०३ अक्षराधिकरणम्

१० अक्षरमम्बरान्तधृतेः ॥

‘कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति ।’ (बृ. उ. ३ । ८ । ७)‘स होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनणु’ (बृ. उ. ३ । ८ । ८) इत्यादि श्रूयते । तत्र संशयः — किमक्षरशब्देन वर्ण उच्यते, किं वा परमेश्वर इति । तत्राक्षरसमाम्नाय इत्यादावक्षरशब्दस्य वर्णे प्रसिद्धत्वात् , प्रसिद्धतिक्रमस्य चायुक्तत्वात् , ‘ओंकार एवेदं सर्वम्’ (छा. उ. २ । २३ । ३) इत्यादौ च श्रुत्यन्तरे वर्णस्याप्युपास्यत्वेन सर्वात्मकत्वावधारणात् , वर्ण एवाक्षरशब्द इत्येवं प्राप्ते, उच्यते — पर एवात्माक्षरशब्दवाच्यः । कस्मात् ? अम्बरान्तधृतेः ; पृथिव्यादेराकाशान्तस्य विकारजातस्य धारणात् । तत्र हि पृथिव्यादेः समस्तविकारजातस्य कालत्रयविभक्तस्य ‘आकाश एव तदोतं च प्रोतं च’ इत्याकाशे प्रतिष्ठितत्वमुक्त्वा, ‘कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च’ (बृ. उ. ३ । ८ । ७) इत्यनेन प्रश्नेनेदमक्षरमवतारितम् ; तथा चोपसंहृतम् — ‘एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’ इति । न चेयमम्बरान्तधृतिर्ब्रह्मणोऽन्यत्र सम्भवति । यदपि ‘ओंकार एवेदं सर्वम्’ इति, तदपि ब्रह्मप्रतिपत्तिसाधनत्वात्स्तुत्यर्थं द्रष्टव्यम् । तस्मान्न क्षरति अश्नुते चेति नित्यत्वव्यापित्वाभ्यामक्षरं परमेव ब्रह्म ॥ १० ॥

स्यादेतत् — कार्यस्य चेत्कारणाधीनत्वमम्बरान्तधृतिरभ्युपगम्यते, प्रधानकारणवादिनोऽपीयमुपपद्यते ; कथमम्बरान्तधृतेर्ब्रह्मत्वप्रतिपत्तिरिति ? अत उत्तरं पठति —

११ सा च प्रशासनात् ॥

सा च अम्बरान्तधृतिः परमेश्वरस्यैव कर्म । कस्मात् ? प्रशासनात् । प्रशासनं हीह श्रूयते — ‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ (बृ. उ. ३ । ८ । ९) इत्यादि । प्रशासनं च पारमेश्वरं कर्म ; न अचेतनस्य प्रशासनं भवति । न ह्यचेतनानां घटादिकारणानां मृदादीनां घटादिविषयं प्रशासनमस्ति ॥ ११ ॥

१२ अन्यभावव्यावृत्तेश्च ॥

अन्यभावव्यावृत्तेश्च कारणाद्ब्रह्मैवाक्षरशब्दवाच्यम् , तस्यैवाम्बरान्तधृतिः कर्म, नान्यस्य कस्यचित् । किमिदम् अन्यभावव्यावृत्तेरिति ? अन्यस्य भावोऽन्यभावः तस्माद्व्यावृत्तिः अन्यभावव्यावृत्तिरिति । एतदुक्तं भवति — यदन्यद्ब्रह्मणोऽक्षरशब्दवाच्यमिहाशङ्क्यते तद्भावात् इदमम्बरान्तविधारणमक्षरं व्यावर्तयति श्रुतिः — ‘तद्वा एतदक्षरं गार्गि अदृष्टं द्रष्टृ अश्रुतं श्रोतृ अमतं मन्तृ अविज्ञातं विज्ञातृ’ (बृ. उ. ३ । ८ । ११) इति । तत्रादृष्टत्वादिव्यपदेशः प्रधानस्यापि सम्भवति ; द्रष्टृत्वादिव्यपदेशस्तु न सम्भवति, अचेतनत्वात् । तथा ‘नान्यदतोऽस्ति द्रष्टृ, नान्यदतोऽस्ति श्रोतृ, नान्यदतोऽस्ति मन्तृ, नान्यदतोऽस्ति विज्ञातृ’ इत्यात्मभेदप्रतिषेधात् , न शारीरस्याप्युपाधिमतोऽक्षरशब्दवाच्यत्वम् ; ‘अचक्षुष्कमश्रोत्रमवागमनः’ (बृ. उ. ३ । ८ । ८) इति चोपाधिमत्ताप्रतिषेधात् । न हि निरुपाधिकः शारीरो नाम भवति । तस्मात्परमेव ब्रह्माक्षरमिति निश्चयः ॥ १२ ॥