०१ वागधिकरणम्

०१ वाङ्मनसि दर्शनाच्छब्दाच्च ॥

अस्ति प्रायणविषया श्रुतिः — ‘अस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम्’ (छा. उ. ६ । ८ । ६) इति । किमिह वाच एव वृत्तिमत्त्या मनसि सम्पत्तिरुच्यते, उत वाग्वृत्तेरिति विशयः । तत्र वागेव तावत् मनसि सम्पद्यत इति प्राप्तम् ; तथा हि श्रुतिरनुगृहीता भवति ; इतरथा लक्षणा स्यात् ; श्रुतिलक्षणाविशये च श्रुतिर्न्याय्या, न लक्षणा ; तस्मात् वाच एव अयं मनसि प्रलय इति ॥

एवं प्राप्ते, ब्रूमः — वाग्वृत्तिर्मनसि सम्पद्यत इति । कथं वाग्वृत्तिरिति व्याख्यायते, यावता ‘वाङ्मनसि’ इत्येव आचार्यः पठति ? सत्यमेतत् ; पठिष्यति तु परस्तात् — ‘अविभागो वचनात्’ (ब्र. सू. ४ । २ । १६) इति ; तस्मादत्र वृत्त्युपशममात्रं विवक्षितमिति गम्यते । तत्त्वप्रलयविवक्षायां तु सर्वत्रैव अविभागसाम्यात् किं परत्रैव विशिंष्यात् — ‘अविभागः’ इति ; तस्मादत्र वृत्त्युपसंहारविवक्षा । वाग्वृत्तिः पूर्वमुपसंह्रियते मनोवृत्ताववस्थितायामित्यर्थः । कस्मात् ? दर्शनात् — दृश्यते हि वाग्वृत्तेः पूर्वोपसंहारो मनोवृत्तौ विद्यमानायाम् ; न तु वाच एव वृत्तिमत्त्या मनस्युपसंहारः केनचिदपि द्रष्टुं शक्यते । ननु श्रुतिसामर्थ्यात् वाच एवायं मनस्यप्ययो युक्त इत्युक्तम् — नेत्याह, अतत्प्रकृतित्वात् ; यस्य हि यत उत्पत्तिः, तस्य तत्र प्रलयो न्याय्यः, मृदीव शरावस्य ; न च मनसो वागुत्पद्यत इति किञ्चन प्रमाणमस्ति । वृत्त्युद्भवाभिभवौ तु अप्रकृतिसमाश्रयावपि दृश्येते ; पार्थिवेभ्यो हि इन्धनेभ्यः तैजसस्याग्नेर्वृत्तिरुद्भवति, अप्सु च उपशाम्यति । कथं तर्हि अस्मिन्पक्षे शब्दः — ‘वाङ्मनसि सम्पद्यते’ इति ? अत आह — शब्दाच्चेति ; शब्दोऽप्यस्मिन्पक्षेऽवकल्पते, वृत्तिवृत्तिमतोरभेदोपचारादित्यर्थः ॥ १ ॥

०२ अत एव च सर्वाण्यनु ॥

‘तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः’ (प्र. उ. ३ । ९) इत्यत्र अविशेषेण सर्वेषामेवेन्द्रियाणां मनसि सम्पत्तिः श्रूयते ; तत्रापि अत एव वाच इव चक्षुरादीनामपि सवृत्तिके मनस्यवस्थिते वृत्तिलोपदर्शनात् तत्त्वप्रलयासम्भवात् शब्दोपपत्तेश्च वृत्तिद्वारेणैव सर्वाणीन्द्रियाणि मनोऽनुवर्तन्ते । सर्वेषां करणानां मनस्युपसंहाराविशेषे सति वाचः पृथग्ग्रहणम् ‘वाङ्मनसि सम्पद्यते’ इत्युदाहरणानुरोधेन ॥ २ ॥