प्रथमे पादे स्पष्टब्रह्मलिङ्गानि वाक्यानि निर्णीतानि। अथास्पष्टब्रह्मलिङ्गानि निर्णेतुं पादान्तरारम्भः। इदञ्च तत्र तत्राधिकरणे स्फुटीकरिष्यते। जन्मादिसूत्रे निर्णीतं ब्रह्मणो जगत्कारणत्वं तदाक्षिप्तं सर्वज्ञत्वं सर्वात्मत्वं व्यापित्वं नित्यत्वमित्येवमादयो धर्मा इह सिद्धवद्ब्रह्मलिङ्गत्वेनोपादीयन्त इति प्रथमपादोपजीवकत्वात्तदानन्तर्यम् ।
सर्वत्र प्रसिद्धोपदेशात् ।१।
छान्दोग्ये श्रूयते ‘सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत। अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति। स क्रतुं कुर्वीत’ ‘मनोमयः प्राणशरीरो भारूपस्सत्यसङ्कल्पः आकाशात्मा सर्वकर्मा सर्वकामस्सर्वगन्धस्सर्वरसः’(छा.उ.३.१४.१.२) इत्यादि अत्र ‘शान्त उपासीत’ इत्यत्र ‘स क्रतुं कुर्वीत’ इति विहितामुपासनामनूद्य शान्तिरूपगुणमात्रविधिर्लाघवादिति स्थिते ‘स क्रतुं कुर्वीत’ इत्यनिर्दिष्टोपास्यायामुपासनायां किं मनोमयादिवाक्यशेषगतलिङ्गसमर्पितो जीव उपास्यः , उत ‘सर्वं खल्विदं ब्रह्म’ इति वाक्योपक्रमगतब्रह्मश्रुतिसमर्पितं ब्रह्मेति वाक्योपक्रमस्यान्यार्थत्वानन्यार्थत्वाभ्यां सन्देहः ।
तत्र पूर्वपक्षः – मनोमयत्वं प्राणशरीरत्वं च तावज्जीवलिङ्गम्। यद्यपि ‘मनोमय’ इति मयटो विकारप्राचुर्याद्यनेकार्थधीसाधारण्यात् , प्राणः शरीरमस्येति प्राणे शरीरत्वरूपणस्य येन केनचित् सम्बन्धेन निर्वोढुं शक्यत्वाच्चाधिष्ठानत्वनियन्तृत्वादिरूपमनःप्राणसम्बन्धवति ब्रह्मण्यपि कथञ्चिद्योजयितुं शक्यम् , तथाऽपि मनःप्राणसम्बन्धित्वप्रतिपादने तदभाववत्त्वप्रतिपादन इव तयोर्जीवेन सहोपकरणोपकरणिभावलक्षणसम्बन्ध एव लोकवेदयोः प्रसिद्धतरो ग्राह्यः , नतु ब्रह्मणा सह तयोरप्रसिद्धस्सम्बन्धः ; प्रसिद्धसम्बन्धे प्रथमं बुद्ध्यवतारात्। अत एव खलु ‘अप्राणो ह्यमनाः’(मु.उ.२.१.२) इति ब्रह्मणि मनःप्राणनिषेधो झटिति स्वारस्येनैव बुद्धिमारोहति। न तु घटवति भूतले ‘घटाभाववत् भूतलम्’ इत्याप्तवाक्यमनुपपन्नतया शङ्कितं सत् समवायसम्बन्धेन घटाभाववत्परमित्युपपादनमिव ‘अप्राणो ह्यमना’ इति श्रुतिवाक्यमधिष्ठानत्वादिसम्बन्धेन मनःप्राणवति ब्रह्मणि कथमप्राणत्वममनस्कत्वञ्चेत्यनुपपन्नार्थतया शङ्कितं सत् भोगोपकरणभावेन मनःप्राणाभाववत्परमित्युपपादनमपेक्षते ।
न च वाच्यम् – मनःप्राणयोर्जीवसम्बन्धित्वप्रसिद्धावपि मनोमयप्राणशरीरशब्दौ ‘मनोमयः प्राणशरीरनेता’(मु.उ.२.२.७) ‘स य एषोऽन्तर्हृदय आकाशः तस्मिन्नयं पुरुषो मनोमयः’(तै.उ.१.६.१) इत्यादिश्रुतिषु ब्रह्मण्येव प्रसिद्धौ। ततोऽर्थानुसन्धानात् पूर्वमेव बुद्धिस्थया शब्दप्रसिद्ध्या अत्रापि मनोमयप्राणशरीरशब्दयोर्ब्रह्मपरत्वसिद्धौ तत्र सम्भवत्सम्बन्धपरतया मयट्प्रत्ययशरीरत्वरूपके योजनीये स्याताम् इति ; श्रुत्यन्तरेष्वप्यर्थानुसारेण तयोर्जीवपरत्वस्यैवाङ्गीकारेण ब्रह्मणि तत्प्रसिद्ध्यसम्प्रतिपत्तेः , पञ्चकोशान्तर्गतमनोमयशब्दस्य जीवपरत्वदर्शनाच्च। न च श्रुत्यन्तरेषु तयोर्जीवपरत्वे ब्रह्मपरपदान्तरसामानाधिकरण्यविरोधः ; अङ्गुष्ठाधिकरण (ब्र.सू.१.३.७) न्यायेन जीवब्रह्माभेदप्रतिपादनार्थत्वोपपत्तेः। न चात्रापि तयोर्ब्रह्मण्येव तदभिन्नजीवद्वारा वृत्तिस्स्यादिति वाच्यम्। मनःप्राणसम्बन्धेन प्रथमं बुद्धिस्थस्य जीवस्यैवोपास्यतयाऽन्वयसम्भवेन तमतिलंघ्य तद्द्वारा ब्रह्मणि पर्यवसानकल्पनायां ‘त्रिः प्रथमामन्वाह त्रिरुत्तमाम्’ इति विहितस्य सामिधेन्यभ्यासस्य प्रथमप्रतीतं स्थानधर्मत्वमतिलङ्घ्य तद्द्वारा प्रवोवाजीयादिऋग्धर्मत्वकल्पनावदयुक्तत्वात्। न चात्रोपरितनसत्यसङ्कल्पत्वादिब्रह्मलिङ्गानुसारेण तथा कल्पनं युक्तमिति शङ्क्यम्। ‘सत्यसङ्कल्प’ इत्यस्य प्रथमश्रुतमनोमयत्वादिजीवलिङ्गानुसारेण सति. ब्रह्मणि , असङ्कल्पः सङ्कल्परहितः , ब्रह्मज्ञानरहित इति जीवे व्याख्यातुमुचितत्वात्। ‘सर्वकर्मा सर्वकाम’ इत्यादेर्जीवे पर्यायेणोपपत्तेः ; युगपत् ब्रह्मण्यप्यसम्भवाद्। ‘ज्यायान् पृथिव्याः’ इत्यादेः ‘अन्तर्हृदयेऽणीयान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वा’ इति तत्पूर्वश्रुतहृदयायतनत्वाणीयस्त्वाविरोधेन जीव एव ब्रह्मभावापेक्षया कल्पयितुं युक्तत्वात्। ‘एष म आत्मा’ इति व्यतिरेकनिर्देशस्य ‘एतमितः प्रेत्याभिसम्भवितास्मि’ इति प्राप्यप्राप्तृभावनिर्देशस्य च औपचारिकत्वेन साधकफलावस्थाभेदेन च जीवे सङ्गमयितुं शक्यत्वात्। ‘एतत् ब्रह्म’ , इत्युपसंहारे ब्रह्मसङ्कीर्तनस्य क्वचित् ‘परब्रह्म’ इति परमात्मनि सविशेषणव्यवहारदर्शनेन जीवेऽप्यविरुद्धत्वाच्च ।
स्यादेतत् – भवेदेवं जीव उपासस्यो यदि मनोमयादिवाक्यशेष उपासनाकर्मसमर्पकः स्यात्। न त्वयमेवम्। तत्र मनोमयादिपदानां प्रथमान्ततया ‘स क्रतुं कुर्वीत’ इति प्रकृतोपासनाकर्तृविशेषणसमर्पकत्वात्। किन्तु ‘सर्वं खल्विदं ब्रह्म’ इति वाक्योपक्रम एवोपासनाकर्मसमर्पकः। तत्र ब्रह्मपदस्य द्वितीयान्तत्वसम्भवादिति चेत्। मैवम्। मनोमयादिपदानामनपेक्षितोपासनाकर्तृविशेषणसमर्पकत्वं परित्यज्य विभक्तिविपरिणामेनापेक्षिततत्कर्मसमर्पकत्वकल्पनस्यैव युक्तत्वात् , क्रतुशब्देन द्वितीयान्तस्यापि ब्रह्मपदस्यानन्वयेन षष्ठ्यन्ततया विभक्तिविपरिणामस्य तत्राप्यावश्यकत्वात्। न चोभयत्रापि विभक्तिविपरिणामे विनिगमनाविरहः , स्ववाक्यशेषादुपास्यग्रहणसम्भवे परार्थवादतस्तद्ग्रहणायोगात्। शमविधौ हेतुवन्निगदार्थवादो हि ‘सर्वं खलु’ इत्याद्युपक्रमः। यस्मात् सर्वमिदं विकारजातं ब्रह्मैव तज्जत्वात्तल्लत्वात्तदनत्वाच्च , न च सर्वस्यैकात्मत्वे रागादयस्सम्भवन्ति ; तस्माच्छान्त उपासीतेति तदेकवाक्यत्वात् ।
ननु तथाऽपि तद्गतब्रह्मपदान्वयो मनोमयादिपदानां विशेष्याकाङ्क्षया अपेक्षितः। तथा च तेषामुपास्यसमर्पकत्वेऽपि ब्रह्मणि पर्यवसानात् ब्रह्मैवोपास्यं सिद्ध्येदिति चेत् ; न। तेषां स्ववाक्यस्थानन्यार्थसमानलिङ्गात्मशब्दसमर्पितविशेष्यान्वयसम्भवे वाक्यान्तरस्थान्यार्थब्रह्मानुकर्षायोगात् , ‘आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपम्’ इत्याद्यग्निरहस्यब्राह्मणेऽस्यां विद्यायामात्मनएव विशेष्यत्वदर्शनाच्च ।
ननु तथाऽपि प्राणः शरीरमस्येति सर्वनामार्थे विहितो बहुव्रीहिः प्रकृतं ब्रह्मैव परामृशेत् ,
न तु प्रकरिष्यमाणमात्मानम् ; सर्वनाम्नां प्रकृतपरामर्शित्वात्। नपुंसकलिङ्गनिर्दिष्टस्यापि
ब्रह्मणो विशेष्यभूतात्मपदानुसारिलिङ्गवता ‘प्राणशरीरः’ इत्यनेन पराम्रष्टुं शक्यत्वात् ,
‘तस्मिन् सीद’ इतिवदन्यार्थनिर्दिष्टस्यापि सर्वनाम्ना परामर्शसम्भवाच्च। न च वाच्यं –
‘स क्रतुं कुर्वीत’ इति विहितामुपासनामनूद्य ‘सर्वं खलु’ इत्यादिना सार्थवादेन वाक्येन
शमगुणो विधेयः। तथा च प्रथमपठितमपि तत् अर्थानुसारात् पाश्चात्यमेवेति ततः
प्रागेवोपासनाविधेस्सविषयस्य पर्यवसानं वक्तव्यम्। अतः प्रवर्तिष्यमाणविध्यर्थवादः
तदुपजीव्यविधिपर्यवसानाय विषयसमर्पक इत्येतन्न युक्तम् – इति। भाव्यर्थानुसन्धानेनापि
सविषयकोपासनाविधिपर्यवसानोपपत्तेः।
उपांशुयाजविधिप्रवृत्त्यनन्तरभाविक्रमप्रमाणकयाज्यानुवाक्यान्वयलभ्यविष्णुदेवत्यत्वाद्यनुसन्धानेन
‘विष्णुरुपांशु यष्टव्य’ इत्यादिस्तुतिसहितोपांशुयाजविधिपर्यवसानदर्शनात्। एवञ्च –
’सर्वनाम प्रसिद्धार्थं प्रसाध्यार्थविघातकृत् ।
प्रसिद्ध्यपेक्षि सत् पूर्ववाक्यस्थमपकर्षति ॥’
इति ज्योतिरधिक रणोक्तन्यायेनैव मनोमयादिवाक्यस्य ब्रह्मपरत्वं सिद्ध्यति। न च तत्र प्रकृतपरत्वप्रत्यभिज्ञापकोऽस्ति द्युसम्बन्धः ; नात्र प्रकृतप्रत्यभिज्ञापकोऽस्तीति वैषम्यं शङ्कनीयम्। सर्वनाम्नः प्रकृतपरत्वस्य व्युत्पत्तिसिद्धत्वेन तत्सिद्ध्यर्थं प्रकृतप्रत्यभिज्ञापकानपेक्षणात्। ‘सा वैश्वदेव्यामिक्षा तत्संसृष्टं प्राजापत्यम्’ इत्यादिषु प्रत्यभिज्ञापकाभावेऽपि सर्वनाम्नः प्रकृतपरत्वदर्शनात्। ज्योतिर्वाक्येऽपि ‘दिवि’ ‘दिवः’ इति निर्देशभेदेन द्युसम्बन्धस्य वस्तुतः प्रत्यभिज्ञापकत्वाभावाच्चेति चेत् ; मैवं। मनोमयशब्दस्य प्रसिद्धसम्बन्धानुरोधेन जीवपर्यवसायितया तदुपस्थापितजीवस्यैव सर्वनामार्थेन बहुव्रीहिणा परामर्शसम्भवात् , तदसम्भवेऽपि प्राणसम्बन्धरूपवर्तिपदार्थप्रसिध्यनुरोधेन प्रक्रंस्यमानस्यात्मनः परामर्शसम्भवाच्च। प्रक्रान्तपरत्वे वर्तिपदार्थस्वारस्यभङ्गापत्तेः। सर्वनाम्नः प्रक्रान्तपरत्वासम्भवे च प्रक्रंस्यमानपरत्वं ‘अथैष ज्योतिः’ इत्यादिवन्न दुष्यति ।
एतेन – मा भूच्छमविध्यर्थवादः स्वातन्त्र्येण वा मनोमयादिवाक्ये विशेष्यसमर्पकतया वा सर्वनामार्थसमर्पकतया वा ब्रह्मण उपास्यत्वसंयोजकः। त्रिपाद्ब्रह्मप्रकरणमव्यवहिते ज्योतिर्वाक्येऽप्यनुवृत्तं तथा स्यादित्यपि शङ्का निरस्ता ; समभिव्याहृतवाक्यशेषोपात्तलिङ्गसमर्पितस्य जीवस्योपास्यत्वेनान्वयसम्भवे प्रकरणसमर्पितस्य ब्रह्मणस्तथात्वेनान्वयायोगात्। लिङ्गवाक्याभ्यां प्रकरणस्य दुर्बलत्वात् ।
ननु वाक्यशेषगतजीवलिङ्गं निष्प्रयोजनम्। न ह्यपूर्वार्थबोधनाय
मनोमयत्वप्राणशरीरत्वोपन्यासः ; जीवे तदुभयवैशिष्ट्यस्य लोकसिद्धत्वात् , उपासनावाक्यशेषे
तदनुपयोगिजीवस्वरूपनिरूपणस्यानपेक्षितत्वाच्च। नाप्युपास्यो जीव इति गमयितुं तदुपलक्षणाय ,
एकेनैव तदुपलक्षणसिद्धावितरवैयर्थ्यात्। नापि तदुभयविशिष्टत्वेन तदुपासनासिद्धये ;
मनस्संवलितरूपतया सदा अहमिति भासमाने जीवे विधिं विनाऽपि
तद्विशिष्टतयैवोपासनासिद्धेः। एवं निष्प्रयोजनाद्वाक्यशेषसमर्पितजीवलिङ्गात्
सर्वाभिलषितब्रह्मप्रकरणं बलवदिति तदेवोपास्यसमर्पकं युक्तमिति चेत् ; न।
नित्यमहंप्रत्ययविषयतयोपासनाविषयत्वेनापि प्राप्तात् मनस्तादात्म्यादन्यत्रैव मनोविकारत्वे
स्वप्नजागरानुवृत्तमनःप्रचुरत्वे मनःप्रधानत्वे वा ‘द्वयोः प्रणयन्ति’ इत्यस्य
चोदकाप्राप्तप्रणयनान्तर इव वृत्तिसम्भवेन जीवलिङ्गप्रतिपादनस्योपासनार्थत्वेनैव
सप्रयोजनत्वात्। तस्मान्मनोमयादिवाक्यशेषगतलिङ्गसमर्पितो जीव एवोपास्य इति। अत्रोच्यते
–
प्रकृतब्रह्मणस्सर्वतादात्म्येनोपदेशतः ।
क्रतौ तदेवान्यार्थमुपास्यं प्रमिमीमहे ॥
‘सर्वं खल्विदं ब्रह्म’ इत्युपक्रमवाक्ये तावत्सर्वस्मिन् प्रपञ्चे ‘इदं ब्रह्म’ इतीदंशब्दसमानाधिकृतेन ब्रह्मशब्देन परामृष्टं त्रिपाद्ब्रह्म तादात्म्येनोपदिश्यते। इदमित्येतद्धि ब्रह्मणो विशेषणं , न तु सर्वस्य ; तद्विशेषणत्वे प्रयोजनाभावात् , ‘सर्वं ब्रह्म’ इत्येतावतैव सर्वस्य ब्रह्मात्मकत्वसिद्धेः। ब्रह्मविशेषणत्वे त्वस्ति प्रयोजनं प्रकृतत्रिपाद्ब्रह्माधिकारलाभः। स च प्रकृतस्य प्रयत्नेनाधिकारःस्वानर्थक्यपरिहाराय क्रतौ वाक्यशेषगतलिङ्गं बाधित्वा स्वयमुपास्यत्वेन ब्रह्मसमर्पणार्थः पर्यवस्यतीति तदेव प्रकरणसमर्पितमनन्यार्थं सर्वात्मकं ब्रह्मात्रोपास्यमित्यध्यवस्यामः ।
ननु ‘सर्वं खल्विदं ब्रह्म’ इत्यादि शमविध्यर्थवाद इति दर्शितं भाष्यकृता पूर्वपक्षे। सिद्धान्तेऽपि तदनुमत्यैव ब्रह्मण उपास्यत्वमुपपादितं ‘यद्यपि शमविधिविवक्षया ब्रह्म निर्दिष्टम्’ इत्यादिना। कथमनन्यार्थकत्वेन तस्योपास्यसमर्पकत्वमुच्यते ? सत्यम्। त्रिपाद्ब्रह्मानुकर्षणार्थेदंविशेषणबलादुपास्यसमर्पणार्थेनापि तेन सन्निहितस्य शमविधेः स्तुतिद्वारा अर्थसमर्पणरूप उपकारः प्रसङ्गात्सिद्ध्यतीति सिद्धान्ते तदनुमतिः , न तु शमविधिशेषतया , ‘सर्वं ब्रह्मात्मकम्’ इत्येतावतैव शमविधिशेषत्वसम्भवेन तदर्थत्वे ‘इदम्’ इति विशेषणवैयर्थ्यात् ।
ननु शमविधिस्तुतौ ‘सर्वं ब्रह्मात्मकम्’ इति धीरपेक्ष्यते। उपास्यसमर्पणार्थं प्रकृतस्य त्रिपाद्ब्रह्मणःस्वप्राधान्येनाधिकार इत्यभ्युपगमे सर्वस्य तज्जत्वादिकं परंपरया हेतूकृत्य तद्धेतुकसर्वात्मत्वशालि प्रकृतं ब्रह्म प्रतिपाद्यं वक्तव्यमिति कथं तेन शमविधेरुपकारसिद्धिः ? सत्यम्। ब्रह्मणस्सर्वात्मकत्वप्रतिपादने सर्वस्य ब्रह्मात्मकत्वमप्यर्थाल्लभ्यत इति तेन तस्योपकारसिद्धिः ।
ननु ‘यद्यपि शमविधिविवक्षया’ इति भाष्यस्वारस्येन शमविधिशेषत्वमेव भाष्यकृदभिमतं प्रतीयते। कथं प्रासङ्गिकोपकाराभिप्रायं तद्व्याख्यायते ? तत्स्वारस्यानुरोधेन श्रुताविदंशब्द एव ‘इदं सर्वं यदयमात्मा’ इत्यादिश्रुताविव सर्वविशेषणमिति व्याख्यायताम्। उच्यते – अत्रेदंशब्दस्य प्रकृतत्रिपाद्ब्रह्मानुकर्षणार्थतया ब्रह्मविशेषणत्वेन सार्थकत्वे सम्भवति परिदृश्यमानप्रपञ्चस्वरूपानुवादमात्रपरत्वं न वक्तव्यमित्येव भाष्यकृतोऽभिसन्धिः। अत एव ज्योतिरधिकरणे (ब्र.सू.१.१.१०) ज्योतिर्वाक्ये त्रिपाद्ब्रह्मानुवृत्तौ विवदमानं पूर्वपक्षिणं प्रति द्युसम्बन्धप्रत्यभिज्ञापनेन तत्र तदनुवृत्तिं प्रसाध्य तस्यामेव हेत्वन्तरमुक्तं ‘न केवलं ज्योतिर्वाक्य एव ब्रह्मानुवृत्तिः ; परस्यामपि हि शाण्डिल्यविद्यायामनुवर्तिष्यते ब्रह्म’ इति। अनेन हि भाष्यवाक्येन परत्राप्यनुवृत्तिरत्रानुवृत्त्यवश्यंभावे हेतुत्वेन दर्शिता। सा कथं ज्योतिर्वाक्येऽपि त्रिपाद्ब्रह्मानुवृत्तिमनङ्गीकुर्वाणं पूर्वपक्षिणं प्रति सिद्धवद्धेतुभावं प्रतिपद्येत यद्यत्र त्रिपाद्ब्रह्मानुकर्षणैकप्रयोजनेदंविशेषणसामर्थ्यं नाश्रीयते ? भाष्ये शमविधिशेषत्वोपन्यासस्तु शमविधिशेषत्वमङ्गीकृत्यापि परिहर्तुं शक्यत इत्यभिप्रायः प्रौढिवादः। प्रौढिवादत्वं च तस्य भाष्य एव ‘यद्यपि’ इत्यनेन ध्वनितम् ।
तत्रायं परिहाराभिप्रायः – यद्यपि ब्रह्म शमविध्यर्थवादे परविशेषणत्वेन निर्दिष्टम् , तथाऽपि ब्रह्मैव तद्गुणकतयोपास्यमिति बुद्धिसन्निहितं भवति , न जीवः ; मनोमयत्वादिगुणानां जीवपर्यवसाने हेयगुणत्वाद्धेयगुणानां चात्रैव प्रदर्शितेन तत्क्रतुन्यायेन विरुद्धतया अनुपासनीयत्वात्। अत्र हि ‘यथाक्रतुरस्मिन्लोके पुरुषो भवति तथेतःप्रेत्य भवति’ इति वाक्येनोपासको यद्गुणविशिष्टतयोपास्ते , तद्गुणकः स्वयं परत्र भवतीति तत्क्रतुन्यायो दर्शितः। कथं तद्गुणोपासनामात्रेण स्वयं तद्गुणकःस्यादिति विचिकित्सायाम् ‘अथ खलु क्रतुमयः पुरुष’ इति पूर्ववाक्येन यस्मात् क्रतुशब्दितध्यानप्रधानो जीवः , न तूपायान्तरप्रधानः अतो ध्यानमात्रेण तत्तद्गुणकःस्यादेवेत्युपपत्तिरपि दर्शिता। एवं सोपपत्तिकमत्रैव दर्शितस्तत्क्रतुन्यायोऽत्रानुपकुर्वन् विपरीतार्थतामापद्यते चेत् क्वान्यत्रोपकुर्यात् ? एवमप्यत्र नादरणीयस्स्यादन्यत्रैवोपकारः स्यात् यद्यत्र मनोमयादिवाक्ये जीव एवाहत्य निर्दिष्टः स्यात्। तदा हि पञ्चाग्निविद्यावत् सांसारिकहेयगुणविशिष्टजीवविषयाऽप्येषा वचनबलात् सत्यसङ्कल्पत्वाद्याविर्भावसम्पादकब्रह्मप्राप्तिहेतुर्भवेत् , न तु तत्र जीवः स्वशब्दोपात्तोऽस्तीति ।
ननु मनोमयत्वादिषूपदिश्यमानेषु ब्रह्म केनोपायेन बुद्धिसन्निहितं भवतीति चेत् ; विश्वजिन्न्यायेनेति ब्रूमः। यथा विश्वजिद्विधिना तस्य सामान्यत इष्टसाधनत्वावगताविष्टविशेषाकाङ्क्षायां सर्वाभिलषितस्वर्गइष्टविशेषतया बुद्धिसन्निहितो भवति , तथोपासनाविधिना सामान्यत उपास्यसिद्धौ तद्विशेषाकाङ्क्षायां मनोमयादिवाक्यस्वरसविषयस्य जीवस्योपास्यत्वायोग्यत्वे सर्वाभिलषितसत्यसङ्कल्पत्वादिगुणविशिष्टतया सर्ववेदान्तप्रसिद्धं ब्रह्मैवोपास्यविशेषतया समनन्तरप्रदर्शिततत्क्रतुन्यायविदां बुद्धिसन्निहितं भवति। यद्यपि वाक्यशेषस्वरसविषयस्य जीवस्योपास्यत्वेन परिग्रहे रात्रिसत्रन्यायोऽनुसृतो भवति , रात्रिसत्रन्यायश्च विश्वजिन्न्यायात् बलीयान् , तथाऽप्यत्र हेयगुणजीवोपासनापर्यवसायितया निष्प्रयोजनाद्रात्रिसत्रन्यायात् उत्कृष्टगुणब्रह्मोपासनापर्यवसायितया सप्रयोजनो विश्वजिन्न्यायो बलीयानिति स एवात्रानुसरणीयः। यद्वा सर्वनामार्थो बहुव्रीहिः मनस्सम्बन्धादिप्रसिध्युपस्थापितेऽपि जीवे हेयगुणे पर्यवसानस्यायुक्ततया शमविध्यर्थवादनिर्दिष्टे ब्रह्मणि पर्यवस्यतीत्यनेन प्रकारेण ब्रह्मणो बुद्धिसन्निहिततोपपादनीया। न च वाच्यम् – तत्र तत्र ब्रह्मणि परब्रह्मशब्दप्रयोगदर्शनेन केवलब्रह्मशब्दस्य जीवेऽपि प्रयोज्यतावगमात् शमविध्यर्थवादस्थो ब्रह्मशब्दोऽपि जीवपरोऽस्तु – इति ; सर्वेषु वेदान्तेषु ब्रह्मशब्दालम्बनतया परस्य प्रसिद्धत्वेन तत्रैव प्रथमं बुध्यवतारात्। तस्मादिह ब्रह्मैवोपास्यत्वेनान्वेतीति सिद्धम् ।
सूत्रस्यानन्यार्थत्रिपाद्ब्रह्माधिकारपरं ‘सर्वं खलु’ इत्यादिकमिति सिद्धान्ते , सर्वत्र. ‘सर्वं खलु’ इति निर्दिष्टे सर्वस्मिन् , प्रसिद्धस्य – प्रकृतस्य त्रिपाद्ब्रह्मणस्तादात्म्येनोपदेशादित्यर्थः। ‘सर्वं खलु’ इत्यादिकं शमविधिशेष इत्यभ्युपगम्य कृते सिद्धान्ते , सर्वत्र. सर्वेषु वेदान्तेषूपासकाभिलषितगुणविशिष्टतया प्रसिद्धस्य ब्रह्मणो विश्वजिन्न्यायेनोपस्थितस्य मनोमयत्वादिधर्मविशिष्टतयोपदेशादिति प्रथमे पक्षे अर्थः। द्वितीयपक्षे तु , सर्वत्र. ‘सर्वं खल्विदं ब्रह्म’ इति वाक्ये , प्रसिद्धस्य प्रकृतस्य ब्रह्मणः ‘प्राणशरीर’ इति सर्वनामार्थेन बहुव्रीहिणपरामृश्योपास्यगुणविशिष्टतयोपदेशादित्यर्थः। तदपि वाक्यं जीवपरमस्त्विति शङ्कानिराकरणे तु , सर्वेषु वेदान्तेषु ब्रह्मशब्दालम्बनतया प्रसिद्धस्य परस्यैवात्रापि ब्रह्मशब्देनोपदेशादित्यर्थः। एतास्सर्वा अपि योजनाः ‘यत्सर्वेषु वेदान्तेषु प्रसिद्धं ब्रह्मशब्दालम्बनम्’ इत्यादिभाष्येण गर्भीकृताः ।१.२.१।
स्यादेतत् – यथा वाक्यशेषनिर्दिष्टा गुणा न जीवे तत्क्रतुन्यायानुकूला एवं ब्रह्मण्यपि। तथा हि – सर्वकर्मत्वं सर्वकारणत्वम् ; बालाक्यधिकरण (ब्र.सू.१.४.५) न्यायेन कर्मशब्दस्य क्रियत इति व्युत्पत्त्या कार्यपरत्वात्। तत्तावन्नोपासकेन प्राप्यम् ; जगद्व्यापाराधिकरण(ब्र.सू.४.४.७) न्यायविरोधात्। सर्वकामत्वं सर्वं कामयत इति कर्मण्युपपदे अण्प्रत्ययान्ततया ‘सोऽकामयत’(तै.उ.२.६.१) इति श्रुत्युक्तं स्रष्टव्यसर्वविषयकामनावत्त्वम्। तदपि तथैव। काम्यन्त इति कामा इति कामशब्दस्य भोगपरतया सर्वभोगशालित्वं तदिति चेत्। तत् सर्वभोगाश्रयसकलजीवतादात्म्यनिर्वाह्यमिति तदपि नोपासकेन प्राप्तुं शक्यम् ; सगुणविद्याफलानुभवसमयेऽपि परिच्छिन्नत्वानपायात्। अविद्याऽवच्छिन्नो जीवः अविद्या च व्यापिनीत्यभ्युपगमे व्यापित्वस्य प्राप्तत्वेन प्राप्तव्यगुणत्वाभावात्। एतेन ज्यायस्त्वाणीयस्त्वे अपि व्याख्याते। ‘अवाकी’(छा.उ.३.१४.२) इत्युक्तं वागिन्द्रियोपलक्षितसकलेन्द्रियराहित्यं तु सगुणफलानुभवसमये भोगान् भुञ्जानस्योपासकस्य नोपेक्षितम्। विषयस्पृहाराहित्यरूपमनादरत्वमवाप्तसकलकामत्वापेक्षं ब्रह्मणोऽन्यत्र न सम्भवति। ननु ‘सर्वकर्मा सर्वकाम’ इत्यादिकमुपास्यगुणनिर्देशपरं मा भूत् , केवलमुपास्यस्योपलक्षकं स्तुत्यर्थं वाऽस्त्विति चेत् ; न। सर्वकर्मत्वादीनां द्विः पाठेनाभ्यासावगततात्पर्यविषयभावानामुपास्यबहिर्भावकल्पनाऽयोगात् , प्रत्युत वाक्यशेषनिर्दिष्टेषु सर्वेषु गुणेषूपास्यतया प्रसक्तेषु सर्वकर्मत्वादीनां पुनः पाठस्य गुणान्तरपरिसंख्यार्थत्वौचित्येन तेषामेवोपास्यगुणत्वप्रतीतेश्च , मनोमयत्वादीनामपि मनस्सम्बन्धादिपर्यवसितानामुपासकस्पृहणीयगुणत्वाभावाच्चेत्याशंक्याह –
विवक्षितगुणोपपत्तेश्च। २।
विवक्षिताः – उपास्यत्वेन तात्पर्यविषया ये मनोमयत्वादयः ते ब्रह्मणि तत्क्रतुन्यायानुरोधिनः स्पृहणीयगुणा इत्येतदुपपद्यते। तथा हि – सगुणोपासनासिद्धस्य ब्रह्मलोके भोग्यभोगोपकरणानि यानि प्राक्सिद्धान्यरण्या (अर्णवा)दीनि यानि च स्वसङ्कल्पसाध्यानि स्त्र्यन्नपानादीनि तानि सर्वाणि स्वाप्नपदार्थवन्मानसप्रत्ययरूपाण्येव। यथा चैतत्तथा छान्दोग्यभाष्ये दहरविद्याप्रकरणे ‘य इमेऽर्णवादयो ब्रह्मलोके सङ्कल्पजाश्च पित्रादयो भोगास्ते किं पार्थिवा आप्याश्च यथेह लोके अर्णववृक्षपूर्मण्डपाद्याः , आहोस्विन्मानसप्रत्ययमात्रा इति। किञ्चातः। यदि पार्थिवा आप्याश्च स्थूलास्स्युः हृद्याकाशे समाधानानुपपत्तिः। पुराणे च मनोमयानि ब्रह्मलोकेऽर्णवशरीरादीनीति वाक्यं विरुध्येत’ इत्यादिना ‘तस्मान्मानसा एव ब्राह्मलौकिका अरण्यादयस्सङ्कल्पजाश्च पित्रादयः कामा बाह्यविषयभोगवदशुद्धिरहितत्वात् शुद्धसत्त्वसङ्कल्पजन्या इति निरतिशयास्सत्याश्चेश्वराणां भवन्ति’ इत्यन्तेन भगवत्पादैरेव प्रपञ्चितम्। त इह ब्राह्मलौकिकाः पदार्था मनोविकारत्वान्मनोमया इति सर्वविकाराभिन्नः परमेश्वरोऽपि मनोमयः। अत एव विकारादिवाचिमनोमयशब्दो जीव एव समवेतार्थो न ब्रह्मणीत्याशंक्य ब्रह्मणि तदुपपादनार्थो भामतीग्रन्थः ‘तस्यापि सर्वविकारकारणतया विकाराणाञ्च स्वकारणादभेदात्तेषाञ्च मनोमयतया ब्रह्मणस्तत्कारणस्य मनोमयत्वोपपत्तेः’ इति। एवञ्च मनोमयत्वं ब्राह्मलौकिकदिव्यभोगसम्पन्नत्वरूपमुपासकस्य परत्र प्रेप्सितगुणो भवत्येव। तथा प्राणाः शरीराणि शरीरवन्नियम्यान्यस्येति प्राणशरीरत्वं सर्वात्मना वश्येन्द्रियत्वरूपम्। तदपि तस्य स्पृहणीयमेव ; ‘ते ब्रह्मलोकेषु परान्तकाले’(महानारा.१०.६) ‘ब्रह्मणा सह ते सर्वे’ इत्यादिश्रुतिस्मृत्यनुसारेण हिरण्यगर्भेण सह मोक्ष्यमाणानामहंग्रहोपासनापराणामपेक्षिते परब्रह्मसाक्षात्कारे चित्तवशीकरणस्योपायत्वात्। ‘एकवचनमुत्सर्गतः करिष्ये’(महाभाष्य) इति न्यायमवलम्ब्य प्राणः शरीरमस्येति विग्रहकरणे तल्लभ्यं वश्यवायुत्वमपि तस्य स्पृहणीयमेव ; वायुजयस्य मनोवशीकरणोपायत्वेन योगशास्त्रप्रसिद्धत्वात्। भारूपत्वं निर्मलचैतन्यलक्षणदीप्तिस्वरूपत्वं उपासकानुग्रहार्थपरिगृहीतविग्रहोपाधिकदीप्तिमत्त्वं वा। सत्यसङ्कल्पत्वमुक्तवक्ष्यमाणगुणनिर्वाहकममोघसङ्कल्पत्वम्। आकाशात्मत्वं ‘आकाश इव पङ्केन न स पापेन लिप्यते’ इति स्मृतिप्रसिद्धनिर्लेपत्वम्। सर्वकर्मत्वं ‘स यदि पितृकामो भवति सङ्कल्पादेवास्य पितरस्समुतिष्ठन्ति’(छा.उ.८.२.१) इत्यादिश्रुतिप्रसिद्धं प्रागुक्तमनोमयपित्रादिसकलस्रष्टृत्वम्। सर्वगन्धत्वं सर्वरसत्वं च भोग्यतया सकलशुभगन्धरसवत्त्वम् , यस्य पर्यङ्कविद्यायामर्चिरादिमार्गेण ब्रह्म प्राप्नुवता विदुषा प्राप्तव्यत्वं श्रूयते ‘‘तं ब्रह्मगन्धः प्रविशति , तं ब्रह्मरसः प्रविशति’(कौ.उ.१.५) इति। ‘सर्वमिदमभ्यात्त’(छा.उ.३.१४.२) इति प्रागुक्तसकलगुणाभिव्याप्तिमत्त्वम्। यद्यप्येतदनुक्तसिद्धम् , तथाऽपि ‘सर्वकर्मा’ इत्यादिपुनः पाठस्य परिसङ्क्यार्थत्वशङ्कानिरासाय प्रागुक्तास्सर्वेऽपि गुणा उपास्या इति प्रतिपादनार्थम्। तेन पुनः पाठः केवलमादरार्थो न परिसङ्ख्यार्थ इति सिद्ध्यति। सर्वरसान्तास्सर्वेऽपि गुणा उपास्यास्तदनन्तरगुणास्त्वविरुद्धा एवोपास्या इति च सिद्ध्यति। अतो न किञ्चिदनुपपन्नम् ।
सूत्रे ‘धर्मोक्तेः’ ‘धर्मोपदेशात्’ इत्यादिवत् धर्मपदमप्रयुज्य गुणपदग्रहणं तत्र विवक्षितविशेषणं च मनोमयादिपदानां यत्नेनोपास्यत्वानुगुणार्थपरिग्रहे हेतुत्वेनोपात्तम्। यत एव मनोमयत्वादयः ‘सर्वमिदमभ्यात्त’ इति सिद्धार्थपुनःप्रतिपादनफलादुपास्यत्वेन विवक्षिताः , अतस्ते समनन्तरप्रदर्शिततत्क्रतुन्यायसाफल्याय परत्रोपासकलभ्यगुणतयैवोपपादनीयाः , न तु ब्रह्मधर्ममात्रतयेति तदभिप्रायः। ‘उपपत्तेश्च’ इति चकारस्य त्वयमभिप्रायः – मनोमयादिशब्दाः प्रदर्शितार्थेषु स्वारस्याभावेऽपि तत्क्रतुवचनानुरोधाद्यत्नतस्तत्परतयोपपादनीया इत्येतावदेव न। उपपद्यन्ते च ते प्रदर्शितार्थेषु स्वरसत एव न तु यत्नमपेक्षन्त इति। तथा हि – मनोमयशब्दस्तावन्मनोविकारार्थः ; तैत्तिरीये तस्य तदर्थतया निर्णीतत्वेनान्यत्राप्यौत्सर्गिकत्वात्। मनोविकारत्वं च ब्रह्मणि साक्षादसम्भवत् मनोविकारवस्त्वभेदेनोपपादनीयम्। तथाभूतं च वस्तु बुद्धिसन्निहितं ग्राह्यम् ; व्यक्तिवचनानां सन्निहितविशेषपरत्वनियमात्। सन्निहिताश्चोपासकसङ्कल्पसाध्याः पित्रादयो मनोमयाः ; ‘स क्रतुं कुर्वीत’ इति लिङा उपासनाया इष्टसाधनत्वे बोधिते इष्टविशेषाकांक्षायामुपासनाफलत्वेन श्रुत्यन्तरप्रसिद्धानां तेषामिष्टविशेषत्वेनान्वयात्। ‘सर्वकर्मा’ इत्यत्रापि तेषां पितृमातृभ्रातृस्वसृसखिगन्धमाल्यगीतवादित्रस्त्र्यन्नपानादिरूपाणां सामस्त्यमेवोच्यते ; अनादिजीवाविद्यादिसाधारण्येन सर्वेषां मुख्यवृत्त्या ब्रह्मकार्यत्वस्यायुक्ततया किञ्चिदवच्छेदापेक्षायां ‘अथैतस्य हार्योजनस्य सर्व एव लिप्सन्ते’ इत्यत्र सर्वशब्दस्य प्रकृतऋत्विक्सामस्त्य इव प्रकृतमनोमयकार्यसामस्त्ये वृत्त्यौचित्यात्। एवं च सर्वगन्धसर्वरसशब्दयोरपि प्रायपाठानुसारेण उपासकप्राप्यब्रह्मगन्धरससामस्त्यएव पर्यवसानं स्यादिति ॥१.२.२॥
यद्येवमुपासकजीवेऽपि मनोमयत्वादय उपासनया प्राप्स्यमानास्सन्तीति तत्रापि तेषां नानुपपत्तिरित्याशङ्क्याह –
अनुपपत्तेस्तु न शारीरः ।३।
यद्यपि मनोमयत्वादयो भाव्यभिप्रायेण जीवेऽपि कथञ्चिदुपपद्यन्ते , तथापि ‘अवाकी’ इत्यादिनोक्ता अनिन्द्रियत्वादयः कथमपि नोपपद्यन्ते। ते हि नोपासनार्थमुपात्ताः , किन्तु घ्राणरसनभोग्यगन्धरसवत्त्वोक्त्या प्रसक्तामिन्द्रियवत्त्वशङ्कां सत्यसङ्कल्पेन ब्रह्मणा गन्धरसादिभोगसंपत्तये स्वस्येन्द्रियाणि किमिति न सङ्कल्प्यन्त इति शङ्कामणीयस्त्वोक्तिप्राप्तव्यापित्वाभावशङ्कां च निवर्तयितुमुक्ताः। अतस्ते नोपासकप्राप्यगुणतया व्याख्येया इति ते जीवे नोपपद्यन्त एव। किञ्च मनोमयत्वादयो ब्रह्मगुणा एव ग्रहीतुमुचिताः , न तूपासकगुणा इति वैषम्यं सूत्रे तुशब्देन द्योत्यते। ते हि ब्रह्मणि स्वतस्सिद्धाः , जीवे तूपासनालक्षणहेतुसाध्याः। सिद्धसाध्यधर्मग्रहणसन्देहे च सिद्धधर्मा एव ग्राह्याः , न तु साध्यधर्मा इत्यन्तर्याम्यधिकरणे (ब्र.सू.१.२.५) वक्ष्यमाणमेकं वैषम्यम्। ब्रह्मगुणग्रहणेनानन्यार्थत्रिपाद्ब्रह्माधिकारानुग्रहे बहुव्रीहेः प्रकृतपरत्वस्वारस्यानुग्रहे च सम्भवति तद्बाधनं न युक्तमित्यपरं वैषम्यम्। अतश्शारीर उपास्यो न भवति। (१.२.३) ।
अपि च – ‘एतमितः प्रेत्य’(छा.उ.३.१४.४) इत्यादिकर्मकर्तृव्यपदेशात् , स्वप्रकरणे ‘एष म आत्मा’(छा.उ.७.१४.३) इति , वाजसनेयके समानप्रकरणे ‘एवमयमन्तरात्मन् पुरुषो हिरण्मय’ इति चासमानविभक्तिकशब्दविशेषात्’ ‘ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति’(भ.गी.१८. ६०) इत्यादिस्मरणाच्च न शारीर उपास्य इति सूत्रत्रयेणाह –
कर्मकर्तृव्यपदेशाच्च ।४।
शब्दविशेषात् ।५।
स्मृतेश्च ।६।
यद्यपि ‘एतमितः प्रेत्याभिसम्भविता’(छा.उ.३.१४.४) इत्यत्राप्यसमानविभक्तिकशब्दरूपशब्दविशेषोऽस्ति , तथाऽपि तत्र प्राप्यप्राप्तृतारूपकर्मकर्तृव्यपदेशः साधकफलावस्थाभेदेनोपपद्यत इति शङ्कापरिहारायैकस्यामेवावस्थायां ‘स क्रतुं कुर्वीत मनोमयः प्राणशरीरः’(छा.उ.३.१४.१) इत्याद्युपास्योपासकतारूपकर्मकर्तृव्यपदेशोऽपि प्रदर्शनीयः। तत्प्रदर्शने च ‘एतमितः प्रेत्य’ इत्यत्राप्यवस्थाभेदेनोपपत्तिशङ्का परिहृता भवति। न तु तत्प्रदर्शनं शब्दविशेषसूत्रेण कर्तुं शक्यम् ; उपास्योपासकयोर्द्वयोरपि प्रथमान्तेन निर्दिष्टतया विशेषाश्रवणात्। अतस्तत्सङ्ग्रहाय कर्मकर्तृव्यपदेशसूत्रम्। तत्र व्यपदेशो विशिष्टोऽपदेशः एकावस्थायामपि कर्मकर्तृभावनिर्देशः। चकारो ‘न शारीर’ इति समनन्तरसूत्रप्रकृतावान्तरसाध्यविषयतयाऽस्य हेतोः ‘अनुपपत्तेः’ इति तद्धेतुना सह समुच्चयसूचनार्थः ।
यद्यपि ‘शब्दविशेषात्’ इत्यपि तत्रैव हेतुः , तथाऽपि तस्य ‘राहोश्शिरः’ ‘स्वे महिम्नि’ इत्यादिवदुपचारोऽस्त्विति शङ्कानिवर्तनाय स्मृत्यनुग्रहापेक्षत्वादनन्तरसूत्रार्थसाहित्येन तस्य हेतुत्वपर्यवसानमिति तत्रैव चकारः प्रयुक्तः। तत्साहित्ये हि स्मृतावीश्वरशब्दितस्य देहाख्ययन्त्रारूढानां जीवानां भ्रान्तिजनकत्वेन प्रसादाय शरणीकरणीयत्वेन च जीवभिन्नस्यैव हृदये स्थितिसिद्धौ तस्यैव ‘एष म आत्मा’ इत्यादौ ग्रहणसम्भवान्नोपचारः कल्पनीय इति तच्छङ्काव्यावर्तनं लभ्यते ।१.२.४ , ५ , ६ ।
अथ ब्रह्मण उपास्यत्वे अल्पायतनत्वाणीयस्त्वलिङ्गविरोधशङ्कामुद्भाव्य निराकरोति –
अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥७॥
इहोपास्यतया निर्दिष्टं ब्रह्म न भवति ‘एष म आत्माऽन्तर्हृदयेऽणीयान्’(छा.उ.७.१४.३) इति श्रुतादल्पायतनत्वात्। न हि सर्वगतं ब्रह्मान्तर्हृदये शक्नोति मातुम्। ननु तत्र मातुमशक्तस्यापि ब्रह्मणस्तद्गतत्वमस्त्येव , अन्यथा तस्य क्वचिदपि सम्बन्धाभावे सर्वगतत्वमेव न स्यात्। ततश्चान्यगतत्वाविरोधेन तद्गतत्वमात्रविषयोऽयं ‘अन्तर्हृदय’ इति निर्देशोऽस्तु। न च ‘अपवरके देवदत्तः’ इत्यादवन्यगतत्वविरोधिन्येकत्र पर्यवसितवृत्तित्व एवेत्थं निर्देशो दृष्ट इति वाच्यम्। ‘स एवाधस्तात् स उपरिष्टात्’(छा.उ.७.२५.१) इत्यादौ तत्तद्वस्तुगतत्वमात्रेऽप्येवं निर्देशदर्शनादिति चेत् ; मैवम्। उभयथोपपन्नोऽपि ‘अन्तर्हृदये’ इति निर्देशोऽग्रिमाणीयस्त्वोपन्यासेन तत्रैव पर्यवसितवृत्तित्वविषय इत्येवावगमात्। तन्निर्धारणार्थतायामेव तस्य सप्रयोजनत्वात्। तथा च ‘एष म आत्मा’ इति वाक्ये अणीयस्त्वोपपत्त्युपन्यासपूर्वकस्य विधेयस्य हृदयायतने पर्यवसितवृत्तित्वस्यान्तःकरणोपाधिकत्वेनाराग्रमात्रे जीव एव सम्भवात् ; तात्पर्यविषयविधेयानुसारेणोद्देश्योपमर्दनस्य ‘अप्याग्निष्टोमे राजन्यस्य गृह्णीयादप्युक्थ्ये ग्राह्य’ इत्यादिषु दृष्टत्वाच्च। ‘एष म आत्मा’ इत्युद्देश्यगतव्यतिरेकनिर्देशो ‘राहोश्शिर’ इतिवदौपचारिको ग्रहीतव्यः। उदाहृतस्मृतिस्त्वीश्वरस्यान्यगतत्वाविरुद्धसर्वगतत्वमात्रविषया नास्य व्यतिरेकनिर्देशस्याणीयस्त्वोपपत्त्या जीवविषयत्वनिर्णयेन प्राप्तमौपचारिकत्वं निरोद्धुमीष्टे। तथा प्राप्यप्राप्तृभावनिर्देशोऽपि साधकफलावस्थाभेदेन नेतव्यः। उपास्योपासकभावस्त्वेकस्याविरुद्धः ; पञ्चाग्निविद्यादिषु स्वात्मनस्स्वोपास्यत्वसम्प्रतिपत्तेः। मनोमयत्वादिकमपि प्राप्स्यमानगुणतया जीव एव नेतव्यम्। वाक्योपक्रमस्तु शमविध्यर्थवादतया नेतव्यः। सर्वनामार्थो बहुव्रीहिरपि प्रक्रंस्यमानपरामर्शितया उपपाद्यः। उपपाद्योपपादकभावेनोपन्यस्तयोरल्पायतनत्वाणीयस्त्वयोरनन्यथासिद्धतया तदनुसारेणान्यथा नेतुं शक्यानां बहूनामप्यन्येषां नयनस्योचितत्वादित्येवमिहाशङ्का ।
अत्रायं परिहारः – भवेदेवं यदि ‘एष म आत्माऽन्तर्हृदये’ इत्यनेनान्तर्हृदये पर्यवसितवृत्तित्वमुच्येत , ‘अणीयान्’ इत्यनेन च तदुपपादनाय प्राक्सिद्धमणीयस्त्वं वर्ण्येत। न त्वेवम् , किन्तु सर्वगतमेव ब्रह्म सूर्यमण्डलस्येव हृदयपुण्डरीकस्यान्तरुपास्यमुपदिश्यते। हृदयपुण्डरीकान्तस्स्थसुषिरावच्छेदकमेव च तस्याणीयस्त्वमुपासनार्थमुपदिश्यते। कुतोऽयं निर्णय इति चेत् – समनन्तरमेव ज्यायस्त्वोपदेशात्। ज्यायस्त्वाणीयस्त्वयोर्विरुद्धत्वादेकस्मिन्नन्यानुसारेण नेतव्ये हृदयोपाध्युपादानात् ‘सूचीरन्ध्रावच्छिन्नं व्योमाणीयः’ इत्यत्रेवाणीयस्त्वमन्योपाधिकमिति वक्तुं युक्तम् , न तु ज्यायस्त्वम् ।
किञ्चाणीयस्त्वं जीवगतमन्तःकरणावच्छेदोपाधिकतया प्राक्सिद्धं ग्राह्यं , उत समनन्तरोक्तहृदयसुषिरावच्छेदोपाधिकं ब्रह्मगतमेव ग्राह्यमिति संशये ‘सर्वं खलु’ इत्याद्युपक्रमस्वारस्यात् , सिद्धरूपमनोमयत्वादिस्वारस्यात् , कर्मकर्तृप्राप्यप्राप्तृभावस्वारस्यात् ‘एतत् ब्रह्म’ इत्यौपसंहारिकब्रह्मशब्दस्वारस्याच्च ब्रह्मगतमेव ग्राह्यमिति हृदयायतनत्वं तत्कृतमणीयस्त्वं चोपासनार्थतया ग्रहीतुं युक्तमिति ।
सूत्रे अर्भकौकस्त्वमल्पायतनत्वम्। ‘अर्भकस्थत्वात्’ इत्यनुक्त्वा ओकश्शब्दप्रयोगस्तत्र पर्यवसितवृत्तित्वज्ञापनार्थः। यद्यपि वाचकत्वाल्लघुत्वाच्चाल्पपदमेव प्रयोक्तुं युक्तम् , तथापि शङ्कान्तरमपि सूचयितुमर्भकपदम्। तेन हि लक्षणया आयतनाल्पत्वमिव अर्भकयति , स्वावच्छिन्नं चेतनं मूढं करोतीति व्युत्पत्त्या स्वावच्छिन्नचेतनमोहकत्वमपि प्रतिपाद्यते। अर्भकयतीत्यर्थे ‘तत्करोति’ इति णिचि पचाद्यचि ‘णेरनिटि’(पा.सू.६. ४. ५१) इति णेर्लोपे च सति अर्भकशब्दनिष्पत्तेः। ततश्च यद्येतद्धृदयायतनत्वं ब्रह्मणः स्यात् , तर्हि तस्यापि जीववद्दुःखादिमत्त्वं स्यात्। न हि प्रज्वलितगृहान्तर्गतयोर्द्वयोरेको दह्यते नापर इति दूषणमत्राभिसंहितम्। तत्रैतद्वैषम्यं वाच्यम् – जीवो देहाद्यविवेकोत्थरागद्वेषमूलधर्माधर्मपरवश इति तस्य दुःखादिमत्त्वम् , ईश्वरस्तथाभूतो न भवतीति तस्य दुःखादिरहितत्वञ्चेति। नैतदपि युक्तम्। अविवेकापादकस्य हृदयगुहावच्छेदस्य द्वयोरप्यविशेषे एकस्याविवेको नान्यस्येति नियन्तुमशक्यत्वादित्यभिप्रायान्तरमपि गर्भीकर्तुमर्भकपदम्। तदिदं गूढमभिप्रायान्तरमुत्तरसूत्रेण परिहरिष्यते। ‘तद्व्यपदेशाच्च’ इति तस्य हृदयायतनत्वस्य विशिष्यापदेशात् , हृदये पर्यवसितवृत्तित्वरूपतया अणीयस्त्वोपन्यासेन विशिष्य प्रतिपादनादित्यर्थः ।
यद्वा तद्व्यपदेशात् अर्भकत्वव्यपदेशादित्यर्थः। व्यपदेशो विशेषेणातिशयेनाणीयस्त्वरूपतयोपन्यासः। परिहारांशे एवं निचाय्यत्वात् एवं द्रष्टव्यत्वात् हृदयायतने अणीयस्त्वादिगुणकतयोपासनीयत्वादित्यर्थः। ‘चायृ पूजानिशामनयोः’ इति धातुः। ‘व्योमवच्च’ इति चकारेणोपक्रमस्वारस्यादिकं समुच्चीयते। १.२.७।
अथार्भकपदेन क्रोडीकृतमाशङ्कान्तरमुद्घाट्य परिहरति –
सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ।८।
जीवस्याविवेकादिदोषे कादाचित्को हृदयगुहानुप्रवेशो न प्रयोजकः , किन्त्वविद्यारूपः , अन्तःकरणरूपो वा जीवत्वोपाधिरेव ; ‘न तं विदाथ य इमं जजानान्यद्युष्माकमन्तरं भवति’(तै.सं.४.६) ‘ध्यायतीव लेलायतीव’(बृ.उ.४.३.७) इत्यादिश्रुतेः। ततश्च जीवेश्वरयोः हृदयगुहानुप्रवेशे समानेऽपि जीवोऽविद्याऽन्तःकरणरूपोपाधिकृताविवेकनिदानधर्माधर्मपरवशः , ईश्वरस्तु अपहतपाप्मत्वादिगुणक इति विशेषसद्भावादीश्वरस्य दुःखादिमत्त्वं न प्रसज्यते। न हि प्रज्वलितगृहान्तर्गतिसाम्येनान्यवत् अग्निस्तम्भनकुशलो योगसिद्धोऽपि दह्यते , अन्यथेश्वरस्य दुःखादिमज्जीवाभेदमात्रेण दुःखादिभोगप्रसङ्गं किमिति नाशङ्केथाः ? तदाशङ्कायामपि ‘वैशेष्यात्’ इत्येवोत्तरम्। ईश्वरस्स्वाभिन्नेऽप्यविद्यादिकल्पितभेदे जीवे दुःखादिकमुपाधिसन्निधानवशात् कल्पितमवभासत इत्येतज्जानातीति विशेषादित्यर्थः। न हि लोके स्वमुखाभिन्नेऽपि दर्पणोपाधिवशात् भिन्ने प्रतिमुखे दर्पणोपाधिकं मालिन्यं पश्यन्नपि कल्पितमिति जानन्ननुशोचति। तस्मात् सिद्धमिह ब्रह्मैवोपास्यमिति ।
इदमधिकरणं स्पष्टजीवलिङ्गमस्पष्टब्रह्मलिङ्गं च। मनोमयत्वप्राणशरीरत्वाल्पायतनत्वाणीयस्त्वानि हि प्रथमपाठादिना बलवन्ति जीवलिङ्गानि स्पष्टानि। न च – मनोमयत्वं मनस्सम्बन्धमात्रं , तच्च ग्राह्यग्राहकतारूपं ब्रह्मण्यपि प्रसिद्धमिति शङ्क्यम् ; विकाराद्यर्थस्य मयटस्सम्बन्धलक्षकत्वकल्पनायोगात्। तस्य सम्बन्धशक्तिकल्पनेऽप्युपकरणोपकरणिभावरूपजीवगतसम्बन्धस्यैव प्रसिद्धतरस्य प्रथमं प्रतीतेः , अन्यथा ‘चक्षुष्मान्’ इत्यादावपि चक्षुरादिवेद्यघटादिधीप्रसङ्गात्। ननु उदाहृताज्जीवलिङ्गादपि वाक्योपक्रमगतं तज्जत्वादिहेतुकसार्वात्म्यरूपं ब्रह्मश्रुतिसहकृतं स्पष्टतरमिति चेत्। न। विषयवाक्यस्य ‘मनोमयः’ इत्यादेः पूर्वपक्षे ‘सर्वं खलु’ इत्यादितो भिन्नवाक्यत्वेन मनोमयादिवाक्ये सर्वात्मकब्रह्मानुवृत्तेरस्पष्टत्वात्। तर्हि ‘दिवि’‘दिव’ इति विभक्तिभेदेन प्रत्यभिज्ञाविच्छेदकशङ्कया अस्पष्टगायत्रीब्रह्मानुवृत्तिकं ज्योतिर्वाक्यं विषयीकृत्य प्रवृत्तं ज्योतिरधिकरणमत्रैव पादे कर्तव्यं स्यादिति चेत् , न। तत्र स्पष्टब्रह्मलिङ्गस्य गायत्रीवाक्यस्यापि निर्णेतव्यत्वेन तस्य प्रथमपादेऽपि सङ्गतिसत्त्वादिति सर्वमनवद्यम् ॥ १.२.८॥
इति सर्वत्रप्रसिद्धाधिकरणम्
अत्ता चराचरग्रहणात् ॥९॥
‘‘यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः। मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः’(क.उ.१.२.२४) इति कठवल्लीमन्त्रे ओदनोपसेचनसंसूचितोऽत्ता जीवः , परो वेति अत्तृत्वस्य भोक्तृत्वसंहर्तृत्वरूपतान्यतरानिर्द्धारणात् संशये जीव इति तावत्प्राप्तम् ; अत्तृत्वस्यौदनप्रतिसम्बन्धित्वेन भोक्तृत्वरूपत्वात्तस्य च जीव एव सम्भवात्। परस्मिन् भोक्तृत्वस्य पूर्वाधिकरणे निवारणात् , जीवे च स्त्रीभृत्यादिरूपतया ब्रह्मक्षत्रभोक्तृत्वस्यापि सम्भवात् ।
ननु मन्त्रे मुख्य ओदनो न श्रुतः येन तत्प्रतिसम्बन्धी अत्ता भोक्ता स्यात् , किन्तु ब्रह्मक्षत्रयोरोदनत्वरूपकमात्रं कृतम्। न चोपचरितौदनस्यापि प्रतिसम्बन्धिना तद्भोक्त्रा भाव्यम्। न च वाच्यम् – ओदनभोक्तारं प्रत्येवानोदनयोरोदनत्वरूपकमवकल्पते। ततश्च यथा ‘यस्य मृगयाविनोदिनो मृगाः परनरपतय’ इत्यत्र अमृगेषु मृगत्वरूपके वस्तुतो मृगहन्ता क्षत्रिय एव तत्प्रतिसम्बन्धी प्रतीयते , न तु श्रोत्रियः कश्चित् ब्राह्मणः , एवमत्रापि स्यात् – इति ; तथा नियमाभावात्। ‘त्वत्कृपाणभुजङ्गस्य क्षीरं विद्विषतां यशः’ इत्यत्रोपचरितक्षीरप्रतिसम्बन्धिनि कृपाणे तत्पातृत्वादर्शनादिति चेत्। उच्यते। अवश्यं तावदिहानोदाविषयेणौदनशब्देन वाच्यगतं कञ्चित् गुणमपेक्ष्य वर्तितव्यम्। तदिह भोग्यतया प्रसिद्धस्य वाच्यस्य गुणो भोग्यत्वरूपः पर्यवस्यतीति तत्प्रतिसम्बधिनो ‘यस्य’ इति पदोपात्तस्य भोक्तृत्वप्रतीतिरनिवार्या। ‘त्वत्कृपाणभुजङ्गस्य’ इत्याद्युदाहरणेऽपि कृपाणे समारोपिततत्पातृत्वप्रतीतिरस्त्येव। अत एव तदन्वयसिद्धये कृपाणस्य भुजङ्गत्वरूपणं क्रियते। यत्र तन्न क्रियते ‘करवालस्य ते वीर क्षीरं विद्विषतां यशः’ इत्यादौ तत्रापि भुजङ्गत्वप्रतीतिरस्तीत्येकदेशविवर्तरूपकमालङ्कारिकैरिष्यते ।
ननु तथाऽपि कृपाणभुजङ्गगतपातृत्ववदुपचरितौदनप्रतिसम्बन्धिगतभोक्तृत्वमारोपितमेव स्वीकरणीयमिति फलतस्तत्प्रतिसम्बन्धी अभोक्तैव पर्यवस्येदिति चेत्। न। तथा नियमाभावात्। ‘यावनालभूनिवासिनां शाल्योदनश्शर्कराऽपूपः’ इति रूपके उपचरितापूपप्रतिसम्बन्धिनोऽनुपचरिततद्भोक्तृत्वदर्शनात् , उभयथा दर्शने सति अत्र बाधकाभावेनानारोपितस्यैव भोक्तृत्वस्य स्वीकरणीयत्वात्। एवमौत्सर्गिकत्वमभिप्रेत्यैवामृगेषु मृगत्वरूपणे वस्तुतो मृगहन्ता क्षत्रिय एव प्रतीयत इत्युक्तं कल्पतरौ ।
नन्वोदनशब्दस्य भोग्यत्वलक्षकत्वे भवतु नामैवम्। तेन विनाश्यत्वमेव लक्ष्यताम्। तथा च तत्प्रतिसम्बन्ध्यतृत्वं विनाशकत्वरूपं संहर्तृत्वं स्यात्। तत्तु परस्मिन् सम्भवतीति चेत्। उच्यते। गौणत्वं शब्दस्य साधारणगुणमपहायासाधारणगुणेन निर्वाह्यम्। न हि ‘अग्निर्माणवकः’ इत्यत्राग्निशब्देन पैङ्गल्यादेरिव द्रव्यत्वादेरुपस्थितिरस्ति। अत एव ‘प्रैतु होतुश्चमसः प्र ब्रह्मणः प्रोद्गातॄणां प्र यजमानस्य’ इत्यध्वर्युप्रैषे उद्गातृशब्दस्य बहुवचनानुरोधेन रूढिपूर्वकलक्षणया बहुषु वृत्तौ वक्तव्यायां षोडशर्त्विक्साधारणाकारं विहाय विशेषाकारेणोद्गातृगणमात्रलक्षणा पूर्वतन्त्रे निर्णीता। तदिह ब्रह्मक्षत्रयोरोदनत्वस्यात्यन्तविशेषाकारस्य भोज्यत्वस्य च बाधेऽपि भोग्यत्वस्याबाधात्तदेवौदनशब्देन लक्षणीयम्। व्याघ्रादिजीवविशेषं प्रति ब्रह्मक्षत्रिययोर्भोज्यत्वसम्भवात्तदेव वा लक्षणीयमिति सर्वधा तत्प्रतिसम्बन्ध्यत्तृत्वं भोक्तृत्वमेव न संहर्तृत्वम्। एवञ्च भोक्तृतया जीवस्यैव प्रतिपाद्यत्वे तस्य नित्यतया मृत्युवश्यत्वं नास्तीति मृत्योरबाधकत्वाभिप्रायेण तदुपसेचनत्ववर्णनं नेतव्यम् ।
ननु उपसेचनशब्देनापि साधारणमबाधकत्वमात्रं न लक्षणीयम् , किन्तु स्वयमद्यमानत्वे सति अन्यादनहेतुत्वम्। तत्त्वदनं संहारे इति परब्रह्मपक्ष एव घटते। तेन मृत्योरपि संहार्यत्वात् भूतवर्गसंहारे मृत्योर्द्वारत्वेनान्यसंहारहेतुत्वाच्च , न त्वदनं भोग इति जीवपक्षे ; मृत्योरभोग्यत्वादन्यभोगाहेतुत्वाच्चेति चेत् ; नैष दोषः। प्रथमश्रुतौदनशब्दोपचारनिमित्तस्वारस्यानुरोधेनोपसेचनशब्दे सामान्याकारलक्षकत्वकल्पनस्यादोषत्वात्। तस्मादत्ता जीव इति। अग्निपूर्वपक्षस्तु भाष्ये सम्भवमात्रेणोपन्यस्तः ।
सिद्धान्तस्तु – अत्ता पर एव ; कृत्स्नस्य चराचरस्यौदनतया ग्रहणेनात्तृत्वस्य संहर्तृरूपतावगमात्। न हि कृत्स्नचराचरभोक्तृत्वं कस्यापि जीवस्य सम्भवति। ननु मन्त्रे चराचरग्रहणाभावात् कथञ्चराचरविषयत्वमत्तृत्वस्य ? कथञ्चौदनशब्दलक्षणीयभोग्यप्रतिसम्बन्ध्यत्तृत्वं संहर्तृत्वमिति चेत् ; उच्यते। इह ब्रह्मक्षत्रयोर्मृत्योश्च तावदोदनोपसेचनभावरूपणाद्दध्यन्नरीत्या सम्बन्धः प्रतीयते। तथा च मृत्युमिश्रणप्रतीत्यनुसारेण ब्रह्मक्षत्रशब्दाभ्यां चराचरात्मकं विनाशिवस्तुमात्रं लक्षणीयम्। मृत्यूपसेचनत्वरूपणसन्निधानादेवौदनशब्देनापि विनाश्यत्वं लक्षणीयम्। स्वबुध्युपस्थापनीयविशेषाकाररूपगुणग्रहणादप्येकवाक्यतापन्नपदान्तरार्थोपस्थापितगुणग्रहणस्य बुद्धिलाघवेन एकवाक्यतासामर्थ्येन तस्य च न्याय्यत्वात्। चरमश्रुतेनाप्येकवाक्यान्तर्गतपदार्थान्तरेणानुपस्थापित एवापेक्षिते तस्य पुरुषबुद्ध्या कल्पनीयत्वात्। अत एव हि ‘अक्ताश्शर्करा उपदधाति’ इत्यत्र विधेयस्याञ्जनस्य साधनापेक्षायां ‘तेजो वै घृतम्’ इति वाक्यशेषस्तुतं घृतमेव ग्राह्यम् , न तु पुरुषबुद्धिकल्पनीयं द्रवद्रव्यमात्रमिति पूर्वतन्त्रे निर्णीतम्। एवञ्चोपसेचनत्वरूपणेऽपि स्वयमद्यमानत्वे सति अन्यादनहेतुत्वगुण एव स्वारस्यावगतो निमित्ततया व्यवतिष्ठते ।
ननु तथापि कथं चराचरग्रहणसिद्धिः ? ओदनशब्दस्य गौणत्वावश्यम्भावेन तस्य समभिव्याहृतपदार्थान्तरोपस्थापितगुणलक्षकत्वेऽपि ‘ब्रह्म च क्षत्रञ्च’ इत्यस्य मुख्यार्थवृत्तिसम्भवात्। न च मृत्यूपसेचनकीर्तनात्तदुपसिच्यमानं सर्वं तेन ग्राह्यमित्युक्तं युक्तम्। ‘शूर्पेण जुहोति तेन ह्यन्नं क्रियते’ इत्यत्र शूर्पशब्दस्य वाक्यशेषे अन्नकरणत्वकीर्तनेऽपि यद्यदन्नकरणं तत्र सर्वत्र लक्षणानुपगमात्। ‘तत्र शूर्पमात्रस्याप्यन्नकरणत्वेन स्तुतिस्सम्भवति। अन्नकरणत्वस्य शूर्पे दर्वीपिठरादिषु च व्यासज्यवृत्त्यभावात्’ इति चेत्। इहापि ब्रह्मक्षत्रमात्रस्यापि मृत्युमिश्रणप्रतिपादनं सम्भवतीति तुल्यम्। व्यर्थञ्च चराचरग्रहणोपपादनम्। ओदनशब्दस्य संहार्यत्वलक्षकतोपपादनमात्रेण तत्प्रतिसम्बन्ध्यत्ता संहर्तेति सिद्धौ शब्दवृत्त्यसङ्कोचप्राप्तसर्वकल्पानुयायिसकलब्रह्मक्षत्रजात्यालिङ्गितव्यक्तिसंहारकत्वलिङ्गेनैवात्तुः परमात्मत्वसिद्धेरिति चेत् ।
उच्यते – अत्तृत्वं भोक्तृत्वं संहर्तृत्वमिति पक्षद्वयेप्योदनपदवत् ब्रह्मक्षत्रपदयोरपि लक्षकत्वमवश्यम्भावि। न हि स्त्रीभृत्यादिरूपतया , भक्ष्यतया वा ब्रह्मक्षत्रिययोरेव भोक्ता कश्चिज्जीवोऽस्ति , न वा परमेश्वरस्तदुभयमात्रसंहर्ता , नचाधिकभोक्तृत्वेऽप्यधिकसंहर्तृत्वेऽपि विशिष्य तन्मात्रग्रहणे प्रयोजनमस्ति। यद्येतदुपासनाप्रकरणं स्यात् , तदा अन्तरादित्यविद्यायां विशिष्य लोककामविशेषेशितृत्वश्रवणवत् विशिष्य ब्रह्मक्षत्रसंहर्तृत्ववर्णनमुपासनार्थमिति कल्प्येतापि। न त्वेतदुपासनाप्रकरणम्। तथा च यथा ‘यस्मिन् पञ्च पञ्चजनाः’(बृ.उ.४.४.१७) इत्यत्र विशिष्य पञ्चानां मनुष्याणामाधार इति कीर्तने प्रयोजनं न किञ्चिदस्तीति तल्लक्षणीयाकाङ्क्षायां वाक्यशेषात् प्राणादयस्तल्लक्षणीया इति निश्चीयन्ते , एवं ब्रह्मक्षत्रग्रहणमितरेषामपि केषाञ्चिदुपलक्षणम् , न स्वार्थमात्रनिष्ठमिति उपलक्षणीयाकाङ्क्षायां पश्चात्तनमृत्यूपसेचनकीर्तनात्तदुपसिच्यमानं सर्वमुपलक्षणीयमिति निश्चीयते। किञ्चौदनशब्दस्योक्तयुक्त्या संहार्यत्वलक्षकतास्थितौ यच्छब्दयोगेनानुवादकेऽस्मिन्मन्त्रे संहार्यसमर्पकस्य ‘ब्रह्म च क्षत्रं च’ इत्यस्य ‘सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः’(छा.उ.६.८.४) इत्यादिपुरोवादानुसारेण चराचरात्मकाविनाशिमात्रोपलक्षकत्वमावश्यकम्। न चैतदुपपादनं व्यर्थम् ; जन्मादिसूत्रोक्तलक्षणान्तर्गतसकलजगत्संहर्तृत्वाधिकरणजगत्कारणमायाशबलोपलक्षिते शुद्धब्रह्मणि कठवल्यास्समन्वयस्य स्पष्टीकरणार्थत्वात्। उक्तरूपे ब्रह्मणि वेदान्तानां समन्वयस्य समन्वयसूत्रे सामान्यतः प्रदर्शितस्य विशिष्य तत्तद्वाक्योदाहरणमुखेन प्रसाधनमेव ह्यध्यायशेषस्य मुख्यं प्रयोजनमित्यानन्दमयाधिकरणोपक्रमे वर्णितम्। तत्र यदि सकलब्रह्मक्षत्रसंहर्तृत्वमात्रमिह गृह्यते , तदा तस्य ब्रह्मणोऽन्यत्रासम्भवेन ब्रह्मलिङ्गत्वेऽपि ब्रह्मण एव व्यष्टिसंहारकः तमोगुणोपाधिको रूपविशेष इह अत्ता ; ‘क इत्था वेद यत्र सः’ इति तु तस्य प्रतिष्ठारूपस्सकलप्रपञ्चसृष्टिस्थितिसंहारकारी मायाशबलितः परमेश्वर उच्यते इति शङ्कया तस्य शुद्धब्रह्मणि समन्वयः प्रदिदर्शयिषितः स्पष्टीकृतो न स्यात्। अत एव सूत्रकृताऽपि ‘सर्वग्रहणात्’ इति लघुनि सूत्रे कर्तव्ये वाच्यार्थयोर्ब्रह्मक्षत्रयोस्सामस्त्यमात्रं सर्वशब्देनोच्यत इति शङ्कया जगत्कारणोपलक्षितशुद्धब्रह्मसमन्वयः प्रदिदर्शयिषितः स्पष्टीकृतो न स्यादिति ब्रह्मक्षत्रपदयोर्न्यायप्राप्तचराचरोपलक्षकत्वसूचनेन तस्य स्पष्टीकरणाय ‘चराचरग्रहणात्’ इति सूत्रं कृतम्। अत एव इदमधिकरणमप्यर्थवत् ; जगत्कारणस्य सगुणब्रह्मणोऽपि प्रतिष्ठारूपे शुद्धब्रह्मणि समन्वयप्रदर्शनार्थत्वात्। अन्यथाह्यत्रात्तुर्जीवत्वेऽपि ‘यत्र स’ इति तत्प्रतिष्ठात्वेन वर्ण्यमानं प्रकृतं ब्रह्म भवेदेवेति तस्य परमेश्वरत्वप्रसाधनं व्यर्थमेव स्यात्। तस्मात् समृत्युकस्य कृत्स्नस्य चराचरस्य संहार्यत्वप्रतिपादनात्तत्संहर्तृरूपो ‘यत्र स’ इति शुद्धे प्रतिष्ठितत्वेन वर्ण्यमानोऽत्ता परमेश्वर इति निरवद्यम् ॥१.२.९॥
स्यादेतत् – ‘‘न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्नायं बभूव कश्चित्। अजो नित्यश्शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे’(क.उ.१.२.१८) ‘‘हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम्। उभौ तौ न विजानीतो नायं हन्ति न हन्यते’(क.उ. १.२.१९) इत्यादि प्रकरणं तावदिह जीवविषयमभ्युपगन्तव्यम् , तत्र प्रदर्शितानां जननमरणयोर्देहहनने हन्यमानत्वस्य हन्तृत्वस्य , हन्तव्यत्वस्य च निषेधानां लोकतो विधिनिषेधविशेषतश्च तत्प्रसक्तिमति जीव एवार्थवत्त्वात् , हन्तृहन्तव्यभावभ्रान्तेश्चात्रैव सम्भवात्। न चोदाहृतमन्त्रद्वयस्य जीवपरत्वेऽपि तदनन्तरं ‘‘अणोरणीयान्’(क.उ.१.२.८) इति मन्त्रे ‘अस्य जन्तोः’ इत्यनेन तं परामृश्य तदीयहृदयगुहाहितत्वेन प्रतिपाद्यमानः परमात्मेति प्रकरणं परमात्मप्रधानमेवेति शङ्क्यम्। ‘‘न जायते’(क.उ.१.२.१८) इत्युपन्यस्तस्य जायमानार्थकजन्तुशब्देन परामर्शस्यानुपपन्नतया तत्र ‘अस्य जन्तोः’ इत्यस्य प्रत्यक्षादिसन्निधापितदेहपरताया वक्तव्यत्वेन तद्गुहाहित आत्मा प्रागुपन्यस्तो जीव इत्येव लाभात्। न च जीवस्य सदा ‘अहम्’ इति भासमानत्वात् ‘‘कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति’(क.उ.१.२.२१) इत्यादिना प्रपञ्चितं दुर्विज्ञानत्वमयुक्तमिति वाच्यम् ; अन्तःकरणविशिष्टरूपेण तस्य भासमानत्वेऽपि तन्निष्कृष्टरूपेण दुर्विज्ञानत्वोपपत्तेः। एवञ्चात्तुः प्रतिष्ठात्वेन वर्ण्यमानोऽपि जीव एव। तत्रैव ‘क इत्थावेद’ इति दुर्विज्ञानत्वलिङ्गप्रत्यभिज्ञानात्। अतो नात्ता संहारकः परमात्मा ; तस्य जीवे प्रतिष्ठितत्वायोगात् , किन्तु अविद्याप्रतिबिम्बरूपे जीवे प्रतिष्ठितं तस्यैवान्तःकरणतादात्म्यापत्त्या भोक्तृत्वकलुषितं रूपमित्याशङ्क्याह –
प्रकरणाच्च ॥१०॥
प्रकरणं तावदिदं परमात्मन एव ‘‘अन्यत्र धर्मात्’(क.उ.१.२.१४) इत्यादितत्प्रश्नोत्तररूपत्वात् , ‘न जायते’ इति मन्त्रगतविपश्चिच्छब्दोक्तविविधदर्शित्वरूपसर्वज्ञत्वलिङ्गात् , ‘तमक्रतुः पश्यति वीतशोकः’ ‘महान्तं विभुमात्मानं मत्वा धीरो न शोचति’ इति तदनन्तराम्नातशोकतरणहेतुसाक्षात्कारविषयत्वापरिच्छिन्नत्वलिङ्गाच्च। तत्र च स्वरूपेणाप्रसक्तानामपि जननमरणहन्तृत्वहन्तव्यत्वानां जीवात्मना प्रसक्तानां निषेधः , स्वरूपेण विपश्चित्वादिगुणकोऽयं जीवात्मनाऽपि न जननमरणहन्तृत्वहन्तव्यत्वभाक् हन्तृत्वाद्यभिमानी परमिति। न हि ‘अन्यत्र धर्मात्’ इति जीवस्पृगेव ब्रह्मविषयः प्रश्नः ; ‘येयं प्रेते’इति प्रकृतजीवविषयप्रश्नस्यैव ‘अन्यत्र धर्मात्’ इत्यनेन जीवस्यासंसारिब्रह्मस्वरूपत्वपर्यन्तं नयनात्। इदं चानुमानिकाधिकरणे (ब्र.सू.१.४.१)~ स्फुटीभविष्यतीति। तत्र प्रथमप्रश्नक्रोडीकृतस्य देहातिरिक्तजीवास्तित्वस्य प्रदर्शनाय तदसंसारिरूपात्मकब्रह्मप्रश्नोत्तरप्रकरण एव जीवात्मनाऽपि तस्य देहादिगतजननमरणादिस्पर्शित्वं नास्तीति प्रथममुक्त्वा तदनन्तरं द्वितीयप्रश्नक्रोडीकृतमसंसारिब्रह्मरूपं ‘अणोरणीयान्’ इत्यादिना प्रपञ्च्यत इति न काचिदसङ्गतिः। एवञ्च परमात्मप्रकरणात् , ‘क इत्था वेद’ इति प्रकरणावगतदुर्विज्ञानत्वलिङ्गप्रत्यभिज्ञानाच्च ‘यत्र’ इति परामृष्टः शुद्ध इति तत्र प्रतिष्ठितत्वेन वर्ण्यमानोऽत्ता जगत्संहर्ता परमेश्वर इत्यत्र न किञ्चित् बाधकमिति ।
एवमस्मिन् सूत्रे दर्शितं प्रकरणं चकारसमुच्चितं लिङ्गं च बाधकशङ्कानिरासद्वारा अत्तुः परमेश्वरत्वसाधकं न साक्षात्तत्र साधकान्तरम् ; तयोस्तत्प्रतिष्ठान्वयिनोस्तदनन्वयित्वात्। अत एव प्रकरणस्य जीवपरत्वशङ्कानिरासार्थत्वमस्य सूत्रस्य दर्शयितुमेव भाष्ये “प्रकरणमिदं परमात्मनः ‘न जायते म्रियते वा विपश्चित्’ इत्यादि” इति जीवपरत्वशङ्कास्पदं मन्त्रमुपादायैव प्रकरणमुदाहृतम् , अन्यथा तच्छङ्कानास्पदं ‘महान्तं विभुमात्मानम्’ इत्यादिकमुपादायैव तदुदाहरिष्यत। स्पष्टजीवलिङ्गमिदमधिकरणम् ; भोग्यतया प्रसिद्धौदनसम्बन्धेनात्तुभोक्तृतायाः प्रथमं प्रतीतेः। अस्पष्टब्रह्मलिङ्गम् ; प्रथमप्रतीतभोग्यत्वलक्षणापवादेन विनश्यत्वलक्षणां व्युत्पाद्य ब्रह्मलिङ्गस्योन्मेषणीयत्वात् ॥१.२.१०॥
इति अत्त्रधिकरणम् ॥२॥
गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥११॥
‘‘ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्द्ध्ये। छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः’(क.उ.१.३.१) इति पूर्वाधिकरणोदाहृतमन्त्रानन्तरमन्त्रनिर्दिष्टौ बुद्धिजीवौ , जीवपरौ वेति संशयः। बुद्धिजीवौ चेत् ‘‘येयं प्रेते विचिकित्सा मनुष्ये’(क.उ.१.१.२०) इति प्रश्नोत्तरतया कार्यकरणविलक्षणो जीव इह प्रतिपादितो भवति। जीवपरौ चेत् ‘‘अन्यत्र धर्मादन्यत्राधर्मात्’(क.उ.१.२.१४) इति प्रश्नोत्तरतया संसारिस्वरूपविविक्तमसंसारिपरमात्मकस्वरूपं प्रतिपादितं भवतीति फलभेदः। तत्र सुकृतसाध्यलोकवर्तित्वगुहाप्रवेशच्छायातपशब्दलक्षितजडचेतनत्वलिङ्गैर्बुद्धिजीवाविति प्राप्तम्। यद्यपि कर्मफलभोक्तृत्वरूपमृतपानं जीव इव बुद्धौ न सम्भवति , तथाऽपि तत् परमात्मन्यपि न सम्भवतीति सर्वधा ‘ऋतं पिबन्तौ’ इत्यत्र ऋतपानलिङ्गोपस्थापितस्य जीवस्य द्वितीये लक्षणयैव ग्राह्ये लक्षणीयविशेषाकाङ्क्षायां पूर्वाधिकरणन्यायादनन्तरश्रुतलिङ्गानुसारेण बुद्धिर्लक्षणीयेति युक्तम् ।
ननु संख्याश्रवणे सति एकस्मिन् सम्प्रतिपन्ने द्वितीयाकाङ्क्षायां सम्प्रतिपन्नजातिमुपजीव्य विशेषपरिग्रहे बुद्धिलाघवाद्विजातीयपरिग्रहे जातिव्यक्तिबुद्धिद्वयापेक्षागौरवात् सम्प्रतिपन्नसजातीयपरिग्रहो युक्तः। लोकेऽपि ‘अस्य गोर्द्वितीयोऽन्वेष्टव्य’ इत्यादिषु तथा दर्शनादिति ऋतपानलिङ्गावगतस्य जीवस्य द्वितीयश्चेतनत्वेन तत्सजातीयः परमात्मैव ग्राह्यः। न च परतन्त्रत्वादिधर्मान्तरेण तस्य बुद्धिरपि सजातीयेति वाच्यम्। तत्र स्वाभाविकधर्मस्य चेतनत्वस्यान्तरङ्गत्वात् , सुखानुभवितृपरपिबच्छब्दसंसृष्टत्वाच्च। न च मुख्यद्वित्वलाभार्थं विजातीयाऽपि धर्मिसमसत्ताकभेदवती बुद्धिरेव द्वितीया ग्राह्येति वाच्यम्। मुख्यस्य व्यावहारिकद्वित्वस्य तत्समसत्ताकेन व्यावहारिकभेदेनोपपादनसम्भवे धर्मिसमसत्ताकभेदानपेक्षणात् , बुद्धौ तत्सम्भवेऽपि जीवे तदसम्भवेन तस्य बुद्धिजीवगतद्वित्वोपपादकत्वशङ्कानवकाशाच्चेति चेत्। मैवम्। सुकृतलोकवर्तित्वाद्यग्रिमलिङ्गविरोधिना लौकिकन्यायमात्रेण द्वितीयपरिग्रहायोगात् ।
नन्वग्रे विरोधिलिङ्गानि न सन्त्येव। सुकृतसाध्यलोकवर्तित्वं हि नैकान्ततः प्रतीयते ; सुकृतस्य ऋतं अवश्यम्भावि फलं पिबन्ताविति पूर्वत्राप्यन्वयसम्भवात्। लोकशब्दस्य लोक्यत इति व्युत्पत्त्या देहपरत्वोपपत्तेः। सुकृतस्य लोक इत्यन्वयेऽपि न दोषः। सर्वगतस्य ब्रह्मणो देहवर्तित्ववत् सुकृतलोकवर्तित्वस्याप्युपपन्नत्वात् , ‘अनुत्तमेषूत्तमेषु लोकेषु’ इति ब्रह्मणस्सुकृतप्राप्यलोकवर्तित्वश्रवणाच्च। छायातपावित्यत्र जडचेतनत्वमपि न प्रतीयते ; न्यायतः परमात्मा द्वितीय इति निर्णयानुसारेण तस्य संसार्यसंसारित्वलक्षकत्वोपपत्तेः। न हि तस्य जडचेतनत्वलक्षणायां पक्षपातहेतुरस्ति। गुहाप्रवेशस्तु जीवपरावित्यत्र साधक एव , न तु बाधकः। अस्मिन् प्रकरणे ‘‘या प्राणेन सम्भवत्यदितिर्देवतामयी। गुहां प्रविस्य तिष्ठन्ती या भूतेभिर्व्यजायत’(क.उ.२.४.७) ‘‘तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्। अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति’(क.उ.१.२.१२) इत्यादिमन्त्रेषु जीवपरयोरेव गुहाप्रवेशदर्शनात् ।
उच्यते – अस्तु नामैवं सुकृतलोकवर्तित्वच्छायातपत्वश्रवणयोर्ब्रह्मणि कथञ्चिदुपपादनम्। गुहाप्रवेशश्रवणस्य तु तत्रोपपादनं न सम्भवत्येव ; सर्वगतस्य तस्य गुहावृत्तित्वेऽपि तत्प्रवेशासम्भवात्। ‘अग्रिममन्त्रेषु ब्रह्मणस्तत्प्रवेशश्श्रूयते’ इति चेत्। अत्यल्पमिदमुच्यते। ‘तत् सृष्ट्वा तदेवानुप्राविशत्’(तै.उ.२.६.१) ‘अन्तःप्रविष्टश्शस्ता जनानाम्’ इत्यादिश्रुतिषु तस्य सर्वत्रापि प्रवेशश्श्रूयत एव , स सर्वोऽपि जीवभावाभिप्रायेण नेतव्यः। श्रुतो हि तस्य जीवभावेनानुप्रवेशो ‘अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणी’(छा.उ.६.३.२) इति। ‘इहापि तथैवास्तु’ इति चेत्। न। इह ‘गुहां प्रविष्टौ’ इति जीववत् तद्द्वितीयस्यापि पृथक् प्रवेशश्रवणात् , जीवभावेनानुप्रवेशमात्रमभिप्रेत्य उभयोः प्रवेशवर्णनस्यानुपपन्नत्वात्। न हि जीवभावेन संसारित्वमभिप्रेत्य ‘ब्रह्मैव संसारि’ इति निर्देशवत् ‘जीवब्रह्मणी संसरतः’ इत्यपि निर्देशस्सङ्गच्छते। तस्मात् गुहाप्रवेशलिङ्गविरोधान्न ब्रह्म जीवद्वितीयतया ग्राह्यम् , किन्त्वन्तःकरणमेवेति जीव एवास्मिन्मन्त्रेऽन्तःकरणविविक्ततया प्रतिपाद्यः। न च पूर्वाधिकरणेनात्तृमन्त्रस्य परमात्मप्रधानत्वनिर्णयात्तदनन्तरपठितस्यापि मन्त्रस्य प्रकरणेन तत्प्रधानत्वं युक्तम् , न जीवप्रधानत्वमिति शङ्क्यम् ; तस्य लिङ्गप्रत्यभिज्ञानुगृहीतप्रकरणबलेन परमात्मपरत्वेऽप्यत्र केवलप्रकरणस्य लिङ्गेन बाधोपपत्तेः। न चात्रापि ‘ब्रह्मविदो वदन्ति’ इति ब्रह्मविद्वचनविषयत्वलिङ्गानुग्रहः प्रकरणस्यास्तीति शङ्कनीयम् ; ‘पञ्चाग्नयो ये च त्रिणाचिकेताः’ इत्यपि श्रवणात्। न हि पञ्चाग्नयो नाचिकेताद्यग्निचितश्च कर्मठास्संसारिजीवविविक्तमसंसार्यात्मकस्वरूपं वदन्ति ; तदवगमस्य कर्मानुष्ठानविरोधित्वात् , किन्तु देहान्तरभोग्यफलानि कर्माण्यनुष्ठातुं स्थूलसूक्ष्मदेहविविक्तं जीवस्वरूपं शास्त्रादवगम्य वदन्ति। अतस्तदनुसारेणैव ‘ब्रह्मविदो वदन्ति’ इत्येतदपि नेतव्यम्। ब्रह्मविदोऽपि हि जीवस्य ब्रह्मैक्यबोधनाय देहद्वयविविक्तं वदन्ति। तस्मात् बुद्धिजीवावेव मन्त्रेण निर्दिष्टाविति ।
एवं प्राप्तेऽभिधीयते – सन्ति तावदुपरितनेषु मन्त्रेषु ब्रह्मणो गुहाप्रवेशश्रवणानि। न च तानि जीवभावाभिप्रायेण नेतव्यानि ; जीवस्यापि ब्रह्माभिन्नस्य स्वतोऽपरिच्छिन्नत्वेन तत्रापि प्रवेशानुपपत्तेस्तुल्यत्वात् ।
ननु जीवस्स्वोपाध्यन्तःकरणान्तर्गत इति तदुपाधिकस्तस्य प्रवेशस्सम्भवतीति चेत् – तर्हि परोऽपि स्वनियम्यन्तःकरणान्तर्गत इति तस्यापि तदुपाधिकप्रवेशसम्भवाद्व्यर्थं जीवद्वाराश्रयणम्। तस्मादग्रे ब्रह्मणो भूयसा गुहाप्रवेशवर्णनदर्शनादिहापि तथैवोपपद्यत इति तस्याबाधकत्वादृतपानलिङ्गावगतस्य द्वितीयस्तत्सजातीयः पर एव ग्राह्यः। ‘अस्य गोर्द्वितीयोऽन्वेष्टव्यः’ इत्यादिषु सजातीयग्रहणदर्शनादिति जीवपरावेव मन्त्रनिर्दिष्टौ। तत्रैव च सर्वाणि विशेषणानि समञ्जसानि ।
तथा हि – ‘ऋतं पिबन्तौ’ इति तावद्विनैव लक्षणां जीवपरयोस्सङ्गच्छते ; ऋतपाने साक्षात्कर्तरि जीव इवान्तर्यामितया तत्र हेतुकर्तरि परमात्मन्यपि शतुः कर्तृत्वसामान्यवाचकस्य मुख्यवृत्तिसत्त्वात्। बुद्धिजीवयोस्तु लक्षणां विना न सङ्गच्चते ; बुद्ध्यंशे ऋतपानकरणे तत्कर्तृत्वाभावात्। एवं जीवस्य ऋतपाने नियामकत्वेनोक्तस्य परस्य नियम्यनेदिष्ठत्वनिर्वाहाय सुकृतलोकवर्तिगुहाप्रवेशवर्णनमपि सङ्गच्चते। प्रत्युत बुद्धिजीवौ गुहां प्रविष्टाविति पक्ष एव स्वतः प्रवेशवत्या बुद्ध्या सह तदुपाधिकप्रवेशस्य जीवस्य प्रवेशवर्णनं न सङ्गच्छते। न ह्युपष्टम्भकोपाधिकगुरुत्वशालिनि सुवर्णे ‘गुरु सुवर्णम्’ इति व्यवहारवत् ‘उपष्टम्भकसुवर्णे गुरुणी’ इत्यपि व्यवहारस्सङ्गच्छते। छायातपत्वनिर्देशोऽपि जीवपरयोरेव श्लिष्यते। समाने चेतनत्वे कथमृतपानादिषु जीवस्य पारतन्त्र्यं परस्य स्वातन्त्र्यं चेति शङ्कानिवर्तनाय तयोरज्ञानतमोऽभिभवतदभावरूपविशेषप्रदर्शनार्थत्वात्। ‘ब्रह्मविदः’ इति तु श्लिष्यत एव। एवञ्च ‘पञ्चाग्नयः’ इत्यादि तेषामेव विशेषणम्। ये प्राक् पञ्चाग्निशुश्रूषया ये वा नाचिकेतादिचयनैरन्तःकरणशुद्धिं प्राप्तास्तथाभूता एव पश्चाल्लब्धब्रह्मविद्याः इत्थं वदन्तीत्यर्थः ।
सूत्रे गुहां प्रविष्टौ जीवपराविति साध्यमध्याहार्यम्। तत्र हेतुः ‘आत्मानौ हि’ इति। यस्मादृतपानेन लिङ्गेन एकस्य चेतनत्वनिश्चयात्तस्य द्वितीयोऽपि चेतन इत्येवमुभावपि चेतनावित्यर्थः। ‘तद्दर्शनात्’ इति हेतूपपादको हेतुः। ‘अस्य गोः’ इत्यादिषु द्वितीयस्य गृहीतसाजात्यनियमदर्शनादित्यर्थः। ‘तद्दर्शनात्’ इत्यस्य परमात्मनो गुहाप्रवेशदर्शनादिति व्याख्यानान्तरमपि प्राक्प्रदर्शितया रीत्या बाधकोद्धारप्रयोजनकं भाष्ये दर्शितम्। तत्र तच्छब्देन गुहाप्रवेशपरामर्शसिद्धये , गुहाप्रवेश एव परस्य यत्नसाध्य इति सूचनाय च सूत्रे ‘गुहां प्रविष्टौ’ इति धर्मिनिर्देशः कृतः , अन्यथा प्राथम्यात् ‘ऋतं पिबन्तौ’ इत्येव स कार्यस्स्यात्। न चैवमपि तच्छब्दस्य साजात्यनियमदर्शनादिति पूर्वव्याख्याने प्रकृतपरामर्शित्वसिद्धिर्नास्तीति शङ्क्यम्। गुहाप्रवेशपरामर्शिनस्तच्छब्दस्य साजात्यनियमपरशब्दस्य च ‘त्यदादीनि सर्वैर्नित्यम्’(पा.सू.१.२.७२) इत्येकशेषकल्पनोपपत्तेः। न च गुहाप्रवेशस्यापि निष्ठार्थोपसर्जनस्य सर्वनाम्ना परामर्शो न युज्यत इति वाच्यम्। ‘सर्वनाम्नाऽनुसन्धिः वृत्तिच्छन्नस्य’(वा.सू.५.१.११) इति वामनसूत्रे कृत्तद्धितादिवृत्तिन्यग्भूतस्यापि सर्वनाम्ना परामर्शस्याङ्गीकृतत्वात् ॥१.२.११ ॥
स्यादेतत् – यद्यपि जीवपरयोर्गुहाप्रवेशवर्णनमुपपद्यते , यद्यपि च बुद्धिजीवयोरेव तत् क्लिष्टम् , तथाऽपि तयोरेवेह गुहाप्रवेशवर्णनमित्याकाङ्क्षानुरोधेनाङ्गीकर्तुं युक्तम्। तथा हि – ‘‘आत्मानं रथिनं विद्धि शरीरं रथमेव तु। बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च’(क.उ.१.३.३) इत्याद्युपरितनमन्त्रवाक्यैर्जीवशरीरबुद्ध्यादीनां रथिरथसारथ्यादिभावं कल्पयित्वा अन्ते ‘‘सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्’(क.उ.१.३.९) इत्यनेन रथसारथ्यादिमज्जीवप्राप्यमध्वनस्सर्वस्यापि पारभूतं परं ब्रह्मेति वर्णितम्। तत्र रथिसारथिरूपेण कल्पितयोर्जीवबुध्योरेव शरीराख्यरथप्रवेशोऽपेक्ष्यते , न तु प्राप्तृप्राप्ययोर्जीवपरयोः ; प्राप्यस्य रथ एव स्थितत्वे तत्प्राप्त्यर्थं रथसारथिहयप्रग्रहाद्यनपेक्षणात्। तस्माद्रथिसारथ्योरपेक्षितस्य रथस्थत्वस्य सिद्ध्यर्थं रथिसारथिरूपयोर्जीवबुद्ध्योरेव शरीररथप्रवेशविशेषरूपगुहाप्रवेशवर्णनमित्याशङ्क्याह –
विशेषणाच्च ॥१२॥
‘‘सोऽध्वनः पारमाप्नोति’(क.उ.१.३.९) इति प्राप्तव्यत्वेनोक्तस्य परस्योपरि ‘‘यदा सर्वे प्रमुच्यन्ते कामा योऽस्य हृदि श्रिताः। अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते’(क.उ.२.६.१४) इत्यत्रैव प्राप्यत्वेन विशेषणात्। प्राप्यस्य प्राप्तृसन्निकर्षापेक्षायामपेक्षाऽनुसारेण जीवपरयोरेवेदं गुहाप्रवेशवर्णनमिति युज्यते। तथा च सति नित्यप्राप्तस्य का नाम साधनीया प्राप्तिरित्याशङ्कायां प्राप्तेरज्ञाननिबन्धनाप्राप्तिभ्रमनिवृत्तिरूपतयोपपादयितुं ‘छायातपौ’ इत्यपि सङ्गच्छते। बुद्धिजीवयोश्शरीरान्तरवस्थितेः प्रसिद्धत्वात्तयोर्गुहाप्रवेशवर्णनं निष्प्रयोजनम्। तस्मादाशङ्कितबाधकाभावान्मन्त्रनिर्दिष्टौ जीवपराविति युक्तमेव ।
अपि च देवदत्तयज्ञदत्तयोर्भूयस्सहभावमनुभूतवतः ‘खलतिरन्यश्च कश्चित् द्वौ गृहं प्रविष्टौ’ इति वाक्यश्रवणानन्तरं खलतित्वेन लिङ्गेन तयोरेको देवदत्त इति निश्चये सति द्वितीयस्तद्भूयस्सहचरितो यज्ञदत्त इत्येव निर्णयो जायते। तथेहापि पूर्वापरमन्त्रेषु मन्तृमन्तव्यत्वेन , प्राप्तृप्राप्तव्यत्वेन च जीवपरयोर्बहुधा विशेषितत्वात् तेषु तयोर्भूयस्सम्बन्धमनुभूतवतोऽस्मिन्मन्त्रे ऋतपानलिङ्गावगतजीवद्वितीयः पर इत्येव निर्णयो भवितुमर्हति। तस्मादस्मिन्मन्त्रे निर्दिष्टौ जीवपरावेव ।
सूत्रे ‘विशेषणात्’ इत्यस्य जीवपरयोर्बहुशः परस्परसम्बन्धित्वेन विशेषणादिति द्वितीयार्थ एव भाष्ये कण्ठत उक्तः। प्राप्तस्य ‘अत्रैव’ इति विशेषितत्वादिति प्रथमार्थस्तु ‘सोऽध्वनः पारमाप्नोति’ इति मन्त्रोदाहरणेनैवोन्नेतव्य इति कण्ठतो नोक्तः। चकारः प्रकरणस्य ‘ब्रह्मविदो वदन्ति’ इति वक्तृविशेषोपादानस्य च समुच्चयार्थः ॥१.२.१२॥
इति गुहाऽधिकरणम् ।३।
अन्तर उपपत्तेः ।१३।
छान्दोग्ये श्रूयते ‘य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाच एतदमृतमभयमेतत् ब्रह्मेति। तद्यद्यप्यस्मिन् सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति’(छा.उ.४.१५.१) इत्यादि। किमयमक्ष्याधारश्छायापुरुषः , परमात्मा वेति संशये च्छायापुरुष इति पूर्वःपक्षः ; ‘एष’ इति प्रसिद्धवन्निर्देशात् , ‘दृश्यते’ इत्यपरोक्षत्वाभिधानाच्च। न च यथा अन्तरादित्यवाक्ये अन्तरक्षिवाक्ये च तदुभयसत्त्वेऽपि परमात्मा प्रतिपाद्यः , तथेहापि स्यादिति वाच्यम्। न हि तत्र छायापुरुष इति पूर्वःपक्षः। आदित्ये प्रतिबिम्बादर्शनेनान्तरादित्यवाक्ये तथा पूर्वपक्षासम्भवात्। तत्र च परमात्मनीव न लौकिकी प्रसिद्धिः। नाप्यपरोक्षत्वमिति युक्तस्तत्र परमात्मेति निर्णयः। इह च त्वक्षिवाक्ये छायापुरुष इत्येव पूर्वपक्षः। भाष्ये तु सम्भवमात्रेणात्त्रधिकरणे अग्निपूर्वपक्षवदिह जीवदेवतापूर्वपक्षयोरुपन्यासः। अतो युक्तं तदुभयालम्बनेन प्रत्यवस्थानम्। तथाप्यमृतत्वाभयत्वादिपरमात्मलिङ्गैस्तदुभयबाधस्स्यात् इति चेत्। न। पूर्वाधिकरणन्यायात् प्रथमावगतानुसारेण तेषामेवान्यथानेयत्वात् ।
नन्वन्तरादित्यवाक्ये सर्वपापोदयलिङ्गवदिह ‘एतं संयद्वाम इत्याचक्षते। एतं हि सर्वाणि वामान्यभिसंयन्ति सर्वाण्येवैनं वामान्यभिसंयन्ति य एवं वेद’(छा.उ.४.१५.२) इत्यादिना प्रदर्शितानि संयद्वामत्वादिब्रह्मलिङ्गानि चरमश्रुतान्यपि प्रयोजनवत्वात् बलवन्ति। तथा गायत्रीवाक्ये भूतादिपादव्यपदेशप्रभृतिवदात्मब्रह्मश्रुत्यमृतत्वाभयत्वसंयद्वामत्ववामनीत्वलिङ्गानि बाहुल्यादपि बलवन्ति। अतस्तैरेव प्रथमावगतयोरपि प्रसिद्धदृश्यत्वलिङ्गयोरन्यथानयनं युक्तमिति चेत्। सत्यम्। स्यादेव एवं यद्यात्मश्रुत्यादयस्स्वार्थनिष्ठास्स्युः , न चेह तथा। आत्मब्रह्मश्रुत्योस्संयद्वामत्वगुणश्रवणस्य चेतिशब्दशिरस्कत्वेन ‘मनो ब्रह्म’ इत्यादिवदतस्मिंस्तद्रूपप्रत्ययपरत्वावगमात् , तदनुरोधेनामृतत्वादिश्रवणानामपि तन्मात्रपरत्वनिर्णयात्। नन्वेवमेषां प्रत्ययमात्रपरत्वेऽपि संयद्वामत्वाद्यनुरूपफलश्रवणानि न तथाऽभ्युपेयानि। रात्रिसत्रन्यायेनोपासनायामार्थवादिकफलान्वयावश्यंभावात्। तानि कथं छायात्मोपासनायां स्युरिति चेत्। वचनबलाद्वैवाहिकवरवधूदर्शनेनाभ्युदयवदिति ब्रूमः ।
एतेन – पुष्करपलाशवाक्यावगतफलस्य ‘अर्चिषमभिसम्भवन्ति’(छा.उ.४.१५.५) इत्यादिवाक्यावगतफलस्य चानुपपत्तिरपि निरस्ता। न चाब्रह्मविदामर्चिरादिमार्गो नास्तीति नियमः। अब्रह्मविदामेव पञ्चाग्निविद्योपासकानां सिद्धान्तेऽपि ‘तद्य इत्थं विदुः’ इति वचनबलेन तदभ्युपगमात्। ननु तथाऽप्युपक्रम एव चेतनाभिधायिपुरुषशब्दश्रवणाच्छायात्मेति न युक्तमिति चेत्। न। ततोऽपि प्रथमश्रुतेन हि ‘य एष’ इति प्रसिद्धलिङ्गेन तस्यापि बाधात्। एकस्मिन्नपि ‘चतुरो मुष्टीन्निर्वपति’ इति वाक्ये प्रथमश्रुतेसंख्याऽनुरोधेन सप्तदशशरावे मुष्टिबाधाङ्गीकारात् ।
ननु ‘य एष’ इत्येतदपि ‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ इति ब्रह्मप्रकरणानुसारेण ज्योतिर्वाक्यगतयत्पदवत् ब्रह्मपरं स्यादिति चेत्। न। तस्य ‘मनो ब्रह्म’ इत्यादिसारूप्येण ब्रह्मदृष्टिविधिपरतया ब्रह्मप्रकरणसिद्धेः। तत्सत्वेऽपि ‘प्राणो ब्रह्म’ इत्याद्यग्निवाक्यम् , ‘य एषोऽक्षणि’ इत्याचार्यवाक्यमिति वक्तृभेदेन ‘अथ हैनं गार्हपत्योऽनुशशास’(छा.उ.४.११.१) इत्यादिवाक्यप्रतिपादिताग्निविद्याव्यवधानेन च तद्विच्छेदात्। न च ‘आचार्यस्तु ते गतिं वक्ता’(छा.उ.४.१४.१) इति गत्यभिधानपरिशेषश्रवणादग्निवक्तृकं ब्रह्मप्रकरणं वक्तृभेदेऽपि व्यवधानेऽपि न विच्छिन्नमिति वाच्यम्। तावता अर्चिरादिगत्यभिधानस्य तत्राप्यन्वयलाभेऽपि स्थानगुणयोराचार्यवक्तव्यत्वेनापरिशेषिततया ‘य एषोऽक्षणि’ इत्यादेः प्रकृतेः ब्रह्मण्यक्षिस्थानसंयद्वामत्वादिगुणविधायकत्वेनान्वयालाभात्। तस्मादक्ष्याधारः छायापुरुष इति ।
राद्धान्तस्तु – इतिशब्दस्तत्रैवार्थविवक्षां वारयति यत्र प्रत्ययो विवक्ष्यते। यत्र तु उक्तार्थावच्छेदेन वचनसम्बन्धस्तत्र स न तां वारयति। यथा ‘इति हस्म उपाध्यायः कथयति’ इति , इह पुनः ‘इति होवाच’ इति वचनसम्बन्धस्स्पष्टः। ‘एतत् ब्रह्म’ इत्यत्रापि प्रकृत एव वचनसम्बन्धोऽनुवर्तते। अतोऽर्थविवक्षाबाधकाभावेन स्वार्थनिष्ठब्रहात्मश्रुत्यमृतत्वादिलिङ्गैर्बहुभिस्सप्रयोजनैश्चातथाभूतयोः प्रसिद्धिदृश्यत्वलिङ्गयोश्शास्त्रीयप्रसिद्धिशास्त्रदृष्टिरूपतया नयनं युक्तमित्यक्ष्याधारः परमात्मैव। किञ्च ‘चतुरो मुष्टीन् निर्वपति’ इत्यत्र चतुर्शब्दस्य संख्याविशेषाभिधानेन पर्यवसितस्य प्रथमश्रुतत्वेन प्राबल्येऽप्यत्र ‘य एष’ इति सर्वनाम्नोः प्रकृताभावेन पुरुषपदान्वयात् प्रागपर्यवसिताभिधानयोस्ततः प्राबल्याभावेन तात्पर्यवसानापेक्षितपुरुषपदसमर्पितचेतनत्वलिङ्गादप्यक्ष्याधारः परमात्मा। अपि च ‘तद्यद्यप्यस्मिन्’ इत्यादौ स्थानिमहिम्ना स्थानस्य निर्लेपत्वप्रतिपादनं स्थानिनश्श्रुत्यन्तरप्रसिद्धनिर्लेपभावपरमात्मत्वे सत्येवोपपद्यते इत्यतोऽप्ययं परमात्मा ।
यस्तु काचपटलादिभिस्सलेपेऽक्षणि स्थानिमाहात्म्यायत्तसर्पिरादिलेपराहित्योक्तिस्स्तुतिमात्रमिति न ततस्स्थानिनो निर्लेपत्वसिद्धिरिति विचिकित्सते , स इत्थं प्रतिबोधनीयः – तथाऽपि तथाभूतस्तुतिद्वारा श्रुत्यन्तरेषु निर्लेपत्वेन प्रसिद्धस्य परमात्मन एव स्थानितया ग्रहणं प्राप्नोति। यथा ‘द्वयोः प्रणयन्ति तस्माद्द्वाभ्यामेति’ इत्यत्र प्रणयनवतोर्द्वयोः पर्वणोर्महिम्ना चातुर्मास्याख्यो यज्ञ एति गच्छतीति हेतुहेतुमद्भाववर्णनस्य स्तुतिमात्रत्वेऽपि स्तुतिनिर्वाहकतया ‘ऊरू वा एतौ यज्ञस्य यद्वरुणप्रघासास्साकमेधाश्च’ इत्यर्थवादान्तरे ऊरुसंस्तुतयोर्वरुणप्रघाससाकमेघपर्वणोरेव ग्रहणमिति ।
सूत्रे ‘उपपत्तेः’ इत्यनेनात्मश्रुत्याद्युपपत्तिः , पुरुषशब्दसमर्पितचेतनत्वोपपत्तिः , स्थानिमाहात्म्यायत्तस्थानानिर्लेपत्वोपपत्तिश्च संगृहीता ॥१.२.१३॥
ननु स्थानिनः स्थानं महत् दृष्टं यथा यदोभ्यस्समुद्रः। तत्कथमत्यल्पमक्षिपरमात्मनस्स्थानमित्याशङ्क्याह –
स्थानादिव्यपदेशाच्च ॥१४॥
नास्याक्ष्येकमेव स्थानमनुचितं निर्दिष्टम् , किन्तर्हि ? अनामरूपस्यास्य नामरूपमपि निर्दिष्टं दृश्यते ‘तस्योदिति नाम हिरण्यश्मश्रुः’ इत्यादिषु , ततश्च तद्वदिदमपि स्थानविशेषकीर्तनमुपासनार्थं न विरुध्यते। यद्यपि‘अर्भकौकस्त्व’ सूत्रेण शंकेयं समाहिता , तथाऽपि दृष्टान्तमुखेनापि बुद्धिसामान्यमुपपादयितुमिदं सूत्रम् ॥१.२.१४ ॥
एवं प्रकरणं नास्तीत्यङ्गीकृत्य हेत्वन्तरमुक्तम्। अथ प्रकरणेन ब्रह्मत्वमुपपादयितुं सूत्रम् –
सुखविशिष्टाभिधानादेव च ॥१५॥
‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’(छा.उ.४.१०. ५) इति सुखविशिष्टं यत् प्रकृतं ब्रह्म , तस्यैव प्रकृतपरामर्शिना ‘य एष’ इति सर्वनाम्नाऽभिधानादप्यक्ष्याधारः परमात्मा। ननु प्राणादिषु प्रत्येकं ब्रह्मपदयोगात् ‘नाम ब्रह्म’ ‘मनो ब्रह्म’ इत्यादाविव ब्रह्मदृष्टिविधिपरत्वं युक्तम्। अत एव ‘प्राणञ्च हास्मै तदाकाशञ्चोचुः’(छा.उ. ४.१०.५) इति प्राणादिशब्दैरेव निगमनं दृश्यते ; प्राणादिप्रधानत्वात्। ब्रह्मप्रधानत्वे हि ब्रह्मशब्देन निगमनं स्यात्। अतो नात्र ब्रह्म प्रकृतमस्तीति चेत्। उच्यते। नेदं ब्रह्मदृष्टिविधिपरम् ; ‘प्राणो ब्रह्म’ इत्याद्युपदेशानन्तरं प्राणस्सूत्रात्मा बृहत्त्वात् ब्रह्मेति जानामि , विषयेन्द्रियसम्पर्कजं सुखं भूताकाशं च कथं ब्रह्मेति विजानीयामित्यभिप्रायवता उपकोसलेन ‘विजानाम्यहं यत् प्राणो ब्रह्मेति कं च तु खञ्च न विजानामि’(छा.उ.४.१०.५) इति पृष्टैरग्निभिः ‘यद्वाव कं तदेव खं यदेव खं तदेव कम्’(छा.उ.४.१०.५) इत्युक्तत्वात्। न चेदमपि वैषयिकसुखे भूताकाशदृष्टिविधिपरं भूताकाशे वैषयिकसुखदृष्टिविधिपरञ्च किं न स्यादिति शङ्क्यम्। ‘कं ब्रह्म खं ब्रह्म’ इत्यस्यार्थाज्ञानेन पृष्टवन्तं प्रति दृष्टिविध्यन्तरस्योत्तरत्वायोगात् ।
तस्मात्तद्वाक्यं पूर्ववाक्ये कखशब्दोक्तयोरन्योन्यविशेषणविशेष्यभावप्रदर्शनेन वैषयिकसुख भूताकाशरूपतां व्यवच्छिद्यापरिच्छिन्नसुखरूपत्वसुखात्मकापरिच्छिन्नत्वस्वरूपलक्षणोपास्यब्रह्मविशेषणद्वयरूपतां विवेक्तुं प्रवृत्तमिति तदनुरोध्येव ‘कं ब्रह्म खं ब्रह्म’ इति पूर्ववाक्यस्याप्यर्थो ग्राह्यः , न तु दृष्टिविधिरूपः। तत्र ‘कं खं ब्रह्म’ इत्येवोच्यमाने सुखात्मकत्वोपलक्षितापरिच्छिन्नत्वगुणस्य उपास्यत्वलाभेऽपि अन्योन्यविशेषितयोरुभयोरप्युपास्यगुणत्वमभिमतं न सिध्येदिति प्रत्येकं ब्रह्मशब्दः। ‘प्राणो ब्रह्म्’ इत्यत्र तु ब्रह्मशब्दः कार्यब्रह्मविद्यामग्निविद्याद्विधित्सितसगुणब्रह्मविद्याङ्गभूतां विधातुम्। अत एव ‘प्राणञ्च हास्मै’ इति निगमनवाक्ये प्राणस्य , सुखाकाशात्मकब्रह्मणश्च पृथग्ग्रहणमप्युपपद्यते। तत्र तदाकाशशब्द उपक्रमानुरोधेन उक्तरूपब्रह्मपरः ।
एवं दृष्टिविधिपरत्वशङ्कानिरासमपि गर्भीकर्तुं ‘सुखविशिष्टाभिधानात्’ इति गुरु सूत्रं कृतम्। अन्यथा प्रकृतस्य ब्रह्मणो ‘य एषोऽक्षणि’ इत्यत्राभिधानादित्येतावन्मात्रविवक्षायां लाघवार्थं ‘प्रकृताभिधानात्’ इति वा अत्त्रधिकरणद्युभ्वाद्यधिकरणयोरिव ‘प्रकरणात्’ इति वा सूत्रयेत्। दृष्टिविधिपरत्वशङ्कानिरासार्थत्वेन योजनायां सूत्रस्यायमर्थः – ‘कं ब्रह्म’ इति वाक्यनिर्दिष्टः परमात्मा , न तु ब्रह्मदृष्टिविशिष्टं वैषयिकसुखम्। सुखविशिष्टाभिधानादेव – सुखेषु यत् विशिष्टमनवच्छिन्नसुखं तस्य शब्देनाभिधानादित्यर्थः। तथा ‘खं ब्रह्म’ इति वाक्यनिर्दिष्टश्च परमात्मा , न तु ब्रह्मदृष्टिविशिष्टो भूताकाशः। सुखविशिष्टाभिधानादेव – शोभनं सुखात्मकं यत् खं , तस्य खशब्देनाभिधानादित्यर्थः। न च उभयत्रापि हेत्वसिद्धिः। ‘कं ब्रह्म’ इत्यत्र कशब्दस्य ‘यद्वाव कं तदेव खम्’ इति विवरणवाक्यानुसारेण स्वशब्दोक्तानावच्छिन्नत्वविशेषितसुखफलत्वात्। ‘खं ब्रह्म’ इत्यत्र खशब्दस्य ‘यदेव खं तदेव कम्’ इति विवरणवाक्यानुसारेण कशब्दोक्तसुखविशेषितानवच्छिन्नखरूपत्वात्। एवं प्रकरणासिद्धिशङ्कापरिहारार्थत्वेन योजनान्तरे सत्येवावधारणचकारयोरप्यर्थवत्ता ॥१.२.१५ ॥
नन्वत्र प्राक् प्रकृतं ब्रह्म। तथाऽपि वक्तृभेदेनाग्निविद्याव्यवधानेन च तत्प्रकरणं विच्छिन्नमिति न प्रकरणादक्ष्याधारस्य ब्रह्मत्वसिद्धिरित्याशङ्क्याह –
श्रुतोपनिषत्कगत्यभिधानाच्च ॥१६॥
श्रुता – अग्नीनामुपदेशेन लब्धा उपनिषत् – रहस्यविज्ञानरूपा सुखाकाशात्मकब्रह्मोपासना येनोपकोसलेन तस्य तदुपासनया प्राप्या या गतिरग्निभिर्वक्तव्याऽप्यग्निभिरेव ‘आचार्यस्तु ते गतिं वक्ता’ इत्याचार्येण वक्तव्यतयाऽवशेषिता , तस्याः प्रोषितप्रत्यागतेनाचार्येणाभिधानादाचार्यवाक्यं न स्वातन्त्र्येण किञ्चिदुपदेशार्थं प्रवृत्तम्। किं त्वग्न्युपदिष्टावशेषितपूरणार्थमेव प्रवृत्तमित्यवसीयते। अतस्तत्प्रकरणानुवृत्तौ न विवादः ; एवंविधस्थले वक्तृभेदस्य विद्यान्तरव्यवधानस्य च प्रकरणाविच्छेदकत्वात् , वस्तुतोऽग्निविद्यानां प्रकृतब्रह्मविद्याङ्गत्वेन तद्व्यवधायकत्वाशङ्कानास्पदत्वाच्च ।
एवं हि छन्दोगानामुपनिषद्युपाख्यायते – उपकोसलस्सत्यकामाचार्यमुपसन्नस्तस्य द्वादशवर्षाण्यग्नीन् परिचरन्नास्त। तस्मै ब्रह्मोपदेशमकृत्वैवाचार्ये प्रोषिते सति आधिव्याधिपरवशामानसमनश्नन्तं तदाऽप्याचार्याग्निपरिचर्यायामवहितं तमवेक्ष्य गार्ह्यपत्यदक्षिणाग्न्याहवननीयास्तयोऽपि तदग्नयस्सम्भूय करुणया तस्मै ‘कं ब्रह्म खं ब्रह्म’ इत्यादिना (छा.उ.४.१०.५) ब्रह्मविद्यामुपदिश्य प्रत्येकं स्वस्वविषयं विद्यां ‘य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मि’(छा.उ.४.११.१) इत्यादिना ‘य एष चन्द्रमसि पुरुषो दृश्यते’(छा.उ. ४.१२.१) इत्यादिना , ‘य एष विद्युति पुरुषो दृश्यते’(छा.उ. ४.१३.१) इत्यादिना चोपदिदिशुः। तदनन्तरञ्च सर्वेऽग्नयस्सम्भूय ‘एषा सोम्य तेऽस्मद्विद्या चात्मविद्या च’(छा.उ. ४.१४.१) इति स्वस्वविषयविद्यां सुखाकाशात्मकब्रह्मविद्याञ्चोपदिष्टामुपसंहृत्य तत्प्राप्यां गतिं वक्तव्यामालोच्य ‘आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापत्’(छा.उ.४.९.३) इति श्रुत्यनुसारेण स्वोपदिष्टविद्या तदाचार्यकर्तृकावशिष्टगत्युपदेशेन साधिष्ठत्वं प्राप्नोत्वित्यप्यालोच्य ‘आचार्यस्तु ते गतिं वक्ता’ इत्यवोचन्। ततः प्रत्यागत आचार्यः प्रसन्नमुखमुपकोसलं वीक्ष्य ‘ब्रह्मविद इव सोम्य ते मुखं भाति कोऽनु त्वाऽनुशशास’(छा.उ.४.१४.२) इति पृष्ट्वा अग्निभिस्सह भीते तस्मिन्नग्नयोऽस्मा उपदिदिशुरिति निश्चित्य ‘किं नु सोम्य किल तेऽवोचन्’ इति पृष्ट्वा ‘एतावदुपादिशन्’ इति तेनोक्ते तत्र वक्तव्यशेषोऽस्तीत्यवधार्य ‘अहं तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते’(छा.उ.४.१४.३) इति स्ववक्तव्यं प्रतिज्ञाय ‘ब्रवीतु मे भगवान्’ इति तेन प्रार्थितस्संयद्वामत्वादिगुणकमक्षिस्थं पुरुषमुपदिश्य तदुपासकस्य ‘अथ यदुचैवास्मिन्’ शव्यं कुर्वन्ति यदु च न , अर्चिषमेवाभिसम्भवन्ति’(छा.उ.४.१५.५) इत्यारभ्य ‘एष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते नावर्तन्ते (छा.उ.४.१५.६) इत्यन्तेनानावृत्तिपर्यवसायिनमर्चिरादिमार्गमुपदिदेश – इति ।
नन्वेतावता सत्यकामोपदिष्टा देवयानगतिरग्न्युपदिष्टायां सुखाकाशब्रह्मविद्यायामप्यन्वेतीति सिद्ध्यति , न त्वक्षिपुरुषोऽपि सुखाकाशात्मकं ब्रह्मेति सिद्ध्यति ; अग्निभिर्गतिमात्रस्य , आचार्येण वक्तव्यतयाऽवशेषितत्वात् , सुखाकाशब्रह्मणः स्थानस्य गुणजातस्य च वक्तव्यत्वेनावशेषितत्वात् , तथाऽपि सर्वनाम्नः प्रकृतपरामर्शित्वस्वाभाव्यादक्षिस्थपुरुषः प्रकृतं ब्रह्म भवेदिति चेत्। न। अत्रैव गार्हपत्यादिविद्यासु ‘य एष’ इति पदानां प्रकृतब्रह्मपरामर्शित्वाभावदर्शनात् ।
ननु ‘एषा सोम्य ते अस्मद्विद्या चात्मविद्याच’ इत्यग्निभिः स्वविद्यानामात्मविद्यायाश्च भेदेन कीर्तितत्वात् तत्र सर्वनाम्नां प्रकृतपरत्वं त्यक्तव्यमासीदिति चेत्। तर्ह्यत्रापि गतिमात्रस्यावशेषितत्वात् तस्य प्रकृतपरत्वं त्यक्तव्यमिति समानम्। यदि ह्यग्निभिः ‘एषा सोम्य’ इत्यादिना स्वविद्यामात्मविद्याञ्च निरपेक्षमुपदिष्टतया उपसंहृत्याचार्येण उपदेष्टव्यतया गतिमात्रेऽवशेषितेऽप्याचार्योऽग्न्युपदिष्टस्य ब्रह्मणोऽक्षिस्थानं संयद्वामत्वादिगुणजातं चोपदेष्टव्यमालोच्योपदिशेत् , तदा अग्नयो वितथवादिनोऽनभिज्ञा वा स्युः। तस्मादक्षिपुरुषविद्याऽप्यग्निविद्यावत् सुखाकाशब्रह्मविद्यातो भिन्नैवेति युक्तम् ; पात्नीवताधिकरणन्यायात् ।
एवं हि तत् – ‘त्वाष्ट्रं पात्नीवतमालभेत’ इति प्रकृत्य , ‘पर्याग्निकृतं पात्नीवतमुत्सृजति आज्येन शेषं संस्थापयति’ इति श्रूयते। तत्र किं ‘आज्येन शेषम्’ इत्यनेन पात्नीवतयाग एव पशोरुत्सृष्टस्य स्थाने प्रतिनिधित्वेन आज्यं विधीयते , कर्मान्तरं वेति संशयः। तत्र पात्नीवतयागस्य पशुनोपक्रमेऽपि पशोः पर्यग्निकृतावस्थायां वचनबलेन त्यक्तत्वात् द्रव्यसाकाङ्क्षस्य तस्य आज्येन शेषसमापनं विधीयते न कर्मान्तरम्। देवताऽभावात् , शेषसंस्थाशब्दानुपपत्तेश्चेति पूर्वः पक्षः ।
पात्नीवतयागस्य मुख्येन पशुद्रव्येण निर्वृत्तस्य प्रतिनिधेरनपेक्षितत्वात्कर्मान्तरविधिरिति सिद्धान्तः। तथाहि – यदि पशोस्त्यागमात्रं क्रियते , तदा तस्य देवतासम्बन्धो नानुष्ठितस्स्यात्। तथा सति ‘त्वाष्ट्रं पात्नीवतम्’ इति श्रुतस्तस्य देवतासम्बन्धविधिरप्रमाणं स्यात्। असति च देवतासम्बन्धे यागो न सिध्येत् ; द्रव्यदेवतासम्बन्धस्य यागानुमापकस्याभावात्। प्रत्यक्षयजेश्चाश्रवणात्। असति यागे कस्य शेषसमापनं विधीयेत। तस्मात् ‘पर्यग्निकृतं पात्नीवतमुत्सृजति’ इति पशोः पर्यग्निकृतावस्थायां न त्यागविधिः ; किन्तु परस्वदधिकरणन्यायेन पर्यग्निकरणान्ताङ्गरीतिविधानमिदम्। ततश्च तयैव निराकांक्षस्य पात्नीवतयागस्य समाप्तत्वात् न शेषमस्ति यस्याज्येन संस्थानमुच्येत। तस्मात् ‘आज्येन शेषम्’ इत्याज्यद्रव्यकयागान्तरविधिः। तत्र देवता प्रकृतपात्नीवतपदानुषङ्गेण लम्भनीया। शेषसंस्थाशब्दौ च सादृश्येनोपपादनीयौ । पशुयागो हि पर्यग्निकरणान्ततया देवतोद्देशेन मानसपशुत्यागवानपि हविःप्रक्षेपाद्यभावात् सशेष इव। आज्ययागस्तद्देवत्य एव हविःप्रक्षेपादिमान् तस्य शेष इव च भवतीति। एवं शेषसंस्थाशब्दसद्भावेऽपि पूर्वयागस्य निरपेक्षत्वात् कथञ्चिद्देवतालाभेन यदि कर्मान्तरविधिः , तदा किमु वक्तव्यमिह कर्मान्तरविधिरिति ।
नन्विहाक्षिपुरुषोपन्यासानन्तरं देवयानगतिः न सुखाकाशब्रह्मवित्प्राप्यत्वेन न वा ताटस्थ्येन कीर्तिता , किन्तु ‘य एवं वेद’ इत्यक्षिपुरुषविदमुपक्षिप्य ‘अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति’ इत्यादिना तत्प्राप्यत्वेन कीर्तिता। तथा च सुखाकाशब्रह्मवित्प्राप्यत्वेन आचार्येण वक्ष्यमाणतया प्रागग्निभिर्वर्णिताया गतेरक्षिपुरुषवित्प्राप्यत्वेन आचार्येणोपपादितत्वादक्षिपुरुषस्सुखाकाशब्रह्मैवेति निश्चीयत इति चेत्। मैवं। आचार्यो विद्यान्तरमुपदेक्ष्यति , तदन्वयितया च देवयानगतिमुपदेक्ष्यतीत्येतदग्नयो निश्चित्य तत्सर्वमनुद्घाट्य यां गतिमाचार्य उपदेक्ष्यति सा सुखाकाशब्रह्मविदोपीत्यभिप्रायेण ‘आचार्यस्तु ते गतिं वक्ता’ इत्यग्नयोऽवो चन्नित्युपपादनोपपत्तौ तन्मात्रमवलम्ब्य निरपेक्षतयोपसंहृतायाः प्रकृतब्रह्मविद्यायाः पुनस्स्थानगुणविध्यङ्गीकारायोगात्। तस्मात् देवयानगत्यभिधानस्य प्रागुक्तब्रह्मविद्यार्थत्वायोगात् तदभिधानेन तत्प्रकरणाविच्छेदोक्तिरयुक्तेति चेत्–
अत्र ब्रूमः – ‘आचार्यस्तु ते गतिं वक्ता’ इत्यत्र गतिशब्द: करणव्युत्पत्त्या देवयानमार्गपरो न भवति , किन्तु कर्मव्युत्पत्त्या प्रकृतब्रह्मविद्याफलपरः। प्रथमं फल एवाकाङ्क्षोदयाल्लोकान्तरभोग्यफलनिर्देशानन्तरमेव तत्प्राप्त्युपायमार्गाकाङ्क्षोदयौचित्यात्। न च प्राक् ब्रह्मविद्यायाः फलं निर्दिष्टम्। तदङ्गभूतानामग्निविद्यानामेव हि परं ‘लोकीभवति’ इत्यादिना फलमर्थवादेन वर्णितम्। अत एवाचार्यो ‘लोकान्वाव किल सोम्य तेऽवोचन् अहं तु ते तद्वक्ष्यामि’(छा. ४. १४. ३) इत्यग्नयः स्वस्वविद्याफलभूतानग्निलोकादीनेवावोचन् , न तु ब्रह्मविद्याया महत् फलम् , तदहं वक्ष्यामीति प्रतिजज्ञे। तस्मात् ततःप्रभृति यद्यावदाचार्यवाक्यं ‘इमं मानवमावर्तं नावर्तन्ते’(छा. ४. १५. ६) इत्येतत्पर्यन्तं तत्सर्वमग्न्यवशेषितफलरूपगत्यभिधानमेव ।
तथा हि – प्रथमं तावत् पुष्करपलाशवाक्यं फलवर्णनात्मकमिति निर्विवादम्। तदुपपादकस्तदनन्तरमक्षिस्थानोपदेशः। यदक्षिस्थानोपदेशानन्तरमक्षिस्थानमाहात्म्येन सर्पिरुदकाद्यश्लेषं वर्णयति तेन सकलपापश्लेषविदूरं स्वोचिताक्षिस्थाने विद्यमानं ब्रह्मोपासनीयमिति विधिलभ्यमानः तत्क्रतुन्यायेन वर्णितफलोपपादको भवति। एवं ‘सर्वाण्येनं वामान्यभिसंविशन्ति य एवं वेद’(छा. ४. १५. २) सर्वाणि वामानि नयति य एवं वेद (छा.४.१५.३) ‘सर्वेषु लोकेषु भाति य एवं वेद’(छा.४.१५.४) इति वाक्यान्यपि फलवर्णनात्मकानि। आद्यवाक्येन हि निखिलाभिमतवस्तुप्राप्तिमात्रं सङ्कल्पमात्रसाध्यं दहरविद्याफलत्वेन प्रसिद्धं वर्ण्यते। द्वितीयवाक्येन स्वभक्तेषु सकलाभिमतवस्तुप्रापकत्वं ‘यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् तं तं लोकञ्जयते तांश्च कामान् तस्मादात्मज्ञं ह्यर्चयेत् भूतिकामः’(मु.१.१०) इत्यादिश्रतिषु तत्फलत्वेन प्रसिद्धं वर्ण्यते। तृतीयवाक्येन ‘स स्वराड् भवति तेषां सर्वेषु कामचारो भवति (छा. ७.२५.२) इत्यादिश्रुतिप्रसिद्धं तत्फलं वर्ण्यते। तत्तत्फलोपपादकत्वेन च तत्तद्वाक्येभ्यः प्राक् ब्रह्मणस्संयद्वामत्ववामनीत्वभामनीत्वगुणाः विधीयन्ते। अग्रे च ‘इमं मानवमावर्तं नावर्तन्ते’ इति सत्यलोकस्थब्रह्मप्राप्त्यनन्तरमनावृत्तिलक्षणं फलं वर्ण्यते ।
एवं सर्वमिदमाचार्यवाक्यं सोपपादकफलवर्णनात्मकमित्यमुमर्थं हृदि निधाय ‘श्रुतोपनिषत्कगत्यभिधानात्’ इति सूत्रितम्। श्रुतोपनिषत्कस्य उपकोसलस्याचार्यवक्तव्यत्वेनाग्निभिरवशेषितायाः फलरूपाया गतेः कृत्स्नेन चाचार्यवाक्येनाभिधानात् तत्प्रकरणविच्छेदशङ्का नावकाशमासादयतीति तात्पर्यम् इत्थमस्य सूत्रस्य योजना भाष्य पूर्वसूत्रव्याख्यानसमय एवानागतावेक्षणन्यायेन प्रदर्शिता ” ‘आचार्यस्तु ते गतिं वक्ता’ इति च गतिमात्राभिधानप्रतिज्ञानमर्थान्तरविवक्षां वायरति” इति। अनेन हि भाष्यवाक्येनाक्षिपुरुषवाक्यमग्निभिरवशेषितां गतिमेवाचष्टे , न किञ्चिदप्यर्थान्तरमिति स्पष्टमेवोच्यते। भामत्यामपि भाष्यमिदमुक्तार्थपरतयैवावतारितम् “नन्वग्निभिः पूर्वं निर्दिश्यतां ब्रह्म। ‘य एषोऽक्षणि’ इत्याचार्यवाक्येऽपि तदेवानुवर्तनीयमिति तु कुत इत्यत आह” इति ।
यदि तु ‘आचार्यस्तु ते गतिं वक्ता’ इत्यत्र गतिशब्दो देवयानमार्गपर इति निर्बन्धः , तथाऽपि न दोषः। तदा हि गतिशब्दोऽन्येषामपि केषांचिदाचार्येण वक्तव्यानामुपलक्षणत्वेन व्याख्येयः ; गतिमात्रपरत्वे वैयर्थ्यप्रसङ्गात्। ‘आचार्यस्तु ते गतिं वक्ता’ इत्यग्निभिरनुक्तेऽपि हि विद्यान्तरसंबन्धित्वेनाचार्योक्ताऽपि देवयानगतिः प्रकृतब्रह्मविद्यायामपि दहरवैश्वानरविद्यादिष्विव ‘अनियमस्सर्वासामविरोधश्शब्दानुमानाभ्यां’(ब्र.सू. ३. ३. ३१) इति गुणोपसंहारपाददिकरणे प्रदर्शयिष्यमाणन्यायेन लभ्यत एव। एवञ्च सूत्रस्थगतिशब्दोऽपि श्रुतौ गतिशब्देन यावदुपलक्षितं तावत्परः। तथा च कृत्स्नेनाप्याचार्यवाक्येनाग्निवाक्यस्थगतिशब्दविषयमात्रस्यैवाभिधानान्न प्रकरणविच्छेदशङ्केति तात्पर्यम्। उदाहृतभाष्यभामतीग्रन्थयोरप्यत्रैव तात्पर्यम्। सूत्रे चकारोऽग्निविद्यानामङ्गत्वसमुच्चयार्थः। तथा च कृत्स्नस्याप्याचार्यवाक्यस्य प्रकृतब्रह्मविद्यापेक्षितगतिनिरूपणैदम्पर्येण प्रवृत्तत्वान्न वक्तृभेदेनाग्निविद्याव्यवधानेन वा प्रकरणविच्छेदः। अग्निविद्यानामङ्गत्वादपि न तद्व्यवधानेन प्रकरणविच्छेद इत्यर्थः। अङ्गत्वञ्च प्रकृतब्रह्मविद्योपक्रमतदुपसंहारमध्यपतितत्वात् , ‘अथ हैनम्’ इति पूर्वप्रकृतापेक्षावाचकेनाथशब्देनाग्निविद्यानां ब्रह्मविद्यायाश्च संम्बन्धावगमात् , ‘एनम्’ इति ब्रह्मविद्याधिकारिण उपकोसलस्यान्वादेशविहितेन एनादेशेन निर्देशात् ।
न च वाच्यम् – ‘अपहते पापकृत्यां लोकीभवति सर्वमायुरेति ज्योक् जीवति नास्यापरपुरुषाः क्षीयन्ते उप वयं तं भुञ्जामोऽस्मिंश्च लोकेऽमुष्मिंश्च’(छा. ४. ११. २) इत्यग्निविद्यानां पृथक्फलश्रवणादङ्गत्वं न युक्तम् – इति। तेषां वाक्यानामग्निविद्यानां ब्रह्मविद्याङ्गताया द्वारप्रदर्शनपरतया तदङ्गताऽनुगुणत्वात् ।
तथाहि – आद्येन वाक्येन तासां ब्रह्मोपासनाप्रावृत्तिप्रतिबन्धकदुरितनिवर्तकत्वमुच्यते। द्वितीयेन ‘‘स एतं देवयानं पन्थानमासाद्याग्निलोकमागच्छति’(कौ. १. ३) इत्यादिश्रुतिष्वर्चिरादिमार्गे प्रथमपर्वत्वेन श्रुताग्निलोकप्रापकत्वमुच्यते ; अग्न्युपासनानामग्निलोकप्राप्तिफलकत्वौचित्यात्। यद्यपि ब्रह्मोपासनयैवार्चिरा दिपर्वप्राप्तिर्लभ्यते , तदर्थं नोपासनान्तरमपेक्ष्यते , तथाऽपि विदुषो देहपातानन्तरमेवार्चिरादिगतिप्राप्तौ प्रतिबन्धकसद्भावेऽपि तदानीमेव तत्प्रापकत्वमनेनोच्यते। अत एवास्मिन्नेव प्रकरणे श्रूयते ‘अथ यदु वैवास्मिञ्छव्यं कुर्वन्ति यदुच न , अर्चिषमेवाभिसंभवन्ति’ इति। अस्मिन्नक्षिपुरुषोपासके मृते पुत्रादयश्शव्यं शवकर्म पैतृमेधिकसंस्कारादिकं यदि कुर्वन्ति , यदि वा न कुर्वन्ति उभयथाऽपि तस्यार्चिरादिगतिप्राप्तिरवश्यं भवत्येवेत्यर्थः। अनेन हि वाक्येन विद्यान्तरोपासकानां शवकर्माकरणेऽर्चिरादिगतिप्राप्तौ किञ्चित् प्रतिबन्धो भवति। प्रकृतब्रह्मविद्यायां तु न भवतीत्युभयमप्यर्थतश्शब्दतश्च प्रतीयते। सोऽयमस्यां विशेषो ‘लोकीभवन्ति’ इति फलवाक्यपर्यालोचनायामग्निविद्यासाहित्यकृत इत्यवसीयते। तृतीयवाक्येन आप्रायणमहरहरावर्तनीयब्रह्मोपासनाफलभूयस्त्वसिद्ध्यर्थं पुरुषायुषप्राप्तिरुच्यते। चतुर्थवाक्येन प्रत्यहमुपासनाप्रवृत्तौ प्रतिबन्धकानां धनप्राप्तिरोगनिवृत्त्याद्युपायचिन्ताक्लेशानामप्रसङ्गाय ज्योक् उज्वलं धनधान्यादिसमृद्धं रोगानभिभूतञ्च जीवनमुच्यते। पञ्चमवाक्येन ब्रह्मविद्याफलाभिवृद्ध्यर्थमुपासकस्य पुत्रपौत्रादीनां ज्ञानकर्मसन्तत्यादिक्षयाभाव उच्यते। सत्पुत्रपौत्रादिसन्ततिवृद्धेर्हि अमुष्य पुत्रोऽमुष्य पौत्र इति पितृपितामहादिकीर्तिस्थैर्यसंपादनेन साक्षाच्च पितृपितामहाद्युपार्जितपारलौकिकफलाभिवृद्धिहेतुत्वमापस्तम्बेन स्मर्यते ‘ते शिष्टेषु कर्मसु वर्तमानाः पूर्वेषां साम्परायेण कीर्तिं स्वर्गञ्च वर्धयन्त्येवमवरोऽवरः परेषामाभूतसम्प्लवात्’(आ. ध , सू. २.२४) इति। षष्ठवाक्येन उपासनाप्रीतानामग्नीनामैहिकपारलौकिकप्रतिबन्धनिरासादिद्वारा प्रकृतब्रह्मोपासनानुष्ठातृपरिपालकत्वमुच्यते। तस्मादग्निविद्यानामङ्गत्वान्न व्यवधायकत्वमित्यपि युक्तमेव ।
एतेन ‘एषा सोम्य ते’ इति निरपेक्षतयोपसंहृतायां ब्रह्मविद्यायामव्यवधानादिसमर्थनेऽपि न स्थानगुणान्वयस्सम्भवतीत्यपि निरस्तम्। गतिवाक्यावैयर्थ्याय गतिशब्देन यावत्क्रोडीकृतं तावदतिरिक्तापेक्षितराहित्येनैव उपसंहाराभिप्रायस्य वर्णनीयतया पात्नीवतयागवत्सर्वधा नैरपेक्ष्यासिद्धेः। गतिशब्दस्य फलपरत्वपक्षे तदुपपादकतया स्थानगुणयोरपि तेन क्रोडीकृतत्वात् मार्गपरत्वपक्षे वाक्यावैयर्थ्याय तस्य स्थानगुणोपलक्षणत्वावश्यंभावात्। एवं श्रुतोपनिषत्कसूत्रस्य सुखविशिष्टसूत्रप्रसाधितब्रह्मप्रकरणविच्छेदशङ्कानिरासार्थत्वेन योजनाद्वयं सुखविशिष्टसूत्रव्याख्यानसमय एव भाष्ये सूचितं प्रपञ्चेन प्रादीदृशम्। अक्षिपुरुषस्य ब्रह्मत्वे लिङ्गप्रदर्शनपरतयाऽपि एतत्सूत्रं तदनन्तरं भाष्ये व्याख्यातम् – ‘श्रुतोपनिषत्कस्य वेदान्तेषु प्रसिद्धा या देवयानगतिस्तदभिधानादपि अक्षिपुरुषः परं ब्रह्म’ इति। यद्यप्यब्रह्मविदामपि पञ्चाग्न्युपासकानां देवयानगतिः श्रुता , तथाऽपि क्वचिद्वचनबलात्तत्क्रतुन्यायातिलङ्घनेऽपि ब्रह्मविद्यायामेव सा प्रसिद्धेत्यौत्सर्गिकत्वाश्रयमिदं लिङ्गम् ।
सूत्रे श्रुतोपनिषत्केत्यल्पार्थे कप्रत्ययः देवयानगतेः ‘निर्विशेषं परं ब्रह्म साक्षात् कर्तुमनीश्वराः। ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः’ इत्युक्तरूपमन्दाधिकारिविषयत्वज्ञापनार्थः। १.२.१६ ।
एवं सिद्धान्तहेतव उक्ताः। अथ पूर्वपक्षनिराकरणार्थं सूत्रम् –
अनवस्थितेरसम्भवाच्च नेतरः। १७ ।
यदुक्तमक्ष्याधारश्छायात्मेति तन्न युज्यते ; छायाऽऽत्मनः प्रतिबिम्बस्याक्ष्यादिषु प्रतिबिम्बोपाधिष्वनवस्थितेः। सर्वत्र स्वस्थानस्थितस्यैव हि बिम्बस्य तत्तदुपाधिसम्बन्धमात्रमध्यस्यते , न तु बिम्बस्तत्तदुपाधीननुप्रविशति , न वा बिम्बाद्भिन्नः प्रतिबिम्बस्तत्तदुपाधिषूद्भवति। यथा चैतत्तथा समर्थितं विवरणप्रकाशे तातचरणैः। यद्यपि चाक्षणि छायात्मनस्स्यादवस्थितिः तथाऽपि बिम्बसन्निधानकाल एव सा भवेन्न सर्वदा। न चोपासनाकाले बिम्बसन्निधाननियमोऽस्ति येन तदानीमुपास्यसत्ता लभ्यते। न च तदाऽपि यस्य कस्यचिदक्षणि तत्सत्ता लभ्यत इति शङ्कनीयम्। ‘य एषोऽक्षणि’ इत्यत्र प्रत्यासत्तेरुपासकस्याक्षणीत्येव पर्यवसानात् , ‘दृश्यते’ इत्यस्य चरमश्रुतस्यान्यदृश्यत्वमादायापि चारितार्थ्यात्। न चैतदुपासनाकाले छायाकरं कञ्चित्पुरुषमक्षिसमीपे सन्निधाप्य उपासीतेति युक्तम् ; कल्पनागौरवात् , ‘अक्षणि पुरुष’ इति नित्यवच्छ्रवणायोगाच्च। तस्मादक्षणि च्छायात्मनः कदाऽप्यनवस्थितेः , उपासनाकाले अवस्थितिनियमाभावाच्च नाक्ष्याधारः परमात्मनः इतरः छायात्मा। तत्र संयद्वामत्वादिगुणानामसम्भवाच्च ।
ननु स्पष्ट एवासम्भवः किमर्थं सूत्रत उच्यते ? स्थानादिसूत्रे ब्रह्मणोऽपि नामरूपादिकं काल्पनिकमेवेति दर्शितम् , तद्वच्छायात्मनोऽपि काल्पनिकं सम्भवतीति शङ्कानिरासार्थमसम्भवस्सूत्रितः। वस्तुतो नामरूपरहितमपि ब्रह्म व्यावहारिकैस्स्वाध्यस्तैर्नामरूपैस्तद्वदिति सम्भवति तद्विषयत्वे संयद्वामत्वादिश्रुतीनां सालम्बनता , न तु च्छायात्मविषयत्वे। तत्र बुद्धिपूर्वमारोपणीयस्यार्थस्य फलश्रुत्यालम्बनत्वासम्भवादिति तन्निरासः। तत्र आत्मश्रुत्यादेरितिशिरस्कत्वेनाविवक्षितार्थत्वमित्यङ्गीकृत्य पूर्वपक्षप्रवर्तनादस्पष्टब्रह्मलिङ्गता। १. २. १७ ।
इति अन्तराधिकरणम्। ४ ।
(५ अधिकरणम्)
अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात्। १८ ।
पूर्वत्र ‘य एषोऽक्षणि’ इति परमात्मनः स्थाननिर्देशोपपादनाय ‘यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति एष त आत्माऽन्तर्याम्यमृतः’(बृ. ५.७. ३) इत्याद्यन्तर्यामिब्राह्मणे तस्य पृथिव्याद्यनेकस्थानव्यपदेशो दृष्टान्ततयोक्तः। स आक्षिप्यते तत्र प्रतिपादितोऽन्तर्यामी परमात्मा न भवतीति। अन्तर्यामी दहराद्युपासनासिद्धः कौशिककुम्भसम्भवादिवत् कश्चन योगसिद्ध इति युक्तम् , न तु परमात्मा ; शरीररहितस्य नियन्तृत्वाभावात्। शरीरवतामेव तक्षादीनां वास्यादिनियन्तृत्वदर्शनात्। स्वशरीरनियमनेऽपि तेनैव शरीरेण नियन्तुश्शरीरवत्त्वात्। न च परमात्माऽपि नियम्यपृथिव्यादिशरीरेणैव शरीरवानिति वक्तुं शक्यम् ; ‘यस्य पृथिवी शरीरम्’ इत्याद्याम्नानात् , इति वाच्यम्। तक्षादीनां भोगायतनस्वशरीरेणैव नियन्तृत्वदर्शनात् , स्वभोगायतनशरीरस्यैव च स्वशरीरत्वात्। ‘य इमञ्च लोकं परञ्च लोकं सर्वाणि च भूतानि योऽन्तरो यमयति’ इति परमोपक्रमेण ‘एष त आत्माऽन्तर्याम्यमृतः’ इत्युपसंहारेण च प्रकरणप्रतिपाद्यत्वेन निर्णीतस्य पृथिव्यादिवाक्येष्वपि प्रथमश्रुतस्य यमयितृत्वस्योपपादनाय जीवविशेषपरिग्रहे स्थिते ‘एष त आत्मा’ इति ‘अमृत’ इति चोभयमौपचारिकं नेयं ‘प्राणस्तथाऽनुगमात्’(ब्र.सू. १.१. ११) इति न्यायादिति पूर्वः पक्षः ।
पृथिव्याद्यभिमानिदेवताविशेषोऽन्तर्यामीति पूर्वपक्षस्तु भाष्ये सम्भवमात्रेण दर्शितो न तु मुख्यः। उपक्रमोपसंहाराभ्यामेकस्यैवान्तर्यामित्वप्रतीतेः ; ‘यं पृथिवीं न वेद’ ‘यमापो न विदुः’ इत्यादिना तत्तदभिमानिदेवताव्यतिरेकप्रतीतेश्च। अनेनैव हेतुद्वयेन तथापूर्वपक्षस्यामुख्यतां दर्शयितुमेव सूत्रे ‘अधिदैवादिषु’ इति अन्तर्यामी विशेषितः। तेन ह्यधिदैवादिषु सर्वेष्वपि पर्यायेष्वेक एवान्तर्यामी तत्तद्देवताव्यतिरिक्तश्चेति दर्शितं भवति।
सिद्धान्तस्तु – यमयितृत्वधर्मेण धर्मिग्रहणे साधनसाध्येन तेन धर्मिग्रहणाद्वरं नित्यसिद्धेन तद्ग्रहणम् ; कल्पनालाघवात्। अतोऽन्तर्यामित्वं साधारणमपि न्यायतः परमात्मन्येव समन्वेतीति तस्मादेव तद्धर्मव्यपदेशात् ‘एष त आत्मा’ इत्यादितद्धर्मव्यपदेशाच्चान्तर्यामी परमात्मा। एवञ्च शरीरवत एव नियन्तृत्वमिति शङ्काऽप्यनवकाशा ; साधनाधीन एव नियन्तृत्वे साधनविशेषत्वेन तदपेक्षणात्। न च नियन्तृत्वमात्रं साधनाधीनमिति नियमः ; ज्ञानमात्रमनित्यमित्यादिवदप्रयोजकत्वात् , श्रुत्यन्तरप्रसिद्धजगत्कारणत्वाक्षिप्तसहजसर्वशक्तिशालिन। परमेश्वरस्य स्वत एव सर्वनियमनशक्तियोगसम्भवाच्च। तथाऽपि नियन्ता शरीर्येवेति नियमो दृष्ट इति चेत् ; न तस्यापि कर्ता शरीर्येवेति नियमवदप्रयोजकत्वात् , नियम्यपृथिव्यादिशरीरेणैव परमेश्वरस्य शरीरित्वसम्भवाच्च। न च शरीरे भोक्तुरेव नियन्तृत्वमिति नियमः ; अभोक्तुरनियन्तृत्वे अचेतनत्वस्योपाधित्वात्। न च मुक्तात्मसु साध्याव्यापकत्वम्। तेषां परमेश्वराभेदेन पक्षान्तर्भावात्। न च यच्छरीरं यस्य भोगायतनं तेनैव स नियच्छतीतिनियमः ; स्वकरगृहीतपरांगुल्यादिना क्रियमाणे चित्रलेखनादिकर्मणि तदभात् , अप्रयोजकत्वाच्च ।
किञ्च योगसिद्धत्वेऽपि न जीवोऽन्तर्यामी भवितुमर्हति ; तस्यापि नियन्त्रन्तरापेक्षायामनवस्थानात्। न च स्वतन्त्र एव स कल्पनीयः ; योगसिद्ध्यनन्तरं तस्य कथञ्चित् स्वातन्त्र्यसम्भवेऽपि ततः प्रागस्मदादिवन्नियन्त्रन्तरनियम्यत्वात्। तस्य नित्यस्वतन्त्रत्वाभ्युपगमे पर्यायान्तरेण परमेश्वरपक्षस्यैव परिग्रहापत्तेः। सेयमनवस्था भगवता भाष्यकारेण सिद्धान्ते तदप्रसक्तिप्रदर्शनमुखेन पूर्वपक्षे प्रसज्यत एवेति समुद्घाटिता – ‘तस्याप्यन्यो नियन्तेत्यनवस्थादोषश्च न भवति ; भेदाभावात्। भेदे हि सति अनवस्थादोषापत्तिः’ इति। सिद्धान्तेऽन्तर्यामिणोऽप्यन्यो नियन्तेत्यनवस्था न प्रसज्यते ; नित्यस्वतन्त्रपरमेश्वरस्य नियन्त्रन्तरस्याकल्पनीयतया नियन्तृभेदाभावात्। पूर्वपक्षेऽन्तर्यामिणोऽपि जीवस्य नियन्त्राऽन्येन भाव्यमिति तद्भेदे सति अनवस्थाऽपत्तिरित्यर्थः ।
इदञ्च दूषणं ‘अनवस्थितेरसम्भवाच्च नेतरः’ इति पूर्वाधिकरणसूत्रानुवृत्तिमभिप्रेत्योद्घाटितम्। अत एव तत्र सूत्रे ‘अनवस्थितेः’ इति सोपसर्गप्रयोगोऽपि सफलः , अन्यथा तस्य तदधिकरणमात्रार्थत्वे लाघवात् स्थानादिसूत्रे अवोपसर्गाभावाच्च ‘स्थितेः’ इत्येवासूत्रयिष्यत्। ‘असम्भवात्’ इत्यनुवृत्तांशेन योगिनोऽसङ्कुचितसर्वभूतनियन्तृत्वासम्भवादिति हेत्वन्तरं समुच्चीयते। अयञ्च हेतुः ‘समस्तं विकारजातमन्तस्तिष्ठन् यमयतीति परमात्मनोऽयं धर्म उपपद्यते’ इति भाष्येण गर्भीकृतः। यद्यपि सर्वभूतनियन्तृत्वं योगिनो न सम्भवतीति स्पष्टमेव , तथाऽपि तत्सम्भवमङ्गीकृत्य कृत्वाचिन्तया न्यायः प्रदर्शितः। इंद तु कृत्वाचिन्तोद्धाटनम्। १.२.१८ ।
स्यादेतत्। यद्यपि सर्वभूतशब्दोक्तसकलकार्यनियन्तृत्वं योगिनो न संभवति , तथाऽपि साङ्ख्यस्मृतिकल्पिते प्रधाने तद्व्यपदेष्टुं शक्यम्। सर्वस्य कार्यस्य कारणाधीनत्वात् , ‘यः पृथिव्यां तिष्ठन्’ इत्यादिकं कार्येषु कारणस्यानुगतत्वात्। ‘यं पृथिवी न वेद’ इत्यादि तस्य ‘अप्रतर्क्यमविज्ञेयम्’ इत्यविज्ञेयत्ववर्णनात्। ‘यस्य पृथिवी शरीरम्’ इत्यादि कार्यकारणयोर्वस्तुतो भेदाभावात्। ‘पूर्वपक्षशरीरम्’ इत्यादौ स्वरूपवाचकस्यापि शरीरशब्दस्य दर्शनात् , ‘एष त आत्मा’ इति जीवस्य सर्वनिर्वाहके प्रधाने ‘ममात्मा भद्रसेन’ इतिवदात्मत्वोपचारात् , ‘अदृष्टो द्रष्टा अश्रुतश्श्रोता अमतो मन्ता अविज्ञातो विज्ञाता’(बृ. ३. ७. २३) इत्यत्रादृष्टत्वादि रूपादिहीनत्वात् , द्रष्टृत्वादि तत्प्रकृतिकत्वेन तदभिन्नानाञ्चक्षुरादीनां दर्शनादिसाधनत्वात् , ‘चक्षू रूप ग्राहकम्’ इत्यादौ करणे कर्तृत्वोपचारादिति सर्वस्यापि विशेषणस्योपपन्नत्वात् प्रधानमेवान्तर्यामीति युक्तम् , न तु परमात्मेति ; तत्र पृथिव्यादिशरीरवत्त्वव्यपदेशानुपपत्तेः। न हि तस्य पृथिव्यादि स्वरूपम् , न वा भोगायतनम्। न च तस्य पृथिव्यादिशरीरेण भोक्तृभोगायतनभावसम्बन्धाभावेऽपि कर्तृकार्योपादानोपादेयभावादिसम्बन्धान्तरसत्त्वात्तथा व्यपदेशस्स्यादिति वाच्यम्। पित्रादेः पुत्रादिशरीरस्य च तादृक्सम्बन्धान्तरसत्त्वेऽपि ‘पितुश्शरीरम्’ इत्यादिव्यपदेशादर्शनेन तथा व्यपदेशे तेषां सम्बन्धानामप्रयोजकत्वात्। न च तदज्ञानकल्पितत्वेन सम्बन्धेन तथा व्यपदेशः ; स्थावज्ञानकल्पिते शरीरे ‘स्थाणोश्श्शरीरम्’ इति व्यपदेशा दर्शनात्। न च नियम्यत्वेन तथा व्यपदेशः ; स्वामिनियम्यभृत्यादिशरीरेषु नाविकनियम्यनौकादिषु तत्तच्छरीरत्वव्यपदेशाभावात्। न च यावद्द्रव्यभाविना नियम्यत्वेन तथा व्यपदेशः ; स्वशरीरस्यापि व्याध्यादिभिः कदाचिदनियम्यत्वेन शरीरत्वव्यपदेशे तस्य प्रयोजकत्वायोगात्। ‘तदानीमपि स्वशरीरस्य नियम्यत्वयोग्यताऽस्ति’ इति चेत् न। तथा सति नौकादिष्वपि सर्वदा नाविकादिनियम्यत्वयोग्यताऽस्तीत्यतिप्रसङ्गतादवस्थ्यादिति पूर्वपक्षान्तरयाशंक्य निराकरोति –
न च स्मार्तमतद्धर्माभिलापात्। १९ ।
न साङ्ख्यस्मृत्युक्तं प्रधानमन्तर्यामीति युक्तम् ; अतद्धर्माणां द्रष्टृत्वादीनामभिलापात् ; तेषां मुख्यत्वसम्भवे औपचारिकत्वकल्पनायोगात्। ‘यस्य पृथिवी शरीरम्’ इत्यादि तु नियन्तृत्वप्रसक्तशरीरापेक्षाशङ्कां नित्यसिद्धे नियन्तृत्वे नास्ति तदपेक्षेति सूचनेन व्यावर्तयितुमन्तर्यामिणो नियमनार्थं नियम्यपृथिव्याद्यतिरेकेण शरीरं नास्तीति प्रतिपादनपरम्। आकाङ्क्षाऽनुरोधात् , न तु पृथिव्यादेस्तच्छरीरत्वप्रतिपादनपरमपि अनाकाङ्क्षितत्वात् , उभयत्र वाक्यव्यापारायोगाच्च। १. २. १९ ।
ननु यदि द्रष्टृत्वादिमुख्यताऽनुरोधान्न प्रधानमन्तर्यामि , तर्हि तत एव न परमात्माऽपि , किन्तु शारीर एव। यदि ‘द्रष्टा’ इत्यादिविशेषणैः ‘आत्मा वा अरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’(बृ. २. ४. ५) ‘आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेन’(बृ. २. ४. ५) ‘आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते’(बृ. ४. ५. ६) इत्यादिश्रुत्यन्तरप्रत्यभिज्ञानादात्मविषयसाक्षात्कारश्रवणमनननिदिध्यासनवत्वमुच्यते , यदि वा चक्षुश्श्रोत्रमनोबुद्धिकरणकज्ञानवत्त्वमुच्यते , उभयथाऽपि जीव एव द्रष्टृत्वादिकं घटते न परमात्मनि। द्रष्टृत्वादिशब्दा रूपालोकनादिमत्त्ववाचकास्सन्तु इति चेत्। न। तथाऽपि मन्तृशब्दाभिधेयस्य विचारयितृत्वस्य सर्वज्ञे ब्रह्मण्यसम्भवात्। दर्शनादिशब्दानां रूपालोकनादिवाचित्वे ‘रूपं दृष्टं घटो दृष्ट’ इत्यादि प्रयोगाणां ‘इन्द्र इन्द्राणीपतिवरुणो वरुणानीपतिः’ इत्यादिवदसामञ्जस्य प्रसङ्गाच्च। न च –चाक्षुषादिज्ञानवाचित्वमप्यसमञ्जसम्। चक्षुरादीनामयोग्यत्वेन ‘दृष्टं पश्यामि’ इत्याद्यनुभवे स्फुरणासम्भवादिति वाच्यम् ; चक्षुरादिकरणविशेषप्रयोज्यजातिविशेषवाचित्वोपपत्तेः ।
न च वाच्यम् – ‘अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुस्स शृणोत्यकर्णः’(श्वे. ३. १९) इत्यत्र रूपालोकनादिमात्रे पश्यत्यादिप्रयोगो दृष्टः इति। तत्र जवनशब्दस्य दूरस्थसम्बन्ध इव तस्य रूपालोकनादौ लक्षणाऽभ्युपगमात् , इह मुख्यार्थसम्भवेन लक्षणाकल्पनानौचित्यात्। तस्माज्जीव एवान्तर्यामी , ‘न दृष्टेर्द्रष्टारं पश्ये: न श्रुतेर्श्रोतारं शृणुयाः’(बृ. ३. ४. २) इत्यादिश्रुत्यन्तरे तस्मिन्नदृष्टत्वादीनां प्रसिद्धेश्च। साधनाधीनमपि तस्यैव यमयितृत्वं ग्राह्यम् ; द्रष्टृत्वाद्यनुरोधात्। तस्मिन्नमृतशब्दोऽपि युज्यते ; नित्यत्वात्। ‘क्षरं त्वविद्या ह्यमृतं तु विद्या विद्याऽविद्ये ईशते यस्तु सोऽन्यः’(श्वे. ५. १) इति श्रुत्यन्तरे तस्मिन्दृष्टप्रयोगत्वाच्च ।
अथोच्येत – जीवः कोऽन्तर्यामी स्यात्। न तावत्तत्तदुपासकजीवः ; परिच्छिन्ने तत्र पृथिव्यादिस्थितितन्नियन्तृत्वयोरसम्भवात् , ‘किमन्तर्यामिणं वेत्थ’ इति गन्धर्वेण पृष्टस्य काप्यस्य ‘नाहं तं भगवन्वेद’(बृ. ३. ७.१) इत्युत्तरासामञ्जस्यप्रसङ्गाच्च। यज्ञविद्याविदः काप्यस्य कर्मफलभोक्तृदेहातिरिक्तजीवज्ञानावश्यम्भावात्। नापि पृथिव्याघभिमानी जीवः श्रोतारमुद्दालकं प्रति पराग्भूते तस्मिन् ‘एष त आमा’(बृ. ३. ७. ३) इति तदात्मत्वोपदेशायोगात्। पृथिव्यादिष्वप्यभिमानिजीवस्य प्रत्येकं भिन्नतया ‘सर्वाणि भूतानि योऽन्तरो यमयति’(बृ. ३. ७. १) इत्युपक्रान्ततया एकस्य सर्वनियन्तृताया अनन्वयप्रसङ्गाच्च। नापि जीवसमुदायः ; तस्य पृथिव्यादिस्थत्वतन्नियन्तृत्वयोरभावेन ‘यः पृथिव्यान्तिष्ठन् पृथिव्या अन्तरः’(बृ. ३.७. ३) इत्यादेरनन्वयात्। न च सर्वभूतवाक्ये जीवसमुदायः पृथिव्यादिवाक्ये तत्तदभिमानि जीव इति वैरूप्यकल्पनं युक्तम्। न वा तदपि निर्वोढुं शक्यम् , ‘एष त आत्मा’ इत्युपदेशायोगस्य उक्तत्वात्। अपिच उपासकजीव इति पृथिव्याद्यभिमानि जीव इति पूर्वपक्षौ ‘शब्दविशेषात्’(ब्र.सू. १. २. ५) ‘भेदव्यपदेशाच्चान्यः’(ब्र.सू. १.१.११) इति सूत्राम्यां निरसितौ नात्र निरसनीयौ। शाण्डिल्यविद्यायां ‘एष म आत्मा’(छा.३.१४.१) इतिवदिह प्रतिपर्यायं ‘एष त आत्मा’ इति शब्दविशेषसत्त्वात्। आदित्यपर्याये ‘यमादित्यो न वेद’(बृ. ३.७.९.) इत्यादिभेदव्यपदेशवत् पृथिव्यादिपर्यायेष्वपि ‘यं पृथिवी न वेद’(बृ. ३. ७. ३) इत्यादिभेदव्यपदेशसत्त्वाच्च। एवं च सर्वजीवसमुदाय इति पूर्वपक्षोऽपि न सम्भवति। सर्वभूतपर्याये ‘यं सर्वाणि भूतानि न विदुः’(बृ. ३. ७. १५) इत्यादिभेदव्यपदेशदर्शनात् ।
अपि च प्रतिपर्यायं ‘अमृतं’ इति जीवात् भेदो निर्दिश्यत। अमृतत्वं ह्यमरणधर्मकत्वम्। न च जीवस्यापि नित्यत्वात्तत्रामृतत्वोक्तिरुपपद्यत इति वाच्यम्। आत्मत्वकीर्तनादेव स्वतो नित्यत्वस्य सिद्धत्वेनामृतपदस्य जीवधर्मशरीरोपाधिकमरणराहित्यपरत्व एव व्यावर्तकत्वोपपत्तेः। न च व्यावर्तकत्वे सम्भवति स्वरूपकथनमात्रार्थत्वं युक्तम्। अत एव ‘राजपुरोहितौ सायुज्यकामौ यजेयाताम्’ इत्यत्र ‘राज्ञः पुरो हितौ’ इति षष्ठीतत्पुरुषैकशेषपक्षे क्षत्रियादन्यस्य पुरोहिताभावात् राजपदं व्यर्थं स्यादिति तं त्यक्त्वा ‘राजा च पुरोहितश्च’ इति द्वन्द्वमाश्रित्य राज्ञः पुरोहितस्य च कुलाययज्ञे सहाधिकार इति निर्णीतं पूर्वतन्त्रे। ‘क्षरं त्वविद्या ह्यमृतं तु विद्या’(श्वे.५.१) इत्यत्रामृतपदं विशेष्यसमर्पणार्थम् , न त्वितरव्यावर्तनार्थम्। न वा तदपि सर्वधैवव्यावर्तकम् ; पूर्वनिर्दिष्टक्षरवैलक्षण्येन विशेष्यसमर्पकत्वात्। किञ्च उपक्रम एवान्तर्यामिविज्ञानेन सर्वज्ञानप्रतिज्ञाने सर्ववेदान्तप्रसिद्धे ब्रह्मलिङ्गे जाग्रति कथमोपसंहारिकैर्द्रष्टृत्वादिभिर्जीवपूर्वपक्षस्योदयः ? न च ‘उपक्रमगतमेकं लिङ्गमुपरितनानेकालिङ्गाविरोधे दुर्बलम्’ इति भूतादिपादव्यपदेशसूत्रोक्तन्यायोऽत्र प्रसरति। ब्रह्माब्रह्मलिङ्गसमावेशे ब्रह्मण्यब्रह्मलिङ्गानां नेतुं शक्यत्वेनान्यथालिद्धतायाः प्रतर्दनाधिकरणे प्रदर्शितत्वात्। तस्मात् केनापि प्रकारेणात्र जीवपूर्वपक्षो न सम्भवतीति चेत्- उच्यते ।
अस्ति तावदन्तःकरणोपाधिकानां कर्तृत्वभोक्तृत्वशालिनां प्रतिदेहमन्तःकरणभेदेन विभक्तानां प्रमातृरूपाणां जीवानामधिष्ठानभूतस्सुषुप्तावन्तःकरणविलयेन प्रमात्रभावेऽपि सौषुप्तिकाज्ञानसुखानुभवात्मा मूलाज्ञानोपाधिकस्साक्षिरूपो जीवः , स तु न प्रतिदेहं भिन्नः। ‘त्वत्तोऽहं भिन्नः’ इत्यादिभेदप्रत्ययानां प्रमातृविषयत्वेन लाघवादेकाज्ञानोपधिकस्य सर्वभूतानुगतस्यैकस्यैव तस्य सिद्धेः , ‘एको देवस्सर्वभूतेषु गूढस्सर्वव्यापी सर्वभूतान्तरात्मा। कर्माध्यक्षस्सर्वभूताधिवासस्साक्षी चेता केवलो निर्गुणश्च’(श्वे. ६.११) इति श्रुतेश्च। न च इयं श्रुतिः परमेश्वरविषया ; मायाशबलिते सगुणे परमेश्वरे ‘केवलो निर्गुण’ इति विशेषणानुपपत्तेः ॥
न च सर्वभूतेषु सुखाद्यनुभवरूपस्य साक्षिण एकत्वे पुरुषान्तरसुखादेरपि पुरुषान्तरं प्रति प्रत्यक्षत्वापत्तिः , तस्य पुरुषान्तरं प्रति आवृतत्वात् , सर्वेषु साक्षिण एकत्वेऽपि यं प्रति यदनावृतं तं प्रत्येव तस्य तदनुभवरूपताया: फलबलेन कल्पनात् , अन्यथा घटाद्यधिष्ठानं ब्रह्मचैतन्यमेवाध्यासिकसम्बन्धेन घटादिभासकमिति सर्वदा सर्वेषां घटाद्यवभासप्रसङ्गात् ।
न च वाच्यम् – यस्य स्वोपाध्यन्तःकरणवृत्तिकृता घटाद्यधिष्ठानचैतन्येनाभेदाभिव्यक्तिः , तस्यैव तदवभासते इति ; व्यावर्तकोपाधावन्तःकरणे दर्पण इव स्थिते बिम्बप्रतिविम्बाद्यात्मना भेदानुवृत्त्यवश्यम्भावेनाभेदाभिव्यक्त्यसम्भवात्। तात्विकाभेदस्य प्रागपि सत्त्वात्। तस्मादन्तःकरणवृत्तिकृतावरणाभिभवेन यं प्रति घटादिरनावृतः , तं प्रति तदधिष्ठानचैतन्यं घटाद्यवभासकमिति फलबलात् कल्पनीयम्। अभेदाभिव्यक्तिव्यवहारश्च ब्रह्मणा सह तस्य जीवस्य घटादिविषयावरणराहित्यरूपसाम्यापत्तिपर इति व्यवस्थापनीयम्। तस्मान्मूलाज्ञानोपाधिकं सर्वेषां प्रत्यग्भूत एकस्साक्षीति स्थितौ स एवान्तर्यामीति पूर्वःपक्षः ।
अस्मिन् सर्वमप्यन्तर्यामिब्राह्मणं सङ्गच्छते। एवं हि तत्रोपाख्यायते –– ‘अथ हैनमुद्दालकआरुणः पप्रच्छ। याज्ञवल्क्येति होवाच। मद्रेष्ववसाम पतञ्जलस्य काप्यस्य गृहेषु यज्ञमधीयानाः। तस्यासीत् भार्या गन्धर्वगृहीता। तमपृच्छाम कोऽसीति। सोऽब्रवीत् कबन्ध आथर्वण इति। सोऽब्रवीत् पतञ्जलं काप्यं याज्ञिकांश्च , वेत्थ नु त्वं काप्य तत् सूत्रं येनायञ्च लोकः परञ्च लोकस्सर्वाणि च भूतानि सन्दृब्धानि भवन्तीति। सोऽब्रवीत् पतञ्जलः काप्यो नाहं तत् भगवन्वेदेति। सोऽब्रवीत् पतञ्जलं काप्यं याज्ञिकांश्च , वेत्थ नु त्वं काप्यं तमन्तर्यामिणम्। य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयतीति। सोऽब्रवीत् पतञ्जलः काप्यो नाहं तं भगवन्वेदेति। सोऽब्रवीत् पतञ्जलं काप्यं याज्ञिकांश्च , यो वै तत् काप्य सूत्रं विद्यात्तञ्चान्तर्यामिणं स ब्रह्मवित् स लोकवित् स देववित्स वेदवित् स भूतवित् स आत्मवित् स सर्वविदिति तेभ्योऽब्रवीत् तदहं वेद। तच्चेत्त्वं याज्ञवल्क्य सूत्रमविद्वान् तञ्चान्तर्यामिणं ब्रह्मगवीरुदजसे मूर्द्धा ते विपतिष्यतीति। वेद वा अहं गौतम तत्सूत्रं चान्तर्यामिणमिति। यो वा इदं कञ्चित् ब्रूयात् वेद वेदेति। यथा वेत्थ तथा ब्रूहि’(बृ. ३. ७. १) इति। एवं कथायां विजिगीषुणा गौतमवंश्येनारुणिना पृष्टो याज्ञवल्क्यो ‘वायुर्वै गौतम तत् सूत्रम्’(बृ. ३. ७. २) इत्यारभ्य सूत्रात्मस्वरूपमुक्त्वा ‘यः पृथिव्यान्तिष्ठन्’(बृ. ३. ७. ३) इत्यारभ्य ‘यो रेतसि तिष्ठन्’(बृ. ३. ७. २३) इत्यन्तैः पर्यायैः पृथिव्यग्निवाय्वादिक्रमेण सर्वान्तर्यामिणमुपदिश्य ‘अदृष्टो द्रष्टाऽश्रुतश्श्रोता’ इत्यादिना तस्यादृष्टत्वद्रष्टृत्वादिकमुक्त्वा ‘नान्योऽतोऽस्ति द्रष्टा’(बृ. ३. ७. २३) इत्यादिना ततोऽन्यं द्रष्टत्वादिगुणकं निषिध्य , ‘एष त आत्माऽन्तर्याम्यमृतोऽतोऽन्यदार्तम्’(बृ. ३. ७. २३) इति – तदतिरिक्तस्य सर्वस्यानित्यत्वं प्रतिपादयामास ।
अत्र तावदेकस्य सर्ववस्तुनियन्तृत्वोक्तिमारभ्य सर्वमप्युपपद्यते ; एकस्यैव सर्वसाक्षिणो जीवस्य तत्तदन्तःकरणावच्छिन्नस्वांशभेदद्वारा तदीयकार्यकरणोपकरणभूतसर्ववस्तुनियन्तृत्वात्। पृथिव्यादिसर्वनियन्तृसर्वभूतानुगतैकजीवरूपत्वेन जीवज्ञानस्य यज्ञविद्याऽनुपयोगितया काप्यस्य तदज्ञानसम्भवात्। एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानस्य सूत्रात्मनि ‘वायुर्वै गौतम तत्सूत्रम्’ इत्युक्त्वा ‘तस्माद्वै गौतम पुरुषं प्रेतमाहुर्यस्रंसिषतास्याङ्गानीति। वायुना हि गौतम तत्सूत्रेण सन्दृब्धानि भवन्ति’(बृ. ३.७.२) इत्युपपत्त्युपन्यासेन च वायुरूपतयाऽवगते प्रशंसार्थत्वावश्यम्भावेन तदेकवाक्योपात्तेऽन्तर्यामिण्यपि तदर्थत्वावगमात्। ‘य: पृथिव्यां तिष्ठन्’ इत्यादिपर्यायेषु तत्तज्जीवेभ्यो घटाकाशादिभ्यो महाकाशस्येव भेदनिर्देशसामञ्जस्यात्। ‘एष त आत्मा’ इति शब्दविशेषस्यापि अन्तःकरणावच्छिन्नस्यापि तव एष सकलसाक्षी जीव आत्मा व्यापकस्वरूपमिति सामञ्जस्यात्। अमृतत्वस्यापि तत्तदन्तःकरणावच्छिन्न इवाज्ञानोपाधिकस्सर्वगतो जीवस्तत्तच्छरीरापादानकोत्क्रमणरूपमरणवान्न भवतीति साङ्गत्यात्। दृष्ट्रत्वादिवर्जनस्य च जीवस्य प्रमातृरूपाणामिव अनुगतसाक्षिरूपस्याप्रसिद्धतया सङ्गतत्वात्। द्रष्ट्रत्वादीनाञ्च अन्तःकरणावच्छिन्नप्रमातृरूपेण समन्वयात्। द्रष्ट्रन्तरादिनिषेधानाञ्च कथमेकस्मिन् देहे द्वौ द्रष्टारौ जीवोऽन्तर्यामी च , देहेन्द्रियाणामनेकचेतनदर्शनाद्यर्थत्वे तदीयविरुद्धाभिप्रायानुवर्तनासम्भवात् , न च शरीरेन्द्रियान्तरैरन्तर्यामिणो दर्शनादिमत्त्वम् , ‘यस्य पृथिवी शरीरम्’ इत्यादिभिस्तस्य , नियम्यशरीरातिरिक्तशरीरेन्द्रियराहित्यावगमात् ; इत्याशङ्कायां तत्र तत्र भेदनिर्देशेन देवमनुष्यादिरूपद्रष्ट्रतिरिक्तं तदन्तर्यामिरूपं द्रष्ट्रन्तरमुपदिष्टमिति न भ्रमितव्यम् ; देवमनुष्यादिगतद्रष्ट्रत्वादिगुणैरेव अन्तर्यामी द्रष्ट्रत्वादिमानुपदिष्टः द्रष्ट्रत्वादिगुणकानां प्रमातॄणामन्तर्यामितो वस्तुतो भेदाभावादित्यभिप्रायत्वात्। तस्मात् सर्वसाक्षी जीव एवान्तर्यामीति पूर्वपक्षान्तरमाशंक्य निराकरोति –
शारीरश्चोभयेऽपि हि भेदेनैनमधीयते। २० ।
शारीरश्चान्तर्यामी न भवति। उभयेऽपि माध्यन्दिनाः काण्वाश्च अन्तर्यामिणो भेदेन एनं पूर्वपक्ष्याशङ्कितं सर्वभूतानुगतसाक्षिरूपं शारीरमधीयते। ‘य आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति एष त आत्माऽन्तर्याम्यमृत’ इति माध्यन्दिनाः। अस्मिन्नेव पर्याये ‘यो विज्ञाने तिष्ठन् विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं यो विज्ञानमन्तरो यमयति एष त आत्माऽन्तर्याम्यमृतः’(बृ. ३. ७. २२) इति काण्वाः। अत्र विज्ञानशब्दस्य स्थानप्रमाणाज्जीव एवार्थ इत्यवगतम्। न चात्र वैपरीत्यं शङ्कनीयम्। आत्मशब्दस्य जीवे रूढत्वात् विज्ञानशब्दस्य च ‘विज्ञान यज्ञं तनुते’(तै.२. ५.१) इत्यादिश्रुत्यन्तरेषु जीवे दृष्टप्रयोगत्वाच्च। अयञ्च आत्मविज्ञानशब्दोक्तो जीवस्साक्षिरूप एव , न तु तत्तत्प्रमातृरूपः , एकवचननिर्देशात् ।
‘यस्सर्वेषु भूतेषु तिष्ठन्’ इति पर्याये भूतशब्दोदितानां सर्वेषां प्रमातृरूपाणां जीवानां पृथगन्तर्यामिनियम्यत्वस्य वर्णितत्वाच्च। तत्र भूतशब्दो ‘भवन्ति जायन्ते’ इति व्युत्पत्त्या न जडप्रपञ्चपरः ; भूतशब्दस्य कार्ययोगतः प्राणिषु रूढेर्बलवत्त्वात्। न च तत्र महाभूतेषु रूढेः प्राणिषु रूढेश्च विनिगमनाविरहेण अन्योन्यप्रतिरोधे योगोन्मेषश्शङ्कनीयः ; ‘यः पृथिव्यान्तिष्ठन्’ इत्यादिपर्यायेषु पृथिव्यादिमहाभूतानामुपात्तत्वेन अत्र प्राणिरूढेरेवोन्मेषात्। तस्मात्परमेश्वर एवान्तर्यामी। तत्र द्रष्ट्रत्वादिवर्णनं जीवाभेदाभिप्रायेण योज्यम्। द्रष्ट्रन्तरादिनिषेधश्च द्रष्ट्रट्वयशङ्कावारणाय जीवाभेदाभिप्रायस्फोरणार्थत्वेन पूर्वपक्षोक्तरीत्यैव योजनीयः ।
सूत्रे ‘शारीर’ इत्येकवचनेन – एक एवाज्ञानोपाधिको जीवोऽन्तर्यामीति पूर्वपक्षः, न तु तद्विशेषा देवमनुष्यादिजीव इति ; ‘य इमञ्च लोकम्’ इत्यादावेकवचननिर्देशादिति सूचितम्। चकारात् पूर्वसूत्रात् नमोऽनुवर्तनं सूचितम्। ‘उभये’ इत्यनेन – काण्वमाध्यन्दिनपाठयोर्भिन्नभिन्नार्थान्तरपरत्वशङ्कानिराकरणद्वारा तत्रत्यभेदनिर्देश एवात्र हेतुः , न तु ‘एष त आत्मा’ ‘यं सर्वाणि भूतानि न विदुः’ इत्यादिभेदनिर्देशः, अन्तर्यामिणस्तत्तदुपासकजीवरूपत्वेन, सर्वजीवरूपत्वेन वा पूर्वपक्षस्य हि तादृशो भेदनिर्देशः प्रतिक्षेपकस्स्यान्न तु सर्वसाक्षिजीवरूपत्वेन पूर्वपक्षस्य ; तादृशभेदनिर्देशानां प्रमातृसाक्षिभेदमादायोपपन्नत्वादिति सूचितम्। एतत्सूचनार्थत्वाभावे क्वाचित्कभेदनिर्देशेऽपि साध्यसिद्धेरुभयग्रहणं व्यर्थमेव स्यात्। न हि नानाशाखाऽऽम्नातशाण्डिल्यवैश्वानरविद्यादिगतविषयवाक्यानां ब्रह्यपरत्वसाधने नानाशाखाम्नातत्वमुद्घाटितम्। न वा अस्मिन्नधिकरणे ‘तद्धर्मव्यपदेशात्’ इति हेतोरुभयत्रापि समाम्नातत्वमुक्तम्। ‘भेदेन’ इत्युपलक्षणतृतीया निर्देशेन – जीवस्येश्वरात् भेदो न विशेषणम् , किन्तु उपलक्षणमेव, मिथ्यात्वेन यावद्द्रव्यभावित्वादिति सूचितम्। एतत्सूचनार्थत्वाभावे लाघवात् ‘भिन्नमेनमधीयते’ इत्येवासूत्रयिष्यत। इदमप्यस्पष्टब्रह्मलिङ्गमधिकरणम् ; योगिपूर्वपक्षनिराकरणार्थं यमयितृत्वस्य साधननिरपेक्षग्रहणोत्सर्गिकतया ब्रह्मलिङ्गतायाः प्रसाधनीयत्वात् , जीव पूर्वपक्षनिराकरणार्थं भेदेनाधीयते इति हेतोश्च स्थानप्रमाणादिभिर्नेयत्वात्। १.२.२०।
इति अन्तर्याम्यधिकरणम्।
अदृश्यत्वादिगुणको धर्मोक्तेः। २१ ।
अथर्वणे श्रूयते ‘अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुश्श्रोत्रं तदपाणि पादं नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यत् भूतयोनिं परिपश्यन्ति धीराः’(मु. १. ५. ६) इति ।
अत्रायमदृश्यत्वादिगुणको भूतयोनिः प्रधानं शारीरः परमात्मा वेत्यदृश्यत्वादीनां साधारण्यात् संशये प्रधानमिति तावत् प्राप्तम्। ‘यथोर्णनाभिस्सृजते गृह्णते च यथा पृथिव्यामोषधयस्सम्भवन्ति। यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् सम्भवतीह विश्वम्’(मु. १.१.७) इति समनन्तरमन्त्रोक्ताचेतनदृष्टान्त सारूप्यात् , परिणामवादे विवर्तवादे च कनकरुचकस्रग्भुजङ्गरीत्याऽवश्यापेक्षितात्। अत्रापि ‘यथा सुदीप्तात् पावकाद्विस्फुलिङ्गास्सहस्रशः प्रभवन्ते सरूपाः। तथाऽक्षराद्विविधास्सोम्य भावाः प्रजायन्ते तत्र चैत्रापियन्ति’(मु. २. १. १) इति उपरितनमन्त्रान्तरप्रदर्शितादचेतनान्नमनःप्राणादिवक्ष्यमाणकार्यसारूप्याच्च ।
अपि च पृथिव्यादिदृष्टदृश्यत्वादिनिषेधस्याधिकरणविशेषाकाङ्क्षायां तस्यैव पृथिव्यादेरवस्थाभेदेनाधिकरणत्वे सम्भवत्यधिकरणान्तरं नापेक्षणीयम् ; बुद्धिगौरवापत्तेः ; बाल्यकार्यादिनिषेधानामवस्थाभेदेन प्रतियोग्यधिकरण एवान्वयस्यौत्सर्गिकत्वानुभवाच्च। पृथिव्यादीनाञ्च सूक्ष्मावस्थारूपं प्रधानं न तेभ्यो भिन्नम् ; उपादानोपादेययोरभेदात्। तद्भेदाभ्युपगमेऽपि अचेतनपृथिव्यादिरूपदृश्यभिन्नतया प्रतिपाद्यमानमचेतनं प्रधानमेवेति युक्तम् ; ‘नञवयुक्तमन्यसदृशाधिकरणे तथाह्यर्थगतिः’ इति न्यायेनाब्राह्मणादिशब्दवत् तदन्यवृत्तेश्शब्दस्य तत्सदृशान्यवृत्तित्वनियमात्। न ह्यब्राह्मणादिशब्दाः क्षत्रियादिष्विव लोष्टादिषु प्रयुज्यन्ते। अन्तर्यामिण्यदृष्ट्रत्वादि श्रवणेऽपि द्रष्ट्रत्वाद्यनुरोधात् ‘नञिवयुक्त’ न्यायस्त्यक्तः। न चेह तत्त्यागे कारणमस्ति ।
नन्विहापि ‘तपसा चीयते ब्रह्म ततोऽन्नमभिजायते। अन्नात्प्राणो मनस्सत्यं लोकाः कर्मसु चामृतम्’(मु. १. १. ८) ‘यस्सर्वज्ञस्सर्वविद्यस्य ज्ञानमयं तपः। तस्मादतद्ब्रह्म नाम रूपमन्नं च जायते’(मु. १. १. ९) इत्यादिवाक्यशेषे ब्रह्मश्रुतिसर्वज्ञत्वलिङ्गादिकमाम्नायते। उपक्रमेऽपि कस्मिन्न भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’(मु. १. १. ३) इति एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं ब्रह्मलिङ्गमाम्नायते। ‘स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह’(मु. १. १. १) इति ब्रह्मविद्यासमाख्या दृश्यते। तथा द्वे विद्ये वेदितव्ये परा चैवापरा च’(मु. १.१.४) इति विद्ययोः परापरविभागं कृत्वा तयोरपरामृग्वेदादिलक्षणामुक्त्वा ‘अथ परा यथा तदक्षरमधिगम्यते’(मु. १.१.५) इति वक्ष्यमाणाक्षराविद्यायाः परविद्यात्वमुच्यते। तदेतत् सर्वं न प्रधाने सङ्गमयितुं शक्यम् ।
अपि च सर्वेषां कारणवाक्यानां ‘ईक्षत्यधिकरणे’(ब्र.सू.१.१.५) साङ्ख्याभिमतप्रधानपरत्वं निरस्तम्। तदुपदर्शिता युक्तयोऽत्रापि प्रवर्तन्त एव। अस्ति खल्वीक्षापूर्वकस्रष्ट्रत्वश्रवणमत्रापि – ‘तपसा चीयते ब्रह्म ततोऽन्नमभिजायते’ इति। यतस्तपोऽत्र स्रष्टव्यालोचनरूपं ज्ञानं ‘यस्य ज्ञानमयं तपः’(मु.१.१.९) इत्यग्रे विवरणात्। आत्मशब्दश्चात्रास्ति – ‘यस्सर्वज्ञस्सर्वविद्यस्यैष महिमा भुवि। दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः’(मु. २. २. ७) इत्यादिमन्त्रेषु। भूतयोनिनिष्ठस्य मोक्षोपदेशोऽप्यस्ति – ‘यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्। तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’(मु. ३. १. ३) इत्यादिमन्त्रेषु। हेयत्वञ्च भूतयोनेरग्रे क्वापि नोच्यते। चकारसमुच्चितः प्रतिज्ञाविरोधोऽप्यस्तीति प्रदर्शितमेव। साक्षाच्च स्व शब्देन परमेश्वरस्य कर्तृत्वमुपादानत्वं च श्रूयते ‘यदा पश्यः’ इत्यादिमन्त्रेषु। तथाऽप्यचेतनदृष्टान्तानुगुण्यं कार्यसारूप्यं दृश्यत्वादिनिषेधान्तरस्य चावलम्ब्यात्र प्रत्यवस्थानमिति चेत्। न। एतावत् ब्रह्मश्रुतिलिङ्गादिकमविगणय्य तन्मात्रावलम्बनेन प्रत्यवस्थानायोगात्। ‘यथा सोम्यैकेन मृत्पिण्डेन’(छा.उ.६-१-४) इत्याद्यचेतनदृष्टान्तोपादानस्य ईक्षत्यधिकरणे लिखित विषयवाक्येऽपि सत्त्वेन ततो भूतयोनिवाक्ये विशेषशङ्कानुदयात्। कार्यकारणसारूप्यनियमस्य न विलक्षणत्वाधिकरणे (ब्र.सू.२. १. ३) निराकरिष्यमाणत्वात्। तत्र परिणामवाद एव तच्छङ्कानिराकरणमित्यत्र नियामकाभावात् , स्वच्छ जलगतनैल्यादिविवर्ते तद्व्यभिचारस्य स्फुटत्वाच्च। ‘यथा सुदीप्तात्’ इति मन्त्रस्यापि प्रलये ब्रह्मणि निलीनाश्चेतनास्सर्गादौ तत उद्गच्छन्तीत्येतत्परत्वोपपत्त्या सर्वस्य कार्यस्य कारणसारूप्यपरत्वासिद्धेः, निषेधस्वारस्ययुक्तेः भूतयोनिः शारीर इति वा ब्रह्मेति वा पक्षयोरेवानुगुण्यस्य वक्ष्यमाणतया ततः प्रधानपूर्वपक्षस्योन्मेषासम्भवाच्च। तस्मात् प्रधानं भूतयोनिरिति पूर्वपक्षो न युक्त इति चेत् ।
उच्यते। इहाक्षरस्य भूतयोनेः प्रतिपादनानन्तरं ‘दिव्यो ह्यमूर्तः पुरुषस्स बाह्याभ्यन्तरो ह्यजः। अप्राणो ह्यमनाश्शुभ्रो ह्यक्षरात् परतः परः’(मु. २. १. २) इति ततोऽपि परस्य पुरुषस्य प्रतिपादनं दृश्यते। स पुरुषो ब्रह्मैवेति तत्र ब्रह्मश्रुत्यादीनां समन्वयः। तथाऽक्षरात् सम्भवतीह विश्वम्’(मु. १.१.७) इति अक्षरकार्यत्वेन वर्णिताद्विश्वस्मात् परतोऽक्षरादपि परत्वेन ‘‘महतः परमव्यक्तमव्यक्तात् पुरुषः परः’(क. १.३.११) इति कठवल्लीष्विव तस्यैव प्रतिपिपादयिषितत्वात्। यत्तु ‘यया तदक्षरमधिगम्यते’(मु. १. १. ५) इति परविद्याविषयत्वमक्षरस्योक्तम् , तत् उपक्रान्तसर्वविज्ञानप्रतिज्ञानिर्वाहाय प्रतिपिपादयिषितम्। ‘तपसा चीयते ब्रह्म’(मु. १.१.८) इत्यादिमन्त्रेषु प्रतिपाद्यमानं ब्रह्मणस्सर्वोपादानत्वं ब्रह्मशक्तिरूपेण सकलनामरूपबीजभूतेनाव्याकृतेन इहाक्षरभूतयोनिशब्दगृहीतेन घटनीयमिति तस्यापि सर्वोपादानत्वेनात्र प्रतिपादनीयत्वमभिप्रेत्य, न तु स्वातन्त्र्येण तदेव प्रतिपादनीयमित्यभिप्रेत्य, ‘अक्षरात् परतः परः’ इत्यग्रे तत्प्रतिपादने च पारार्थ्यस्य स्फुटत्वात् ।
ननु ‘येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्वतो ब्रह्मविद्याम्’(मु. १. १. १३) इति अक्षरात्परत्वेन वर्णनीयेऽपि पुरुषे अक्षरशब्दश्रुतः। तेन स एव प्राधान्येन प्रतिपाद्यमानो भूतयोन्यक्षरम्। ‘अक्षरात् परतः’ इति पुरुषापरत्वेन श्रुतमक्षरमेव केवलमव्याकृतमिति कल्प्यतामिति चेत् , मैवम्। उभयथाऽप्युपपत्तौ ऊर्णनाभ्यादिदृष्टान्तानुगुण्येन ‘यथा सुदीप्तात्’(मु. २. १. १) इति प्रकृतस्य भूतयोन्यक्षरस्य सरूपकार्यप्रभवत्वोक्त्यनन्तरमेव ‘दिव्यो ह्यमूर्तः’ इति मन्त्रे पुरुषस्याक्षरपरत्वोक्त्यानुगुण्येन च भूतयोन्यक्षरमेव पुरुषात्परमक्षरम्। ‘येनाक्षरम्’ इति पुरुषे अक्षरशब्दस्तु ‘न क्षरति’ इति व्युत्पत्त्या प्रयुक्त इति कल्पनस्योचितत्वात्। असति विरोधे अचेतनदृष्टान्तानुगुण्यस्य ‘यथा सुदीप्तात्’ इतिमन्त्रे पञ्चम्याः ‘तथाऽक्षरात् सम्भवतीह विश्वम्’ इति पञ्चमीनिर्दिष्टभूतयोन्यक्षरपरत्वेन प्रतीयमानाक्षरशब्दस्वारस्यस्य च भङ्गायोगात् ।
ननु सत्यमुक्तं भूतयोन्यक्षरस्य , सरूपकार्यप्रभवाक्षरस्य च पञ्चमीनिर्देशादभेदो वक्तव्य इति। तत एवाक्षरात् परस्य पुरुषस्यापि तदभेदो वक्तव्यः। तत्रापि हि ‘ततोऽन्नमभिजायते’ ‘तस्मादेतत् ब्रह्म इति जगदुपादानपरपञ्चमीनिर्देशो दृश्यते। तस्मात् ‘यथा सुदीप्तात्’ इति मन्त्रे अपादानपञ्चमीनिर्दिष्टस्य भूतयोन्यक्षरत्वेऽपि तदनन्तरमन्त्रे अवधिपञ्चमीनिर्दिष्टं ततो भिन्नमित्येव कल्पयितुं युक्तमिति चेत् ; मैवम्। न हि पञ्चमीमात्रेण भूतयोनिसरूपकार्यप्रभवाक्षरयोरभेदं ब्रूमः , किन्त्वक्षरशब्दपरया पञ्चम्या। सा त्वक्षरात् परे पुरुषे नास्त्येव ।
ननु तथाऽपि अपादानपञ्चमीप्रत्यभिज्ञानमात्रेण तदक्षरात्परस्यापि पुरुषस्य तदभेदः कि न स्यादिति चेत् , न। ब्रह्माव्याकृतयोरुभयोरपि विवर्तमानतया , परिणममानतया च ‘मायां तु प्रकृतिंविद्यात्’(श्वे. ४. १०) ‘आत्मन आकाशस्सम्भूतः’(तै. २. १.१) इति श्रुतिद्वयानुरोधेन ‘सन् घटः’ , ‘जडो घटः’ इति जगत्युभयतादात्म्यप्रतीत्यनुरोधेन च स्वाभिन्नकार्यजनकत्वरूपजगदुपादानत्वसत्त्वे सर्वविज्ञानप्रतिज्ञानिर्वाहकब्रह्मगतजगदुपादानत्वघटकतया अव्याकृतगतजगदुपादानत्वप्रतिपादनस्यापि सङ्गतिसत्त्वे चापादानपञ्चमीप्रत्यभिज्ञानमात्रेण प्रथमोपस्थितपञ्चम्यन्ताक्षरपदप्रत्यभिज्ञालभ्यस्य भूतयोनिसरूपकार्यप्रभवपरत्वावध्यक्षराभेदस्य चेतनाधिष्ठिताचेतनोर्णनाभिदेहादिदृष्टान्तसारूप्यस्य च भङ्गायोगात् ।
ननु ‘तथाऽक्षरात् सम्भवति’ इत्यन्तमव्याकृतपरम् , ‘तपसा चीयते’ इत्यारभ्य ‘येनाक्षरं पुरुषम्’ इत्यन्तं ब्रह्मपरम् , ततो ‘यथा सुदीप्तात्’ इत्याद्यव्याकृतपरम् , पुनः ‘दिव्यो ह्यमूर्तः’ इत्यादि ब्रह्मपरमिति कथमिदमादरणीयमिति चेत् , अर्थसम्बन्धादिति गृहाण। उक्तं हि जैमिनिना विश्वजिदधिकरणे ‘अर्थतो ह्यसमर्थानामानन्तर्येऽप्यसम्बन्धः’(जै. सू. ४. ३. ११) इति। उक्तञ्च वार्तिककृता ‘आनन्तर्यमचोदना’(जै. सू. ३. १. २४) इत्यधिकरणे ‘यस्य येनार्थसम्बन्धो दूरस्थेनापि तेन सः। अर्थतोह्यसमर्थानामानन्तर्यमकारणम्’ इति ।
यदि त्वेवमपि भूतयोन्यक्षरस्य चाक्षरात्परस्य चाभेदे निर्बन्धः, तदा शारीरो भूतयोनिरस्तु। स हि साक्षिभावेन सर्वज्ञः। सर्वं वस्तु ज्ञाततया, अज्ञाततया वा साक्षिचैतन्यस्य विषय इति प्रसिद्धेः। कश्चित् किञ्चिज्जानातीत्येवं सर्वजीवानुगतसाक्षिभावेन विशिष्यापि सर्वज्ञः। अन्तःकरणप्राणेन्द्रियादीनां स्वप्नप्रपञ्चान्तर्गतगगनपवनचन्द्रसूर्यसरित्समुद्रभूगोलकादीनाञ्चोपादानभूतश्च ।
अत एवाध्यासभाष्यादिष्वन्तःकरणादीनां जीव एवाध्यासो दर्शितः। तेषां जीवतादात्म्यप्रतीतिश्चानुभवसिद्धा। विवरणे च प्रतिकर्मव्यवस्थायां ब्रह्मचैतन्यस्य उपादानतया घटादिसङ्गित्वम् , जीवस्य तदसङ्गित्वेऽपि अन्तःकरणसङ्गित्वञ्च तदुपादानत्वाभिप्रायेण वर्णितम्। भामत्याञ्च ‘ज्योतिश्चरणाभिधानात्’(ब्र.सू.१.१.१०) इत्यधिकरणे जाठराग्नेर्जीवोपादानकत्वं जीवच्छरीरमृतशरीरयोरोष्ण्योपलम्भानपलम्भाभ्यां दर्शितम्। कृत्स्नप्रसक्त्यधिकरणे (ब्र.सू.२. १. ८) च ‘आत्मनि चैवं विचित्राश्च हि’(ब्र.सू.२. १. २८) इति सूत्रे जीवात्मनि स्वरूपानुपमर्दैनानेकाकारस्वप्नप्रपञ्चसृष्टिवत् ब्रह्मणि वियदादिसृष्टिरुपपद्यत इति वर्णितम्। योनिशब्दस्य पञ्चमीनाञ्च निमित्तत्वपरत्वे जीवस्य वियदादिष्वपि धर्माधर्मद्वारा कारणत्वं वक्तुं शक्यम्। मुक्तप्राप्यत्वादिकं च साधकफलावस्थाभेदादिभिर्जीव एव सङ्गमयितुं शक्यम् ।तथाऽपि जीव एवेति पक्षविशेषपरिग्रहे किं नियामकमिति चेत् ; उच्यते। ‘अगोत्रमवर्णमचक्षुश्रोत्रमपाणि पादम्’(मु. १.१.६) इति जीवे प्रसिद्धस्य गोत्रवर्णादेर्निषेधजातस्याधिकरणविशेषाकांक्षायां तस्यैव जीवस्य रजतात्मना प्रतीतस्य रङ्गस्य ‘नेदं रजतम्’ इति निषेध इवाधिकरणत्वे सम्भवति नाधिकरणान्तरमपेक्षणीयम्। तस्याधिकारणत्वासम्भवे परं तदन्यस्मिन्नधिकरणे ग्राह्ये ‘नञिवयुक्त’ न्यायेन तत्सदृशान्वेषणं भवति। यद्यपि दृसश्यत्वग्राह्यत्वनिषेधानुरोधेन तदधिकरणमव्याकृतमिति लभ्यते, प्रथमश्रुतं च तन्निषेधद्वयम् , तथाऽपि बाहुल्याद्गोत्रादिनिषेधजातमेवानुरोद्धव्यम्। अग्रेऽपि हि ‘दिव्यो ह्यमूर्तः’ इति मन्त्रे जीवे प्रसिद्धस्य मूर्तिमत्त्वस्य मनःप्राणवत्त्वस्य च निषेधो दृश्यते। अतस्सर्वज्ञत्वादिकं प्राक्प्रदर्शितया रीत्या जीव एव नेतव्यम्। ब्रह्मविद्यासमाख्यादिकमपि निष्कृष्टजीवनिरूपणस्य ब्रह्मावगतिपर्यवसायित्वाभिप्रायं नेतव्यम्। तस्मात्प्रधानं जीवो वा भूतयोनिरिति पूर्व : पक्षः ।
राद्धान्तस्तु – भूतयोनिः परमात्मा। ‘यस्सर्वज्ञस्सर्ववित्’(मु. १. १. ९) इति तद्धर्मरूपा लिङ्गात् , ‘तपसा चीयते ब्रह्म’(मु. १. १. ८) इति तदभिधानश्रुतेश्च। ननु तदुभयमक्षरात्परे पुरुषेऽन्वेति। ‘तथाऽक्षरात्सम्भवतीह विश्वम्’(मु. १.१.७) ‘तथाऽक्षराद्विविधास्सोम्य भावाः’(मु. २. १. १) ‘अक्षरात्परतः परः’ इति पञ्चम्यन्ताक्षरशब्दानामेकरूपत्वेन तत्प्रत्यभिज्ञया भूतयोन्यक्षरस्य पुरुषशब्दोक्तब्रह्म परत्वावश्यम्भावेन तत्र ब्रह्मश्रुतिलिङ्गयोरन्वयानर्हत्वात्। न च ‘तपसा चीयते’ ‘यस्सर्वज्ञः’ इति मन्त्रगताभ्यां ‘ततः’ ‘तस्मात्’ इति पञ्चमीभ्यां ‘तथाऽक्षरात्’ इति भूतयोनाववगतस्य उपादानत्वस्य प्रत्यभिज्ञानात् तत्रैव ब्रह्मश्रुतिलिङ्गयोरन्वयः स्यादिति वाच्यम्। अर्थैकरूप्यकृतप्रत्यभिज्ञानादपि शब्दैकरूप्यकृतप्रत्यभिज्ञानस्य प्राथमिकत्वेन बलवत्त्वात्। ‘ततः’ ‘तस्मात्’ इति पञ्चम्युक्तोपादनत्वस्य च प्रागुक्ताक्षरगतपरिणामित्वरूपोपादानत्वातिरिक्ततद्घटनीयब्रह्मगतविवर्ताश्रयत्वरूपसर्वविज्ञानप्रतिज्ञानिर्वाह–कोपादानत्वान्तररूपत्वादिति चेत् ;
उच्यते - ‘यस्सर्वज्ञः’ इति मन्त्रे सर्वज्ञत्वं जगदुपादानत्वं चेत्युभयमपि न विधेयम् ; अन्यतरानुवादेनान्यतरविधौ सम्भवति उभयविधानाङ्गीकारे गौरवात्। सम्भवति च जगदुपादानत्वस्य ‘तथाक्षरात्सम्भवतीहविश्वम्’ इत्यनुपदोक्तस्यानुवादेन सर्वज्ञत्वमात्राविधानम्। एवं ‘तपसा चीयते’ इति मन्त्रेऽपि तदनुवादेन तपसा स्रष्टकालोचनोपचितत्वमात्रविधानम्। न च मन्त्रयोः पौनरुक्त्यम् ; द्वितीयमन्त्रस्य स्रष्टव्यसर्ववस्तुगताशेषविशेषविषयज्ञानरूपतया प्रथममन्त्रोक्ततपश्शब्दविवरणार्थत्वात् ।
अपिच ‘ततः’ ‘तस्मात्’ इति पञ्चमीभ्यां ‘तथाऽक्षरात्’ इत्यनुपदोक्तोपादानत्वप्रत्यभिज्ञानादपि नोपादानत्वान्तरपरत्वं तयोः कल्पयितुं युक्तम् ; ‘अक्षरात्परतः परः’ इत्यत: ‘तत:’ ‘तस्मात्’ इत्यनयोः प्राक्पठितत्वेन तद्गतशब्दैकरूप्यकृतप्रत्यभिज्ञानादप्यत्रत्यार्थैकरूप्यकृतप्रत्यभिज्ञानस्यैव प्राथमिकत्वात्। न च प्रधाने सर्वज्ञत्वमसम्भवदपि जीवे सम्भवतीत्युक्तमिति वाच्यम्। जीवेऽपि स्रष्टव्यसकलवस्तुगताशेषविशेषविषयज्ञानवत्त्वरूपस्यात्र विवक्षितस्य सर्वज्ञत्वस्यासम्भवात्। तस्मात् सर्वज्ञत्वब्रह्मश्रुत्योर्भूतयोन्यन्वयित्वात्ताभ्यां भूतयोनिः परमात्मेति युक्तम् ।
सूत्रे यद्यप्यक्षरशब्देन धर्मिनिर्देशः कर्तुं युक्तः ; तस्य विषयवाक्योपक्रमगतत्वात् , ‘अक्षरधियां त्ववरोधः’(ब्र. सू. ३. ३. ३३) इति गुणोपसंहाराधिकरणे तस्योपादास्यमानत्वाल्लघुत्वाच्च , तथाऽपि तेन धर्मिनिर्देशे ‘यस्सर्वज्ञः’ इत्यादेर्लिङ्गवैरूप्यादन्वयो न सम्भवतीति तस्याक्षरात्परे पुरुष एवान्वयोऽभ्युपेय इति स्यादाशङ्का। तामदृश्यत्वादिगुणकभूतयोन्यभिप्रायेण सर्वज्ञपदे पुंल्लिङ्गोपपत्तिरिति सूचनेन निवारयितुं ‘अदृश्यत्वादिगुणकः’ इति धर्मिनिर्देशः कृतः ।
यद्यप्येवं सति ‘भूतयोनिः’ इत्येव धर्मिनिर्देशः कर्तुं युक्तो लाघवात् , तथाऽपि योनिशब्दस्य स्त्रीलिङ्गत्वेन प्रसिद्धिप्राचुर्यात् पुल्लिङ्गानन्वय इति मन्दशङ्कानिराकरणाय भूतयोनिशब्दस्य ‘अद्रेश्यमग्राह्यं नित्यं विभुम्’ इत्यादिविशेषणावगमितपुल्लिङ्गस्पष्टीकरणार्थम् , अन्तर्यामिगतादृष्ट्रत्वादिवदक्षरगतादृश्यत्वादिकं द्रष्ट्रत्वादिमिश्रितं न भवतीति प्रत्यवस्थानहेतुस्फुटीकरणार्थं चैवं धर्मिनिर्देशः कृतः। ‘धर्मोक्तेः’ इत्यत्र धर्मः सर्वज्ञत्वं ‘सर्वज्ञस्सर्ववित्’ इति पदद्वयप्रयोगेणाशेषविशेषाविषयतया स्फुटीकृतम्। उक्तिर्ब्रह्मश्रुतिः। धर्मोक्तयोर्द्वन्द्वैकवद्भावे सति नपुसंके नुमागमस्यानित्यत्वात् , मध्यमपदलोपिसमासाद्वा ‘धर्मोक्तेः’ इति निर्देशः। १.२.२१ ।
ननु ‘अगोत्रमवर्णम्’ इत्यादिनिषेधस्वारस्याज्जीवो भूतयोनिरिति प्रतीयते। ‘तथाऽक्षराद्विविधास्सोम्य भावाः’ इत्यत्र भावशब्दस्य भवन्ति – जायन्त इति व्युत्पत्त्या असंकुचितवियदादिसकलकार्यपरत्वौचित्येन तत्सरूपमक्षरशब्दोदितं कारणमव्याकृतमित्यवगतौ तदनन्तरमन्त्रे ‘अक्षरात्परतः परः’ इत्यक्षरात्परत्ववचनं तस्मादेवाक्षरात्परत्वविषयमित्यपि व्यवस्थितौ तदेवाक्षरं प्राग्भूतयोनित्वेनोक्तमिति ततोऽव्याकृतं भूतयोनिरित्यपि प्रतीयते इत्याशंक्याह –
विशेषणभेदव्यपदेशाभ्यां च नेतरौ। २२ ।
अक्षराद्भेदव्यपदेशेनाव्याकृतं भूतयोनिरिति न सिद्ध्यति। किन्तु तत एव तत् भूतयोनिर्न भवतीति सिद्ध्यति। कथं ? ‘तथाऽक्षराद्विविधाः’ इत्यत्र पञ्चम्युपात्तमक्षरं तावद्भूतयोन्यक्षरमिति निर्विवादम्। तदेव ‘दिव्यो ह्यमूर्तः’ इति मन्त्रे पुरुषशब्देनोच्यतेः , ‘स बाह्याभ्यन्तरः’ इत्यत्र तच्छब्दस्य पूर्वमन्त्रप्रकृताक्षरपरामार्शत्वात्। न च बाह्याभ्यन्तरसहित इत्येकपदत्वेन योजनीयम्; वैयर्थ्यात्, ‘बाह्याभ्यन्तर’ इति सर्वगतत्वोक्त्यैव बाह्याभ्यन्तरसकलवस्तुसंसर्गसिद्धेः। भिन्नपदत्वे च अक्षरात्परः पुरुष एव प्रकृताक्षरम्, न तु परत्वावधिभूतमक्षरमिति प्रत्यायनेन सार्थकत्वात्। एवञ्च भूतयोन्यक्षरपरामर्शितत्पदसामानाधिकरण्येन ‘अक्षरात्परतः’ इत्यतः प्राचीनेन ‘येनाक्षरम्’ इति अक्षरपुरुषपदसामानाधिकरण्येन चाक्षरात्परः पुरुषो भूतयोन्यक्षरमिति स्थिते तदवरतया ततो भेदेन व्यपदिश्यमानमक्षरमव्याकृतमिति न तत् भूतयोन्यक्षरमिति सिद्ध्यति। एवमगोत्रमित्यादिविशेषणेन शारीरो भूतयोनिरिति न सिध्यति, किन्तु तत् एव भूतयोनि न भवतीति सिद्ध्यति , भूतयोनित्वस्य शारीरेऽपि सम्भवात् ; तद्ग्रहणप्रसक्तौ तद्व्यावर्तनेनैव अगोत्रमित्यादि विशेषणानां सफलत्वात् ।
ननु भूतयोनित्वेन शारीर एव गृहीते तस्मिन् गोत्रसम्बन्धादिप्रतीतिकाले तदभावायोगप्रसक्तौ तावच्छेदकत्वेनागोत्रमित्यादीनां साफल्यमुक्तम्। युक्तं च तदेवागोत्रत्वादिरूपोपात्तविधेयगतत्वेन, तदयोगव्यवच्छेदस्य प्रत्यासन्नत्वात् ; न त्वन्यस्य शारीरस्य भूतयोनिपदग्राह्यत्वयोगव्यवच्छेदेन तेषां साफल्यं युक्तम् अविधेय गतफलस्य विप्रकृष्टत्वात्, प्रत्यासन्नफले लभ्ये विप्रकृष्टफलग्रहणायोगात्। अत एवावहननविधर्विधेयावहननगताप्राप्तांशपरिपूरणरूपस्तदयोगव्यवच्छेद एव फलम् , न त्वविधेयनखविदलननिवृत्तिरूपस्तदन्ययोगव्यवच्छेद इति नियमस्य परिसंख्यातो भेद इष्यते। अपि चान्ययोगव्यवच्छेदकत्वे गोत्रनिषेधादीनामधिकरणान्तरमन्वेषणीयमिति गौरवम्। अयोगव्यवच्छेदफलकत्वे प्रतियोगितया गोत्रादिमत्त्वेन बुद्धिस्थस्य शारीरस्यैवाधिकरणत्वानान्यदधिकरणमन्वेषणीयमित्यपि लाघवं प्रागुक्तमिति चेत् -
स्यादेवं यदि ‘यदिदं पुरोवर्ति तन्न रजतम्’ इतिवत् ‘यो भूतयोनिस्स गोत्रादिमान्न भवति इत्यगोत्रत्वादिकं विधेयं स्यात्। न त्वेवम् , किन्तु ‘यो गोत्रादिरहितः तं भूतयोनिं पश्यन्ति’ इत्युद्देश्यविशेषप्रतीत्यर्थतया तद्विशेषणत्वेनैव निर्दिष्टम्। तथा च यथा ‘निश्चलश्चन्द्रः’ इति चन्द्रोद्देशेन निश्चलत्वविधानस्य तरङ्गचन्द्रे अभ्यस्तचलनप्रत्ययेन निश्चलत्वायोगप्रसक्तौ तावच्छेदकत्वेऽपि ‘निश्चलं चन्द्रं पश्य’ इति तस्योद्देश्य विशेषणत्वेन प्रयोगे अभ्यस्तचलनवत्तरणचन्द्रव्यावर्तकतयैव सार्थकत्वमेवमिह ‘यो भूतयोनिस्सगोत्रादिमान्न भवति’ इति गोत्राद्यभावस्य विधेयत्वे शारीरे तदयोगव्यवच्छेदकत्वसम्भवेऽपि ‘यो गोत्रादिमान् भवति तं भूतयोनिं पश्यन्ति’ इत्यस्मिन्नुद्देश्यविशेषणत्वेन प्रयोगे अध्यस्तगोत्रादिमच्छारीरव्यावर्तकतयैव सार्थकत्वं भवति। एवं ‘दिव्यो ह्यमूर्तः पुरुषः’ इति मन्त्रे अमूर्तत्वादिविशेषणानामपि तद्वाव्यावर्तकतयैव सार्थकत्वम् ; तत्राप्यक्षरात्परत्वस्यैव विधेयत्वेनामूर्तत्वादीनामविधेयत्वात् ।
सूत्रे ‘इतरौ’ इति पूर्वाधिकरणनिर्दिष्टौ स्मार्तशारीरौ परामृश्येते। यद्यपि स्मार्तं प्रधानं सिद्धान्ते नेष्यते, तथाऽपि तदेव फलतोऽव्याकृतं भविष्यतीति तस्य परामर्शः। यद्यप्येवं सति स्मार्तशारीरनिराकरण पक्षहेत्वोः क्रमेणान्वयार्थं ‘भेदव्यपदेशविशेषणाभ्याम्’ इति सूत्रणीयम्, तथाऽपि हेतुद्वयमप्युभयत्र योजयितुं शक्यमित्येवं सूत्रितम्। अमूर्तत्वादिविशेषणेन हि ‘नञिवयुक्त’ न्यायेनाव्याकृतव्यावर्तनमपि लभ्यते। यद्यपि मनुष्यपशुपक्षिसरीसृपरूपभूतग्रामयोनित्वेन प्रसिद्धा पृथिवीह भूतयोनिपदेन मा ग्राहीति तद्व्यावर्तनार्थेनादृश्यत्वाग्राह्यत्वविशेषणेन तत्सूक्ष्मावस्थारूपस्याव्याकृतस्य ग्रहणं प्रसज्यते, तथाऽपि अमूर्तत्वगोत्रत्वादीनां बाहुल्यात्तेषामेव स्वारस्यमादरणीयमित्युक्तम्। तथा ‘येनाक्षरं पुरुषम्’ ‘अमूर्तः पुरुषः सः’ इति पुरुषस्याक्षरविशेषणेनापि अव्याकृतव्यावर्तनं लभ्यते। एवं ‘यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशम्’(मु. ३. १. ३) इति कर्तृकार्यभावेन, नियम्यनियामकभावेन, कर्तृकर्मभावेन च पुरुषशारीरयोर्भेदेन व्यपदेशात् पुरुषस्य च प्रागेवाक्षरपदसामानाधिकरण्यादिभिः भूतयोन्यक्षरत्वनिश्चयात् शारीरव्यावर्तनमपि लभ्यते ।
भाष्ये हेत्वोर्यथासंख्यान्वयः कण्ठतोऽनुक्तोऽपि न्यायत एवोन्नेतुं शक्यत इति व्युत्क्रमणान्वयमात्रं दर्शितम्। किञ्च भेदव्यपदेशहेतुर्जीवपक्ष एवान्वेतुं योग्यः ‘क्षरं प्रधानममृताक्षरम्’(श्वे, १.१०) इति श्रुत्यन्तरे तत्रैवाक्षरशब्ददर्शनेन पुरुषावरपरस्याक्षरशब्दस्य तत्परत्वौचित्यादिति शङ्कानिराकरणाय चाव्याकृतपक्षनिराकरणे भेदव्यपदेशहेतुसद्भावमवगमयितुं व्युत्क्रमेणान्वयो दर्शितः। तस्यायमाशयः। सर्वविज्ञानप्रतिज्ञानिर्वाहाय ब्रह्मणो जगत्प्रकृतित्वप्रतिपादनस्थले तदुपपादकाव्याकृताधिष्ठातृत्वप्रदर्शनमेवाकांक्षितमित्याकाङ्क्षाऽनुसारेण ‘अश्नोति व्याप्नोति स्वकार्याणि’ इति व्युत्पत्येहाक्षरशब्दोऽव्याकृत एव वर्तयितव्य इति। चस्त्वर्थः। विशेषणभेदव्यपदेशौ न स्मार्तशारीरपक्षसाधकौ, किन्तु तन्निराकरण एव साधकाविति भावः। अगोत्रत्वामूर्तत्वादीनि इतरव्यावर्तकरूपाणि विशेषणान्येव, न तु ‘लोहितस्तक्षकः’ इत्यादिवदयो गव्यवच्छेदकान्युपराकानीत्यभिप्रेत्य विशेषणपदमित्यलं प्रपञ्चेन। १. २. २२ ॥
स्यादेतत् – अमूर्तत्वादीनां मूर्तिमत्त्वादिविशिष्टशारीरव्यावर्तकत्वरूपविशेषणत्वमनुपपन्नम् ; ‘अग्नि मूर्धा‘ चक्षुषी चन्द्रसूर्यौ दिशश्श्रोत्रे वाग्विवृताश्च वेदाः। वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा’(मु. २. १. ४) इति मन्त्रे भूतयोन्यक्षररूपस्य पुरुषस्य मूर्तीन्द्रियप्राणादिश्रवणात्। न चायं मन्त्रोऽन्यपरः। ‘एष’ इति सर्वनाम्ना ‘दिव्यो ह्यमूर्तः पुरुषः’ इति प्रकृतस्य तस्यैव परामर्शात्। अतो व्यवहारदृष्ट्या मूर्त्यादिमत्येव जीवे परमार्थदृष्ट्या मूर्त्यादिराहित्यपरत्वममूर्तादिपदानामगत्या कल्पनीयमिति जीव एव भतयोन्यक्षररूप: परुष इति युक्तम् ।
ननु जीवेऽग्निमूर्धत्वादिविशिष्टं रूपं न संभवतीति चेत् , सत्यं ; जीवान्तरे न संभवत्येव, हिरण्यगर्भे तु तत् संभवति ; तस्य स्मृतिषु तथाभूतरूपप्रसिद्धेः। सर्वभूतान्तरात्मत्वमपि प्राणात्मना सर्वभूतानामध्यात्ममवतिष्ठमाने तस्मिन्व्यपदेष्टुं शक्यम्। तस्मिन् सर्वज्ञत्वसर्वस्रष्टृत्वादिकं श्रुतिस्मृतिषु प्रसिद्धमेव। न च वाच्यमक्षरादव्याकृतात्परो हिरण्यगर्भः, तस्मात् परत्वम् मूर्तपुरुषस्य श्रुतमिति; पराक्षरपदयोः प्राक् दर्शितया रीत्या सामानाधिकरण्ये संभवति वैयधिकरण्यकल्पनायोगात्। न च ब्रह्मविद्यासमाख्याविरोधः। तत्र ब्रह्मशब्दस्य पुल्लिङ्गस्य समाससंभवात्, ‘ब्रह्मा देवानां प्रथमस्संबभूव विश्वस्य कर्ता भुवनस्य गोप्ता’ इत्युपक्रमे पुंलिङ्गस्यैव तस्य श्रवणाच्च। परविद्यात्वमप्यापेक्षिकं हिरण्यगर्भविद्यायां वक्तुं शक्यम्। न च सर्वविज्ञानप्रतिज्ञाविरोधः; अन्तर्यामिब्राह्मणे सूत्रात्मनस्तस्य ज्ञानात्सर्वविज्ञानस्य वर्णितत्वेन तद्वदिहाप्युपपत्तेः। तस्मात् समष्टिपुरुषो हिरण्यगर्भ एव भूतयोन्यक्षररूपः पुरुष इति युक्तमित्याशङ्कयाह –
रूपोपन्यासाच्च ॥२३॥
न विग्रहादिमत्त्वविवक्षया ‘अग्निर्मूर्द्धा’ इत्यादिकमुपन्यस्तम् ; किन्तु अग्न्यादिविकाररूपेष्वधिष्ठानेषु मूर्द्धत्वादिरूपकमात्रं मुखचन्द्रन्यायेनोपन्यस्तं सर्वात्मत्वविवक्षया। दृश्यते ह्यन्यत्रापि शरीररथत्वप्रियशिरस्त्ववेदनिश्वसितत्वादरूपकम्। शरीरादिषु रथत्वाद्यसंभववदग्न्यादिषु मूर्धत्वाद्यसंभवोऽपि अविशिष्ट एव। तस्मादमूर्तत्वादीनां विशेषणत्वस्याविचलत्वात्तैर यजीवानामिव हिरण्यगर्भस्यापि व्यावर्तनं स्यादेव ।
सूत्रे रूपशब्देन रूपकमुक्तम्। रूपयति अधिष्ठानमारोप्यरूपेण रूपयन्तं करोतीति हि रूपकशब्दव्युत्पत्तिः। तत्र ण्वुला रूपकशब्दवत् पचाद्यचा रूपशब्दोऽपि वर्तितुमर्हति। अयञ्च सूत्रार्थो भाष्यकृता स्वमतरीत्या सूत्रव्याख्यानानन्तरमाशङ्कापरिहाराभ्यां स्पष्टीकृतः। ‘एतस्माज्जायते प्राण:’(मु. २. १. ३) इति मन्त्रात् क्रियानुषङ्गेण ‘अग्निर्मूर्द्धा’ इति मन्त्रस्य त्रैलोक्यशरीरो हिरण्यगर्भः भूतयोन्यक्षरादजायतेत्यर्थपरत्वमङ्गीकृत्य ‘रूपोपन्यासात्’ इति सूत्रस्य, ‘पुरुष एवेदं विश्वम्’ इति सार्वात्म्यरूपब्रह्मलिङ्गोपन्यासात् भूतयोनिः परमात्मा, इति योजनान्तरमपि भाष्ये दर्शितम्। तत् ‘स्मर्यमाणमनुमानं स्यात्’ इत्युत्तराधिकरणसूत्रविरुद्धमित्यस्वारस्यं भाष्य एव ‘केचित्’ इत्यनेन ध्वनितम्। चकारः समाख्यादिसमुच्चयार्थः। १. २. २३. ।
इति यदृश्यत्वाधिकरणम्। ६।
वैश्वानरस्साधारणशब्दविशेषात्। २४ ।
छान्दोग्ये श्रूयते ‘यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते’(छा. ५. १८.२) इति। अत्र वैश्वानरशब्दस्य जाठरतृतीयभूततदधिष्ठातृदेवतासाधारणत्वादात्मशब्दस्य जीवात्मपरमात्मसाधारणत्वाच्च क एतेषूपास्य इति संशये अनिर्धारणेन पूर्वः पक्षः। छान्दोग्ये ‘को न आत्मा किं ब्रह्म’(छा. ५. ११.१) इत्युपक्रमेऽपि वाजसनेयिशाखायां ‘वैश्वानरं ह वै भगवन् सम्प्रति वेद तन्नो ब्रूहि’ इति वैश्वानरशब्दोपक्रमदर्शनेन उपक्रमस्याविनिगमकत्वात्। ‘स सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेत एवं हास्य सर्वे पाप्मानः प्रदूयन्ते’(छा. ५. १८.१) इति च महाफलश्रवणस्य वचनबलादब्रह्मोपासनायामप्युपपत्तेः। न हि ब्रह्मोपासनाया महाफलत्वम् नाब्रह्मोपासनाया इति नियमोऽस्ति; ‘चक्षुष्यश्श्रुतो भवति’ इति ब्रह्मोपासनाया अपि अल्पफलत्वश्रवणात् , अब्रह्मोपासनाया अपि पञ्चाग्निविद्याया महाफलत्वश्रवणाच्च। ‘तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्माऽऽत्मा सन्देहो बहुळो वस्तिरेव रविः पृथिव्येव पादौ’(छा. ५. १८. २) इति द्युसूर्यवाय्वाकाशजलपृथिवीनां वैश्वानरं प्रति मूर्द्धचक्षुःप्राणमध्यमूवस्थानपादावयवत्योक्तेश्च पूर्वाधिकरणोक्तरीत्या शरीररथत्वादिवत् कल्पनामात्ररूपत्वात्, तत्कल्पनायाश्च ब्रह्मणीव जाठरादिष्वपि सम्भवात्। तस्मादुपक्रमादिभिर्वैश्वानरो ब्रह्मेति निर्णयो न युक्तः , प्रत्युत प्रादेशमात्रम्’ इति परिच्छिन्नत्वश्रवणान्न ब्रह्म , किन्तु जाठरादिषु चतुर्ष्वन्यतम इति निर्णय एव युक्त इति पूर्वः पक्षः ।
सिद्धान्तस्तु – द्युमूर्द्धत्वादिकल्पना सर्वोपादानत्वेन , सर्वनियन्तृत्वेन च सर्वविकारानुगते ब्रह्मणि सालम्बना , न तु जाठरादिषु। सर्वलोकाद्याश्रयफलश्रवणञ्च सर्वलोकाद्यात्मकब्रह्मोपासनाया एव तत्क्रतुन्यायानुसारि। सर्वपापप्रदाहश्च ब्रह्मोपासनफलत्वेनैव वेदान्तेषु प्रसिद्धतरः। शाखाभेदेन ब्रह्मवैश्वानरशब्दयोरुपक्रमश्रुतत्वाविशेषेऽपि ब्रह्मशब्दो वैश्वानरशब्दवदनेकसाधारणत्वाभावाज्झटित्येवार्थविशेषसमर्पकः। ततश्च यद्यप्यात्मवैश्वानरशब्दौ साधारणौ , तथाऽपि तयोः परमात्मपरत्वावगमकद्युमूर्द्धत्वादिविशेषसद्भावात् वैश्वानरः परमात्मेति ।
सूत्रे ‘विशेषात्’ इति एतावति वक्तव्ये आत्मवैश्वानरशब्दयोस्साधारण्यरकीर्तनं न केवलमिह शब्दसाधारण्यमधिकरणान्तरवत् संशयमात्रबीजम् , किन्तु पूर्वपक्षस्यापि तदेव बीजमिति दर्शयितुम्। तेन जाठरादीनां पञ्चानां चतुर्णा वाऽनवधारणेनात्र पूर्वपक्ष इति सूचितं भवति। १. २. २४ ।
ननु द्युमूर्द्धत्वादिविशिष्टरूपं हिरण्यगर्भस्यापि भवति स्मृतिषु प्रसिद्धम्। तत्कथं परमात्मलिङ्गम् ? न च ‘अग्निर्मूर्द्धा चक्षुषी चन्द्रसूर्यौ’(मु. २. १. ४) इत्यादीनां द्युमूर्द्धत्वादिप्रतिपादकश्रुत्यन्तराणां परमात्मविषयत्वाद्वैदिकप्रसिद्ध्या तत्परमात्मलिङ्गं स्यादिति वाच्यम् ; हिरण्यगर्भे तादृग्रूपस्मरणस्यापि मूलश्रुत्याकाङ्क्षत्वेन तत्रापि वैदिकप्रसिद्धेरनिवार्यत्वादित्यत आह –
स्मर्यमाणमनुमानं स्यादिति। २५ ।
परमात्मनोऽपि तावदीदृशं रूपं स्मर्यते ‘यस्याग्निरास्यं द्यौर्मूर्द्धा खं नाभिश्चरणौ क्षितिः। सूर्यश्चक्षुर्दिशश्श्रोत्रं तस्मै लोकात्मने नमः’। ‘द्यां मूर्द्धानं यस्य विना वदन्ति खं वै नाभिं चन्द्रसूर्यौ च नेत्रे। दिशश्श्रोत्रे विद्धि पादौ क्षितिं च सोऽचिन्त्यात्मा सर्वभूतप्रणेता’ इत्याद्यासु स्मृतिषु। तच्च स्मर्यमाणं रूपमस्याः श्रुतेराथर्वणादिश्रुतेश्च मूलत्वानुमापकं सत् हैरण्यगर्भतादृग्स्मणरस्यापि मूलाकाक्षापूरकं भवितुं शक्तम्। उपासनाविवक्षया सर्वात्मत्वविवक्षया च परमात्मनि श्रुतिप्रतिपन्नस्यैव द्युमूर्द्धत्वादिकल्पनस्य सर्गस्थितिप्रलयकर्तृत्वादेरिव परमात्मशक्त्यभिव्यक्तिमति हिरण्यगर्भे स्तुत्यर्थतया स्मरणोपपत्तेः। अतः परमात्मनएवैतत्त्रैलोक्यात्मकं रूपं स्मर्यत इति फलतः पर्यवस्यतीति तत्स्मर्यमाणं रूपमुदाहृतश्रुतिवाक्यानां मूलत्वानुमापकं सत् वैश्वानरस्य परमात्मत्वे लिङ्गं भवितुमर्हति। अतस्तेन लिङ्गेन वैश्वानरः परमात्मेति युक्तमेव ।
अस्मिन्नर्थे सूत्रमावृत्त्या योजनीयम्। तत्र स्मर्यमाणमित्यस्य परमात्मनस्स्मर्यमाणं त्रैलोक्यात्मकं रूपमित्यर्थो योजनाद्वयेऽपि समानः। आद्ययोजनायामनुमानमित्यस्य मूलश्रुत्यनुमापकमित्यर्थः , स्यादित्यस्य भवितुं शक्यमित्यर्थः। ‘शकि लिङ् च’(पा. सू. ३. ३. १७२) इति शक्तौ लिङ्प्रत्ययः। किं भवितुं शक्यमित्याकांक्षायामपनोद्यशङ्कानुसारेण हैरण्यगर्भतादृग्रूपस्मरणस्य मूलश्रुत्याकांक्षापूरकमित्यद्याहृतेन स्याच्छब्दस्यान्वयः। इयञ्च योजना ‘यस्मात्परमेश्वरस्यैवाग्निरास्यन्द्यौमूर्द्धेतीदृशं त्रैलोक्यात्मकं रूपं स्मर्यते’ इति भाष्येण फलप्रदर्शनमुखेन सूचिता , अन्यथा हिरण्यगर्भस्यापि तादृग्रूपस्मरणसत्त्वेन भाष्ये परमेश्वरस्यैवेत्वधारणानुपपत्तेः। इति शब्दो द्वितीययोजनाप्रदर्शनीयमर्थं प्रति हेतुत्वार्थः। यस्मादेवं तस्मात् स्मृतिप्रसिद्ध परमात्मनो रूपं मूलभूतश्रुत्यनुमापकतया प्रथमयोजनायां प्रदर्शितं , अनुमानं स्यात् , वैश्वानरस्य परमात्मत्वे लिङ्गं भवतीत्यर्थः। इयं योजना ‘तत्स्मर्यमाणम्’ इत्यादिभाष्येण स्पष्टमेव दर्शिता। अस्यामपि योजनायामितिशब्दो हेत्वर्थः। स च ‘यस्मादिदं गमकं तस्मादपि वैश्वानरः परमात्मा’ इति भाष्येण दर्शितः ।
ननु स्मर्यमाणं परमात्मनो रूपं वैश्वानरवाक्यमाथर्वणवाक्यं चेत्युभयमपि किमर्थं मूलश्रुतित्वेनापेक्षत इति चेत् ; स्मृत्युक्तसर्वावयवप्रतिपत्त्यर्थमिति ब्रूमः। चन्द्रस्य चक्षुष्ट्वं ह्याथर्वणवाक्यादेव प्रतिपत्तव्यम्। दिवो मूर्द्धत्वन्तु वैश्वानरवाक्यात्। ततः प्रतिपद्य आथर्वणेऽपि ‘असौ वाव लोको गौतमाग्निः’(छा. ५. ४.१) इति श्रुत्यनुसारेण द्युपरोऽग्निशब्द इति निश्चेतव्यम्। न च वैश्वानरवाक्येपि दिवो मूर्द्धत्वं नोक्तमिति शंक्यम् ; तत्रोपक्रमानुसारेण सुतेजश्शब्दस्य द्युपरत्वात् ।
एवं ह्युपाख्यायते – औपमन्यवादयः पञ्च महर्षयः ‘को न आत्मा किं ब्रह्म इति मीमांसित्वा निश्चयमलभमाना वैश्वानरोपासनापरमुद्दालकं गत्वा तेनापि तस्यामकृत्स्नवेदिना अश्वपतिः कैकयो वैश्वानरमुपास्ते तमभ्यागच्छाम’ इत्युक्त्वा उद्दालकषष्ठास्तमभ्यगमन्। कैकयः ‘तान् परीक्ष्य ततो वक्तव्यशेष वक्ष्यामि’ इत्यभिसन्धाय , ‘औपमन्यव कं त्वमात्मानमुपास्ते’(छा. ५.१२.१) इत्यादिना तान् षडपि ऋषीन क्रमेण पृष्ट्वा तैः ‘दिवमेव भगवो राजन्’(छा. ५. १२ , १) इत्यादिभिर्यथाक्रमं द्युसूर्यानिलाकाशजलावनिषु वैश्वानरबुद्ध्या स्वैरुपास्यमानतयोक्तेषु द्व्यायो वैश्वानरस्य मूर्द्धादिपादान्तावयवा एव , न तु ते वश्वानरबुध्योपास्या इति व्यस्तोपासनाः प्रतिषिध्य समस्तोपासनाविषयस्य वैश्वानरस्य प्रागुपक्षिप्तद्युमूद्धत्वादिविशिष्टं रूपमेकीकृत्य उपदिदेश ‘मूर्दैव सुतेजाः’(छा., ५.१८ , २) इत्यादिना। एवं ‘यस्याग्निरास्यम्’ इत्यग्निमुखत्वस्मरणांशेपि श्रुत्यन्तरापेक्षणं द्रष्टव्यम्। १. २. २५ ।
अथ वैश्वानरो जाठरोऽग्निरेवेति निर्धारणेन पूर्वपक्षान्तरमुपपादकमुखेन उद्घाट्य निराकरोति –
शब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात् पुरुषमपि चैनमधीयते। २६ ।
न वैश्वानरस्तृतीयभूतं , तदधिदेवता , जीवः , परमात्मा वा , किन्तु जाठर एव ।अयमग्निर्वैश्वानरो योऽयमन्तःपुरुषे येनेदमन्नं पच्यते’(बृ. ५. ९.१) इत्यादिवाक्यान्तरे विशिष्य जाठरे प्रसिद्धाद्वैश्वानरशब्दात् , ‘स एषोऽग्निर्वैश्वानरः’(श. ब्रा. १०. ६. १. ११) इति वाजसनेयके समानप्रकरणे अस्मिन्वैश्वानर एवं प्रयुक्तादग्निशब्दात् , ‘हृदयङ्गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः’(छा. ५.१८.२) इति त्रेताग्निकल्पनालिङ्गात् , ‘तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्’ इति प्राणाहुत्यधिकरणतालिङ्गात् , ‘पुरुषेऽन्तःप्रतिष्ठितं वेद’(श. ब्रा. १०. ६. १. ११) इति वाजसनेयके श्रुतात्पुरुषान्तःप्रतिष्ठितत्वलिङ्गाच्च। यद्यप्यग्निवैश्वानरशब्दौ ‘विश्वस्मा अग्निं भुवनाय देवाः वैश्वानरं केतुमह्नामकृण्वन्’(ऋ.सं.१०.८८.१२) ‘वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः’(ऋ.सं.१.९८.१) इत्यादिश्रुत्यन्तरेषु तृतीयभूततदधिष्ठातृदेवतयोरपि दृष्टौ , पुरुषान्तःप्रतिष्ठितत्वञ्च जीवपरमात्मनोरपि प्रसिद्धम् , तथाप्युक्तरूपत्रेताग्नित्वकल्पनम् , प्राणाहुत्याधारतासङ्कीर्तनञ्च जाठर एव सङ्गच्छते। स हि ‘सन्तापयति स्वं देहमापादतलमस्तगः’(तै., ४ , १३. ३०) इति देहव्यापित्वेन श्रुतः ; प्राणाहुतिद्रव्यस्यान्नस्य पाचकश्च , देहव्यापिन्यग्नावेव हि हृदयादिप्रदेशावच्छेदेन गार्हपत्यत्वादिकल्पनं युक्तम्। आहुतिद्रव्यपाचकस्यैव चाग्नेस्तदाधारत्ववर्णनं युक्तम् ‘अवाड्ढव्यानि सुरभीणि कृत्वा’ इति श्रुतितः , प्रत्यक्षतश्च आहुतिद्रव्याधारस्यैवाग्नेस्तत्पाचकत्वावगमात्। एवञ्च ‘यस्य येनार्थसम्बन्ध’ इति न्यायेनाग्निवैश्वानरशब्दयोर्जीवपरमात्मपक्षनिराकरण एवान्वयः , अन्तःप्रतिष्ठितत्वहेतोः भूतदेवतापक्षनिराकरण एवान्वयः , न त्वेषां जाठरत्वसाधनेऽन्वयः। अत एव सूत्रे जाठर इत्यभिमतसाध्यमनिर्दिश्य नञा पक्षान्तरनिराकरणमेव साध्यत्वेन निर्दिष्टम्। त्रेताग्नित्वकल्पनप्राणाहुत्याधारत्वलिङ्गयोस्तु चतुर्णामपि पक्षान्तराणां निराकरणेन तदर्थलब्धजाठरत्वसाधनेन चान्वयो द्रष्टव्यः ।
एवं सिद्धान्त्यभिमतपरमात्मपक्षनिराकरणे , पूर्वपक्ष्यभिमतजाठरपक्षसाधने चोपयुक्ततया अन्तरङ्गहेतून् ‘शब्दादिभ्यः’ इत्यनेन निर्दिश्यादिशब्देन ग्रहीतुं शक्यमप्यन्तःप्रतिष्ठितत्वमनवधारणपूर्वपक्षप्राप्तभूतदेवतापक्षनिराकरणमात्रार्थतया तेभ्यो विलक्षणं बहिरङ्गमिति द्योतयितुमेव पृथक् बहिर्निर्दिष्टम्। न च जाठरे द्युमूर्द्धत्वाद्यसम्भवः; वाजसनेयके ‘स होवाच मूर्द्धानमुपदिशन्नुवाच एष वा अतिष्ठा वैश्वानर इति। चक्षुषी उपदिशन्नुवाच एष वै सुतेजाः वैश्वानर इति। नासिके उपदिशन्नुवाच एष वै पृथग्वर्त्मा वैश्वानर इति। मुख्यमाकाशमुपदिशन्नुवाच एष वै बहुलो वैश्वानर इति। मुख्या अप उपदिशन्नुवाच एष वै रयिर्वैश्वानर इति। चुबुकमुपदिशन्नुवाच एष वै प्रतिष्ठा वैश्वानरः’ इत्युपासकमूर्द्रादीनामतिष्ठासुतेजश्शब्दाद्युक्तद्युलोकसूर्यादिरूपवैश्वानरमूर्द्धचक्षुराद्यात्मना संपादनात्तैर्जाठरस्यापि द्युमूर्द्धत्वादिव्यपदेशोपपत्तेः , छान्दोग्येऽपि ‘यस्त्वेतमेवं प्रादेशमात्रम्’(छा. ५. १५. १) इति विशेषणानुसारेण वाजसनेयकप्रतिपादितमूर्द्धचुबुकान्तरालकल्पितद्युमूर्द्धत्वादेरेवावश्यमुपादेयत्वाच्च। न च ‘स एषोग्निर्वैश्वानरो यत्पुरुषः’(श. ब्रा. ७. ३. १. ३५) इति वाजसनेयकगतपुरुषत्वव्यपदेशविरोधः , उपासकमूर्द्धादिचुबुकान्तावयवेषु वैश्वानरं प्रति मूर्द्धादिपादान्तावयवत्वस्य कल्पिततया तल्लब्धशरीरत्वसादृश्येन जाठरेऽपि तद्व्यपदेशोपपत्तेः। अत एव अनन्तरं ‘स यो हैतम्’ इत्यादिवाक्ये पुरुषविधत्वकीर्तनम्। न हि मुख्ये पुरुषत्वे पुरुषविधत्वकीर्तनमुपपद्यते। एवं च छान्दोग्यगतौ ब्रह्मात्मशब्दावपि कल्पितेन द्युमूर्द्धत्वादिना जाठरस्याथर्वणोक्तब्रह्मसादृश्यादुपपादनीयौ। तदेतद्युमूर्द्धत्वाद्यसम्भवपरिहारजातं द्योतयितुमप्यन्तःप्रतिष्ठानादिति हेतुः पृथङ्निर्दिष्टः। तेन हि वैश्वानरः परमात्मेति वदता सिद्धान्तिनाऽपि ‘पुरुषेऽन्तः प्रतिष्ठितम्’ इत्यनेन स्वरसतः प्रतीतस्य पुरुषेऽन्तःपर्याप्तवृत्तित्वस्य परमात्मनि स्वरूपेण प्रसिद्धद्युमूर्द्धत्वादिना चासम्भवतो निर्वाहाय उपासकमूर्द्धादिचुबुकान्तावयवकल्पितशरीरावच्छिन्नत्वमेव शरणीकर्तव्यमिति जाठरेऽपि न द्युमूर्द्धत्वाद्यसम्भवः , नापि ब्रह्मश्रुत्यादिविरोध इति द्योतितं भवति ।
सूत्रे चशब्देन फलविशेषनिर्देशासम्भवपरिहारस्समुच्चितः। ‘अन्नमत्ति’ इति श्रुतं फलं न ब्रह्मोपासनायामेव नियतम् ; ‘एतयाऽन्नाद्यकामं याजयेत्’ इत्यादिषु कर्मणामपि तत्फलश्रवणात्। सर्वपापप्रदाहस्तु प्राणाग्निहोत्रस्यैव फलत्वेन श्रुताः ; न वैश्वानरविद्यायाः। तस्माद्वैश्वानरो जाठर एवेति पूर्वः पक्षः।
सिद्धान्तस्तु ‘वैश्वानरो न परमात्मा , किन्तु जाठर’ इति नैतैः श्रुतिलिङ्गैरभ्युपगन्तुं युक्तम् ; जाठरप्रतीकस्य , जाठरोपाधिकस्य परमात्मनः उपासनोपदेशः इत्यङ्गीकारेण एतेषां श्रुतिलिङ्गानामन्यथानेतुं शक्यत्वात्। केवले जाठरे द्युमूर्द्धत्वादेरसम्भवेन तस्यानन्यथासिद्धत्वात्। न चोपासकमूर्द्धचुबुकान्तराल कल्पितद्युमूर्द्धत्वादेर्जाठरेऽपि सम्भवोऽस्तीति शंक्यम् ; छान्दोग्ये ‘दिवमेव भगवो राजन्निति होवाच’(छा. ५. १२. १) इत्याद्युपक्रमानुसारेण ‘मूर्द्धैव सुतेजाः’ इत्यादेः प्रसिद्धद्युप्रभृतिमूर्द्धत्वादिपरतया तस्य जाठरे असम्भवात्। उभयविधश्रुत्यनुसारेण छान्दोग्ये अधिदैवतं प्रसिद्धदिवादिषुमूर्द्धादिपादान्तावयवरूपत्वं वाजसनेयके अध्यात्ममुपासकमूर्द्धादिषु द्व्यादिपृथिव्यन्तत्रैलोक्यात्मकवैश्वानरमूर्द्धादिपादान्तावयवरूपत्वमुपास्यमित्युभयविधस्यापि द्युमूर्द्धत्वादेः प्रामाणिकत्वात्। छान्दोग्यगतप्रादेशमात्रत्वोक्तिनिर्वाहस्याग्रे सूत्रकृतैव प्रदर्शयिष्यमाणत्वात् , उपासकमूर्द्धदिकल्पितद्युमूर्द्धत्वादेरपि तन्नियन्तरि परमात्मनीव गगनादिवत् तत्सम्बन्धमात्रशालिनि जाठरे असम्भवाच्च ।
एवं द्युमूर्द्धत्वाद्यसम्भवेन तल्लब्धसादृश्योपपादनीयानां ब्रह्मात्मपुरुषश्रुतीनामप्यसम्भवो व्याख्यातः। तथा फलनिर्देशोऽपि जाठरपक्षे न सम्भवति। न हि ‘अन्नमत्ति’ इति कर्मफलसाधारणमन्नादत्वमात्रमुच्यते , सर्वभूतलोकात्मसम्बन्धिनोऽन्नस्याप्रसिद्धत्वात् , किन्तु सर्वेषु भूतेषु लोकेषु सर्वेष्वात्मसु च यद्यद्भोग्यमुपासकस्य स्पृहणीयं सम्भवति , तत् सर्वं सङ्कल्पमात्रेण प्राप्नोतीत्येतत् ‘तेषां सर्वेषु लोकेषु कामचारो भवति’(छा. ७. २५. २) इत्यादिश्रुत्यन्तरेषु ब्रह्मोपासनाफलत्वेन प्रसिद्धमत्रोच्यते। सर्वपापप्रदाहश्च न प्राणाग्निहोत्रफलत्वेन उच्यते ; वैश्वानरविद्याङ्गस्य प्राणाग्निहोत्रस्य पृथक्फलानपेक्षत्वात् , किन्तु प्रधानापेक्षितफलत्वेनैव प्राणाग्निहोत्रसन्निधौ निर्दिश्यते। एवं परमात्मसाधकानां द्युमूर्द्धत्वादिलिङ्गब्रह्मात्मपुरुषश्रुतिफलविशेषरूपाणां सर्वेषामपि हेतूनां जाठराग्निसाधकानां तथा दृष्टृयुपदेशेन ब्रह्मणीव जाठराग्नौ सम्भवाभावः ‘असम्भवात्’ इत्यनेन संगृहीतः ।
ननु पुरुषश्रुत्यसम्भवस्यापि ‘असम्भवात्’ इत्यनेनैव संग्रहे ‘पुरुषमपि’ इत्यादिसूत्रशेषः किमर्थः ? ‘अन्तःप्रतिष्ठानात्’ इति पृथङ्निर्दिष्टहेत्वन्तरनिराकरणार्थ इति चेत् ; न। अग्निर्वैश्वानरश्रुतित्रेताग्निकल्पनप्राणाहुत्याधारत्वलिङ्गानां परमात्मन्यसम्भवतामपि द्युमूर्द्धत्वायद्यनुसारेण तथा दृष्टृयभिप्रायतया नयने परमात्मन्यपि सम्भवतोऽन्तःप्रतिष्ठितत्वस्य दुर्बलस्य पृथङ्निराकरणहेत्वनपेक्षत्वात्। तदपेक्षत्वेऽपि ‘पुरुषमपि’ इत्यादि सूत्रशेषेण पुरुषश्रुतिव्यतिरिक्तस्य हेतोरलाभात् , तस्य चासम्भवादित्यनेनैव लब्धत्वादिति चेत् ।
अत्र ब्रमः – ‘असम्भवात्’ इत्यनेन न केवलं परमात्मसाधकानां द्युमूर्द्धत्वादीनामेवासम्भवः संगृहीतः , किन्तु जाठरपक्षसाधकत्वेन पूर्वपक्षिणोपन्यस्तस्य पुरुषेऽन्तःप्रतिष्ठितत्वस्याप्यसम्भवः संगृहीतः ।पुरुषेऽन्तःप्रतिष्ठितत्वं हि जीवेऽन्तःप्रतिष्ठितत्वम्। तत्तु परमात्मन्येव सम्भवति ; ‘य आत्मनि तिष्ठन्नात्मनोऽन्तरः’ इति श्रुत्यन्तरप्रसिद्धेः , न तु जाठराग्नाविति। तत्र पुरुषशब्देन शरीरं विवक्षितम्। न तु जीवः ‘इदं वावज्योतिर्यदिदमस्मिन्नन्तःपुरुषे ज्योतिः’ इति जाठराग्नावेव शरीरान्तवर्तित्वाभिप्रायेण ‘अन्तःपुरुषे’ इति निर्देशदर्शनादिति शङ्कायामिदमुत्तरं पुरुषमपि चैनमधीयते’ इति। अत्रायमाशयः – भवेदेवं यदि ‘यदिदमस्मिन्नन्तः पुरुषे ज्योतिः’ इत्यत्र ज्योतिरिवैनं वैश्वानरं केवलं पुरुषार्न्तवर्तिनमधीयीरन्। न त्वेवम् ; इह तु वैश्वानरं पुरुषमप्यधीयते ‘स यो हैतमग्निं वैश्वानरं पुरुषं पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद’ इति। तथा च ज्योतिर्वाक्ये पुरुषपदस्य शरीरपरत्वेन जाठरपर्यवसाने विरोधिपुरुषपदान्तरसन्निधानाभावातत्र तथात्वेऽपि अत्र तद्विरोधिपुरुषपदान्तरसन्निधानसत्त्वान्न तथात्वमिति ।
ननु पुरुषपदान्तरसन्निधानं कथमिह जाठरपर्यवसानविरोधीति चेत् ; तदाकर्णय। ‘पुरुषं – पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितम्’ इति त्रयाणामपि पुरुषपदानामैकार्थ्यं तावदभ्युपगन्तव्यम्। ऐकार्थ्यसम्भवे ‘स्याच्चैकस्य ब्रह्मशब्दवत्’(ब्र. सू. २.३.५) इति न्यायानवतारात्। तथा च यदात्मकत्वं यद्विधत्वं यदन्तःप्रतिष्ठितत्वं चात्र वैश्वानरशब्दोक्तत्वेनालोच्यमानानां मध्ये कस्यचित् सम्भवति , स एव पुरुषशब्दार्थो वक्तव्यः। सम्भवति च परमात्मनो जीवरूपत्वं सर्वात्मत्वात् जीवविधत्वं च द्युमूर्द्धत्वादिलब्धसादृश्यात्। जीवान्तः प्रतिष्ठितत्वं च सर्वान्तर्यामित्वात्। जाठरस्य त्वचेतनस्य न जीवात्मत्वं जीवविधत्वं जीवान्तर्यामित्वं वाऽस्ति। तस्मात् पुरुषं पुरुषविधमिति विरोधिपुरुषपदसन्निधानात् जाठरे पुरुषान्तर्वर्तिरत्वस्याप्यसम्भवो युक्त एव ।
ननु ‘पुरुषमपि चैनम्’ इति सूत्रं लिखित्वा कथं पुरुषमप्यधीयते पुरुषविधमप्यधीयते इति व्याख्यातम् ? उच्यते। “पुरुषविधम् इत्यपि केचित् सूत्रावयवं पठन्ति” इति भाष्ये दर्शितम्। तत्र भगवतो बादरायणादेव केचन शिष्याः पुरुषमिति पाठं अन्ये शिष्याः पुरुषविधमित्यपि पाठं श्रुतवन्त इति तत्तत्सम्प्रदायानुसारिणस्तथा तथा पठन्तीति पाठद्वयमपि सूत्रकारप्रणयनमूलमित्येव भाष्याभिप्रायः। न हि सूत्रकारानुपज्ञमसाम्प्रदायिकं सम्पातायातपाठं भगवत्पादा लिखन्ति। अतः पाठद्वयमप्येकीकृत्य तथा व्याख्यातम्। सूत्रे चशब्दः तुशब्दार्थे वर्तमानः प्रसक्तशङ्कानिवृत्त्यर्थः सन् जाठरे पुरुषान्तःप्रतिष्ठितत्वासम्भववर्णनेन प्रग्लिखिताशङ्कावतारं सूचयतीति सर्वमनवद्यम्। १.२.२६ ।
अथ त्रैलोक्यव्याप्त्यभावेन जाठरस्य वैश्वानरत्वासम्भवेऽपि महाभूताग्निः स भविष्यति। तस्य हि द्युलोकादिव्याप्तिरवगम्यते ‘यो भानुना पृथिवीं चामुतमामाततान रोदसी अन्तरिक्षम्’ इति। तस्यपुरुषेऽन्तःप्रतिष्ठितत्वं च जाठररूपेण सम्भवति। अथवा तच्छरीरा देवता वैश्वानरो भविष्यति। सा ह्यैश्वर्ययोगेन द्युलोकाद्यधिष्ठातुं शक्नोति। पुरुषान्तःप्रतिष्ठितत्वं च तत्र सम्भवति ‘अग्निर्वाक् भूत्वा मुखं प्राविशत्’ इति श्रुतेरित्याशङ्कां जाठरपक्षनिराकरणहेत्वतिदेशेन निराकरोति–
अत एव न देवता भूतं च ।२७।
अचेतनस्य भूतस्य द्युसूर्याद्यधिष्ठातृत्वं न सम्भवति। तदसम्भवे च गगनादिसाधारणेन सम्बन्धमात्रेण तस्य द्युमूर्द्धत्वादिकल्पनं न शोभत इति जाठरपक्षनिराकरणप्रकारेणैव भूतपक्षनिराकरणमिति न तत्रातिदेशसूत्रनिवर्तनीयाधिकाशङ्काऽस्ति। अतो देवतायामैश्वर्येण द्व्याद्यधिष्ठातृत्वसम्भवाद्द्युमूर्द्धत्वादिकल्पना युज्यत इति देवतापक्षेऽधिकशङ्कां निरपेक्षैश्वर्यपरमेश्वरगताधिष्ठातृत्वग्रहणसम्भवे सापेक्षग्रहणमयुक्तमिति अन्तर्याम्यधिकरणन्यायस्मारणेन निराकर्तुमेवेदं सूत्रम्। भूतपक्षनिराकरणं त्वन्वाचयशिष्टमिति अन्वाचयार्थेन चकारेण सूचितम्। अथवा चकारेण जीवपक्षनिराकरणं समुच्चीयते। १.२. २७ ।
एवं द्युमूर्द्धत्वाद्यसम्भवेन पक्षान्तरपरिग्रहायोगात् परमात्मन्येव जाठरप्रतीकत्वेन , जाठरोपाधिकत्वेन वा अग्निवैश्वानरश्रुतित्रेताग्निकल्पनाप्राणाहुत्याधारत्वलिङ्गानि नेतव्यानि। पुरुषान्तःप्रतिष्ठितत्वं तु परमात्मन्येव सम्भवति , न जाठरादिष्वित्युक्तम्। इदानीं यद्यग्निश्रुत्यादिचतुष्टयं वैश्वानरे साक्षादेव योजनीयम् , यदि च ‘पुरुषेऽन्तःप्रतिष्ठितम्’ इत्यत्र पुरुषशब्दस्य ज्योतिर्वाक्य इव शरीरपरत्वं वक्तव्यम् , तदाऽप्येतत्सर्वं परमात्मनि न विरुद्धमित्याह–
साक्षादप्यविरोधं जैमिनिः। २८ ।
पुरुषेऽन्तःप्रतिष्ठितत्वं तावन्मूर्द्धादिचुबुकान्तावयवकल्पितमूर्द्धादिपादान्तावयवाधिष्ठातृत्वेन शरीरान्तर्गते परमात्मन्युपपद्यते। त्रेताग्निकल्पनं प्राणाहुत्यधिकरणत्वं चात एव तस्मिन्नुपपद्यते। प्राणाहुतिपाचकत्वेन प्रसिद्ध जाठरेऽग्नौ तदुभयं स्वारसिकम् इति चेत् ; न। आस्यं ह्याहवनीयायतनत्वेन कल्पितम्। न च जाठरस्य जठरप्रतिष्ठितस्य स्वोष्ममात्रेण सकलदेहसन्तापकस्यास्यमायतनमिति स्वारसिकम्। पाचकत्वं तु सर्वशक्तब्रह्मणोऽपि अविशिष्टम्। तस्मामूर्द्धादिचुबुकान्तावयवप्रतिष्ठिते तस्मिन्नेवास्यस्य आहवनीयायतनत्वकल्पनं प्राणाहुत्यधिकरणत्वं चोपपद्यत इति तस्मिन्नेव स्वरूपेण त्रैलोक्यशरीरत्वने च सकलदेहव्यापेक गार्हपत्यादिकल्पनमप्युपपाद्यम्। अग्निर्वैश्वानरशब्दावपि ‘अग्निः कस्मात् , अग्रणीभवति अग्रं नीयते अग्रं नयति ।
वैश्वानरः कस्मात् विश्वानरानयति , विश्व एनं नरा नयन्तीति वा , विश्वानर एव वैश्वानरः , राक्षसो वायस इतिवत् ; रक्ष एव हि राक्षसः , वय एव हि वायसः’ इति निरुक्तदर्शितेन केनचिद्योगेन तस्मिन्नुपपद्यते। अवश्यं ह्यग्निवैश्वानरशब्दयोरन्यतरस्येह यौगिकत्वं वाच्यम्। रूढ्योभयोर्ज्वलनपरत्वे पर्याययोरेकत्र प्रयोगस्य वैयर्थ्यप्रसङ्गात्। तदिहोभयोरप्यस्तु निरुक्तसार्थकत्वाय परमात्मविषयबहुश्रुतिलिङ्गानुग्रहाय च। सूत्रे अपिशब्देन पुरुषशब्दस्य शरीरपरत्वे अविरोधः समुच्चीयते। जैमिनिग्रहणं स्वशिष्योपपादितप्रकारोऽयमिति तत्ख्यापनार्थम्। एवमुत्तरत्रापि ऋषिविशेषग्रहणे फलं द्रष्टव्यम्। १.२.२८ ।
कथं पुनः परमेश्वरपरिग्रहे प्रादेशमात्रश्रुतिरिति तां व्याख्यातुमारभते–
अभिव्यक्तेरित्याश्मरथ्यः। २९ ।
द्युलोकादिपृथिव्यन्तेषु मूर्द्धादिपादान्तावयवत्वेन कल्पितेषु उपासकानुग्रहार्थमतिमात्रस्यापि परमेश्वरस्याभिव्यक्तेर्द्युलोकादिप्रदेशसम्बन्धिनी मात्रा परिमाणमस्येति वा प्रकर्षेण परमेश्वरमूर्द्धत्वादिकल्पनाकृतेनादिश्यन्ते उपदिश्यन्त इति प्रादेशाः द्युलोकादयः , तन्मात्रं तत्परिमाणमिति वा प्रादेशमात्रत्वमित्याश्मरथ्यो मन्यते। यद्यपि प्रादेशशब्दस्य उक्तयोगात् परिमाणविशेषरूढिर्बलीयसी , तथाप्येवं प्रादेशमात्रमिति प्रागु पदिष्टं द्युमूर्द्धत्वादिप्रकारमेवंशब्देन परामृश्य तेन प्रकारेण प्रादेशमात्रत्वोपन्यासात्तेन च प्रकारेण द्वाद शाङ्गुलिपरिमाणत्वायोगादिह योगः एव ग्राह्यः इत्याश्मरथ्याभिप्रायः। एतन्न्यायसूचनार्थमेव अर्भकौकस्त्वादिसूत्रसिद्धस्याप्यस्य पुनस्सूत्रणम्। १. २. २९ ।
अथ रूढिमाश्रित्य मतान्तरं प्रदर्शयति–
अनुस्मृतेर्बादरिः। ३० ।
प्रादेशमात्रहृदयप्रतिष्ठेन मनसा अनुस्मर्यमाणत्वात् प्रादेशमात्रत्वम् , यथा प्रस्थमितानां यवानां प्रस्थत्वम्। यद्यपि तदन्तर्गत्या तदवच्छिन्नेष्विव , तेन ज्ञायमानेषु तत्परिमाणं व्यपदिष्टं न दृष्टम् , तथाऽपि रूढ्यपरित्यागेन यथाकथञ्चिदालम्बनमात्रमिति बादरिर्मन्यते। १.२. ३०॥
अत्राप्यपरितोषेण मतान्तरमाह –
संपत्तेरिति जैमिनिस्तथा हि दर्शयति। ३१ ।
समानप्रकरणे वाजसनेयिब्राह्मणे त्रैलोक्यात्मना वैश्वानरस्यावयवानामध्यात्मं मूर्द्धादिचुबकान्तावयवेषु सम्पादनाद् रूढ्यपरित्यागेन तदवच्छेदकृतमञ्जसैव प्रादेशमात्रत्वमिति जैमिनिर्मन्यते।१. २. ३१।
आमनन्ति चैनमस्मिन्। ३२ ।
आमनन्ति चैनं परमेश्वरमस्मिन्मूर्द्धचुबुकान्तराले सम्पत्त्यधिष्ठानत्वेन पूर्वसूत्रप्रकृते जाबालाः ‘स एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठितः’(जा. २. १) इत्यारभ्य ‘कतमच्चास्य स्थानं भवति भ्रुवोर्घ्रास्य च यः सन्धिः’(जा. २.१) इति। अतः परमेश्वरस्य मूर्द्धचुबुकान्तरालवर्तितायाः शाखान्तरेऽपि दृष्टत्वात् तदवच्छेदकृतं प्रादेशमात्रत्वमिति निर्वहणं युक्तम्। इदं प्रादेशमात्रत्वं छान्दोग्ये पूर्वोक्तप्रकारो न भवति इत्येवंशब्दानुपपत्तिरिति चेत् , न। एवं अधिदैवतं प्रसिद्धद्युमूर्द्धत्वादिविशिष्टं रूपम् , प्रादेशमात्रमध्यात्मं मूर्द्धचुबुकान्तरालप्रतिष्ठितप्रादेशमात्रं च इत्युभयविधोपासनालाभाय एवं प्रादेशमात्रमित्यनयोर्विशेषणद्वयत्वोपपत्तेः। वाजसनेयके ‘तथा तु व एनान्वक्ष्यामि यथा प्रादेशमात्रमेवाभिसम्पादयिष्यामि’ इति प्रतिज्ञापूर्वकं स होवाच मूर्द्धानमुपदिशन्’ इत्यादेरारब्धत्वेन छान्दोग्येऽपि समानप्रकरणे मूर्द्धचुबुकान्तरालप्रतिष्ठितत्वलभ्यस्यैव प्रादेशमात्रत्वस्य ग्राह्यत्वात्। तस्माद्यद्यपि ‘अभिव्यक्तेः’ इति सूत्रस्य रूढ्यपरित्यागेनाप्रादेशमात्रोऽप्युपासकानुग्रहार्थं प्रादेशमात्रत्वेनाभिव्यज्यत इत्यर्थातरं भाष्ये दर्शितम् , ‘अनुस्मृतेः’ इति सूत्रस्य च प्रस्थपरिमितयवन्यायानपेक्षणेन अप्रादेशमात्रोऽपि प्रादेशमात्रत्वेनानुस्मरणीय इत्यर्थान्तरं दर्शितम् , तथाऽपि शाखान्तरे वैश्वानरस्य प्रादेशमात्रत्वं यथोपपादितं तथैव छान्दोग्येऽपि तत् ग्रहीतुं युक्तमिति जैमिनिपक्ष एव सिद्धातः। अत्र द्युमूर्द्धत्वादिरूपस्य ब्रह्मलिङ्गस्य कल्पनामात्रसिद्धत्वात् प्रादेशमात्रत्वश्रवणेनोपासकमूर्द्धादि षूपसंहृतत्वप्रतीतेः वेदिबर्हिर्गार्हपत्यादिकल्पनप्रतिरुद्धत्वाच्चास्पष्टता। १. २. ३२ ।
इति वैश्वानराधिकरणम्। ७ ।
इति श्रीमद्भारद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजिद्याजि
श्रीरङ्गराजाध्वरिवरसूनोरप्पय्यदीक्षितस्य कृतौ शारीरकन्यायरक्षामणौप्रथमाध्यायस्य
द्वितीयः पाद: ।