५१ ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥
‘सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्’ (ब्र. सू. ३ । ४ । २६) इत्यत आरभ्य उच्चावचं विद्यासाधनमवधारितम् ; तत्फलं विद्या सिध्यन्ती किमिहैव जन्मनि सिध्यति, उत कदाचित् अमुत्रापीति चिन्त्यते । किं तावत्प्राप्तम् ? इहैवेति । किं कारणम् ? श्रवणादिपूर्विका हि विद्या ; न च कश्चित् अमुत्र मे विद्या जायतामित्यभिसन्धाय श्रवणादिषु प्रवर्तते ; समान एव तु जन्मनि विद्याजन्म अभिसन्धाय एतेषु प्रवर्तमानो दृश्यते । यज्ञादीन्यपि श्रवणादिद्वारेणैव विद्यां जनयन्ति, प्रमाणजन्यत्वाद्विद्यायाः । तस्मादैहिकमेव विद्याजन्मेत्येवं प्राप्ते वदामः —
ऐहिकं विद्याजन्म भवति, असति प्रस्तुतप्रतिबन्ध इति । एतदुक्तं भवति — यदा प्रक्रान्तस्य विद्यासाधनस्य कश्चित्प्रतिबन्धो न क्रियते उपस्थितविपाकेन कर्मान्तरेण, तदा इहैव विद्या उत्पद्यते ; यदा तु खलु तत्प्रतिबन्धः क्रियते तदा अमुत्रेति । उपस्थितविपाकत्वं च कर्मणो देशकालनिमित्तोपनिपाताद्भवति ; यानि च एकस्य कर्मणो विपाचकानि देशकालनिमित्तानि, तान्येव अन्यस्यापीति न नियन्तुं शक्यते ; यतो विरुद्धफलान्यपि कर्माणि भवन्ति । शास्त्रमपि अस्य कर्मण इदं फलमित्येतावति पर्यवसितं न देशकालनिमित्तविशेषमपि सङ्कीर्तयति । साधनवीर्यविशेषात्तु अतीन्द्रिया कस्यचिच्छक्तिराविर्भवति, तत्प्रतिबद्धा परस्य तिष्ठति । न च अविशेषेण विद्यायाम् अभिसन्धिर्नोत्पद्यते — इह अमुत्र वा मे विद्या जायतामिति, अभिसन्धेर्निरङ्कुशत्वात् । श्रवणादिद्वारेणापि विद्या उत्पद्यमाना प्रतिबन्धक्षयापेक्षयैव उत्पद्यते । तथा च श्रुतिः दुर्बोधत्वमात्मनो दर्शयति — ‘श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः । आश्चर्यो वक्ता कुशलोऽस्य लब्धाऽऽश्चर्यो ज्ञाता कुशलानुशिष्टः’ (क. उ. १ । २ । ७) इति । गर्भस्थ एव च वामदेवः प्रतिपेदे ब्रह्मभावमिति वदन्ती जन्मान्तरसञ्चितात् साधनात् जन्मान्तरे विद्योत्पत्तिं दर्शयति ; न हि गर्भस्थस्यैव ऐहिकं किञ्चित्साधनं सम्भाव्यते । स्मृतावपि — ‘अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति’ (भ. गी. ६ । ३७) इत्यर्जुनेन पृष्टो भगवान्वासुदेवः ‘न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति’ (भ. गी. ६ । ४०) इत्युक्त्वा, पुनस्तस्य पुण्यलोकप्राप्तिं साधुकुले सम्भूतिं च अभिधाय, अनन्तरम् ‘तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम्’ (भ. गी. ६ । ४३) इत्यादिना ‘अनेकजन्मसंसिद्धस्ततो याति परां गतिम्’ (भ. गी. ६ । ४५) इत्यन्तेन एतदेव दर्शयति । तस्मात् ऐहिकम् आमुष्मिकं वा विद्याजन्म प्रतिबन्धक्षयापेक्षयेति स्थितम् ॥ ५१ ॥