१८ रश्म्यनुसारी ॥
अस्ति हार्दविद्या ‘अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म’ (छा. उ. ८ । १ । १) इत्युपक्रम्य विहिता ; तत्प्रक्रियायाम् ‘अथ या एता हृदयस्य नाड्यः’ (छा. उ. ८ । ६ । १) इत्युपक्रम्य सप्रपञ्चं नाडीरश्मिसम्बन्धमुक्त्वा उक्तम् — ‘अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते’ (छा. उ. ८ । ६ । ५) इति ; पुनश्चोक्तम् — ‘तयोर्ध्वमायन्नमृतत्वमेति’ (छा. उ. ८ । ६ । ६) इति ; तस्मात् शताधिकया नाड्या निष्क्रामन् रश्म्यनुसारी निष्क्रामतीति गम्यते । तत् किम् अविशेषेणैव अहनि रात्रौ वा म्रियमाणस्य रश्म्यनुसारित्वम् , आहोस्विदहन्येव — इति संशये सति, अविशेषश्रवणात् अविशेषेणैव तावत् रश्म्यनुसारीति प्रतिज्ञायते ॥ १८ ॥
१९ निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च ॥
अस्ति अहनि नाडीरश्मिसम्बन्ध इति अहनि मृतस्य स्यात् रश्म्यनुसारित्वम् ; रात्रौ तु प्रेतस्य न स्यात् , नाडीरश्मिसम्बन्धविच्छेदात् — इति चेत् , न, नाडीरश्मिसम्बन्धस्य यावद्देहभावित्वात् ; यावद्देहभावी हि शिराकिरणसम्पर्कः ; दर्शयति चैतमर्थं श्रुतिः — ‘अमुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः’ (छा. उ. ८ । ६ । २) इति ; निदाघसमये च निशास्वपि किरणानुवृत्तिरुपलभ्यते, प्रतापादिकार्यदर्शनात् ; स्तोकानुवृत्तेस्तु दुर्लक्ष्यत्वम् ऋत्वन्तररजनीषु , शैशिरेष्विव दुर्दिनेषु ; ‘अहरेवैतद्रात्रौ दधाति’ इति च एतदेव दर्शयति । यदि च रात्रौ प्रेतः विनैव रश्म्यनुसारेण ऊर्ध्वमाक्रमेत, रश्म्यनुसारानर्थक्यं भवेत् ; न ह्येतत् विशिष्य अधीयते — यो दिवा प्रैति, स रश्मीनपेक्ष्योर्ध्वमाक्रमते, यस्तु रात्रौ सोऽनपेक्ष्यैवेति । अथ तु विद्वानपि रात्रिप्रायणापराधमात्रेण नोर्ध्वमाक्रमेत, पाक्षिकफला विद्येति अप्रवृत्तिरेव तस्यां स्यात् । मृत्युकालानियमात् ; अथापि रात्रावुपरतोऽहरागमम् उदीक्षेत, अहरागमेऽप्यस्य कदाचित् अरश्मिसम्बन्धार्हं शरीरं स्यात् पावकादिसम्पर्कात् ; ‘स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छति’ (छा. उ. ८ । ६ । ५) इति च श्रुतिः अनुदीक्षां दर्शयति । तस्मात् अविशेषेणैव इदं रात्रिंदिवं रश्म्यनुसारित्वम् ॥ १९ ॥