तर्यमकारणम्’ इति वार्तिकोक्तेश्च। एतेनैव रूपकवाक्ये षडर्था रूपकविषयाः इहापि परत्वावधयस्तावन्त इति संख्यासामान्यात्त एव ग्राह्या इत्यपि शङ्का निरस्ता। संख्यासाम्यतोऽप्याकाङ्क्षाया बलीयस्त्वात्। साङ्ख्यानां पञ्चविंशतिस्तत्त्वानि। इह परत्वावधयश्चतुर्विंशतिस्तत्त्वानि पुरुषः पञ्चविंशस्ततः परं तत्त्वान्तरं नास्तीति साङ्ख्याभिमततत्त्वग्रहणेऽपि संख्यासाम्यसंभवाच्च ।

ननु वैदिकस्याङ्गापेक्षस्यान्यत्र निबद्धमपि वैदिकमेवाङ्गजातं ग्राह्यम् , न त्वनिबद्धमप्यवैदिकमिति पूर्वतन्त्रे निर्णीतत्वादिह परमपदस्य परत्वावधिरूपस्वप्रतियोग्याकांक्षायां मुक्तिसंसारप्राप्तिवर्णनोपयोगिरूपणार्थतया प्राङ्निबद्धमपि तदेवेन्द्रियादिकं ग्राह्यं ‘एका देया षड् देयाश्चतुर्विंशतिर्देयास्सहस्रं देयमपरिमितं देयम्’ इति श्रुतावाधानदक्षिणाकल्पभेदप्रतिपादकेनापरिमितशब्देन रूढ्या समर्पितस्य बहुत्वस्य प्रतियोग्याकांक्षायामाधानदक्षिणाकल्पान्तरत्वेन निबद्धमपि सहस्रमेव हि प्रतियोगित्वेन गृह्यते। तस्मात्क्वचिदङ्गत्वेनानिबद्धमपि साङ्ख्योदितं तत्त्वजातं न ग्राह्यमिति चेत् ; स्यादप्येवं यद्यत्र तदाम्नानं न स्यात्। अस्ति त्वत्रैव साक्षादिन्द्रियाद्याम्नानम्। तथा च यथा सोमस्येतिकर्तव्यताकांक्षायां स्वप्रकरणाम्नातं सोमलताया रसीभावार्थमपेक्षितं तदाकांक्षापूरणसमर्थमभिषवादिसंस्कारजातमस्तीति तदङ्गभूतदीक्षणीयादिषु सन्निहितमपि तदाकांक्षापूरणासमर्थमैष्टिकमङ्गजातं न गृह्यते , एवमिहापि स्ववाक्याम्नातं निरतिशयपरत्वावध्याकांक्षापूरणसमर्थञ्चतुर्विंशतितत्त्वात्मकं कृत्स्नं जगदस्तीति सन्निधिमात्रलब्धमाकांक्षापूरणासमर्थं रूपितमिन्द्रियादिकं न ग्राह्यम्। किञ्च तद्ग्रहणे परिशेषादव्यक्तपदेन शरीरं ग्राह्यमापतितम् ; न तु तद्युज्यते। न ह्यव्यक्तपदस्य साङ्ख्याभिमतप्रधान इव शरीरे रूढिरस्ति। न वा तस्मिन्प्रत्यक्षे ‘न व्यक्तम्’ इति योगस्सम्भवति ।

ननु चतुर्विंशतितत्त्वग्रहणेऽपि ‘महानात्मा’ इत्यात्मश्रुतिर्न सम्भवति। नैष दोषः। व्यापकत्वाद्यर्थान्तरवृत्तितया तस्य महत्तत्त्वविशेषणत्वात्। अग्रे ‘महतः परमव्यक्तम्’ इति केवलमहच्छब्देनैव प्रतिनिर्देशदर्शनात्। ‘‘यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि। ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि’(क.उ. १-३-१३) इत्यग्रेतनमन्त्रे ज्ञानशब्दोदितायां बुद्धावपि विशेषणतयाऽत्मशब्दप्रयोगदर्शनेन ततश्चेतनपरत्वनिर्णयायोगाच्च। तस्मात्तन्त्रसिद्धं स्वतन्त्रं जगत्कारणं प्रधानमिहाव्यक्तपदेनोच्यत इति जगत्कारणे ब्रह्मणि न सर्ववेदान्तवाक्यसमन्वयः; नापि जगत्कारणत्वं ब्रह्मलक्षणमिति ।

एवं प्राप्ते सिद्धान्तः – परमपदशब्दोक्तस्य परमपुरुषस्य प्राप्यत्वेन प्रतिपादने य एवेन्द्रियादयो रूपकविषयाः संयतत्वगुणेन तत्प्राप्त्युपायतया तदङ्गत्वेन वर्णितास्त एव तस्य परत्वेन प्रतिपादनेऽपि स्वरूपेण तत्प्रमित्युपायतया तदङ्गत्वेन ग्राह्याः ; सन्निहितत्वात् , प्राप्यत्वप्रतिपादने तदङ्गत्वेन क्लृप्तत्वात् , संख्यासाम्याच्च। तन्त्रसिद्धतत्त्वेष्वान्तरालिकभेदेन संख्यासाम्यसत्त्वेऽप्यत्र श्रुतविभाजकोपाधिभिः संख्यासाम्याभावात् ‘दशमन्वन्तराणीह तिष्ठतीन्द्रियचिन्तकाः। भौतिकास्तु शतं पूर्णं सहस्रं त्वाभिमानिकाः। बौद्धा दशसहस्राणि तिष्ठन्ति विगतज्वराः। पूर्णं शतसहस्रन्तु तिष्ठन्त्यव्यक्तचिन्तकाः। पुरुषं निर्गुणं प्राप्य कालसंख्या न विद्यते’ इति तन्त्रसिद्धवचनान्तरमनुसृत्य इन्द्रियवर्गादीनामेकैकत्वेन परिगणनेऽपि तत्राव्यक्तान्तानां पाञ्चविध्यमिह षाड्विध्यमिति संख्याभेदानपायात्। ननु सोमाङ्गानामिव परत्वावधीनां पठितानां सत्त्वाद्रूपकवाक्यसन्निहितानीन्द्रियादीनि दीक्षणीयादिसन्निहितान्यैष्टिकाङ्गानीव न ग्राह्याणीति चेत् , तर्हि नतरामसन्निहितानि तन्त्रसिद्धतत्त्वानि ग्राह्याणीति क्व साङ्ख्यतत्त्वशङ्कावकाशः ? नन्विह पठितानामेवेन्द्रियादीनां तन्त्रसिद्धतत्त्वरूपतया पर्यवसानमुच्यत इति चेत् , तदेव प्राचीनरूपकविषयरूपतयाऽस्माभिरुच्यते ; सन्निहितत्वादिहेतुभ्यः ।

ननु सन्निहितपर्यवसाने परत्वावध्याकाङ्क्षापूरणं न भवति पुरुषावरकृत्स्नप्रपञ्चसङ्ग्रहाभावादिति चेत् , साङ्ख्याभिमततत्त्वपर्यवसानेऽपि तथैव। तन्मात्रादीनामग्रहणादर्थशब्दस्य इन्द्रियपदसमभिव्याहारेणेन्द्रियेभ्यः परत्वलिङ्गेन चेन्द्रियग्राह्यपरत्वात्। इन्द्रियेभ्योऽर्थानां परत्वस्येन्द्रियाणां पुरुषवशीकर्तृताया अर्थोपहाराधीनतया, वशीकृतानामपि तेषां निरतिशयसौन्दर्यवदर्थसन्निधाने क्षोभदर्शनेन च समर्थनीयत्वात्। यद्यप्यनयोर्मन्त्रयोर्नेन्द्रियादिभ्योऽर्थादीनामुत्तरोत्तरपरत्वे तात्पर्यम् , किन्तु इन्द्रियादिभ्यस्सर्वेभ्यः पुरुषस्य परत्व एव तात्पर्यमिति ‘आध्यानाय प्रयोजनाभावात्’(ब्र.सू.३-३-१४) इत्यधिकरणे निर्णेष्यते ; तथाऽपि तात्पर्यविषयस्य तस्यैव प्रमितावुपायत्वेनोच्यमानमिन्द्रियादिभ्योऽर्थादीनां परत्वमर्थादिशब्दानां यस्य यस्यार्थस्य ग्रहणे सम्भवति तं तमर्थमादाय सम्भवदेव ग्राह्यम्। अर्थवादतात्पर्यविषयप्राशस्त्यप्रमित्युपायोऽपि तत्तदवान्तरवाक्यार्थः स्वतस्सम्भवन्नेवार्थवादस्थपदानां तदुचितार्थग्रहणेन गृह्यते। तदर्थान्येव ह्यर्थवादाधिकरणगुणसूत्राणि तत्सिद्ध्यादीनि च। स्वतस्सम्भवदर्थाभावे चार्थवादान्तरकृतसंस्तवानुसारेण बुद्धिस(म्भ)वादयोग्योऽर्थस्तेषां तदुचितार्थग्रहणेन गृह्यते। यथा ‘तस्माद्द्वाभ्यामेति’ इत्यर्थवादस्यार्थवादान्तरकृतोरुसंस्तवानुसार्यर्थो द्वाभ्यामिति पदस्य मध्यमपर्वद्वयरूपार्थग्रहणेन गृह्यते। ‘मध्यमयोर्वा गत्यर्थवादात्’(जै.सू. ७-३-२५) इति सूत्रेण तथा निर्णयात्। सर्वधाऽप्यसम्भव एवासदर्थावलम्बनत्वं प्राशस्त्यस्य रुद्ररोदनाद्यर्थवादेषु। इहेन्द्रियेभ्यः परत्वमिन्द्रियग्राह्याणामुक्तरीत्या सम्भवति, अर्थवादान्तरकृतग्रहातिग्रहसंस्तवमनुसरति च ।

नन्वस्तु नाम अर्थपदं इन्द्रियग्राह्यपरम्। साक्षाद्भोग्यानामिन्द्रियग्राह्याणां पुरुषावरत्वोक्तौ तत्साधनत्वेन परम्परया पुरुषार्थपर्यवसायिनां तन्मात्रादीनां तत्कैमुतिकन्यायेन सिद्ध्यतीति चेत् ; एवमेव सन्निहितग्रहणेऽपि कण्ठोक्त्या, कैमुतिकन्यायेन च कृत्स्नस्य जगतः पुरुषावरत्वं सिद्ध्यतीति व्यर्थः सन्निहितपरित्यागस्तान्त्रिकतत्त्वपरिग्रहश्च। अवश्यञ्च कठवल्लीष्वेव उत्तरत्राम्नातयोः ‘‘इन्द्रियेभ्यः परं मनः मनसः सत्त्वमुत्तमम्। सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम्। अव्यक्तात्तु परः पुरुषो व्यापको लिङ्ग एव च। यद् ज्ञात्वा मुच्यते जन्तुरमृतत्वञ्च गच्छति’(क.उ.२-३-७.८) इति मन्त्रयोः कृत्स्नस्य जगतः पुरुषावरत्वसिद्ध्यर्थं कैमुतिकन्यायः समाश्रयणीयः ; तत्रार्थानामपाठात्। स इहाप्यस्तु। तस्मादिहेन्द्रियादिशब्दानां सन्निहितपरित्यागे कारणाभावात् प्राग्दर्शितपरिशेषलब्धया शरीराव्यक्तपदयोरितरेतराकाङ्क्षया शरीरपरमव्यक्तपदं न तु साङ्ख्याभिमतस्वतन्त्रप्रधानपरमिति सिद्धम् ।

सूत्रे ‘एकेषाम्’ इत्यनेन सर्वशाखागतकारणवाक्यानामीक्षत्यधिकरण इव प्रधानपरत्वं नाशंक्यत इति दर्शितम्। अपिशब्देन एकेषां कठानां शाखायामपि ब्रह्मकारणत्वप्रतिपादनं वाक्यान्तरैः क्रियमाणं नाक्षिप्यत इति दर्शितम्। तेन ब्रह्मलक्षणस्य नासम्भवः शंक्यते। नापि प्रतिवेदान्तं ब्रह्मकारणत्वावगतिसद्भावरूपं गतिसामान्यमाक्षिप्यते , किन्तु ब्रह्मकारणत्वमभ्युपगम्यैव ‘महतः परमव्यक्तम्’ इत्यत्र साङ्ख्यप्रक्रियाप्रत्यभिज्ञानात् तत्प्रक्रियानुसारेण प्रधानमपि क्वचित्कल्पे स्वतन्त्रकारणमभ्युपगन्तव्यमिति ब्रह्मलक्षणस्यातिव्याप्तिमात्रमाशंक्यत इति सूचितं भवति। यद्यपि उदाहृतमंत्रावष्टम्भेन शङ्का साङ्ख्यप्रक्रियाप्रसिद्धमहदादिकमपि तथैवाभ्युपगन्तव्यमिति प्रधानादिसकलतत्त्वसाधारणम् (णा), तथापि प्रधानस्वीकरणमुखेन ब्रह्मलक्षणाक्षेपेण प्रकृतसङ्गतिरित्यभिप्रेत्य विशिष्य प्रधानस्यानुमानिकशब्देन ग्रहणम्। स्वेन रूपेण रथित्वादिना उपमेयमात्मादिकं रूपवत्कुर्वन्तीति रूपकाणि उपमेयात्मादिसामानाधिकरण्येन निर्दिष्टानि रथिरथसारथिप्रग्रहाश्वगोचररूपाण्युपमानानि। रूपवच्छब्दात् ‘तत्करोति’ इति णिचि ‘णाविष्ठवत्प्रातिपदिकस्य’ इति इष्ठवद्भावान्मतुपो लुकि टेश्च लोपे रूपीत्यतः धातोः कर्तरि ण्वुलि ‘णेरनिटि’ इति णिलोपे च सति रूपवत्कुर्वन्तीत्यर्थे रूपकशब्दनिष्पत्तिः। रूपकात्मना विन्यस्ता आत्मशरीरादयस्तेषां मध्ये शरीराख्यं यद्रूपकविन्यस्तं तस्याव्यक्तपदेन गृहीतेरिति सिद्धान्तहेत्वर्थः ।

ननु बहुषु रूपकविन्यस्तेषु विद्यमानेषु कुतश्शरीरस्यैवाव्यक्तपदेन ग्रहणमित्याशङ्कावारणाय परिशेषप्रदर्शनार्थोऽपि हेतुसाधकहेतुः ‘शरीररूपकविन्यस्तगृहीतेः’ इत्यनेनैव सङ्गृहीतः। तत्र हेतौ शरीरे अधिकरणे ये रूपकात्मना विन्यस्ता इन्द्रियमनोबुद्ध्यात्मानः तेषां प्रातिस्विकैरिन्द्रियादिशब्दैर्ग्रहणादित्येकोऽर्थः। शरीररूपकस्य रथस्य ये विन्यः विशेषेण नेतारः विषयेष्वाकर्षका इन्द्रियाश्वास्तेषामस्तानि अस्यते गम्यते येष्विति गमनाधिकरणानि ‘विषयांस्तेषु गोचरान्’ इति मार्गात्मना रूपितानि तेषां रूपकवाक्ये विषयशब्दोक्तानामिहार्थशब्देन ग्रहणादित्यपरोऽर्थः। अत्र द्वितीयेऽर्थे विन्यस्तेत्यत्रास्तशब्दः ‘क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः’(पा.सू.३-४-७६) इति सूत्रेण ‘अस गतिदीप्त्यादानेषु’ इति धातोरिह गत्यर्थादधिकरणार्थप्रत्ययान्तः। भूताधिकारविहितोऽयं प्रत्ययः इन्द्रियाश्वानां विषयमार्गेषु सञ्चारस्यातीतस्यापि सत्त्वात्तद्विषयतयोपपन्नः। इडागमाभावस्तु ‘स्तोश्चुना श्चुः’(पा.सू. ८-४-४०) इत्यादिषु नुमागमाद्यकरणेन ‘अनित्यमागमशासनम्’ इति ज्ञापितत्वादुपपन्नः। अस्तशब्दात्प्राचीनो विनीशब्दो विपूर्वान्नयतेः क्विबन्तः ‘शरीररूपकविनि’ इति च षष्ठीबहुवचनान्तं भिन्नं पदं ‘तृतीया तत्कृतार्थेन गुणवचनेन’(पा.सू.२-१-३०) इति सूत्रे तत्कृतपदमिव ‘सुपां सुलुक्’(पा.सू.७-१-३९) इत्यादिसूत्रेण लुप्तविभक्तिकम्। अधिकरणार्थक्तयोगे ‘अधिकरणवाचिनश्च’(पा.सू.२-३-६८) इति विहितायाष्षष्ठ्याः ‘अधिकरणवाचिना च’(पा.सू. २-२-१३) इति समासनिषेधात्। एवमर्थद्वयपरिग्रहेण शरीरातिरिक्तानां सर्वेषां प्रतिस्विकशब्दैर्गृहीतत्वाच्छरीरमेवाव्यक्तपदेन ग्राह्यमिति परिशेषो लभ्यते ।

एवं सिद्धान्तहेतूपपादनार्थमन्ययोरपि द्वयोरर्थयोर्गर्भीकरणायैव ‘गृहीतेः’ इत्युक्तम्। ननु पुरुषपरत्ववाक्ये रूपकवाक्यनिर्दिष्टा एवेन्द्रियादयो ग्राह्या इति यदि सिद्धं स्यातदा शरीरातिरिक्तानां स्वस्वशब्दैर्गृहीततया परिशेषादव्यक्तशब्देन शरीरं ग्राह्यं सिध्येत् , तदेव कुत इत्याशङ्कायां सन्निहितत्वादिहेतुभ्य इत्येतदपि अनेनैव हेतुवाक्येनार्थत्रयपरेण लभ्यते। तत्र ‘रूपकविन्यस्त’ इतीन्द्रियादीनां प्राङ्निर्दिष्टत्वप्रदर्शनेन सन्निहितत्वं लभ्यते। तेषां प्राङ्निर्दिष्टत्वमात्रमनुक्त्वा विशिष्य रूपकविन्यस्तत्वोक्त्या रथसंयतैरिन्द्रियादिभिः परमपदमिति तेषां प्राप्त्युपायतया पुरुषशेषत्वक्लृप्तिर्लभ्यते परिशेषप्रदर्शनेन तु संख्यासाम्यम्। एवमनन्तरातीतग्रन्थपर्यालोचनायां नास्ति तन्त्रसिद्धतत्त्वग्रहणप्रत्याशेत्युक्तम्। तथैवोत्तरग्रन्थपर्यालोचनायामपीति युक्त्यन्तरसमुच्चयार्थो ‘दर्शयति च’ इति सूत्रशेषः। तथा हि – शरीरेन्द्रियमनोबुद्धिविषयभोगसंयुक्तस्य संसारिणः शरीरादीनां रथादिरूपकत्वकल्पनया संसारमोक्षगतिनिरूपणेन यस्य परमपदशब्दितस्य परब्रह्मणो मोक्षे प्राप्यत्वमुक्तं यस्य च निरतिशयपरत्वं वर्णितं तथाभूतब्रह्मभावावगतिं संसारिणस्तद्भावप्राप्तौ साक्षादुपायमभिप्रेत्य तदुपायमग्रे दर्शयति यथा ‘सा परा गतिः’ इत्येतदनन्तरम् ‘‘एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते। दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः’(क.उ.१-३-१२)इति मन्त्रेण तावत्तस्य परमपुरुषस्य परब्रह्मणः सर्वभूतेषु गूढतयाऽवस्थानमुक्त्वाऽत्यन्तदुरधिगमत्वमुक्तं तत्संसारिणस्तदेव परं ब्रह्म तात्त्विकं स्वरूपं न भोक्तृत्वादिविशिष्टं संसारदशायां प्रकाशमानं रूपमिति विवक्षयैव। तथा सत्येव कथं भोक्तृत्वादिविशिष्टस्यातथाभूतब्रह्मभाव इति विचिकित्सया तदधिगमस्य दौर्लभ्योपपत्तेः जीववज्जीवादन्यद्ब्रह्मापि भूतेषु गूढं वर्तत इति विवक्षायां हृदयकमलसंस्थानादिवत् तस्मिन्नपि वेदोक्तिविश्वासात् सुखेनाधिगमसम्भवात् ।

एवं दुरधिगमत्वोक्त्यनन्तरं तदधिगमोपायं दर्शयति ‘‘यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेद् ज्ञान आत्मनि। ज्ञानमात्मनि महति नियच्छेत् तद्यच्छेच्छान्त आत्मनि’(क.उ. १-३-१३) इति। अत्र वागुपलक्षितसकलबाह्येन्द्रियव्यवहारस्य विषयविकल्पाभिमुखस्य मनसो विषयप्रवणाया बुद्धेरिन्द्रियमनोबुद्धियोगाद्भोक्तृत्वमापन्नस्य जीवस्य च क्रमात् पूर्वपूर्वप्रविलापनेन जीवस्य तात्त्विके रूपे प्रकरणिनि परब्रह्मणि प्रतिष्ठापनमुच्यते। एवमभ्यस्यतः क्रमेण ब्रह्मभावावगतिः स्थिरीभवतीति। एवमिदमद्वैतप्रकरणमिति कृत्स्नकठवल्लीपर्यालोचनयाऽपि ‘त्रयाणामेव’ इति सूत्रे व्यक्तीभविष्यति। एवञ्च देहेन्द्रियमनोबुद्धीनां रथत्वादिकल्पनं पुरुषावरत्ववर्णनञ्च न केवलं परमपदप्राप्तौ , तस्य परत्वप्रमितौ चोपायतया , किन्त्वात्मनो देहेन्द्रियमनोबुद्धिव्यतिरेकदार्ढ्यार्थतयाऽपि। अन्यथा देहेन्द्रियादिधर्मैर्विरुद्धधर्मवत्तया भासमाने संसारिणि ब्रह्मभावावगतिदार्ढ्यासम्भवात्। अतः पुरुषपरत्ववाक्ये मनोबुद्धीन्द्रियाणामिव देहस्यापि व्यतिरेकप्रतिपत्त्यर्थमस्ति ग्रहणाकांक्षेति ततोऽप्यव्यक्तपदं शरीरपरमवसीयते। एवञ्च सति न्यायसाम्यात् ‘इन्द्रियेभ्यः परं मनः’ इत्यग्रेतनवाक्येऽप्यव्यक्तपदं शरीरपरमेव। तत्रापि ह्यत्रोक्त एवार्थो दार्ढ्यार्थं पुनरनुवर्णितः। अर्थाः परं तत्र न कीर्तिताः। आत्मनो देहादिव्यतिरेकवदर्थव्यतिरेकस्यास्पष्टत्वाभावेन कण्ठोक्त्या ततः परत्वप्रतिपादनस्यात्यन्तोपयोगित्वाभावात्। एवं पूर्वापरपर्यालोचनया साङ्ख्यानभिमताद्वैतप्रकरणे नास्ति तत्तन्त्रसिद्धतत्त्वग्रहणप्रत्याशावकाश इति। ‘दर्शयति च’ इति चकारो दर्शयतीत्यनेन युक्त्यन्तरं समुच्चीयते, न तु प्राचीनहेतुसाधकहेतुरुच्यते इति ज्ञापनार्थः। सन्निहितेन्द्रियादिग्रहणे पुरुषावरकृत्स्नप्रपञ्चसंग्रहो नास्तीत्यादिशङ्कानिरासार्थो वा। ।१-४-१।

ननु तथाऽप्यव्यक्तं प्रधानमित्येव युक्तम्। तत्र ह्यव्यक्तपदस्य रूढिरस्ति , न व्यक्तमिति योगोऽप्यस्ति न तु शरीर इत्याशङ्कायामाह –

सूक्ष्मं तु तदर्हत्वात् ॥२॥

साङ्ख्यानां पारिभाषिकी रूढिर्न वेदार्थनिर्णयोपयोगिनी। लौकिकी त्वव्यक्तपदस्य न प्रधानेऽस्ति। योगस्तु स्यात्। स त्वन्यस्यापि सूक्ष्ममात्रस्य साधारणः। तथाऽपि शरीरं स्थूलमेव इति चेत् ; सत्यम्। सूक्ष्मं त्विह कारणात्मना शरीरं विवक्ष्यते। तस्य कारणं ह्यव्याकृतं सूक्ष्मम्। तदात्मना शरीरमपि सूक्ष्मम्। यद्यपि सर्वं जगदव्याकृतात्मना सूक्ष्ममेव ‘तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत’ इति (बृ.उ.१-४-७) सर्वस्य जगतः प्रागव्याकृतभावश्रवणात् , तथाऽप्यत्र ग्राह्याणामिन्द्रियादीनां शब्दान्तरैर्गृहीतत्वात् परिशिष्टं शरीरमेकमिति तदेव कारणवाचिना उपचाराद्गृह्यते ।

स्यादेतत् – अव्याकृतमपि नाव्यक्तशब्दार्हम्। तद्धि मायाऽविद्याक्षराकाशादिशब्दैः श्रुतिषु प्रसिद्धमज्ञानमिति भवद्भिरिष्यते। तत्र च ‘न जानामि नावेदिषम्’ इत्यादिप्रत्यक्षं प्रमाणमुपन्यस्यते। कथं तत्सूक्ष्ममस्पष्टम् ? अस्पष्टवचनो ह्यव्यक्तशब्दः , न त्वनिर्वाच्यवचनः ; तथा लोकप्रसिध्यभावात्तान्त्रिकपरिभाषायाश्चानादिशब्दार्थनिर्णयानुपयोगित्वस्योक्तत्वात् , अनिर्वाच्यवचनत्वे च शरीरस्याप्यनिर्वाच्यत्वेनाभ्युपगततया तत्र साक्षादव्यक्तशब्दस्य वृत्त्युपपत्तौ प्रागवस्थितोपचारसमाश्रयणक्लेशायोगादित्याशंक्योक्तं सूत्रे ‘तदर्हत्वात्’ इति। कारणस्यास्पष्टस्याव्यक्तशब्दार्हत्वादित्यर्थः। अयमाशयः – यथा स्थूलमिदं शरीरं स्फुटतरबाह्येन्द्रियप्रत्यक्षसिद्धमनेकार्थक्रियाकार्यातिस्पष्टं नैवमज्ञानम्। अत एव ‘न जानामि’ इत्यादिप्रत्यक्षं क्लृप्तज्ञानाभावविषयमस्त्विति कदर्थयन्तस्तदद्याप्यपलपितुं प्रयतन्ते। ततश्च यथैव ‘अपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः’ इति भाष्योक्तरीत्या सर्वेषां प्रत्यग्रूपतया प्रकाशमानमपि परं ब्रह्माविद्यादोषाद्यथावत् स्फुटतरमप्रकाशमानमद्यापि अनात्मस्वात्मप्रतिपत्तिमद्भिश्चोरैर्मुष्यमाणमस्पष्टमव्यक्तशब्दार्हम् , अत एव ‘तदव्यक्तमाह हि’(ब्र.सू.३-२-२३) इति सूत्रयिष्यते एवमिदमपीति ।१-४-२।

ननु यदि सर्वविकारप्रकृतिभूतमव्याकृतमिति किञ्चिदभ्युपगम्यते हन्त भोः स एव प्रधानकारणवादः प्राप्तः। साङ्ख्यैरपि हि तदेव प्रधानमिति व्यपदिश्यत इत्याशंक्याह –

तदधीनत्वादर्थवत् ।३।

अस्मदङ्गीकृतमव्याकृतं जगत्कारणस्य परमेश्वरस्य शक्तिरूपतया तदधीनमिति तदङ्गीकारेण न स्वतन्त्रप्रधानकारणवादाभ्युपगमप्रसञ्जनावकाशः। ननु यदि परमेश्वर एव जगत्कारणं कृतमव्याकृतेन तदधीनेनेत्याशंक्योक्तं सूत्रे ‘अर्थवत्’ इति। अर्थवत् सफलमव्याकृतम्। न हि शक्तिरूपेण तेन विना निर्विकारचैतन्यरूपस्य परमेश्वरस्य जगदुपादानत्वं जगत्स्रष्टृत्वं वा सम्भवति। तदेतत् प्रकृत्यधिकरणे स्थापयिष्यमाणस्य ब्रह्मणः उभयविधकारणत्वस्य निर्वाहकमिह प्रसङ्गात् सूत्रितम्। तत्रैव व्यक्तीकरिष्यामः ।

ननु यदव्यक्तं शरीरं कथं तद्भोक्तृभोगायतनतया तच्छेषभूतं ततः परं स्यादिति शङ्कायामप्येतदेवोत्तरं ‘तदधीनत्वादर्थवत्’ इति। यथा खल्विन्द्रियाणां पुरुषवशीकर्तृत्वस्यार्थाधीनत्वादर्थानामिन्द्रियेभ्यः परत्वम् , जीवभावेन भोक्तृत्वस्याव्यक्ताधीनत्वात् तस्य तावत्ततः परत्वं युक्तम्। तद्रूपतोपचारात्तु शरीरस्य तदौपचारिकम्। इदमेव श्रुतावव्यक्तपदप्रयोगेण शरीरस्य कारणावस्थात्मतोपचाराश्रयस्य फलं यत्तदीयमेव भोक्तृतः परत्वं शरीरे परिकल्प्य तद्द्वारा पुरुषपरत्वं वर्णनीयमिति ।

ननु कैश्चिदाचार्यैः व्यक्तं शरीरं कथमव्यक्तशब्देनोच्यत इति शङ्कायां स्थूलशरीरं तेन नोच्यते, किन्तु लोकद्वयसञ्चारानुयायि स्थूलशरीरारम्भकभूतसूक्ष्मरूपं सूक्ष्मशरीरमित्येतत्परतया ‘सूक्ष्मं तु’ इति सूत्रं व्याख्यातम्। ‘तदधीनत्व’सूत्रञ्च संसारित्वस्य तदधीनत्वाल्लोकद्वयाननुयायिस्थूलशरीराधीनत्वाभावात्तस्यैव संसारितः परत्वमुपपद्यत इत्येतत्परतया व्याख्यातम्। युक्तं च तत् ; ‘सूक्ष्मं प्रमाणतश्च तथोपलब्धेः’(ब्र.सू. ४-२-९) इत्यग्रेतनसूत्रेण नाडीनिष्क्रमणादिहेतुभ्यः सौक्ष्म्यावगत्या देहान्निष्क्रामत्सूक्ष्मशरीरं पार्श्वस्थैर्नोपलभ्यत इति समर्थितत्वेनातीन्द्रिये तस्मिन्नव्यक्तशब्दस्य निर्विशङ्कवृत्तिसम्भवात्। ‘तदापीतेः संसारव्यपदेशात्’(ब्र.सू. ४-२-८) इति सूत्रेण तस्याऽऽसंसारमोक्षानुवृत्तिरुक्ता ; संसारित्वं तदधीनमित्यस्यापि निर्विशङ्कत्वात्। न च रूपकवाक्ये शरीरद्वयस्यापि प्रकृतत्वाविशेषे कथमिह सूक्ष्मशरीरमेव ग्राह्यमिति शङ्क्यम्। तत्रापि सूक्ष्मशरीरस्यैव रथत्वेन रूपणात्। रथेन परलोकप्राप्तेरपि वक्तव्यत्वात्। एवं युक्तं तद्व्याख्यानं किमिति भाष्यकृद्भिरुपेक्षितम् ? व्याख्येयसूत्राभ्यामेव तत्प्रत्याख्यातमित्युपेक्षितम्। यद्यतीन्द्रियं सूक्ष्मशरीरमिह ‘सूक्ष्मं तु’ इत्यनेन गृहीतं स्यात् तदा कस्यामाशङ्कायां ‘तदर्हत्वात्’ इति सूत्रशेषः कर्तव्यो भवेत् ?

यदि च परलोकाननुवृत्तस्थूलशरीराधीनं न भवति संसारित्वमिति स्थूलशरीरमिह त्यज्येत , तदा सूक्ष्मशरीरमपि किमिति न त्यक्तव्यम् ? तदपि महाप्रलये नानुवर्तते ; सर्वस्यापि तदानीमव्याकृतशेषत्वात् ; पुनः सर्गादौ भूतेन्द्रियसृष्टिवर्णनाच्च। यत्तु स्थूलशरीरं न प्रकृतमित्युक्तं तद्विपरीतम्। पुरुषार्थसिद्ध्यर्थमिच्छापूर्वकप्रवृत्तौ हि रथादिगमनसाधारणपरिकररूपणं युज्यते , न तु स्थूलदेहवियोगात्संपिण्डितकरणग्रामस्यातिवाहिकैः क्रियमाणे नयने। इच्छापूर्वप्रवृत्तौ चेन्द्रियाश्वैराकृष्यमाणतया स्फुटतरमुपलभ्यमानस्य चेष्टाभोगेन्द्रियाश्रयतया शरीरशब्दमुख्यार्थस्य स्थूलशरीरस्यैव रथत्वरूपणमुचितम्। परलोकानुयायित्वात्सूक्ष्मशरीरं रथत्वेन रूपितमिति कल्पनाप्रसक्तौ च प्रलयेऽप्यनुयायित्वादव्याकृतशरीरं तथा रूपितमित्येव कल्पना स्यात्। अस्तु वा सूक्ष्मशरीरस्यापि रूपकानुप्रवेशः। स्थूलशरीरमवश्यं रूपकानुप्रविष्टतया पुरुषपरत्वपरवाक्येऽप्यन्वयमाकांक्षमाणं न परित्यागमर्हतीत्यलं विस्तरेण ।१-४-३।

एवं पूर्वापरग्रन्थपर्यालोचनया वाक्यन्यायविचारणायां नास्त्यत्र साङ्ख्यतन्त्रसिद्धतत्त्वग्रहणशङ्कावकाश इति समर्थितम्। ये त्वत्र क्रमिकमहदव्यक्तपुरुषश्रवणमात्रसन्तुष्टाः श्रद्धाजडा मन्यन्ते इदमेव वाक्यं साङ्ख्यमतस्य मूलं भवितुमर्हति ; न ह्यवेदमूलमत्यन्ताप्ततमाः कपिलादयो महर्षयः प्रणयेयुरिति तान्प्रत्याह –

ज्ञेयत्वावचनाच्च ॥४॥

यदीदमेव वाक्यं साङ्ख्यमतस्य मूलमभविष्यत् , तदा ‘गुणपुरुषान्तरज्ञानात् कैवल्यम्’ इति वदतां साङ्ख्यानामभिमतं प्रधानस्य मुमुक्षुज्ञेयत्वमप्यत्रावक्ष्यत्। तदत्र नोच्यते। विभूतिविशेषप्राप्तये प्रधानस्योपास्यत्वं तस्य स्वतन्त्रकारणत्वमित्यादि च तेषामभिमतमत्र नोच्यते। अतो नैतन्मूलकं साङ्ख्यतन्त्रमिति श्रद्धेयम्। न हि यन्मूलमेव शास्त्रं प्रणयन्ति तत्र तच्छास्त्रवर्णितं निक्तमिति युज्यते ॥१-४-४॥

नन्वसिद्धं ज्ञेयत्वावचनम् ; ‘‘अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्। अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते’(क.उ. १-३-१५) इत्युत्तरमन्त्र एव हि तस्य ज्ञेयत्वं वदतीत्याशङ्कामुद्भाव्य परिहरति –

वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥५॥

शब्दादिहीनत्वोक्त्या महतः परत्वोक्त्या च प्रधानमिह निर्दिष्टमिति न भ्रमितव्यम्। प्राज्ञः परमात्मा हि निचाय्यत्वेन निर्दिष्ट इति ‘एष सर्वेषु भूतेषु’ इत्यादितस्तत्प्रकरणात् प्राग्दर्शितादवगम्यते। शब्दादिहीनत्वमक्षरवाक्ययोः परमात्मनोऽपि प्रसिद्धम्। महतश्चात्मनो भोक्तुः परत्वं तस्य प्रसिद्धम् ।१-४-५॥

ननु अस्तु नाम परमात्मनः प्रकरणं , तथापि यथा ‘योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः। स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम्’ इति मन्त्रे जीवस्य गतिवर्णनमेवमशब्दमिति प्रधानस्यापि मुमुक्षुज्ञेयत्ववर्णनं स्यादित्याशङ्क्याह –

त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥६॥

त्रयाणामेव पदार्थानामग्निजीवपरमात्मनां कठवल्लीषूपन्यासो दृश्यते तद्विषय एव प्रश्नः। तत्र तावत् ‘‘स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्धधानाय मह्यम्’(क.उ. १-१-१३) इत्यग्निविषयः प्रश्नः। ‘‘येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके। एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीयः’(क.उ. १-१-२०) इति जीवविषयः। ‘‘अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्। अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद’(क.उ. १-२-१४) इति परमात्मविषयः। प्रतिवचनमपि ‘‘लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा’(क.उ. १-१-१५) इत्यग्निविषयम्। ‘‘हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम्। यथा च मरणं प्राप्यात्मा भवति गौतम। योनिमन्ये प्रपद्यन्ते’(क.उ. २-२-६) इत्यादि जीवविषयम्। ‘‘न जायते म्रियते वा विपश्चित्’(क.उ. १-२-१८) इत्यादि बहुप्रपञ्चं परमात्मविषयम्। एवञ्च मृतजीववृत्तान्तविषयप्रश्नसत्त्वात्तद्गतिवर्णनं युक्तम्, न तु प्रधानस्य मुमुक्षुज्ञेयत्ववर्णनम् , अपृष्टत्वात्। ननु त्रयाणामेवोपन्यास इत्यसिद्धम् ; परमात्मप्राप्तौ तदवगतौ च उपाययोरपि ‘‘विज्ञानसारथिर्यस्तु’(क.उ. १-३-९) ‘‘यच्छेद्वाङ्मनसी प्राज्ञः’(क.उ. १-३-१३) ‘‘नाविरतो दुश्चरितान्नाशान्तः’(क.उ. १-२-२४) इत्यादिषूपन्यासो दृश्यते। एवं प्रधानस्य ज्ञेयत्वोपन्यासोऽपि स्यात्। न स्यात् संदर्भविरोधात् ।

एवं श्रूयते – वाजश्रवसो महर्षिः सर्ववेदसदक्षिणेन यज्ञेनेष्ट्वा जरद्गवीः दक्षिणाः प्रयच्छन् बालेन नचिकेतसा पुत्रेणानर्हदक्षिणादाननिमित्तक्रतुवैकल्यात्पितुरनिष्टमाशङ्कमानेन तदनिष्टं स्वात्मप्रदापनेनापि क्रतुसंपत्तिं कारयित्वा निवारणीयमिति मन्यमानेन ‘तात कस्मै मां दास्यसि’ इति पुनः पुनः पृष्टो बहुवारप्रश्ननिर्बन्धसंजातकोपस्सन् ‘मृत्यवे त्वा ददामि’ इत्युवाच। नचिकेताः किं मयोक्तमित्यनुशयानं पितरं प्रति ‘पूर्वं पितामहाद्या यथा, मृषावादं विना स्थिता यथा चापरे साधवोऽद्यापि तिष्ठन्ति तान्वीक्ष्य तथा वर्तितव्यम्। मर्त्यस्सस्यवदल्पेनैव कालेन जीर्यति जीर्णश्च मृत्वा सस्यमिव पुनर्जायते। एवमनित्ये जीवलोके किं मृषाकरणेन, पालय सत्यम्, प्रेषय मां मृत्यवे’ इत्युक्त्वा तथैव पित्रा प्रेषितः प्रवसतो मृत्योर्द्वारि तिस्रो रात्रीरनश्नन्नुवास। प्रवासादागतो मृत्युरनश्नतैवं ब्राह्मणेन द्वारि स्थितमिति भीतस्तं प्रसाद्य तस्मै त्रीन्वरान्ददौ। नचिकेताः प्रथमेन वरेण पितृप्रसादं , द्वितीयेनाग्निविद्यां, तृतीयेन मरणानन्तरदेहातिरिक्तात्मानुवृत्त्यस्तित्वनास्तित्वसन्देहनिवर्तिकामात्मविद्यां वव्रे ।

यद्यपि नचिकेता देहातिरिक्तात्मास्तित्वे विश्वासवानेव , अन्यथा पितुः क्रतुकैवल्यस्य मृषावादस्य च परिहारार्थं महतः प्रयत्नस्य ‘‘सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः’(क.उ. १-१-६) इति वचनस्य स्वर्गफलकाग्निविद्यावरणस्य चानुपपत्तेः ; तथाऽपि हितैषिवचनादिलब्धस्यास्यैव विश्वासस्य दृढीकरणाय विशेषान्तरज्ञानाय च प्रश्न उपपद्यते। इदानीमपि हि पारलौकिककर्मानुष्ठाननिष्ठा एव किमवलम्बनेन देहात्मवादः , कथञ्च तन्निरसनमिति जिज्ञासमाना दृश्यन्ते। तत्प्रकारावगत्यर्थं वेदाध्ययनानन्तरं वैदिककर्मानुष्ठानवद्भिः पठितव्येषु शास्त्रेषु देहात्मवादतन्निराकरणनिबन्धनञ्च दृश्यते। मृत्युस्तु – अस्य प्रश्नस्योत्तरं यथावदात्मरूपविवेचनेनोच्यमानं परब्रह्मोपदेशः पर्यवस्येत्। वस्तुतः प्रत्यग्ब्रह्मणोरैक्यात्। तदुपदेशश्च उपदिश्यमानार्थस्यातिगहनतया विषयासक्त्यन्तरायेण पारं प्राप्तुमप्रभवते मध्ये पतिष्णवे न कर्तव्य इति प्रथमं शिष्यः परीक्षणीयः। विशिष्य च नचिकेता देहातिरिक्तात्मास्तित्वविचिकित्सया पृच्छन् किमविद्वदधिकारिकर्मानुष्ठानार्थं पारलौकिककर्मफलभोक्तृजीवस्वरूपज्ञानार्थीति तावन्मात्रं बोधनीयः ? किं वा मोक्षार्थञ्जीवस्वरूपभूतब्रह्मविद्यार्थीति तावत्पर्यन्तं बोधनीय इत्यपि परीक्षणीय इति मत्वा ‘‘देवैरत्रापि विचिकित्सितं पुरा न हि सुविज्ञेयमणुरेष धर्मः। अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मासृजैनम्’(क.उ. १-१-२१) इत्युवाच। नचिकेताश्च ‘‘देवैरत्रापि विचिकित्सितं किल त्वञ्च मृत्यो यन्न सुविज्ञेयमात्थ। वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित्’(क.उ. १-१-२२) इति प्रत्युवाच। अनेन प्रतिवचनेन दुरधिगमो विषय इति मध्ये न विस्रक्ष्यत्ययमिति मृत्युर्निश्चित्य मुमुक्षुर्वा बुभुक्षुर्वाऽयमिति विवेचनार्थं मुमुक्षास्थैर्यावगत्यर्थञ्च प्रलोभयन्नुवाच ‘‘शतायुषः पुत्रपौत्रान् वृणीष्व बहून् पशून् हस्तिहिरण्यमश्वान्। भूमेर्महदायतनं वृणीष्व स्वयञ्च जीव शरदो यावदिच्छसि’(क.उ. १-१-२३) इत्यारभ्य ‘‘इमा रामास्सरथास्सतूर्या न हीदृशा लम्भनीया मनुष्यैः। आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं माऽनुप्राक्षीः’(क.उ. १-१-२५) इत्यन्तम्। यमेनैवं प्रलोभ्यमानोऽपि नचिकेतास्तु ‘‘श्वोभावा मर्त्यस्य यदन्तकैतत्सर्वेन्द्रियाणाञ्जरयन्ति तेजः। अपि सर्वञ्जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते’(क.उ. १-१-२६) इति मृत्युना दित्सितान् स्त्र्यादिविषयान् श्वस्थायित्वेऽपि सन्धिग्धत्वेन सर्वेन्द्रियतेजःक्षपयितृत्वेन च निन्दित्वा तेन दित्सिताञ्चिरकालजीविकामपि ब्रह्मादिकीटान्तसकलप्राणिवर्तिनः सर्वस्यापि जीवितस्याल्पकालत्वेन निन्दित्वा ‘‘यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्साम्पराये महति ब्रूहि नस्तत्’(क.उ. १-१-२९) इति प्राचीनप्रश्नमेव मृत्युना ‘मरणं मानुप्राक्षीः’ इति हेयतया उपन्यस्तमपि स्थिरीचकार ।

यदैवमतितरां तैस्तैः कामैः प्रलोभ्यमानोऽपि न चचाल नचिकेताः , तदा मृत्युर्निःश्रेयसमभ्युदयञ्चेति पुरुषानुबन्धि फलद्वयं श्रेयःप्रेयःशब्दाभ्यां प्रविभज्य तदुभयं विविच्य धीरः श्रेयो वृणीते, मन्दस्तु प्रेय इत्याद्युक्त्या नचिकेतसो वरं प्रशस्य ‘‘विद्याभीप्सिनं नचिकेतसं मन्ये’(क.उ. १-२-४) इति कर्मफललिप्सया कर्मानुष्ठानोपयोगिभोक्त्रात्मज्ञानार्थी न भवति नचिकेताः , किन्तु मुमुक्षया ब्रह्मविद्यार्थी ; देहातिरिक्तात्मप्रश्नोऽयं मुमुक्षुज्ञेयतदीयतात्त्विकरूपविषय एवेति निश्चित्य ‘‘न त्वा कामा बहवोऽलोलुपन्त’(क.उ. १-२-४) इति विविधैः प्रलोभनैरच्छिन्नतयाऽवगतं तस्य मुमुक्षायास्स्थैर्यञ्चोद्घाट्य ‘‘अविद्यायामन्तरे वर्तमानास्स्वयंधीराः पण्डितम्मन्यमानाः। दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः। न सांपरायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम्। अयं लोको नास्ति पर इति मानी पुनःपुनर्वशमापद्यते मे’(क.उ. १-२-५,६)इति देहात्मैक्याध्यासरूपाविद्यामूलकमेव केचिद्देहात्मवादमवलम्ब्य गतानुगतिकाः परिभ्रमन्ति। तथाभूतपण्डितम्मन्यवचनश्रवणाज्जडचित्तस्य परलोकानुभाव्यफलसद्भावो न प्रतिभाति। तादृशो नास्तिकः पुनःपुनः मत्कार्यमाणयातनाविषयो भवतीति देहात्मवादनिराकरणेन तृतीयप्रश्नस्य यथाश्रुतस्योत्तरमुक्त्वा मुमुक्षवेऽस्मै आत्मयाथात्म्यजिज्ञासवे यथावदात्मस्वरूपं ब्रह्मात्मकमुपदेष्टव्यमिति देहातिरिक्तत्वेन प्रदर्शितस्यात्मनः ‘‘श्रवणायापि बहुभिर्यो न लभ्यः’(क.उ. १-२-७) इत्यादिनाऽत्यन्तदुरवगाहत्वमुक्त्वा उवाच ‘‘तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्। अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति’(क.उ. १-२-१२) इति। अत्र बुद्धिगुहायां प्रतिबिम्बभावेनाहितं गूढमनुप्रविष्टं गहनं प्राप्तं बुध्युपाधिकविषयज्ञानसहस्रजटिलतया प्रच्छन्नतात्त्विकनिर्विशेषरूपं गह्वरेष्ठमाध्यासिकानन्तरागद्वेषसुखदुःखाद्यनर्थसङ्कटे स्थितं पुराणं एवमनादिकालप्रवृत्ताध्यासिकरूपम्, अत एव तात्त्विकरूपेण दुर्दर्शं तं संसारिणम् अध्यात्मयोगाधिगमेन ‘‘यच्छेद्वाङ्मनसी’(क.उ. १-३-१३) इत्यादिवक्ष्यमाणेन देवं मत्वा परदेवतारूपं परं ब्रह्म निश्चित्य हर्षशोकौ जहातीति जीवस्य ब्रह्मरूपत्वं तथात्वावगतेर्मोक्षफलञ्चोपदिदेश ।

तदनन्तरम् ‘‘एतच्छ्रुत्वा संपरिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य’(क.उ. १-२-१३) इत्यादिना मयाऽत्यन्तं संक्षिप्योक्तमेतदेवाचार्यमुखाच्छ्रुत्वा श्रद्धया सम्यक्परिगृह्य प्रवृह्य देहादिभ्यो निष्कृष्य धर्मादनपेतं देहात्मवदधर्मत्वरहितं सूक्ष्ममेतं देहादिभ्यो निष्कृष्टमात्मानं स्वस्वरूपतया प्राप्य मोदते इत्युक्त्वा विशिष्यात्मविषये शुश्रूषाञ्चोत्पादयामास। एवमुत्पादितशुश्रूषो नचिकेताः प्रत्यगात्मनोऽसंसारिब्रह्मात्मकं स्वरूपं विविच्य ज्ञातुं पप्रच्छ ‘अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्’ इति। अत्र धर्माधर्मशब्दाभ्यां तत्फलं लक्ष्यते ; तथा च धर्माधर्मफलाच्च परिदृश्यमानादस्मात्कार्यकारणप्रपञ्चाच्च भूतभविष्यदात्मकादनित्याच्चान्यद्वस्तु प्रत्यगात्मनस्स्वरूपभूतं पश्यसि ; तथाभूतं वस्तु पश्यन्खलु त्वं ‘‘जानाम्यहं शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत्’(क.उ. १-२-१०) इति मन्त्रेण कर्मफललक्षणं निधिमनित्यं जानामि अनित्यैर्द्रव्यसाध्यैः कर्मभिर्नित्यं तन्न प्राप्यमिति कर्मभिर्न प्राप्यं नित्यञ्च तदवोचः। ‘‘श्रवणायापि बहुभिर्यो न लभ्यश्श्रुण्वन्तोऽपि बहवो यन्न विद्युः’(क.उ. १-२-७) इति ‘‘नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ’(क.उ. १-२-९) इत्यन्तेन ‘शृण्वन्तोऽपि न विद्युः’ इति मनुष्येण सतोक्तं ज्ञातुमशक्यमित्यनन्येन मनुष्यादिभावं हित्वा तद्रूपतां प्राप्तेनाचार्येण प्रोक्ते तस्मिन्पुनः संसारगतिर्नास्तीति तद्विषया मतिस्तर्केणापि प्राप्तुमशक्येति चानीदृशं परिदृश्यमानकार्यकारणात्मकप्रपञ्चविलक्षणमवोचः। ‘तं दुर्दर्शम्’ इति मन्त्रेण प्रत्यगात्मस्वरूपभूतं चावोचः तत्तथाभूतं वस्तु वदेति प्रश्नार्थः ।

आचार्येण ‘श्रवणायापि’ इत्यारभ्यात्मविषये वर्णितस्य सर्वस्याप्यनुवादः स्वस्योपदेशयोग्यत्वप्रकटनेन सम्यगस्मै उपदेष्टव्यमिति स्वस्मिन्मृत्योः प्रीत्युत्पादनाय। अग्निविद्याप्राप्त्यनन्तरं नचिकेतसा कृतं तदनुवादमाकर्ण्य प्रीतो मुत्युः नचिकेतसे वरान्तरमपि ददाविति प्रागुक्तं ‘‘स चापि तत्प्रत्यवदद्यथोक्तमथास्य मृत्युः पुनरेवाह तुष्टः। तमब्रवीत्प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः। तवैव नाम्ना भविताऽयमग्निस्सृङ्काञ्चेमामनेकरूपां गृहाण’(क.उ. १-१-१५,१६) इति। स्रंकां रत्नमालाम्। ‘‘त्वादृङ्नो भूयान्नचिकेतः प्रष्टा’(क.उ. १-२-९) इति पुनरपि नचिकेतस्तुल्यशिष्यान्तरलाभप्रार्थनया योग्यशिष्यप्रियो मृत्युरित्यवसितम् ।

एवं पृष्टो मृत्युः ‘‘तत्ते पदं संग्रहेण ब्रवीमि’(क.उ. १-२-१५) इति पृष्टं मुक्तप्राप्यं प्रत्यगात्मनोऽसंसारिस्वरूपं वक्तव्यत्वेन प्रतिज्ञाय पुनरपि तस्य देहातिरिक्तत्वं ‘‘न जायते म्रियते वा विपश्चित्’(क.उ. १-२-१८) इत्यादिमन्त्राभ्यां स्थिरीकृत्य ‘‘अणोरणीयान्’(क.उ.१-२-२०) इति मन्त्रेण परिदृश्यमानशरीरान्तर्वर्तिगुहानिहितं जीवं महिमानमीशं कर्मनिमित्तवृद्धिक्षयरहिततया नित्यमेव महान्तं परमेश्ववरं यः पश्यति , स वीतशोको भवतीति ‘‘तं दुर्दर्शम्’(क.उ. १-२-१२) इति मन्त्रोक्तमर्थमनुवदन्दुर्दर्शस्य केनोपायेन दर्शनमित्याकांक्षायाम् ‘अक्रतुः’ इत्यनेन निष्कामत्वं ‘धातुप्रसादात्’ इत्यनेन शरीरधारणकारणमनःप्रभृतीनां प्रसादं च तदुपायमप्युपदिदेश। मध्येऽपि ‘‘यदेवेह तदमुत्र यदमुत्र तदन्विह। मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति’(क.उ. २-१-१०) इत्यादिप्रदेशेषु प्रत्यग्ब्रह्मैक्यं स्फुटीचकार ।

न च वाच्यम् – इह देहे विद्यमानस्यामुत्रादित्यमण्डले ब्रह्मलोकस्थाने वा विद्यमानस्य परमेश्वरस्यैव नानात्वं निषिध्यते , न तु देहे विद्यमानस्य जीवस्यादित्यमण्डलादौ सतः परमेश्वरस्य भेदो निषिध्यते – इति। स्थानभेदेन परमेश्वरभेदप्रसक्त्यभावात्। अंगुष्ठमन्त्रेण जीवब्रह्मैक्यप्रतिपादनानन्तरं विरुद्धधर्मवतोस्तयोः कथमैक्यं सम्भवतीत्याशङ्कायां ‘‘यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति। एवं धर्मान् पृथक् पश्यन् तानेवानुविधावति’(क.उ. २-१-१४) इति मन्त्रेण जीवे ब्रह्मणि च पृथग्व्यवस्थिता धर्मा अभेदविरोधिनः सन्तीति पश्यतस्तथैव पृथग्धर्मवत्तया संसार एवानुवर्तत इति दोषमुक्त्वा ‘‘यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति। एवं मुनेर्विजानत आत्मा भवति गौतम’(क.उ.२-१-१५) इति मन्त्रेण शुद्धयोरेवैक्यमिति तयोरैक्यमुपपादयामास। अन्ते च ‘‘अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः। तं स्वाच्छरीरात् प्रवृहेन्मुञ्जादिवेषीकां धैर्येण। तं विद्याच्छुक्रममृतम्’(क.उ.२-३-१७) इति मन्त्रेण ‘अङ्गुष्ठमात्र’ इत्यादिनाऽनूदितं जीवं शरीरान्निष्कृष्य शुक्रं स्थूलसूक्ष्मशरीरद्वयान्निष्कर्षेण शुद्धं विरुद्धधर्मरहितं तममृतं ब्रह्म विद्यादिति प्रत्यग्ब्रह्मैक्यं सोपपादनमुपसञ्जहार। ‘येयं प्रेते’ इति जीवस्य देहातिरिक्तत्वप्रश्नेन ब्रह्मविद्योपक्रमोऽप्यैक्योपपादनार्थं शुद्धत्वसम्पादनायेत्युपनिषदा दर्शितम् ।

इत्थं नचिकेतःप्रश्नोपक्रमा मृत्युनचिकेतस्संवादरूपेयमुपनिषदासमाप्तेः प्रत्यग्ब्रह्मैक्यपरैव लक्ष्यते। एवमद्वैतप्रकरणेऽस्मिन् कः स्वतन्त्रस्य प्रधानस्य ज्ञेयत्ववर्णनशङ्कावकाशः ? यदीदं प्रकरणं भिन्नात्मविषयमिति शङ्कास्पदं स्यात्, तदा जीवेश्वरभेदज्ञानमिव प्रधानपुरुषभेदज्ञानमपि मोक्षसाधनमिति तदर्थं प्रधानस्य ज्ञेयत्वम् ‘अशब्दम्’ इति मन्त्रेण वर्ण्यत इति शंक्येतापि, न त्विदं शङ्कास्पदम् ; प्रश्नच्छायया प्रतिवचनसन्दर्भेण च प्रकरणस्याभेदपरतायाः प्रतिष्ठितत्वात्। तथा हि ‘येयं प्रेते’ इति प्रश्नस्तावत् प्रश्नवाक्यस्य ‘मरणं माऽनुप्राक्षीः’ इति प्रश्नप्रतिषेधस्य ‘न साम्पराये’ इति प्रश्नोत्तरस्य च पर्यालोचनया जीवविषय इति निर्विचिकित्समवगम्यते। ‘अन्यत्र धर्मात्’ इति प्रश्नस्तु प्रश्नवाक्यस्य ब्रह्मनिरूपणपरतदुत्तरसन्दर्भस्य च पर्यालोचनया ब्रह्मविषय इति। न चायं जीवविषयप्रश्नादन्यः स्वतन्त्र इति शक्यं वक्तुम् ; वरत्रयोपक्रमविरोधात्। ‘वरन्तवेहाद्य ददामि भूयः’ इतिवत् पुनरत्र वरदानान्तराश्रवणाच्च। किन्तु विशेषजिज्ञासया जीवविषय एव प्रश्नः पुनरनुकृष्ट इति वक्तव्यः। ततश्च ब्रह्मविषयत्वेनावधार्यमाणप्रश्नस्य जीवो विषय इति सिद्धौ प्रश्नसामर्थ्यादेव जीवब्रह्माभेदतात्पर्यं सिद्ध्यति ।

एवं प्रश्नसामर्थ्येन जीवब्रह्माभेदतात्पर्याविष्करणं वेदच्छायानुकारिणि धर्मशास्त्रेऽपि याज्ञवल्कीये दृश्यते। तत्र हि प्रायश्चित्तकाण्डे ‘क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता’ इति परमेश्वरज्ञानस्य सकलपापप्रायश्चित्तत्वोपदेशप्रसङ्गात् सकलजगत्स्रष्टृत्वादिरूपं परमेश्वरस्य महिमानमुपवर्ण्य ततः कर्मविपाकप्रतुष्टूषया ‘यद्येवं स कथं ब्रह्म पापयोनिषु जायते’ इति प्रश्नोऽवतारितः। तत्र ‘कथं पापयोनिषु जायते’ इत्युक्त्या जीवविषयत्वेनावगम्यमानस्य प्रश्नस्य स इति प्रकृतपरमेश्वरवाचिना सर्वनाम्ना प्राग्वर्णितनिरतिशयस्वातन्त्र्यरूपतदीयमहिमपरामर्शिना ‘यद्येवम्’ इति वचनेन ब्रह्मविषयतामानीयाभेदतात्पर्यमाविष्कृतमिति विशेषः। एवमत्रोपक्रमगतवरत्रयप्रदानरूपाख्यायिकाकल्पनं ब्रह्मविषयप्रश्नस्य प्राचीनजीवविषयप्रश्नानन्यत्वापादनेन जीवब्रह्माभेदतात्पर्यप्रत्यायनार्थतायामेव दृष्टार्थं भवति। इत्थमेव हि विद्यासन्निधिपठितानामाख्यायिकानां विद्याप्रतिपत्त्यर्थत्वं पारिप्लवाधिकरणे वक्ष्यमाणमुपपादनीयम्। एवं तावत् प्रश्नच्छायया जीवब्रह्माभेदपरं प्रकरणमिति सिद्धम्। प्रतिवचनसन्दर्भगतोपक्रमोपसंहारमध्यपरामर्शैस्तस्य तत्परत्वं दर्शितमधस्तात् ।

ननु प्रतिवचनमध्ये जीवब्रह्मभेदप्रत्यायकोऽपि ‘ऋतं पिबन्तौ’ इति मन्त्र आम्नातः ? सत्यम्। स तु रथसारथ्यादिकल्पनया प्राप्तव्यत्वेन वक्ष्यमाणस्य ब्रह्मणः तदनन्तरम् ‘अत्र ब्रह्म समश्नुते’ इति अत्रैव प्राप्तव्यत्वेन विशेषणात् तन्निर्वाहाय प्राप्यस्य प्राप्तृसन्निकर्षापेक्षायां प्राप्तुर्जीवस्य प्राप्तव्यपारमार्थिकरूपत्वेन शरीरगुहायामेवं नित्यसन्निहितं तस्यासंसारिस्वरूपमिति प्रदर्शयितुं स मन्त्र इति व्यवस्थापितं गुहाऽधिकरणे। प्राप्तृप्राप्तव्यभेदस्तु कल्पितप्राप्तृरूपापेक्षः। मोक्षशास्त्रेषु तद्व्यपदेशश्च ताद्रूप्यप्राप्तिपरः, न तु ग्रामादिप्राप्तिवद्भेदसापेक्ष इति व्यवस्थापितमानन्दमयाधिकरणे। अतः प्राप्तृप्राप्तव्यभावव्यपदेशादपि न जीवब्रह्मभेदसिद्धिप्रत्याशा। तस्मादद्वितीयब्रह्मपरप्रश्नप्रतिवचनसन्दर्भाविरोधादद्वितीयब्रह्मप्राप्त्युपायोपन्यास इव प्रधानस्य ज्ञेयत्वेन उपन्यासो न सङ्गच्छते ।

सूत्रस्यायमर्थः – त्रयाणामग्निजीवपरमात्मनामेव एवं वक्तव्यत्वेन , ज्ञेयत्वेन च उपन्यासः। तेषां त्रयाणामेव च प्रश्नः। अतो जीवस्य मुक्तिप्राप्यपारमार्थिकरूपतया परमात्मनि पृष्टे ‘तत्ते पदं संग्रहेण ब्रवीमि’ इति परमात्मनो वक्तव्यत्वेन प्रतिज्ञया तदनुबन्धित्वेन तत्प्राप्त्युपायो बहुधा परमात्मनो दुरधिगमत्वोक्त्या तदवगत्युपायश्च यथाऽर्थात्प्रतिज्ञातो भवति ब्रह्मविचारप्रतिज्ञयेव साधनादिविचारः , न तथा स्वतन्त्रस्य साङ्ख्याभिमतस्य प्रधानस्य ज्ञेयत्वमर्थात्प्रतिज्ञातं भवतीति ‘अशब्दम्’ इति मन्त्रस्य तत्परत्वकल्पनमयुक्तमिति। ‘त्रयाणामेव’ इत्येवकारः प्रधानव्यावृत्त्यर्थः। चकारः परमात्मानुबन्धतत्प्राप्तितदवगत्युपायसमुच्चयार्थः। द्वितीयश्चकारः प्रतिवचनसन्दर्भवत्प्रश्नोऽपि पर्यालोच्यमानः शङ्कितपूर्वपक्षनिराससमर्थस्वतन्त्रो हेतुः , न तु त्रयाणामेवोपन्यास इति हेतोः साधको हेतुरिति ज्ञापनाय हेतुद्वयसमुच्चयार्थः ।१-४-६।

साङ्ख्याभिमतमहत्तत्त्वपरप्रत्यभिज्ञामात्रमवलम्ब्याव्यक्तं प्रध6नमि13 मन्दशङ्कायां ‘ज्ञेयत्वावचनात्’ इत्युक्तम्। तामेव च प्रत्यभिज्ञामालम्ब्य ‘महतः परं ध्रुवम्’ इत्यत्र ज्ञेयत्ववचनमप्यस्तीति शङ्कायां सविशेषं प्रदर्श्य तन्नास्तीति उपपादितम्। इदानीं यां प्रत्यभिज्ञामवलम्ब्यैव शङ्काद्वयं प्रसक्तं साऽपि असिद्धेत्याह –

महद्वच्च ।७।

उभयत्रापि महच्छब्दः साङ्ख्याभिमततत्त्वविशेषपर इति तावदयुक्तम् ; ‘‘महान्तं विभुमात्मानम्’(क.उ.२-१-४) इत्यादिवैदिकप्रसिद्धिविरोधेन तस्य तत्र साङ्ख्यकल्पिताया रूढेस्त्याज्यत्वात्। तद्वदेवाव्यक्तपदस्य प्रधाने रूढिरपि त्याज्या ; वैदिकेन प्रकरणादिना तस्य शरीरपरत्वावधारणात् , ‘महतः परं प्रधानं निचाय्यम्’ इत्येतदपि त्याज्यम् ; प्रकरणस्याद्वैतपरत्वावसायादिति सूत्रार्थः। चकारेण ‘अव्यक्तात् पुरुषः परः’ इति श्रुतपुरुषवच्चेति समुच्चीयते। तस्यापि हि पुरुषशब्दस्य मोक्षार्थं प्रधानविविक्तत्वेन ज्ञेय इति साङ्ख्याभिमते पुरुषे वृत्तिस्त्याज्या ; तस्य प्रकरणेन मोक्षार्थं प्रत्यगभिन्नत्वेन ज्ञातव्ये निर्विशेषे परमात्मनि वृत्तेराश्रयणीयत्वात्। तस्मादव्यक्तशब्दश्शरीरपरो न प्रधानपर इति सिद्धम् ।१-४-७।

इत्यानुमानिकाधिकरणम् ।१।

चमसवदविशेषात् ॥८॥

श्वेताश्वतरशाखिनस्समामनन्ति – ‘अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजास्सृजमानां सरूपाः। अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः’(श्वे.उ. ४.५) इति। अयं मन्त्रः किं साङ्ख्याभिमतस्वतन्त्रमूलप्रकृतिपरः, उत तेजोऽबन्नलक्षणावान्तरप्रकृतिपर इति संशये –

पूर्वपक्षः – न जायत इत्यजेति मूलप्रकृतौ युज्यते, न त्ववान्तरप्रकृतौ। न च च्छागावाचकस्याजाशब्दस्यावान्तरप्रकृतौ गौणी वृत्तिः स्यादिति वाच्यम्। मुख्ययोगवृत्तिसम्भवे जघन्यवृत्त्ययोगात्। ‘एकाम्’ इत्यपि मूलप्रकृतौ युज्यते, न तु तेजोऽबन्नेषु बहुषु। लोहितशुक्लकृष्णशब्दैस्तु कुसुम्भसलिलान्धकारगतरञ्जकत्वप्रसन्नत्वावारकत्वगुणयोगाद्रजस्सत्त्वतमोगुणात्मिका मूलप्रकृतिर्लक्षयितुं शक्यते। गुणवाचिनां लोहितादिशब्दानां तेजोऽबन्नेषु द्रव्येष्वपि लक्षणैव हि गतिः। ‘सृजमानाम्’ इत्युच्यमानं स्वातन्त्र्येण सृष्टिकर्तृत्वं तु साङ्ख्याभिमतायां मूलप्रकृतावेव युज्यते। उत्तरार्द्धार्थोऽपि तस्यामेव सङ्गच्छते। ‘एकोऽनुशेते, अन्यो जहाति’ इत्यात्मभेदेन साङ्ख्यमतप्रत्यभिज्ञानात् ; औपनिषदैरैकात्म्यस्याभ्युपगतत्वात्। न ह्यत्र पूर्वाधिकरण इवाद्वैतप्रकरणतामापाद्य वा स्वतन्त्रकारणत्वं नोच्यत इति वा न साङ्ख्यमतप्रत्यभिज्ञेति वक्तुं शक्यते। एतेन – अस्य मन्त्रस्य मूलप्रकृतिरर्थश्चेदौपनिषदाभिमता परमेश्वराधीनाऽर्थोऽस्तु न तु साङ्ख्याभिमता स्वतन्त्रेत्यपि शङ्का – निरस्ता ; आत्मभेदाभिधानेन स्वातन्त्र्याभिधानेन च साङ्ख्यमतप्रत्यभिज्ञानात्। तस्याम् ‘एकाम्’ इत्यस्यायोगाच्च , बन्धमुक्तिव्यवस्थार्थं प्रतिजीवमविद्याभेदाभ्युपगमावश्यम्भावात् , ‘जहाति’ इति त्यागोक्त्ययोगाच्च ; मुक्तिदशायां तस्या निरवशेषोच्छेदाभ्युपगमात् , अनुवर्तमानत्व एव त्यागोक्तिसाङ्गत्यात्। तस्मात् साङ्ख्याभिमतस्वतन्त्रमूलप्रकृतिरेवास्य मन्त्रस्यार्थ इति एवं प्राप्ते –

राद्धान्तः – अस्य मन्त्रस्य स्वरसतस्तावदेतावानर्थः प्रतीयते – काञ्चिच्छागां त्रिवर्णां सरूपबहुबर्करामेकश्छागः प्रीयमाणोऽनुवर्तते, अन्यस्तामुपभुक्तां त्यजति – इति। लोके सम्भवन्नप्ययमर्थो वेदे विशिष्य चाध्यात्मप्रकरणे न निबन्धमर्हतीत्याध्यात्मिके क्वचिदर्थे योजनं कार्यम्। स्वमनीषिकया च तत्कर्तुं न शक्यते ; विशेषहेत्वभावाच्चमसवत्। यथा हि ‘अर्वाग्बिलश्चमस ऊर्ध्वबुध्नः’(बृ.उ.२-२-३) इति मन्त्रे प्रसिद्धस्य चमसस्योर्ध्वबिलस्य तिर्यग्बुध्नस्य ग्रहणासम्भवे सति ‘अनाकाशे कोऽयं गलितहरिणःशीतकिरणः’ इत्यादिव्यतिरेकानुप्राणितातिशयोक्त्युदाहरणकाव्यवचने प्रसिद्धचन्द्रग्रहणासम्भवे सति कविविवक्षया मुखे चन्द्रत्वकल्पना क्रियत इतिवदमुष्मिंश्चमसत्वकल्पना क्रियत इति निश्चेतुं न शक्यते ; गिरिगुहागृहविशेषादीनां बहूनामर्वाग्बिलत्वोर्ध्वबुध्नत्वसम्भवात्। नन्वत्र साङ्ख्याभिमतस्वतन्त्रप्रकृतिग्रहणे विशेषहेतुरुक्तः। को विशेषहेतुः ? न तावत्स्रष्टृत्वम् ; अन्येन प्रेर्यमाणस्यापि स्रष्टृत्वानपायात्। न ह्याधोरणेन प्रेर्यमाणो गजो गच्छन्न गच्छति। नाप्यात्मभेदः। न हि सोऽत्र प्रतिपाद्यते , किन्तु प्रसिद्धन्तमनूद्य बन्धमोक्षव्यवस्थितिः। अनूद्यमानश्च लोकप्रसिद्धो भेदः ‘त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी त्वं जीर्णो दण्डेन वञ्चसि त्वञ्जातो भवसि विश्वतोमुखः’(श्वे.उ.४-३) ‘एको देवस्सर्वभूतेषु गूढः’(श्वे.उ.६-११) इति पूर्वापरमन्त्रानुरोधेन काल्पनिकोऽङ्गीकर्तुं युक्तः। एतेनैक्यमपि व्याख्यातम्। तस्याप्यनूद्यमानस्य ‘‘यो योनिमधितिष्ठत्येकः’(क.उ.४-११) इत्यत्रत्यमन्त्रान्तरानुसारेण एकजातीयतारूपत्वसम्भवात् , ‘चैत्रमैत्रावौषधं सेवमानौ स्थितौ तयोश्चैत्रस्तदद्यापि सेवते मैत्रस्तत् जहाति’ इति व्यवहारदर्शनात्, ऐक्यस्य तेजोऽबन्नसङ्घातैक्यरूपत्वसम्भवाच्च। साङ्ख्याभिमतप्रकृतावपि हि गुणत्रयसङ्घाताभिप्रायेणैवैक्यमुपपादनीयम् ।(१-४-८)

नन्वेवमिहान्यथासिद्ध्युपन्यासेन साङ्ख्यतन्त्रप्रत्यभिज्ञाऽनादरे केन तर्हि विशेषावगतिरस्तु ? न खलु ‘अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इति इदन्तच्छिरः’ इति चमसमन्त्र इवात्र व्याख्यानरूपो वाक्यशेषोऽस्ति। तदभावे च साङ्ख्यस्मृतिप्रत्यभिज्ञादर एव युक्त इति शङ्कायामाह –

ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॥९॥

परमेश्वराधीना तेजःप्रमुखा तेजोऽबन्नलक्षणा जरायुजाण्डजस्वेदजोद्भिज्जचतुर्विधभूतग्रामप्रकृतिरियमजा प्रतिपत्तव्या। न तु गुणत्रयसङ्घातलक्षणा साङ्ख्यतन्त्रसिद्धा स्वतन्त्रा प्रकृतिः। तथा हि एके शाखिनस्ताण्डिनः तेजोऽबन्नानां परमेश्वरादुत्पत्तिमाम्नाय तेषां रोहितादिरूपाण्यामनन्ति ‘यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्रं तदपां यत्कृष्णं तदन्नस्य’ इति। तान्येवेह तेजोऽबन्नानि रोहितादिशब्दसामान्यात्प्रत्यभिज्ञायन्ते। श्रुत्यन्तरप्रत्यभिज्ञैव च ग्राह्या; सर्वशाखाप्रत्ययं ब्रह्मेति स्थितेः, न तु स्मृतिप्रत्यभिज्ञा; बहिरङ्गत्वात्। एवञ्च रोहितादिशब्दानामपि सामञ्जस्यं भवति; गुणवत्सु गुणवाचकशब्दानां लक्षणायाः लोके वेदे च निरूढत्वात् रञ्जकत्वादिभिः सत्त्वादिषु लक्षणाया विप्रकृष्टत्वात्। (१.४.९)

स्यादेतत् – तेजोऽबन्नात्मिकायां प्रकृतावजाशब्दस्य रूढिनिर्वाहिका नास्ति छागत्वजातिः। नापि योगनिर्वाहको जन्माभावः। न च तस्यां छागजातिकल्पनया गौणी वृत्तिस्स्यादिति वाच्यम्; प्रयोजनाभावेन कल्पनानुपपत्तेः। न हि शरीरादिषु रथत्वादिकल्पनप्रयोजनवदिह प्रकृतौ छागजातिकल्पनस्य किञ्चित्प्रयोजनमस्ति। ‘चमसवत्स्यात्’ इति चेत् , न। तस्यापि ‘चमु भक्षणे’ इति धातोर्निष्पन्नस्य भक्षणसाधने शिरसि योगवृत्त्युपपत्तेः। किञ्च चराचरात्मकसकलप्रपञ्चकारणभूतायाः सर्वेषां चेतनानां बहुविधपुरुषार्थोपयोगिन्यास्तेजोऽबन्नात्मिकायाः प्रकृतेः कतिपयप्रजोत्पादककतिपयचेतनाकाङ्क्षितात्यल्पप्रयोजनोपयोगिच्छागत्वकल्पनमप्ययुक्तम्। कल्पनायां विवक्षितसाधर्म्यसत्त्वे यथाकथञ्चिद्वैधर्म्यं न दोषाय। अन्यथा शरीरादीनामपि रथत्वादिकल्पनानुपपत्तेः इति चेत् ; सत्यम्। तथापि तत्र रूपकानङ्गीकारे रूप्यरूपकवाचिपदद्वयश्रवणं व्यर्थं स्यादिति तत्परिहाराय यथाकथञ्चित्सम्भावितसाधर्म्यमवलम्ब्य रूपकनिर्वाहः क्रियते। न चेह तथा रूप्यरूपकवाचिपदद्वयश्रवणमस्ति, केवलस्त्वजाशब्दो योगेन मूलप्रकृतौ वर्तयितुं शक्यः। योगाच्च मुख्यवृत्तिरूपाद्गौणी वृत्तिर्जघन्या। क्लृप्तश्चात्रैव मन्त्रे ‘अजो ह्येको’ ‘अजोऽन्य’ इति अजाशब्दयोर्योगः। तयोरपि गौणत्वकल्पनायामत्यन्तमेव प्रकृतिसम्बन्धविमुक्तस्य परब्रह्मस्वरूपतां प्राप्तस्य पुनश्छागासंसर्गयोग्यात्यन्ताविवेकप्राणिप्रथमोदाहरणच्छागत्वपरिकल्पनमयुक्तम्। ‘अजोऽन्य’ इत्यस्य औपनिषदाभिमतमुक्तपरत्वे च ‘जहाति’ इत्येतदयुक्तमित्याशङ्कायामाह –

कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥१०॥

कल्पनोपदेशोऽयमजामन्त्रः। तत्र ‘अजाम्’ इति तेजोऽबन्नात्मिकायां प्रकृतौ छागत्वकल्पना। ‘प्रजा’ इति तत्कार्येषु छागापत्यकल्पना। मुक्तौ विद्यया तदुच्छेदे मुच्यमानकर्तृकत्यागत्वकल्पना, मुक्तसंसारिणोरजत्वकल्पना च। कुतः कल्पनोपदेश इति अवसीयते ? ‘द्वा सुपर्णा’(श्वे.४.६) इत्यग्रिममन्त्रे प्राग्दृष्टान्ततयोपात्ते चमसमन्त्रे च कल्पनोपदेशात्। ‘द्वा सुपर्णा’ इति मन्त्रे हि शरीरे वृक्षत्वकल्पना तदाश्रितयोर्जीवान्तःकरणयोः पक्षित्वकल्पना, कर्मफले वृक्षफलत्वकल्पना च दृश्यते। ‘अर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम्। तस्यासते ऋषयस्सप्त तीरे वागष्टमी ब्रह्मणा संविदाना’(बृ.२.२.३) इति चमसमन्त्रे च कण्ठादुपरिभागरूपे शिरसि चमसत्वकल्पना, तद्गते मुखविवरे बिलत्वकल्पना, तदूर्ध्वभागे मूर्द्धावयवे घटचमसपादपादिस्थूलमूलभागरूपबुध्नत्वकल्पना, तस्मिन्विसृमरतया स्थितेषु प्राणादिवायुषु यशस्त्वकल्पना, तस्मिन् परितस्थितेषु श्रोत्रादिष्विन्द्रियेषु ऋषित्वकल्पना च दृश्यते। न च – चमसादिशब्दानां शिरःप्रभृतिषु यथासम्भवं कथञ्चिद्योगो रूढिश्च कल्प्यतामिति – वाच्यम्। अग्रे ‘इमावेव गौतमभरद्वाजौ’ इत्यादिना श्रोत्रचक्षुर्घ्राणयुगलरसनानां सप्तानां गौतमभरद्वाजविश्वामित्रजमदग्निवसिष्ठकाश्यपात्रिरूपत्वेन वर्णयिष्यमाणतया ‘तस्यासते ऋषयस्सप्त तीरे’ इत्यत्र श्रोत्रादिषु ऋषित्वकल्पनानिश्चये सति ततः प्रागपि कल्पनोपदेश इति निश्चयात् , बिलबुध्नशब्दयोराकारसाम्येन मुखविवरे मूर्द्धनि च यशश्शब्दस्य विवरणक्रियासाम्येन प्राणवायुषु च गौणत्वं विना योगरूढ्योरसम्भवाच्च। तत्र ‘द्वा सुपर्णा’ इति मन्त्रे लोके सम्भवन्त्या रीत्या प्रतिपत्तिसौकर्यं विना न प्रयोजनान्तरमस्ति। तत्प्रयोजनमिहापि च समानम्। चमसमन्त्रे तु लोकविलक्षणया रीत्या विस्मयनीयया कौतुकमुत्पाद्य प्रतिपत्तिसौकर्यं प्रयोजनमिति विशेषः। प्रसिद्धो हि चमस ऊर्ध्वबिलस्तिर्यग्बुध्नश्च। तस्मिंश्च सोमरसो निधीयते, न तु यशः। सोमरसपूरितश्च तद्बिलस्य जलपूर्णस्य कूपस्येव तीरस्थानीयात्परितो वर्तमानादूर्ध्वभागाद्बहिरेव सप्तहोतृका ब्राह्मणा ऋत्विजा सह यां काञ्चन संविदं कुर्वाणाश्चासते, न तु तीरस्थानीये चमसावयवे। अनयोश्च मन्त्रयोर्विषयविषयिसामानाधिकरण्यं विनैव कल्पनादर्शनादजामन्त्रेऽपि तथैव युक्तम् ।

काव्येष्वपि विषयविषयिसामानाधिकरण्यं विना कल्पनादर्शनाच्च तच्छायापन्नत्वादप्ययं कल्पनोपदेशः। न हि रूपकोदापरणेष्विवातिशयोक्त्युदाहरणेषु तत्सामानाधिकरण्यमस्ति, यथा –‘वापी कापि स्फुरति गगने तत्परं सूक्ष्मपद्या सोपानालीमधिगतवती काञ्चनीमैन्द्रनीली। तस्यां शैलौ सुकृतिसुगमौ चन्दनच्छन्नदेशौ तत्रत्यानां सुलभममृतं सन्निधानात्सुधांशोः॥’ इति। यत्तूक्तं योगवृत्तिसम्भवे गौणीवृत्तिर्न कल्पनीयेति तद्विपरीतम्। प्रथमप्रतीतरूढिपूर्वकगौणीवृत्तिस्वीकारसम्भवे रूढिपरित्यागेन योगपरिग्रहायोगात्। अत एव ‘प्रैतु होतुश्चमसः प्र ब्रह्मणः प्रोद्गातॄणां प्र यजमानस्य’ इति प्रैषे उद्गातृशब्दस्य बहुवचनान्तस्य बहुषु वृत्तौ वक्तव्यायां सुब्रह्मण्यसाधारणं योगं परित्यज्यान्तरङ्गप्रत्यासत्त्या सदःप्रवेशवत्सु त्रिषु रूढिपूर्विका लक्षणाऽङ्गीकृता ।

मुक्तस्य छागत्वकल्पनं बहूपकारिण्याः प्रकृतेश्छागत्वकल्पनं च विरुद्धम्, इति चेत्; नास्त्ययं विरोधो मध्वादिवत्। आदित्यस्य हि त्रयीमयस्य देदीप्यमानदिव्यज्योतिर्मण्डलस्य मधुत्वं कल्प्यते। तद्वत् प्रहीणजातिकल्पनायां नास्ति विरोधः। छागः पुनश्छागया संसर्गयोग्यः मुक्तः प्रकृत्या न संसर्गयोग्य इत्ययमपि न विरोधः। रथः प्रापणीयदेशपर्यन्तं नीतस्तत्प्राप्त्युपायो भवति शरीरं तु न तथा; ‘अत्र ब्रह्म समश्नुते’(बृ.४.४.७) इति श्रुतेः, ब्रह्मलोकादिस्थानस्थितस्य परब्रह्मणो मुक्तप्राप्यत्वाङ्गीकारेऽपि ज्ञानसाधनतया मुक्त्युपायस्य वशीकृतेन्द्रियमनोबुद्ध्याश्रयस्य शरीरस्य तावत्पर्यन्तं नयनाभावादिति विशेषे सत्यपि यथाकथञ्चित् प्राप्त्युपायत्वमात्रेण शरीरस्य रथत्वकल्पनादर्शनात् ।

सूत्रे ‘कल्पनोपदेशात्’ इति प्रथमान्तं पदं ‘सुपां सुलुक्पूर्वसवर्णांच्छेयाडाड्यायाजालः’(पा.सू.७.१.३९) इति सूत्रविहितेन प्रथमाविभक्तेः आदादेशेन लब्धरूपम्। कल्पनोपदेशोऽयमजामन्त्र इति तेन प्रतिज्ञा लभ्यते। तेनैव पञ्चम्यन्ततया पुनर्विवक्षितेन तत्र हेतुरुच्यते। स्वयमेव स्वस्मिन् हेतुर्भवितुं नार्हतीति सामर्थ्यादन्यस्मिन् कल्पनोपदेशे हेतूकर्तव्ये सन्निहितत्वात् ‘द्वा सुपर्णा’ इत्यग्रिमकल्पनोपदेशः प्राग्दृष्टान्तीकृततया बुद्धिस्थत्वात् ‘अर्वाग्बिलः’ इति कल्पनोपदेशश्च हेतुर्लभ्यते। चकारः काव्येषु कल्पनादर्शनरूपहेत्वन्तरसमुच्चयार्थः। ‘मध्वादि’ इत्यादिशब्दो रथादिरूपकपरिग्रहार्थः। तस्मादजामन्त्रस्तेजोऽबन्नरूपावान्तरप्रकृतिपरः, न तु साङ्ख्याभिमतस्वतन्त्रप्रधानपर इति सिद्धम् ।

स्यादेतत् – स्वतन्त्रप्रकृतिपरो न भवतीति युक्तमेव, अवान्तरप्रकृतिपर इति न युक्तम्। यतोऽस्य मन्त्रस्य परमेश्वराधीनमूलप्रकृतिपरत्वमेव ‘ज्ञाज्ञौ द्वावजावीशानीशावजा ह्येका भोक्तृभोगार्थयुक्ता’(श्वे.१.९), ‘क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः’(श्वे.१.१०) ‘छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यच्च वेदा वदन्ति। तस्मान्मायी सृजते विश्वमेतदस्मिंश्चान्यो मायया सन्निरुद्धः। मायान्तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्। तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत्’(श्वे.४.९,१०), ‘स विश्वंकृद्विश्वविदात्मयोनिः ज्ञःकालकालो गुणी सर्वविद्यः। प्रधानक्षेत्रज्ञपतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुः’(श्वे.६.१६) इत्यादिपूर्वापरमन्त्रसन्दर्भपर्यालोचनया स्पष्टमेव प्रतीयते। शाखान्तरोक्तरोहितादिशब्दप्रत्यभिज्ञानानुरोधादपि पूर्वापरमन्त्रानुरोध एव युक्ततरः। सत्यम्। पूर्वापरमन्त्रपर्यालोचनायां मूलप्रकृतिपर एवायं मन्त्रः। तत्पर्यालोचनायां च नास्ति पूर्वपक्षावकाशः। तैत्तिरीयशाखायामपि अजामन्त्रस्य जगत्स्रष्टृपरमेश्वरप्रकरणपठितत्वात् स्फुटतरपूर्वापरमन्त्रनियमितपरमेश्वराधीनप्रकृतितात्पर्यकैतन्मन्त्रसरूपत्वाच्च नास्ति पूर्वपक्षावकाशः। तथाऽपि न्यायव्युत्पादनाय प्रकरणं करेण पिधाय कृत्वाचिन्तारूपेण न्यायबलादवान्तरप्रकृतिपरत्वनिर्णयार्थमिदमधिकरणम्। अत एव भाष्ये प्रकरणानुसारेणास्य मन्त्रस्य मूलप्रकृतिपरत्वपक्षमपि प्रदर्श्य कृत्वाचिन्तोद्घाटनं कृतमिति सर्वमनवद्यम्। १.४.१०

इति चमसाधिकरणम् ।२।

न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॥११॥

बृहदारण्यके श्रूयते – ‘यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः। तमेव मन्य आत्मानं विद्वान् ब्रह्मामृतोऽमृतम्’(बृ.४.४.१७) इति। अयं मन्त्रः साङ्ख्याभिमतानि पञ्चविंशतितत्त्वानि ‘पञ्च पञ्चजना’ इति प्रतिपादयति, उत वाक्यशेषगतान् प्राणादीनीति सन्देहे पूर्वपक्षः – पञ्चशब्दद्वयेन पञ्चविंशतिसङ्ख्यानिष्पत्तेः तया सङ्ख्यया सङ्ख्येयाकाङ्क्षिण्या साङ्ख्यतन्त्रसिद्धान्येव तत्त्वान्युपसङ्ग्राह्याणि। तावन्त्येव हि तत्त्वानि साङ्ख्यैः परिगण्यन्ते ।

स्यादेतत् – कथमत्र पञ्चविंशतिसङ्ख्यानिष्पत्तिः। यदि ‘पञ्चपञ्च’ इति पञ्चकद्वयमुच्यते तदाऽवयवद्वारेण समुदायलक्षणाश्रयणेऽपि दशसङ्ख्यैव निष्पद्यते ‘पञ्च सप्त च वर्षाणि न ववर्ष शतक्रतुः’ इत्यत्र यथा द्वादशसङ्ख्या। यदि तु वीप्सा, तदाऽपि पञ्चसङ्ख्यानि पञ्चकानि ग्राह्याणीत्यत्र गमकाभावात् पञ्चविंशतिसङ्ख्या न निष्पद्यत एव। यथा ‘दश दशैकैकञ्चमसमनुप्रसर्पन्ति’ इत्यत्रानुप्रसर्पणीयानां चमसानां दशसङ्ख्यत्वादनुप्रसर्पकाणां पुरुषाणां शतसङ्ख्या निष्पद्यते। एवं ‘यस्मिन् पञ्च पञ्चजना’ इत्यत्राधिकरणानि यदि पञ्च स्युस्तदा प्रत्यधिकरणमाधेया जनाः पञ्चसङ्ख्यावीप्सया लभ्यन्त इति तेषां पञ्चविंशतिसङ्ख्या निष्पद्येत, न त्वत्राधिकरणपञ्चकश्रवणमस्ति। ननु पञ्चसङ्ख्यतया प्रतिपन्नेष्वर्थेषु पुनः पञ्चसङ्ख्याऽन्तरविशेषणोपादानात् पञ्चविंशतिसङ्ख्या लभ्यत इति चेत्; किं प्रथमं पञ्चसङ्ख्यया विशेषिता एवार्थाः पुनरपि पञ्चसङ्ख्यया विशेष्यन्ते, उत तद्विशेषणीभूता पञ्चसङ्ख्या? न तावत् पञ्चसङ्ख्या। विशेष्यं विहाय विशेषणयोरन्वयासम्भवात्। नापि तद्विशेषिताः; आकाङ्क्षाऽभावात्। रक्तपटन्यायेन उत्थापिताकाङ्क्षा स्यात् इति चेत् ; न। श्रुतविशेषणसजातीये तद्विरोधिनि चाकाङ्क्षोत्थापनासम्भवात्। न हि ‘रक्तो रक्तः पटो भवति’ इत्यत्र ‘मृण्मयो हिरण्मयो घटो भवति’ इत्यत्र वा भवत्याकाङ्क्षा। ननु ‘पञ्च पञ्चपूल्य’ इत्यत्र पञ्चविंशतिपूलाः प्रतीयन्ते। नेति ब्रूमः। तत्र समस्ता पञ्चसङ्ख्यैव पूलानां विशेषणं व्यस्ता तु तत्समाहाराणाम्। न चात्र तथा समाहारार्थः समासोऽस्ति ‘पञ्चजन्य’ इति स्त्रीलिङ्गनिर्देशाभावादिति चेत् ;

उच्यते – अनेकावान्तरनिर्देशे सति महासङ्ख्यालाभो यथा ‘पञ्च सप्त च वर्षाणि’ इत्यत्रावयवद्वारेण समुदायलक्षणया, यथा ‘दश दशैकैकम्’ इत्यत्र वीप्सया तथैव तस्मिन्सत्येकया सङ्ख्यया विशेषितानामर्थानां, सङ्ख्याया एव वा सजातीयेन विजातीयेन वा सङ्ख्यान्तरेण विशेषणात्संवर्धनेन महासङ्ख्यालाभोऽपि वैदिकेषु लौकिकेषु च प्रयोगेषु प्रसिद्धो नापह्नोतुं शक्यते। दृश्यन्ते हि ‘वयसो वयसः सप्तदशसप्तदशानि ददाति’ ‘पञ्च पञ्चाशतस्त्रिवृतः संवत्सरा’ इत्यादयः प्रयोगाः। प्रथमान्वितविशेषणसजातीयस्य तद्विरोधिनो वा यत्रैतेषूदाहरणेष्विव विवक्षितमहासङ्ख्यालाभार्थत्वेन पौनरुक्त्यस्य विरोधस्य वा परिहारो न सम्भवति तत्रैव तदनाकाङ्क्षा विशेषणयोरन्वयोऽपि साक्षादेव न सम्भवति। विशिष्टान्वयिनो विशेषणस्य विशेष्यान्वयानुपपत्तौ विशेषणे सङ्क्रमस्तु ‘दध्ना जुहोति’ इत्यादौ सुप्रसिद्ध एव। यदि च एवमप्यपरितोषः, तदा ‘पञ्च पञ्चपूल्य’ इतिवदिहापि समाहारविवक्षाऽस्तु। तद्विवक्षायामपि स्त्रीलिङ्गाभावस्तु छान्दसत्वेनोपपादनीयः। ‘ऊकालोऽज्झ्रस्वदीर्घप्लुतः’(पा.सू.१.२.२७) इत्यत्र ‘स नपुंसकम्’(पा.सू.२.४.१७) इति नपुंसकलिङ्गाभाववच्छन्दोवद्भावेन। तस्मादिह प्रतिपन्नया पञ्चविंशतिसङ्ख्ययोपसङ्ग्रहात् ‘पञ्च पञ्चजनाः’ इत्येतत्साङ्ख्याभिमतानि तत्त्वानि प्रतिपादयतीति युक्तम् ।

एतेन - ‘पञ्च पञ्चजनाः’ इत्येतत्कथं साङ्ख्यतत्त्वानि प्रतिपादयेत्, न हि तेषु पञ्चशः पञ्चशः साधारणो धर्मोऽस्ति, येन पञ्चविंशतेरन्तराले पञ्च पञ्च सङ्ख्या निविशेरन्। एकैकधर्मावच्छेदनिबन्धनो हि महासङ्ख्यायामवान्तरसङ्ख्यानिवेशः यथा ‘त्रयस्त्रिंशद्देवता’ इति महासङ्ख्यायामष्टौ वसव इत्याद्यवान्तरसङ्ख्यानिवेश इति – निरस्तम् ; ‘पञ्च सप्त च वर्षाणि’ ‘पञ्च पञ्चाशतस्त्रिवृतः संवत्सरा’ इत्यादिषु विनाऽप्येकैकमवच्छेदकं विवक्षितमहासङ्ख्यालाभोपायतामात्रेण यत्किञ्चिदवान्तरसङ्ख्यानिवेशदर्शनात्। न हि द्वादशवार्षिक्यामनावृष्टौ पञ्चसु सप्तसु च वर्षेषु , विश्वसृजामयने पञ्चाशदुत्तरद्विशतसङ्ख्यानां त्रिवृतां संवत्सराणां मध्ये पञ्चाशति पञ्चाशति संवत्सरेषु चैकैको धर्मोऽस्ति। इह तु भूतानि तन्मात्राणि ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि अवशिष्टानि प्रकृतिपुरुषमहदहङ्कारमनांसि च पञ्च पञ्चेति पञ्चशः पञ्चशस्साधारणधर्मोऽपि लभ्यते ।

ननु यदि ‘पञ्च पञ्चजना’ इत्येतावदेव साङ्ख्यतन्त्रसिद्धानि सर्वाणि तत्त्वानि प्रतिपादयेत्तर्ह्यात्माकाशाभ्यां सङ्ख्याऽतिरेकः स्यात्। न स्यात्। सेश्वरसाङ्ख्यपक्षेऽधिकरणत्वेन निर्दिष्टस्यात्मन ईश्वरत्वसम्भवात्। पक्षान्तरेऽपि तस्य ‘स्वे महिम्नि प्रतिष्ठित’ इतिवदाधेयत्वेनापि निर्देशसम्भवात्। आकाशशब्दोक्तस्य भूताकाशस्य प्रधानस्य वा स्वेतरसकलवस्त्वाधारतया विशिष्टत्वादादरेण पुनः कीर्तनसम्भवात्। ‘ग्रामीणाः सर्वेऽपि त्वां द्रष्टुमागताः, साक्षाद्वसिष्ठकल्पश्चैत्रोऽपि समागतः’ इति यथा। यद्वा गुणसङ्घातरूपायां प्रकृतौ सत्त्वादिगुणानां प्रत्येकपरिगणनया विनैवात्मानं भूताकाशञ्च पञ्चविंशतिसङ्ख्या सम्पादनीया। नन्वेवं कथञ्चिल्लब्धयाऽपि पञ्चविंशतिसङ्ख्यया साङ्ख्यतत्त्वोपसङ्ग्रहः पक्षद्वयेऽपि क्लिष्ट एव। कस्ततोऽप्यक्लिष्टः ‘पञ्च पञ्चजना’ इत्यस्यार्थो वर्णनीयः? न हि पञ्चजनशब्दस्य मनुष्यरूढिं परिगृह्य पञ्च मनुष्या यस्मिन् प्रतिष्ठिता इत्यर्थो वर्णयितुं शक्यते ; आत्मनस्तावता कस्यचिदतिशयस्यालाभेन वाक्यस्य निस्तात्पर्यत्वप्रसङ्गात्। अतोऽध्यात्मप्रकरणे छागाया अनन्वयादजामन्त्रस्याजाशब्दरूढिविषयादन्यस्मिन्निवास्यापि मन्त्रस्य पञ्चजनशब्दरूढिविषयादन्यस्मिन्नर्थे पर्यवसाने वक्तव्ये तद्वदिह शाखान्तरान्वेषणेन पूर्वापरपर्यालोचनया वा लभ्यस्य कस्यचिदर्थस्याभावात् ‘पञ्चपञ्च’ इत्यस्य पञ्चविंशतिसङ्ख्यापरतां जनशब्दस्य जायमानाजायमानेषु छत्रिन्यायेन लक्षणां चाङ्गीकृत्य साङ्ख्यतन्त्रतत्त्वान्येव ग्राह्याणि ।

ननु वाक्यशेषे ‘प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुः’(बृ.उ. ४-४-१८) इति प्राणादयः पञ्च वर्ण्यन्ते। ते पञ्चजनशब्दलक्ष्या भवितुमर्हन्ति ; तद्वाच्यपुरुषसम्बन्धित्वात्, ‘ते वा एते पञ्च ब्रह्मपुरुषाः’(छा.उ.३-१३-६) इति पुरुषशब्दस्य तत्र प्रयोगदर्शनाच्च। यद्वा वाक्यशेषदर्शनादाज्यशब्दस्यान्यत्र रूढस्यापि स्तोत्रविशेषेष्विव प्राणादिषु पञ्चजनशब्दस्य शक्तिरस्तु। एवं वाक्यशेषाम्नातप्राणादिपरत्वकल्पनायां न कोऽपि क्लेश इति चेत् ; उच्यते। ‘यस्मिन् पञ्च पञ्चजनाः’ इत्येतदनन्तरमुत्तरस्मिन् मन्त्रे माध्यन्दिनानां प्राणादयः पञ्च पठिताः सन्ति, न तु काण्वानाम्। ते हि ‘प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः। ते निचिक्युर्ब्रह्म पुराणमग्र्यम्’(बृ.उ.४.४.१८) इत्यन्नं विनैव पठन्ति। न च तेषां ‘यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तते तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्’(बृ.उ ४-४-१६) इति पूर्वमन्त्रपठितेन ज्योतिषा पञ्चसंख्यानिर्वाहः ; काण्वानामपि पूर्वमन्त्रपाठसत्त्वेन तेषां ज्योतिषा षट्संख्याप्रसङ्गात्। न हि समाने ज्योतिराम्नाने तत्केषाञ्चिद्गृह्यते केषाञ्चिन्नेति वैषम्यं सम्भवति। तथाऽपि केषांचिदन्नेन संख्यापूरणं केषांचिज्ज्योतिषेति विरोधोऽपरिहार्यः। न च विकल्पितः ; वस्तुनि तदयोगात्। न चेदमुपासनम्। तस्मादिह गत्यन्तराभावात् पञ्चविंशतिसंख्यया उक्तप्रकारेण निष्पादितया साङ्ख्यतत्त्वोपसंग्रह एव कार्यः इति ।

एवं प्राप्ते राद्धान्तः – उक्तप्रकारेण निष्पादितया पञ्चविंशतिसंख्यया तावतां संख्येयानामुपसंग्रहादपि न साङ्ख्यतन्त्रसिद्धानां तत्त्वानां श्रुतिमूलप्रत्याशा कर्तव्या। नानाभावादतिरेकाच्च। नानाभावः पञ्चशः पञ्चशः क्रोडीकारकैकधर्माभावेन सर्वेषां पृथग्भावः। अतिरेक आत्माकाशाभ्यां संख्याऽतिरेकः। तदुभयमपि पूर्वपक्षिणा यद्यपि क्लेशेन समाहितम् , तथापि पञ्चविंशतिसंख्यानिर्वाहार्थं नैवं साङ्ख्यतत्त्वान्युपसंगृह्य क्लेशः समाश्रयणीयः ; ‘इन्द्रियेभ्यः परा ह्यर्थाः’ इति शाखान्तरे पुरुषावरत्वेन वर्णितैरिन्द्रियादिभिरपि तन्निर्वाहसम्भवात्। तत्र हि ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि भूतानि तन्मात्राणि ततोऽवशिष्टानि मनोबुद्धिभोक्तृस्थूलसूक्ष्मशरीराणि च पञ्चपञ्चेत्यक्लेशेनैव पञ्चशः पञ्चशो विभागार्हाः पञ्चविंशतिरर्था वर्णिताः। तेषामिहोपसंग्रहे च नास्त्यतिरेकशङ्का। तेभ्यः परस्य पुरुषस्येहात्मशब्देन निर्देशः , तेष्वगृहीतस्याव्याकृतस्याकाशशब्देनेत्युपपत्तेः , तत्राव्यक्तशब्दस्याजहल्लक्षणया स्थूलसूक्ष्मशरीरद्वयमात्रपरत्वोपपत्तेश्च। एवमन्तरङ्गशाखान्तरदृष्टसंख्योपसंग्रह एव युक्तः , न तु बहिरङ्गाप्रामाणिकस्मृतिदृष्टतत्त्वोपसंग्रहः। एवं च संख्येयानामात्मनि प्रतिष्ठितत्ववर्णनमपि सङ्गच्छते। न हि साङ्ख्यतत्त्वानामात्मनि प्रतिष्ठितत्वमस्ति ; प्रधानस्य स्वतन्त्रत्वादन्येषां प्रधानाश्रितत्वात् ।

अपि च देवाः पितरो गन्धर्वा दैत्या दानवा राक्षसा भूताः प्रेताः पिशाचाश्चत्वारो वर्णाः स्वर्ण्यम्बष्ठोग्रनिषाददौष्यन्तपारशवाष्पडनुलोमाः सूतमागधायोगवक्षत्तृवैदेहकचण्डालाः षट् प्रतिलोमाश्चेति पञ्चविंशतिर्जनाः संख्येया इत्यपि निर्वाहः सम्भवति। एवं च जनशब्दोऽपि सङ्गच्छते। तिर्यक्स्थावरातिरिक्तेषु वागिन्द्रियपाटववत्सु देवादिमनुष्यपर्यन्तेष्वेव हि जनशब्दः प्रयुज्यते। अपि चात्र ‘पञ्च पञ्च’ इति पञ्चविंशतिसंख्येति कुतो निर्धार्यते येन तदुपसंग्राह्याणि साङ्ख्यतत्त्वानीति शक्येतापि। तस्य पञ्चकद्वयपरतया दशसंख्याऽस्तु। तत्संख्येयाः ‘ते वा एते पंञ्चान्ये पञ्चान्ये दश सन्त’(छा.उ.४-३-८) इति संवर्गविद्यायामुक्तानि वायौ लयवन्त्यग्निसूर्यचन्द्रांभांसि वायुना सह पञ्च, लयवन्ति वाक्चक्षुः श्रोत्रमनांसि प्राणेन सह पञ्चेत्येवं दश पदार्थास्सन्तु ।

अथवा तस्य वीप्साऽर्थतया प्रतिपुरुषं पञ्चात्मनाऽवस्थिताः प्राणवृत्तयस्तत्संख्येयाः सन्तु ‘‘न प्राणेन नापानेन मर्त्यो जीवति कश्चन। इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ’(क.उ २-५-५) इति श्रुत्यन्तरे प्राणापानशब्दोपलक्षितानां सर्वपुरुषसम्बन्धिनीनां सर्वासां प्राणवृत्तीनां ब्रह्माश्रितत्वश्रवणात्। यद्वा एकस्य पञ्चशब्दस्य जनसंख्यापरतयाऽन्यस्यैकैकजनगतपञ्चात्मकत्वपरतया च शिरःपक्षाद्यवयवैः प्रत्येकं पञ्चात्मनो ये पञ्चसंख्या जना अन्नमयादयस्ते संख्येयाः सन्तु। तेषां पञ्चानां सर्वप्रतिष्ठारूपपुच्छब्रह्माश्रितत्वादेकैकस्मिन्नप्यन्नमयादौ पाशवदवयवगतबहुत्वोपचारसम्भवात्। साङ्ख्यतत्त्वग्रहणेऽपि अहङ्कारादीनामान्तर्गणिकभेदसत्त्वेनाहङ्कारत्वादिगतैक्योपचारकल्पनावश्यम्भावात्। आनन्दमयपुच्छस्य ब्रह्माश्रितत्वाभावेन पञ्चात्मकत्वविशिष्टानां ब्रह्माश्रितत्वासम्भवेऽपि चित्रगुन्यायेन तदुपलक्षितानां तत्सम्भवात्। एवं च ‘चमसवदविशेषात्’ इति प्रागुक्तस्यैव न्यायस्य विषयेऽस्मिन्मन्त्रे कः साङ्ख्यतत्त्वग्रहणप्रत्याशावकाशः ? एतदभिप्रायेणैवोक्तं भाष्ये ‘कथं च संख्यामात्रश्रवणे सति अश्रुतानां पञ्चविंशतेस्तत्त्वानामुपसंग्रहः प्रतीयेत ? जनशब्दस्य तत्त्वेष्वरूढत्वादर्थान्तरोपसंग्रहेऽपि संख्योपपत्तेः’ इति। तत्र कथं तत्त्वानामुपसंग्रहः ? शाखान्तरोक्तानामिन्द्रियादीनां जनिमतां देवादिप्रतिलोमान्तानां जनशब्दविषयत्वेन प्रसिद्धानां वा संख्येयत्वेऽपि पञ्चविंशतिसंख्योपपत्तेः। कथं च पञ्चविंशतेरुपसंग्रहः ? ‘पञ्च पञ्च’ इत्यस्य पञ्चकद्वयपरतया वाय्वादिप्राणादिविषयदशसंख्योपपत्तेः। तस्य वीप्सार्थतया प्रतिपुरुषं पञ्चधा विभक्तप्राणादिवृत्तिविषयपंचसंख्योपपत्तेश्चेति तस्याभिप्रायो द्रष्टव्यः ।

अङ्गीकृत्य ‘पञ्च पञ्च’ इत्यस्य संख्यापरत्वं तल्लब्धसंख्यया संख्येयोपसंग्रहं चेदं सर्वमुक्तम्। वस्तुतस्तदेवासिद्धम्। तथा हि – पञ्चजनशब्दस्तावदन्तानुदात्तस्वरेण भाषिकाख्यशतपथब्राह्मणस्वरविधायकग्रन्थविहितेन ‘पञ्चानां त्वा पञ्चजनानां यंत्राय धर्त्राय गृह्णामि’ इति श्रुत्यन्तरप्रयोगदर्शनेन च समस्तोऽवसीयते। समासश्च न समाहारद्विगुः सम्भवति। गत्यन्तरे छान्दसरूपकल्पनाऽयोगात् , किन्तु पञ्चभिर्भूतैर्जन्मवन्त इति व्यधिकरणतत्पुरुषो वा पञ्च च ते जनाश्चेति समानाधिकरणतत्पुरुषो वा वक्तव्यः। तत्राद्यपक्षे समस्तपञ्चशब्दस्य जनान्वयिसंख्यापरत्वशङ्कैव नास्ति। द्वितीयपक्षेऽपि तथैव ‘दिक्संख्ये संज्ञायाम्’(पा.सू.२-१-५०) इति सूत्रेण प्रत्यस्तमितावयवार्थायां संज्ञायामेव सप्तर्षिशब्दवत्तस्य समासस्य विधानात्। न हि सप्तर्षय इति संज्ञासमासे सप्तशब्दस्य संख्यासमर्पणे तात्पर्यमस्ति, किन्तु व्युत्पत्तावुपलक्षणमात्रं संख्या गोशब्दव्युत्पत्तौ गमनमिव। अत एव यथा ‘गौस्तिष्ठति’ इत्यत्र न व्याघातः ‘गौर्गच्छति’ इत्यत्र न पुनरुक्तिः, एवमिहापि ‘सप्त सप्तर्षयः’ इत्यत्र न पुनरुक्तिः , वसिष्ठ एकस्मिन् सप्तर्षिशब्दप्रयोगे च न व्याघातः। एवं च यथा ‘सप्त सप्तर्षयोऽमलाः’ इति विष्णुपुराणप्रयोगे बहुवचनेन बहुत्वेऽवगतेऽपि समस्तसप्तशब्दस्य सप्तसंख्यापरत्वाभावात् ते कतीत्याकाङ्क्षायां पुनस्सप्तशब्दप्रयोगः एवमिहापि समस्तपंचशब्दस्य पञ्चसंख्यापरत्वाभावात् ते कतीत्याकाङ्क्षायां पुनः पञ्चशब्द इत्यसमस्तमेकमेव पञ्चपदं संख्यापरमिति युक्तम् ।

सूत्रस्यायमर्थः - पञ्च पञ्चेतिशब्दाभ्यां संख्यापराभ्यां तावत्संख्येयोपसंग्रहादपि न साङ्ख्यतत्त्वग्रहणसिद्धिः ; साङ्ख्यतत्त्वानां परस्परं पृथग्भावात् पञ्चशः पञ्चशः क्रोडीकारकधर्मरहितत्वात्, आत्माकाशाभ्यां संख्याऽतिरेकात्। चकारः स्वतन्त्रहेतुद्वयसमुच्चयार्थः। अपि चात्मनि प्रतिष्ठितत्वोक्त्या इह संख्येयानामपि स्वतन्त्रेभ्यः साङ्ख्यतत्त्वेभ्यः पृथग्भावादपि न साङ्ख्यतत्त्वग्रहणसिद्धिः। किञ्च ‘पञ्च पञ्च’ इति पञ्चकद्वयग्रहणेन वीप्साया वा नानाविधसंख्यान्तरसम्भवान्न साङ्ख्यतत्त्वग्रहणसिद्धिरित्यपि हेतुद्वयं ‘नानाभावात्’ इत्यनेन विवक्षितम्। अपिशब्देन पञ्चजनशब्दस्य संज्ञासमासरूपत्वात् पञ्चशब्दद्वयलब्धसंख्यासंख्येयोपसंग्रहो वस्तुतो नास्तीत्यपि सूचितम् ॥१-४-११॥

स्यादेतत् – उक्तरीत्या पञ्चजनशब्दस्य व्यधिकरणतत्पुरुषाङ्गीकारे पञ्चभूतप्रभवशरीरयुक्ताः पञ्चजनशब्दरूढिविषयत्वेन प्रसिद्धा मनुष्या इह ग्राह्याः स्युः। ते च चातुर्वर्ण्यानुलोमरूपान्तरप्रभवभेदेन पञ्चविधा इति पञ्चेत्यपि विशेषणं तेषु योजयितुं शक्यम्। समानाधिकरणसमासे तु ‘सप्तर्षय’ इतिवत् पञ्चजनाः नाम केचन वक्तव्याः स्युः। किमत्र तत्त्वमित्याकाङ्क्षायामाह –

प्राणादयो वाक्यशेषात् ॥१२॥

वाक्यशेषे तावत् प्राणादयः पञ्चाम्नायन्ते। तेषु च मनुष्यसम्बन्धिषु पञ्चजनशब्दो लक्षणया वर्तयितुं शक्यते। वाक्यशेषानुसारेण वाऽऽज्यादिशब्दवत् तस्य शक्त्यन्तरं कल्पयितुं शक्यते। एवं वाक्यशेषे सन्निहितेषु प्राणादिषु ग्रहीतुं योग्येषु न युक्तं स्वबुद्ध्युपस्थापनीयानां मनुष्याणां ग्रहणम् ॥१-४-१२॥

ननु प्राणादयो नात्र ग्रहणयोग्याः। काण्वपाठे पञ्चानामनाम्नानादित्याशङ्कायामाह -

ज्योतिषैकेषामसत्यन्ने ॥१३॥

काण्वानामसत्यन्ने पूर्वमन्त्रपठितेन ज्योतिषा संख्यापूरणमस्तु। न ह्यनाम्नातान्नानां पञ्चसंख्यापूरणार्थं ज्योतिर्ग्रहणे सति आम्नातान्नानामपि तद्ग्रहणेन भाव्यमिति राजाज्ञा , येन तेषां षट् पञ्चजनाः स्युः। आकाङ्क्षासद्भावासद्भावाभ्यां हि ग्रहणाग्रहणे युज्येते। विरोधस्तु विकल्पेन समाधेयः। न च वस्तुनि विकल्पायोगः। न ह्यत्र ब्रह्माश्रिताः पञ्च पञ्चजनाः प्रतिपिपादयिषितानि वस्तूनि, किन्त्वद्वितीयं निर्विशेषं प्रत्यगभिन्नं ब्रह्मैकमेवात्र प्रतिपिपादयिषितम्। पञ्चजनास्तु कल्पितास्तत्प्रतिपत्त्युपायाः। न ह्यकल्पितार्थप्रतिपत्त्युपायेषु कल्पितेष्वैकरूप्यनियमोऽस्ति; नानाप्रकारेण भिन्नव्याकरणनिष्पाद्यैः कल्पितशब्दैरुपायैरकल्पितसिद्धशब्दप्रतिपत्तिदर्शनात्। अत्र च मन्त्रे पञ्चजनाः केवलप्रतिपत्त्युपायाः, न तु ज्ञेयवस्त्वन्तर्गता इत्येतत् सुषुप्त्युत्क्रान्त्यधिकरणविषयवाक्यभूतनिष्प्रपञ्चप्रत्यगभिन्नब्रह्मप्रकरणमध्यपातेन ‘मनसैवानुद्रष्टव्यं नेह नानास्ति किञ्चन। मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति’(बृ.उ.४-४-१९) इत्यादिमन्त्रान्तरसन्निधानेन च स्पष्टम्। उत्तरार्द्धेनापि स्पष्टम्। तत्र हि ‘तमेव’ इत्येवकारेण तत्र प्रतिष्ठितान्वेद्यकोटेर्बहिर्भाव्य तमेव निष्प्रपंचमात्मानममृतं ब्रह्म मन्ये न चाहं तमात्मानं ततोऽन्यः सन्वेद्मि, किन्तु विद्वान् सन् अहमप्यमृत एव अमृतशब्दोक्तं ब्रह्मैव , अज्ञानमात्रेण तु प्राक् मर्त्य आसमिति मन्त्रद्रष्टुरुक्तिः प्रतिपाद्यते। एवमेव विवृतं वार्तिकेऽपि ‘कार्यकारणयोस्तत्त्वं यस्मादात्मैव निर्द्वयम्। मन्य आत्मानमेवातः कार्यकारणवज्जगत्। प्रध्वस्तभेदहेतुत्वात्कारणादेरसम्भवात्। अमृतोऽमृतमित्याह विद्वानिति श्रुतिस्स्वयम्’ इति। केचित्तु निष्प्रपञ्चप्रत्यगभिन्नब्रह्मसाक्षात्कारोपायत्वेन उपासनाऽत्र विवक्षितेत्याहुः। तदा सुतरां विकल्पो युज्यते ।

अत्रेदमालोचनीयम् – ‘प्राणादयो वाक्यशेषात्’ इति सूत्रं तावदयुक्तम्। सन्दिग्धे हि वाक्यशेषान्निर्णयः। न चात्र सन्देहोऽस्ति ; पञ्चजनशब्दरूढ्या प्रथमं मनुष्याणामेव तदर्थतया निश्चयात्। न च पञ्च मनुष्या यस्मिन् प्रतिष्ठिता इत्यर्थपरिग्रहे वाक्यस्य निस्तात्पर्यत्वप्रसङ्गादर्थान्तराकांक्षायामाकांक्षितार्थसमर्पको वाक्यशेषः स्यादिति वाच्यम्। पञ्चशब्दस्य व्यक्तिसंख्यापरत्वं विहाय ब्राह्मणत्वाद्यन्तरप्रभवत्वान्तक्रोडीकारकधर्मोपाधिकसंख्यापरत्वपरिग्रहोपपत्तेः। अपि च नात्र वाक्यशेषन्यायावतरणम्। एकार्थप्रतिपादकत्वे हि स न्यायः। अत एव ‘सन्दिग्धे तु [षु] वाक्यशेषात्’(जै.सू १-४-२४ ) इति पूर्वतन्त्रसूत्रात् कथं वाक्यशेषस्य सन्दिग्धार्थनिर्णायकत्वमित्याकांक्षायाम् ‘अर्थाद्वा कल्पनैकदेशत्वात्’(जै.सू. १-४-२५) इत्युत्तरसूत्रगतमेकदेशत्वादित्यंशमस्यापि सूत्रस्य शेषं कृत्वा एकोऽर्थो दिश्यते – प्रतिपाद्यते याभ्यां विध्यर्थवादाभ्यां तत्त्वादेकार्थप्रतिपादकत्वादिति व्याख्यातम्। वार्तिकेऽपि ‘विधिस्तुत्योस्सदावृत्तिस्समानविषयेष्यते। तस्मादेकत्र सन्दिग्धमितरेणावधार्यते’ इति विध्यर्थवादयोरेकार्थप्रतिपादकत्वमनयोः क्वचित् सन्दिग्धस्यान्येन निर्णये हेतुत्वेनोक्तम्। न चात्र पञ्चजनमन्त्रस्य प्राणमन्त्रस्य चैकार्थप्रतिपादकत्वमस्ति। एकः पञ्चजनाकाशाधारत्वेन उपायेन ब्रह्मप्रतिपत्तिपरः, अन्यस्तु प्राणादीनां प्राणनव्यापारादिसामर्थ्यं यदधीनं तं प्रत्यगात्मानं ये विदुः ते ब्रह्म निरचैषुरिति महावाक्यार्थनिश्चयस्य त्वंपदार्थावगत्यधीनत्वप्रतिपादनपर इति भिन्नप्रस्थानत्वात्। एवं च ‘ज्योतिषैकेषाम्’ इति सूत्रमप्यनुपपन्नम् ; पूर्वमन्त्रस्यापि कालापरिच्छिन्नं ज्योतिषामादित्यादीनां ज्योतिरमृतं ब्रह्म आयुष्यगुणविशिष्टं देवा उपासत इति पुराकल्पप्रदर्शनमुखेन आयुष्कामस्तद्गुणविशिष्टं ब्रह्मोपासीतेति निर्गुणप्रकरणेऽप्यस्मिन् प्रासङ्गिकोपासनाविधिपरत्वात् ।

अपि च सर्वशाखाप्रत्ययन्यायान्माध्यन्दिनशाखापठितान्नोपसंहारेणैव काण्वशाखायां पञ्चसंख्यापूरणसम्भवादप्यनुपपन्नम्। पञ्चसंख्यापूरणार्थं ज्योतिरपेक्षायामपि ‘ज्योतिर्भिः’ इति सूत्रं प्रणेतव्यम् ; पूर्वमन्त्रे बहुवचननिर्दिष्टानामेव ज्योतिषामिह पञ्चजनमध्ये ग्राह्यत्वात् द्वितीयानिर्दिष्टस्य ब्रह्मतया तस्य तदाश्रितमध्ये परिगणनायोगात्। अपि च साङ्ख्यतत्त्वेषु पञ्चशः पञ्चशः क्रोडीकारकैकधर्माभावात्तत्परिग्रहो न युज्यत इति ‘नानाभावात्’ इति सूत्रभागेन दूषितवता सूत्रकृता प्राणादिषु ज्योतिःपञ्चमेष्वन्नपञ्चमेषु च पृथक् पृथक् क्रोडीकारकमेकैकधर्मं दृष्ट्वेदं सूत्रद्वयं प्रणीतमित्युपपादनीयम्। तमपि धर्मं न पश्यामः। न हि महासंख्यायां विभज्यावान्तरसंख्यानिवेशन एव क्रोडीकारकधर्मापेक्षा, न तु संख्यानिवेशनमात्र इति विशेषे प्रमाणमस्ति। तस्मादसमञ्जसमेवेदं सूत्रद्वयं प्रतिभाति ।

अत्र ब्रूमः – ‘पञ्च पञ्चजनाः’ इत्यत्र मनुष्यपरिग्रहे पञ्चजनशब्दस्वारस्यं लभ्यते। पञ्चसंख्या तु पुरुषबुद्ध्युपस्थापनीयेन ब्राह्मणत्वाद्युपाधिना निर्वहणीया। प्राणादिपरिग्रहे मन्त्रान्तरश्रुतेन प्राणत्वाद्युपाधिना पञ्चसंख्यानिर्वाहात्पञ्चशब्दस्वारस्यं लभ्यते। पञ्चजनशब्दस्तु प्राणादिषु लक्षणया शक्त्यन्तरकल्पनेन वा नेतव्यः। किमत्र युक्तमिति विवक्षायां प्रथमश्रुतपञ्चशब्दस्वारस्यमनुरुध्य पञ्चजनशब्दस्य प्राणादिषु वृत्त्यन्तरकल्पनं युक्तमित्यभिप्रेत्य भगवता सूत्रितं ‘प्राणादयो वाक्यशेषात्’ इति। एवमेव हि जैमिनिनाऽपि सप्तदशशरावे चरौ ‘चतुरो मुष्टीन्निर्वपति’ इत्यस्य प्राप्तौ संख्यामुष्ट्यन्यतरबाधे चावश्यंभाविनि प्रथमश्रुतसंख्याबाधपरिहाराय मुष्टिबाधोऽङ्गीकृतः। यद्यदि पञ्चजनवाक्यस्य प्राणवाक्यं विधेरर्थवाद इव शेषो न भवति, तथापि अपरिमितवाक्यस्य सहस्रवाक्यमिवाकांक्षितमर्थं सन्निधानमात्रेण समर्पयत् शेष इव भवतीति ‘वाक्यशेषात्’ इत्युक्तम्। श्रुतावपि हि पर्यग्निकरणान्तोत्सृष्टस्य पात्नीवतपशोस्तदनन्तरं क्रियमाणः पत्नीवद्देवत्य आज्ययागः संस्थाप्यमानश्शेष इव भवतीत्येतावतोक्तं ‘पर्यग्निकृतं पत्नीवतमुत्सृजत्याज्येन शेषं संस्थापयति’ इति। एतेन – ज्योतिषा संख्यापूरणानुपपत्तिरपि – परिहृता। ‘ज्योतिषां ज्योतिः’ इत्यस्य पञ्चजनवाक्यशेषत्वाभावेऽपि अपरिमिताधिकरणन्यायात्सन्निधानमात्रेणाकांक्षितार्थसमर्पकत्वसम्भवात्। यत्तु माध्यंदिनशाखात उपसंहृतेऽन्ने सति ज्योतिषा संख्यापूरणं नापेक्षितमिति तत्तथैव। कृत्वाचिन्तया तु सूत्रं प्रणीतम्। कृत्वाचिन्तेत्येतदपि ‘असत्यन्न’ इत्यनेनैव दर्शितम्। यदि शाखान्तरादुपसंहृतमन्नं न स्यात्तदानीं ज्योतिषा संख्यापूरणं कार्यमित्येतदर्थ एव हि ‘असत्यन्न’ इति सूत्रशेषः , न तु तस्य प्रयोजनान्तरमस्ति। यदि हि शाखान्तरादन्नोपसंहारं सूत्रकारो नान्वमंस्यत ‘असत्यन्न’ इति सूत्रशेषं नावक्ष्यत्; काण्वशाखायामन्नाभावस्य स्पष्टत्वात्। शाखान्तरादन्नोपसंहाराभावप्रतिपादनार्थत्वे ‘अन्नाभावात्’ इत्येवावक्ष्यत् , न तु ‘असत्यन्न’ इति ‘ज्योतिषा’ इत्येकवचनं तु ‘ज्योतिः’ इति मन्त्रे बहुवचननिर्दिष्टानां ज्योतिषां ज्योतिष्ट्वेन एकीकृत्य परिग्रहणं सूचयितुम्। अन्यथा हि पञ्चजनानां संख्याऽतिरेकः स्यात्। प्राणादीनामन्नपञ्चमानां क्रोडीकारकं ब्रह्माधीनस्वव्यापारत्वेन उत्तरमंत्राम्नातत्वम्। ज्योतिःपञ्चमानां ब्रह्माधीनस्वव्यापारत्वेन सन्निहितमन्त्राम्नातत्वम्। संख्यानिवेशनार्थमेतदनपेक्षायामपि ‘प्राणादय’ इति सूत्रगतेन तद्गुणसंविज्ञानबहुव्रीहिणा तेषां वाच्यत्वस्य, लक्ष्यत्वस्य वा सिद्ध्यर्थमवश्यं तेष्वनुगतमेकं रूपमेतदन्यद्वा वक्तव्यमेव। कृत्वाचिन्ता किमर्थेति चेत् न्यायव्युत्पादनार्थम्। यथा शर्करांजनवाक्ये द्रवद्रव्यमाकांक्षितं वाक्यशेषाद्गृह्यते , यथा वा अपरिमितवाक्ये स्ववाक्यशेषाभावेऽपि अन्यार्थप्रवृत्तात्सन्निहितात्सहस्रवाक्यादाकांक्षितं बहुत्वप्रतियोगि गृह्यते , एवमेकस्मादन्यार्थप्रवृत्तात्सन्निहितवाक्यादाकांक्षितस्य सर्वस्यालाभे तथाभूतादनेकस्माद्वा कुतश्चित्किंचिदित्यनेन प्रकारेण तद्ग्राह्यमिति न्यायो ह्यनेन सूत्रेण व्युत्पादितो भवति ।१-४-१३।

इति नसंख्योपसंग्रहाधिकरणम् ।३।

कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥१४॥

एवं त्रिभिरधिकरणैः किञ्चित्किञ्चिद्वेदवाक्यमवलम्ब्य प्रधानकारणवादिनां प्रत्यवस्थानं निराकृतम्। इह तु प्रायःकारणवाक्यानां मिथो विलक्षणकारणसमर्पकाणामन्योन्यविरोधादप्रामाण्यप्रसङ्गे तानि स्मृतिन्यायप्रसिद्धे प्रधाने लाक्षणिकानीति कल्पनं युक्तमिति तेषां प्रत्यवस्थानं निराक्रियते। तथा हि – तैत्तिरीये तावदसत्पूर्विका सृष्टिराम्नायते ‘असद्वा इदमग्र आसीत् ततो वै सदजायत’(तै.उ. २-७-१) इति। बृहदारण्यकेऽपि ‘असदेवेदमग्र आसीत् तत्सदासीत्’ इति। छान्दोग्ये त्वसत्कारणपक्षप्रतिक्षेपेण सत्पूर्विका सृष्टिः प्रतिज्ञायते – ‘तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतस्सज्जायत इति। कुतस्तु खलु सोम्य एवं स्यादिति होवाच। कथमसतस्सज्जायतेति सत्त्वेव सोम्येदमग्र आसीत्’(छा.उ.६-२.१-२) इति। बृहदारण्यक एव क्वचित्स्वयंकर्तृका जगद्व्याक्रिया निगद्यते ‘तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत’(बृ.उ.१-४-७) इति। एवमनेकधा विप्रतिपत्तेः उदितानुदितहोमवद्वस्तुनि विकल्पायोगात्कारणवस्तुसदसत्त्वविप्रतिपत्तेश्च तत्प्रतिपत्त्युपायवियदादिकार्यतत्क्रमादिविषयविप्रतिपत्तिवददोषत्वस्य वक्तुमशक्यत्वात् मिथो व्याहतार्थैर्वेदान्तैर्न जगत्कारणं ब्रह्मेत्यवधारयितुं शक्यम्। शक्यं तु साङ्ख्यस्मृत्या तदुपपादितन्यायैश्च प्रधानं जगत्कारणमित्यवधारयितुम्। अतः कारणवाक्यानां प्रामाण्यं रिरक्षिषता स्मृतिन्यायसमर्पिते प्रधान एव तेषामपि पर्यवसानं वाच्यम्। ईक्षणादयोऽपि कथंचिद्गौणवृत्त्या तत्रैव नेतव्या इति पूर्वः पक्षः ।

स्यादेतत् – तैत्तिरीये यज्ज्ञानान्निरतिशयानन्दावाप्तिः तत्सत्यज्ञानादिलक्षणं ब्रह्म प्रस्तुत्यान्नमयादिकोशपरम्परया सर्वान्तरं तत्प्रत्यग्रूपं निर्धार्य ‘असन्नेव’(तै.उ.२-६.१) इति मन्त्रेण तस्य सत्त्वासत्त्ववेदनयोर्वेदितुः साधुत्वासाधुत्वप्राप्तिरूपगुणदोषाभिधानेनासद्वादं निराकृत्य ‘सोऽकामयत’(तै.उ.२-६.१) इत्यादिना तस्यैव कामनापूर्वकं सकलप्रपञ्चस्रष्टृत्वमुक्त्वा ‘तत्सत्यमित्याचक्षे’(तै.उ.२-६.१) इति चोपसंहृत्य ‘तदप्येष श्लोको भवति’(तै.उ.२-६.१) इति तस्मिन्नेवार्थे श्लोकोऽयमवतारितः ‘असद्वा इदमग्र आसीत्’(तै.उ.२-७.१) इति। कथमयमसत्कारणपरः स्यात् ? कथं चासतः ‘आसीत्’ इत्यस्तित्वमुच्येत। तस्मान्नामरूपव्याकरणात् प्राक् सदपि ब्रह्मासदिवेत्युपचारादसदित्युक्तम्। एषैव असदेवेदमग्र आसीत् इत्यत्रापि योजना स्यात्। असच्छब्दस्य ब्रह्मपरतायाः क्वचिद्दृष्टत्वादिहापि तत्सदासीत् इत्यग्रे वचनाच्च। शून्यत्वे हि किं ‘सदासीत्’ इति परामृश्येत। छान्दोग्येऽपि असद्वादोऽनुदितहोम इव न श्रुत्यन्तरप्राप्तो निराकृतः येन तैत्तिरीयबृहदारण्यकश्रुत्योरसत्कारणपरत्वं वाच्यं स्यात्। किन्तु सर्वश्रुतिपरिगृहीतसत्कारणपक्षदार्ढ्याय मन्दमतिपरिकल्पित एवानूद्य निराकृतः। ‘तद्धेदं तर्ह्यव्याकृतमासीत्’ इत्यत्रापि न निरध्यक्षस्य जगतो व्याकरणं कथ्यते ; अग्रे ‘स एष इह प्रविष्ट आनखाग्रेभ्यः’(बृ.उ. १-४-७) इत्यध्यक्षस्य व्याकृतकार्यानुप्रवेशश्रवणात् ।

किञ्च ‘व्याक्रियत’ इत्ययं लकारः कर्मणि वा स्यात्कर्मकर्तरि वा। कर्मणि चेद्गम्यते ग्राम इत्यत्रेवाक्षेपतः कर्तृलाभः स्पष्टः। कर्मकर्तरि चेदपि तथैव। कर्त्रा क्रियमाणमेव यत्कर्म स्वगुणैः सुकरं भवति तत्सौकर्यमपेक्ष्य कर्तृत्वेन विवक्ष्यमाणं हि कर्मकर्तेत्युच्यते। यथाऽऽहुः ‘क्रियमाणं तु यत् कर्म स्वयमेव प्रसिद्ध्यति। सुकरैः सुगुणैर्युक्तं कर्मकर्तेति तद्विदुः’ इति। एवं च यथा करणस्य , अधिकरणस्य वा गुणसौष्ठवेन कर्तृत्वविवक्षया ‘साध्वसिश्च्छनत्ति’ ‘साधु स्थाली पचति’ इति कर्तृत्वव्यवहारेऽपि वस्तुतः कर्तृव्यापारविषयत्वं न हीयते , एवमिहापि। इयांस्तु विशेषः – कर्मणः कर्तृत्वविवक्षायां ‘कर्मवत् कर्मणा तुल्यक्रियः’(पा.सू. ३-१-८७) इति सूत्रेण कर्मवत् कार्यविधानात् ‘लूयते केदारः स्वयमेव’ इत्यादिप्रयोगेषु यगात्मनेपदादयः। करणाधिकरणयोः कर्तृत्वविवक्षायां तथा विशेषविधानाभावात् कर्तरि विहिताः श्नम्शबादयः प्रत्ययाः। तस्मात् कारणवाक्यानामविरोधेन सद्रूपे ब्रह्मणि कारणे तात्पर्यस्य निर्धारयितुं शक्यत्वान्न प्रधानपरत्वं कल्पनीयम्। कथं चानन्दमयाधिकरणादृश्यत्वाधिकरणादिषु बहुभिर्न्यायैः प्रधानाद्व्यवच्छिद्य ब्रह्मपरत्वेन निर्णीतानां तैत्तिरीयच्छान्दोग्यमुण्डकोपनिषदादिगतकारणवाक्यानां पुनरिह प्रधानपरत्वमिति शङ्कोन्मज्जनं लभेत ? तस्मान्नायं पूर्वपक्षो युक्त इति चेत् –

अत्र ब्रूमः – तैत्तिरीये यत् कारणं ब्रह्म प्रतिपादितं तत् प्राक् ‘असद्वा’ इति श्लोकावतरणात् सदसदिति वा न निर्धारयितुं शक्यम्। ‘असन्नेव स भवति’ इति श्लोकस्य असद्ब्रह्मेति वेद चेत् स्वभाविकासद्रूपतापत्तिरूपां सकलसांसारिकदुःखरहितां मुक्तिं प्राप्तो भवति। ब्रह्मणः कल्पितसद्रूपत्ववेदने तु स्वयमपि सद्रूपतानुवृत्त्या सकलसांसारिकदुःखस्वभाजनं भवेदित्येवमभिप्रायवर्णनोपपत्तेः। ‘सोश्नुते सर्वान् कामान्’(तै.उ.२-१-१) इति मुक्तौ सर्वकामावाप्तिवचनस्य मुक्तः सम्प्राप्तसकलकाम इव निर्दुःखो भवतीत्येतदर्थलक्षकत्वोपपत्तेः निरतिशयब्रह्मानन्दप्राप्तिपरत्वपक्षेऽपि तस्य तत्र लक्षणाऽवश्यम्भावात्। उपक्रमे वाक्यशेषे च श्रुतस्य सत्यशब्दस्य ‘सत्यकामः सत्यसङ्कल्पः’(छा.उ.८-१-५) ‘यच्चिकेत सत्यमित्तन्न मेघम्’ इत्यादिप्रयोगदर्शनादमोघमसद्रूपं ब्रह्म यस्मात् सद्रूपं जगदवश्यञ्जायत इत्येकमपि तात्पर्यवर्णनोपपत्तेः। सिद्धान्ते चेतनब्रह्मणः काल्पनिकाचेतनप्रपञ्चस्येवासद्रूपाद्ब्रह्मणः काल्पनिकसद्रूपप्रपंचस्य जननोपपत्तेश्च कार्यप्रपञ्चपरशब्दानां काल्पनिकपरत्ववत् कारणब्रह्मपरशब्दानामसत्परत्वोपपत्तेश्च। सिद्धान्तेऽपि वैदिकशब्दानां सदर्थपरत्वनियमाभावात्। तस्मात् ‘पञ्च पञ्चजना’ इत्यस्येव तैत्तिरीयगतकारणवाक्यस्यानेकधाऽर्थवर्णनसम्भवादनिर्णयप्रसङ्गे वाक्यशेषादर्थनिर्णयो युक्तः। एवम् ‘असद्वा इदमग्र आसीत्’ इति वाक्यशेषानुसारेणास्यासत्कारपरत्वे सति ‘असदेवेदम्’ इति बृहदारण्यकवाक्यमप्यसत्कारणपरमेवावतिष्ठते। न चोभयत्रापि ‘आसीत्’ इति अस्तित्वोक्त्या सत्येवासच्छब्दयोर्लक्षणा स्वीकर्तव्येति शंक्यम्। ‘तद्धैक आहुरसदेवेदमग्र आसीत्’ इति छान्दोग्ये निराकरणीयासत्कारणपक्षानुवादे अत्यन्तासत्येव ‘आसीत्’ इति प्रयोगदर्शनात्। एवं च उदाहृतं छान्दोग्यवाक्यमपि श्रुत्यन्तरप्रतिपादितासत्कारणपक्षनिराकरणपरमेवावतिष्ठते ।

यत्तु ‘व्याक्रियत’ इत्यत्र ‘स एष इह प्रविष्ट आनखाग्रेभ्यः’ इत्यग्रे कर्तृश्रवणमस्तीत्युक्तम् ; तन्न। तत्र ‘स यत् पूर्वोऽस्मात् सर्वस्मात् सर्वान् पाप्मन औषत्’(बृ.उ,१-४-१) इति प्राक् प्रकृतस्य जीवस्य व्याकृतशरीरानुप्रवेशस्यैव प्रतिपाद्यमानतया जगत्कर्तुरप्रतिपादनात्। यदप्याक्षेपतः कर्तृलाभोऽस्ति ‘लूयते केदारः स्वयमेव’ इत्यादाविवेत्युक्तं तदपि न युक्तम्। ‘भिद्यते कुसूलेन’ इत्यादिषु व्यभिचारेण कर्मकर्तृविवक्षायां कर्त्रन्तराक्षेपनियमाभावात्। अत एव महाभाष्ये कर्मणः कर्तृत्वरूपस्वातन्त्र्यविवक्षास्थले ‘किं सतस्स्वातन्त्र्यस्य विवक्षा उत विवक्षामात्रम्’ इति पक्षं परिगृह्य तत्र ‘भिद्यते कुसूलेन’ इत्युदाहृत्य तत्रापि कुसूलातिरेकेण भेदने कर्तारो वातातपवर्षकालाः सन्तीत्याशंक्य ‘यस्य खलु निवाते निरभिवर्षे अचिरकालकृतः कुसूलः स्वयमेव भिद्यते तस्य नान्यः कर्ताऽस्ति अन्यदतः कुसूलात्’ इति परिहृतम्। पुनश्च यत्र तर्हि ‘लूयते केदारः स्वयमेव’ इत्यत्र कर्त्रन्तरमस्ति तत्र केदारे लवनं प्रति सतस्स्वातन्त्र्यस्य विवक्षा न सम्भवतीत्याशंक्य ‘अत्रापि याऽसौ सुकरता नाम तस्या नान्यः कर्ताऽस्ति अन्यदतः केदारात्’ इति परिहृतम्। एवं कर्मकक्तृप्रयोगेषु कर्त्रन्तराभावे कृत्स्नस्वातन्त्र्यविवक्षा, तत्सद्भावे सौकर्यांशमात्रस्वातन्त्र्यविवक्षेति द्वैविध्यं वर्णयता भगवता पतञ्जलिना कर्त्राक्षेपनियमो नास्तीति स्पष्टमेव दर्शितम्। एवञ्च सति द्वैविध्ये ‘व्याक्रियत’ इत्यत्र कृत्स्नस्वातन्त्र्यविवक्षैव न्याय्या, अन्यथा कर्त्राक्षेपगौरवप्रसङ्गात्। अत एव कृत्स्नस्वातन्त्र्ययुक्ते कर्मकर्तर्येवायं लकारः न तु कर्मणि ; तथात्वेऽपि कर्त्राक्षेपगौरवप्रसङ्गात्। तस्मात् तत्कारणवाक्यस्वारस्यपर्यालोचनायामवश्यमस्त्येव विरोध इति तत्परिहारेण प्रामाण्यसंरक्षाणार्थं तेषां स्मृतिन्यायसिद्धे प्रधाने पर्यवसानं कल्पयितुं युक्तम् ।

आनन्दमयाधिकरणादिषु तन्निराकृतम् , इति चेत् ; सत्यमानन्दमयाधिकरणे ‘कामाच्च नानुमानापेक्षा’(ब्र.सू.१-१-१८) इति निराकृतम्। ‘सोऽकामयत’ इति श्रुतः कामः प्रधान इव ब्रह्मण्यनुपपन्नः। स हि ‘कामस्सङ्कल्पो विचिकित्सा’(बृ.उ.१-५-३) इत्यादिश्रुतावन्तःकरणधर्मत्वेन प्रतिपन्नः। न च ब्रह्मणोऽन्तःकरणमस्ति। एतेन – ईक्षत्यधिकरणे वर्णितमीक्षणमपि – व्याख्यातम्। तदपि खलु ‘ह्रीर्द्धीर्भीरित्येतत्सर्वं मन एव’(बृ.उ.१-५-३) इत्यन्तःकरणधर्मत्वेन श्रुतम्। ब्रह्मणस्स्वरूपज्ञानेन सर्वज्ञत्वं सम्भवति इति चेत् ; सत्यं ‘यस्सर्वज्ञस्सर्ववित्’ इति श्रुतं सर्वज्ञत्वं सम्भवति , न तु ‘तदैक्षत’ इति सर्गाद्यकालोत्पन्नत्वेनेदानीमतीतत्वेन च श्रुतमनित्यमीक्षणम्। किञ्चेच्छामात्रे अनित्यज्ञानमात्रे च शरीरस्यापि कारणत्वावगमात् सर्गाद्यकाले भूतसृष्टेः प्रागशरीरस्य ब्रह्मणः कामेक्षणे सुतरां न सम्भवतः। गौणे तु प्रधानेऽपि सम्भवतः। एतेन – कारणवाक्यगतात्मब्रह्मादिशब्दास्तत्त्वमसीत्याद्यभेदव्यपदेशाश्च व्याख्याताः ।

किञ्च पञ्चजनशब्दस्य प्राणादिष्विवात्मादिशब्दानां प्रधाने वृत्तिः कल्प्यत इत्यपि वक्तुं शक्यम्। ‘तस्य तावदेव चिरम्’(छा.उ.६ – १४ - २) इति मोक्षोपदेशस्तु न जीवजगत्कारणाभेदनिष्ठस्य, किन्तु केवलं जगत्कारणनिष्ठस्येति प्रधानेऽपि सङ्गच्छते। मोक्षाय प्रधानमपि हि साङ्ख्यमते ज्ञेयम्। अत एवानुमानिकाधिकरणे ‘ज्ञेयत्वावचनाच्च’(ब्र.सू.१-४-४) इति सूत्रितम्। ‘स्वमपीतो भवति’ इत्यत्र स्वशब्दः स्वीयपरोऽस्तु। भिन्नेऽप्यप्ययः प्रसिद्धो ‘यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति’(श.ब्रा.१०-३-३-६) इत्यत्र। मुण्डके जगत्कारणमक्षरं प्रधानं अक्षरात्परः पुरुषो जीव इत्येवं प्रकारेण सर्वाणि कारणवाक्यानि यथाकथंचिद्गौणलक्षणाध्याहारानुषङ्गवाक्यभेदव्यवधारणकल्पनादिभिः स्मृतिन्यायप्राप्ते प्रधान एव नेतव्यानि। तत्तत्कारणवाक्यस्वारस्यलभ्यार्थपरिग्रहे तेषां परस्परविलक्षणकारणसमर्पकत्वादप्रामाण्यमेव प्रसज्यते। वरं चाध्ययनविधिपरिगृहीतानां वैदिकशब्दानामतिक्लेशाश्रयणेनापि ‘सृण्येवजर्भरि’ इत्यादिमंत्राणामिव प्रामाण्यसंरक्षणमित्येवं सर्वाक्षेपेण पूर्वपक्षे प्राप्ते –

राद्धान्तः – श्वेताश्वतरादिषु प्रदर्शितानि बहूनि कारणवाक्यानि प्रधानपुरुषातिरिक्तं तयोर्नियामकं सर्वज्ञं सर्वेश्वरं सर्वेषां प्रत्यग्रूपं जगत्कारणं प्रतिपादयन्ति। यत्राप्यानन्दवल्यामसत्कारणवाद इव दृश्यते , साऽपि तथैव सर्वज्ञं सर्वेश्वरं सर्वान्तरं सर्वेषां प्रत्यग्रूपं कारणं प्रतिपादयत्येव। तथैव हि छान्दोग्यश्रुतिरपि चेतनं प्रत्यगभिन्नं कारणं प्रतिपादयति यत्रासत्कारणवादनिराकरणमतिस्फुटं श्रूयते। एवं च परमेश्वरकारणत्वप्रतिपादकानां कारणवाक्यानां बाहुल्ये सति बहूनामेकविषयाणां परस्परविरोधेनार्थानिर्णयप्राप्तौ प्रमाणान्तरानुसारेण सर्वेषां शब्दानां लाक्षणिकत्वादिकल्पनाद्वरं स्वान्तर्वर्तिबहुशब्दानुसारेण कतिपयशब्दलक्षणाकल्पनं लाघवादिति प्रधाने सर्वेषां कारणवाक्यानां क्लेशेन नयनं परित्यज्य क्वाचित्कस्यासच्छब्दस्य ब्रह्मलक्षणाश्रयणं कामेक्षणशब्दयोश्च श्रुतिबलाच्छरीरानपेक्षोत्पत्तिकमायावृत्त्युपाधिप्राप्तानित्यभावस्वरूपज्ञानात्मकसङ्कल्पविशेषपरत्वकल्पनम्। एवं च जीवजगत्कारणाभेदस्वाप्ययादिश्रुतयोऽपि न क्लेशेन नेतव्याः ।

एवं बृहदारण्यकेऽप्यसच्छब्दस्य गतिर्द्रष्टव्या। प्रायेण व्याकृतवस्तुविषयः खलु सच्छब्दः प्रसिद्धः। ब्रह्म तु प्राग्जगदुत्पत्तेर्व्याकरणाभावापेक्षया सदेवासदित्युपचर्यत इति। ‘व्याक्रियत’ इति कर्मणि लकारो न तु कर्मकर्तरि। ‘अव्याकृतमासीत्’ इति कर्मण्येव निष्ठांतस्य प्राक्प्रयोगात्, एकविषययोः ‘प्रागव्याकृतम् , पश्चाद्व्याक्रियत’ इति प्रयोगयोः ‘प्रागच्छिन्नं वनमिदानीमच्छिद्यत’ इति प्रयोगयोरिवैकार्थ्यपरत्वावश्यंभावात्। न चाव्याकृतमित्यपि कर्मकर्तरि प्रयोग इति शङ्कनीयम्। तदानीमनेनाव्याकृतमिति तृतीयाप्रयोगप्रसङ्गादिदमिति प्रथमाऽनुपपत्तेः। कर्मणः कर्तृत्वविवक्षायां हि धातोरकर्मकत्वाद्भावे निष्ठेति कर्तुरनभिहितत्वात् तृतीययैव भाव्यम्। न च ‘कर्मवत्कर्मणा तुल्यक्रियः’(पा.सू.३-१-८७) इति सूत्रेण कर्मकर्तुः कर्मवद्भावातिदेशान्निष्ठया कर्तुरभिहितत्वेन प्रथमा स्यात् यथा ‘लूयते केदारस्स्वयमेव’ इत्यत्र कर्तुरभिहितत्वेन केदार इति प्रथमेति वाच्यम्। ‘लिङ्याशिष्यङ्’(पा.सू.३-१-८६) इति पूर्वसूत्रे द्विलकारको निर्देश इत्येकस्य लकारस्यानुवृत्त्या लान्तस्य यः कर्मणा तुल्यक्रियः कर्ता तस्यैव कर्मवद्भावविधानात्कृत्यक्तखलर्थेषु कर्मकर्तुः कर्मवद्भावाभावात्। तस्मात् कर्मण्येवायं लकार इत्यनिवार्यः कर्त्राक्षेपः ।

सूत्रे कारणत्व इति सप्तमी नेति प्रतिषेधः। पुनश्च कारणत्वेनेति तृतीया। चस्त्वर्थः। तथा चायमर्थः – आकाशादिषु कार्येषु क्रमादिविषये विगाने सत्यपि न ब्रह्मणः कारणत्वे अस्ति विगानम्। कुतः ? यथाव्यपदिष्टोक्तेः ; यथाभूतो ह्येकस्मिन् वेदान्ते सर्वज्ञः सर्वेश्वरः सर्वात्मकोऽद्वितीयः कारणत्वेन व्यपदिष्टः तथाभूतस्यैव वेदान्तान्तरेष्वपि कारणत्वेनोक्तेः। तथा च बहुशब्दानुसारेण क्वाचित्कस्यासच्छब्दस्य व्याकृतप्रपञ्चात्मनाऽनभिव्यक्ते ब्रह्मणि लक्षणा न्याय्या। न हि तत्र कारणमेव नास्तीति प्रतिक्षिप्यते , किन्तु कारणमभ्युपेत्य तत्रासच्छब्दः प्रयुज्यते। तथापि व्याक्रियतेत्यत्र कारणान्तरप्रतिक्षेपोऽस्तीति शङ्कानिवारणार्थश्चकारः। तन्निराकरणप्रकारो दर्शित एव ॥१-४-१४॥

एवं प्रकरणान्तरगतबहुकारणवाक्यानुसारेण ब्रह्मकारणवादविरोधी क्वाचित्कः शब्दो लक्षणादिना नेतव्य इत्युक्तम्। इदानीं पूर्वापरवाक्यानुसारेणापि तथा नेतव्य इत्याह –

समाकर्षात् ॥१५॥

आनन्दवल्यामुपक्रमे वाक्यशेषे च श्रूयमाणः सत्यशब्दस्त्रिकालाबाध्यरूपपरमार्थवाची ; तत्रैव तस्य शब्दस्य व्युत्पन्नत्वात्। अमोघे तत्प्रयोगस्तु लाक्षणिकः। प्रायः शुक्तिरजतादेर्बाध्यस्य कार्यकरत्वादर्शनेनामोघत्वस्याबाध्यसम्बन्धित्वावगमात् लक्षणया तत्र प्रयोगनिर्वाहे शक्त्यन्तरस्याकल्पनीयत्वात्। ‘असन्नेव’ इति मन्त्रोऽप्युपक्रमोपसंहारानुरोधाच्छन्दोगश्रुतावसद्वादनिराकरणस्य क्लृप्तत्वेन तदनुरोधाच्चासद्वादनिराकरणपरः। एवञ्च सद्रूपं ब्रह्म प्रकृत्य तस्मात् प्रत्यग्रूपादाकाशाद्युत्पत्तिमुक्त्वा तस्य सर्वान्तरत्वमुपपाद्य तस्यासत्यत्वपक्षञ्च निराकृत्य सकलजगत्स्रष्टृत्वञ्चोक्त्वा ‘तत्सत्यमित्याचक्षते’ इति चोपसंहृत्य ‘तदप्येष श्लोको भवति’ इति अनया तस्मिन्नर्थे श्लोकोऽयमित्यवतारिकया तदेव सद्रूपं कारणं ब्रह्मानुकृष्य पठ्यमानोऽयं ‘असद्वा इदमग्र आसीत्’ इति श्लोकः कथमसत्कारणपरः स्यात्। अतः सत्समाकर्षानुरोधादसच्छब्दः सत्येवानभिव्यक्त्यभिप्रायो लाक्षणिकः कल्पनीयः। ‘असदेवेदम्’ इति श्रुतावपि ‘तत्सदासीत्’ इति सद्भावविधाने तत्पदेनासच्छब्दोक्तस्यैव समाकर्षादत्यन्तासतश्च ‘नासतो दृष्टत्वात्’ इति न्यायेन सद्रूपतापत्त्ययोगादसच्छब्दः पूर्ववल्लाक्षणिकः कल्पनीयः। ‘तद्धेदं तर्ह्यव्याकृतमासीत्’ इत्याद्यनन्तरं ‘स एष इह प्रविष्ट’ इति वाक्ये तच्छब्देन व्यवहितप्रकृतपुरुषस्येवैतच्छब्देनाव्यवहितप्रकृताव्याकृतस्यापि समाकर्षादव्याकृतरूपतया प्रविष्टपुरुषाभिधानसामर्थ्यादव्याकृतशब्दोऽनभिव्यक्तब्रह्मपर इति तत्र न चेतनस्य कर्तुः प्रतिक्षेपः। तस्मात् ‘नामरूपाभ्यां व्याक्रियत’ इत्यत्र स्वेनेत्येव कर्तृवाचिपदमध्याहार्यम् ; ‘तदात्मानं स्वयमकुरुत’ इत्यनेनैकार्थ्यात्। तस्मात् सिद्धं सर्वेषां कारणवाक्यानामविरोधेन ब्रह्मपरत्वम् ॥१-४-१५॥

इति कारणत्वाधिकरणम् ।४।

जगद्वाचित्वात् ॥१६॥

कौषीतकिब्राह्मणे अजातशत्रुर्नाम काशीराजः स्वसमीपमागत्य ‘‘ब्रह्म ते ब्रवाणि’(कौ. ब्रा.४-१) इत्युक्तवन्तं बालाकिं गार्ग्यं ‘‘सहस्रन्दद्म एतस्यां वाचि जनको जनक इति वै जना धावन्ति’(कौ. ब्रा.४-१) इति प्रशस्य बालाकिना ‘‘य एवैष आदित्ये पुरुषस्तमेवाहमुपासे’(कौ. ब्रा.४-३) इत्यादिभिर्वाक्यैर्ब्रह्मत्वेनोपदिष्टानादित्यचन्द्रविद्युत्स्तनयित्न्वाकाशवाय्वग्न्यादिगतान् पुरुषानब्रह्मत्वेन तत्तत्पुरुषोक्त्यनन्तरमेव प्रत्याख्याय ततस्तूष्णींभूते तस्मिन्किमेतावदेव तत्र परिज्ञानमिति पृष्ट्वा तेनैतावदेवेत्यभिहिते ‘‘मृषा वै किल मा संवदिष्ठाः ब्रह्म ते ब्रवाणि’(कौ. ब्रा.४-१९) इत्युक्त्या तमपोद्य ‘‘यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वेदितव्यः’(कौ. ब्रा.४-१९) इति स्वयमुपदिदेश इति श्रूयते। अत्र यो वेदितव्य उपदिष्टः उपसंहारे च ‘सर्वान्पाप्मनोऽपहत्य सर्वेषां च भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति य एवं वेद’ इति यद्वेदनस्य फलं वर्णितं स किं जीवः , उत मुख्यप्राणरूपो हिरण्यगर्भः , अथवा परं ब्रह्मेति ‘यस्य वै तत्कर्म’ इत्यत्र कर्मशब्दरूढियोगाभ्यां संशये जीव इति तावत्प्राप्तम्। ब्रह्मणि पारिस्पन्दरूपस्य, यज्ञादिरूपस्य वा कर्मणः सम्बन्धाभावात् जीवे यज्ञादिसम्बन्धसत्त्वात्। न च ब्रह्मण्यपि तदाराधनरूपेण यज्ञादिना सम्बन्धोऽस्तीति वाच्यम् ; पुण्यापुण्यसाधारणकर्ममात्रस्य तदाराधनत्वाभावात्। न च क्रियत इति व्युत्पत्त्या यस्यैतत्कृत्स्नं जगत्कार्यमिति यस्य वै तत्कर्मेत्यस्यार्थो ग्राह्यः। तथा सति ‘एतेषां पुरुषाणां कर्ता’ इति पृथङ्निर्देशवैयर्थ्यात् ।

जीवपक्षे एतेषामादित्यमण्डलाद्यधिकारिणां भोगोपकरणभूतानां पुरुषाणां यः कर्ता एतत्कर्तृभावे द्वारभूतं पुण्यापुण्यलक्षणं च कर्म यस्यास्ति स वेदितव्य इत्युपपत्तेः योगाद्रूढेः प्रबलत्वाच्च। कर्मशब्दस्य परिस्पन्द एव रूढिः , तत्साध्यत्वात्तु पुण्यापुण्यरूपे कर्मणि लक्षणा इति चेत् , न। परिस्पन्दासाध्येष्वपि दर्शनस्पर्शनश्रवणादिसाध्यपुण्यपापेषु कर्मशब्दप्रयोगदर्शनात्। तत्रापि यथाकथञ्चित्परम्परया परिस्पन्दसाध्यत्वाश्रयणेन लक्षणेत्यङ्गीकारेऽपि योगाद्रूढिपूर्वलक्षणायाः प्रबलत्वात् , जीवस्यापि तत्प्रेर्यदेहाश्रयपरिस्पन्देनासाधारणसम्बन्धसत्त्वाच्च। अग्रेऽपि जीवलिङ्गदर्शनाच्च। तत्र ह्यजातशतृणा वेदितव्यतयोपन्यस्तस्य पुरुषाणाङ्कर्तुर्वेदनायोपेतं बालाकीं प्रति बुबोधयिषुरजातशत्रुः सुप्तं पुरुषं प्राणादिसंबोधनैरामन्त्र्य आमन्त्रणशब्दाश्रवणात्प्राणादीनामभोक्तृत्वं प्रतिबोध्य यष्टिघातेनोत्थापनात्प्राणादिव्यतिरिक्तं जीवं भोक्तारं प्रत्यबोधयदिति श्रूयते ‘‘तं ह पाणावभिपद्य प्रवव्राज तौ ह सुप्तं पुरुषमीयतुस्तं हाजातशत्रुरामन्त्रयाञ्चके बृहन्पाण्डरवासस्सोमराजन्निति सह तूष्णीमेव शिश्ये। तत उ हैनं यष्ट्या व्याचिक्षेप। स तत एव समुत्तस्थौ’(कौ. ब्रा.४-१९) इति। नन्विदं जीवसङ्कीर्तनं जीवस्य वेदितव्यपुरुषरूपत्वप्रतिपत्त्यर्थं न भवति , किन्तु जीवस्य सुषुप्तिप्रबोधयोरधिकरणापादानतया ब्रह्मप्रतिपत्त्यर्थम्। यष्टिघातेन जीवे प्रबोधिते ‘क्वैष एतद्बालाके पुरुषोऽशयिष्ट क्व वा एतदभूत्कुत एतदगात्’ इत्यजातशत्रोः प्रश्नस्य बालाकिना तस्मिन्नविज्ञाते पृष्टेऽर्थे ‘यदा सुप्तस्स्वप्नं कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति’ इति अजातशत्रुणैव कृतस्य स्वपृष्टार्थविवरणस्य च दर्शनादिति चेत् ; मैवम्। न हि सुषुप्तिस्थानतया ब्रह्म तत्र प्रतिपाद्यते , किन्तु नाड्य एव। ‘‘हिता नाम हृदयस्य नाड्यः’(कौ. ब्रा.४-१९) इति नाडीः प्रक्रम्य ‘तासु तदा भवति’ इत्युक्त्वा हि कदेत्याकांक्षायां ‘यदा सुप्तः स्वप्नं कञ्चन पश्यति’ इत्युक्तम्। ‘अथास्मिन्प्राण एवैकधा भवति’ इत्यनेन तु ब्रह्मणि जीव एकधा भवतीति नोच्यते , प्राणशब्दोऽपि न ब्रह्मपरः , किन्तु नाडीस्थे जीवे कारणग्राम एकीभवतीत्युच्यते। ‘तदैनं वाक्सर्वैर्नामभिस्सहाप्येति, चक्षुस्सर्वै रूपैस्सहाप्येति,श्रोत्रं सर्वैश्शब्दैस्सहप्येति मनस्सर्वैर्ध्यानैस्सहाप्येति’ इत्यग्रे तद्विवरणदर्शनात्। प्राणशब्दोऽपि प्राणभृत्त्वनिबन्धनो जीवपरः ; ‘स यदा प्रतिबुध्यते’ इति प्राणशब्दनिर्दिष्टस्य प्रबोधोपन्यासात् ; ब्रह्मणः सुप्तिप्रबोधयोरसम्भवात् ।

ननु नाड्यस्सुप्तिस्थानतया नोच्यन्ते , किन्तु स्वप्नस्थानतया ‘क्वैष तद्बालाके पुरुषोऽशयिष्ट’ इति स्वप्नस्थानस्य ‘क्व वा एतदभूत्’ इति सुषुप्तिस्थानस्य च प्राक्पृष्टत्वात्। अन्यथा प्रथमप्रश्नस्यैव सुषुप्तिस्थानाविषयत्वे यत्र प्रसुप्तस्तत्रैव यावत्प्रबोधमभूदित्यस्यार्थसिद्धतया द्वितीयप्रश्नवैफल्यप्रसङ्गात् साफल्यसम्भवे च तदङ्गीकारायोगात् तत्र ‘तासु तदा भवति’ इति स्वप्नस्थानप्रश्नस्य प्रतिवचनं ‘यदा सुप्तः’ इत्यादि ‘एकधा भवति’ इत्यन्तं सुप्तिस्थानप्रश्नस्य। युक्तं ह्यनन्तरश्रुतप्रतिषेधप्रसक्तस्वप्नविषयत्वं पूर्ववाक्यस्य। युक्तं च ‘न पश्यति’ ‘एकधा भवति’ इत्यनयोस्समानकर्तृकत्वम्। अन्यथा ‘एकधा भवति’ इत्यत्र करणग्राम इत्यध्याहारः कार्यः , अथशब्दश्च तदार्थं नेतव्यः। ‘यदा सुप्तस्स्वप्नं न कञ्चन पश्यति’ इत्यस्य ‘तासु तदा भवति’ इत्यनेनान्वये हि सुषुप्तिप्राप्त्यनन्तरं कारणग्रामप्यय इत्यर्थः स्यात्। न च सोऽर्थो युक्तः ; सुषुप्तेः सर्वेन्द्रियोपरतिलक्षत्वेनानयोः पौर्वापर्यायोगात्। तस्मात्प्राणशब्दो जीवस्य सुषुप्तिस्थानं वदन् जीवातिरिक्तं वेदितव्यं पुरुषं परामृशतीत्येव वक्तव्यम्। ‘स यदा प्रबुध्यते’ इति तच्चब्दस्तु य एकधा भवति तं सुषुप्तं जीवं परामृशति, न तु यत्रैकधा भवति तं वेदितव्यं पुरुषमतो न किञ्चिदवद्यमिति चेत् –

उच्यते – ‘क्वैष एतद्बालाके पुरुषोऽशयिश्ट’ इति प्रश्न उत्थापितस्य सुषुप्तिस्थानविषयः। ‘क्व वा एतत्’ इति प्रश्नस्तदुत्थापनात् पूर्वमुपरतव्यापारस्य तदनन्तरं व्याप्रियमाणतयाऽनुभूयमानस्य तदीयकरणग्रामस्य सुषुप्तिकालिकाधिकरणविषयः। ‘कुत एतदागात्’ इति प्रश्नस्तस्यैव करणग्रामस्योद्गमनापादानविषयः। एवञ्च ‘तासु तदा भवति यदा सुप्तस्स्वप्नं न कञ्चन पश्यति’ प्रथमप्रश्नस्य प्रतिवचनम्। ‘अथास्मिन् प्राण एव एकधा भवति’ इति द्वितीयप्रश्नस्य। ‘तदैनं वाक्’ इत्यादि तद्विवरणम्। ‘स यदा प्रतिबुध्यते यथाऽग्नेर्विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः’ इति तृतीयप्रश्नस्य प्रतिवचनमिति सङ्गच्छते। अन्यथा प्रश्नत्रयस्यापि जीवसुषुप्त्यधिकरणतद्भवनाधिकरणतदुद्गमनापादानविषयत्वे तान्येव प्रतिवचनेषु वक्तव्यानि स्युः। न च प्रतिवचनेषु कुतश्चिदपादानाज्जीवस्योद्गमनप्रतिपादकं किञ्चिदस्ति, किन्त्वेतस्मादात्मनः प्राणा इति जीवादिन्द्रियोद्गमनविषयमेव प्रतिवचनं दृश्यते। न च - ‘अथास्मिन् प्राण एवैकधा भवति’ इत्यस्य जीवः प्राणशब्दिते ब्रह्मण्येकधा भवतीत्यर्थाङ्गीकारे ‘एतस्मादात्मनः’ इत्यस्य प्रकृतब्रह्मपरामर्शितया प्राणशब्दस्य जीवपरतया चैतदेव जीवोद्गमनापादनप्रश्नप्रतिवचनं स्यादिति – वाच्यम्। ‘एतस्मात्’ इत्यनेन ‘यदा सुप्तस्स्वप्नं न कञ्चन पश्यति’ इति प्राधान्येन प्रकृतस्य सुषुप्तस्य परामर्शसम्भवे सप्तमीनिर्दिष्टस्योपसर्जनस्य परामर्शायोगात्। ‘कुत एतदागात्’ इति प्रश्नस्य यष्टिघातोत्थापितजीवमात्रोद्गमनापादानविषयत्वाङ्गीकारे आत्मनः प्राणशब्दितानां बहूनामुद्गमनप्रतिपादनस्य तत्प्रतिवचनत्वायोगाच्च , ‘स यदा प्रबुध्यते’ इति तत्प्रबोधस्य प्राणोद्गमनकालोपलक्षणतयोपात्तत्वेन प्राणानां ततोऽन्यत्वप्रतीतेश्च, ‘‘तद्यथा क्षुरः क्षुरधानेऽवहितस्स्यात् विश्वम्भरो वा विश्वम्भरकुलाये एवमेवैष प्राज्ञ आत्मेदं शरीरमात्मानमनुप्रविष्टः आ लोमभ्य आनखेभ्यः’(कौ. ब्रा.४-२०) इति समनन्तरवाक्ये ‘शरीरमात्मानम्’ इति निर्देशेन शरीरात्माभिमानित्वेन ज्ञापितस्य जीवस्य प्रकृतप्राणाद्युद्गमनापादानपरामर्शिना ‘एष प्राज्ञ आत्मा’ इत्येतच्छब्देन परामर्शाच्च ‘‘तद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वाश्श्रेष्ठिनं भुञ्जन्ति एवमेवैष प्राज्ञ आत्मा एतैरात्मभिर्भुङ्क्ते एवमेवैत आत्मान एतमात्मानं भुञ्जन्ति’(कौ. ब्रा. ४-२०) इति तदनन्तरवाक्येऽप्यालोकदानादिना भोगोपकारकैः प्राक् ‘एतेषां पुरुषाणाम्’ इति प्रकृतैः आदित्यादिपुरुषैर्हेतुभिर्विषयभोक्तृत्वेन लिङ्गेन ज्ञापितस्य जीवस्य पूर्ववत् प्रकृतपरामर्शिनैतच्छब्देन निर्देशाच्च ।

एवं कर्मसम्बन्धयष्टिघातोत्थानशरीरात्माभिमानभोक्तृत्वलिङ्गैर्जीव एव वेदितव्यः पुरुषोऽस्मिन् प्रकरणे प्रतिपाद्यत इति निश्चये सति ‘अथास्मिन् प्राण एवैकधा भवति’ इति वाक्ये कर्त्रध्याहारोऽथशब्दास्वारस्यञ्च न दोषः। किञ्च न कर्त्तव्योऽत्र कर्त्रध्याहरः। ‘क्व वा एतदभूत्’ इति प्रश्नवाक्ये एतच्छब्देन निर्दिष्टस्य करणमण्डलस्य कर्तृस्तत्प्रतिवचनेऽपि क्व चैत्र इति प्रश्नस्य कांच्यामिति प्रतिवचने चैत्रस्येव स्वयमेवान्वयात्। नाप्यथशब्दस्तदाऽर्थमस्माभिर्नेतव्यः ‘तदैनं वाक्’ इत्यादिविवरणवाक्यस्थतदाशब्दानुसारेण स्वयमेव तदाऽर्थे पर्यवसानात्। बृहदारण्यके बालाक्यजातशत्रुसंवादरूपे समानप्रकरण एव ‘तानि यदा गृह्णात्यथ हैतत् पुरुषस्स्वपिति नाम’(बृ.उ.२-१-१७) इति स्वापकरणग्रामोपरमयोर्विपरीतपौर्वापर्यश्रवणेन परस्परविरोधपरिहारायोभयत्राप्यथशब्दस्तदार्थपर इत्यवश्यं वक्तव्यत्वाच्च। ‘यदा सुप्त’ इत्यादेः ‘एकधा भवति’ इत्यन्तस्य सुषुप्तजीवाधारप्रश्नप्रतिवचनरूपत्वेऽपि यदाशब्दप्रतिनिर्देशतयाऽथशब्दस्य तदार्थपर्यवसायित्वावश्यम्भावाच्च। तस्यानन्तर्यार्थत्वेऽपि सुषुप्तेरेकधाभावस्य च पौर्वापर्याभावेन ‘तासु तदा भवति’ इत्येतदनन्तरं तस्य योजनीयतया व्यवहितयोजनाक्लेशसत्त्वाच्च ।

नन्वेवमपि ‘तदैनं वाक्’ इत्यादिना प्रतिपाद्यमानः सुषुप्तौ विषयैः सह करणग्रामस्य लयो न जीवे सम्भवति , प्रबोधे तैः सह तदुत्पत्तिश्च न जीवात् सम्भवतीति चेत् ; न। सुषुप्तौ वागादीनामुपरतव्यापाराणां जीवेऽवस्थानस्य प्रबोधे जीवान्निर्गत्य स्वस्वायतनप्राप्तेश्च सम्भवात्। तावत्येवार्थे ‘तदैनं वाक्’ इत्यादेस्तात्पर्यात्। प्रत्यक्षादिविरोधेन विषयैः सहेन्द्रियाणां सुषुप्तौ लयस्य प्रबोधे पुनरुत्पत्तेश्च तदर्थत्वाङ्गीकारायोगात्। प्रत्यक्षविरुद्धोऽप्यर्थो यथाश्रुति ग्राह्य इति चेत् , तर्हि प्रकरणस्य जीवविषयत्वस्वारस्यानुरोधेन सुषुप्तौ जीवे सविषयाणामिन्द्रियाणां लयः प्रबोधे जीवात् तेषां पुनरुत्पत्तिरित्येवाङ्गीक्रियताम्। प्रत्यक्षविरोधस्याकिञ्चित्करत्वेनासम्भवाभावात् ।

यदि च ‘यदा सुषुप्त’ इत्याद्येकधा भवतीत्यन्तं सुषुप्तजीवाधारप्रश्नप्रतिवचनं ‘तदैनं वाक्’ इत्यादि सुषुप्तजीवाधारे विषयेन्द्रियाणां लयस्य ततस्तेषां पुनरुत्पत्तेश्च प्रतिपादकमित्येव वक्तव्यम्। कौषीतकिब्राह्मण एव पूर्वस्यामिन्द्रप्रतर्दनाख्यायिकायां प्राणशब्देन ब्रह्मोपक्रम्य ‘‘तस्यैषैव दृष्टिरेतद्विज्ञानम्’(कौ. ब्रा.३-३) इति तज्ज्ञप्तिप्रकारं प्रतिज्ञाय ‘‘यत्रैतत्पुरुषः सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन् प्राण एवैकधा भवति’(कौ. ब्रा.३-३) इति सुषुप्तजीवाधारत्वेन ‘तदैनं वाक् सर्वैर्नामभिस्सहाप्येति’ इत्यादिना वागादिलयोद्गमापादानत्वेन च प्रतिपादनादस्यापि तदैकार्थ्यस्य वक्तव्यत्वादिति निर्बन्धः , तथाऽपि सुषुप्तजीवाधारो वेदितव्यः पुरुषो भवन् समष्टिप्राणात्मा हिरण्यगर्भ एव स्यात् , न तु ततोऽतिरिक्तं परं ब्रह्म। प्राणशब्दात् प्राणात्मना परिस्पन्दरूपस्य तदभिमानिजीवात्मना पुण्यापुण्यरूपस्य च कर्मणस्तत्र सम्भवात्। बृहदारण्यकश्रुतौ ‘आत्मैवेदमग्र आसीत्पुरुषविधः’(बृ.उ.१-४-१) इत्युपक्रम्य देवमनुष्यादिसकलमिथुनस्रष्टृत्वेनोक्तस्य तस्यादित्यादिपुरुषकर्तृत्वस्यापि सम्भवात्। तत्रैव तदनन्तरं यथा क्षुरो नापितोपकरणभूतस्तत्कोशे भवत्यवहितः, यथा वा पचनादिना विश्वं बिभ्रदग्निररण्यादौ तन्नीड इति दृष्टान्तोपन्याससहितस्य नखपर्यन्तकृत्स्नशरीरानुप्रवेशस्य हिरण्यगर्भे प्रतिपादितस्यात्रापि वाक्यशेषे दर्शनाच्च ।

स्यादेतत् – वेदितव्यः पुरुषो जीवः प्राणात्मा हिरण्यगर्भो वेति पक्षद्वयमप्ययुक्तम् ; वेदितव्यपुरुषकार्यत्वेन श्रुतानां बालाक्युपदिष्टपुरुषाणां मध्ये ‘य एव एष शारीरः पुरुषस्तमेवाहमुपासे’ इति सामान्यतो जीवमात्रस्यापि परिगणितत्वेन तत्कारणस्य वेदितव्यपुरुषस्य तदन्यत्वप्रतीतेः। प्राणनामभिरामन्त्रणेऽपि सुषुप्तस्योत्थानाभावेन प्राणान्यत्वप्रतीतेश्चेति चेत् ; उच्यते – ‘य एवैष शारीरः पुरुषः’ इति पर्यायः स्थूलशरीराभिमानिजाग्रदवस्थपुरुषविषयः ‘य एवैष प्राज्ञ आत्मा येनैतत्सुषुप्तस्स्वप्न्यया चरति तमेवाहमुपासे’ इति तदन्तरपर्यायस्य स्वप्नावस्थजीवविषयत्वदर्शनात्। एवं च शोकभीत्यादिकलुषितौ जाग्रत्स्वप्नदृशौ प्रत्याख्याय सुषुप्त्यवस्थः पुरुषो वेदितव्य उपदिष्टो भविष्यति। अत एव उपदिष्टवेदितव्यपुरुषप्रदिदर्शयिषया सुषुप्तपुरुषगमनमग्रे वर्ण्यते। ‘यदा सुप्तः स्वप्नं न कञ्चन पश्यति’ इत्यनेन दीर्घस्वप्नं जाग्रत्प्रपञ्चमवान्तरस्वप्नं स्वप्नप्रपञ्चं वा न कञ्चन पश्यतीति शोकभीत्यादिकारणप्रपञ्चदर्शनाभावेन सुषुप्तस्य वेदितव्यत्वमुपपाद्यते ।

यदपि प्रश्नप्रतिवचनाभ्यां सुषुप्तस्य नाडीस्थत्ववर्णनम् , तदपि पाप्मास्पृष्टतया तन्मूलकशोकभीत्यादिराहित्यप्रदर्शनेन वेदितव्यत्वोपपादनार्थम्। ‘तद्यत्रैतत्सुप्तः समस्तः स्वप्नं न विजानात्यासु तदा नाडीषु सृप्तो भवति तं न कञ्चन पाप्मा स्पृशति’(छा.उ.८-६-३) इति छान्दोग्ये हि सौषुप्तिकनाडीरुपगतस्य पाप्मास्पर्शः श्रूयते। पुनः प्रश्नप्रतिवचनाभ्यां करणग्रामस्य जीवे वृत्तिविलयप्रतिपादनमपि सकलसांसारिकानर्थसम्पादकस्य करणग्रामस्य विलयेन सुषुप्तः शुद्ध इति तस्य वेदितव्यत्वोपपादनार्थमेव। पुनरन्याभ्यां प्रश्नप्रतिवचनाभ्यां करणग्रामस्य पुनरुद्गमनप्रतिपादनं तु जाग्रतस्स्वप्नदृशश्चेन्द्रियव्यापारैः कलुषितत्वेनावेदितव्यत्वस्थिरीकरणार्थमिति सर्वं सङ्गच्छते ।

यत्तु प्राणनामभिरामन्त्रणेऽप्यनुत्थानेन प्राणान्यत्वप्रदर्शनं, तेन सुप्तपुरुषसम्बन्धिव्यष्टिप्राणान्यत्वमात्रं सिद्ध्यति, न तु समष्टिप्राणाभिमानिदेवतारूपहिरण्यगर्भान्यत्वमपि। ननु प्रसिद्धानि प्राणादिनामानि विहायाप्रसिद्धैः बृहन्नित्यादिनामभिरामन्त्रणं देवताऽन्यत्वसिद्ध्यर्थं स्यादिति चेत् , तर्हि तेन चन्द्रदेवतान्यत्वमेव सिद्ध्येत्। अस्मिन्नेव प्रकरणे ‘य एवैष चन्द्रमसि पुरुषस्तमेवाहमुपासे’ इति चन्द्रपर्याये ‘‘मामैतस्मिन् संवादयिष्ठा बृहन्पाण्डरवासास्सोमो राजा अन्नस्यात्मेति वा अहमुपासे’(कौ. ब्रा.४-१९) इति तेषां नाम्नां चन्द्रविषयत्वश्रवणात् पाण्डरैरंशुभिश्च्छादितत्वेन तत्र पाण्डरवासस्त्वोपचारस्य सम्भवात् ।

वस्तुतस्तु सुषुप्तपुरुषं गत्वा कैश्चिन्नामभिर्द्विरामन्त्रणेऽप्यनुत्थानप्रदर्शनं सुषुप्तजीवस्य तन्नामविषयान्यत्वज्ञापनेनैव सप्रयोजनं वाच्यम्। तत्र च चन्द्रतादात्म्यस्याप्रसक्तत्वात्तदन्यत्वं न ज्ञापनीयम्। सुषुप्तिदशायामुपरतव्यापारेभ्यः शरीरेन्द्रियेभ्योऽन्यत्वं सुज्ञानमिति तस्यामपि दशायामनुपरतव्यापारात् प्राणादन्यत्वमेव ज्ञापनीयम्। तदा हि तत्प्रयोजनवत्तरं भवति। सम्भवति च बृहदादिशब्दानां श्रुत्यन्तरप्रसिद्ध्यनुरोधेन प्राणे वृत्तिः। प्राणः खलु बृहन्महान् ‘प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च’ इति प्राणविद्यायां श्रैष्ठ्यश्रवणात् ‘स एषोऽसपत्न’ इति सप्तान्नब्राह्मणे तस्यासपत्नत्वश्रवणाच्च। पाण्डरवासाश्च प्राणः। पाण्डरवर्णाः खल्वापोऽस्यः वासः। प्राणविद्यायां ‘किं मे वासः’(बृ.उ.६-१-१४) इति प्राणप्रश्ने ‘आपो वासः’ इत्युत्तरश्रवणात् , सप्तान्नब्राह्मणे ‘अथैतस्य प्राणस्य आपश्शरीरं ज्योतीरूपमसौ चन्द्रः’(बृ.उ.१-५-१३) इत्यप्शरीरत्वोक्त्या तद्वासस्त्वोपचारसम्भवाच्च। अत एव चन्द्ररूपत्वादेवायं सोमराजश्च। यदि च ‘बृहन् पाण्डरवासाः’ इत्यादिचन्द्रपर्यायवाक्यानुसारेणात्रापि चन्द्रनामान्येतानि तदापि सप्तान्नब्राह्मणोक्तरीत्या चन्द्ररूपे प्राण एवैतेषां पर्यवसानं वाच्यम् ; सप्रयोजनत्वायेति सर्वधा हिरण्यगर्भामन्त्रणस्यात्र न प्रसक्तिः। किं चामन्त्रणेऽप्यनुत्थानेन हिरण्यगर्भान्यत्वं सिद्ध्यदपि यष्टिघातोत्थाप्यस्य सुषुप्तजीवस्यैव सिद्ध्येत् , न तु सुषुप्तौ तदाधारतया प्रतिपाद्यस्य प्राणस्य। किन्तु तन्नामभिरामन्त्रणेऽपि तदनुत्थानेन चेतनस्य जीवस्य तदन्यत्वसिद्धौ तदुपपादकतया तस्याचेतनत्वमपि सिद्ध्येदित्यलमतिप्रपञ्चेन ।

स्यादेतत् – जीवो, हिरण्यगर्भो वा वेदितव्यपुरुष इति पूर्वपक्षे यद्यपि वेदितव्यपुरुषस्य जीवान्यत्वं हिरण्यगर्भान्यत्वं च न प्रतिपन्नमिति बाधकं नास्ति ; तथाऽपि ब्रह्मोपक्रमः सकलपापप्रदाहपूर्वकानन्याधीनत्वरूपस्वाराज्यात्मकमोक्षफलोपसंहारश्चेति बाधकद्वयं जागर्तीति चेत् ; उच्यते। येन बालाकिना ‘ब्रह्म ते ब्रवाणि’ इति प्रतिज्ञातं न तेन ब्रह्मोक्तम् , अन्यदन्यदेवोक्तम्। येनाजातशत्रुणा वेदितव्यः पुरुष उपदिष्टः न तेन ब्रह्माभिधानं प्रतिज्ञातम्। अतो न ब्रह्मपरमजातशत्रुवाक्यम्। ननु ब्रह्मोपक्रमाद्बालाकिवाक्यादेव तदपि वाक्यं ब्रह्मपरं स्यादुपकोसलविद्यायामग्निवाक्यादिवाचार्यवाक्यम्। न। वैषम्यात्। तत्र हि वक्तृभेदेऽप्येकवाक्यतापादकमग्निवाक्यमस्ति ‘आचार्यस्तु ते गतिं वक्ता’ इति ; न त्वत्र तथाभूतं वाक्यमस्ति। तर्हि किं बालाकिवचसि ब्रह्मापक्रमेः सर्वथा निरर्थकः ? निरर्थक एव ; भ्रान्तवाक्यत्वात्। किमर्थं श्रुतौ भ्रान्तवाक्योपन्यासः ? असद्वादवत् पूर्वपक्षनिराकरणार्थम्। तद्वादस्य निराकरणं न दृश्यत इति चेत् , दृश्यत एव वाक्यच्छायाविमर्शचतुरैः। ब्रह्म ते ब्रवाणि इति प्रतिज्ञातवता बालाकिना उपदिष्टान् पुरुषान् तत्तत्स्वरूपोपन्यासेन निराकृत्य ततः परं ब्रह्मत्वेन वक्तव्यपुरुषाभावात् तूष्णींभूते तस्मिन् पुण्यपापकर्मसम्बन्धिनमेव पुरुषं मोक्षाय वेदितव्यमुपन्यस्यन्नजातशत्रुस्तदतिरेकेण मुमुक्षुभिर्ज्ञातव्यं ब्रह्म नाम किञ्चिन्नास्तीति मन्यत इत्येव हि स्पष्टतरं प्रतीयते। यथा ‘रसवादिनं ब्रवाणि’ इति प्रतिज्ञातवतोदाहृतान् पुरुषान् विप्रलम्भकत्वादितत्तत्स्वरूपोपन्यासेन प्रत्याख्याय ततः परमुदाहरणीयपुरुषाभावात्तूष्णींभूते तस्मिन् राजानमेव धनार्थिभिरुपसर्पणीयमुपन्यस्यन्नुत्तरवादी रसवादी नाम कोऽपि नास्तीत्येव मन्यत इति प्रतीयते ।

एतेन – इदं निरस्तम् – गार्ग्यस्य भ्रान्तत्वेऽपि ब्रह्मोपक्रमो न भ्रान्तः ; ‘ब्रह्म ते ब्रवाणि’ इति प्रतिज्ञामात्रे प्राज्ञा गोसहस्रस्य दत्तत्वात्। अतो वक्तुं प्रतिज्ञातं ब्रह्म यथावद्वक्तुमजानन्तं गार्ग्यं प्रति राज्ञा यथावत्तदुपदिष्टमित्येव गार्ग्यराजवाक्ययोरेकवाक्यत्वमुपपादयितुं युक्तम्। अन्यथा ‘ब्रह्म ब्रवाणि’ इति प्रतिज्ञायाब्रह्माणि ब्रह्मत्वेन वदन्तं गार्ग्यं मृषावादीत्यपोह्य स्वयं राजा जीवं प्राणं वा वदति चेत् स्वयमप्यसम्बन्धप्रलापी स्यात्। जीवं प्राणं वा ब्रह्मत्वेन वदति चेत् तद्वदेव मृषावादी स्यात्। ततश्च यथा केनचिन्मणितत्त्वज्ञानाभिमानिना काचं प्रदर्श्य ‘मणिरेष’ इत्युक्ते ‘काचोऽयं न मणिः’ इति तं प्रत्याख्याय ततः आत्मनो विशेषं जिज्ञापयिषताऽन्येन वस्तुतो मणिरेव प्रदर्शनीयः ; एवं राज्ञाऽपि ब्रह्मोपदेष्टव्यम्। अतो गार्ग्यवचनगतब्रह्मोपक्रमसामर्थ्यादेव राजवाक्यस्य ब्रह्मपरत्वमवसीयत – इति। न हि राज्ञा गोसहस्रं दत्तम् , किन्तु ‘सहस्रं दद्मः’ इत्युक्तम्। तत्तु असम्भावितमेव ब्रह्मनाम किञ्चिद्वक्तुमयमारभत इति मन्यमानस्य राज्ञः परिहासवाक्यमित्यपि सङ्गच्छते ; ‘जनको जनक इति वै जना धावन्ति’ इति परिहासवाक्यसमभिव्याहारात्। तथाऽपि ‘दद्मः’ इति प्रतिश्रुतं ‘दत्तमेव स्यात्’ इति चेत् ; न। ‘अदत्तन्तु भयक्रोधशोकमोहरुजाऽन्वितैः। तथोत्कोचपरीहासव्यत्यासफलयोगतः’ इति परिहासेन दत्तस्यापि प्रत्याहरणार्हत्वेनादत्तेषु परिगणनात्। ब्रह्मान्यस्याभिधानेऽपि न राज्ञोऽसम्बन्धप्रलापित्वमापतति। मोक्षार्थं वेदितव्यं ब्रह्म नाम किञ्चिन्नास्ति , किन्तु मुमुक्षूणामुपदिष्टः पुरुष एव वेदितव्य इति साङ्गत्यात् , रसवादिवचनप्रत्याख्यातृवचनस्यापि तदन्यविषयस्यैवमेव साङ्गत्यदर्शनात्। मणिप्रवक्तृदृष्टान्तस्त्वत्र न प्रवर्तते। न हि ‘काचो मणिर्न भवति किन्त्वयं मणिः’ इति प्रतिवक्तृवचने मणिशब्दवदिह राजवचने ब्रह्मशब्दोऽस्ति ‘आदित्यादिपुरुषा ब्रह्माणि न भवन्ति किन्त्विदं ब्रह्म’ इति ।

यदि च गार्ग्यवचनागतोपक्रमानुसारेण राजवचनमप्यवश्यं ब्रहपरं वक्तव्यम् , तदप्युपपद्यत एव। आदित्यादिपुरुषा ब्रह्म न भवन्ति , किन्तु तेषां कर्ता पुण्यापुण्यवान्जीवः प्राणो वा ब्रह्मेति राजवचनाभिप्रायवर्णनोपपत्तेः। अस्ति हि जीवे ब्रह्मशब्दस्सिद्धान्तिनोऽपि सम्मतः ‘इदं ब्रह्मायाति इदमागच्छति’(बृ.उ.४-३-३७) इति श्रुतौ। अस्ति च प्राणात्मनि हिरण्यगर्भे ‘कतम एको देव इति प्राण इति स ब्रह्म त्यदित्याचक्षते’(बृ.उ.३-९-९) इति श्रुतौ। एवञ्च सर्वपापाहतिपूर्वकस्वाराज्यफलप्रतिपादकस्योपसंहारस्यापि जीवे, प्राणे वा नानुपपत्तिः। तस्माद्बालाक्यजातशत्रुसंवादरूपस्यास्य प्रकरणस्य जीवः प्राणो वा ब्रह्म , न तदतिरिक्तं ब्रह्मास्तीत्यस्मिन्नर्थे पर्यवसितत्वात् सर्वेषां वेदान्तानां वियदादिसर्वजगत्स्रष्टृत्वोपलक्षिते निर्विशेषे ब्रह्मणि समन्वय इत्येतदयुक्तम्। ब्रह्मलक्षणं चायुक्तम् ; तदुपलक्षणीयस्य निर्विशेषस्य ब्रह्मण एवास्मिन् प्रकरणे प्रतिक्षेपप्रतीतेरिति ।

एवं प्राप्ते सिद्धान्तमाह – ‘जगद्वाचित्वात्’ इह वेदितव्यः पुरुषो जीवसामान्यात् तद्व्यतिरिक्ताद्धिरयगर्भाच्चातिरिक्तं परं ब्रह्म ; ‘यस्य वैतत्कर्म’ इति वाक्ये एतच्छब्दस्य कर्मशब्दस्य च जगद्वाचित्वात्। एतदुक्तं भवति – अत्रैतच्छब्दः प्रत्यक्षादिसन्निधापितसकलजगद्वाची ; विशिष्य कस्यचित्पुरुषसम्बन्धनिर्देशाकांक्षस्य नपुंसकैकवचनान्तनिर्देशार्हस्य प्रकृतस्याभावेन तस्य संकुचितवृत्तिकल्पकाभावात्। तथा कर्मशब्दोऽपि कार्यत्वाकारेण सकलजगद्वाची ; चलनादृष्टरूढ्योरन्यतरपरिग्रहे नियामकाभावेन क्रियते इति कर्मेति योगस्य समाश्रयणीयत्वात् , रूढिद्वयस्य परस्परपराहतौ लब्धोन्मेषस्य योगस्य प्रबलत्वात्। न च चलन एव रूढिस्तत्साध्यत्वाददृष्टे लक्षणेति शक्यं वक्तुम् ; मानसपुण्यपापरूपस्यादृष्टस्य चलनसाध्यत्वाभावेनादृष्टसामान्ये कर्मशब्दस्य रूढ्यन्तरस्वीकारावश्यम्भावात्। अपि च कर्मशब्दस्य चलनाष्टान्यतरपरत्वे ‘यस्य कर्म स वेदितव्य’ इत्येतावदेव वक्तव्यं स्यात्। प्रत्यक्षादिसन्निधापितवाची एतच्चब्दोऽवधारणार्थो वाशब्दश्चानर्थकः स्यात्। तस्य कार्यपरतायां ‘एतेषां पुरुषाणां कर्ता’ इति वाक्यमेव व्यर्थं स्यात् इति चेत् , न। बालाकिना ब्रह्मत्वेन कीर्तितानां पुरुषाणामब्रह्मत्वख्यापनेन तस्य सप्रयोजनत्वात्। तथा च वाक्यद्वयस्याप्येवमर्थः सम्पद्यते। य एतेषां पुरुषाणां जगदेकदेशभूतानां कर्त्ता किमनेन विशेषेण यस्य वा प्रत्यक्षादिसन्निधापितं कृत्स्नमेव जगत्कार्यमिति। एवञ्च वाशब्द एकदेशावच्छिन्नकर्तृत्वव्यावृत्त्यर्थो भवति। तस्मादेतत्कर्मपदयोर्जगद्वाचित्वेन तल्लब्धात् सप्राणसजीवसकलजगदीक्षापूर्वकस्रष्टृत्वरूपात् तत्कर्तृत्वलिङ्गात् प्राणजीवातिरिक्तं परं ब्रह्म वेदितव्यः पुरुष इति सिद्धम् ॥१-४-१६॥

ननु जीवमुख्यप्राणातिरिक्तब्रह्मलिङ्गवज्जीवमुख्यप्राणलिङ्गमप्यत्र दृश्यते इत्याशङ्कामुद्भाव्य परिहरति –

जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्व्याख्यातम् ।१७।

तद्व्याख्यातमिति ‘नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्’(ब्र.सू.१-१-३१) इति प्रतर्दनाधिकरणे परिहृतमित्यर्थः। एतदुक्तं भवति – यथा ‘तद्यथा श्रेष्ठी’ इत्यादिवाक्ये प्रधानपुरुषस्य स्वैर्भृत्यैरिवादित्यादिपुरुषैरालोकदानादिनोपकारकैरात्मनो भोक्तृत्वं प्रधानपुरुषं प्रति भृत्यानामिवादित्यादिपुरुषाणामात्मानं प्रति स्वोचितैरुपकारैः पालयितृत्वञ्च वर्ण्यमानं जीवलिङ्गमस्ति , यथा वा ‘तद्यथा क्षुर’ इत्यादिवाक्ये बृहदारण्यकप्रतिपन्नं मुख्यप्राणात्महिरण्यगर्भलिङ्गमस्ति , एवं वेदितव्यपुरुषोपदेशवाक्य एवासंकुचितप्रत्यक्षादिसिद्धसकलकार्यकर्तृत्वं तदतिरिक्तब्रह्मलिङ्गम्। तद्धि सजीवसहिरण्यगर्भसर्वजगत्कर्तृत्वरूपम् ; ‘यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः’(मु.उ.२-१-१) ‘इदं सर्वमसृजत यदिदं किञ्च’(तै.उ. २ - ६.१) ‘यस्सर्वज्ञस्सर्ववित्’(मु.उ.१-१-९) ‘हिरण्यगर्भं पश्यत जायमानम्’(श्वे.उ.४-१२) इत्यादिश्रुत्यन्तरेऽपि जीवमुख्यप्राणयोरपि कार्यत्वप्रसिद्धिसत्त्वात्। एवं च जीवमुख्यप्राणलिङ्गयोरप्यनुरोधे ब्रह्मजीवमुख्यप्राणानां त्रिविधमुपासनं विवक्षितमत्र वक्तव्यमिति वाक्यभेदः प्रसज्येत। न चात्र वाक्यभेदो न्याय्य इति वर्णितं प्रतर्दनाधिकरणे। ननु तत्रोपक्रमोपसंहाराभ्यां ब्रह्मविषयत्वं वाक्यस्यावगतमिति वाक्यभेदः परिहरणीयः , न त्वत्रेति चेत्। अत्रापि परिहरणीय एव ; ‘ब्रह्म ते ब्रवाणि’ इत्युपक्रमेण ‘सर्वान्पाप्मनोऽपहत्य’ इत्याद्युपसंहारेण च वाक्यस्य ब्रह्मविषयत्वावगमात्। वेदितव्यपुरुषोपदेशवाक्यस्य गार्ग्यप्रतिज्ञातब्रह्मान्यविषयत्वावगमे हि रसवादिकथनप्रत्याख्यातृवचनदृष्टान्तः क्रमते। इह जगत्कर्तृत्वलिङ्गेन तस्य ब्रह्मविषयत्वावगमान्मणितत्त्ववक्तृवचनदृष्टान्त एव प्रवर्तते ।

एतेन – ब्रह्मोपक्रमोऽपि जीवमुख्यप्राणान्यतरविषयः ; तयोरपि क्वाचित्कब्रह्मशब्दप्रयोगदर्शनात् ; उपसंहारोऽपि तद्वेदनफलप्रतिपादनपर इति शङ्काऽपि - निरस्ता। श्रुत्यन्तरेषु जीवमुख्यप्राणातिरिक्ते परब्रह्मण्येव ब्रह्मशब्दस्य तद्वेदनादेव परमपुरुषार्थलाभस्य च प्रसिद्धतरत्वाच्च। ‘सहस्रं दद्म’ इत्यपि परिहासवाक्यत्वेन न योजनीयं , किन्तु ब्रह्मवचनप्रविज्ञापूजनार्थत्वेनैव योजनीयम्। परिहासवाक्यत्वेन योजनेऽपि बालाकिरयं ब्रह्मतत्त्वं वक्तुं न प्रभवतीत्येव परिहासाभिप्रायो वर्णनीयः , न तु जीवातिरिक्तं ब्रह्मनामकं किञ्चिन्नास्तीत्येवमभिप्रायः ; स्वयमेव सकलजीवव्यावृत्तासङ्कुचितसर्वजगत्कर्तृत्वरूपतल्लिङ्गवर्णनात्। एवञ्चैकस्मिन्वाक्ये ब्रह्माब्रह्मलिङ्गेषु सन्निविष्टेष्वब्रह्मलिङ्गानि ब्रह्मणि योजनीयानि , न तु ब्रह्मलिङ्गान्यब्रह्मणीति प्रतर्दनाधिकरणे दर्शितन्यायेनैव जीवमुख्यप्राणलिङ्गानि अभेदाभिप्रायेण ब्रह्मणि योजनीयानि ।

नन्वेवं प्रतर्दनाधिकरणेन गतार्थमिदमधिकरणम्। नेति ब्रूमः। ‘यस्य वैतत्कर्म’ इत्यस्य ब्रह्मलिङ्गपरत्वोपपादकन्यायव्युत्पत्त्यर्थत्वादस्याधिकरणस्य तदधीनत्वाच्चोपक्रमोपसंहारयोर्ब्रह्मविषयतात्मकार्थलाभस्य। ननु तथाऽपि पूर्वाधिकरणन्यायेनैव निर्णेतुं शक्यमिदं वाक्यं नैतदधिकरणव्युत्पाद्यं कर्मशब्दस्य जगद्वाचित्वोपपादकं न्यायमपेक्षते। पूर्वाधिकरणे हि ब्रह्मकारणत्वप्रतिपादकबहुवाक्यानुरोधेन तद्विरोधिनामसत्कारणत्वादिप्रतिपादककतिपयवाक्यानां नयनं कृतम् , ततः कथमिह सकलजीवातिरिक्ततत्सृष्टिस्थितिसंहारतन्नियमनादिस्वतन्त्रानादिसिद्धपरब्रह्मप्रतिपादकबहुवाक्यानुरोधेनास्यैकस्य वाक्यस्य पूर्वपक्षे वर्णितं जीवमुख्यप्राणातिरिक्तपरब्रह्मनिराकरणपरत्वं तयोरन्यतरस्य वेदितव्यपरत्वं च प्रत्याख्याय परब्रह्मपरतया नयनं कर्तुमशक्यम् ? सत्यम्। न्यायव्युत्पादनार्थं कृत्वाचिन्तयेदमधिकरणम्। तदेतदनन्तरसूत्रे स्फुटीकरिष्यामः ॥१-४-१७॥

जीवमुख्यप्राणातिरिक्तपरब्रह्मपरमिदं बालाक्यजातशत्रुसंवादरूपं प्रकरणमित्येतत् हेत्वन्तरेणापि द्रढयति –

अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥१८॥

अन्यार्थं जीवमुख्यप्राणाभ्यामन्यद्ब्रह्म तदर्थमेवेदं प्रकरणं , न तु तन्निराकरणार्थमिति जैमिनिराचार्यो मन्यते। कुतः , प्रश्नव्याख्यानाभ्याम्। प्रश्नस्तावदजातशत्रोर्ब्रह्मत्वेन बालाकिनोपदिशष्टेष्वादित्यादिपुरुषेषु प्रत्याख्यातेषु ततःपरमविज्ञानात्तूष्णीं भूते च बालाकौ बालाकिं प्रति ‘एतावन्नु बालाके’ इति। ‘एतावद्धि’ इति बालाकेः प्रतिवचनानन्तरं ‘मृषा वै किल मा संवदिष्ठा ब्रह्म ते ब्रवाणि’ इत्यजातशत्रोर्वचनं मृषात्वव्याख्यानम्। एताभ्यां प्रश्नव्याख्यानाभ्यां ब्रह्मप्रतिपादनार्थमेवेदं प्रकरणं , न तु तस्य निराकरणार्थमित्यवसीयते। यदि हि तन्निराकरणार्थं स्यात्तदा ब्रह्मनाम किञ्चिन्नास्तीत्यभिमन्यमानस्तन्निराकरणप्रवृत्तो राजा बालाकेर्वक्तव्यपुरुषांतरसद्भावेऽपि तत्प्रतिज्ञाया मृषात्वं प्रतिज्ञाकालमारभ्य मन्येतैवेति ‘एतावन्नु’ इति प्रश्नपूर्वकं ‘एतावदेव’ इत्युत्तरमपेक्ष्य तन्मृषात्वं न व्याचक्षीत। ब्रह्मप्रतिपादनार्थत्वे तु ब्रह्मास्तीत्यवगच्छन्राजा किमयं गार्ग्यः स्थूलारुन्धतीन्यायेनाब्रह्माणि ब्रह्मत्वेनोपादिक्षत् , किं वा भ्रान्त्येति निश्चेतुमशक्नुवन्नुदाहृतप्रश्नप्रतिवचनेन गार्ग्यस्य भ्रान्तत्वं निश्चित्य तत्प्रतिज्ञाया मृषात्वं व्याचष्ट इति युज्यते ।

अपि च एवमेके शाखिनो वाजसनेयिनोऽस्मिन् बालाक्यजातशत्रुसंवादेऽस्मिन्नेव स्थले प्रश्नव्याख्यानाभ्यां प्रकरणमिदं ब्रह्मप्रतिपादनार्थं , न तु तन्निराकरणार्थमिति स्पष्टयन्ति। ‘सहोवाचाजातशत्रुरेतावन्नु…. इति एतावद्धीति। नैतावता विदितं भवति’(बृ.उ.२-१-१४) इति। अत्र हि आदित्यपुरुषादिवेदनमात्रेण ब्रह्म विदितं न भवतीति व्याचक्षाणो राजा वेदितव्यमन्यद्ब्रह्मास्तीति मन्यत इति स्पष्टमेव प्रतीयते। ननूदाहृतप्रश्नव्याख्यानबलाद्ब्रह्मप्रतिपादनार्थं प्रकरणमित्यवसयितां नाम। प्रतिपिपादयिषितं ब्रह्म जीवमुख्यप्राणयोरन्यतरद्भविष्यति। तयोरपि ब्रह्मशब्दप्रयोगस्योदाहृतत्वादिति द्वितीयपूर्वपक्षेऽप्येतदेवोत्तरम् ‘अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके’ इति। इह जीवमुख्यप्राणप्रसञ्जनमन्यार्थं , ब्रह्मप्रतिपत्त्यर्थं , न तु प्राधान्येन जीवस्य , मुख्यप्राणस्य वा प्रतिपादनार्थमिति जैमिनिर्मन्यत इति। कुतः ‘क्वैष एतद्बालाके’ इत्यादिना ‘प्राण एवैकधा भवति’ इत्यन्तेन ग्रन्थेन वर्णिताभ्यां प्रश्नव्याख्यानाभ्याम्। ‘क्वैष एतद्बालाके’ इति प्रश्नस्तावज्जीवो वेदितव्य इति प्रतिपादनार्थं न भवति। तथा सति तत्स्वरूपस्यैव प्रष्टव्यतया तदाधारप्रश्नायोगात्। न च तस्य नाड्याधारत्ववर्णनेन पापास्पृष्टतया तन्मूलशोकभीत्यादिराहित्यप्रदर्शनेन वेदितव्यत्वोपपादनार्थमाधारप्रश्न इति वाच्यम्। तथा सति ‘तासु तदा भवति’ इति नाडीस्थत्ववत्पापास्पर्शस्यापि बालाकिं प्रति वर्णनीयत्वापत्तेः। न च सौषुप्तिकनाडीः प्रविष्टस्य पापास्पर्शश्छान्दोग्ये श्रुतः प्रसिद्ध इति तदवर्णनमिति वाच्यम्। ‘क्वैष एतत्’ इति प्रश्नानन्तरं ‘तदुह बालाकिर्न विजज्ञौ’ इत्युक्तत्वेन सुषुप्तौ नाडीप्रवेशमेवाजानतो बालाकेस्तत्प्रवेशकृतपापास्पर्शप्रसिद्ध्यभावात्। तस्माज्जीवाधारो वेदितव्यः पुरुष इति प्रतिपादनार्थ एव स प्रश्नः। ‘प्राण एवैकधा भवति’ इत्येतदेव च तस्योत्तरं , न तु ‘तासु तदा भवति’ इत्येतत् ; नाडीनां वेदितव्यपुरुषत्वाभावात्। तत्तु ‘ताभिः प्रत्यवसृप्य पुरीतति शेते’(बृ.उ.२-१-१९) इति श्रुत्यन्तरानुसारेण हृदयावच्छिन्नब्रह्मप्राप्तये मार्गोपदेशपरं नेतव्यम् ।

एवञ्च द्वितीयप्रश्नः करणग्रामाधिकरणविषय इति न युक्तम् ; अग्रे तदुत्तरादर्शनात्। ‘जीवाधिकरणविषय इत्यपि न युक्तम् ; प्रथमप्रश्नेन पुनरुक्तिप्रसङ्गात्’ इति चेत् ; न। तयोरेकः कस्मिन्नधिकरणे शयितोऽभूदिति जीवाधिकरणधर्मिविशेषविषयः , अपरस्तु जीवः किमन्यः सन्नन्यस्मिन् शयितोऽभूदुतानन्यः सन्नात्मनीत्यधिकरणगतान्यत्वानन्यत्वरूपविशेषणवैशिष्ट्यविषय इति भेदोपपत्तेः। अत एव प्रश्नद्वयस्यापि व्याख्यानार्थं ‘प्राण एवैकधा भवति’ इत्युक्तम्। अत्र हि ‘प्राणे’ इत्यधिकरणभूतधर्मिविशेषप्रश्नस्य प्रतिवचनम् ‘एकधा भवति’ इति धर्मविशेषवैशिष्ट्यप्रश्नस्य। एकधा भवति एकीभवतीत्यर्थः ; ‘स्वमपीतो भवति’ इति हि श्रुत्यन्तरम्। ‘तदैनं वाक्’ इत्यत्र ‘एतस्मादात्मनः प्राणः’ इत्यत्र च एतत्पदं प्राणपरामर्शि। प्राणस्य सप्तम्यन्तनिर्दिष्टत्वेऽपि प्रतिपिपादयिषितत्वेन प्राधान्यात् ‘तप्ते पयसि दध्यानयसि सा वैश्वदेव्यामिक्षा’ इत्यत्र सप्तम्यन्तनिर्दिष्टस्यापि पयस एव व्याप्यकर्मत्वेन प्रधानस्य सर्वनाम्ना परामर्शदर्शनात्। अत्र च वाक्यद्वये प्राणानां वृत्तिलयोद्गममात्रं न प्रतिपाद्यते ; विषयैः सह लयोद्गमप्रतिपादनात्। न हि सुषुप्तौ विषयाणां व्यापारविलयः प्रबोधे तदुद्भवश्चानुभवानुरोधी। श्रुतौ भारनिवेशे तु यथाश्रुति इन्द्रियाणां तद्विषयभूतस्य नामरूपात्मकस्य कृत्स्नप्रपञ्चस्य लयः स्वीकर्तुं युक्तः। एवं जीवैकीभावाधिकरणस्य प्राणस्य सुषुप्तौ सेन्द्रियसकलप्रपञ्चलयाधिकरणतया, प्रबोधे तदुद्गमापादानतया, प्रतिपादनं तस्य गार्ग्योपदिष्टेभ्य आदित्यादिपुरुषेभ्योऽन्यत्वं दृढीकर्तुम्। तत एव – जीवो , मुख्यप्राणो वा वेदितव्यः पुरुष इति पूर्वपक्षोऽपि निरस्तो भवति। न हि यतः कुतश्चिज्जीवाद्धिरण्यगर्भाद्वा सर्वे लोकास्सर्वे देवाश्चोद्भवन्तीति युज्यते ।

यदि च देवशब्द इन्द्रियाधिष्ठातृदेवपरः , तदाऽपि हिरण्यगर्भव्यावृत्तिरस्त्येव ; ‘बुद्धिरध्यात्मं बोद्धव्यमधिभूतं ब्रह्म तत्राधिदैवतम्’ इति तस्यान्तरिन्द्रियाधिष्टातृत्वोक्तेः। ‘स यदा प्रबुध्यते यथाऽग्नेर्विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः प्राणा’ इत्यादिनैव ‘कुत एतदागात्’ इति प्रश्नस्य प्रतिवचनमप्यर्थाल्लब्धम्। तथा हि ‘कुत एतदागात्’ इति प्रश्नो न जीवागमनापादनविषयः ; यत्र धर्मिणि शयितोऽभूत् तत आगादिति स्वयमेव ज्ञातुं शक्यत्वात् , किन्तु किमन्यस्मादागत उतात्मन्येव भेदकोपाधिविलयादेकीभूय स्थितः पुनः प्रबोधसमये भेदकोपाध्युद्भवात्ततो भेदेनागत इत्यपादानस्यान्यत्वानन्यत्वधर्मविशेषवैशिष्ट्यविषयः। यद्यप्यधिकरणान्यत्वानन्यत्वविषयस्य प्राचीनप्रश्नस्य प्रतिवचनं यद्धर्मविषयं वक्ष्यते तद्धर्मविशिष्टादयमागादित्येतदपि निश्चेतुं शक्यम् , तथाप्यनन्यत्वपक्षस्य प्रतिवचने वक्तव्यत्वेन विवक्षितत्वात् , तस्य चालौकिकत्वेनासम्भावनीयत्वात् तद्दृढीकरणार्थमधिकरणत्वदशायामिवापादानत्वदशायामप्यनन्यत्वं वक्तव्यमिति तद्विषयः प्रश्नो घटते। तत्प्रतिवचनलाभार्थं सुषुप्तौ यदा प्रबुध्यते , तदानीमात्मनः सुषुप्तभूतादेतस्मात् प्राणशब्दोक्तादिन्द्रियादयो विप्रतिष्ठन्त इति व्याख्येयम्। एवञ्चोदाहृतप्रश्नपर्यालोचनया , तत्प्रतिवचनपर्यालोचनया च प्रकरणमिदमन्यार्थं , न तु जीवो हिरण्यगर्भो वा वेदितव्यः पुरुष इति प्रतिपादनार्थमिति सिद्धम् ।

अपि चैवमेके शाखिनो वाजसनेयिनोऽस्मिन्प्रकरणे प्रकरणमिदमन्यार्थमिति स्पष्टयन्ति। तत्र हि ‘यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः क्वैष तदाऽभूत्कुत एतदागात्’(बृ.उ.२-१-१६) इति प्रश्नद्वयं श्रूयते। तदनन्तरं च ‘यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषस्तदेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तर्हृदय आकाशस्तस्मिञ्च्छेते’(बृ.उ.२-१-१७) इति प्रथमप्रश्नस्य प्रतिवचनम्। द्वितीयप्रश्नस्य प्रतिवचनं तु ‘एवमेवास्मादात्मनस्सर्वे प्राणास्सर्वे लोकास्सर्वे देवास्सर्वाणि भूतानि व्युच्चरन्ति’(बृ.उ.२-१-१०) इत्यग्रिमवाक्ये। अत्र ‘क्वैष तदाऽभूत्’ इति प्रश्ने करणग्रामाधिकरणविषयत्वशङ्काया नास्त्यवकाशः ; ‘य एष विज्ञानमयः पुरुषः’(बृ.उ.२-१-१६) इति प्राङ्निर्देशात्। तदधिकरणविषयस्य प्रतिवचनस्य च नास्ति मुख्यप्राणविषयत्वशङ्कावकाशः ; आकाशशब्देनाधिकरणनिर्देशात्। अस्याकाशशब्दस्य एतत्स्थाने कौषीतकिब्राह्मणपठितस्य प्राणशब्दस्य चैकार्थ्यस्य वक्तव्यतया तयोर्ब्रह्मविषयत्वावश्यम्भावात्। ब्रह्मण्येव तयोश्श्रुत्यन्तरेषु निरूढिदर्शनात् आनन्दवल्यां ‘को ह्येवान्यात् कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्’(तै.उ.२-७.१) इत्याकाशशब्दनिर्दिष्टस्य चापरिच्छिन्नानन्दस्य ब्रह्मण उत्तरोत्तरशतगुणमात्रपरिच्छिन्नानन्दशालिषु परिगणितान्मुख्यप्राणरूपात् हिरण्यगर्भाद्भिन्नत्वावगमात्। तस्मात्प्रकरणमिदं जीवमुख्यप्राणातिरिक्तब्रह्मविषयमिति तत्रैव तयोर्लिङ्गं सार्वात्म्याभिप्रायेण योजनीयम् ।

ननु वाजसनेयिशाखायां ‘नैतावता विदितं भवति’ इति राजवाक्येन गार्ग्योपक्रान्तब्रह्मविषयमेवाग्रेतनं सुषुप्तपुरुषोत्थापनोपक्रमं कृत्स्नं राजवाक्यमित्यवगतम्। तच्च ब्रह्म जीवो न भवतीति सुषुप्तजीवाधिकरणप्रश्नेनावगतम्। तदधिकरणं ब्रह्म मुख्यप्राणो न भवतीति प्रतिवचनगताकाशशब्देन सर्वभूतलोकदेवोद्गमापादानत्वप्रतिपादनेन चावगतम्। अतस्तदेकार्थं कौषीतकिब्राह्मणवाक्यमपि जीवमुख्यप्राणातिरिक्तविषयमिति निश्चेतुं शक्यमेव। किमर्थमिदमधिकरणमिति चेत् ; उक्तमेवोत्तरं कृत्वाचिन्तयेदमधिकरणं प्रवृत्तमिति। तदेव उत्तरमत्रापि द्रष्टव्यम्। ‘अपि चैवमेक’ इत्यस्याः कृत्वाचिन्ताया उद्घाटनं कृतम्। प्राचीनसूत्रदर्शितायास्तु कृत्वाचिन्ताया ‘वाक्यान्वयात्’ इत्यग्रिमसूत्रमस्मिन्नप्यधिकरणे प्रविष्टं मत्वा तेन बहूनां वेदान्तवाक्यानां जीववर्गात्तद्विशेषाद्धिरण्यगर्भाच्च भिन्ने ब्रह्मणि समन्वितत्वादपि प्रकरणमिदमन्यार्थमित्येवंपरेणोद्घाटनं कृतमित्यनुसन्धेयम्। यत्तु भाष्ये प्राणनिराकरणस्यापि सुषुप्तपुरुषोत्थापनेन प्राणादिव्यतिरिक्तोपदेशोऽभ्युच्चय इत्युक्तं , तद्धिरण्यगर्भनिराकरणार्थं न भवति , किन्तु प्रतर्दनाधिकरणपूर्वपक्षन्यायेन मन्दशङ्कनीयः प्राणवायुरेवात्र वेदितव्यः पुरुषोऽस्तु तत्र परिस्पन्दरूपस्य कर्मणस्सदा सत्त्वादिति सर्वमनवद्यम् ॥१-४-१८॥

इति जगद्वाचित्वाधिकरणम् ॥५॥

वाक्यान्वयात् ॥१९॥

बृहदारण्यके मैत्रेयीब्राह्मणे याज्ञवल्क्यः स्वयं प्रविव्रजिषया मैत्रेयीकात्यायन्योः स्वभार्ययोर्वित्तस्य विभागं चिकीर्षन्वित्तेन किममृतत्वं प्राप्तुं शक्यमिति मैत्रेय्या पृष्टो ‘यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यादमृतत्वस्य तु नाशाऽस्ति वित्तेन’(बृ.उ.२-४-२) इत्युक्त्वा ‘येनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान्वेद तदेव मे ब्रूहि’(बृ.उ.२-४-३) इति तया पुनरमृतत्वसाधनं पृष्टो ‘न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति’(बृ.उ.२-४-५) इत्यादिभिः ‘न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियम्भवति’(बृ.उ.२-४-५) इत्यन्तैः वाक्यैः पतिजायापुत्रवित्तपशुब्रह्मक्षत्रलोकदेववेदभूतप्रभृति सर्वं यस्य भोगार्थतयैव प्रियं भवति, तत्पत्यादिसर्वभोक्तारमात्मानमुपक्रम्य ‘आत्मा वा अरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’(बृ.उ.२-४-५) इत्यमृतत्वसाधनमात्मदर्शनं दर्शनसाधनानि श्रवणादीनि चोपदिश्य ‘आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम्’(बृ.उ.२-४-५) इत्यात्मविज्ञानेन सर्वविज्ञानं प्रतिजज्ञे। तत्र यद्दर्शनममृतत्वसाधनमुपदिदेश सोऽयमात्मा किं जीव उत परमात्मेति जीवब्रह्मलिङ्गाभ्यां संशये –

पूर्वपक्षः – जीव एवायमात्मा। उपक्रमे पतिजायादिप्रियत्वलिङ्गात् , मध्ये ‘विज्ञानमय एवैतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविश्यति’(बृ.उ.२-४-१२) इत्युत्पत्तिविनाशलिङ्गात् , अन्ते ‘विज्ञातारमरे केन विजानीयात्’(बृ.उ.२-४-१४) इति विज्ञातृत्वलिङ्गाच्च। तद्विज्ञानेन सर्वविज्ञानप्रतिज्ञानं तु भोग्यजातस्य भोक्तृशेषत्वादौपचारिकं योजनीयम्। युक्तं ह्युपक्रमोपसंहारपरामर्शानुसारेण पूर्वाधिकरणविषयवाक्ये जीवलिङ्गस्य ब्रह्मणीवात्र ब्रह्मलिङ्गस्य जीवे योजनम् ।

स्यादेतत् – उपक्रमादीनां जीवनिष्ठत्वे भवेदेवं , तदेवासिद्धम्। तथाहि – उपक्रमे ‘न वा अरे पत्युः कामाय’ इत्यादिकम् आत्मैव द्रष्टव्य इति वक्ष्यमाणार्थस्योपपादकतया वर्ण्यते। न च – जीवात्मनः कामाय पत्यादयः प्रिया भवन्तीति वचनं प्रियं पत्यादिकं परित्यज्य तद्वियुक्तं केवलं जीवात्मस्वरूपमन्वेष्टव्यमित्यत्रोपपादकं भवति। प्रियमेव ह्यन्वेष्टव्यं , न प्रियवियुक्तं स्वरूपं। परमात्मनः कामायेष्टनिर्वृत्तये पत्यादयः प्रिया भवन्तीति वचनं तु पत्यादिकं परित्यज्य परमात्मैव द्रष्टव्य इत्यत्र भवत्युपपादकम्। परमात्मा खलु ‘एष ह्येवानन्दयाति’ इति श्रुतः पतिजायादीनां कादाचित्कं प्रियत्वमापादयति। तस्मात् स एव निरतिशयानन्दरूपोऽन्वेष्टव्य इति। एवञ्च पतिजायादिवाक्यानामित्थमर्थो ग्राह्यः – न हि पतिजायापुत्रवित्तादयो मदिष्टनिर्वृत्तये अहमस्य प्रियः स्यामिति स्वसङ्कल्पतः प्रिया भवन्ती , किन्तु परमात्मनः तत्तज्जीवप्रियप्रतिलम्भनरूपेष्टनिर्वृत्तये अहमस्य प्रियः स्यामिति स्वसङ्कल्पतः प्रिया भवन्तीति। परमात्मा हि तत्तत्कर्मानुसारेण जीवात्मनः प्रियमनुभावयितुमिच्छन् प्रतिनियतदेशकालपरिमाणं तत्तद्वस्तुषु प्रियत्वमापादयति। एवमुपक्रमगतोपपादकसहितस्य द्रष्टव्यवाक्यस्य परमात्मपरत्वे सति मध्ये जीवोत्पत्तिविनाशसङ्कीर्तनं मुण्डके ‘तथाऽक्षराद्विविधास्सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति’(मु.उ.२-१-१) इति तदुत्पत्तिलयसङ्कीर्तनमिव प्रकृतब्रह्मभावप्रतिपत्त्यर्थतया , तत्स्तुत्यर्थतया वा सम्भवदन्वयं न प्रकरणस्य जीवपरतामापादयति। ‘विज्ञातारम्’ इति श्रुतं विज्ञानकर्तृत्वं तु ब्रह्मण्यपि प्रसिद्धमेव ‘तदैक्षत’ ‘स ईक्षांचक्रे’ ‘यस्सर्वज्ञः’ इत्यादिश्रुतिष्विति ; चेत् –

उच्यते – परमात्मनः पुण्यापुण्यकर्मण इव पतिजायादिषु कदाचित्प्रियत्वापादनेनानन्दरूपत्वं कदाचिदप्रियत्वापादनेन दुःखरूपत्वमिव न सिद्ध्यति। नतरां निरतिशयानन्दत्वम्। नतरां पत्यादिकं परित्यज्य द्रष्टव्यत्वम्। तस्मात्पतिजायादिवाक्यानां परमात्मविषयत्ववर्णनं परमात्मैव द्रष्टव्य इत्यस्योपपादकम्। तेषां जीवात्मविषयत्ववर्णनमपि जीवात्मैव द्रष्टव्य इत्यस्योपपादकं न भवतीत्युक्तम् , इति चेत् , सत्यमुक्तम्। विमृश्य तु नोक्तम्। तेषां जीवात्मविषयत्ववर्णने तस्य पतिजायाद्यपेक्षयाऽतिशयितपुरुषार्थत्वालाभे हि पतिजायादिकं परित्यज्य तस्यैवान्वेष्टव्यत्वे तदुपपादकं न भवेत् , तत्तु लभ्यत एव। तथा हि – सर्वेषामपि स्वात्मा प्रियः , पतिजायादयोऽपि प्रिया इत्यनुभवसाक्षिकमेतत्। तत्र पतिजायादीनां स्वात्मव्यतिरिक्तानां सर्वेषां प्रियत्वं पतित्वादिप्रयुक्तं न भवति , किन्तु स्वात्मप्रयुक्तमिति अस्मिन्नर्थे तेषां स्वेष्टसंपादकत्वदशायामिव स्वानिष्टसंपादकत्वदशायां प्रियत्वादर्शनेन सर्वसम्प्रतिपत्तियोग्ये वर्ण्यमाने स्वात्मनः पतिजायादीन्प्रति इष्टसंपादकत्वदशायामनिष्टसंपादकत्वदशायाञ्चाविशेषेण प्रियस्य कथं पतिजायाद्यपेक्षयाऽतिशयितपुरुषार्थत्वं न लभ्यते। तस्मादात्मानात्मनोर्लोकप्रसिद्ध्यनुसारिमुख्यगौणपुरुषार्थत्वरूपं तत्त्वमालोच्य गौणं परित्यज्य मुख्यमेव समाश्रयेदित्ययमर्थः पतिजायादिवाक्यसहितेन द्रष्टव्यवाक्येन वर्ण्यते इत्येव युक्तम्। उक्तञ्च सुरेश्वराचार्यैः ‘दृष्ट्वाऽनुभवतस्तत्त्वमात्मानात्मपदार्थयोः। उपादित्सा जिहासा च तत्कृतैवानुपाल्यताम्’ इति। ‘स्वत एवाप्रियोऽनात्मा ह्यात्मप्रीत्यर्थसाधनात्। जायादिः स्यात्प्रियो भवत्या बन्धक्याः कामुको यथा। निर्हेतुका स्वतः प्रीतिरात्मन्येव यतस्ततः। भाक्तं प्रियं परित्यज्य मुख्यं प्रियमुपाश्रयेत्’ इति च ।

एवञ्च ‘न वा अरे पत्युः कामाय’ इत्यादिवाक्येषु प्रसिद्धिद्योतको वैशब्दोऽपि सङ्गच्छते। प्रसिद्धं ह्येतल्लोके यत्पत्यादयो जायादीनां पत्यादिप्रयोजनाय प्रिया न भवन्ति, किन्तु जायादीनामेव प्रयोजनायेति। पतिजायादिवाक्यानां परमात्मविषयत्वे तु स न सङ्गच्छेत। न हि परमात्मेच्छाधीनं पतिजायादीनां कादाचित्कं प्रियत्वमित्येतल्लोकप्रसिद्धम्। ‘श्रुतिप्रसिद्धं तत्’ इति चेत् ; न। अनधीतिनीमविज्ञातश्रुत्यर्थां केवलममृतत्वार्थिना पत्या सह चिरसंवासेन तच्चरणपरिचरणबाहुल्यलब्धयाऽन्तःकरणशुद्ध्या च स्वयमप्यमृतत्वार्थिनीं मैत्रेयीं प्रत्यमृतत्वोपायमुपदिदिक्षुणा पत्या तदधिकारिविशेषणवैराग्यदृढीकरणाय तद्बुध्युपारूढाया लोकप्रसिद्धेरेव तेन द्योतनीयत्वात्। पतिजायादिवाक्येषु पतिवाक्यप्राथम्येन मैत्रेयीं प्रति तद्बुध्युपारूढमर्थं प्रथमं प्रदर्श्य तद्दृष्टान्तेन तत्सम्मतियोग्यान्येवार्थान्तराण्यपि पतिरवर्णयदिति प्रतीतेश्च। तस्मादुपक्रमस्य परमात्मविषयत्ववर्णनं तावदयुक्तम् ।

यत्तूत्पत्तिविनाशवाक्यं प्रकृतद्रष्टव्यात्मविषयं न भवति; किन्तु तत्सृज्यात्मविषयमिति ; तदपि न युक्तम्। षष्ठे मैत्रेयीब्राह्मणे ‘स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एवैतेभ्यो भूतेभ्यस्समुत्थाय’(बृ.उ.४-५-१३) इत्यादिना प्रकृतस्य द्रष्टव्यात्मन एव ‘अयमात्मा’ इति परामृष्टस्योत्पत्तिविनाशवर्णनात्, ‘एवं वा अरे इदं महद्भूतमनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यः’(बृ.उ.२-४-१२) इत्यादौ चतुर्थे मैत्रेयीब्राह्मणे ‘अयमात्मा’ इति शब्दाभावेऽपि प्रकृतपरामर्शिन इदंशब्दस्य सत्त्वाच्च। मुण्डकवाक्यदृष्टान्तोपन्यासस्तु विषमः ; तत्र ‘तथाऽक्षरात्’ इति विशेषणेन सृज्यात्मना प्रकृताक्षरब्रह्मोपादानकत्वप्रतिपादनात्। यत्तु विज्ञातृत्वं ब्रह्मणोऽपि प्रसिद्धमित्युक्तं , तदपि न युक्तम् ; विजानामीत्यनुभवसिद्धस्य मनोवृत्तिविशेषरूपं विज्ञानं प्रति कर्तृत्वस्य मुख्यस्य जीव इव ब्रह्मण्यसम्भवात्। तस्मान्मैत्रेयीब्राह्मणेन प्रतिपाद्यमान आत्मा जीव एवेति जगत्कारणत्वोपलक्षितो मुमुक्षुभिर्विज्ञेयः परमात्मा , तत्रैव वेदान्तानां समन्वय इत्येतन्न युक्तमिति। एवं प्राप्ते पूर्वपक्षे राद्धान्तः –

परमात्मैवायम् ; वाक्यान्वयात्। वाक्यं हीदं मैत्रेयीब्राह्मणरूपं विमृश्यमानं परमात्मन्येवान्वितावयवं लक्ष्यते। तथा हि – ‘अमृतत्वस्य तु नाशाऽस्ति वित्तेन’ इति याज्ञवल्क्यवचनेन वित्तसाध्यैः कर्मभिरमृतत्वं न प्राप्यत इति निश्चित्य वित्तमनादृत्यामृतत्वप्राप्त्युपायोपदेशमाशंसमानायै मैत्रेय्यै तत्प्राप्त्यर्थं विज्ञेयमात्मानमुपदिदेश याज्ञवल्क्यः। तद्विज्ञानमेवामृतत्वसाधनमित्युपसञ्जहार च षष्ठे मैत्रेयीब्राह्मणान्ते ‘एतावदरे खल्वमृतत्वम्’ इति। जीवात्मविज्ञानात्तु नामृतत्वप्राप्तिः ; ‘नान्यः पन्थाः’ इति श्रुतेः। अहंप्रत्ययरूपे जीवात्मविज्ञाने सर्वदा अनुवर्तमानेऽपि अमृतत्वप्राप्त्यदर्शनाच्च जीवस्य यदलोकसिद्धं तात्त्विकं रूपम् , तद्विज्ञानममृतत्वसाधनमित्यस्य सिद्धान्तेऽप्यङ्गीक्रियमाणत्वात्। तथा मध्येऽपि ब्रह्मलिङ्गानि वर्णयामास। तत्र एकविज्ञानेन सर्वविज्ञानं तावदेकं लिङ्गम्। न चैतदौपचारिकं नेतुं युक्तम् ; अग्रे भेददर्शननिन्दया सार्वात्म्यप्रतिपादनेन दुन्दुभ्यादिदृष्टान्तैश्च तदुपपादनाच्च। तत्र ‘ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद’(बृ.उ.२-४-६) इत्यादिभिः ‘सर्वं तं परादाद्योऽन्यत्रात्मनस्सर्वं वेद’(बृ.उ.२-४-६) इत्यन्तैर्वाक्यैर्ब्रह्मक्षत्रलोकदेववेदभूतादिकस्य सर्वस्य ब्रह्मान्यत्वदर्शननिन्दा कृता। ब्रह्म ब्राह्मणजातिः ‘ब्राह्मणोऽहम्’ इत्यभिमानविषयभूता तं पराकुर्यात् पुरुषार्थात् प्रच्यावयेद्यस्तां ब्राह्मणजातिमात्मनो भिन्नां वेदेति प्रथमवाक्यार्थः। एवं क्षत्रादिवाक्यानामप्यर्थो द्रष्टव्यः। सर्वेष्वेतेषु वाक्येषु सार्वविभक्तिकस्त्रल्प्रत्ययः ‘समं समाधानमन्यत्राभिनिवेशात्’ ‘अन्यत्र भीष्माद्गाङ्गेयात्’ इत्यादिप्रयोग इव प्रथमार्थो द्रष्टव्यः। ‘इदं ब्रह्म इदं क्षत्रमिमे लोकाः इमे वेदा इमानि भूतानीदं सर्वं यदयमात्मा’(बृ.उ.२-४-६) इति सार्वात्म्यं दर्शितम्। एकविज्ञानेन सर्वविज्ञानप्रतिज्ञां तदुपपादनार्थां भेददर्शननिन्दापूर्विकां सार्वात्म्यप्रतिज्ञाञ्चोपपादयितुं दुन्दुभ्यादिदृष्टान्ता दर्शिताः ।

‘स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दान् शक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः’(बृ.उ.२-४-७) इति दुन्दुभिदृष्टान्तः चिद्रूपात्मस्फुरणं विना स्फुरणशून्यं जगच्चिदात्मनो न व्यतिरिच्यत इति प्रतिज्ञापेक्षिते ‘यत् यस्य स्फुरणं विना न स्फुरति, तत्ततो न व्यतिरिच्यते’ इति नियमे दृष्टान्तोऽयम्। तत्र ‘दुन्दुभेर्हन्यमानस्य’ इत्यनेन हन्यमानदुन्दुभिप्रभवशब्दसामान्यं लक्ष्यते। ‘दुन्दुभेस्तु’ इत्यनेनापि तदेव लक्ष्यते। दुन्दुभ्याघातः – संग्रामभूमिषु वीररसाद्यनुकूलः दुन्दुभिध्वनिविशेषः। ततश्चायमर्थः – यथा दुन्दुभिशब्दसामान्यविशेषभूतान् शब्दान् दुन्दुभिशब्दसामान्याद्बाह्यत्वेन ततो निष्कृष्य न कश्चिदपि ग्रहीतुं शक्नुयात् ; किन्तु दुन्दुभिशब्दसामान्यग्रहणेनैव तद्विशेषशब्दो गृहीतो भवति ; दुन्दुभ्याघातसंज्ञकस्य शब्दविशेषस्य ग्रहणेन वा तदवान्तरविशेषशब्दो गृहीतो भवति ; दुन्दुभिशब्द इत्येव हि तद्विशेषो गृह्यते , दुन्दुभ्याघातशब्दसामान्याच्च तथा तद्विशेषा न भिद्यन्ते , एवं चिद्रूपादात्मनः प्रपञ्च इत्याशयः। शंखवीणादृष्टान्तावप्येवमेव योजनीयौ। यद्यपि दृष्टान्तानामर्थान्तरं वर्णयितुं शक्यम् ; तथा हि – यथा दुन्दुभौ हन्यमाने ततो बहिर्निस्सरतश्शब्दान्न कश्चिदपि निरोद्धुं शक्नुयात् ; किन्तु दुन्दुभेर्निरोधेन , तदाहन्तृपुरुषनिरोधेन वा दुन्दुभिशब्दो निरुद्धो भवति – इत्यादि , तथाऽपि नैतादृगर्थान्तरं प्रकृतोपयोगि। सार्वात्म्यं हि प्रकृतं दृष्टान्तेनोपपादनीयम् , न त्वन्यत्। तत्तु नैतादृशार्थेनोपपादितं भवति। प्रकृतानुपयोग्यर्थान्तरं त्वितोऽपि समञ्जसमुन्नेतुं शक्यम् – दुन्दुभौ हन्यमाने बाह्यान्दुन्दुभिशब्दव्यतिरिक्तान्मानुषादिशब्दान्दुन्दुभिशब्दाभिभूतान्ग्रहीतुं न शक्नुयात् ; दुन्दुभेस्तदाहन्तृपुरुषस्य वा निरोधेन मानुषादिशब्दो गृहीतो भवति – इति ।

यद्वा हन्यमानदुन्दुभिमनादृत्य तद्दर्शनमनपेक्ष्य बाह्यान्पिहितकर्णत्वेन कर्णपुटमप्रविष्टतया कर्णपुटाद्बहिरेव वर्तमानान्दुन्दुभिशब्दान्ग्रहीतुं न शक्नुयात्। कर्णपुटस्य पिहितत्वेन तत्प्रत्यक्षासम्भवात् हन्यमानान्दुन्दुभिरूपकारणलिङ्गादर्शनेनानुमानानवताराच्च। किन्तु प्रागुक्तहन्यमानत्वविशेषितस्य दुन्दुभेर्वा तदाहननव्यापृतस्य पुरुषस्य वा कारणलिङ्गस्य ग्रहणेनानुमानावतारे सति दुन्दुभिशब्दो गृहीतो भवतीति। अत्र हि पक्षद्वयेऽपि प्रथमपक्ष इव बाह्यशब्दः सप्रयोजनः। बहिर्निस्सरत इत्यर्थवर्णने तु निष्प्रयोजनः ; दुन्दुभिशब्दो ततो बहिर्निस्सरणस्य स्वाभाविकत्वेन व्यावर्त्याभावात्। शब्दान्वयी ग्रहणशब्दश्च ज्ञानपरः सन्युक्तार्थः। निरोधार्थवर्णने त्वयुक्तार्थः। न हि ग्रहणशब्दस्य ज्ञानवदुपादानवच्च निरोधार्थः प्रसिद्धः , न वा चोरादाविव शब्दे निरोधोऽन्वेति। दुन्दुभिर्यथा नाहन्येत तथा तन्निरोधेन वा पुरुषो यथा तं नाहन्यात्तथा पुरुषनिरोधेन वा शब्दस्योत्पत्तिप्रतिबन्धमात्रं हि भवति , न तु द्रव्यविषयत्वेन प्रसिद्धो निरोधः। प्रथमपक्षे ‘दुन्दुभेः’ इति शब्दस्य दुन्दुभिप्रभवशब्दे लक्षणा तु ग्रहणान्वयानुरोधाद्भवन्ती न दोषाय। शब्दस्य ह्युपादानं न सम्भवतीति ज्ञानमेवात्र ग्रहणं वाच्यम्। दुन्दुभिज्ञाने च तदीयशब्दविशेषाणां स्फुरणं न भवति, किन्तु दुन्दुभिशब्दसामान्यज्ञान एव। उक्तञ्च वार्तिके ‘दुन्दुभिध्वनिरित्येतत्कुतो लब्धं विशेषणम्। दुन्दुभेर्ग्रहणेनेति लब्धमेतद्विशेषणम्। दुन्दुभेस्तु रवा एत इत्येवं ग्रहणे सति। गृहीतास्तद्विशेषास्स्युस्तेषां तादात्म्यकारणात्’ इति। दुन्दुभ्याघातशब्दस्तु यद्यपि कर्मोपपदप्रत्ययान्तो दुन्दुभ्याहन्तृवाची, तथाऽपि घञन्तो दुन्दुभिध्वनिशेषवाच्यप्यस्तीति तद्ग्रहणं युज्यते। तदप्युक्तं वार्तिके ‘भेर्याघातग्रहाद्वाऽपि तद्विशेषग्रहो भवेत्। वीरादिरससंयुक्तो दुन्दुभ्याघात उच्यते’ इति। तस्मात् ‘चमसवदविशेषात्’(ब्र.सू.१-४-८) इति न्यायेनानेकधा योजयितुं शक्यं दृष्टान्तवाक्यस्य प्रकृतसार्वात्म्योपपादकदार्ष्टान्तिकानुगुण एवार्थो ग्राह्यः ।

ननु शङ्काग्रन्थदर्शितोऽप्यर्थः किञ्चिद्दार्ष्टान्तिकमध्याहृत्य तद्दृष्टान्ततया वर्णयितुं शक्यः, दुन्दुभ्याहननव्यापारानुवृत्तौ दुन्दुभिशब्द इव इन्द्रियव्यापारानुवृत्तौ बाह्यार्थप्रत्ययो निरोद्धुं न शक्य इति। ततश्चात्मदर्शनार्थिना तद्विरोधिबाह्यार्थप्रत्यय इन्द्रियनिरोधेन तद्विजृम्भणहेतुमनोनिरोधेन वा निरोद्धव्यम् इति प्रकृतोपयोगश्च सम्भवति इति चेत् ; मैवम्। श्रुतसार्वात्म्योपपादनार्थतयैव यथाकथञ्चन दृष्टान्तनयनसम्भवे दृष्टान्तस्वारस्यानुरोधेन दार्ष्टान्तिकान्तराध्याहारायोगात्। श्रुत एव ह्यवकाविधौ स्तावकत्वेन ‘आपो वै शान्ताः’ इत्यर्थवादः यथाकथञ्चिन्नीयते, न तु तत्स्वारस्यानुरोधेनापां विधिरध्याह्रियते। यदि च दृष्टान्तस्वारस्यमनुरोद्धव्यम् , तदाऽप्यनन्तरदर्शितार्थद्वयमध्य एव कश्चिदर्थो ग्राह्यः , न तु शङ्काग्रन्थदर्शितोऽर्थः, तयोः प्राक्प्रस्तुतमननादिविधानोपयोगवर्णनसम्भवात्। तथा हि – प्राक् ‘आत्मा द्रष्टव्यः’ इत्युपदिश्य तद्दर्शनसाधनश्रवणादीन्युपदिष्टानि। अत्रेयमाशङ्का भवति – पतिजायादिप्रियसंसूचितस्य जीवस्येदं द्रष्टव्यत्वमुपदिश्यते न चैतदुपपद्यते ; अहंप्रत्ययेन नित्यमेव तस्य दृश्यमानत्वात् ।

अथोच्येत – अहंप्रत्यये प्रकाशमानात्कर्तृत्वभोक्तृत्वादिविशिष्टाद्रूपादन्यदस्ति निरतिशयानन्दरूपं ब्रह्मात्मकं जीवस्य रूपं तदभिप्रायेणामृतत्वार्थिना द्रष्टव्यत्वमुपदिश्यते – इति। तदाऽपि ‘मन्तव्यो निदिध्यासितव्यः’ इति न वक्तव्यम् ; मनसा नित्यमहमिति गृह्यमाणे जीवे तदगृहीतसूक्ष्मरूपसद्भावे तद्वेदान्तेभ्यः श्रुतवता पुरुषेण तेनैव मनसा पुनरवहितेन तस्य ग्राह्यत्वोपपत्तेः। चक्षुषा गृह्यमाणे तारकादौ तद्गते सूक्ष्मे विशेषे केनचित्कथिते तद्ग्रहणाय तदेव हि चक्षुः पुनः सावधानं व्यापार्यते – इति। तत्रेदमुत्तरम् – यथा दुन्दुभिशब्दे प्रतिबन्धे सति मानुषादिशब्दो ग्रहीतुं न शक्यत इति तद्ग्रहणाय दुन्दुभिशब्दस्य निरोधकमपेक्ष्यते , एवमिहाप्यसम्भावनादिप्रतिबन्धे सति जीवस्य ब्रह्मात्मकं रूपं ग्रहीतुं न शक्यत इति तन्निवर्तकमननादिकमपेक्ष्यत इति। यद्वा यथा कर्णस्य पिधानादिदोषेण दुन्दुभिशब्दग्रहणासामर्थ्ये सति तद्ग्रहणाय दुन्दुभ्याहननादिलिङ्गमपेक्ष्यते, एवमिहापि ‘‘पराञ्चि खानि व्यतृणत्स्वयम्भूः’(क.उ.२-१-१) ‘‘यन्मनसा न मनुते’(कौ. ३-५) इत्यादिश्रुतेर्मनसः स्वत एव ब्रह्मदर्शनासामर्थ्ये सति तद्दर्शनाय उपायान्तरमन्वेषणीयमिति ।

वस्तुतस्तु ‘इदं सर्वं यदयमात्मा’ इति सार्वात्म्याभिधानानन्तरमुच्यमानो दृष्टान्तस्तदुपपादनार्थतयैव योजयितुं युक्त इति प्राग्दर्शित एव दृष्टान्तवचनस्यार्थ इति तत्त्वम्। एवमुपपत्त्युपबृंहितं सर्वविज्ञानप्रतिज्ञानं तावदेकं ब्रह्मलिङ्गम्। तदुपपादकं सार्वात्म्यमपरम्। तथा ‘स यथाऽऽर्द्रैधाग्नेरभ्याहितस्य पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदस्सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदश्श्लोकास्सूत्राण्यनुव्याख्यानानि व्याख्यानानि इष्टं हुतमाशितं पायितमयञ्च लोकः परश्च लोकस्सर्वाणि च भूतान्यस्यैव तानि सर्वाणि निश्वसितानि’(बृ.उ.४-५-११) इति वर्णितं नामरूपात्मकसकलप्रपञ्चकारणत्वं ‘स यथा सर्वासामपां समुद्र एकायनमेवं सर्वेषां स्पर्शानां त्वगेकायनम्’(बृ.उ.४-५-१२) इत्यादिना ‘सर्वेषां वेदानां वागेकायनम्’(बृ.उ.४-५-१२) इत्यन्तेन प्रतिपादितं ज्ञानेन्द्रियकर्मेन्द्रियविषयरूपसकलप्रपञ्चलयाधारत्वं च ब्रह्मलिङ्गम्। ननु ‘सर्वासामपाम्’ इत्यादिना सदृष्टान्तमिन्द्रियाणां स्वस्वविषयायतनमात्रत्वमुच्यते, न तु ब्रह्मणः प्रपञ्चलयाधारत्वमिति ।

उच्यते। ‘यथा सर्वासामापाम्’ इत्यादिदृष्टान्तवचनेन समुद्रस्य नद्यादिसकलसलिललयाधारत्वमुच्यते ; ‘यथा नद्यस्स्यन्दमानास्समुद्रेऽस्तङ्गच्छन्ति नामरूपे विहाय’(मु.उ.३-२-८) ‘यथेमा नद्यस्स्यन्दमानास्समुद्रायणास्समुद्रं प्राप्यास्तङ्गच्छन्ति भिद्येते चासां नामरूपे समुद्र इत्येवं प्रोच्यते’(प्र.उ.६-५) इत्यादिश्रुत्यन्तरेषु तथैव समुद्रसलिलदृष्टान्तवर्णनदर्शनात्। ततश्च तदनुसारेण दार्ष्टान्तिकवचनेन त्वगादिशब्दैस्त्वगिन्द्रियादिग्राह्याणि स्पर्शरसगन्धरूपशब्दसङ्कल्पनीयादिसामान्यानि लक्षणीयानि। तथा च यथा नद्यादिसलिलानि समुद्रे विलीय समुद्रात्मतां प्राप्नुवन्ति एवं महाप्रलये मृदुकर्कशादयस्स्पर्शविशेषा मधुराम्लादयो रसविशेषा गन्धादिविशेषाश्च स्पर्शादिसामान्येषु विलीनास्सन्तस्तत्तत्सामान्यात्मतां प्राप्नुवन्तीत्यर्थः। एवञ्च क्रमेण परमकारणे ‘अस्य महतो भूतस्य’ इत्यादिना प्राग्वर्णिते विलीयन्त इति तात्पर्यम् ; महाप्रलये भूतलयस्य परमकारणपर्यन्ततया श्रुत्यन्तरेषु पुराणेषु च प्रतिपन्नत्वात्, ब्रह्मविद्यानिमित्तात्यन्तिकप्रलयवर्णनपरे ‘यथा सैन्धवघनः’ इत्यादिवाक्ये ‘एतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति’ इति वर्णितस्य भूतलयस्य ‘यत्र त्वस्य सर्वमात्मैवाभूत्’ इति परमकारणपर्यन्तत्वेन विवरणाच्च। एवञ्च त्वगादिशब्दानां स्पर्शादिसामान्येषु लक्षणा न दोषाय ; त्वगिन्द्रियादीनां स्पर्शादिलयाधारत्वस्य बाधितत्वाच्च। तस्मादुपक्रमोपसंहारपरामर्शैः परमात्मैवात्र द्रष्टव्य आत्मा ॥१-४-१९॥

स्यादेतत् – जीवविषया अप्युपक्रमोपसंहारपरामर्शा उदाहृताः। कस्तेषान्निर्वाहः ? ननु सुषुप्त्युत्क्रान्त्यधिकरणादिदर्शितो निर्वाहः स्यात्। तत्र ह्युक्तमेकस्मिन्वाक्ये ब्रह्माब्रह्मलिङ्गेषु करम्बितेषु प्रसिद्धजीवानुवादेनाप्रसिद्धब्रह्मात्मत्वविधानमङ्गीकर्तव्यमिति। सत्यमुक्तम्। दुरुक्तं तु तत् ; अत्यन्ताभेदे भेदसापेक्षस्योद्देश्यविधेयभावस्यायोगादित्याशङ्कायामेकदेशिमतेन तावत्परिहारमाह –

प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥२०॥

‘यथा सुदीप्तात्पावकाद्विस्फुलिङ्गास्सहस्रशः प्रभवंते सरूपाः’(मु.उ.२-१-१) इत्यादिश्रुतेः परमात्मकार्यभूता जीवाः परमात्मनो नात्यन्तभिन्नाः , किन्तु वह्निकार्यभूता विस्फुलिङ्गा वह्नेरिव ततो भिन्नाभिन्नास्ते। तथाऽपि परमात्मनि द्रष्टव्यत्वेनोपदेष्टव्ये यदादिमध्यावसानेषु जीवात्मत्ववर्णनेन परमात्मनस्तदभेदप्रदर्शनम् , तत्प्रतिज्ञासिद्धेर्लिङ्गम्। सर्वविज्ञानप्रतिज्ञा ह्यभेदांशेनोपपादनीया , न तु भेदांशेनेत्याश्मरथ्य आचार्यो मन्यते ॥१-४-२०॥

अथैकदेश्यन्तरमतेन परिहारान्तरमाह –

उत्क्रमिष्यत एवंभावादित्यौडुलोमिः ॥२१॥

औडुलोमिस्त्वाचार्यो मन्यते – संसारदशायां परमात्मनो भिन्न एव जीवः स्वभाविकानां कर्तृत्वभोक्तृत्वादिधर्माणामाश्रयस्तत्तद्धर्मप्रवृत्तिनिमित्तकानां नाम्नाञ्च विषयभूतः स मुक्तिकाले स्वकीयं नामरूपजातं विहाय परमात्मनैक्यं प्राप्नोति ‘यथा नद्यस्स्यन्दमानास्समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय। तथा विद्वान्नामरुपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्’(मु.उ.३-२-८) इति श्रवणात्। तथा च मुक्तिकाले देहेन्द्रियसंघातादुत्क्रामिष्यतो जीवस्य परमात्मैक्यं भविष्यतीति भविष्यदैक्यमपेक्ष्य भेदकालेऽप्यभेदवर्णनमिति। एतदेव मतं पाञ्चरात्रिका अप्यास्थिषत ‘आमुक्तेर्भेद एव स्याज्जीवस्य च परस्य च। मुक्तस्य तु न भेदोऽस्ति भेदहेतोरभावतः’ इति ॥१-४-२१॥

अथास्मिन्मतद्वयेऽप्यपरितुष्यन्नाचार्यस्स्वाभिमतं मतमाह –

अवस्थितेरिति काशकृत्स्नः ॥२२॥

रज्जोरेव भुजङ्गरूपेणेव व्याधकुलसंप्रवृद्धस्य राजपुत्रस्यैव व्याधभावेनेव च परमात्मन एव जीवभावेनावस्थितेरादिमध्यावसानेषु जीववर्णनमिदं परमात्मप्रदर्शनमेव भवति। स्थूलदर्शिलोकप्रतीतिसौकर्यार्थं जीवरूपेणोपक्रम्य मध्यावसानयोरपि जीवरूपप्रदर्शनमिति काशकृत्स्न आचार्यो मन्यते। न खलु जीवस्य तेजःप्रभृतिवदनन्योपाधिकं कार्यत्वमुपपद्यते ; विनाशित्वप्रसङ्गात्। नन्विष्टापत्तिः ; अत्रैव ‘तान्येवानुविनश्यति न प्रेत्य संज्ञाऽस्ति’(बृ.उ.४-५-१३) इत्युक्तत्वादिति चेत् ; मैवम्। तदनन्तरम् ‘अत्रैव मा भगवन्मोहान्तमापीपदत् न वा अहमिदं विजानामि’(बृ.उ.४-५-१४) इति वाक्येन कथमुपक्रान्तामृतफलभाक्त्वेन विवक्षितस्यात्मनो विनाशित्वं , कथञ्च विज्ञानैकस्वभावत्वेनोक्तस्य तस्य संज्ञाऽभाव इत्यभिप्रायवत्या मैत्रेय्या शङ्किते याज्ञवल्क्येन ‘न वा अरे अहं मोहं ब्रवीमि’(बृ.उ.४-५-१४) इत्यारभ्य तस्य विनाशसंज्ञाऽभाववचनयोरभिप्रायान्तरस्य स्वयमेव वर्णितत्वात्। तत्र ‘अविनाशी वा अरेऽयमात्मा अनुच्छित्तिधर्मा’(बृ.उ.४-५-१४) इति विनाशवचनस्याभिप्रायो वर्णितः। ‘अविनाशी’ इति विनाशकारणशून्यत्वलक्षणं विनाशायोग्यत्वमुच्यते। विपूर्वान्नशेर्णिजन्तात्पचाद्यचि ‘णेरनिटि’ इति णिलोपे सति विनाशशब्दो विनाशकारणवाची। एवमविनाशिशब्दस्य विनाशकारणवद्व्यतिरिक्तपरत्वं बृहदारण्यक एव जनकयाज्ञवल्क्यसंवादेऽपि दृश्यते ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते अविनाशित्वात्’(बृ.उ.४-३-२३) इति। ‘अनुच्छित्तिधर्मा’ इत्यत्र धर्मशब्दः स्वभाववचनः , ‘धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः’ इति, ‘सहजं निजमाजानं धर्मः सर्गो निसर्गवत्’ इति च तस्य स्वभाववाचित्वस्मरणात्। उच्छित्तिर्विनाशो धर्मः स्वभावो यस्य सोयमुच्छित्तिधर्मा, स न भवतीत्यनुच्छित्तिधर्मा – स्वाभाविकविनाशरहित इत्यर्थः। अनेन औपाधिकविनाशोऽस्य व्यपदेष्टुं शक्योऽस्तीति तदभिप्रायं प्राग्विनाशवचनमित्युक्तं भवति ।

माध्यन्दिनपाठे तु ‘अनुच्छित्तिधर्मा’ इत्येतदनन्तरमुपाधिरपि विशिष्य दर्शितः ‘मात्राऽसंसर्गस्त्वस्य भवति’ इति। मात्रा – देहेन्द्रियादयः संसारदशायां जीवोपाधित्वेन स्थितास्तासां ब्रह्मविद्यया समूलं नाशान्मुक्तिकाले ताभिरसंसर्गोऽस्य भवतीत्यर्थः। तथा च देहेन्द्रियादिनाशोपाधिकोऽस्य नाशव्यपदेश इति भावः। ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति तदितर इतरं जिघ्रति’(बृ.उ.४-५-१५) इत्यादिना ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् तत्केन कं जिघ्रेत्’(बृ.उ.४-५-१५) इत्यादिना च संसारदशायामेवापारमार्थिकभेदप्रतिभासवत्यां कर्तृकरणकर्मक्रियादिभेदसद्भाववद्रूपगन्धरसादिविशेषविज्ञानमस्ति , मुक्तिदशायां तु सर्वस्य भेदप्रपञ्चस्य विद्यया प्रविलयेन कर्तृकरणकर्मक्रियादिभेदाभावात् तद्विशेषविज्ञानं नास्तीत्युक्त्या संज्ञाऽभाववचनं विशेषविज्ञानाभावपरमिति तदभिप्रायो वर्णितः। एतेन – आश्मरथ्याभिमतं जीवस्य परमात्मनो भिन्नाभिन्नत्वमपि – निरस्तम्। ‘यत्र हि द्वैतमिव’ इतीवकारेण द्वैतस्यापारमार्थिकत्वद्योतकेन सर्वथैव भेदस्य निषिद्धत्वात् , ‘तत्केन कं पश्येत्’ इत्यादिभिर्भिन्नवस्तुदर्शनस्य निषिद्धत्वाच्च ।

ये तु ब्रह्मनियम्यत्वरहितस्य स्वतन्त्रस्य द्वैतस्य , तद्दर्शनस्य च निषेध एभिर्वाक्यैः क्रियते ; ब्रह्मनियम्यस्य द्वैतस्य श्रुतिविहितत्वेन तस्य तद्दर्शनस्य च निषेधायोगादिति वदन्तो व्याचक्षते – ‘यस्यामवस्थायां द्वैतं ब्रह्मात्मकं स्वतन्त्रमिव भाति, तदानीं स्वतन्त्र इतरः स्वतन्त्रवस्तुदर्शनसाधनेन चक्षुरादिना स्वतन्त्रवस्त्वन्तरमनुभवति। यदा तु सर्वं ब्रह्मात्मकं प्रकाशते , तदा कश्चेतनः केन करणेन कं स्वतन्त्रमर्थमनुभवेत्’ इत्यर्थः। मुक्तः सर्वं ब्रह्मात्मकत्वेनानुभवतीति मुक्तिदशायामब्रह्मात्मकत्वेन भासमानं वस्तु तद्दर्शनसाधनं तद्द्रष्टा च नास्तीति तात्पर्यम् – इति। तेषां व्याख्यानमेतावदध्याहारक्लेश एव निराकुर्यात्। अपि च षष्ठे जनकयाज्ञवल्क्यसंवादे स्वप्नावस्थायां जीवस्य स्वयंज्योतिष्ट्वे सुषुप्त्यवस्थायां तस्य बाह्यान्तरवेदनराहित्ये चोक्ते कथं ज्योतिःस्वरूपस्य वेदनराहित्यमिति शङ्कायां विषयाभावान्न तु द्रष्टृस्वरूपाया दृष्टेर्विपरिलोपादित्येतत्प्रतिपादनार्थं प्रवृत्तेषु ‘यदद्वैतं न पश्यति पश्यन्वैतं न पश्यति। न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते अविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्’(बृ.उ.४-३-२३) इत्यादिवाक्येषु श्रुतं द्वैतं तावत्स्वातन्त्र्येण विशेषयितुं न शक्यते ; सुषुप्तौ स्वतन्त्रस्येव परतन्त्रस्यापि द्वैतस्य प्रतीत्यभावात्। ततश्च तेषु श्रुतं द्वितीयमपि तेन विशेषयितुं न शक्यते ; द्वैतमात्रप्रतीत्यभावस्य द्वैतविशेषाभावेनोपपादयितुमशक्यत्वात्। एवं च तदनन्तरश्रुतेः ‘यत्र वान्यदिव स्यात्तत्रान्योऽन्यत्पश्येदन्योऽन्यज्जिघ्रेदन्योऽन्यद्रसयेदन्योन्यद्वदेदन्योऽन्यच्छृणुयादन्योऽन्यन्मन्वीतान्योऽन्यत्स्पृशेदन्योऽन्यद्विजानीयात्’ इति वाक्ये अन्यदपि स्वातन्त्र्येण विशेषयितुं न शक्यते ; सुषुप्तौ यस्य विषयस्य व्यतिरेकात्प्रतीत्यभाव उक्तस्तस्यैव स्वप्नजागारयोरन्वयात्प्रतीतेर्वक्तुमुपक्रान्तत्वात् ।

ननु स्वप्नजागरयोस्सुषुप्तौ च विषयप्रतीतितदभावौ करणव्यापारसत्त्वासत्त्वाभ्यां सूपपादौ , किमर्थं विषयसत्त्वासत्त्वप्रदर्शनमिति चेत् , श्रुतिमुपालभस्व , या सुषुप्तौ करणव्यापाराणामिव दृश्यावघ्रेयरसनीयश्रोतव्यमन्तव्यस्प्रष्टव्यज्ञातव्यविषयाणामप्यभावं मन्यमाना विषयाभावेनाप्युपपादयितुं शक्यस्तत्प्रतीत्यभाव इत्यभिप्रेत्य ‘यद्वै तन्न पश्यति’ इत्यादिष्वष्टस्वपि वाक्येषु द्रष्टुरन्यत्वेन विभक्तं यद्द्रष्टोपलभेत तथाभूतं तस्य द्वितीयमेव नास्तीत्युद्घुष्यति। ततश्च सुषुप्त्यवस्थाविषयेषूदाहृतवाक्येषु स्वातन्त्र्यविशेषणाभावे व्यवस्थिते मुक्त्यवस्थाविषयेष्वपि वाक्येषु तद्विशेषणं विवक्षितुमयुक्तम् ; उभयेषामपि वाक्यानामेकप्रकारेण प्रवृत्तत्वात्। किञ्च तद्विशेषणविवक्षायामपि नार्थसङ्गतिर्लभ्यते ; मुक्तिदशायामपि ब्रह्मण एवाब्रह्मात्मकस्य तद्दर्शनस्य च सत्त्वेन तयोर्निषेधायोग्यत्वात्। तस्मात् ‘यत्र हि द्वैतम्’ इत्यादिवाक्यानां सर्वात्मना द्वैतनिषेध एव तात्पर्यमिति युक्तम् ।

ननु नैतद्युक्तम् ; श्रुतिविहितस्य द्वैतस्य स्वरूपेण निषेधायोगादिति चेत् ; न। द्वैतस्य श्रुतिविहितत्वासिद्धेः , केवलं प्रत्यक्षादिना सिद्धस्य तत्र तत्र प्रयोजनान्तरोद्देशेन श्रुत्याऽनूद्यमानत्वात् ।

तस्मात् ‘यत्र हि द्वैतम्’ इत्यादिवाक्यविरोधाज्जीवस्य परमात्मना न युक्तो भेदाभेदः। किञ्चायं भेदाभेदो मुक्तिदशायामपीष्यते ; उत तदानीं केवलाभेदः ? आद्ये ‘यत्र त्वस्य सर्वमात्मैवाभूत्’(बृ.उ.४-५-१५) इत्यवधारणेन ‘ब्रह्म वेद ब्रह्मैव भवति’(मु.उ.२-२-९) इति सावधारणश्रुत्यन्तरेण च विरोधः। द्वितीये स्वविरोध्यभेदज्ञाननिवर्त्यस्य; स्वाश्रयगताभेदकालरूपमुक्तिकालानुवृत्तात्यन्ताभावप्रतियोगिनश्च संसारदशायां प्रतीतस्य भेदस्य मिथ्यात्वमेवापततीत्येषा दिक् ।

एवं संसारदशायां जीवपरयोः केवलं भेदः , मुक्तौ केवलमभेद इति पक्षोऽप्ययुक्तः ; पतिजायादिप्रियसंसूचितस्य जीवात्मन एव द्रष्टव्यत्वोक्तिपूर्वकं तद्विज्ञानेन सर्वविज्ञानस्य सर्वकारणत्वस्य च ब्रह्मलिङ्गस्य वर्णनेन संसारदशायामप्यभेदप्रतीतेः। भविष्यन्तमभेदमपेक्ष्य भेदकालेऽप्यभेदव्यपदेश इति तु न युक्तम् ; ‘तत्त्वमसि’(छा.उ.६-१४-३) ‘अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद यथापशुरेवं स देवानाम्’(बृ.उ.१-४-१०) ‘त्वं स्त्री त्वं पुमानसि’(श्वे ४-३) इत्यादिश्रुत्यन्तरानुसारेणास्या अपि श्रुतेः संसारदशासाधारणाभेदविषयत्वौचित्यात्। किञ्च मुक्तौ भेदस्य निवृत्तिः किं जीवब्रह्माभेदज्ञानेनेष्यते, उत जीवज्ञानेन , अथवा ब्रह्मज्ञानेन ? आद्ये प्रागपि सत्त्वमभेदस्याकामेनापि स्वीकरणीयम् ; भविष्यदभेदस्यापरोक्षज्ञानविषयत्वायोगात्। ततश्च पूर्वोक्तप्रकारेण मिथ्यात्वमप्यङ्गीकरणीयम्। द्वितीये किं कर्तृत्वादिविशिष्टजीवज्ञानाद्भेदनिवृत्तिः , उत अकर्त्रभोक्तृजीवज्ञानात् ? आद्ये सांसारिकादहंप्रत्ययादपि भेदनिवृत्तिप्रसङ्गः। द्वितीये कर्तृत्वादिराहित्यस्य प्रागपि सत्त्वमङ्गीकरणीयमिति कर्तृत्वादेर्भेदकस्य, तत्प्रयुक्तभेदस्य च मिथ्यात्वमेव पर्यवस्यति। तृतीये पतिजायादिप्रियसंसूचितस्य जीवस्य द्रष्टव्यत्वोक्तिविरोधः। एवमन्यदपि सार्वदिकभेदाभेदपक्षे कालभेदव्यवस्थितभेदाभेदपक्षे च दूषणं द्वितीयाध्याये प्रपञ्चयिष्यते। नदीसमुद्रयोरपि पूर्वं भिन्नयोः पश्चादभेदो नास्तीति दर्शयिष्यते। तस्मात् काशकृत्स्नीयस्सार्वदिकात्यन्ताभेदपक्ष एव सकलश्रुतिस्मृतिन्यायानुगुण्यात् सूत्रकारस्याभिमतः ।

न चात्यन्ताभेदपक्षे भेदापेक्ष उद्देश्यविधेयभावो न स्यादिति वाच्यम्। भेदो हि न वाक्यार्थतयाऽपेक्ष्यते , नापि वाक्यार्थज्ञानकारणतया, किन्तु यस्य वाक्यस्यार्थः संसर्गो भेदनियतस्तत्र तद्व्यापकतया परमवतिष्ठते। यत्र तु प्रमेयत्वे प्रमेयत्वं , प्रमेयत्वं प्रमेयत्ववदिति प्रमेयत्वस्य स्वेन सहाभेदेऽप्याधाराधेयभावो विशेषणविशेष्यभावो वा संसर्गो वाक्यार्थः , न तत्र कथञ्चिदपि भेदापेक्षा। एवञ्च तत्त्वमस्यादिवाक्येषु जीवब्रह्मणोरभेद एव वाक्यार्थः , न तु ‘दण्डी देवदत्तः’ इत्यादाविव पदार्थद्वयसंसर्गः, एकपदार्थविशिष्टोऽपरपदार्थो वा वाक्यार्थः , ‘तत्त्वंपदार्थौ निर्णीतौ वाक्यार्थश्चिन्त्यतेऽधुना। तादात्म्यमत्र वाक्यार्थस्तयोरेव पदार्थयोः। संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र सम्मतः’ इत्याचार्यवचनादित्यत्र को भेदापेक्षाशङ्काऽवकाशः। यदि तु अपर्यायशब्दानामेकप्रातिपदिकार्थनिष्ठत्वं वेदान्तानामखण्डार्थत्वमिति लक्षणानुसारेण जीवब्रह्मणोर्नोद्देश्यविधेयभावः ; किन्तु प्रातिपदिकार्थस्वरूपमात्रं महावाक्यानामर्थ इतीष्यते, तदा सुतरां न भेदापेक्षाशङ्काऽवकाशः ।

केचित्तु ‘अवस्थितेरिति काशकृत्स्नः’(ब्र.सू.१-४-२२) इति सूत्रस्थस्यावस्थितेरिति पदस्य ‘य आत्मनि तिष्ठन्’ इत्यादिश्रुत्युक्तायां जीवात्मनि परमात्मनः स्थितौ स्वारस्यं मन्यमानाः परिदृश्यमाने शरीरे जीवात्मन इव जीवात्मनि परमात्मन आत्मतयाऽवस्थितेः जीवशब्देन परमात्माभिधानमुपपन्नमिति सूत्रार्थं वर्णयन्ति। अत्र विपरीतमपि वक्तुं शक्यम् – अस्मिन्नर्थे ‘अवस्थितेः’ इति पदस्य स्वारस्यं नास्तीति। तदा हि ‘स्थितेः’ इत्येव सूत्रणीयं ‘य आत्मनि तिष्ठन्’ इति मूलश्रुत्यनुरोधाल्लाघवाच्च ‘स्थानादिव्यपदेशात्’ इति अवोपसर्गाभावाच्च। तस्मादिहावोपसर्गसत्त्वात्ततोन्य एव कश्चिदर्थो विवक्षितः परमात्मन एव जीवात्मभावेनावस्थानादित्येवंरूपः ‘सर्वं तं परादात्’ ‘इदं सर्वं यदयमात्मा’ ‘यत्र हि द्वैतमिव भवति’ ‘यत्र त्वस्य सर्वमात्मैवाभूत्’ इति स्वप्रकरण एव भेददर्शननिन्दाद्युपलम्भादिति अयमेव पारमार्थिकोऽस्य सूत्रस्यार्थः ।

यदि ह्यस्मिन् प्रकरणे श्रूयमाणान्युदाहृतानि वाक्यान्यद्वैतप्रवणानन्यांश्च श्रुतिस्मृतिप्रवादानविगणय्य जीवपरयोर्भेद एव पक्षपाती सूत्रकारोऽभविष्यत्तदा अस्मिन्प्रकरणे जीवशब्दैर्ब्रह्माभिधानं सिद्धं कृत्वा तदुपपादनार्थमित्थं यत्नं नाकरिष्यत्। शक्यते हि तयोर्भेदस्याभिमतत्वे तैर्जीवाभिधानमङ्गीकृत्य प्रकरणं सङ्गमयितुम्। तथा हि – यस्मात्पतिजायादयः पतिजायादिप्रयोजनाय प्रिया न भवन्ति , किन्तु स्वप्रयोजनायैव तस्माद्यस्य स्वप्रयोजनस्य पतिजायादिविषयो रागः प्रतिकूलस्तस्यामृतस्य सिद्ध्यर्थं पतिजायादिभ्यो विरज्य परमात्मैव द्रष्टव्य इत्युपक्रमस्तावत्सङ्गमयितुं शक्यः। अस्मिन्पक्षे द्रष्टव्यवाक्यगतात्मशब्दस्य प्रकृतात्मपरत्वं नास्तीति तत्स्वरसहानिमात्रमस्ति। तत्तु जीवब्रह्मणोर्भेदे निश्चिते पतिजायादिवाक्यस्य लिङ्गाज्जीवपरत्वे द्रष्टव्यवाक्यस्य ‘नान्यः पंथाः’ इति श्रुतेः परमात्मपरत्वे चावश्यवक्तव्ये सति ‘स्याच्चैकस्य ब्रह्मशब्दवत्’ इति न्यायेनापि तत्सोढव्यमिति वक्तुं शक्यम्। एतावदद्वैतश्रुतिस्मृतिजालमहाप्रासादनिगरणप्रवृत्तस्य किमेकात्मशब्दस्वरसनिगरणमशक्यम् ।

एवं मध्ये सैन्धवघनदृष्टान्तमारभ्य जीवोत्पत्तिविनाशवचनं तद्विनाशवचनाभिप्रायवर्णनञ्च परमात्मप्रमित्यर्थतया सङ्गमयितुं शक्यम्। तत्र ‘अयमात्मा’ इति शब्दस्य ‘इदं महद्भूतम्’ इति इदंशब्दस्य च व्यवहितप्रकृतजीवपरामर्शित्वं ‘महद्भूतम्’ इत्यादेश्च मुक्तिभाक्त्वेन जीवस्य पारमार्थिकत्वात् ‘नित्यस्सर्वगतस्स्थाणुः’ इति श्रवणाच्च तद्विषयत्वं वक्तुं शक्यम्। एवं जीवे, परमात्मनि च प्राक् प्रस्तुतेऽङ्गीकृते ‘येनेदं सर्वं विजानाति तं केन विजानीयात्’ इत्युपसंहारवाक्यं ‘येन’ इति तृतीयान्तस्य परामर्शनीयं परमात्मानं विजानातेः कर्तारं जीवञ्चासाद्य समञ्जसं भवति। जीवस्य ब्रह्माभेदेन प्रस्तुतत्वाङ्गीकारे तु ‘येन’ इति तृतीया प्रथमार्थे योजनीयेति क्लेशस्स्यात्। ‘ग्राहकादिजगत्सर्वं येन कूटस्थसाक्षिणा। लोकस्सर्वो विजानाति जानीयात् केन तं वद’ इति वार्तिकोक्तप्रकारेण वा ब्रह्माभिन्नतया प्रस्तुत एव जीवो निष्कृष्य साक्षिरूपतया ‘येन’ इति परामृश्यते। अन्तःकरणादिविशिष्टरूपेण तु विजानतेः कर्ता भवतीति क्लेशेन योजनीयम्। ‘विज्ञातारम्’ इत्येतत्तु परमात्मन्यपि योजयितुं शक्यम् ; बहुप्रयोगदर्सनात्। एवमादौ मध्ये च जीवरामर्शस्य जीवविषयत्वमङ्गीकृत्यैव भेदपक्षे तदुपपादनस्य कर्तुं शक्यत्वेऽपि तस्य ब्रह्मविषयत्वं सिद्धं कृत्वा यत्तदुपपादनाय यत्नमस्थितवान् सूत्रकारः तेन ज्ञायते जीवपरयोरभेद एवास्य सिद्धान्तः। ‘येनेदं सर्वं विजानाति’ इत्यस्य योजनाक्लेशोऽपि अद्वैतप्रस्तावानुरोधार्थत्वान्न दोषायेत्याशय इति ।

ननु मोक्षधर्मे जनकयाज्ञवल्क्यसंवादे ‘पश्यन्तथैवापश्यञ्च पश्यत्यन्यस्तथाऽनघ। षड्विंशः पञ्चविंशञ्च चतुर्विशञ्च पश्यति’ इति चतुर्विंशपञ्चविंशतत्त्वरूपयोर्जडचेतनतया परस्परविलक्षणयोः प्रकृतिपुरुषयोर्द्रष्टारं परमात्मानमुपक्रम्य ‘यदा तु मन्यतेऽन्योऽहमन्य एष इति द्विज। तदा स केवलीभूतष्षड्विंशमनुपश्यति’ इति प्रकृतिपुरुषविवेकज्ञानानन्तरं जीवविलक्षणपरमात्मज्ञानमुक्त्वा ‘अन्यश्च राजन् स परस्तथाऽन्यः पञ्चविंशकः। तत्स्थत्वादनुपश्यन्ति एक एवेति साधवः’ इति परमात्मनो जीवस्थत्वनिबन्धन ऐक्यव्यवहार इति प्रदर्श्य ‘तेनैतं नाभिजानन्ति पञ्चविंशकमच्युतम्’ इति जीवस्थत्वादेव हेतोर्जीवस्य परमात्मनश्चाच्युतशब्दवाच्यस्य स्वरूपैक्यं साधवो न पश्यन्तीत्युपन्यस्य ‘जन्ममृत्युभयाद्भीतास्साङ्ख्या योगाश्च काश्यप। षड्विंशमनुपश्यन्ति शुचयस्तत्परायणाः। यदा सार्वार्थसिद्धत्वान्न पुनर्जन्म विन्दति’ इति प्राज्ञानां पञ्चविंशविलक्षणषड्विंशदर्शनं तद्वतस्ततोऽपवर्गञ्चोपदिश्य ‘एवमप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ। अर्थश्चोक्तो यथातत्त्वं यथाश्रुतिनिदर्शनात्’ इति प्रकृतिपुरुषपरमात्मानः परस्परवैलक्षण्येन निरूपिता इत्युपसंहृतम्। एवं सूत्रकारेणैव प्रबन्धान्तरे तत्स्थत्वनिबन्धन एकत्वव्यवहार इति समर्थिते कथमवस्थितेरिति सूत्रस्य स एवार्थो न स्यात्। कथञ्चास्य सूर्यप्रसादादवाप्तयजुर्वेदेन शतपथब्राह्मणप्रवर्तकेनात्रापि जनकयाज्ञवल्क्यसंवादे ‘यथार्षेणेह विधिना चरतावमतेन ह। मयाऽऽदित्यादवाप्तानि यजूंषि मिथिलाऽधिप। कर्तुं शतपथं वेदमपूर्वं काङ्क्षितञ्च मे’ इत्यादिवचनैस्स्वयमेव तमर्थं वर्णितवता च याज्ञवल्क्येन प्रतिपाद्यमानः ‘तत्स्थत्वादनुपश्यन्ति’ इत्ययमर्थः शतपथान्तर्गतस्य याज्ञवल्क्यवक्तृकस्य च मैत्रेयीब्राह्मणस्य तात्पर्यगोचरो न स्यादिति चेत् -

उच्यते – जनकयाज्ञवल्क्यसंवादोऽयं प्रकृतिविविक्तजीवयाथात्म्यनिरूपणे पर्यवसितः , न तु तदुभयातिरिक्तपरमात्मस्वरूपनिरूपणेऽपि तात्पर्यवान्। तथा हि – उपक्रमे तावत् ‘किमव्यक्तं परं ब्रह्म तस्मात्तु परतस्तु किम्’ इत्यव्यक्तशब्दिताया ‘मम योनिर्महद्ब्रह्म’ इति प्रसिद्धायाश्चतुर्विंशतत्त्वरूपायाः प्रकृतेस्ततः परस्य पञ्चविंशतत्त्वरूपस्य च प्रश्नवत्ततः परमात्मनः प्रश्नो न दृश्यते। उत्तरवाक्यसन्दर्भे च प्रकृतिकार्यदेहद्वयतादात्म्याध्यासेन तत्सम्पिण्डितरूपस्य पुरुषस्यैव ‘अन्यस्स पुरुषोऽव्यक्तादध्रुवाद्ध्रुवसंज्ञकः। यथा मुञ्ज इषीकायास्तथैवैतद्विजायते’ इति मुञ्जेषीकान्यायेन तद्विविक्ततया ग्राह्यत्वमुपदिश्यते। तदनन्तरं च ‘अन्यं तु मशकं विद्यादन्यं चोदुम्बरं तथा। न चोदुम्बरसंयोगे मशकस्तत्र लिप्यते’ इत्यादिना उदुम्बरजलोखासलिलानां दोषसंयोगेन तेषु स्थितानां मशकमत्स्यानलकमलानामिव जीवोपाधेर्देहद्वयस्य दोषसंयोगेन तत्स्थस्य पुरुषस्य लेपाभावः प्रतिपाद्यते। पुनश्च ‘अव्यक्तस्थं परं ब्रह्म यत्तत्पृष्टस्तेऽहं (यत्पृष्टोऽहं) नराधिप। परं गुह्यमिमं प्रश्नं श्रुणुष्वावहितो नृप’ इत्युपक्रम्य तत्र च गन्धर्वराजस्य विश्वावसोर्याज्ञवल्क्यस्य चास्मिन् विषये प्राक् प्रवृत्तां प्रश्नोत्तरपरम्परामुपक्षिप्य तन्मध्ये प्रकृतिपुरुषयोर्विश्वाविश्वज्ञाज्ञविद्याऽविद्यादिरूपेण बहुशो वैलक्षण्यं प्रतिपाद्य ‘द्रष्टव्यौ नित्यमेवैतौ तत्परेणान्तरात्मना। अथास्य जन्मनिधने न भवेतां पुनः पुनः’ इति तयोः परस्परविलक्षणतया दर्शनं मुक्तिफलकं विधाय कथं तद्दर्शनं मुक्तिफलकं ‘ब्रह्म वेद ब्रह्मैव भवति’ इत्यादिना श्रुतिषु ब्रह्मसाक्षात्कारस्य मुक्तिफलकत्वप्रसिद्धेरित्याकांक्षायां ‘यदा तु पश्यतेऽन्यं तमहन्यहनि केवलम्। तदा स केवलीभूतं षड्विंशमनुपश्यति’ इति श्लोकेन प्रकृतिविविक्तमत एव तद्धर्मकर्तृत्वादिरहिततया केवलं जीवं दिने दिनेऽनुसन्दधानस्तमेव केवलीभूतं षड्विंशं परं ब्रह्म पश्यति , न तु तद्व्यतिरिक्तब्रह्मसाक्षात्कारापेक्षाऽस्तीत्युपदिश्य कथं जीवः कर्तृत्वादिरहितः केवलः ; तस्य स्वाभाविककर्तृत्वादिमत्तया तान्त्रिकैरपि कैश्चिदङ्गीकृतत्वात् इत्याशङ्कानिरासार्थम् ‘अन्यच्च शश्वदव्यक्तं तथाऽन्यः पञ्चविंशकः। तत्स्थं समनुपश्यन्ति तमेक इति साधवः’ इति श्लोकेन वस्तुतः कर्तृत्वादिमदन्तःकरणरूपापन्नादव्यक्तादन्य एव जीवः, स तु तत्स्थत्वोपाधिना जपाकुसुमसन्निधानोपाधिना स्फटिको लोहितात्मनेव कर्त्रात्मना लोके भासत इति तमेव लोकानुभवं श्रद्धधानाः केचन साधवो लोकानुभवप्रवणबुद्धयस्तं जीवं कर्तृत्वादिमदव्यक्ताभिन्नं पश्यन्तीत्युक्त्वा ‘तेनैतन्नाभिजानन्ति पञ्चविंशकमच्युतम्। जन्ममृत्युभयाद्योगास्साङ्ख्याश्च परमर्षयः’ इति श्लोकेन साङ्ख्या योगाश्च परमर्षयस्त्वव्यक्तपुरुषयोः परस्परभिन्नत्वहेतुना पञ्चविंशं पुरुषमच्युतं वस्तुतः परमात्मभूतमेतं नाभिजानन्ति , कर्तृत्वादिमदव्यक्तात्मना न पश्यन्तीत्युपदिश्यते। ततश्च कथं जीवस्य लोकानुभवसिद्धकर्तृत्वादिराहित्यं कथञ्च तदसिद्धपरमात्मरूपत्वमित्यभिप्रायवता विश्वावसुना ‘पञ्चविंशे यदेतच्च प्रोक्तं ब्राह्मणसत्तम। तदहं न तथा वेद्मि तद्भवान्वक्तुमर्हति’ इत्यारभ्य पञ्चविंशस्यैव स्वरूपे पृष्टे सति तत्रोत्तरं याज्ञवल्क्येन ‘पश्यं तथैवापश्यञ्च’ इत्यारभ्योपदिष्टम्। तत्कथं पञ्चविंशविलक्षणपरमात्मप्रतिपादनपरं स्यात् ? तस्मात् प्रकृतिं तदुपहितं पुरुषञ्च निष्कृष्टसाक्षिरूपतया ततोऽन्यो वस्तुतस्तत्स्वरूपभूत एव षड्विंशः पश्यतीत्यर्थो ग्राह्यः ।

पुनश्च जीवस्य कर्तृत्वादिमत्त्वभ्रान्तिवारणायैव ‘पञ्चविंशोऽभिमन्येत नान्योऽस्ति परमो मम। न चतुर्विंशको ग्राह्यो मनुजैर्ज्ञानदर्शिभिः’ इति श्लोकेनाध्यासिकं कर्तृत्वादिमच्चतुर्विंशतादात्म्यं स्वस्य स्वाभाविकं मन्यमानस्सन् मम परमः कर्तृत्वादिसकलसांसारिकधर्मनिर्वाहकतयोत्कृष्टो मदन्यो नास्तीत्यभिमन्यते पञ्चविंशः ; वस्तुतो न तथा ; ज्ञानदर्शिभिर्मनुजैस्तु स्वात्मा चतुर्विंशैक्येन न ग्राह्य इत्युक्त्वा ‘स निमज्जति कालास्ये यदेकत्वेन बुध्यते। उन्मज्जति च कालास्यान्ममत्वेनाभिसंवृतः’ इति श्लोकेन चतुर्विंशे स्वात्मैकत्वबुद्धेः संसारदोषावहत्वं तत्र स्वव्यतिरिक्ततया स्वात्मीयत्वबुद्धेर्मुक्तिहेतुत्वञ्चोपदिश्य तदनन्तरं पठितो ‘यदा तु मन्यतेऽन्योऽहम्’ इति श्लोकः प्राक् पठितेन ‘यदा तु मन्यतेऽन्योऽहम्’ इति श्लोकेन समानार्थो ग्राह्यः। ‘अन्यच्च राजन् स परः’ इति श्लोकस्तु ‘अन्यच्च शश्वदव्यक्तम्’ इति श्लोकेन समानार्थः। तत्र परशब्दः परमात्मपर इति न भ्रमितव्यं ‘महतः परमव्यक्तम्’ इति श्रुत्यन्तरे जीवात्परत्वेनाव्यक्तस्य प्रतिपादनात् , इहापि ‘नान्योऽस्ति परमो मम’ इति परमशब्दस्याव्यक्ते प्रयोगाच्च। ‘तेनैतं नाभिजानन्ति’ इति श्लोकोऽपि तेनैव प्राक् पठितेन समानार्थः। ‘एवमप्रतिबुद्धश्च’ इत्युपसंहारश्लोके बुध्यमानश्चतुर्विंशैक्याभिमानी संसारे निमग्नः ; बुद्धः चतुर्विंशातिरिक्तं परमात्मस्वरूपं पञ्चविंशमवगच्छन् संसारादुन्मग्नः ; ‘निस्सन्दिग्धं प्रबुद्धस्त्वं बुद्ध्यमानश्चराचर’ इति पूर्वं याज्ञवल्क्यं प्रति विश्वावसुवचनदर्शनात्। तस्मात् ‘अन्यश्च स परो राजन्’ इति श्लोकस्य पूर्वापरपरामर्शविकलैरुत्प्रेक्षितोऽर्थोऽग्राह्य इत्यवस्थितिसूत्रस्य जनकयाज्ञवल्क्यसंवादस्वारस्यादपि यथोक्त एवार्थः। तदेवं मैत्रेयीब्राह्मणस्य जीवपरामर्शिनोपि ब्रह्मपर्यवसन्नत्वान्नास्ति प्रतिज्ञातसमन्वयविरोध इति सिद्धम् ॥१-४-२२॥

इति वाक्यान्वयाधिकरणम् ॥६॥

प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥२३॥

जन्मादिसूत्रे जगन्निमित्तोपादानरूपोभयविधकारणत्वं लक्षणत्वेनोक्त्वा तदुपलक्षिते निष्प्रपञ्चे ब्रह्मणि वेदान्तानां समन्वयः प्रसाधितः। इदानीं ब्रह्मणो निमित्तत्वमेव न तु उपादानत्वम्। उपादानं तु जगतः साङ्ख्याभिमतं प्रधानमभ्युपगन्तव्यम्। ततश्च नोक्तरूपं ब्रह्मणो लक्षणं युक्तं , न वा तदुपलक्षिते निष्प्रपञ्चे ब्रह्मणि वेदान्तानां समन्वयो युक्तः इत्याक्षिप्य समाधीयते ।

तथा हि – ईक्षापूर्वकस्रष्टृत्वश्रवणात् निमित्तत्वं तावदभ्युपगन्तव्यम्। लोके घटपटादिषु निमित्तानां कुलालकुविन्दादीनां तदुपादानत्वं न दृष्टम् , क्वचिदपि चेतनानां द्रव्योपादानत्वं न दृष्टम् , तद्वदिहापि भवितुमर्हति ।

ननु कुलालादीनां घटाद्युपादानत्वग्राहकप्रमाणाभावात् तत्र तथा भवतु नाम। इह तु जगन्निमित्तस्यैव सतः परब्रह्मणस्तदुपादानत्वमप्यावेदयन्ति सर्वविज्ञानप्रतिज्ञादयः। तथा हि – छान्दोग्ये तावत् ‘स्तब्धोऽस्युत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’(छा.उ.६-१-१) इत्येकेन ब्रह्मणा विज्ञातेन सर्वमन्यदविज्ञातमपि विज्ञातं भवतीति प्रतिज्ञायते। ‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्। यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं लोहमित्येव सत्यम्। यथा सोम्यैकेन नखकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात्’(छा.उ.६-१-४) इति तत्र दृष्टान्ता अप्युपादीयन्ते ।

एवं बृहदारण्यकेऽपि ‘आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितम्’(बृ.उ.४-५-६) इति सर्वविज्ञानप्रतिज्ञा ‘स यथा दुन्दुभेर्हन्यमानस्य’(बृ.उ.४-५-८) इत्यादिदृष्टान्तवर्णनं च दृश्यते। मुण्डकेऽपि ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’(मु.उ.१-१-३) इति तत्प्रतिज्ञा ‘यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति। यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् सम्भवतीह विश्वम्’(मु.उ.१-१-७) इति दृष्टान्तोपन्यासश्च दृश्यते। तथा ‘तदैक्षत बहु स्यां प्रजायेय’ इति ईक्षितुरेव बहुभवनाभिधानात्। ‘सर्वाणि ह वा इमानि भूतानि आकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति’(छा.उ.१-९-१) इत्युत्पादकस्य सतः प्रलयाधारत्वस्यापि प्रतिपादनात् ‘तदात्मानं स्वयमकुरुत’(तै.उ.२-७) इति कर्तुः सतः कर्मत्वस्यापि वर्णनात् ‘सच्च त्यच्चाभवत्’ इति ब्रह्मण एव विकारात्मना परिणामोपदेशात् ‘यद्भूतयोनिं परिपश्यन्ति धीराः’(मु.उ.१-१-६) इति ब्रह्मणि उपादानवाचकयोनिशब्दश्रवणाच्च ब्रह्म उपादानमित्यवसीयते। एवं सत्यपि निमित्तस्यैव उपादानत्वग्राहकप्रमाणे , लोके तन्न दृष्टमिति निमित्तोपादानयोर्भेद एव दृष्टः इति च तत्परित्यागे , लोके कतिपयकार्यकर्तुः कार्यान्तराकर्तृत्वदर्शनात् ‘इदं सर्वमसृजत’ इत्यादिश्रुतिप्रतिपन्नं ब्रह्मणः सर्वकर्तृत्वमपि परित्यज्येत। ततः श्रुतिप्रतिपन्नत्वाविशेषात् अलोकदृष्टं सर्वकर्तृत्वमिव ब्रह्मणः सर्वोपादानत्वमपि अङ्गीकरणीयम् – इति चेत् –

उच्यते – छान्दोग्ये तावत् सर्वविज्ञानप्रतिज्ञा सह दृष्टान्तवचनैर्गौणी। ब्रह्मज्ञानेन वियदादेः सर्वस्य मृत्पिण्डलोहमणिनखनिकृन्तनज्ञानैर्घटशरावकटकमकुटखनित्रकुद्दालादीनां च तज्ज्ञानानन्तरमपि संशयविषयत्वेनानुभूयमानानां मुख्यवृत्त्या ज्ञातत्वासम्भवात्। प्रतिज्ञावाक्ये ‘अश्रुतममतमविज्ञातम्’ इति ब्रह्मश्रवणादिषु सत्स्वपि अश्रुतत्वाद्युपन्यासेन दृष्टान्तवाक्येषु घटकटककुद्दालादिवत् मृल्लोहायःकार्यविशेषतया घटाद्यनुपादानानां मृत्पिण्डलोहमणिनखनिकृन्तनानां ज्ञानेन घटादीनां ज्ञातत्वोपन्यासेन च तदमुख्यत्वस्य श्रुत्यैव स्फुटीकरणाच्च। तस्मात् अन्यविषयज्ञानैर्यत् फलं प्राप्तव्यं तत् सर्वं निरतिशयानन्दरूपब्रह्मज्ञानेन प्राप्यते इति फलतस्तज्ज्ञानेन अज्ञातान्यपि ज्ञातानि भवन्तीति गौणं तेषां ज्ञातत्वं प्रतिज्ञायते ; यथा ‘अस्य ग्रामस्य प्रधानभूते चैत्रे दृष्टे सर्वेऽपि दृष्टा भवन्ति’ इति अदृष्टानामेव फलतो दृष्टत्वं व्यवह्रियते। दृष्टान्तवचनैश्च मृल्लोहादिज्ञानैरज्ञाता अपि घटादयो मृद्रूपत्वादिसादृश्येन ज्ञातप्रायाः इति गौणमेव ज्ञातत्वं दृष्टान्ततया उपन्यस्यते। यथा ‘एतेन गवादयोऽपि व्याख्याताः’ इति ज्योतिष्टोमव्याख्यानेन अव्याख्यातानामपि गवादीनां तद्विकृतितया तत्सदृशानां व्याख्यातत्वं व्यवह्रियते। एतेन – मुण्डकबृहदारण्यकयोरपि सर्वविज्ञानप्रतिज्ञा – व्याख्याता। दुन्दुभ्यूर्णनाभिदृष्टान्ता न सर्वविज्ञानोपपादकाः ; एकेन दुन्दुभिशब्दसामान्यज्ञानादिना यावत्तद्विशेषादीनामगृह्यमाणत्वात्। नापि निमित्तोपादानैक्योपपादकाः ; शब्दसामान्यस्य शब्दविशेषान् प्रत्यनुपादानत्वादनिमित्तत्वाच्च। ऊर्णनाभिदेहः तन्तुषूपादानं जीवो निमित्त इति तत्र निमित्तोपादानभेदात्। केशलोमस्वपि जडोपादानकेषु चेतनस्य निमित्तमात्रत्वात्, पृथिव्याश्चौषधीः प्रति निमित्तोपादानभावाभावात्। बहुभवनसङ्कल्पोऽपि न निमित्तोपादानैक्ये प्रमाणम्। तेजःप्रभृतीनां नियामकरूपे ‘बहु स्याम्’ इति सङ्कल्प्य नियामकबहुभावस्य नियम्यबहुभावसापेक्षत्वेन तदर्थं नियम्यतेजःप्रभृतिसृष्टेरुपपत्तेः ।

एतेन – ‘तदात्मानं स्वयमकुरुत’ इत्यपि व्याख्यातम् ; ‘तदात्मानं सृजाम्यहम्’ इत्यादिवदुपपत्तेः। न ह्यत्र आत्मानं वियदादिरूपेण अकुरुत इति श्रूयते। लयाधारत्वमनुपादानेऽपि सम्भवति। ‘भूतले घटो ध्वस्तः’ इत्यादिव्यवहारात्। ‘यथोर्णनाभिः सृजते गृह्णते च’ इति सृष्टिनिमित्ते तन्तुलयप्रतिपादनाच्च। ‘तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्च त्यच्चाभवत्’ इति जगत्सृष्टितदनुप्रवेशानन्तरभावितया श्रूयमाणं सदादिभवनं ब्रह्मणो विकारात्मना परिणाम इति वक्तुमयुक्तम् ; तस्य जगदुत्पत्तिरूपत्वेन जगत्सृष्ट्याद्यनन्तरभावित्वानुपपत्तेः। योनिशब्दस्तु नोपादाने नियतः। ‘योनिष्ट इंद्र निषदे अकारि’ इति स्थानेऽपि तत्प्रयोगदर्शनात्। योनिः स्थानं ते निषदे तवोपवेशाय अकारि इति हि मन्त्रस्यार्थः। स्थानवचनश्च योनिशब्दो ब्रह्मण्युपपन्नः ; तस्य अनुपादनत्वेऽपि सर्वभूताधारत्वात्। एतेन ‘सर्वं खल्विदं ब्रह्म’ ‘इदं सर्वं यदयमात्मा’ इत्यादिश्रुतयोऽपि – व्याख्याताः। सार्वात्म्यश्रुतीनां ‘सर्वं समाप्नोषि ततोऽसि सर्वः’ इति तद्व्याख्यानरूपस्मृत्यनुसारेण सर्वाधारतया सर्वानुस्यूते ब्रह्मणि तात्पर्यात्। अत एव ‘इदं सर्वं यदयमात्मा’ इत्यतः प्राचीने सर्वं तं परादात् योऽन्यत्रात्मनस्सर्वं वेद’ इति त्रल्प्रत्ययस्सप्तम्यर्थ एव ग्राह्यः। दुन्दुभ्यादिदृष्टान्तास्तु यथाकामं योजयितुं शक्याः ; न पूर्वाधिकरणोक्तरीत्या सार्वात्म्योपपादकत्वेन योजनीयाः। यदि सार्वात्म्यं प्राक् प्रास्तोष्यत तदा ते तदुपपादकत्वेनैवायोजयिष्यन्त। न तु सार्वात्म्यं प्रकृतं , किन्तु सर्वाधारत्वमेव इत्युक्तम्। तत्तु ‘आत्मन आकशस्सम्भूतः’ ‘तस्मादेतद्ब्रह्म नाम रूपमन्नञ्च जायते’ इत्यादिश्रुतिगतपञ्चमीबलात् ब्रह्म जगदुपादानं सिद्ध्येदिति ; तन्न। कारणसामान्ये पञ्चमीविधानात्। ननु ‘जनिकर्तुः प्रकृतिः’(पा.सू. १-४-३०) इत्युपादानकारणस्यैवापादानसंज्ञा स्मर्यते, न कारणमात्रस्य। मैवम्। ‘पुत्रात् प्रमोदो जायते’ इत्यपि व्यवहारदर्शनेन सूत्रे प्रकृतिग्रहणस्य कारणसामान्यपरत्वात् ‘प्रकृतिः कारणं हेतुः’ इत्येव वृत्तिकारादिभिर्व्याख्यातत्वाच्च। तस्माल्लोके द्रव्येषु कर्तुरुपादानत्वादृष्टेः तद्भिन्नस्यैव च उपादानत्वदृष्टेः श्रुतिष्वपि ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’(श्वे.उ.४-१०) इत्यादिश्रुतिषु उपादानान्तरप्रतिपादनात् ‘कूटस्थमचलं ध्रुवम्’ इति ब्रह्मणो निर्विकारत्वश्रवणाच्च साङ्ख्याभिमतं प्रधानम् उपादानम्, ब्रह्म तु निमित्तमात्रम् इति युक्तम्। अतो निमित्तोपादानरूपोभयविधजगत्कारणत्वं ब्रह्मणो लक्षणमिति तदुपलक्षिते ब्रह्मण्यद्वितीये वेदान्तानां समन्वयः इति च न युक्तम् इति पूर्वपक्षः ।

सिद्धान्तस्तु – प्रकृतिश्च उपादानकारणञ्च ब्रह्माभ्युपगन्तव्यं , न केवलं निमित्तकारणमेव। कुतः ? प्रतिज्ञादृष्टान्तानुपरोधात्। एवं हि सर्वविज्ञानप्रतिज्ञायाः मृत्पिण्डादिदृष्टान्तस्य च अनुपरोधो भवति। अन्यथा तावुपरुध्येयाताम्। न च तौ गौणाविति वक्तुं युक्तम्। ब्रह्मज्ञानेन प्रपञ्चस्य ज्ञातत्वमनुपपन्नमित्याशयवतः श्वेतकेतोः ‘कथं नु भगवः स आदेशः’ इति प्रश्नेन तदुपपादनार्थं प्रवृत्तेन पितुरुत्तरवाक्येन च प्रतिपिपादयिषितस्य एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानस्य तदुपपादयतो दृष्टान्तस्य च गौणत्वायोगात्। न च ब्रह्मज्ञानेन प्रपञ्चस्य मृत्पिण्डज्ञानेन घटादीनां च ज्ञातत्वस्य अननुभवादिपराहतत्वात् गौणत्वमेवावश्यमभ्युपगन्तव्यमिति वाच्यम्। मृत्सुवर्णकालायसानां पिण्डमणिनखनिकृन्तनाद्यात्मकानेकरूपशालिनामुपादानानां तत्तत्कार्येषु तादात्म्यं येन मृत्सुवर्णकालायसरूपेण ‘मृत् घटः’ ‘सुवर्णं कुण्डलं’ ‘कालायसं खनित्रम्’ इत्यादिलौकिकप्रतीतिष्ववभासते तेन कार्यानुविद्धेन रूपेण तत्तदुपादानविषयं ज्ञानं तेन रूपेण तत्तत्कार्यविषयमपि भवति। न ह्युपादानभूतमृदादिव्यतिरिक्तानि ‘मृत् घटः’ इत्यादिप्रतीतिष्ववभासमानानि मृदादीनि , येन तस्य ज्ञानस्य तानि विषया न स्युः ।

एवं सच्चिदानन्दरूपस्य ब्रह्मणः प्रपञ्चे तादात्म्यं सदात्मना ‘सन् घटः’ इत्यादिप्रतीतिष्ववभासते इति सदात्मना ब्रह्मज्ञानं सदात्मना प्रपञ्चविषयमपि भवति। ब्रह्मज्ञाने प्रतीयमानस्य ब्रह्मरूपस्यैव सतः ‘सन् घटः’ इत्यादिप्रतीतिष्ववभाससम्भवे तदतिरिक्तसत्ताजात्यादिकल्पनाऽयोगात् इत्यभिप्रायवर्णनेन उभयोरपि मुख्यत्वोपपादनसम्भवात्। अत एव श्वेतुकेतुं प्रति जगत्कारणत्वेनोपदिश्यमाने ब्रह्मणि सच्छब्द एव प्रयुक्तः , न तु ब्रह्मादिशब्दः , सद्रूपेण ब्रह्मज्ञानमाश्रित्य हि कृतप्रतिज्ञानिर्वाहः कार्य इति। ‘आत्मनो वा अरे दर्शनेन’(बृ.उ.२-४-५) इत्यादिबृहदारण्यकश्रुतौ तु छान्दोग्यगतस्य सर्वविज्ञानप्रतिज्ञाविषयगोचरस्य जगत्कारणे प्रयुक्तस्य सच्छब्दस्य मैत्रेयीब्राह्मणप्रतिपाद्ये आत्मनि उपसंहारो दर्शितः। तत्र षष्ठाध्यायश्रुतः खलुशब्दः चतुर्थाध्यायश्रुतो वैशब्दश्च प्रसिद्ध्यर्थः। तथा च यस्य दर्शनादिना सर्वं विज्ञातं भवतीति श्रुत्यन्तरे प्रसिद्धं स सच्छब्दवाच्यः एतत्प्रतिपाद्य आत्मेति तस्यार्थः। मुण्डके यज्ज्ञानेन सर्वविज्ञानं श्रुत्यन्तरे प्रसिद्धं तत्किं सच्छब्दवाच्यं जगत्कारणं वस्त्विति प्रश्ने ‘यत्तदद्रेश्यम्’(मु.उ.१-१-६) इत्यादिना विशिष्य तत्स्वरूपं निरूपितमिति सर्वं समञ्जसम् ।

स्यादेतत् – मृत्पिण्डादीनां घटशरावाद्युपादानत्वे सर्वमेतदुपपद्यते – तदेवानुपपन्नम्। पिण्डादीनामपि घटादिवत् मृदादिकार्यविशेषत्वात् , घटादिषु पिण्डाद्याकारानुवृत्त्यभावाच्च। यदि तु यदीयपूर्वाकारोपमर्देन आकारान्तरमुपजायते तदुपादानमित्येव नियममाश्रित्य मृत्पिण्डादीनां घटाद्युपादानत्वं समर्थ्येत तदा ब्रह्मणः प्रपञ्चोपादनत्वं न स्यात्। तदीयेषु सच्चिदानन्दाकारेषु कस्याप्याकारस्य उपमर्दाभावात्। ननु मृत्पिण्डादीनां घटादिवत् मृत्कार्यान्तरत्वेऽपि मृत्त्वाकारेण तज्ज्ञानं तदाकारेण उपादानज्ञानमिव घटादिसर्वमृद्विकारविषयं स्यात् इति चेत् ; न। वैषम्यात्। यस्या मृदो यावन्तो विकाराः तेषु सर्वेषु सैव मृत् केनचित् केनचिदंशेनानुवर्तत इति तज्ज्ञानेन सर्वे तद्विकारा ज्ञाता भवन्तीत्युपपद्यतां नाम। कार्यविशेषेऽनुवर्तमाना मृत्तु कार्यविशेषान्तराद्व्यावृत्तेति तज्ज्ञानात् कथमन्ये विकाराः ज्ञाताः स्युः ? तस्मात् दृष्टान्तभागे मृत्पिण्डादिज्ञानेन घटादीनां ज्ञातत्वं गौणं वाच्यमिति तदनुसारेण सर्वविज्ञानमपि सह तदनुवादकश्रुत्यन्तरैः गौणमेव स्यात् इति चेत् –

उच्यते – कार्योत्पत्तौ क्वचिदुपादानगतस्य कस्यचिदाकारस्य तिरोधानं भवति क्वचिदुपमर्दो भवति इति द्वैविध्यं लोके दृश्यते। तद्यथा – प्राकारगृहपटलाद्युपादानानामिष्टिकातृणविशेषादीनां चतुरश्रत्वतनुदीर्घत्वाद्याकारतिरोधानमात्रं भवति , न कस्याप्याकारस्योपमर्दः। ऋषभतरुणीमहापादपाद्युपादानां तर्णककुमारिकांकुरादीनां ककुदकुचोन्नतिफलपुष्पादिरहितस्वल्पपरिमाणाद्याकारस्योपमर्दो भवति , न तु कस्याप्याकारस्य स्थितस्य तिरोधानम्। न चेष्टकादय उपादानानि प्रकारादयस्तदुपादेयद्रव्याणि इत्यत्र विवादः कार्यः। पूर्वतन्त्रे ‘अग्निधर्मः प्रतीष्टकं सङ्घातात् पौर्णमासीवत्’ इति नावमिकाधिकरणे ‘हिरण्यशकलैरग्निं प्रोक्षति’ इति विहितमग्निप्रोक्षणं प्रतीष्टकं कर्त्तव्यं ‘चतुर्होत्रा पौर्णमासीमभिमृशेत्’ इति विहितमभिमर्शनमिव प्रतिपुरोडाशं , संहतानामिष्टकानामेवाग्निशब्देन उक्तत्वात् , इष्टकासङ्घातव्यतिरेकेण अग्न्याख्यस्य एकद्रव्यस्य अभावात् , तत्सत्त्वे पटस्यैकदेशे कृष्यमाणे कृत्स्नपटाकर्षणवत् एकेष्टकाकर्षणे कृत्स्नस्थण्डिलाकर्षणप्रसङ्गात् , इति पूर्वपक्षं कृत्वा ‘एकमिदं स्थण्डिलम्’ इत्येकबुद्धिविषयत्वादनेकतन्त्वारब्धपटवदनेकेष्टकारब्धमग्न्याख्यं स्थण्डिलमेकं द्रव्यमभ्युपगन्तव्यम्। तथा सत्येव ‘इष्टकाभिरग्निञ्चिनुते’ इति श्रुतिरप्युपपद्यते। अन्यथा ‘इष्टकाभिश्चिनुते’ इत्येवं श्रुतिः स्यात्। आकर्षणं तु वृक्षादिष्वनैकान्तिकम्। वृक्षे हि या शाखा आकृष्यते सैवायाति। तस्मादग्न्युद्देशेन सकृदेव प्रोक्षणमिति सिद्धान्तितत्वात् ।

पाणिनीयेऽपि ‘तदर्थं विकृतेः प्रकृतौ’(पा.सू.५-१-१२) इति सूत्रेण विकृत्यर्थायां प्रकृतावभिधेयायां विकृतिवाचिनः प्रातिपदिकात् प्रत्ययविधाने ‘प्राकारीया इष्टका’ इत्युदाहृतत्वात्। तत्रैवाधिकारे ‘छदिरुपधिबलेर्ढञ्’(पा.सू.५-१-१३) इति सूत्रेण छदिश्शब्दाद्गृहपटलार्थकात् तदर्थायां प्रकृतावभिधेयायां ढञ्प्रत्ययविधाने ‘छदिषेयाणि तृणानि’ इत्युदाहृतत्वात्। तत्रैवाधिकारे ‘ऋषभोपानहोर्ञ्यः’(पा.सू.५-१-१४) इति सूत्रेण ऋषभार्थायां प्रकृतावभिधेयायां ञ्यप्रत्ययविधाने ‘आर्षभ्यो वत्सः’ इत्युदाहृतत्वाच्च। एवञ्च घटाद्युत्पत्तौ मृदाद्यात्मनाऽनुवृत्तेषु मृत्पिण्डादिषु सतां पिण्डत्वमणित्वनखनिकृन्तनत्वाकाराणामुपमर्देऽपि तेषां घटाद्युपादानत्वं वत्सादीनामृषभाद्युपादानत्ववदुपपद्यते ।

ननु ऋषभाद्यवस्थोत्पत्तौ वत्सादीनां नोपमर्दः किन्त्ववयवोपचयादिगुणान्तरम्। अतो यत्र पूर्वाकारोपमर्दोऽस्ति तस्योपादानत्वे नेदमुदाहरणम्। तथाभूतस्य नोपादानत्वमिष्यते। अत एव महाभाष्ये ‘छदिरुपधिबलेर्ढञ्’ ‘ऋषभोपानहोर्ञ्यः’ इति सूत्रयोः ‘तदर्थं विकृतेः प्रकृतौ’ इति सूत्रात् प्रकृतिविकृतिग्रहणानुवृत्तौ बल्यृषभयोस्तण्डुलवत्सविकारत्वाभावात् तयोर्न सिद्ध्यतीति शङ्कामुद्भाव्य ‘कं पुनर्भवान् विकारं मत्वाऽऽह बल्यृषभयोर्न सिद्ध्यतीति’ इति शङ्कितुराशयं पृष्ट्वा ‘यदि तावत् य एव प्रकृत्युपमर्देन भवति स विकारः’ इति तस्याशयमुद्भाव्य ‘वैभीतको यूपः खादिरञ्चषालम्’ इति न सिद्ध्यतीति तत्पक्षे दूषणमुक्त्वा ‘अथ मतमेतत् तदेव गुणांतरयुक्तं विकार इति’ इति स्वाभिमतं पक्षं प्रदर्श्य ‘बल्यृषभयोरपि सिद्धं भवति , गुणान्तरयुक्ता हि तण्डुला बालेयाः गुणान्तरयुक्तश्च वत्स आर्षभ्यः’ इति समाहितं इति चेत् –

उच्यते – विभीतकवत्सादीनामष्टाश्रितत्वावयवोपचयादिगुणांतरप्रादुर्भावे तद्विरुद्धस्य वृत्ताकारत्वाल्पपरिमाणादेर्गुणस्योपमर्दः प्रत्यक्षेणानुभूयमानो नास्तीत्यपलपितुं न शक्यते। अतस्तत्रोपमर्दाभावाभ्युपगमः कुण्डलं विनाश्य कटकनिर्माणे इव सर्वात्मना पूर्वाकारस्योपमर्दो नास्तीत्यभिप्रायेण। यत्र सर्वात्मनोपमर्दस्तत्राप्युपादानत्वमिष्यत एव ‘कुण्डलमेव कटकं कृतम्’ इत्यादिप्रत्यभिज्ञानसत्त्वात्। किन्तु तदेवोपादानं न त्वल्पोपमर्देन गुणांतराविर्भाववत् इत्येतत् परं शङ्कितुरभिमतं नेष्यते। तदेव च ‘य एव प्रकृत्युपमर्देन भवति स विकारः’ इत्यनूद्य निराक्रियते। अत एव तत्र ‘य एव’ इत्येवकारः उपमर्दनीये प्रकृतिपदप्रयोगश्च। तस्मात् मृत्पिण्डादीनां घटाद्युपादानत्वात् तज्ज्ञानेन घटादीनां ज्ञातत्वं मुख्यमिति तद्वद्ब्रह्मज्ञानेन सर्वविज्ञानप्रतिज्ञानमपि मुख्यमेव ।

इयांस्तु विशेषः – मृत्पिण्डादीनां घटादिभावापत्तौ पिण्डत्वाद्याकारस्योपमर्दः ; ब्रह्मणः प्रपञ्चभावापत्तौ तु आनन्दत्वाद्याकारस्य तिरोधानम् इति ।

एवं मृत्पिण्डादिज्ञानेन घटादीनां ब्रह्मज्ञानेन प्रपञ्चस्य च ज्ञातत्वस्य मुख्यतायामेव कृत्स्नोऽयं श्रुतिसन्दर्भः समञ्जसो भवति। एवं ह्युपाख्यायते – उद्दालको महर्षिः स्वपुत्रं श्वेतकेतुं स्वनियोगात् द्वादशवर्षाणि गुरुकुले स्थित्वा सर्वान् वेदानधीत्य प्रतिनिवृत्तं वैदुष्यगर्वेण स्तब्धं सर्वानवधीरयन्तं अविनीतोऽयमप्राप्तब्रह्मविद्य इति निश्चित्य तं विनतं ब्रह्मविविदुषुञ्च कर्तुं ‘यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’(छा.उ.६-१-२,३) इति पृष्ट्वा ‘कथन्नु भगवः स आदेशः’(छा.उ.६-१-३) इत्येकविज्ञानेन सर्वविज्ञानं कथमुपपद्यत इत्याशयवता तेन पुनः पृष्टो मृत्पिण्डादिदृष्टान्तैस्तदुपपादयामासेति। यद्यत्र सर्वविज्ञानप्रतिज्ञानं प्राधान्याभिप्रायं गौणं स्यात् , तदा प्रधानज्ञानेन सर्वमन्यदप्रधानमविदितमपि फलतो विदितप्रायं भवतीत्यस्यार्थस्य लोकसिद्धत्वादेकविज्ञानेन सर्वविज्ञानस्यानुपपत्तिमपश्यतः ‘कथन्नु भगवः स आदेशः’ इति प्रश्नो न स्यात् ।

ननु ‘तमादेशम्’ इत्यत्रादेशशब्दः आदिश्यते प्रशिष्यते अनेनेति व्युत्पत्त्या प्रशास्तृपरः। तथा च प्रशास्तृत्वेन प्राधान्यप्रत्यायकेन तद्विज्ञानतः सर्वविज्ञानं भाक्तमिति ख्याप्यते। अतस्तदनुसारेण ‘कथं नु भगवस्स आदेशः’ इति प्रश्नस्तथाभूतवस्तुविशेषनिर्दिधारयिषया , न तु तद्विज्ञानेन सर्वविज्ञानमनुपपन्नमित्याशयेन इति कल्पनीयमिति चेत् ।

मैवम् – आदेशशब्दस्य आदिश्यते उपदिश्यते इति कर्मणि व्युत्पन्नस्य आचार्योपदेशावगन्तव्यत्वपरत्वात्। तत्प्रतिपादनं हि यद्विज्ञानात् सर्वविज्ञानं पिता प्रतिजानीते तमर्थमहमेवाधीतवेदालोचनेन ज्ञास्यामीति स्वयमन्यनिरपेक्षविद्वत्त्वाभिमानिनः श्वेतकेतोर्भ्रान्तिस्सम्भावितेति तद्वारणेन प्रकृतोपयुक्तम्। अत एव ‘तमादेशमप्राक्ष्यः’ इत्येव पिता प्रपच्छ न त्वज्ञासीरिति। अग्रे च वक्ष्यति ‘आचार्यवान् पुरुषो वेद’ इति। एवञ्च आदेशशब्दस्य कर्तरि करणत्वोपचारमाश्रित्य करणव्युत्पत्त्या प्रशास्तृपरत्वक्लेशाश्रयणमपि परिहृतं भवति। यदि च सर्वविज्ञानप्रतिज्ञाविषयवस्तुनिर्दिधारयिषया प्रश्नः स्यात् ; तदा ‘ को नु भगवः’ इत्येव प्रश्नशरीरं स्यात् , न तु ‘कथं नु भगवः’ इति। प्रश्नोत्तरे च तत्स्वरूपनिर्धारणमेव कार्यं स्यात् न तु सर्वविज्ञानप्रतिज्ञोपपादनम्। तस्मात् कथमन्येन श्रुतेन मतेन विज्ञातेन च ततोऽन्यदश्रुतममतमविज्ञातञ्च सदेव श्रुतं मतं विज्ञातञ्च स्यात् इत्यभिप्रायेण प्रश्नः , उत्तरे ‘एवं सोम्य स आदेशो भवति’ इत्यन्ते मृत्पिण्डादिदृष्टान्तैस्तदुपपादनम् इत्येव युज्यते। अत एव तदनन्तरं ‘न वै नूनं भगवन्तस्ते एतदवेदिषुर्यद्येतदवेदिष्यन् कथं मे नावक्ष्यन्’(छा.उ.६-१-७) इति ‘भगवांस्त्वेव मे तद्ब्रवीतु’ इति तत्स्वरूपप्रश्नः, ‘सदेव सोम्येदमग्र आसीत्’(छा.उ.६-२-१) इत्याद्युत्तरे तन्निरूपणञ्च दृश्यते। तस्मात् सर्वविज्ञानप्रतिज्ञानं तावत् मुख्यम् ।

एवं दृष्टान्तवचनेषु मृत्पिण्डादिभिर्ज्ञातैर्घटादीनां ज्ञातत्ववर्णनमपि मुख्यमेव , मुख्यसर्वविज्ञानप्रतिज्ञोपपादकत्वात्। ‘एते दृष्टान्ता अप्यनुपपन्नाः ; मृत्पिण्डादिभिर्ज्ञातैस्तद्व्यतिरिक्तानां घटादीनां ज्ञातत्वासम्भवात्’ इत्युपादानोपदेयभेददृष्ट्या शङ्कायां ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यं’ ‘लोहमित्येव सत्यम्’ ‘कृष्णायसमित्येव सत्यम्’ इति वचनैस्तेषामप्युपपादनदर्शनाच्च। तत्र दृष्टान्तोपपादकवचनानामयमर्थः – योऽयं मृदादिव्यतिरिक्त इव अवभासमानो घटशरावादिरूपो विकारः स सर्वोऽपि वाचाऽऽरम्भणम् आरभ्यत इत्यारम्भणं , वाचाया आरम्भणमिति षष्ठीसमासः। पुंल्लिङ्गविशेषणत्वेऽपि लिङ्गसामान्यविवक्षया नपुंसकनिर्देशः, ‘द्विगुरेकवचनम्’ इतिवत्। वाचा केवलमारभ्यते इत्यर्थः। ननु मृदादिभिरारम्भणीयो विकारः कथं वाचारम्भण इत्याशङ्कायां वाचारम्भणमित्यस्य आशयं स्फोरयति ‘नामधेयम्’ इति। नामधेयमात्रं विकारः न त्वर्थतोऽस्तीत्यर्थः। लोकेऽपि ह्यर्थासत्त्वविवक्षायां नाममात्रमेतदित्युच्यते। यद्यपि श्रुतौ मात्रपदं नास्ति , तथाऽपि नामधेयवाच्यस्य विकारस्य नामधेयत्वोक्त्या तदर्थो लभ्यते। ननु किं असन्नेव विकारो भासते ? इत्याशङ्क्याह ‘मृत्तिकेत्येव सत्यम्’ इत्यादि। मृदादिरेव सत्यः तद्व्यतिरिक्ततयाऽवभासमानो घटशरावादिनामधेयविशेषगोचरः तत्तदर्थक्रियाविशेषकारी विकारस्तु असत्योऽपि रज्जुसर्पवदनिर्वचनीयो मायामयोऽवभासते इत्यर्थः। मृत्पिण्डलोहमणिनखनिकृन्तनशब्दैरुपात्तानामुपादानानां मृत्तिकालोहकृष्णायसशब्दैः प्रत्यवमर्शस्तु तेषु पिण्डाद्यवस्थाया अप्यसत्यत्वज्ञापनाय ।

अत्रायं भावः – नैयायिकादिप्रक्रियया मृदादिव्यतिरिक्तं तदारभ्यं घटशरावादि यदि द्रव्यान्तरं सत्यं स्यात् तदा कारणगुणप्रक्रमेण तस्य गुरुत्वान्तराधिकरणतया गुरुत्वद्वैगुण्यमुपलभ्येत। अपि च महति कनकसूत्रे कालायसश्रृङ्खले वा लोहकारैः सङ्ग्रथ्यमाने तत्रान्तरान्तरा खण्डसूत्राणि खण्डश्रृङ्खलानि च जायन्ते इत्यभ्युपगन्तव्यम्। अन्यथा किञ्चिद्ग्रथनानन्तरमुपरिसूत्रश्रृङ्खलग्रथने परित्यक्ते सति ग्रथितभागे सूत्रश्रृङ्खलव्यवहारो न स्यात्। महासूत्रश्रृङ्खलग्रथनानन्तरं खंडिते तस्मिन्खण्डेषु सूत्रश्रृङ्खलव्यवहारश्च न स्यात्। एवञ्च यत्रोपर्युपरिखण्डसूत्रश्रृङ्खलग्रथनक्रमेण महासूत्रश्रृङ्खलग्रथनसमाप्तिः तत्र यदि खण्डसूत्रश्रृङ्खलवृन्दारब्धं महासूत्रश्रृङ्खलमभ्युपगम्येत तदा सूत्रश्रृङ्खलनिर्माणार्थं यावत् सुवर्णकालायसं लोहकारहस्ते दत्तं तावत उपादानस्य गुरुत्वं तदारब्धखण्डसूत्रश्रृङ्खलानां प्रत्येकगुरुत्वानि तदारब्धमहासूत्रश्रृङ्खलगुरुत्वञ्च इत्यतिमहत्तरं गुरुत्वमुपलभ्येत। तस्मात् मृत्पिण्डखण्डसूत्रश्रृङ्खलव्यतिरिक्तं घटशरावमहासूत्रशृङ्खलरूपं द्रव्यान्तरं तत्त्वतो नास्तीति, तथैव मृत्पिण्डखण्डसूत्रशृङ्खलाद्यपि मृल्लोहकृष्णायसादिव्यतिरिक्तं द्रव्यान्तरं नास्तीत्युपगन्तव्यम्। एवं सति मृल्लोहकालायसाद्यपि तत्तदुपादानव्यतिरिक्तं सत्यं न स्यादिति चेत् , कः सन्देहः ?

कथं तर्हि ‘मृत्तिकेत्येव सत्यम्’ इत्याद्युक्तमिति चेत् , उच्यते। नेमानि वाक्यानि मृदादिसत्यत्त्वविधित्सया प्रवृत्तानि ; ‘षड्विंशतिरित्येव ब्रूयात्’ इतिवदेवकारोपहतविधिशक्तिकत्वात्। किन्तु तद्विकारसत्यत्वनिषिषेधयिषया। ततश्च यथा षड्विंशतिपदग्रहणे तात्पर्याभावात् षड्विंशतिपदस्थाने तूपरगोमृगयोरश्वस्य च वङ्क्रीणां समस्यसंख्यावाचिपदनिवेशनस्य न्यायप्राप्तस्य न प्रतिक्षेपः, एवं ‘मृत्तिकेत्येव सत्यं’ ‘लोहमित्येव सत्यम्’ ‘कृष्णायसमित्येव सत्यम्’ इति वाक्यानां विकारसत्यत्वनिषेधे एव तात्पर्यवतां मृदादिसत्यत्वविधाने तात्पर्याभावात् घटशरावादिन्यायप्राप्तस्य मृदादीनामसत्यत्वस्य न प्रतिक्षेपः। प्रत्युत मृत्तिकादिशब्दानामितिशब्दशिरस्कत्वेन मृदादीनामसत्यत्वमेव सूच्यते ; ‘मनो ब्रह्मेत्युपासीत’ इत्यादिवाक्येषु मनःप्रभृतीनां ब्रह्मभावस्येव। एवञ्च दृष्टान्तेषु उपादानातिरिक्तविकारसत्यत्वाभावप्रतिपादनस्य दार्ष्टान्तिकेऽपि तथात्वमिति प्रत्यायनार्थत्वात् तदनुरोधेन ‘येनाश्रुतं श्रुतं भवत्यमतमतमविज्ञातं विज्ञातम्’ इति वाक्येषु अश्रुतश्रुतादिपदानां ‘योऽयं स्थाणुरयं पुमान्’ इत्यादिव्यवहारेषु स्थाणुपुरुषादीनामिव बाधायां सामानाधिकरण्यं , न तु तत्त्वमस्यादिवाक्येष्विव अभेदे। अतो येन श्रुतेन मतेन विज्ञातेन च लोकदृष्ट्या अतदात्मकमपि तदात्मकमेव भवतीति दृष्टान्तैः ‘येनाश्रुतम्’ इत्यादिवाक्यान्युपपादितानि भवन्ति। युक्तश्च उक्थ्याग्निष्टोमाधिकरणन्यायेन विधेयश्रुतमतविज्ञातसद्रूपोपादानब्रह्मात्मकत्वविरुद्धस्य अश्रुतामताविज्ञातरूपस्य भूतभौतिकप्रपञ्चस्योपमर्दः। तस्मात् प्रतिज्ञादृष्टान्तयोर्मुख्यतया तदनुपरोधात् ब्रह्म प्रकृतिश्चेति युक्तम्। चकारेण निमित्तञ्चेति समुच्चीयते। तदपि प्रतिज्ञादृष्टान्तानुपरोधादेव। उपादानातिरिक्तकर्तृसद्भावे हि तद्विज्ञानेन सकलविज्ञानासम्भवात् पुनरपि प्रतिज्ञोपरोधे च तदानुगुण्येन वर्णनीयस्य दृष्टान्तस्याप्युपरोधः स्यात्। तस्मात् प्रतिज्ञादृष्टान्तानुपरोधान्निमित्तमुपादानञ्च ब्रह्म ।

यत्तु दुन्दुभ्यादिदृष्टान्तजातं सर्वविज्ञानप्रतिज्ञोपपादकं न भवतीत्युक्तं तत् तथैव। किन्तु सर्वविज्ञानप्रतिज्ञोपपादकतया ‘इदं सर्वं यदयमात्मा’ इति वर्णितस्य सार्वात्म्यस्य उपपादनद्वारा तदुपपादकं , न तु साक्षात्। तथैव पूर्वाधिकरणे व्याख्यातम्। ततश्च ‘इदं सर्वं यदयमात्मा’ इत्यादिश्रुतयः ‘सर्वं समाप्नोषि’ इत्यादिस्मृत्यनुसारेण सर्वगतत्वपरा इति शङ्काप्यनवकाशा। तासां दृष्टान्तदार्ष्टान्तिकसामञ्जस्यानुरोधेन सार्वात्म्यपरत्वावश्यम्भावात्। तदनुसारेण ‘सर्वं समाप्नोषि’ इति समुपसर्गानुसारेण च स्मृतेरेव सार्वात्म्यपरत्वात्। ऊर्णनाभेर्जडांशेन उपादानत्वं चेतनांशेन निमित्तत्वमिति भेदे सत्यपि कार्यकरणसम्पिण्डितचेतनविशेषरूपस्य तस्य आध्यासिकाविशिष्टरूपेणैक्यमाश्रित्य स्रष्टृत्वलयाधारत्वाभ्यामेकस्यैव निमित्तोपादानभावः सर्वविज्ञानप्रतिज्ञामनूदितामुपपादयितुं ‘यथोर्णनाभिः’ इति मन्त्रे दर्शितः। तत्र द्वितीयतृतीयदृष्टान्तौ उपादानत्वमात्रविषयौ ब्रह्मज्ञानेन कृत्स्नस्य कार्यवर्गस्य ज्ञातत्वोपपादकौ। ननु दृष्टान्तवाक्ये मृल्लोहकृष्णायसपृथिव्यादीनां तत्तद्विकारोपादानत्वं वर्ण्यते, कथं दृष्टान्तबलाद्ब्रह्मणस्सर्वोपादानत्वसिद्धिः ? उच्यते। घटादिषु कुलालादीनां कर्तृत्वेऽपि ब्रह्मणोऽपि कर्तृत्ववत् मृदादीनामुपादानत्वेऽपि ब्रह्मणोऽप्युपादानत्वं प्रमाणबलादुपपद्यते। तस्माद्यथाऽर्हं प्रतिज्ञादृष्टान्तबलान्निमित्तमुपादानञ्च ब्रह्म ॥१-४-२३ ॥

अभिध्योपदेशाच्च ॥२४॥

‘तदैक्षत बहु स्यां प्रजायेय’(छा.उ.६-२-३) इति बहुभवनसङ्कल्पोपदेशादप्येवम्। न च नियन्तृस्वरूपैर्बहुभवनरूपविषयसङ्कल्पो , न तु तेजःप्रभृतिरूपैः इति वाच्यम्। सर्वज्ञस्य सर्वगतस्य च एकस्य ब्रह्मणः स्रष्टृत्ववन्नियन्तृत्वस्यापि सम्भवेन नियन्तृत्वसिद्ध्यर्थं नियन्तृरूपबहुत्वस्यानपेक्षिततया ‘तत्तेजोऽसृजत’(छा.उ.६-२-३) इत्यादिना सृज्यत्वेनानन्तरवक्ष्यमाणतेजःप्रभृत्यात्मना बहुभवनसङ्कल्पोपदेशात् प्राक् ‘एकमेवाद्वितीयम्’(छा.उ.६-२-१) इति श्रवणादपि निमित्तमुपादानञ्च ब्रह्म, निमित्तस्योपादनस्य वा ब्रह्मणोऽन्यस्य सद्भावे सृष्टेः प्रागेकत्वावधारणायोगात् इति युक्त्यन्तरसमुच्चयार्थः सूत्रे चकारः ॥१-४-२४॥

साक्षाच्चोभयाम्नानात् ॥२५॥

न केवलं प्रतिज्ञादृष्टान्तबलादभिध्योपदेशाच्च अर्थान्निमित्तमुपादानञ्च ब्रह्म , किन्तु साक्षादेव तस्य निमित्तत्वोपादानत्वाम्नानादपि। तथा हि – निमित्तत्वं तावदीक्षापूर्वकस्रष्टृत्वरूपं ‘तदैक्षत’ ‘तत्तेजोऽसृजत’(छा.उ.६-२-३) इत्यादिश्रुतिषु स्पष्टमाम्नातम्। उपादानत्वम् ‘आत्मन आकाशः सम्भूतः’(तै.उ. २-१) ‘यतो वा इमानि भूतानि जायन्ते’(तै.उ. ३-१) इत्यादिश्रुतिषु पञ्चमीविभक्त्याऽऽम्नातम्। ‘जनिकर्तुः प्रकृतिः’(पा.सू.१-४-३०) इति सूत्रेण प्रकृतिशब्दगोचरतया प्रसिद्धस्योपादानस्य अपादानसंज्ञाविधानात्। न च तत्र कारणमात्रपरः प्रकृतिशब्द इति युक्तम्। तथात्वे तस्य वैयर्थ्यप्रसङ्गात्। ‘ध्रुवमपायेऽपादानम्’(पा.सू.१-४-२४) इति सूत्रात् अवधिपरस्य ध्रुवपदस्य अनुवर्तमानतया तेनैव जायमानं प्रत्यवधिभूतस्य कारणमात्रस्य लाभात् ।

नन्वसति प्रकृतिग्रहणे प्रत्यासत्तेरुपादानकारणस्यैव ग्रहणं स्यान्न तु बहिरङ्गस्य निमित्तकारणस्य , अतः कारणमात्रसंग्रहार्थं प्रकृतिग्रहणम् इति न्यासकृता उक्तमिति चेत् ; सत्यमुक्तम्। दुरुक्तं तु तत्। अनुवर्तमानं ध्रुवपदं हि जायमानावधिभूतं कारणसामान्यं प्रत्याययति। कारणसामान्यप्रत्यायकपदे सति च बहिरङ्गकारणसंग्रहार्थं सूत्रकृता यत्नान्तरं कृतं न दृश्यते , यथा ‘हेतौ’(पा.सू.४-३-२३) इति तृतीयाविधायके सूत्रे। अथापि यद्यत्र तत्संग्रहार्थं यत्नान्तरमकारिष्यत, तदा तत्साधारणमेव पदं प्रायोक्ष्यत। इह तु तद्व्यावर्तकं ‘मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरम्’(श्वे.उ.४-१०) ‘प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्’(ब्र.सू.१-४-२३) इत्यादिवेदवैदिकव्यवहारेषु ‘तदर्थं विकृतेः प्रकृतौ’(पा.सू.५-१-१२) इति पाणिनीये उपादाने एव प्रसिद्धं प्रकृतिपदं प्रयुक्तम्। ततश्च कारणसामान्यप्रत्यायकं ध्रुवपदमप्यविगणय्य अभ्यर्हितत्वादुपादाने निपतन्ती मतिः कथमुपादानमात्रासाधारणेन प्रकृतिपदेन ततो व्यावर्त्य कारणसामान्ये स्थापनीया। सा हि मतिस्तेन तथैव दृढीकृता स्यात्। यदि च कारणसामान्यपरं प्रकृतिपदं , तदा ‘कारके’(पा.सू.१-४-२३) इत्यधिकारसूत्रमनन्वितं स्यात्। तत्र हि कारकशब्दः कारणसामान्यपरः सप्तमी च निर्धारणार्था इति व्याख्यातम्। तथा च प्रकृतिशब्दस्य कारणसामान्यार्थकत्वे कारकाणां मध्ये या प्रकृतिः तत्रापादानसंज्ञाविधानस्य कारणानां मध्ये यत् कारणं तत्रापादानसंज्ञेत्यर्थस्स्यात्। न चैतद्युज्यते। निर्धारणप्रतियोगितावच्छेदकावच्छिन्नस्यैव निर्धारणविषयत्वानुपपत्तेः ।

ननु कारकं क्रियां निर्वर्तयदाश्रितव्यापारं , कारणं तु हेत्वपरपर्यायं फलसाधनत्वयोग्यमात्रम् इति भेदोऽस्ति, ‘द्रव्यादिविषयो हेतुः कारकं नियतक्रियम्। अनाश्रिते तु व्यापारं निमित्तं हेतुरुच्यते’ इति वचनादिति चेत् ; एतदपि न युज्यते ; विवक्षितक्रियानिर्वर्तनव्यापाराणां मध्ये अविवक्षितक्रियानिर्वर्तनव्यापारस्य तद्विरुद्धस्य निर्धारणायोगात्। सामान्यधर्माक्रान्तानां मध्ये कस्यचिद्विशेषस्यैव निर्द्धारणीयत्वात्। न च ‘जनिकर्तुः प्रकृतिः’ इति सूत्रे कारकाधिकारो मा भूदिति वाच्यम्। ‘प्राग्रीश्वरान्निपाताः’(पा.सू.१-४-५६) इत्येतत्पर्यन्तं तदधिकारसत्त्वात् , अन्यथा ‘अकथितञ्च’(पा.सू.१-४-५१) इति सूत्रतः ‘माणवकं पन्थानं पृच्छति’ इत्यत्रेव ‘माणवकस्य पितरं पन्थानं पृच्छति’ इत्यत्रापि माणवकस्य प्रश्नक्रियायामकारकत्वेऽपि अकथितत्वाविशेषेण कर्मसंज्ञाप्रसङ्गात्। अपि च यद्येतत्सूत्रं कारणसामान्यरूपे हेतौ पञ्चमीविधायकं स्यात् , तदा ‘हेतुमनुष्यभ्योऽन्यतरस्यां रूप्यः’(पा.सू.४-३-८१) इति सूत्रे अस्मादेव ज्ञापकाद्धेतुपञ्चमीसिद्धिरिति न्यासोक्तमसमञ्जसं स्यात्। तथा हि – ‘तत आगतः’(पा.सू. ४-३-७४) इत्यधिकारे पठितस्य तस्य सूत्रस्य हेतुवाचिभ्यो मनुष्यवाचिभ्यश्च शब्देभ्योऽन्यतरस्यां रूप्यप्रत्ययो भवतीत्यर्थः। तत्र समादागतं समरूप्यम् इति वृत्तिकृता उदाहरणं लिखितम्। तस्य न्यासकृता ‘समाद्धेतोरागतम्’ इत्यर्थमुक्त्वा ‘केन पुनरिह पञ्चमी’ इति पञ्चम्यसम्भवशङ्कामुद्भाव्य ‘अस्मादेव ज्ञापकात्’ इति परिहृतम् ।

तत्रायं शङ्काऽर्थः। यदि समशब्दोक्तस्य च आगतशब्दोक्तस्य च हेतुहेतुमद्भावसम्बन्धविवक्षा तदानीमस्येदम्भावे षष्ठ्यां प्राप्तायां तदपवादत्वेन ‘हेतौ’(पा.सू.२-३-२३) इति सूत्रे विहितया तृतीययैव भाव्यं , न तु पञ्चम्येति। परिहाराभिप्रायस्त्वयम्। ‘तत आगतः’ इति प्रकृतस्य पञ्चम्यन्तार्थस्य अस्मिन् सूत्रे हेतोरिति विशेषणेन हेतुहेतुमद्भावविवक्षायां पञ्चम्यपि भवतीति ज्ञाप्यते इति। एवं न्यासकृता हेतौ पञ्चमीसद्भावे ज्ञापकान्वेषणं न कर्त्तव्यं स्यात् यदि ‘जनिकर्तुः प्रकृतिः’ इति सूत्रमेव आहत्य पञ्चमीविधायकं स्यात्। ननु विवक्षितक्रियानिर्वर्तनव्यापारे निमित्तोपादानसाधारणे कारणमात्रे ‘जनिकर्तुः’ इति सूत्रेण पञ्चमीविधानम् , अविवक्षिततद्व्यापारे तस्मिन् पञ्चमीलाभार्थं ज्ञापकान्वेषणमिति चेत् ; न। हेतुमनुष्यसूत्रे लिखितस्य ‘समाज्जातम्’ इत्यर्थे पर्यवसितस्य ‘समादागतम्’ इत्युदाहरणस्यापि विवक्षितव्यापारहेतुविषयत्वसम्भवे तस्य अविवक्षितव्यापारहेतुविषयत्वमङ्गीकृत्य तत्र पञ्चमीलाभार्थं ज्ञापकान्वेषणस्य व्यर्थत्वात्। न च हेतुमनुष्यसूत्रगतहेतुशब्दोऽनाश्रितव्यापारविषयः; ‘अनाश्रिते तु व्यापारे निमित्तं हेतुरिष्यते’ इति वचनादिति वाच्यम्। तथाऽपि वृत्तिकृता जनिकर्तृसूत्रे प्रकृतिशब्दस्य हेतुपदेन व्याख्याततया तत एव अविवक्षितव्यापारे हेतौ पञ्चमी सिद्धेति तत्र ज्ञापकान्वेषणवैयर्थ्यस्य तादवस्थ्यात् ।

किञ्च प्रकृतिपदस्य कारणसामान्यपरत्वे ध्रुवानुवृत्तिमङ्गीकृत्य तत्र ‘जनिकर्तुः’ इत्यस्यान्वयो नाभ्युपगन्तव्यः। जायमानावधित्वस्य कारणत्वरूपतया कारणवाचिना प्रकृतिपदेन सह प्रयोगानुपपत्तेः। किन्तु तदनुवृत्तिं परित्यज्य प्रकृतिपदेनैवान्वयोऽभ्युपगन्तव्यः। तथैव चान्वयो दर्शितो वृत्तिकृता ‘जन्यर्थस्य जन्मनः कर्त्ता जायमानः , तस्य या प्रकृतिः कारणं हेतुः’ इति। तत्र ‘जनिकर्तुः’ इति व्यर्थम् , अर्थात् सिद्धेः। जायमानस्यैव हि कारणं भवति। अत एव ‘हेतौ’ इति सूत्रे ‘जनिकर्तुः’ इति न विशेषितम्। ननु प्रकृतिरुपादानमिति पक्षेऽपि तुल्योऽयं दोषः। तत्रापि हि ध्रुवपदं नानुवर्तनीयम्। ततो विवक्षितव्यापारकारणलाभाश्रयणे कारकाधिकारेण पौनरुक्त्यात् , अविवक्षितव्यापारकारणलाभाश्रयणे कारकाधिकारेण विरोधात्। अतस्तत्रापि पक्षे प्रकृत्यैव जनिकर्तुरन्वय इति समानो वैयर्थ्यदोषः , जायमानस्यैव ह्युपादानं भवतीति। यथा वैयर्थ्यदोषो न प्रसरति तथा उपपादयामः। प्रकृतिशब्दः स्वभावविषययैव शक्त्या उपादाने प्रयुज्यते। क्लृप्तशक्त्या प्रयोगनिर्वाहे शक्त्यन्तरकल्पनाऽनुपपत्तेः। निर्वहति च क्लृप्तशक्त्यैव तत्र प्रयोगः। कार्याभिन्नस्योपादानस्य तत्स्वभावरूपत्वात्। अत एव ‘मृत्स्वभावो घटः मृत्स्वरूपो घटः’ इति व्यवह्रियते ।

यद्यप्युपादाने स्वभावशक्त्या प्रकृतिपदप्रयोगे ‘कार्यस्य प्रकृतिरूपं कारणम्’ इति एतावत् प्रयोक्तव्यम्। तथाऽपि लोके वेदे च निरूढ्या प्रकृतिपदमात्रस्य तत्र प्रयोगः। दृष्टो हि न्यायशास्त्रव्यवहारे कार्यं प्रति समवायिनि कारणे समवायिपदमात्रस्य प्रयोगः। पाणिनिना तु प्रकृतिरित्येतावति सूत्रे विवक्षितार्थः स्पष्टो न भवतीति जायमानस्य स्वभावरूपं यत् कारकं तस्यापादानसंज्ञा विधीयते इत्यर्थस्पष्टीकरणाय ‘जनिकर्तुः’ इति विशेषितम्। न च वाच्यम् – ‘तदर्थं विकृतेः प्रकृतौ’ इति सूत्रे विनैव ‘जनिकर्तुः’ इति विशेषणमुपादानपरं प्रकृतिपदं प्रयुक्तमिति। तत्र विकृतिपदसन्निधानेन प्रकृतिपदस्य उपादाने व्यवस्थितिलाभात्। तदर्थमेव हि तत्र विकृतिपदमिति प्रयोजनमुक्तं वृत्त्यादिग्रन्थेषु ‘अक्रियमाणे विकृतिग्रहणे या काचित् प्रकृतिर्गृह्येत नोपादानकारणमेव’ इत्यादिना। तस्मादभ्यर्हितस्योपादानस्यैव ग्रहणं मा भूदिति कारणसामान्यग्रहणाय प्रकृतिपदमिति न्यासोक्तमयुक्तम् ।

ननु महाभाष्ये जनिकर्तृसूत्रस्य प्रत्याख्यानमुपक्रम्य ‘गोलोमाविलोमभ्यः दूर्वा जायन्ते’ इति तत्रोदाहरणं प्रदर्श्य ‘अपक्रामन्ति तास्तेभ्यः’ इत्युक्त्या ‘ध्रुवमपायेऽपादानम्’(पा.सू.१-४-२४) इति सूत्रत एव अत्रापादानसंज्ञा सिद्ध्येदिति तत् सूत्रं प्रत्याख्याय यतो यदपक्रामति तत् पुनस्तत्र न दृश्यते, इह तु लोमसु अस्ति दूर्वादर्शनमिति कथं ततोऽपक्रमणमुच्यत इत्यभिप्रायेण ‘यद्यपक्रामन्ति किं नात्यन्तायापक्रामन्ति’ इति शङ्कित्वा ‘सन्ततत्वात्’ इति परिहृतम्। कैयटेन च ‘यथा बिलाद्दीर्घभोगो भोगी निष्क्रामन्नप्यविच्छेदात् तत्रोपलभ्यते एवं दूर्वा अपि’ इति परिहाराभिप्रायो दर्शितः। एवञ्च गोलोमादीनां दूर्वादीन् प्रत्यवधित्वमङ्गीकृत्य सूत्रप्रत्याख्यानात् ‘गोलोमाविलोमभ्यो दूर्वा जायन्ते’ ‘श्रुङ्गाच्छरो जायते’ इत्याद्युदाहरणं निमित्तविषयमेवेत्यवसीयते। उपादानस्य कार्यात्मतां प्रतिपद्यमानस्य कार्यविश्लेषावधित्वायोगात्। सम्भवति च शृङ्गगोलोमादीनां शरदूर्वाद्युपादानभूतो य एकदेशः तत्संसृष्टमेकदेशान्तरं शरदूर्वादिनिमित्तं , माषांकुरोपादानेन तुषान्तरवस्थितमाषभागेन संसृष्टो माषांकुरनिमित्तभूतस्तुषभाग इव। स एवापरिणतशृङ्गाद्येकदेशः ‘शृङ्गात्’ इत्यादिपञ्चम्यन्तेन उच्यते इति युक्तं कल्पयितुमिति चेत् –

उच्यते – इदं लोमादीनां दूर्वाद्यवधित्वमभ्युपगम्य सूत्रप्रत्याख्यानं लोकदृष्ट्यैव, न तु तान्त्रिकमर्यादयेति व्याचक्षाणेन कैयटेन लोकदृष्टिप्रदर्शने अस्य सूत्रस्य सर्वकारणाविषयत्वं तान्त्रिकमर्यादाप्रदर्शने विशिष्योपादानविषयत्वञ्चाविष्कृतम् – ‘अपक्रामन्ति ता इति प्रसिध्याश्रयणेनैतदुच्यते। लोके हि यद्यस्माज्जायते तत् तस्मान्निर्गच्छतीत्युच्यते। तर्काश्रयास्तु प्रक्रिया भिद्यन्ते। वैशेषिकदर्शने परमाण्वादिसमवेतं कारणेभ्योऽपृथग्देशं कार्यमुत्पद्यत इति नास्ति कार्यस्यापक्रमः’ इति। अत्र हि जायमानं कार्यं यस्मात् कारणात् निर्गच्छतीति लोकदृष्टिरस्ति तदेवास्य सूत्रस्य विषयः , न तु दण्डचक्रादिसाधारणं सर्वं कारणमिति लोकदृष्टिप्रदर्शकवाक्येनाविष्कृतम्। वैशेषिकमर्यादाप्रदर्शकवाक्येन तु नास्ति कार्यस्यापक्रम इत्यत्र परमाण्वादिसमवेतस्य कार्यस्योदाहरणेन विशिष्योपादानविषयत्वमाविष्कृतम्। तेन शरांकुराद्यधस्थिताच्छृङ्गगोलोमबीजाद्येकदेशात् शरांकुरादिकं निर्गच्छतीति लोकदृष्टिरस्ति तस्याप्युपादानत्वमेवाभिमतमिति तस्याशय उन्नीयते ।

युक्तञ्चैतत्। अस्ति हि यः कार्त्स्न्येन कार्यात्मतामापद्यते तस्येव यस्य एकदेशः कार्यात्मतामापद्यते तस्याप्युपादानत्वव्यवहारः। अत एव एकस्य मृत्पिण्डस्य एकदेशानां घटशरावाद्यनेककायात्मतापत्तौ तस्यैव घटशरावादिकं प्रत्युपादानत्वं सिद्धं कृत्वा तद्विज्ञानेन घटशरावादिसर्वतत्कार्यविज्ञानमुदापहारश्रुतिः। सूत्रकारश्च ‘कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा’(ब्र.सू.२-१-२६) इति सूत्रे ब्रह्मण एकदेशस्य जगद्रूपतापत्त्यङ्गीकारे निरवयवत्वश्रुतिव्याकोपमेव दूषणमुवाच , न तु ब्रह्मण उपादानत्वश्रुतिव्याकोपम्। भाष्यकारश्च ‘योनिश्च हि गीयते’(ब्र.सू. १-४-२७) इति सूत्रे योनिशब्दस्य उपादानवाचकत्वं समर्थयमानः ‘स्त्रीयोनेरपि अस्त्येवावयवद्वारेण गर्भं प्रत्युपादानत्वम्’ इति ब्रुवन्नेकदेशस्य कार्यात्मतापत्तौ एकदेशिन उपादानत्वमनुमेने। लोकश्च दीर्घैस्तन्तुभिरारब्धे खण्डपटे पटाकारबहिर्भूतस्य तन्तूनामेकदेशस्य सद्भावेऽपि तन्तून् पटोपादानत्वेन व्यवहरन्ति, न तु तेषां पटानुप्रविष्टानेकदेशानेव तदुपादानत्वेन मन्यमानास्तत्र तन्तूनामुपादानत्वं प्रतिक्षिपन्ति। वैदिकतान्त्रिकलौकिकव्यवहारानुसारेण च निमित्तोपादानव्यवस्थाऽङ्गीकरणीया। तथा च शृङ्गगोलोमादीनां शरदूर्वाद्यात्मतानापन्नैकदेशसद्भावेऽपि कृत्स्नश्रृङ्गगोलोमाद्यवयव्येव उपादानम्। अतः ‘श्रुङ्गाच्छरो जायते’ इत्युदाहरणं जनिकर्तृसूत्रञ्च उपादानविषयमेवेति युक्तम् ।

यत्तु न्यासकृतोक्तं ‘पुत्रात् प्रमोदो जायते’ इत्यत्र पञ्चमीनिर्वाहाय तस्य कारणसामान्यविषयत्वं वक्तव्यमिति तदप्यसङ्गतम्। तेन ‘हेतुमनुष्येभ्य’ इति सूत्रे हेतुपञ्चम्यां ज्ञापकस्य उपन्यस्ततया तत एव तन्निर्वाहात्। ननु तर्हीहापि ‘यतो वा इमानि भूतानि’ इत्यादौ ज्ञापकलब्धा हेतुपञ्चम्यस्तु। न च वाच्यं – ज्ञापकेन विध्युन्नयनाल्लब्ध्विव प्रत्यक्षसूत्रविहितोपादानपञ्चमीग्रहणम् – इति। पाणिनिव्याकरणे ज्ञापकेन सिद्धस्य व्याकरणान्तरेषु प्रत्यक्षविधिविहितत्वसम्भवात्। पाणिनीयस्यैव वेदार्थनिर्णयोपजीव्यत्वाभावादिति चेत्। स्यादेतदेवं यदि पाणिनीये हेतुपञ्चम्यां ज्ञापकं किञ्चिदुपलभ्येत। तदुपलंभे हि तत्र प्रत्यक्षविधिरपि व्याकरणान्तरे सम्भावनीयो भवेत् , न चैतदुपलभ्यते। ‘हेतुमनुष्येभ्य’ इति सूत्रे हेतुग्रहणस्य ‘विभाषा गुणेऽस्त्रियाम्’(पा.सू.२-३-२५) इति सूत्रविहितगुणविषयपञ्चमीमादाय चरितार्थत्वात् ‘जाड्यादागतं जाड्यरूप्यम्’ इति तदुदाहरणसम्भवात्। न चैवमपि ‘समादागतं समरूप्यम्’ इति वृत्तिकारदर्शितस्योदाहरणस्यानिर्वाहः। तत्र उपादानपञ्चमीति तन्निर्वाहोपपत्तेः। न च सूत्रे हेतुग्रहणाद्धेतुपञ्चम्यैव भाव्यमिति नियमः। वृत्तिकृतैव ‘हेतुमनुष्येभ्य’ इति बहुवचनं स्वरूपनिरासार्थमित्युक्तत्वात्। मनुष्यग्रहणस्य ‘देवदत्तादागतं देवदत्तरूप्यम्’ इति मनुष्यविशेषविषयस्य उदाहरणस्य दर्शितत्वाच्च। हेतुग्रहणस्यापि हेतुविशेषोपादानविषयमुदाहरणं दर्शितमित्युपपत्तेः ।

एतेन – जनिधातोर्डप्रत्ययविधायके ‘पञ्चम्यामजातौ’(पा.सू.३-२-९८) इति सूत्रे पञ्चम्यन्तस्योपपदस्याजातित्वविशेषणं जातिशब्देभ्यो हेतौ पञ्चम्यस्तीत्यत्र ज्ञापकमित्यपि शङ्का – निरस्ता। ‘जनिकर्तुः प्रकृतिः’ इति सूत्रतस्तेभ्य उपादानपञ्चमीसद्भावेन जातिशब्दपर्युदासस्य तद्विषयत्वोपपत्तेः , हेतुपञ्चम्यभावे ‘पुत्रात् प्रमोदो जायते’ इत्यत्र कथं निर्वाहः ? निमित्तकारणे पुत्रे उपादानत्वारोपात् पञ्चमी भविष्यति ‘रामो जामदग्न्यः’ ‘व्यासः’ पाराशर्यः’ इत्यत्र समनन्तरापत्ये गोत्ररूपाध्यारोपाद्यञ्प्रत्ययवत्’ ‘पर्वतो वह्निमान् धूमवत्त्वात्’ इत्यादौ कथं पञ्चमीनिर्वाहः ? हेतुपञ्चमीसद्भावे वा कथं निर्वाहः ? न हि धूमवत्त्वं वह्नेः कारणम्। ज्ञापकं तदिति चेत् ; न हि ज्ञापकहेतौ पञ्चमीविधानमस्ति। तस्मात् ‘तदशिष्यं संज्ञाप्रमाणत्वात्’(पा.सू. १-२-५३) ‘लुब्योगाप्रख्यानात्’(पा.सू.१-२-५४) इति सूत्रकारप्रयोगाद् ज्ञापकादेव ज्ञापकहेतौ पञ्चमी। कारकहेतौ तु तृतीयैव न पञ्चमी। उक्तञ्च भामत्यां ‘पञ्चमी न कारणमात्रे स्मर्यते , अपि तु प्रकृतौ इति ।

अस्तु वा हेतुपञ्चमीसद्भावः। तथाप्युपपदविभक्तितः कारकविभक्तेर्बलीयस्त्वात् ‘यतो वा इमानि’ इत्यादौ उपादानविषयैव पञ्चमी ग्राह्या। न च ‘ध्रुवमपाये’ इति सूत्रादिहापादानसंज्ञा भवितुमर्हति। सर्वगतस्य ब्रह्मणः विश्लेषावधित्वासम्भवात्। तस्मादिह जनिकर्तृसूत्रत एवापादानसंज्ञा वक्तव्या। तच्चोपादानमात्रविषयमित्युक्तम्। यदि च न्यासोक्तरीत्या कारणसामान्यविषयं स्यात् , तदाऽप्यत्रोपादानविषयैव पञ्चमी सिद्ध्यति। उपादानस्य प्रत्यासन्नतया निमित्तोपादानसाधारणशक्तिकस्यापि शब्दस्य उपादाने पर्यवसानमौत्सर्गिकमिति न्यासकृतैवोक्तत्वात्। यदि च उपादानप्रत्यासत्तिन्यायोऽपि नाद्रियेत , तदा विनिगमनाविरहात् ‘यतो वा इमानि भूतानि जायन्ते’ ‘आकाशादेव समुत्पद्यन्ते’ ‘तस्मादेतद्ब्रह्म नाम रूपमन्नञ्च जायते’ इत्यादिश्रुतिषु आनन्त्यसर्वविज्ञानप्रतिज्ञाद्यनुरोधाच्च उभयविधकारणत्वपरा पञ्चमी , न तु निमित्तमात्रपरेत्यलं प्रपञ्चेन। यत्तु भाष्ये ‘साक्षाच्चोभयाम्नानात्’ इति सूत्रस्य ब्रह्मैव कारणमुपादाय ‘सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति’ इति प्रभवप्रलयोभयाम्नानादित्यर्थं दर्शयित्वा ‘यद्धि यस्मात् प्रभवति यस्मिंश्च लीयते तत्तस्य उपादानं प्रसिद्धं यथा व्रीहियवादीनां पृथिवी’ इति उपादानत्वमात्रे हेतुपरतया व्याख्यानं तत्पूर्वव्याख्यानं सिद्धं कृत्वा पञ्चमीविभक्तेरुपादानविषयत्वावश्यम्भावे हेत्वन्तरप्रदर्शनार्थमित्यवधेयम्। तत्र ब्रह्मणोऽनुपादानत्वेऽप्युपादानस्य ब्रह्माधीनत्वाद्ब्रह्मण उपादानत्वोपचार इत्यपि शङ्का मा भूदित्येवमर्थं ‘साक्षात्’ इति सौत्रपदेन ‘आकाशादेव’ इत्यवधारणलब्ध उपादानान्तरव्यवच्छेदो दर्शितः ॥(१-४-२९)

आत्मकृतेः परिणामात् ॥२६॥

‘सोऽकामयत बहु स्यां प्रजायेय’(तै.उ. २-६) इति बहुभवनसङ्कल्पवत्त्वेन प्रकृतस्य ब्रह्मणः ‘तदात्मानं स्वयमकुरुत’(तै.उ. २-७) इति अनन्तरवाक्ये ‘आत्मानम्’ इत्यात्मन एव सृष्टिकर्मत्वस्य ‘स्वयम्’ इति स्वस्यैव सृष्टिकर्तृत्वस्य च वर्णनात् ब्रह्मण एव प्रपञ्चात्मना परिणामेन प्रपञ्चात्मना कर्मत्वं स्वरूपेण कर्तृत्वमिति एकस्य कर्मकर्तृभावे विरोधाभावादुभयविधकारणं ब्रह्म। यत्तु ‘तदात्मानं सृजाम्यहम्’ इत्यादिवदेतदुपपद्यत इत्युक्तम् ; तन्न। तत्रापि कर्मकर्तृभावश्रवणाविशेषात्। इयांस्तु विशेषः – तत्रावतारशरीररूपेण स्वात्मनस्स्वेन सृष्टिरुच्यते ‘यदा यदा हि धर्मस्य’ इति धर्मसंस्थापनार्थत्वोक्तेः , इह प्रपञ्चरूपेण प्रपञ्चसृष्टिः प्रकरणात् – इति। भाष्ये ‘परिणामात्’ इति सूत्रभागो विरोधाभावप्रदर्शनार्थमेतत्सूत्रशेषतया व्याख्याय पुनः पृथक्सूत्रतया व्याख्यातः ‘सच्च त्यच्चाभवत्’ इति श्रुतौ मूर्तामूर्तात्मकप्रपञ्चरूपेण परिणामादप्युपादानं ब्रह्मेति ।

‘प्रपञ्चसृष्टितत्प्रवेशोत्तरभाविनस्सदादिभवनस्य सदाद्यात्मना परिणामरूपत्वमनुपपन्नम् ; सृष्टस्य पुनः सृष्ट्यसम्भवात्’ इति चेत् ; मैवम्। ‘बहु स्याम्’ इति बहुभवनसङ्कल्पश्रवणानन्तरं श्रुतस्य सदादिभवनस्य ब्रह्मणस्सदाद्यात्मना परिणामरूपत्वावश्यम्भावात्। तस्य प्रवेशोत्तरभावित्वश्रवणं तु प्रवेशस्य नित्यसिद्धत्वज्ञापनाय। अन्यथा प्रवेशस्य ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ इति सृष्ट्युत्तरभावित्वश्रवणात् स आगन्तुक इति शङ्का स्यात्। न च तस्यागन्तुकत्वं युक्तम्। सर्वगतस्य ब्रह्मणस्सदा प्रपञ्चानुस्यूतत्वात् तद्व्यतिरेकेण प्रवेशान्तराभावात्। सृष्ट्युत्तरत्वेन श्रुतस्य तस्य पुनस्सृष्टिपूर्वभावित्वश्रवणे तु सृष्टेः प्रागपि सूक्ष्मेण कारणात्मना स्थिते प्रपञ्चेऽनुस्यूतस्यैव ब्रह्मणस्सृष्टस्थूलरूपावच्छेदमात्रं ‘तत्सृष्ट्वा’ इत्यादिनोच्यते, न तु प्राक् तत्रासतस्तस्य स्वरूपेण शरीरावच्छिन्नेन रूपेण वा तत्र प्रवेश उच्यत इति ज्ञापितं भवति। किञ्च ‘इदं सर्वमसृजत’ इत्यादिना घटादिवत् स्रष्टुः पृथग्भूतं जगत्सृष्टमुक्तमिति प्रतीयते। न च तथोक्तिर्युक्ता , बहुभवनसङ्कल्पविरोधात्। अतस्तटस्थजगत्सृष्टिरुक्तेति शङ्कानिवर्तनाय ‘सच्च त्यच्चाभवत्’ इत्यनेन प्रागुक्ता सृष्टिस्सदाद्यात्मना परिणामरूपतया विवृतेति सर्वं समञ्जसम् ॥१-४-२६॥

योनिश्च हि गीयते ॥२७॥

‘कर्तारमीशं पुरुषं ब्रह्मयोनिम्’(मु.उ.३-१-३) इत्यादिश्रुतिषु ‘योनिः’ इत्यपि ब्रह्म गीयते। योनिशब्दश्च उपादानविषयः प्रसिद्धो लोके। यद्यपि स्थानवचनोऽप्ययमस्ति ; तथाऽपि पूर्वापरप्रतिज्ञादृष्टान्ताद्यनुरोधादिहोपादानवचन एव ग्राह्यः। चकारान्निमित्तञ्चेति समुच्चीयते। तत्र हेतुः ‘कर्तारमीशं’ ‘यस्सर्वज्ञस्सर्ववित्’ इत्यादिविशेषणमित्यनुक्तसिद्धम्। ननु ब्रह्मण उपादानतया सदादिपरिणामाङ्गीकारे मायारूपोपादानान्तरश्रुतेर्ब्रह्मणो निर्विकारत्वश्रुतेश्च विरोधः स्यादित्याशङ्कायामप्येतदेवोत्तरं योनिश्च हि गीयते’ इति। ‘प्रकृतिश्च’ इति सूत्रात् प्रकृतिपदं मण्डूकप्लुत्याऽनुवर्तते। ततश्चायमर्थः – न केवलं ब्रह्मैव जगदुपादानं , किन्तु ‘यो योनिं योनिमधितिष्ठत्येकः’(श्वे उ ४-११) इत्यादिश्रुतिषु योनिशब्देनोक्ता मायाऽप्युपादानमित्याम्नायते ‘मायां तु प्रकृतिं विद्यात्’ इत्यादिश्रुतिषु। ‘सन् घटः’ इत्यादिप्रतीतिषु प्रपञ्चे ब्रह्मसत्ताया इव ‘जडो घटः’ इत्यादिप्रतीतिषु मायाजाड्यस्याप्यनुगतिदर्शनादुभयोरप्युपादानत्वं युक्तम् ।

यत्तु ‘कालस्स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम्’(श्वे.उ.१-२) इति श्वेताश्वतरमन्त्रे कालस्वभावनियतियदृच्छाभूतपुरुषयोनीनां जगत्कारणत्वनिरासश्रवणं तत्कालादीनामन्यतमादेव जगदुत्पत्तिसम्भवे ब्रह्म कारणमित्येतन्मा भूदिति शङ्काऽपनोदनाय तन्मात्रकरणत्वनिरासपरं , न तु योनिशब्दोक्ताया मायायास्सर्वधा कारणत्वनिरासपरम्। ‘मायां तु प्रकृतिं विद्यात्’ इति श्वेताश्वतर एव तस्या उपादानत्वाभ्युपगमात् योनिशब्दप्रयोगेण च तस्या उपादानत्वप्रतीतेः। अत एव नास्ति निर्विकारत्वश्रुतिविरोधोऽपि। मायिकविकाराणां तात्त्विकनिर्विकारत्वाप्रतिक्षेपकत्वस्य गाधिवृत्तान्तलवणोपाख्यानादिषु लोके च प्रसिद्धतरत्वात्। तस्मात् सिद्धं ब्रह्म जगतो निमित्तमुपादानं चेति युक्तं ब्रह्मणो लक्षणम् ॥१-४-२७॥

इति प्रकृत्यधिकरणम् ।७।

एतेन सर्वे व्याख्याता व्याख्याताः ॥२८॥

स्पष्टोऽर्थः ।१-४-२८।

इति श्रीमद्भारद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजिद्याजिश्रीरङ्गराजाध्वरीन्द्रवरसूनोः चतुरधिकशतप्रबन्धनिर्माणचणस्य श्रीमदप्पय्यदीक्षितस्य कृतौ शारीरकन्यायरक्षामणौ प्रथमस्याध्यायस्य चतुर्थः पादः ।

अध्यायश्च समाप्तः

ओम् तत्सत्