१७ त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥
मुख्यश्चैकः इतरे चैकादश प्राणा अनुक्रान्ताः ; तत्रेदमपरं सन्दिह्यते — किं मुख्यस्यैव प्राणस्य वृत्तिभेदा इतरे प्राणाः, आहोस्वित् तत्त्वान्तराणीति । किं तावत्प्राप्तम् ? मुख्यस्यैवेतरे वृत्तिभेदा इति । कुतः ? श्रुतेः ; तथा हि श्रुतिः मुख्यमितरांश्च प्राणान्संनिधाप्य, मुख्यात्मतामितरेषां ख्यापयति — ‘हन्तास्यैव सर्वे रूपमसामेति त एतस्यैव सर्वे रूपमभवन्’ (बृ. उ. १ । ५ । २१) इति ; प्राणैकशब्दत्वाच्च एकत्वाध्यवसायः ; इतरथा ह्यन्याय्यमनेकार्थत्वं प्राणशब्दस्य प्रसज्येत, एकत्र वा मुख्यत्वमितरत्र लाक्षणिकत्वमापद्येत । तस्माद्यथैकस्यैव प्राणस्य प्राणाद्याः पञ्च वृत्तयः, एवं वागाद्या अप्येकादशेति । एवं प्राप्ते, ब्रूमः — तत्त्वान्तराण्येव प्राणाद्वागादीनीति । कुतः ? व्यपदेशभेदात् । कोऽयं व्यपदेशभेदः ? ते प्रकृताः प्राणाः, श्रेष्ठं वर्जयित्वा अवशिष्टा एकादशेन्द्रियाणीत्युच्यन्ते, श्रुतावेवं व्यपदेशदर्शनात् — ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च’ (मु. उ. २ । १ । ३) इति ह्येवंजातीयकेषु प्रदेशेषु पृथक् प्राणो व्यपदिश्यते, पृथक्च इन्द्रियाणि । ननु मनसोऽप्येवं सति वर्जनम् इन्द्रियत्वेन, प्राणवत् , स्यात् — ‘मनः सर्वेन्द्रियाणि च’ इति पृथग्व्यपदेशदर्शनात् ; सत्यमेतत् — स्मृतौ तु एकादशेन्द्रियाणीति मनोऽपि इन्द्रियत्वेन श्रोत्रादिवत् सङ्गृह्यते ; प्राणस्य तु इन्द्रियत्वं न श्रुतौ स्मृतौ वा प्रसिद्धमस्ति । व्यपदेशभेदश्चायं तत्त्वभेदपक्षे उपपद्यते ; तत्त्वैकत्वे तु, स एवैकः सन् प्राण इन्द्रियव्यपदेशं लभते न लभते च — इति विप्रतिषिद्धम् । तस्मात्तत्त्वान्तरभूता मुख्यादितरे ॥ १७ ॥
कुतश्च तत्त्वान्तरभूताः ? —
१८ भेदश्रुतेः ॥
भेदेन वागादिभ्यः प्राणः सर्वत्र श्रूयते — ‘ते ह वाचमूचुः’ (बृ. उ. १ । ३ । २) इत्युपक्रम्य, वागादीनसुरपाप्मविध्वस्तानुपन्यस्य, उपसंहृत्य वागादिप्रकरणम् , ‘अथ हेममासन्यं प्राणमूचुः’ इत्यसुरविध्वंसिनो मुख्यस्य प्राणस्य पृथगुपक्रमणात् । तथा ‘मनो वाचं प्राणं तान्यात्मनेऽकुरुत’ इत्येवमाद्या अपि भेदश्रुतय उदाहर्तव्याः । तस्मादपि तत्त्वान्तरभूता मुख्यादितरे ॥ १८ ॥
कुतश्च तत्त्वान्तरभूताः ? —
१९ वैलक्षण्याच्च ॥
वैलक्षण्यं च भवति, मुख्यस्य इतरेषां च — सुप्तेषु वागादिषु मुख्य एको जागर्ति ; स एव च एको मृत्युना अनाप्तः, आप्तास्त्वितरे, तस्यैव च स्थित्युत्क्रान्तिभ्यां देहधारणपतनहेतुत्वम् , न इन्द्रियाणाम् ; विषयालोचनहेतुत्वं च इन्द्रियाणाम् , न प्राणस्य — इत्येवंजातीयको भूयाँल्लक्षणभेदः प्राणेन्द्रियाणाम् ; तस्मादप्येषां तत्त्वान्तरभावसिद्धिः । यदुक्तम् — ‘त एतस्यैव सर्वे रूपमभवन्’ (बृ. उ. १ । ५ । २१) इति श्रुतेः प्राण एवेन्द्रियाणीति, तदयुक्तम् , तत्रापि पौर्वापर्यालोचनाद्भेदप्रतीतेः ; तथा हि — ‘वदिष्याम्येवाहमिति वाग्दध्रे’ (बृ. उ. १ । ५ । २१) इति वागादीनीन्द्रियाण्यनुक्रम्य, ‘तानि मृत्युः श्रमो भूत्वोपयेमे … तस्माच्छ्राम्यत्येव वाक्’ इति च श्रमरूपेण मृत्युना ग्रस्तत्वं वागादीनामभिधाय, ‘अथेममेव नाप्नोद्योऽयं मध्यमः प्राणः’ (बृ. उ. १ । ५ । २१) इति पृथक् प्राणं मृत्युना अनभिभूतं तमनुक्रामति ; ‘अयं वै नः श्रेष्ठः’ (बृ. उ. १ । ५ । २१) इति च श्रेष्ठतामस्यावधारयति, तस्मात् तदविरोधेन, वागादिषु परिस्पन्दलाभस्य प्राणायत्तत्वम् तद्रूपभवनं वागादीनाम् — इति मन्तव्यम् , न तु तादात्म्यम् । अत एव च प्राणशब्दस्येन्द्रियेषु लाक्षणिकत्वसिद्धिः ; तथा च श्रुतिः — ‘त एतस्यैव सर्वे रूपमभवꣳस्तस्मादेत एतेनाख्यायन्ते प्राणाः’ (बृ. उ. १ । ५ । २१) इति मुख्यप्राणविषयस्यैव प्राणशब्दस्येन्द्रियेषु लाक्षणिकीं वृत्तिं दर्शयति । तस्मात्तत्त्वान्तराणि प्राणात् वागादीनि इन्द्रियाणीति ॥ १९ ॥