+३

आसृत्युपक्रमात् समानोत्क्रान्तिरित्युक्तम् ; सृतिस्तु श्रुत्यन्तरेष्वनेकधा श्रूयते — नाडीरश्मिसम्बन्धेनैका ‘अथैतैरेव रश्मिभिरूर्ध्वमाक्रमते’ (छा. उ. ८ । ६ । ५) इति ; अर्चिरादिकैका ‘तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहः’ (बृ. उ. ६ । २ । १५) इति ; ‘स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति’ (कौ. उ. १ । ३) इत्यन्या ; ‘यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति’ (बृ. उ. ५ । १० । १) इत्यपरा ; ‘सूर्यद्वारेण ते विरजाः प्रयान्ति’ (मु. उ. १ । २ । ११) इति च अपरा । तत्र संशयः — किं परस्परं भिन्ना एताः सृतयः, किं वा एकैव अनेकविशेषणेति । तत्र प्राप्तं तावत् — भिन्ना एताः सृतय इति, भिन्नप्रकरणत्वात् , भिन्नोपासनाशेषत्वाच्च ; अपि च ‘अथैतैरेव रश्मिभिः’ (छा. उ. ८ । ६ । ५) इत्यवधारणम् अर्चिराद्यपेक्षायाम् उपरुध्येत, त्वरावचनं च पीड्येत — ‘स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छति’ (छा. उ. ८ । ६ । ५) इति ; तस्मादन्योन्यभिन्ना एवैते पन्थान इति । एवं प्राप्ते, अभिदध्महे —