०१ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥
यदुक्तं ब्रह्मैव सर्वज्ञं जगतः कारणम् इति, तदयुक्तम् । कुतः ? स्मृत्यनवकाशदोषप्रसङ्गात् — स्मृतिश्च तन्त्राख्या परमर्षिप्रणीता शिष्टपरिगृहीता अन्याश्च तदनुसारिण्यः स्मृतयः, ता एवं सत्यनवकाशाः प्रसज्येरन् । तासु ह्यचेतनं प्रधानं स्वतन्त्रं जगतः कारणमुपनिबध्यते । मन्वादिस्मृतयस्तावच्चोदनालक्षणेनाग्निहोत्रादिना धर्मजातेनापेक्षितमर्थं समर्पयन्त्यः सावकाशा भवन्ति — अस्य वर्णस्यास्मिन्कालेऽनेन विधानेनोपनयनम् , ईदृशश्चाचारः, इत्थं वेदाध्ययनम् , इत्थं समावर्तनम् , इत्थं सहधर्मचारिणीसंयोग इति ; तथा पुरुषार्थांश्च वर्णाश्रमधर्मान्नानाविधान्विदधति । नैवं कापिलादिस्मृतीनामनुष्ठेये विषये अवकाशोऽस्ति । मोक्षसाधनमेव हि सम्यग्दर्शनमधिकृत्य ताः प्रणीताः । यदि तत्राप्यनवकाशाः स्युः, आनर्थक्यमेवासां प्रसज्येत । तस्मात्तदविरोधेन वेदान्ता व्याख्यातव्याः । कथं पुनरीक्षत्यादिभ्यो हेतुभ्यो ब्रह्मैव सर्वज्ञं जगतः कारणमित्यवधारितः श्रुत्यर्थः स्मृत्यनवकाशदोषप्रसङ्गेन पुनराक्षिप्यते ? भवेदयमनाक्षेपः स्वतन्त्रप्रज्ञानाम् ; परतन्त्रप्रज्ञास्तु प्रायेण जनाः स्वातन्त्र्येण श्रुत्यर्थमवधारयितुमशक्नुवन्तः प्रख्यातप्रणेतृकासु स्मृतिष्ववलम्बेरन् ; तद्बलेन च श्रुत्यर्थं प्रतिपित्सेरन् ; अस्मत्कृते च व्याख्याने न विश्वस्युः, बहुमानात्स्मृतीनां प्रणेतृषु ; कपिलप्रभृतीनां चार्षं ज्ञानमप्रतिहतं स्मर्यते ; श्रुतिश्च भवति ‘ ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत्’ (श्वे. उ. ५ । २) इति ; तस्मान्नैषां मतमयथार्थं शक्यं सम्भावयितुम् ; तर्कावष्टम्भेन चैतेऽर्थं प्रतिष्ठापयन्ति ; तस्मादपि स्मृतिबलेन वेदान्ता व्याख्येया इति पुनराक्षेपः ॥
तस्य समाधिः — ‘ नान्यस्मृत्यनवकाशदोषप्रसङ्गात्’ इति । यदि स्मृत्यनवकाशदोषप्रसङ्गेनेश्वरकारणवाद आक्षिप्येत, एवमप्यन्या ईश्वरकारणवादिन्यः स्मृतयोऽनवकाशाः प्रसज्येरन् ; ता उदाहरिष्यामः — ‘ यत्तत्सूक्ष्ममविज्ञेयम्’ इति परं ब्रह्म प्रकृत्य, ‘ स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते’ इति चोक्त्वा, ‘ तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम’ इत्याह ; तथान्यत्रापि ‘ अव्यक्तं पुरुषे ब्रह्मन्निर्गुणे सम्प्रलीयते’ इत्याह ; ‘ अतश्च संक्षेपमिमं शृणुध्वं नारायणः सर्वमिदं पुराणः । स सर्गकाले च करोति सर्वं संहारकाले च तदत्ति भूयः’ इति पुराणे ; भगवद्गीतासु च — ‘ अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा’ (भ. गी. ७ । ६) इति ; परमात्मानमेव च प्रकृत्यापस्तम्बः पठति — ‘ तस्मात्कायाः प्रभवन्ति सर्वे स मूलं शाश्वतिकः स नित्यः’ (ध. सू. १ । ८ । २३ । २) इति । एवमनेकशः स्मृतिष्वपीश्वरः कारणत्वेनोपादानत्वेन च प्रकाश्यते । स्मृतिबलेन प्रत्यवतिष्ठमानस्य स्मृतिबलेनैवोत्तरं वक्ष्यामीत्यतोऽयमन्यस्मृत्यनवकाशदोषोपन्यासः । दर्शितं तु श्रुतीनामीश्वरकारणवादं प्रति तात्पर्यम् ; विप्रतिपत्तौ च स्मृतीनामवश्यकर्तव्येऽन्यतरपरिग्रहेऽन्यतरपरित्यागे च श्रुत्यनुसारिण्यः स्मृतयः प्रमाणम् ; अनपेक्ष्या इतराः ; तदुक्तं प्रमाणलक्षणे — ‘ विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्’ (जै. सू. १ । ३ । ३) इति । न चातीन्द्रियानर्थान् श्रुतिमन्तरेण कश्चिदुपलभत इति शक्यं सम्भावयितुम् , निमित्ताभावात् । शक्यं कपिलादीनां सिद्धानामप्रतिहतज्ञानत्वादिति चेत् , न ; सिद्धेरपि सापेक्षत्वात् ; धर्मानुष्ठानापेक्षा हि सिद्धिः, स च धर्मश्चोदनालक्षणः ; ततश्च पूर्वसिद्धायाश्चोदनाया अर्थो न पश्चिमसिद्धपुरुषवचनवशेनातिशङ्कितुं शक्यते । सिद्धव्यपाश्रयकल्पनायामपि बहुत्वात्सिद्धानां प्रदर्शितेन प्रकारेण स्मृतिविप्रतिपत्तौ सत्यां न श्रुतिव्यपाश्रयादन्यन्निर्णयकारणमस्ति । परतन्त्रप्रज्ञस्यापि नाकस्मात्स्मृतिविशेषविषयः पक्षपातो युक्तः, कस्यचित्क्वचित्पक्षपाते सति पुरुषमतिवैश्वरूप्येण तत्त्वाव्यवस्थानप्रसङ्गात् । तस्मात्तस्यापि स्मृतिविप्रतिपत्त्युपन्यासेन श्रुत्यनुसाराननुसारविषयविवेचनेन च सन्मार्गे प्रज्ञा सङ्ग्रहणीया । या तु श्रुतिः कपिलस्य ज्ञानातिशयं प्रदर्शयन्ती प्रदर्शिता न तया श्रुतिविरुद्धमपि कापिलं मतं श्रद्धातुं शक्यम् , कपिलमिति श्रुतिसामान्यमात्रत्वात् , अन्यस्य च कपिलस्य सगरपुत्राणां प्रतप्तुर्वासुदेवनाम्नः स्मरणात् , अन्यार्थदर्शनस्य च प्राप्तिरहितस्यासाधकत्वात् । भवति चान्या मनोर्माहात्म्यं प्रख्यापयन्ती श्रुतिः — ‘ यद्वै किञ्च मनुरवदत्तद्भेषजम्’ (तै. सं. २ । २ । १० । २) इति ; मनुना च ‘ सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । सम्पश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति’ (मनु. स्मृ. १२ । ९१) इति सर्वात्मत्वदर्शनं प्रशंसता कापिलं मतं निन्द्यत इति गम्यते ; कपिलो हि न सर्वात्मत्वदर्शनमनुमन्यते, आत्मभेदाभ्युपगमात् । महाभारतेऽपि च — ‘ बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु’ इति विचार्य, ‘ बहवः पुरुषा राजन्सांख्ययोगविचारिणाम्’ इति परपक्षमुपन्यस्य तद्व्युदासेन — ‘ बहूनां पुरुषाणां हि यथैका योनिरुच्यते । तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम्’ इत्युपक्रम्य ‘ ममान्तरात्मा तव च ये चान्ये देहसंस्थिताः । सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्क्वचित् ॥ विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः । एकश्चरति भूतेषु स्वैरचारी यथासुखम्’ — इति सर्वात्मतैव निर्धारिता । श्रुतिश्च सर्वात्मतायां भवति — ‘ यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इत्येवंविधा । अतश्च सिद्धमात्मभेदकल्पनयापि कापिलस्य तन्त्रस्य वेदविरुद्धत्वं वेदानुसारिमनुवचनविरुद्धत्वं च, न केवलं स्वतन्त्रप्रकृतिकल्पनयैवेति । वेदस्य हि निरपेक्षं स्वार्थे प्रामाण्यम् , रवेरिव रूपविषये ; पुरुषवचसां तु मूलान्तरापेक्षं वक्तृस्मृतिव्यवहितं चेति विप्रकर्षः । तस्माद्वेदविरुद्धे विषये स्मृत्यनवकाशप्रसङ्गो न दोषः ॥ १ ॥
कुतश्च स्मृत्यनवकाशप्रसङ्गो न दोषः ? —
०२ इतरेषां चानुपलब्धेः ॥
प्रधानादितराणि यानि प्रधानपरिणामत्वेन स्मृतौ कल्पितानि महदादीनि, न तानि वेदे लोके वोपलभ्यन्ते । भूतेन्द्रियाणि तावल्लोकवेदप्रसिद्धत्वाच्छक्यन्ते स्मर्तुम् । अलोकवेदप्रसिद्धत्वात्तु महदादीनां षष्ठस्येवेन्द्रियार्थस्य न स्मृतिरवकल्पते । यदपि क्वचित्तत्परमिव श्रवणमवभासते, तदप्यतत्परं व्याख्यातम् — ‘ आनुमानिकमप्येकेषाम्’ (ब्र. सू. १ । ४ । १) इत्यत्र । कार्यस्मृतेरप्रामाण्यात्कारणस्मृतेरप्यप्रामाण्यं युक्तमित्यभिप्रायः । तस्मादपि न स्मृत्यनवकाशप्रसङ्गो दोषः । तर्कावष्टम्भं तु ‘ न विलक्षणत्वात्’ (ब्र. सू. २ । १ । ४) इत्यारभ्योन्मथिष्यति ॥ २ ॥