व्याख्याननिर्माता श्रीसचिदानन्देन्द्रसरस्वतीसंयमिनः
0
Cover blurb
Swaumi Satchidananda Saraswatiji’s New Sanskrit Commentary not only lays bare every esoteric doctrice taught or implied in the Karikas, but also effectively renoveg all misconceptions that have gathered round Gaudapada’s teachings. Besides incorporating and elucidating the whole of Shankara’s Bhashya, the learned Swamiji bus deftly woven out extracts from Shankara’s other Bhashyas juto his work, so that every statement, while it is in itself an appeal to reason and experience, is also rendered convincingly authoritative.
It may be confidently claimed that this is the first attempt of its kind to present both Gandapada and Shankara in their true perspective. The fundamental difference in philosophy between the Vedanta of these two eminent thinkers one the one hand and the Mahayana teachers on the other, has been clearly brought out both in the English and the Sanskrit Introductions.
Three appendices and a Subject Index greatly enhance the valuo of this work, which is really a unique contribution to Vedantic Literature.
PUBLISHERS’ NOTE
The booklet now published contains an original commentary on the “Pratahsmarana Stotra” or Morning Meditation Hymn by Sri Bhagavatpada, generally identified with the famous Shankaracharya.
While we have no satisfactory means of ascertaining whether or not the hymn is really the production of the well-known writer of the celebrated commentaries on the Classical Upanishads, the Bhagavadgita and the Vedanta Sutras, the style and subject-matter of the work incline us to believe in its genuineness.
The main object of the hymn is to commend, to aspirants after the Highest Goal of Human Life, the meditation of the Supreme Reality underlying the Universe as their very Self.
The Commentator Sri Satchidananda Saraswati Swamiji has, in his own inimitable style, developed the theme in a thought arresting manner, and shows how the hymn really condenses the most essential doctrines of the Advaita Vedanta in three short verses. His presentation of the subject in the form of a dialogue between master and pupil, rouses and sustains the interest of the curious reader till he comes to the very end of the book.
We hope that the reading of this brochure, will prove an earnest attempt to students of Vedanta to study the larger works of the Swamiji such as the Sugama and the Mandukya Rahasya Vritti.
We have been asked to convey Sri Swamiji’s Narayana Smaranams to ibe following Pandits who have helped the author by offering useful suggestions: Pandit pravara Sri Kodur Krishna Jois Asthana Vidwan of Sringeri Peetha; Pandita Pravara H. Ananta Murty Sastri, Tarka Professor, Sanskrit College, Bangalore ; Vedanta Siromani 8. Vittala Sastry, Astana Vidwan, Mysore Palace and Vedanta Siromani Parakkaje Subramanya Bhatta.
Holenarsipur,
16-3-1969
PUBLISHERS
THE ADHYATMA PRAKASHA KARYALAYA
HOLENARSIPUR (Hassan Dist.) THE ADHYATMA PRAKASHA KARYALAYA ( ESTABLISHED 1920 ) HOLENERSIPUR (Hassan District, Myrere State)
An Institution to help the interpretation of Indian Culture by stimulating the study and practice of the Adhyatma Vidya Philosophy and Religion in its universal aspect- especially as revealed in the Upanishads and allied literature,
- Has so far published more than A HUNDRED BOOKS in Kannada, Huglish and Sanskrit.
- Arranges for frequent DISCUSSIONS, DISCOURSES, and PUBLIC LECTURES, VEDANTA CLASSES in the morning form à regular feature.
- Fas a free lending LIBRARY and a READING ROOM for the public,
- Conducts & Kannada Monthly Magazine called the “ADHYATMA PRAKASHA”, devoted to Gnana, Bhakti and Vairagya.
- Maintains a VEDANTIC COLLEGE with the object of training up model students who regard the spread of Vedantic ideas as their goal in life.
Please apply to the Manager for fuller information.
वाचकेषु विज्ञप्तिः
এলাষ্টি সন্তান হয় এই কাৰ লগন্যায় নি, যষ্টি কাৰৰ গানগলসলিখাশামের বিস্তানি ঈম। শাকসবক্সিমাধি সক্ষষ্ট {} স্বাক্ষম: বলিজ , {২} লীগঞ্জ , ) লিখন কইলজাৰ গঙ্গা বাঙ্গায়ক্ষিকা, মাংসুখলচ্চি,
মেক্ষিঙ্গা নাগরিক সনালয়শিক্ষাগত ফল হলেন মলন দ্রোহে তিনই সকত:ইনি জানা
মালিঙ্গা মুসু পরী মমি সংহৰি মাৰল ? গম: মাইক গাণাগ বাক্সসিম্বাশ্বাস্য মং জুন নারী শ্রমিক কারুফাঃ যাবি। নিবনমাননার্মান বালা বনমুখস্কাগ উন্নয়ন খুটির সাক্ষা দীনালনি ?
লুমৰাৰণতাটার্জিং বল্লন্ডাঙ্গা লিল্লালুপাস না মানা না । • নুরজাহান: সনাল সংলগ্ন; } হারাশিকাকিল ত্যা মাতলি বঙ্গ বঙ্গ সাহিত্যানু নিগুলি মই - बती अतिकदाहता। ब्रह्मविद्याया अनुभवावसानत्वं पदे पदे स्मारयन्तीनां চান্দাবানার গান নিমগাপ্রধান গুলা বলল মুখালিই নীলগঙ্গা। ভাস্কাশন নম বঙ্গ নামালালা ডিপ্লোমা কৃমি হাত ছিল জার্নালৰান্তবর্তী
शरणीकतन्यप्रचारमार्थमेव च गुरुशिष्यवादवेपत्वमारचितं प्रकरणस्य । लढता प्रपतिमतिपत्तित्रयसंगाने प्रयतमानानां कियत् साहाय्यक स्यादे দয়ায়ায়ালা
নিঃলন গীশিক্ষাঙ্গিণ।
तदिदममो प्रकरणं श्रीमद्भगवत्पादाचायकृतमिति प्रथामनुभवन्ति । यद्यपि तदभिख्यया जगत्ममि हानां प्रातः स्मररियानां श्रीशङ्करभगवत्पादक चार्याणामेवेयं कृतिः, अहोस्थिति निश्चतुं पर्यातप्रमाणानि न सन्ति प्रत्यारात - शोधकसंमतानि, तथापि प्रसन्चगम्भीरत्यतया तरवारचितमिदमिति विश्वास मापादयन्ती तनावप्रतिपादनाली बिभर्ति प्रकरणमित्या नु न काचिन शीतिः। तस्यास्य सच्याख्यान प्रकाशनेऽवकासमनुगृहीतवन्त पुरूषोलम नारायण भगवन्तमनुदिन मनाया नमम्ये इति ।
विम्बिसंवत्सरे । माघ कृ । द्वितीयायाम् )
औशङ्करचरणस्मरणादलम्बी सच्चिदानन्देन्द्रसरस्वती भिक्षुः
विषयानुक्रमणिका ( अत्रत्या; संख्या ग्रन्थस्नगडमूनिकाः) - 40
पत्रपृष्ठम् ग्रन्थावतरणिका १. आत्मा सच्चित्सुखात्मकं ब्रौत्र हदि मंगुरदात्मतत्वम् १-४) - यत् स्वप्नजागरसुघुतमवैति नित्यम् (५-२४) - सञ्चित्सुखम् (२५-५१) ~ तुरीयम् (५२-५४) - परमहंसगतिम् (५५-५८) - तद्ब्रह्म मिश्कलमहं न च भूतसङ्घः (५९-६३) - प्रातः स्मरामि (६४).
२-३० २. आल्मा स्वयंप्रकाशं ब्रह्मैव योति तिवचनर्निगमा अबोचुः (६५-६७)- मनसो वचसामगम्यम् ,
वाचो विभान्ति निखिला यदनुग्रहण (६८-७१)- तं देवदेवमज मच्युतमाहुरम्यम् (७२-७४) - प्रातर्भजामि (७५). ३१-४०
३. आत्मैवेदं सर्वम् यस्मिन्निदं जगदशेषमूतौ प्रतिभाति (७६-४०) - रज्ज्वों भुजङ्गम इच (८१-४३) – तमसः परमर्कवर्णम् (४४-४७) - पूर्ण सनातनपदं पुरुषोज़मान्यम् (८८-९३) - प्रात्तनमामि (९२) ४१-४९
४. स्तोत्रपठितृणां फलम् लोकत्र्यमिदं लोकत्रयांत्रिभूषणम् (९३) - पठितृणां क्रोण परमपद
प्राप्तिः (१२),
५०-५१ सार्थविशेषशब्दानुक्रमणिका
પર
सङ्केताक्षर विवरणम्
ऋदेवसंहितामा केनोपनिषति
छान्दोग्योपनि दि तैत्तिरीयोपनिदि না নাহলুল गृहदारण्यकोपनिषदि माण्डूक्योपनिषदि सुण्डकोपनि यदि
शेताश्वतरोपनिषद
अशुद्धिशोधनम्
पनीय
समानयाचा
अन्यायाम
३८
संख्या १ द ऋदा सवा
अदा कदा कावेदान्त बाल बोधिनी
(प्रातःस्मरणस्तोत्रव्याख्या)
अवस्थात्रयसाक्षी यो मनोवाचामगोचरः ! नेतिनेत्यागमादिष्टो हात्माऽद्वैतो गतिर्मम ।।
ग्रन्थावतरणिका
इह खलु सर्व एवं जनाः प्रातः लुप्तेरुत्थितमात्रा एव बाह्य विषयव्यवहारानुसंधानपरा भवन्ति निसर्गतः । रात्रौ पुनः सुतिप्राप्ति पर्यन्तं च सर्वदा दारापत्यक्षेत्रगृहवित्तादिचिन्तानिममा देहादिषु प्रतिदिनमुत्तरोत्तरं परिवर्धमानेनाममाभिमानेन संदूषितान्तःकरणा विषयचिन्तनकथनादिनैव व्यर्थ काल नयन्तः परमपुरुषार्थदायिनि स्वात्मतत्वज्ञानलाभे स्वल्पमध्यवकाशमलममाना भूयो भूयः सुखदुःख जननमरणप्रबन्धलक्षणसंसारख्यथामनुभवन्तीति तेष्वनुकम्पया आद्रहृदयः श्रीभगवत्पादाचार्यः, तादृशसंसारान्मोक्षमाणानां जनानामनुग्रहार्थम् ‘तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाहुहुन्छब्दा न्याची विलापन हि तत् ॥’ (बृ. ४-४-२१), ‘अशुभानि निराचष्टे तनोति शुभसन्ततिम् । स्मृतिमात्रेण यत्युंसां ब्रह्म तन्मङ्गलं परम् (8) इत्यादिश्रुतिस्मृत्युपदेशं स्मारयन् श्लोकत्रयेणैव ब्रह्मात्सैकत्वबोधक परमपावनं प्रातःस्मरणस्तोत्रनामकं प्रकरणमारभते। यस्थायमाधः श्लोकः –
वेदान्तबालयोधिनी
[लो. १ १. आत्मा सचित्सुखं ब्रह्म प्रातः स्मरामि हदि संस्करदात्मतत्र
सचित्सुखं परमहंसगति तुरीयम् । यत्वमाजागरसुगुप्तमवैति नित्यं
तब्रह्म निकलमहं न च भूतसङ्घः ॥१॥
संक्षेपतः श्लोकार्थः यन्नित्यं स्वमजागरसषुप्तम् अवैतीच, अथ च परमार्थत एत दवस्थात्रिकविरहितमेव सत् तदपेक्षया तुरीयं भवति, तत्तादृशं सचि त्सुखं परमहंसगति हृदि संस्फुरदात्मतत्वम् अहं प्रातः स्मरामि । तनिष्कलं ब्रहौवाइम्, न तु भूतसङ्घातः – इति यथाश्रुतश्लोकार्थः ।।
अथैतेषां हृदिसंस्फुरत्तादीनां विशेषणानामभिप्राय प्रश्नोत्तर मालारूपेण व्याख्यास्यामः ॥
हदि संस्फुरदात्मतत्त्वम् ३. हृदि संपुरदिति कोऽर्थः ?
हृदिति मन उच्यते । तस्मिन् संस्करण नाम तन्त्र सम्यग्भास मानता।।
२. ननु सर्वोऽयों मनस्येव भालते। तत्राऽऽत्मतवं मनसि भासत
इति को बा विशेषो विवक्षितः स्यात् ?
अत्रायं विशेषः । आत्मेतरे पदार्था मनसो गोचराः सन्तः प्रतिभासन्ते। मनस्तान गोचरीकृत्य विजानाति। आत्मतत्त्वं पुन
हृदि संस्फुरदात्मतत्त्वाम्
AN
मनस्येव संस्फुरति, न तु मनसो गोचरीभवतीति। अस्यास्तित्वं मन स्येव तु विविक्ततया उपलभ्यत इति कृत्वा हृदि संस्फुरतीत्युच्यते । अन दृष्टान्तः । चक्षुर्घटं पश्यतीत्यत्र घटो बहिः स्थितः सन् , चक्षुषो गोचरीभवतीत्यभिप्रायः। चक्षुषि वेदना भवतीत्यत्र तु वेदना चक्षुष्यनुभूयत इत्येतावानभिप्रायः, न पुनर्वेदना चक्षुषो गोचरीभव. तीत्यपि । तत्र यः पश्यति स्वज्ञानेन गोचरीकरोति स विषयी, यतु तज्ज्ञानस्य गोचरीभवति स विषयः — इति स्थिते सर्व एव पदार्थी मनसो विषया एव भवन्ति । मनश्च तेषां विषयि । न वेबमात्मान गोचरीकरोति मनः। तस्मान्न तस्याऽऽमा विधयः, नापि च तत्र मनो विषयि । अन्यत्रानुपलभ्यमानस्त्वात्मा मनस्येवोपलभ्यते इति मनसो विशेषः । तदेतदुक्तं भवति ‘हृदि संस्फुरत्’ इति ।।
३. ननु यद्यात्मा न केनापि विषयीक्रियते, ततस्तस्य नास्तित्वमेवाऽऽपद्यते ।
कथं तर्हि भवेदस्माकमात्मान्तिलविज्ञानम् ? __ नायमस्ति नियमः, यद्विषयिनिमित्तैव सर्वस्यापि वस्तुनः सत्ता प्रतीतिरिति । यस्त्र हि वस्तुनः स्वयंस्फुरत्ता नास्ति तस्य भवति विष य्यपेक्षा स्कुरणे। यस्य पुनः स्फुरत्ता स्वयंसिद्धा न तस्यान्यापेक्षा । तद्यथा- गृहेऽन्धकारे विद्यमानानां पदार्थानां स्वयंस्फुरत्ता नास्तीति तेषां प्रकाशनाय भवति दीपापेक्षा । दीपस्य पुनः स्वयंस्फुरतः स्वभासैव च सर्वप्रकाशने समर्थस्य नास्ति प्रकाशान्तरापेक्षा । तद्वत् । यस्य हि यो धर्मः स्वभावतो नास्ति तदन्यतस्तमपेक्षत इति युक्तम् । यथा जलान्दि स्वत औध्यरहितं सत्तद्वस्त्वन्तराश्यादेरपेक्षते । एवं यस्य स्वयं. स्फुरणं नास्ति तस्य बाह्यविषयस्य मनःसहकृतचक्षुःश्रोत्रादीन्द्रिय
वेदान्तबालबोधिनी
श्लो. १ रूपकरणसापेक्षा स्फुरणप्रसिद्धिरिति युज्यते ! आत्मनस्तु स्वभावल एव स्कुरणं धर्मः, इत्यतः सोऽन्यतः स्फुरणं नापेक्षते। स्वयंसिद्धत्वात् तस्य स्पुरणस्य । तदेतदनुसंधायोक्तं लोके ‘हृदि संस्फुरत्’ इति । मनसि सम्यवस्फुरत् , स्वयमेव प्रकाशमानम् आत्मतत्वम् इति हि विशेषणार्थः ।।
४. अधात्र आमतवा’ इति तत्वशब्दोपादानेन किं प्रयोजनम् । आत्मैव
खलु हदि संस्फुरनारते? तस्स च तत्वं किं ततोऽप्यन्यदस्ति थेन शब्दाधिक्यादधिक्यमपि भवेत् ? ।
बादम् , आत्मैव हदि संस्फुरति। स तु किं द्रष्टा श्रोता मन्ता विज्ञाता का मोक्तति यथाप्रसिद्ध एच, आहोस्वित् तद्विलक्षण स्वरूप इति विचारणीयमस्ति। तत्र नायं यथावर्णितस्वभावः, यतो न नित्यं देहेन्द्रियादिसंघातयुक्तः । किं तु सञ्चित्सुखात्मक:- इति बेदा. तोक्तरीत्या अवस्थात्रयविचारणादवगम्यते । तदेव तु तस्य तत्त्वमि त्यभिप्रायेणोच्यते ‘आत्मतत्त्वम्’ इति । अतो न दोगः ॥
यत् स्वभजागरसुगुप्तमवैति नित्यम् ५. कथं नु द्रष्टश्रोतृत्वादिस्वरूपविलक्षणो भवेदारमा! न हि देहेन्द्रियादि
संघात परित्यज्य क्षणमपि स्थातुमीष्टे ऋश्चिदपि पुरुषः । न च संघाते स्थितस्य दृष्टिश्रुतिमत्यादिवियोग; चिदृष्टो व्यवहारे । तद्धियोगे व्यव. हारस्यैवानुपपनेः। कथं वा सजिलुखात्मक इत्यवगम्यत आत्मा ? अस्तित्वज्ञानसुखदुःखादयो हि तस्य धर्मा न तु स्वरूपमृता एव। न हि जाचिकश्चिदेवं प्रतिपद्यते केवलगचित्सुखात्मकोऽहम्’ इति । एवं तु स्वात्मानं विभावयति सर्च: ‘अयमहमस्मि द्रष्टा श्रोता त्रिज्ञा मात्मा का भोक्ता ’ इति ।
*लो. १] यत् स्वप्नजागरसुगुप्तमवैति नित्यम्
सत्यमेवं यदा जागरितपरिच्छिन्नदृष्टव हवात्मानमीक्षते । वस्तुतस्तु न जागरितावस्थामात्रपरिच्छिन्नोऽयमात्मा । किं नाम, स्वप्नजागरसुषुप्ताख्यमवस्थात्रयमपि नित्यमवैतीति सर्वजनीनानु भवेन सर्वावस्थाव्यतिरिक्त एवं। एवं च, अवस्थात्रयस्यास्य परीक्षणेन यदि जिज्ञासुरात्मस्वरूपं विवेचयेत् , तदा यथोक्तरूपमेव त्वात्मतत्त्व मित्यवधारयेत् इति वेदान्तनिष्णाताः प्रति जानते ।।
६. कथं वा एतासासवस्थानां परीक्षण कर्तव्यम् ?
उच्यते। किं नाम जागरणम् ? तत्कस्य भवति ? किमात्मा सर्वदा भवत्यस्यामवस्थायाम् ? को वा स्वभावो जागरिते समुपलभ्य मानाना भावानाम् ?–इत्यादि परीक्ष्य निर्धारयितव्यं भवति जागरित विषये। एवं स्वममुषुप्तविषयेऽपि परीक्षणीयं भवति ।।
७. ननु सर्व एव भावाः स्वमे मिथ्याप्रतिभासवन्तः। सुषुझे तु न भवत्येव
कोऽप्यनुभवः । एवं स्थिते स्वप्नसुघुलतत्वे, किमस्ति विचारणीयं तयो विषये ? तदेतदवस्थाद्वयमुपेक्ष्य किं जागरितेनेकेनैव नालं विचारितेन ?
मैवम् । न हि किञ्चिदप्यविचार्य श्रद्धातव्यं याथातथ्येन तत्तं निर्दिधारयिषुणा। यस्मात् , लोके यदुपलभ्यते आपाततो यहूपेण, तद्वस्तुतोऽपि तदूपमेवेति परीक्षणमन्तरेण न ह्यध्यवसातुं शक्यते । भ्रान्तेरपि संभवात् । कचिद्विद्यमानमिव प्रतीतमपि ह्यविद्यमानमेव भवति परमार्थतः। तद्यथा- दूरे स्थितमिव क्वचित् प्रतीयमानं जलं तृष्णा तुरैः पान्थैः समीपं गत्वा परीक्षितं सत् , मरीचिकामात्रमिति निश्ची यते । एवं कचिदविद्यमानवस्तुकमिवाऽऽपाततः प्रतीयमानमपि परीक्ष
वेदान्तबालबोधिनी
श्लो. १
मानन्तरं विद्यमानमहाविषयपूर्णमेवेत्यवधार्यते। तद्यथा कश्चित्पुरुषः स्वगृहे इतस्ततः परिदृश्यमानानां निरुपयोगलिखितपत्राणां प्रदाहे प्रवृत्तः पत्राणामेकैकं निरीक्ष्य अमिसात्कुर्वन् दैवात् तत्तादृशमेकं पत्रमुपलभते यस्मिन् स्वप्रपितामहाय केनचिन्महाराजेन प्रत्तं वंशपारं पर्वेशानुभवयोग्यं ग्रामभूम्यादिविवरणसहितं शासनमस्ति । तदेव मविचार्य यस्यकस्यचिद्धाने, अथवा दुराग्रहेण यस्यकस्यचिदुपादाने महती विनष्टिः स्यात् । तस्मादयस्थानां तिसृणामपि परीक्षा अवश्यं कर्तव्या ॥ ८. अस्त्वेवन् । अवस्थानुक्रमणे किमिति भवद्भिः स्वप्न एव प्रथमः पठितः?
यतस्तस्य मिथ्यात्वं स्फुटमिति सर्वसंप्रतिपन्नम्। अतोऽस्य विचारः शीघ्रतरं शक्यसमापनो भवतीति ।।
९. किं स्वप्नदर्शनमेव मिथ्येत्यभिप्रायः ?
न। स्वमदृष्टा भावाः प्रबुद्धमात्रस्य बाध्यन्ते ‘न ते मया तथ्यत एव दृष्टा भावाः, निद्राम्लानेन तु मम मनसा तथा तथा विकल्पि तम्’ इति । एवं च यद्यपि स्वापकाले विविधभेदाः सत्यत्वेन प्रति भान्ति, तथापि पश्चात्तनवोधान्भिथ्याभवन्तीति स्वामिथ्यात्वं सुखे नैव निश्चितं भवति ।।
साधूक्तम् । अथ जागरितमधिकृत्य विचार: प्रतायताम् । तत्र किं नाम जागरितम् ?
इन्द्रियैवाविपत्रोपलब्धिर्जागरितम् ॥
श्लो. १]
यन् स्वन्नजागरघुतमवैति नित्यान
१३. यद्येवं तर्हि तदेव निने यन्मया भूईमुकम्(५) अवमामा दृष्टा श्रोता
मन्ता विज्ञानात्मा का भोक्तेति च । नहि भगवन्, स्वन इव जागरितेऽपि विषया देहेन्द्रियसंघालो वा मिथ्येति शक्यो बदितुम् । न हि जागरितो. पलब्धोऽयं संघातो माऽऽत्मन इत्यास्थातुं शक्यते। न हि स कस्या जिवस्थायाँ बाध्यते यथा स्वमें विकल्पितः संघातः । अथ कथमयमात्मा
सचित्सुखरूप इति ?
अत्र ब्रूमः । यद्यपि जागरितोपलब्धोऽयं संघातः कस्याञ्चिद वस्थायां न बाध्यते’, तथापि नायमात्मा अनेन नित्यसंबद्ध इति वक्तुं शक्यते। न हि स्वमेऽप्ययमात्मा एतेनैव संघातेन देहकरणवान् भवति। मिथ्याविकल्पितम्यान्यस्यैव संघातस्य दर्शनात् तन्त्र । तस्मा लेतद्युक्तं वक्तुं यदयमात्मा स्वभावत एव द्रष्टा श्रोता की वेति ॥ १२. ननु च भगवन् , तत्रापि जापारितवद्देव द्रष्टवादिकं यत्किचिदुपलभ्यत
एवाऽऽस्मनः । तत्कमयमस्य स्वभावो न भवेदिति ?
शृणु । जागरितदृष्टानि देहकरणानि तावन्न स्वमेऽनुवर्तन्ते । अती नायं जागरितकरणैस्तत्र द्रष्ट्रत्वादिधर्मवान् भवति। यत्नः स्वप्मोपलव्धैः करणैस्तत्र द्रष्टुत्वादिकमिवाभाति, बाध्यत एव तु तत्प्र बोध इति न मिथ्याकरणजातेन तथ्यत एवायं द्रष्टत्वादिधर्मवान् इति भवताऽप्यभ्युपगन्तव्यम् । एवं च स्वभजागरयोः परीक्षणेनेदं तावत् सुनिप्पन्नं भवति यदयमात्मा द्रष्ट्रवादिविलक्षणस्वभाव एवेति ।।
___1. अन्न जाग्रत्स्वभयो दमभ्युपगम्यैव चिन्ता प्रतानिता । एषा हि विचारसरणिः मुलभग्रहणा वेदान्त प्रविविक्षूणां जानत्प्रधानबुद्धीनामिति । वस्तुतस्तु स्वप्रजागरितयोः सर्वसभतेवेति श्रीमद्गौडपादाचायचे तथ्यप्रकरणे निर्धारितम् । तद् रहस्यं तु माण्डूक्यरहस्यनिवृतितोऽवगन्तव्यं प्रौढजिज्ञामुभिः ।।
वेदान्तबालबोधिनी
लिो . १
१३. अथेद जागरितं कस्य भवति ?
किमनेन निर्धारितेन ? ४. यदि तावदयमारमा जागरिते देहकरणादिमान् सदस्थोपलब्धविषया
मनुभवति, ततो यावत्ताबदप्यस्य दृष्टवादिकनस्तीत्यभ्युपगन्तव्यं भवति । अथ न कस्यचिदेशजागरितम्, ततो ‘नित्य स्वमजागरसुषुप्त मवैति’ इति यत्प्रतिज्ञातं तस्य हान प्रसज्यते। अतः पृच्छामि कस्पेई जागरितं भवतीति ।
शृणु तर्हि । य इदमनुभवति तस्य भवति ।। १५. ननु सर्वेऽपि जागरितमनुभवन्त्येव ॥
सर्वेषामपि तर्हि जागरितं भवतीत्यापनम् ।। १६. ननु न कोऽप्यन्त्र निर्णयः कृतः। किं वावगन्तव्यमनेन विचारणेन ?
बाढम् , न कोऽपि निर्णयो भवेदीहशेन विचारेण । जागरितं कस्येति निर्गतुं प्रवृत्तो भवान् सर्वस्यापि तद् भवतीत्यादादेव प्रकल्प्य प्रवृत्त इति को वा निर्णयः स्याद्भवतः ? १७. ननु तथैवोक्तं भवद्भिपि । यो यो जागरितमनुभवति तस्य तख तद्भव
तीति हि भवद्भितम् ॥
सत्यमुक्तम् । न तु मया कदाचिदुक्तं स्वमग्भिरपि जागरित मनुभूयत इति ।। १८. नन्वेष एवाभिमायो ममापि । यद्यपि स्वमङन स्वरकाले एक जागरित
मप्यनुभवेत् , तथापि यो यः स्नान पश्यति स सर्वोऽपि स्वप्नास्थि. तोऽवश्य जागरितमनुभवतीति खलु मयोच्यते ।।
एवम् । न तु त्वत्स्वमे त्वया परिदृश्यमानानां सर्वेषामपि जीवानां जागरितं भवतीत्येतदपि भवताऽभिप्रेयते ।।
श्लो. १
यत् स्वप्नजागरसुघुतमति नित्यम्
१९. किं चातः ?
इदमतो भवति। यथा स्वप्ने भवता परिदृश्यमाना भवत्स्वान एवान्तर्भूताः, न तु तेगं भवस्व विहाय स्वतन्त्राऽपि काचित्सत्ता अस्ति। तथैव भव-जागरिते परिदृश्यमाना भवजागरितान्तर्भूता एव । न तामवस्थां विहाय स्वतन्त्रापि काचित्सत्ता तेषां भवितुमर्हति। अत एवोक्तं मया, यो जागरितमनुभवति तस्यैव केवलं जागरितं भवतीति ।। २०. किं भयेदानी परिदृश्यमानाः सर्वेऽपि नैव जागरितमनुभवन्तीति
भवतां मतम् ?
किं भवत्स्वप्ने परिदृश्यमाना जीवाः सर्वे तं स्वप्नं पश्यन्तीति भवतो मतम् ? २१. भा ! इदानीं ज्ञातं मया। थथा मदितरे जीनाः स्वनं पश्यन्तीय प्रति
भान्ति हकाल, न तु तथ्यत एव तथा, एवं मजागरितेऽभीतरे जीवा जागरितमनुभवन्तीव प्रतीयन्ते इति जातम् । कस्ता वस्तुवृत्तेन जागरितमनुभवति ?
यः स्वात्मानं जागरितमनुभवन्त मन्यत स एव ।। २२. मनु सर्वेऽपि तथैव मन्यन्ते ?
न। परिहतत्वात् । तेषां तथाभिमानवत्वे भवजागरितमेद हि प्रमाणम् । न खलु भवतोऽन्येऽपि भवजागरितमनुभवन्तीति भवता शक्यनिर्धारणमिति परिहृतोऽयं पक्ष: ।। २३. कथमेतत् ?
यद्धि किंचिद्भवता दृश्यते श्रूयते वा तत्सर्व भवजागरितान्तर्गत मेव । न हि भवजागरितव्यतिरेकेण जागरितान्तरं तदनुभविता वा
वेदान्तबालयोधिनी
भवतोपलब्धः कचिदपि। यदि नाम भवता उपलब्धचरं ताइश जागरितमिति कल्प्येत, तदापि भवजागरित एव तस्याप्युपलब्धेर्भव जागरितान्तर्गतत्वमेव तस्यापि स्यात् । न त्वेव तव्यतिरिक्तत्वम् ।। २४. नन्वेवम् , अहमेक एव जागर्मि, न तु सन्ति मद्यनिरिक्ताः केचिदपि के
जाप्रति इति संपन्नम् । एतत्तु सर्वथा अनुभवविरुद्ध प्रतिभाति । न हि भगवन् , मया परिदयमानं जगत् , तदन्तर्विभाव्यमानचेतनाचेतनभाव. सहित सर्व मियामतीतिमात्रमिति संभावनीयमिदम् । किं चैवं जन्मा. न्तरम् , इहलोकपरलोको, घुण्यपापकरणं तत्फलानुभोगचल्येतत् सर्व मिध्येत्वापद्यते। कर्मोपासनासम्यग्ज्ञानशास्त्राणि चैच मियैव स्युः ।
• तथा च सर्दध्यवहारलोपः प्रसज्यते ॥
मैवं भंस्थाः। यत्कारग सर्वमिदं त्वजागरितलब्धसत्ताक मित्येतावदुक्तं मया न तु वजागरितो दलब्ध सबै मिथ्येति। यद्यदुप लभ्यते जागरिते यथा यथा प्रत्यक्षादिप्रमागैनिधीयते च, तत्तत् तथैव स्वीक्रियते व्यवहारे इति कथमङ्ग सर्वव्यवहारलोपप्रसक्तिः । अनेन तु व्यवहारेण किं परमार्थत एवास्याऽऽत्मनः संबन्धः, आहोस्विन्नेत्येता वान् हि प्रकृतो विचारः । तत्र मत्रोक्तं न तेनास्य पारमार्थिकः संबन्धः, यतोऽयं स्वप्न तेन सर्वथा विमुक्तो भवतीति ।।
सचित्सुखम् २५. मध कथमस्याऽमनो द्रष्टवादिव्यवहारविमुक्तस्य सञ्चित्सुखरूपरव
मिति ?
यत्कारणमयमात्मा स्त्रमावस्था जागरितावस्थां चेत्युभे अपिश्लो. १]
सच्चित्सुखम्
५
पश्यति, अत एव सच्चिद्रूपः। अत एव च तत्तदवस्थोपलब्धदुःख संस्पर्शरहितश्चेति सुखरूपः । तदेवमस्य सचित्सुखरूपत्वमवगम्यते ।। २६. ननु मयोक्तं (१४) यावत्तावन्दप्यस्य द्रष्टवादिकसंवन्धोऽभ्युपगन्तव्य
इति। न हि जागरितावस्थायां बाह्यविषयद्रष्ट्रवादिकं तकृतसुखदुःखा दिकं चानुभवन् न दृष्टादिरूपो भवति यावत्तामवस्थामधितिष्टति । एवं स्वप्नमपि यावदधितिष्ठति तावत्तवस्थाविषयकदृष्टवादिकं तपा भ्युपगन्तव्यमेवेति कथं केवलं सञ्चित्सुखरूपत्वं तम्य भवेदिति ?
नैतत्साधूक्तम् । यस्मादयमात्मा स्वप्नावस्थां जागरितावस्थां च पश्यन् चिद्रूपतां न व्यभिचरति । चियत्वमेव चास्य सत्वमिति सञ्चि दूपत्वं तावत्सिद्धभस्य ! अवस्थासहसंबद्धं तु द्रष्टत्वादिकमस्य न स्वा भाविको धर्मः । व्यभिचरदूपत्वात् । यदा खल्वयं जागर्ति तदा न स्वर्ग पश्यतीति न तदवस्थासहसंबद्धं द्रष्टत्वादिकं जागरितेऽनुवर्तते । एवं यदा स्वमं पश्यति तदा न जागर्तीति न जागरितसहसंबद्धं द्रष्टत्वादिकं स्वमेऽनुवर्तते । एवं द्रष्टुत्वादिकमात्मानं व्यभिचरद्दष्टम् । यदि द्रष्ट्रवादिकमस्य स्वभावः स्यात्, न तहान व्यभिचरेत् तत् । न ह्यम्यादीनामाण्यादिक तत्स्वभावभूतमयादिकं व्यभिचरदृष्टं कदा चित् ॥ २७. ननु भगवन् , यावत्ताबदपि दृष्ट्रवादिकमनुभूयत एवेति मया शति
तम्। तत्रै न परिहारों भवितुमर्हति। कथम् ? यस्मिन्नेव देशे काले वा यदनुभूगते, तत्रैव चेत्तयभिवरेत , स्यादपि तस्यास्वाभाविकत्वम् । अनुभूयते चाऽऽत्मनि जागरिते द्रष्टत्यादिकम् , न तु तत्र तब्यभिचार दर्शयन्ति भवन्तः । स्वप्ने तु यतस्य व्यभिचारः प्रदश्यते, न तेन जाग्रदृष्टत्वादिकमपि बाध्यते। न हि देवदत्तः कदाचिद्गङ्गायां स्नातः
१२
वेदान्तबालबोधिनी
श्लो. १
कदाचिद्गोदात्रयाँ जातीत्येतावता तस्य गङ्गास्नातलं बाध्यते गोदावरी. स्नातृत्वं वा। तहत् ॥
विषमोऽयं दृष्टान्तः। तत्र हि गङ्गा गोदावरी चैकस्मिन्नेव भरतखण्डे युगपदिन्नदेशनोः प्रबहतः। ततो यदा गोदावर्या स्नात. सदा न गङ्गायामिति चर्नु युज्यते। अत एव नधोस्तयोः पारमार्थि. कत्वम् । अत्र पुनः स्वप्नजागरिते नैव युगपद्भवतः कस्यचिद् । न च यदैव जाग्रद्रष्टुत्वादिकमनुभवति तदैव स्वप्रद्रष्त्वादिकमपि कुत्र. चिदन्यत्र वर्तत एव । गङ्गायां वाराणसीसमीपे प्रवहन्त्यां गोदावर्यपि नासिकासमीपे स्वतन्त्र प्रवहति यद्धत् । अतो यस्मिन्नेवाऽऽत्मनि जाप्रष्टत्वादिकमभिमन्यते, तस्मिन्नेव तव्यभिचरति स्वागद्रष्ट्रवाद्या. भासात्मलाभे । तद्विपर्ययेण च स्वाप्नद्रष्टत्वादिकमपि तत्काले सत्यत्वेन विभाध्यमानं व्यभिचरति जागरितद्रष्टुत्वाद्यात्मलाभे इति सम्बगेवोक्त द्रष्ट्रत्वादिकं नात्मनः स्वभावः, रजतत्वादिकमिव शुक्ल्यादेरिति । अथ यदुक्तं जागरिते यावत्तावदपि द्रष्टत्वादिकमनुभूयत इति। तत्र ब्रूमः । तत्राप्यवस्थायां यदायं द्रष्टा तदा न श्रोता, यदा च श्रोता तदा न द्रष्टा । यदा पुनरचं मन्ता तदा न द्रष्टा नापि श्रोतेति सर्वानु. भवसिद्धमेतत् । न चान्य एव श्रोता, अन्यस्तु द्रष्टा इति सम्यक् । योऽहं तदा अशृणवं सोऽहमेवेदानी पश्यामीति प्रत्यभिज्ञानात् । तदेवं दृष्टिश्रुत्यादीनां तदभावानां च यश्चेतयिता स दृष्टयादिधर्म रहित एव नित्यसच्चिद्रूप इति गम्यते। किं चानित्यानां मूर्तानां च चक्षुरादीनामेव संयोगवियोगधर्मित्वात् दृष्टयाद्यनित्यधर्मवत्त्वमिति युक्तम्। न त्वात्मनो विषयसंयोगजद्रष्टुत्वादिकं संभवति । तस्य
श्लो. १]
सन्चित्सुख
१३
नित्यत्वादमूर्तत्वाच्च संयोगधर्मित्वानुपपत्तेः। इत्थं च जागरितेऽपि यद्रष्टुत्वादिकमवभासते, तत्तु चक्षुराापाविनिमितमेव न स्वाभाविकमिति सिद्धम् । उप समीपे आधीयन्ते तत्तद्धर्मवत्त्वापादनायेत्युपाधय उच्यन्ते
चक्षुरादीनि । यदैव हि चक्षुरादीनि संनिधीयन्ते तदैवाऽऽत्मनो द्रष्ट. स्वादिकं भाति नान्यदेति। स्वप्ने पुनरूपाधीनामपि व्यभिचारात्सुतरां न द्रष्टुत्वादिमत्त्वमित्युक्तम् ॥ २४. एवमपि कथमस्याऽऽत्मनः सञ्चित्सुखरूपतत्पन्न अद्यापि न मम
निश्चयो जातः । किं कारणम् ? मधं हि भवद्भिरत्र परमार्थसत्यत्व मभिप्रेयते व्यवहारे सधधर्मवावेन प्रतीनमानानां व्यावृत्यर्थम् ! सत्यत्वं हि नाम सदाऽव्यभिचरितकरूपेग विद्यमानत्वम् । न च घटादीनां तदस्ति । स्वकारणच्यतिरेकेण तेत्रामनुपलब्धे। स्वमावस्थायां सुतराम सवाच। तत्रेश सचामारमनोऽपि न विद्यते। न ह्ययमात्मा सदा एकरूपेणैव विद्यत इति शक्यमवस्थातुम् । तत्कथमस्य विवक्षित सत्व मिति ?
शृणु। एष ह्यात्मा सर्वत्र सर्वदा झानकरूपेण प्रकाशते। अत एव सिद्धमस्य चित्वात्मकं सत्त्वं स्वभाव इत्यबोचाम!! २५, ननु ज्ञानं नाम जानातिधात्वर्थी मनोधर्म:! कथमिदमात्मनो नित्यस्य
धर्मः स्थान् ? अभ्युपगम्याप्यस्याऽमधर्मत्वमात्मनः सचमध्यवसातुं न प्रभवामि। कथं हि जागरिते ‘इदं जानामि’, ‘इदं ज्ञान्यामि’ इति प्रतिविषयभेदम् सायन्तयुक्तज्ञानविक्रियावान् सदा एकरूप इत्य ध्यवस्येत? जाग्रत्वमर्शियं तु स्फुटमेवास्य विक्रियावचमावहतीति नैवाहं जाने कथमयं सद्रूप इति ॥
शृणु तद्यथा। न तावजागरितविषयाः स्वयंस्फुरणस्वभावाः केनचिदभ्युपगम्यन्ते । ‘इदं शृणोमि’, ‘इदं पश्यामि’, ‘इदं जिघ्रामि’
वेदान्तबालबोधिनी
[लो. १
इत्यादिरूपेण हि सर्वेषामनुभवः । तस्माद्यपि शब्दादिविषयविषयी करणं श्रोत्रादीनामेय, तथापि तच्छ्रवणदर्शनप्राणनादिधु योऽनुगतो ज्ञाता स ज्ञानेकस्वभाव इत्यभ्युपगन्तव्यम्। न चेदं ज्ञानं मनसो धर्मः। यतस्तस्यापि मनसो रूपभेदाः पृथग्विधाः स्वप्रकाशनाय स्वोत्पत्तिविनाशसाधनाय च निमित्तान्तरमपेशन्त एव । तदेतन्निमित्तमेवा. ऽऽ.मनो ज्ञानमित्युच्यतेऽसाभिः । अतः सिद्ध ज्ञानकरूपत्वमात्मनः॥
३०, नैताक्तमिक का कृत्वा ? मनोव्यतिरिक्ताः शब्दाइप्रस्तावत्स्वयं
स्फुरजहीना इति मनसो विषयीभृता एवं विज्ञायरन् । मनस्तु स्वच्छ द्वन्ध सवैप्रकाशनसमर्थमिति तस्यैव धर्मो भवितुमर्हत्ति ज्ञानम् । मनसैव हि विजानाति सुरूष इति प्रसिद्ध मतलोके। न पुनस्तस्यापि प्रकाशा न्तरापेक्षा भवति । उपन्यस्तः खलु भवद्धिदेव दीपदृष्टान्तोऽन्नति ।।
मैवं सोम्य वादीः । किं भवदुसन्यायेनैव चक्षुःश्रोत्रादीन्यपि स्वेतरविषयीकरणसामर्थ्यवन्तीति तत एव स्वयंप्रकाशस्वभावानि भवेयुः। तथा च चक्षुरेव स्वात्मानं प्रकाशयेत् , श्रोत्रमेव च स्वात्मानम् । न हि भद्र, तथा दृष्टचरं कचित् ।।
३१. नन्विदम् आत्मन्यपि समानं चौद्यम् । यद्यप्यात्मा स्वान्याविषयीकरण.
समर्थः, कथं तावता तस्य स्वप्रकाशनसामर्थ्यमपि स्यादिति ? न मात्मा स्वयमेवात्मानं कदापि प्रकाशयति । इत्ये च तस्य प्रकाशने वस्वन्तरापेक्षा स्यात् । तदप्यस्त्विति चेत् तस्यापि प्रकाशकवस्पत. रापेक्षा। ततस्यापीति कुन वा स्थावस्थानम् ?
मैवम् । चक्षुःश्रोत्रादीनां ताबदनेकत्वात् संहतत्वात् परार्थत्वं दृष्टमेव! हि तेषां मनसे स्वस्वविषयसमर्पणम् । एवं मन
लो, १]
सञ्चित्सुखम्
सोऽपि रूपभेदा नानाविधाः संहतत्वात् परार्था एवेति गम्यते। अनु. भूयते च तेषामात्मार्थता । आत्मा तु नानेकम्वभावः । न परेण केन चित्संहतः, न वा चक्षुरादिवदेकैकबिषयमात्रग्राहकः । मनस्तु यद्यपि स्वेतरं सर्वमपि विश्यीकरोति, नैव तथा आत्मानमपि विषयी. कर्तु प्रभवति, अङ्गीकृतं. चैतद्भवतापि। आत्मा पुनर्नवं मनो न विजानाति। आत्मैव च मनसा सर्व विषयीकृत्य विजानातीत्यपि सुप्रसिद्धमेतत् । यथा हि लोके सुलोचनसाहाय्येन सर्व पश्यतः स्व भावत एव दर्शनशक्तिर्विद्यते। न तु सा शक्तिः कदाचिदपि सुलोचन स्येति भवति, एवं करणस्य सतो मनसो न कदापि भवति ज्ञानशक्तिः । तस्मादात्मैव सर्वदा ज्ञानस्वभाव इति सिद्धम् ।।
३३. ननु भगवन् मानो नानाविधान् विषयान् इन्द्रियद्वारेण विजानातीति
लोके प्रसिद्वमेतत् । तत्र मनसः किं कृत्यमधिकृत्यैवा प्रसिद्धिर्भवेत् ?
शृणु तत्कृत्यम् । यदा यदा विषयज्ञानं जायते तदा तदा एतन्मनश्चक्षुरादीन्द्रियद्वारा निर्गत्य तत्तद्विषयाकारेण परिणमते। त एते परिणामविशेषा मनसो वृत्तय इत्युच्यन्ते । तथा तथा हि विषया कारेण विपरिवर्तन्त इति कृत्वा । प्रत्यया इति च व्यपदिश्यन्ते । प्रत्येति ह्यात्मा विषयानेभिरिति। तदेवं मनोवृत्तिरूपेषु नानाविधेषु प्रत्ययेपूत्पद्यमानेषु विलीयमानेषु चायमात्मा नित्यविज्ञानकरूपतां नैव व्यभिचरति । मनसो वर्णितप्रकारेण तद्विषयाकारपरिणति विना विषय ज्ञानं नैव जायत इत्येतदालक्ष्य जना वदन्ति मन एव तु विषयान् वि. जानातीति। वस्तुतः करणभूतस्य तस्य ज्ञानकर्तृत्वं नैव घटत इति तु
वेदान्तवालबोधिनी
हले. १
व्यक्तमेव । अत एव च ‘पूर्वमदोऽज्ञासिपम् , इदमिदानीं जानामि’ इति व्यवहारोऽप्यवकल्पते। यदि हि मानसप्रत्यया ज्ञानकारोs भविष्यन् , तर्हि तेषां नानात्वात् ‘अहमेव पूर्वभज्ञासिषम् , सोऽहमेवेदानी जानामि, भाविकाले च ज्ञास्यामीति व्यवहारो नैवाभविष्यदिति ।। ३३. नन्वं प्रतिविश्य ज्ञानभन्यथान्यथा जायत इति तेन ज्ञानविशेपेण
विकारदानेवाऽऽत्मा ज्ञाता भवतीति कथं ज्ञानकस्वरूप इत्यवगन्तु धार्यते। यदि नाम कथाचित् ज्ञान स्वरूप सादात्मनः, तथापि ‘ज्ञानं जातम्’, ‘ज्ञानं नष्टम्’ इत्यनुभवदर्शनात् भात्मैव तदा तदा जायते नश्यति चे. त्यनिमापद्येला तथा हि नित्यचित्स्वभाव इति प्रतिज्ञा हीयेतेति ।।
न युक्तैमा तबाऽऽशक्षा । यतो मनसि विविधाः प्रत्यया जाय. मानाश्चियाप्ताश्चिदाभासाश्च जायन्त इति तानात्मतत्त्वाविवेकिनो जना ज्ञानशब्देन व्यपदिशन्ति। व्यवहरन्ति च ‘ज्ञानं जातम्’, ‘ज्ञानं नष्टम्’ इति । यः पुनरनुभवस्तद्विषयक उदाहृतस्त्वया, स एव त्वात्मनो ज्ञान स्वाभाविकमभिप्रेतमस्माभिः। तत्तु नैव कदाचिजायते नश्यति चेत्येकरूपमेव। एवं च ‘अहमदोऽज्ञासिषम्’, ‘इदमिदानी विजानामि इत्यादिस्थले जानातिविक्रिया मनस एव । सा च विक्रिया तत्तद्विषयाकारप्रत्ययरूपेण परिणाम आत्मचैतन्याभाससहितो ज्ञानशब्द वाच्यश्च लोकव्यवहारे । झानशब्दलक्षितस्वरूपं त्वात्मन एव । तचैत स्वरूपं सदैकरूपं न तु मनःप्रत्ययवद् व्यभिचरस्वरूपम् । तदेत दुभयमविविच्यैव तु लोके व्यवहारः ‘अज्ञासिषम्’, ‘जानामि’ ‘ज्ञास्य मीति चेति न तेन आत्मनः किश्चिद्धीयते। तदत्र तत्त्वजिज्ञासुन वेबमनुसंधेयम् । लोके हि विविधवर्णानि सुलोचनान्युपधार्य पश्य
लो. १]
समिमुलम्
विषया अपि तत्तद्वर्णा इवावभासन्ते। तत्र वस्तुनि वर्माध्यारोपः सुलोचनकृत्यम्। वस्तुदर्शनं तु सदा चक्षुष एव भवति। एव मिहापि ज्ञानं नामाऽऽत्मनः स्वभाव एव। प्रत्ययास्तु ज्ञानाभासाः केवल मनसो विकारा इत्यवगम्यते । किंचान्यत् , मनस्तावद् युगपति. विधविषयाणां प्रकाशनाय यथास्थितं नैव प्रभवति । तद्विषयाकारं प्राप्यैव तु स्वात्मचैतन्यप्रकाशाभासं सहायीकृत्यैव च क्रमेण विषयप्रकाशनाय कल्पते । आत्मा पुनः स्वरूपभूतेन चैतन्येन यथा वस्थितेनैव युगपन्मनसः सर्थी वृत्तीतदस्तमयं च प्रकाशयतीत्यनुभव सिद्धमेतत् । अतोऽपि ज्ञानस्वभाव आत्मेत्यवसीयते ॥
३४. एतावता विचारेण कि निीतं भवति ? . एतद्विनिर्णीतम् , सदात्मा जाग्रति मनसि विविध विक्रिय मायोऽपि तद्विक्रियाः सर्वा अवभासयन् स्वतश्चिद्रूपतां नैव व्यभिचर तीति ! स्वप्नेऽपि देहेन्द्रियविषयादिशून्ये तदाभासत्वेन मनोवासनाया मुपलभ्यमानाचामपि तेनैव स्वरूपेणावतिष्ठत इति सञ्चिद्रप एव सदाऽय मिति ।।
३५. एवं तर्हि स्वमजागराम्यां सबिक्रिय एव त्यामेति प्रासम् । भलत्यपि
यस्मिन्नन्यत्तरावस्थागतविषयनिमित्तविकारे भवस्थादयानुभवोऽस्य दुरपालन एवेति ॥
न। परिहतत्वाच्छकायाः। न हिं स्वमजागरयोयुगपदनु भवोऽस्ति, न चान्यतरानुभवकाले तदन्यावस्थायाः कुत्राप्यन्यत्र सद्भावः शक्यशङ्क इत्यात्मद्रष्मृत्वस्वभावपरीक्षणे परिहृतैपा शक्का ।
१८
वेदान्तबालबोधिनी
[श्लो. ९
तस्मान्न ताम्मामवस्थाभ्यामन्योन्य व्यभिचरन्तीभ्यां सदैकरूपस्याऽऽत्मन सविक्रियत्वं शक्यं शङ्कयितुं यथा रज्ज्याः सर्पोदकधारावभासाभ्याम् ।।
३६. आत्मनः चितपताशं समदानी प्रत्ययो जातः। अथ कथमयमात्मा
सुखरूप इति विद्यारयितव्यम् ॥
न विचारसितव्यमेतत् । यतः स्वम जागरितगतसर्बोप्लव. राहिल्यादेवाऽस्य सचिद्रूपस्य सुखरूपतापि निरातकं सिध्यति । अथापि भवतन्तुष्यर्थ ब्रूमः । लोके सर्वजन व्यवहारतोऽप्यात्मनः सुखरूपता अवगम्यते। कथम् ? लोकः खलु दारपुत्रवित्तक्षेत्रादीन् बहिर्विषयान् सवानपि स्वात्मार्थमेव कामयते । एवं देहेन्द्रियमनांसि च स्वात्मार्थमेव प्रियाणि मन्यते। एषां हि यद्यन्यतमं स्वप्रतिकूलं प्रतिभाति तत. स्तद्धानाय यतते, यदेव तु स्वानुकूलवेदनीयं भवति तदुपादानाय च। अत इदमनगम्यते, आत्मार्थमेव सर्व प्रियं भवतीत्यात्मैव सर्व. प्रियतम इति। न च दृष्टमेलद् यदःखरूपे कमिश्चिदपि वस्तुनि प्रेम प्रसारण नाम जनस्य ! आत्मनि तु निरतिशयं प्रेमैव सदा भवतीति सिद्धं तस्य नित्यसुखरूपत्वमिति ।।
३७. ननु भगवन केचिजना आत्मन्यपि विरता आत्महत्यायामपि प्रवर्तन्ते ।
__ तदिदं कथमुपपोत बदि मुश्वरूपलामेबाऽऽत्मन एकान्ततः ?
नैष दोषः। मिथ्यात्मनो दुःखरूपत्वनिदर्शनेन सत्यात्मनः सुखरूपताया अप्रतिघातात् । न ह्यहं देहादेरात्मत्वं जातुचित् प्रति ज्ञातवान् , येन तदुःखरूपत्वनिदर्शनेन सत्यात्मा नकान्तेन सुखरूप इतिह स्यात् । अथाभ्युपगम्यापि ब्रवीमि। तच्छृणु यथा भवदुदाहृतदृष्टान्ते ने
ओ. १
सन्चित्सुखम्
नाप्यात्मनः सुखरूपतैव दृढीकृता भवति । यत्सत्यं देहादावपि भवत्यात्ममतिर्निसर्गतोऽज्ञलोकस्येति। तथापि यावत्तलिन् आत्ममति. स्तेषाम् , तावत्तस्मिन् मिथ्यात्मन्यपि प्रियत्वबुद्धिरेचानुवर्तते न त्वप्रियत्वं कचित् । अत एव हि मूढो जनः पापाचरणेनापि देहादिपरिरक्षणे यत्नवान् भवति । यदा पुनम्तसिन् दुःखरूपता पश्यति जनः, यथा तीव्रतररोगाद्युपहत आत्मघातेऽप्युद्यतः, तदा नैव तस्मिन्नात्मबुद्धि रवतिष्ठते। यतस्तद्धतिरिक्तमात्मानं प्रिय मत्वैव, तत्कामायैव दुःस्वरूपं तदेहादिकं परितित्यक्षति । तदेवं यस्य कृते सर्वस्याप्पनात्मनः कचित्र प्रियत्वेनाभिमतस्यापि परिजिहीषी समुन्मिपति, स आत्मा सर्वस्मात् प्रियतरो नित्यनिरतिशयसुग्वरूप इति भवद्दष्टान्तेनापि दृष्टीकृतं भवति । तथा हि लोकानुभवानुवादिनी श्रुतिः — न वा अरे सर्वस्य कामाथ सर्व प्रियं भवत्यात्मनस्तु कामाय सर्व प्रियं भवति ।। (बु, २-४-५) इति ।। ३४. ननु च भगवन् , जागरिते सत्येन मनसा सत्येन चेन्द्रियजातेन सत्यान
विषयान् उपलभमान भात्मा चिद्रूपेण सर्वदा एकरूपत्वात् , निरतिशय प्रेमास्पदत्याच मञ्चित्सुखात्मक इत्यवगन्तुं शक्यते। स्वो पुनः .. सर्वधानिश्चितमिथ्यारूपे कथमिदं शक्यावगममिति ?
किमनेन सत्यमिथ्याविभागेन कृतेन ? यतः सर्वेऽपि भावा जाग. रितस्थाः स्वप्नस्था वा दृश्या एच, न तु चिदुपटक्स्वभावाः । तत्तदवस्था प्रतिनियतप्रतीतिका एव, न त्ववस्थान्तरेऽपि लब्धसत्ताकास्ते। अनेके जडा: संहताः परार्था एव च सर्वे भावा उभबोरप्यवस्थयोः, जातुचिदपि स्वप्रकाशा असंहतस्वभावाः स्वार्था वा । आत्मा पुन
वेदान्नबालबोधिनी
[लो. ५
नियस्वभाव एबोरे अन्यबस्थे सममेव पश्यतीति नान्य. तराबस्थाप्रतिनियतप्रतीतिकः ! आगच्छन्त्योरपगच्छन्त्यो अवस्थयोः स्वेनैवाव्यभिचरितेन रूपेण प्रकाशमानत्वात्। एकश्चायम्। बोऽहं स्वान्द्राक्षं स एवेदानों जाग ति प्रत्यभिज्ञानात् , स्वात्मन्यने कालकलानगवान! असंहतः सःण। अन्यतरावस्थायां स्वसंहता नामिव विभाधमानानामपि भावानां तान्यायायामननुगमात् । स्वार्थश्वायम् । सर्वे हामपि भावानामस्वार्थापैष प्रवृतिप्रतीतेः, अक्षयात्परस्य चाभावात् । न चामिन् अविष्यता अनुभूतचरी । न चोभमोरन श्योरुपलभ्यमानाः सुखदुःसाधुपालवा एनं द्रष्टारं कदापि संजस्ति । म चानुयान्ति स्जेन प्रातीनिकेनापि रूपेगैनमवस्था
तारे। तस्मात् सर्मथा सर्वनाध्यममात्मा सचित्सुखरूप एवेति सिद्धम् ।।
- লাল। প্রায় চলিস। চ অগ্নি বাশাখা
प्रालि ? समाहरेव हि तस्करूपात मिति गम्यते। किं चात्मनो অল্প দ্বিগুন মলিজাগল, দয়া রঙ্গ খিল হাসা-হ अभ्युपेयम् । सतविपरवानगेनैव तस्य सहपत्यानन्दरूपत्वे उप पायो । तया हि । चिनिनवं प्रधानी मिलिजविषयाणां त. अयाज चोपला चिपेणानुगत माला इति कृत्वा तन्या पश्चिरितमत्वकामिल। चिद्रूपभेन चे प्रधानीकृत्य तस्याss. नन्दरूत्वापि प्रसाधिता। यदि सत्रया न चेल्यते न तल्लिन प्रीतिर्भवेदिति चिल्लंपादेश निकट मारत: स्यात्मनि नित्यचिप मादेव हि निरतिशयनिक नुमाइयितव्य हिरतिरोनास्पदत्याचा ১১ । সুইদি। । । ১icলীয়ানলুইশশু सावरश्यनुपपादनीय हरितुजत्योपणानाय । तदेव तु नोपपादसञ्चित्सुखम्
वितुं शक्यते। पत्कार यथैव स्वाजागरितयोः परस्परच्यभिचाराद नामरूपता तत्रैव चिद्रूपस्यापि सुधुपेऽनुपलब्धेः स्वरूपव्यभिचारो श्यत इति तस्यापि नामरूपतेति युछन् । एवं च यदा चिद्रूपत्तमात्मन उपलभ्यते, तदा पर्यायेणावस्यालयमाया विकारित्वमात्मनः प्रामोति । यदा तु धिपत्याप्नुपलब्धिया सुषुसे, तदा तत्त्व विडेकरूपत्व. मित्यपि वा त्याने ति कथं सञ्चित्सुखरूप इति मम माझा जायते ।।
. शृणु सौम्य । न मयेदमुक्तपूर्व सच्चिदानन्दरूप आत्मा स्वान जागरिते अनुभवतीति। जागरितं कस्य भवतीति पृष्टो हि य इदमनुभवति तस्येत्युत्तरमदाम् (१४)।
४०. किमिदमुच्यते भगवता? किं जागरितं ममैव भवतीति न निर्णीत
पूर्वमिदम् ?
बाई निर्णीतम् । अहमेवानुभवितेत्यभ्युपगमे एष एव निर्णयः ।।
४१. मन्त्रभ्युपान्ताप्यहमेव । तन्त्र को वा विशेषः ?
भवत्वेवम् । तथाभ्युपगन्तुस्तव परमार्थस्वरूपं तु सञ्चित्सुख रूपमित्युच्यते अस्माभिः । अतो न विरोधः ।।
३२. तथा च सञ्चित्सुखरूप आत्मैव तथाभिमानवानित्येव फलितम्
मैचम् । अहंपदार्थ एव तथाभिमानवान् , सञ्चित्सुखरूरो त्वात्मनि न कोऽप्यभिमान इत्येव तु फलितम् ॥
वेदान्तवालवोधिनी
[लो. १
४३. नाहमिदं निर्धारयितुं धारयामि। यतः पूर्वमुक्तं भगवता यदहमेत्र
सञ्चित्सुखरूप इति । इदानों पुनरिदयले यदहमेवाभिमानवान् न तु सञ्चित्सुखात्मा इति । तदिदं कथं न पाहतं वचः ?
न व्याहतम्। यतस्तव परमार्थरूपं सचित्सुखात्मकम् , त्वयि प्रतीयमानाहरूपं त्वगिमानाश्रय इति खलक मया। तच्छेदमभिमाना. श्रयभूत रूपम् ‘अहङ्कारः’ इत्युच्यते शास्त्रकृद्धिः । तदेवं यद्यप्यहङ्कारे अवस्थात्रयप्रतीतिः, तथापि तव परमार्थरूपे न काचिदवस्था विद्यते। न चैवं वदतो व्याहतिः शनीया। यत्कारण नायमहारो नाम तब नैज रूपम् । तथात्वे हीदं सुषुप्ताबपनुवर्तेत, न वनुवर्तते ।। ४४. यद्येवं तह नितापि न मम परकायस्वरूपम् , तस्यापि सुहावनुप.
लब्धेः। एतच्च मया दुर्वमेव (३९) विज्ञापित । इत्थं च नाहकारो न वा भवदर्शित चिद्रूपं सुबुझे विद्यत इति नित्स्वरूप एवाहं परमार्थत इति प्राप्नोति ॥
नैवं मन्तुं युक्तम् । प्राक्तनकाले केचिद्वौद्धा एवमेव आत्मनः स्वरूपं नाम न किश्चिदस्तीति युक्त्या नितिवन्तः। सोऽयं शन्य. वादो नाम । न त्वं सौम्य, तेषामनुयायी स्याः ।। ४५. यदि भगवन् शून्यवादोऽप्यनुभवानुसारी तहि किमिति न स्वीकार्थः ?
अवस्थात्रयविचारणानित एव तत्वानुभव इति हि भगवत्तायुक्तम् ।। __ सत्यमुक्तम् । न तु भवदुक्तो वादोऽनुभवानुसारी। नवा भवनिर्णयः सर्वावस्थाविचारणानिवृत्तः ।। ५६. कथमिव ?
यत्कारणं सुषुप्ते चैतन्यं नास्तीत्यत्र न किञ्चित् साधकं प्रमाण मस्ति ।
को. १
सचित्सुरतम्
४७. कथं नाति ? यदि हि से चैतन्यमभविष्यत् , तवयं मया उपा.
लस्यत। न तूपलख्यते। न हि नया चैतन्यमन्यद्वा किञ्चित् सुषुप्ते उपलब्धचरन् । किमतो लावगम्यते चैतन्याभावः !
ना नोपलभ्यते किञ्चित्’ इति वदतैब त्वया उपलब्धृस्वभाव स्याभ्युपगतत्वात् । उपलब्धं हि पदार्थ निहुते भवान् सुषुप्ते, न तूपलब्धस्तवोपलब्धिस्वरूपम् । तदेव हि चैतन्यं नाम ।।
४८. ननु भगवन् , मया चैतन्यमपि नोपलभ्यते सुषुझे ॥
मोपलभ्यताम् । न हि मयोक्त चैतन्ट नाम तवोपलम्भन योग्यं विषयान्तरमिति । अभ्युपगतं च त्वयैतत् । चैतन्यमेव हि तव स्वरूपमित्युच्यते भया । तच्चानन्यापेक्ष स्वयमेव स्फुरतीति च ।।
४९. कदा नु खल्वेवमभ्युपगत मया ? ननु भगाम्यहं चिद्र पमेव नोपलभ्यते
सुषुप्ते इति ?
बाहम् । अत एव सिद्धमिदं यस्य तव चिपं नोपलभ्यते इति ब्रवीधि स त्वं चिद्रूप एवेति। चिद्रूपस्य चाविषयत्वादनुप लभ्यता, नाभावात् । एवं हि मन्यते भवान् यदि नाम कश्चिद्विषयोऽ. भविष्यत्तत्र, तर्हि नूनमुपालप्स्यत। यन्नोपलभ्यते सुषुप्ते किञ्चित् , ततो नास्ति तत्र कश्चिद्विषय इति । अत इदमभ्युपगतं भवति भवता. यामवलम्ब्य त्वं न किञ्चिदुपलब्धमिति प्रतिषेधसि विषयम् , सा उप. लधिरवश्यमस्तीति। सा त्वेव तव चिद्रूपता। सा चाव्यभिचरिता सर्वत्रेति सिद्धं भवतः सञ्चित्सुम्वरूपत्वमपि पूर्वोपपादितप्रकारेण ।।
वेदान्तवालबोधिनी
श्लो.१
५०. अमषा पासधा जायते। सजागरोदर मा तस्यैव
ते अवस्थे न तु सञ्चित्सुखरूपस्येत्युत्त: भगा औम । सु नास्त्य महंकार इति च। अतः प्राहमिदं समुसिनाल सच्चिदानन्दरूपः स्यैवावस्था, नान्यस्यति । तत्प्राथमिदम न्यायामि नास्ति कनिद्विकारः सच्चिदानन्दरूपस्येति ?
शृणु। अत्र सुपुतिम्वरूपं तावद् विवेचनमहति । सुकुतिहिं नाम कस्यापि विषयस्यानुएल मनम्। तत्र कथमेषा काचिदवस्थेति स्याद्वस्तुतः ? कथं वा तया विकारित्वमात्मानः ? यथा हि नीरोगो रोगीत्यपार्थवं बच., तथा ‘अयमात्मा विक्रियते अविद्यमानावत्थया’ इत्येतदप्यमार्थकमेव वचः ।।
५१. कधपार्थका ? मामा हि स्वमजागरयोवियतदाभासान उपलभते,
सुले तुममृत्युपलम्भनमालम्भने ति यमयात्मान एवं खलु धर्म इति ।
न। यथा हि विद्यमानदीपेऽपवरके यदा ये केचित् पदाशीः, स्युः, तदा तामवश्यं प्रकाशयति स दीपः। यदा तु पदार्थी न स्टुः, तदा स्वयं यथापूर्वमेव प्रकाशते । उभबोरप्येतयोः कालयोर्दीपप्रकाशे न कोऽपि विशेषः प्रकाशनाप्राशनकृत इति प्रसिद्धयेतत् । एवमेव महाऽयमात्मा स्वमजागरिते पश्यति, यदा च सुपुते न विश्चिदपि पश्यति, तदुभत्रापि नैवास्य चिपद स्वभावे कोऽपि विशेषः शक्य शङ्कः । अत एवं हिं श्रुतिराह– ‘पद्वै तन्न विजानाति विजानन्दै तन्न विजानाति न हि विज्ञातुर्विज्ञातेभिरिलोपो विद्यतेऽविनाशित्वात् न तु तद् द्वितीयमस्ति ततोऽन्धद्धिमतं यद्विजानीयात्’ (बृ. ४-३-३०)
लो. ]
तुरीय
२५
इति । तस्माद्विपयोपलम्भनानुपलम्भनकृतो विशेषः कश्चनाऽऽत्मनि भवतीति मिथ्यापादनमेतत् ।।
तुरीयम् ५३. तर्हि सुपुतिरित्या नैव काचनावस्थेति जातम् ।
सत्यम् । अत एव च निद्रादोपवशात् परिदृश्यमानेति विकसिता स्वभावस्था, सुप्तप्रबुद्धेनैव दर्शनयोग्येति निकल्पिता जागरि तावस्था चेत्युभे अपि न परमार्थत आत्मन अबस्थे इत्यपि जातम् ॥ ५३. त३ स्थिते, अचानथसातत्वनिर्णयेन आत्मस्वरूपं सुशक विज्ञा
तुम् (४) इयुक्तवतस्तत्र भवतः को वा अभिप्रायः ?
उच्यते । दृश्यते हि स्वप्नजागरसुषुप्ताख्यम् अवस्थात्रयं नित्य मनुभवामः’ इत्ययं दृदो विश्वासो लोकस्य । तस्यास्यैवं लोकसिद्धस्य अवस्थात्रयस्य परीक्षणे सम्यकृते सति निर्णीतं भवत्यात्मनो यथार्थ स्वरूपम्। परमार्थतश्च नास्त्येवावस्थात्रयानुभनोऽप्यात्मन इति च पर्यवसास्यतीति ममाभिप्रायः । एवं च मूलश्लोके ‘यत्स्वानजागरसुषुप्ति मवैति नित्यम्’ इत्यत्र लोकदृपया इति वाक्यशेषः, ‘अवैतीव’ इति इवशब्दलोपो वा द्रष्टव्यः ।
- अन्न मुपुरे न किश्चिदुपलभ्यते इति मजनीनानुभव स्वीकृष्याचं निर्णयः कृतः । अर्वाचीनवेदान्तिनस्तु के चेत् तत्रावस्थायां ‘मुलाविद्या’ नाम काचि. तिरात्मानया अनुवर्तते– इति प्रस्थानमास्थिताः । अस्यां बालबोधिन्यां तत्प्र. या व विमृष्टम् । विस्तरस्ववस्थात्रयप्रक्रियाया “माइक्यरहस्यविति"तोsa. गन्तव्यः ।।
२६
वेदान्तबालबोधिनी
ओ. १ ५४. यद्येवं भगान् , किमिदगुल्यते श्लोके तुरीयम्’ इति ? यदा घस्था
जयमेन नास्तीत्यभिधेयते तदा कैन कथा तुरीयस्थ स्थानस्यति ।
शृणु। अत्र तुरीयं नाम लोकविदितादस्मात् स्थानत्रयादन्यन् स्थानमिति नोच्यते । किं तहिं, इदमात्मतला न स्थानत्रयानुभवित. स्वभावम् , अपि तु तव्यतिरिक्तचतुर्थस्वभावकमेवेति । यदाह श्रुतिः - ‘नान्तःप्रज्ञ न बहिःप्रशं नोभवतः प्रनं न प्रज्ञानधनं न प्रज्ञ नाप्रज्ञम् । …. ! प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थ मन्यन्ते स आत्मा स विज्ञेयः’ (मां. ७) इति । वस्तुतस्तु यदापि जागरितादि. प्रतिभासोऽस्ति तदापीदं तुरीयस्वभावकमेव । न हि स्वभावः कदा चिदपि निवर्ततेति नैव तुरीया काचिदवस्था अभ्युपगन्तव्या आत्मानु. भवार्थम् । अवस्था हि नाम कश्चित् कालिको विशेषः। नैव विदं तुरीयं तत्वं कश्चित्तादृशो विशेष इति ।।
परमहंसगतिम् ५५. यदि भगवदुक्तप्रकारेण नित्यसचित्सुखरूपोऽयमामा तहि किमितीद
स्वरूपमस्माभिर्न विज्ञायते तथेति ?
मनसोऽयं स्वभावो यदविद्यमानार्थप्रकल्पनं तथा प्रकल्पितेऽर्थे अभिमानधेति। तामेतां स्वाभाविकी मनसः प्रवृत्ति विनिवर्त्य स्वात्म तत्त्वैकमहणे बाह्यविषयेषु विरक्ताः परमहंसा एव समर्थी नेतरे ।।
- अन्न केचित् साधनविशेषैरवाप्यः समाधिरेव तुरीयं स्थानमित्यभि. प्रयन्ति । तस्याग्य मतस्य खण्डनमन्यत्रैत्र माण्डूक्यारहत्यविवृत्यादौ कृतम् , तत एवावगन्तव्यमितीहोपरम्यते, चालाधिकारवादस्य प्रकरणस्य ।।
श्लो. १]
परमहंगगतिम्
५६. के वा परमहंसा नाम ?
श्रूयते हि काव्यादिषु राजहंसो नाम कश्चित् पक्षिविशेषः । यः किल नीरक्षीरमिश्रणात् नीरं निरस्य क्षीरमेव विविच्योपादातुं समर्थ इति वर्णयन्ति कवयः। एवमेव सन्ति केचित्पुरुषधारेया, ये आत्मा नात्मनोः सत्यानृतयोमिश्रीकृतयोनिस्सारमनात्मपदार्थ निरस्य तत्र विरता अभियानरहिताः शमदशादिसावलसंपला आत्मतत्त्वं विविच्य मृदन्ति। तत्रैव यथोपर्शितसचिल्लुखरूपे निष्ठां लभन्ते च। त एव परमहंसा इत्युच्यन्ते ।।
५७. तन का विरक्तिनाम ?
रति म रागो विषयेप्वभिमानपूर्वकं तैर्मनसो रञ्जनम् ! विरतिस्तु तदभावः । तत्र ये केचिदनात्मनि विरक्तिमन्तस्ते सर्व संन्गस्य पारमहत्त्वं नान पारिवाज्यम् अवाप्य वेदान्तविचारे एवं सदा कालं नयन्ते !
५४. न तहस्साहनामस्वीकृततुरीयाश्रमाणा आत्मज्ञानेऽधिकार इति
प्रतिभाति ।
नैतदेवम्। अनात्मवस्तुन्यारूहसक्तः पुत्रदारगृहादिप्वमि. प्ववतः कस्यचिदपि न विज्ञेयमिदमात्मस्वरूपम् – इत्येतावांस्तु ममाभिप्रायः । अतस्तत्त्वजिज्ञासुभिरिन्द्रियार्थेषु वैराग्यवद्भिरेच भाव्यम् । पारमहस्यं त्वेपणानयत्यागरून विशेषाधिकाराधायकम् इत्यस्ति तत्र विशेषः ।
वेदान्तबालबोधिनी
[लो, १
तहह्म निष्कलमहं न च भूतमतः
५९. साध्वेतत् । वमनारमामिला त्यत्वा स्वात्मता साकल्येन परिज्ञात
वतोऽनुभवः कीलो मवेत ?
तस्यायमनुभवः ‘अहं निष्कलं ब्रह्मैव’ इति ।। ६०. अथ कोऽयं ब्रह्मशब्दार्थः ?
उपनिषत्सु श्रूयते ब्रह्मस्वरूपवर्णनम् , तत्र ब्रहति निरतिशय बृहत् तत्त्वम्। नित्यशुद्धस्वरूपत्वात् , नित्यचिद्रूपत्वात् , नित्यमुक्त, स्वभावत्वाच्च ब्रह्मशब्दवाच्यस्य परमात्मनो निरतिशयहरवमूरीक्रियते। तनैतादृशं ब्रह्म स्वात्मत्वेन चित्राय तस्मिन्नेबावस्थीयते झानिभिरिति तेऽपि ब्रह्मस्वरूपा एव ।। ६३. काशं पुनरात्मज्ञानशून्यानां विज्ञानमिति ?
तदुक्तं मया पूर्वमेव । तेहि पृथिव्यतेजोबाय्याकाशलक्षणैः पञ्चभूतैरारब्धं देहेन्द्रियमनःसंधातमेव स्वात्मत्वेन परिगृह्य नित्यं वयं स्वमजागरसुषुप्ताख्यस्थानत्रयानुभवरूपं संसारं भजामः, अयमेवाऽस्माकं स्वभावः इति मन्यन्ते ॥ ६२. को वा अमीषां पञ्चभूतानां स्वभावः !
भवतीति भूतम् । लोके हि श्रोत्रत्वाचार्जिह्वामाणलक्षणैः शब्द स्पर्शरूपरसगन्धाख्याः पञ्च विषया गृह्यन्ते । तेषां शब्दादीनामाश्रयत्वेन यथासंख्यं आकाशवाय्वग्निसलिलकिवाख्यानि वस्तूनि भवन्तीति कल्यते जनैः। तान्येतानि च भूतान्युच्यन्ते । तेषां विविध
श्री. 27
प्रातः स्मरामि
संमिलितपरिणति लगमानानां सङ्घ एवायमनात्मभूतो देहेन्द्रियादि सातः ।। ६३. कितैः पञ्चततः कथयामो नारत्व कोऽपि संदन ?
नाणुमात्रोऽप्येतैः संबन्ध आत्मनः। उपपादितं हि गथै तानि विवयेन्द्रियमन आदिरूपेण परिणतानि विषयविषयिभावेन स्थितानीय प्रतिभासमानान्यपि नित्यविषयिणधिदात्मकस्याऽऽत्मन चैतन्य प्रकाशदीतान्येबोपलभ्यन्ते जागरे। यथा चेदं तथा प्रतिपाद विध्यते द्वितीय-लोकव्याख्यायाम् । तथा चामीषां नास्त्येव स्वतन्त्रा काचन सत्ता स्फुरता वा आत्मसत्तारकुरत्ताव्यतिरिक्ता जागरावस्थामा मपि ! स्वो नेतेषामस्तित्वमपि नास्ति । वासनामात्रत्वात्तत्रत्यभावानाम् । सुषुले पुनः स्वरूपमेवैषां व्यभिचरतीति कथकारं कश्चन संबन्ध– एभिरसत्कल्पैरप्रेक्ष्येताऽऽत्मनः ? प्रत्युत सचिलुखात्मकस्य नित्यशुद्ध स्वमावस्याप्याऽऽत्मनो मुखस्येवाऽऽदर्शदृश्यमानप्रतिदिग्वेन कल्पित– संबन्ध बिना नास्त्येव वास्तविकः कश्चन संबन्ध इत्येवाऽऽस्थातुं युक्तम् । न हि समान्तयोनीस्तविकः संबन्धः शाकल्यान इति। अतः पञ्च भूतानीमानि बाह्याध्यात्मिकभावरूपेण परिणतानि जामवस्थामात्र लब्धप्रतीतिशरीराणि न सन्त्येव वस्तुत आत्मत्यतिरेकेणेति ज्ञेयम् । यथैव चैभिन संबन्ध आत्मनः, तथा नित्याव्यभिचरितस्वरूपस्यास्य परस्परमभिचारिणीभिरवस्थाभिरपि न कञ्चन संबन्ध हत्याकलनीयम् ।।
प्रातः स्मरामि ६५. देवज्ञानं प्रेभिः कीदृशं साध स्वीकर्तव्य ?
वेदान्तबालबोधिनी
[ओ. १
त एते ‘वयं भूतसङ्घातरूपा देहेन्द्रियाद्याकारेण परिणताः’ इति योऽयं नैसर्गिकोऽभिनिवेशः, या चेयं ताहशदेहादीनां तत्संबद्धवेनाऽभि. मतानां च दारसुत्रक्षेत्रादीनामिष्टानिष्टोपपत्तिचिन्तापारम्परी समिकी तदेतापरवशतां विहाय यथोपवाणित ‘सञ्चित्सुख अन्नौद स्मः । न त्वयं भूतसङ्कः’ इति प्रतिदिन प्रभातकाले अनुसंध्युः । ये केचिदेवं भूत. संघतानाम्यामध्यावुद्धिजन्यात् दिमोक्षमात्मनस्तत्परतया इच्छन्तो यथोक्तानुसन्धानपरा भवन्ति त एते मुमुक्षन इत्यभिधीयन्ते ।।
मनुष्मा हि चतुर्विधाः मुक्ता, मुमुक्षयो, विषविणः, पानराश्चेति । तत्र पामरा पशुतुल्याः । यतस्ते स्वभावत एवाऽऽहारनिद्रादिचिन्ता परीता एवं कालं नयन्ति । विषविणस्तु बुद्धिजीविनः । यतस्ते लौकिक वैदिकशास्त्रोक्तकमनिरता इहलोकपरलोकचोरिष्टानिष्टप्रातिपरिहाराभ्या माइवं प्राप्तुमीहन्ते। मुमुक्षवस्तु विवेकिनः। यतस्ते उत्तोभय विधफलभोगचोरपि विरक्ता भुतसंघातरूपदेहेन्द्रियाद्यभिमानलक्षणाद
बन्धाद्विमोक्षणार्थमात्मजिज्ञासायां तत्परा भवन्ति । मुक्ताः पुनरात्म– शानितः । यतस्ते सर्वविधादयाशापाशादिमुक्ताः । ज्ञातसर्वशेषाः कृतसकृत्यास्तु एवं धन्याः। अतो विवेकिभिर्मुमुक्षुभिः प्रतिदिन प्रातःकाले सारणमङ्गलं हृदि संस्फुरदात्मतत्त्वं पर्तव्यमिति शम् ।।
इति भीसचिदानन्देन्द्रसरस्वत्याख्येन भिक्षुणा विरचितायो
प्रातःस्मरणस्तोत्रव्याख्यायां
वेदान्तबालबोधिन्यां प्रथमश्लोकव्याख्यालो. २]
संक्षेपतः शेजार्थः
प्रातर्भजामि मनसो वचसामगम्यं
वाचो विभान्ति निल्दिला बदनुग्रहेण । यं नेतिनेतिवचनैनिममा अनोतु
स्तं देवदेवमजमच्युतमाहुरश्यम्
संक्षेपतः श्लोकार्थः यदनुग्रहेण वागादयो लिखिला अपि विभान्ति स्वकार्यार्थ व्याप्रियमाणा दृश्यन्ते, यच्च निगमा वेदान्ताः ‘नेति नेति’ इति ऋल्पित रूपनिषधेनैव अबोचुः, तन्मनसो वागादीन्द्रियाणां चागण्यम् अविषयी. भूतं स्वत:सिद्धमात्मतत्त्वं प्रातर्भजामि। तमात्मानं देवदेव इति, अजोऽच्युतोऽध्य इति चाऽऽहुर्वेदा शानिनश्च इति यथाश्रतश्लोकार्थः ॥
अर्थतेषां श्लोक्तोपात्तानां विशेषणानामभिप्रायं पूर्ववत् गुरुशिष्य संवादरूपेण व्याख्यास्यामः ।।
यनेतिनेतिवचनैनिंगमा अबोचुः ६५. अथ क इमे निगमा नाम ?
अन निगमशब्देन उपनिषद उच्यन्ते वेदान्तापरनामधेयाः । ते हि वेदभागभूता नितरामात्मतत्त्वं गमयन्ति। तदुपदेशजनितज्ञान मन्तरा च नास्त्यन्यः पन्थास्तदवगमायेति ।। .
३२
वेदान्तबालबोधिनी
[लो.२
६६. कथमिवाऽमत तासूपनिषत्सु वर्णितम् ?
इत्थं वर्णितम् ‘अधात आदेशो नेति नेति’ (पृ. २-३-६) इति, स एष नेति नेत्यात्मा’ (बृ. ३-९-२६….) इति, ‘एतहै, तदक्षरं गार्गि हाह्मणा अभिवदन्त्यस्थूलमनावस्वमदीर्घमलोहितमलेह– मचलायमतमोऽवाय्वनाकाशमसङ्गमरसमगन्धमचक्षुष्कमयोत्रमवागमनो . ऽतेजक्रमप्राणममुखममात्रमनन्तरमबाह्यम्’ (बृ. ३-८-८) इति च ।।
६७. किमीशेन निषेधेन वार्णतेन प्रयोजनम् ? किमित्यात्मताचं साक्षादेव
न वयते शृङ्गाहिकया इदं सदिति, यथा सास्माविमान् गौरित्येवम् ?
आत्मतत्त्वं नेदतमा शक्यवर्णनम् , अतोऽयमेव मार्गस्तत्प्रति पादनाय, नान्यः। यदाह श्रुतिः “न हो तस्मादिति नेत्यन्यत्परमस्ति” (बृ. २-३-६) नेतिनेतीत्युक्तप्रकारात , प्रासनिर्देशस्य सर्वस्यापि प्रतिषेधनात् , अन्वत् परं निर्देशनं नास्ति । अतोऽयमेव निर्देशो ‘नेति नेति’ इति- इति श्रुतेरर्थः । इयं हि श्रुतिः हे वाव ब्रहणो रूपे मूतं चैवामूर्त च’ (पृ. २-३–१) इत्यादिना सत्यशब्दवाच्चं पञ्च - भूततवासनात्मकं निर्दिश ब्रह्मस्वरूपनिर्देशाथ प्रवृत्ता तत्सर्वनिषेधे. नाऽऽह ‘अधात आदेशो नेति नेति’ (इ. २-३-६) इति । न चेदं निष्प्रयोजनं वर्णनम् । आत्मनि कल्पितस्यातदूपस्य निवर्तनेन तस्व स्वरूपमात्रसमर्पणात् सर्वानर्थाजभूतस्याज्ञानस्य प्रहाणात् ।।
मनसो वचसामगस्यम्, वाचो विभान्ति निखिला यदनुग्रहेण ६८. किमर्थं पुनरीशमात्मतावमिति साक्षादेव नोपवयंताम् ?
लो. २] मनसो वचसामगम्यम्, वाचो विभान्ति निखिला यदनुग्रहेग
३३
यतो न शक्यमेवं कर्तुम् । तद्धि साक्षाद्वर्णयितुं शक्यते यत्र नामरूपकर्मजातिव्यगुणादयो विशेषाः सन्ति ! तटारस्वात् शब्द प्रवृत्तेः। यत्र पुनर्न नामरूपादिविशेषाः सन्ति, यन्नामादिसर्वशब्द प्रवृत्तिनिमित्तरहितम् , न तद्वचसा वर्णयितुं शक्यते, मनसा वा ग्रहीतुम् । अत एव श्रुतिः प्राह ‘यतो बाचो निवर्तन्ते। अप्राप्य मनसा सह’ (ते. २-९) इति ।। ६९, थद् भगवन् , न याचा वर्णयितुं शक्यते, यञ्च न मनसा मन्तुम् ।
तस्यास्तिता कथमिशवगम्यताम् इति नाई बुध्ये। यद्धि वचसा मन समागम्यं तच्छून्यकल्पमेवेति मे मतिः ।।
न। प्रत्युक्तत्वात् । प्रत्युत्तो ह्ययं शून्यवादः (४४-४८) मागेवाऽऽत्मनश्चिद्रूपवाभाव्यनिरूपणवासरे। अत एव च श्रुतिः ‘स एष नेतिनेत्यात्मा’ (पृ. ३-९-२६, ४-२-४, ४-४-२२, ४-५–१५) इति भूयो भूयः सर्वविशेषानध्यपद्धवाना परमार्थ तत्वम् आत्मशब्देनैव निर्दिदेश। आत्मा च न प्रत्याख्यातुं शक्यः शून्यवादिनापि । य एवं प्रत्याख्याता, तस्यैवाऽऽत्मत्वात्। आत्मा हि नाम स्वरूपम् ।। ७०. ननु यदस्य तमेवानुभवानारूहम् , यन्मनसो वचसा वा न गम्यम् ,
तच्छून्यकल्पमेवेति किमध्यवसातुमयुक्तम् ?
भास्वेतद्नुभवारूढम् । यस्मिन्ननुभवे आरूढं सत्सर्वमस्तीत्य ध्यवस्यते भवता, तस्वैव त्वनुभवस्य स्वरूपमयमात्मेति तुष्यतु भवान् । न च मनसो वचसां चागम्यमित्येताक्ता असिद्धिर्भवेदात्मतत्वस्य । स्वयंसिद्धानुभवरूप एवं ह्ययमात्मा मनो वचांसि चानुभवारूढानि
5
वेदान्तबालबोधिनी
[ो. २
करोति। कथम् ? वर्णा एव सकारादयोऽर्थसङ्केतपरिच्छिन्ना नियत संख्याका नियतकमाश्च लब्धशब्दाभिधाना बचासीत्युच्यन्ते। तानीमानि वचासि विवक्षितेऽर्थे प्रयुज्यन्ते वागिन्द्रियसहायेन पुरुषेणेति प्रसिद्ध मेतत् । तच्च वागिन्द्रियं बीनामभिव्यञ्जकं करणम् आत्मानुग्रहेणैव स्वविषयमभिव्यञ्जयति, न स्वतः । न हात्मचैतन्यानुग्रहविरहितं बचो नाम कल्पचितुमपि शक्यते । इदमुपलक्षणम् । एवमन्यान्यपि निखिलानी न्द्रियाध्यनेनाऽऽत्मचैतन्येनानुगृहीतान्येव हि स्वम्वविषयव्यञ्जनसमर्थानि भवन्ति । आत्मचैतन्यस्य तु जागरितवागादीन्द्रियसहायशून्यस्यापि व्यवहारो दृष्टः। सर्वत्र च वागादीन्द्रियविषयीकरण दृष्टमात्मचैतन्य. स्व। तदेवं वागादीनि यदनुग्रहोगैच विभान्ति, स्वस्वविषयव्यञ्जन समर्थानि च भवन्ति, तदात्मतत्त्वं शून्यकल्पमिति वक्तं न धार्यते केन. चित् । एवं मनसोऽप्यात्मचैतन्येन व्याप्तस्यैव तद्धासा विमानं तदनु ग्रहेणैव च स्वविषये गतिः । यस्य च यदनुग्रहप्रयुक्तं भानं प्रवृत्तिश्च, न तद् स्वानुग्राहकं विषयीकृत्य गमयितुमलमिति युक्तमेव । नहि दीपप्रकाशानुग्रहेण भासमानाः पदार्था दीपमपि विषयीकृत्य प्रकाशयितुं प्रभवेयुः । तस्माद्युक्तमुक्तं ‘मनसो वचसामगम्यं वाचो विभान्ति निखिला यदनुग्रहेण’ इति । तथा हि श्रुतिवचांसि ‘पद्राचाऽनम्युदित येन वागभ्युद्यते’ (के. १-५), ‘यन्मनसा न मनुते येनाऽऽहुर्मनो मतम्’ (के. १-६), ‘यचक्षुषा न पश्यति येन चक्षुषि पश्यति’ (के. १-७) इत्याद्यानि ॥ ७१. यद्येवं केनाभिप्रायेणेदमुक्तं भगवता (६५) तदात्मतत्वं वेदान्तकाम्य
मिति ? यदा खलु वेदान्तवाचो न प्रभवन्त्यात्मतत्वं वर्णयितुम् , तदा कवकारं तास्तत्र प्रमाणं भवेयुः?
श्लो. २] मनसो वचसामगम्यम् , वाचो विभान्ति निखिला बदनुग्रहेण
३५
अत्रीच्यते। प्रमाणं हि नाम प्रमाकरणम् । प्रमा च यथार्थ ज्ञानम् । वेदान्ता एव आत्मविषयकं ज्ञानं याथातथ्येन जनयन्तीति तत्र प्रमाणत्वेन व्यपदिश्यन्ते। वाक्यजन्यं हि ज्ञानम् इदमीदृशम्’ इति बस्तुवर्णनेनैव जायत इति नायं नियमः । यथा यथा तु वस्तु. विषयकं श्रोतुरज्ञानं परिहियते तथा तथा शब्दपूगप्रयोगेण तज्ज्ञानं जन्यते इति स्थितिः । तद्यथा ‘नील महत्सुगन्ध्युत्पलम्’ इतिवत् बस्तु धर्मोपन्यासेन कचित्तद्विषयं ज्ञानं भवति। अत्र हि नीलत्वादीनि संभूयोत्पलस्याऽऽसाधारणधर्म निर्दिशन्तीति तेषां सहोच्चारणेन श्रोतु रुत्पलज्ञानं संभवति । कचित्तु ‘काकवद्देवदत्तगृहम्’ इतिवन् अतद्धर्म भूतवस्त्वन्तरद्वारेणापि विवक्षितं वस्तु ज्ञाप्यते। न हि तत्र दृष्टान्ते काकवत्वं देवदत्तगृहस्य नियतो धर्मः । देवदत्तगृहसंबद्धेन बा, तदसंबद्वेनैव वा तदुपरि परिपतता काकेन दृश्यमानेन सममेव ‘काकवदेव दत्तगृहम्’ इत्युपदेशः संभवति । उभयथापि हि देवदत्तगृहज्ञानमुत्पो तैव श्रोतुः। कचित्पुनरुपलक्षणभूतवात्वन्तरोपदर्शन विनापि वस्तु. निर्देशो भवति । ‘वातायनरहित देवदत्तगृहम्’ इतिवत् । तत्र हि वाता यनवद्हपङ्क्तावुपलभ्यमानं गृहं तद्राहित्येनैवाचगम्यते देवदत्तगृह मिदमिति। तदेवं यस्य वस्तुनः स्वभूता धर्मा विद्यन्ते नीलोत्पलादे रिवतन्त्र तदसाधारणधर्मेण, यत्र तु ते न लभ्यन्ते देवदत्तगृहा दाविव तत्र तदुपलक्षकेनातद्धर्मभूतेनापि, अतद्धर्मनिवर्तनेन वा, वस्तु जापनं संभवति । आत्मतत्त्वस्य च निधर्मकत्वात् ‘येन वागभ्युद्यते’ (के. १-४), ‘येनार्मनो मतम्’ (के. १-५), इति वामनआधुप. लक्षणेः ‘अशब्दमस्पर्शम् ….’ (क. १-३-१५), “अस्थूलभनणु
वेदान्तवालबोधिनी
[लो. २
(वृ. ३-८-८), ‘नेति नेति’ (पृ. २-३-६)- इत्येवमतद्धर्मव्या वर्तनेन च तज्ज्ञापनात् वेदान्ता आत्मनि प्रमाणमिति व्यपदिश्यन्ते। अतोन विरोधः ।।
तं देवदेवमजमच्युतमाहुरश्यम् ७२. नैतिनेत्यादिरूपेण अत्तद्धर्मनिराकरणेनैव केवलं कथाहारमात्मस्वरूा.
समर्पणं भवेत् ?
तदुक्तं पूर्वमेव (३, ६९)। यदि स्वयंप्रकाशमनुभवरूपं वस्तु जिज्ञासोरात्मभूतं च, न तज्ज्ञाफ्नाय परापेक्षा भवति । आत्म तत्वं च स्वयंप्रकाशमिति तस्मिन्विकल्पितस्य देहेन्द्रियादिधर्मस्य प्रतिषेधे नैव तत्स्वरूपशानं सिध्यति सर्यादिविकल्पप्रतिषेधेनेव रज्जुस्वरूप ज्ञानम् । सर्वस्य च जगतोऽस्मिन्नेव यथा कल्पितत्वं तथा प्रतिपाद. यिष्यते तृतीयश्लोकव्याख्यानावसरे। स्वयंप्रकाशत्वादेव ब्रह्मात्मा देव देव इत्युच्यते वेदान्तेषु । ‘तं देवतानां परमं च दैवतम् (श्वे. ६-७) इत्यादिषु । देवा घोसनात् अन्यादयः। इन्द्रियाणि च विषयप्रकाश नात् । तेष्वपि यः प्रकाशः स नित्यचित्प्रकाशस्वरूपस्याऽऽत्मन एवेति कृत्वा स देवदेव इत्युच्यते। प्रकाशवतां सर्वेषामपि प्रकाशयितेति तदर्थः ।।
दृष्टान्तेनैतत्सुखप्रतिपन्नं भवति। चन्द्रमा हि स्वकिरणरेव भातीति लोकप्रसिद्धिः। भौतिकशास्त्रविद्भिस्तु परीक्ष्य निर्धारितमस्ति यच्चन्द्रमा न स्वयंप्रकाशः, सूर्यकिरणा एव चन्द्रमण्डलं प्राप्य प्रति
श्लो. २
तं देवदेवमजमच्युतमाहुरम्यम्
स्फालिताश्चन्द्रमसः किरणा इति लोके विख्याता इति । अत्र लोक दृष्टया सूर्यो यथा भारूपस्तथा चन्द्रमा अपि भारुप एव । भौतिक शास्त्र या तु सूर्यः परानपेक्ष एव स्वयंभानस्वभावः सन् लोकदृष्टया भारूपत्वेन प्रसिद्धस्यापि चन्द्रमसो भासको भवति। यथायं दृष्टान्तः, एवं प्रकृतेऽपि लोकदृष्ट्या मनसीन्द्रियेषु च स्वत एव प्रकाशोऽस्ति ; वेदान्तशास्त्रदृष्ट्या त्वात्मा एक एव स्वयंप्रकाशः पर. मार्थतः। स एव च स्वचैतन्य प्रकाशेन मन इन्द्रियाणि च स्वयंभान बत्त्वेन लोकप्रसिद्धान्यपि भासयति। अत एव सूर्यचन्द्रादिजडप्रकाशा अपि चक्षुज्ञानप्रकाश्यास्तमेव चैतन्यप्रकाशमनुभासन्त इति सिद्धम् । तस्मादयमात्मा देवदेव इति। तथा च श्रुतिः ‘तद्देवा ज्योतिषां ज्योतिरायुहोपासतेऽमृतम्’ (कृ. ४-४-१६), इति ‘न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्त मनुभाति सर्व तस्य भासा सर्वमिदं विभाति’ (मु. २-२-१०) इति
७३. स एष आत्मनः प्रकाशः कदा जाता ?
नैष कदाचिज्जातः। स्वरूपभूतत्वात् । चैतन्यं ह्यात्मनः प्रकाशो नाम । न च चैतन्यं तस्य धर्मः। तत्स्वरूपमेवेति ह्युपपादितं पथमसोकव्याख्यायां (२८-३५) चिद्रूपतानिरूपणावसरे। न च वरूपस्य जातिर्मुत्यु । यद्धि जायते तदवयं मृत्युमुपैतीति एम् । न चाऽऽत्मनो जन्ममृत्यू संभवतः । आत्मत्यादेव। न हि ने:साक्षिके आत्मनो जन्ममरणे सिध्यतः । अभ्युपगम्यमाने तु
वेदान्तबालबोधिनी
[लो
२
साक्षिणि स एव परमार्थात्मा चैतन्य प्रकाशस्वभावः सर्वावभासकः । स्वतो जन्ममरणरहितश्चेति सिद्धमात्मप्रकाशस्य जन्ममरणराहित्यम् । अत उच्यते ‘तं देवदेवमजमच्युतमाहुः’ इति । श्रुतिश्चात्र भवति ‘स वा एष महानज आत्माऽजरोऽमृतोऽभयो ब्रह्म’ (बृ. ४-४-२२) इति । अयश्चार्य सर्वकारणत्वात्। तथा हि श्रुतिः ‘तमाहुरचं पुरुषं महान्तम्’ (श्वे. ३-१९) इति । स्मृतिश्च न मे विदुः सुरगणाः प्रभवं न महर्षयः। अहमादिहि देवानां महर्षीणां च सर्वशः।’ (गी. १०-२) इति। अत एव ब्रह्मविदस्त देवदेवम् अजमच्युतमश्चं चाहुः ।। ७४. ननु भगवन् , प्रथमश्लोकव्याख्यानावसरे उत्तम् मात्मा सचिरसुख
रूपः’ इति । इदानों तूच्यते भारमा निर्मक इत्यतो नेति तिवचन रेनोपनिषत्सु निर्दिश्यत इति । किं नैतद्विप्रतिषिद्धम् ।
न विप्रतिषिद्धम् । यत्कारणं सच्चित्सुखत्वमपि न तादृग्धर्म विशेषत्वं विवक्षितम् । तथा हि सदूपत्वं तावदनात्मवद्याभिचरित. स्वरूपत्वनिराकरणार्थमुच्यते। चिस्वं च परप्रकाश्यत्वनिषेधार्थम् । सुखत्वं च दुःस्वरूपतानिषेधार्थम् । तदेवं सचित्सुखरूपत्ववाचोयुक्तचापि तत्तदनात्मधर्मविनिवृत्तिरेवाभिप्रेयते इति न कोऽपि विरोधः । वस्तुतो हि वीक्ष्यमाणे आत्मन्यसद्रूपतेव सदूपतापि नास्त्येव, अचिद्रूपतेव चिद्रूपतापि नास्त्येव, दुःखरूपतेव सुखरूपतापि नास्त्येव, प्रत्यस्तमित.
सर्वविशेषो ह्ययमात्मेति ।।
प्रातर्भजामि ७४. नन्वेवं भगवन आरमब्रहादित्वमध्यस्मिनास्येवेति भातम् । कथं तहि
श्लो. २
মাফালালি
‘आत्मतत्वम्’, ‘तना निष्कलमहर’ इत्युक्तम् ? कथं वा सर्वथा निरस्त विशेषमेतादश रूपं चेतस्यारोप्यं भवेदिति ?
सत्यम् , आत्मत्वादिविशेषोऽप्यस्मिन् परमार्थवस्तुनि नास्त्ये. बेति। तथाप्यध्यारोपित्तनामरूपद्वारेणैव निर्दिश्यते ‘सच्चित्सुखम्’ इतिवत् ‘आत्मतत्वम’, ‘ब्रह्म’, ‘देवदेवः’, ‘अजः’, ‘अच्युतः’, ‘अध्यः’, इत्यादिशब्दैरपि। तेन च निदेशेन अनात्माब्रह्मस्पतादिनिवृत्तिरेव क्रियते। तावत्तावञ्च शिष्यजनाज्ञानव्यपोहो भवति । तदेवमुपदेशार्थ. मेव आत्मब्रह्मादिशब्दा इति न तैरात्मत्वब्रह्मत्वादिविशेषा वस्तुन्य भ्युपगता भवन्ति । तदेवं सञ्चित्सुखादिशब्दरिवात्मादिशब्दैरप्यतया वृत्तिपरैब्रह्म लक्ष्यते न तृच्यत इति मनसो वचसामगम्यम्’ इति यदुक्त तदेव स्थितम् । निरस्तसर्वविशेषस्य चास्य साक्षात्स्वरूपनिर्देशनं तु प्राप्त सर्वनिर्देशप्रकारप्रतिषेधद्वारेणैव नेतिनेत्यादिशब्दैरिति च। सर्वशब्द प्रत्ययागोचरमप्यात्मतत्वमीहशोपदेशेनाधिकारिजिज्ञासूनामनुभवारूढं - भवत्यनायासेन साधनान्तरतृष्णां च वास्यति मुमुक्षूर्णा स्वात्मन्यवस्थाने इति निषेधमुखनिर्देशे विशेषः ।।
तस्मान्मुमुक्षुभिरतीतश्लोकविवरणोक्तेन मार्गेण प्रतिदिन प्रात. रुत्थायेदमात्मतत्त्वमप्रमादेनानुसंधातव्यम् । अनुसंधानकालेऽपि सु दीर्घकालाभ्यस्तानात्मवासनावासिते चित्ते पुनरयनात्मस्मृतय एवं प्रा. दर्भवेयुः। तदा तन्निराकरणेन आत्मतत्त्वमेव भजनीयम् । भजनं नाम तस्मिन्नेव तत्परतया अवस्थानम् । यथा हि लोके यस्मिन् कस्मि श्चिदपि प्रियरूपे वस्तुनि स्मृतिपथं गतेऽनुपदमेव तत्प्रात्याशा संजायतें, तदर्थ चातीव यत्यते तदर्पितचेोभिजनैः । तेन वस्त्वन्तरे चरस्थमौदा
वेदान्तबालबोधिनी
[लो. २ सीन्यं च भवति यावत् स्वाभीष्टवस्तुप्राप्तिः । प्राप्ते चेप्सिते वस्तुनि परमा प्रीतिर्जायते तस्मिन्नेव च मनी रमते इति प्रसिद्धमेतत् । एवमेव आत्मतत्त्वं दा कदा यया अनुसंधीयते तदा तत्परतया तत्तादात्म्यावस्था नार्थमध्यवसायः कर्तव्यः । तत्स्वरूपप्राध्या च तस्मिन्नव प्रेम करणीय रतिश्चेत्येवमर्थमिहोपदिश्यते ‘आत्मा प्रथमं तावत् प्रयत्नपूर्वक प्रति प्रातःकालं मर्तव्यः, स्मृतिलाभानन्तरं चेतररागविस्मरणपूर्वकं स एवं
च सादरं भजनीय इतीति शम् ॥
इति श्रीसचिदानन्देन्द्रसरखत्याख्येन भिक्षुणा विरचित्तायां
प्रातःसरणस्तोत्रध्याख्यायां वेदान्तबालबोधिन्यां द्वितीयश्लोकव्याख्यालो. ३]
यस्मिन्निदं जगदशेषतौ प्रतिभाति
ACE
RE
ET
३. आत्मैवेदं सर्वम् प्रातर्नमामि तमसः परमर्कवण
पूर्ण सनातनपदं पुरुषोत्तमाख्यम् । यस्मिनिदं जगदशेषमशेषभूता
रज्ज्वां भुजङ्गम इव प्रतिभाति तं वै ॥३॥
यस्मिन् अशेषमूर्ती सर्वात्मके इंदं नामरूपात्मकं अशेष जगत् रज्ज्वां भुजाम इव प्रतिभाति अविद्याष्टिगताम् , तं वै श्रुति प्रसिद्ध विद्वदनुभवप्रसिद्ध च तमसः परम् अवर्ण पूर्ण पुरुषोत्तमाख्य सनातनपदं नमामीति यशाश्रुतश्लोकार्थः ।।
अथ श्लोकोपात्तानां विशेषणानामभिप्राय व्याख्यास्यामः पूर्ववत् ।।
यस्मिन्निदं जगदशेषभूतौ प्रतिभाति ७६. यदेतदात्मतव्यतिरिक्तम् अनामत्वेन शृथकृतं भवदिः, तद्वस्तुतो
मेवाऽससंबद्ध मितीदमुक्तं प्राक् (६३), कुतस्य तहीदमनात्मशब्द. वाच्य देहादिकं बाबजाय ?
एतदप्यात्मन एव संभूतमासाशादिपञ्चकम, तत्परिणाम एवं च देहादिर्भूतसङ्कः । तस्माद्वा एतस्मादात्मन आकाशः संभूतः । आकाशाद्वायुः। वायोरमिः । मोशपः। अद्भधः पृथिवी । पृथिव्या ओषधयः। ओषधिभ्योऽन्नम्। अन्नात्पुरुषः’ (ते. २-१) इति श्रुतेः । न ह्यात्मनः सकाशादन्यक्किमप्यस्ति परमार्थतः ।। ७७. ननु कथमिदं जगदनामसंज्ञम् आत्मसंभूतनपि नैवाऽऽअसंबद्ध मिति ?
४२
वेदान्तबालबोधिनी
ओ. ६
शृणु। वस्तुतो नैवाऽऽत्मसंबद्धमित्युक्तम स्माभिः पूर्वम् । अवि. चारसिद्धाविद्यादृशां तु जगदशेषमिदमात्मसंबद्धं प्रतिभाति । अतो न विरोधः ।। ७४. लेषां वा तथा प्रतिभा को हेतु: स्यात् ?
___ अन हेतुश्यमेव यद्विचार्यवस्तुस्वरूपानिर्धारणम् ।। ७९. ननु भगवन् , श्रुतिरुदाहृता एतस्मादात्मन आकाशः संभूतः’ इत्येव
वदन्ती। सरिक शुतेरपि मृषावचनत्वं स्यात् ? अभ्युपगन्तब्ये तु श्रुति प्रामाण्ये आत्तानः सत्यत एदेद जाजातं प्रतीयत इति स्वीकार्य भवेत् ?
न। श्रुतेर तन्निष्ठत्वात् । न हीयं श्रुतिराकाशादिजगजन्म कथ विष्यामीति प्रवृत्ता, किं तर्हि ब्रह्मणः सत्यज्ञानानन्तरूपता प्रतिपादयि ध्यामीति। तत्प्रतिपस्युपायत्वेन त्वबिद्दष्टया प्रतीयमानं जगदिद सर्व ब्रह्मैवेति व्याचष्टे । ‘सच्च त्यञ्चाभवत् । निरुतं चानिरुक्तं च । निलयनं चानिलयनं च। विज्ञानं चाविज्ञानं च। सत्यं चानृतं च सत्यमभवत् । यदिदं किं च (ते. २-६) इति । अयमर्थः । यदिद दरीहश्यते मत चालूत च निर्वचनीयमनिर्वचनीयं च, आश्रयभूत मनाश्रयभूतं चेति विभापमानम् , चेतनमचेतनं च सत्यं च मिथ्या चेतील्येतत्सर्वं ब्रह्मैवाऽभवत् अनात्मज्ञदृष्ट्या इति । अत एव युत्तरत्रैव माह. “यदा वैष एतस्मिन्नदृश्येऽनात्म्येऽनिरोऽनिलयनेऽभयं प्रतिष्ठा विन्दते। अथ सोऽभयं गतो भवति’ (ते. २–७) इति। यदा तु परमार्थतोऽदृश्ये- अविकारभूते । अनात्म्ये- अशरीरे, अनिरुक्ते- सर्वश्धा निर्बक्तुमशक्ये,अनिलयने-आश्रयान्तर रहिते सर्वाश्रयभूते, अभयं प्रतिष्ठा विन्दते तादात्म्येनावस्थानं लभते अथ- सदैव अभयं गतो भवति- इति
श्लो. ३]
रज्ज्वां
भुजङ्गम इव
श्रुतेस्र्थः । अविदुषः पुनः फलमाह —- ‘यदा होवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति’ (तै, २-७) इति । यदैव तु स्वल्प. मप्यस्मिन् ब्रह्मणि भेदभावं करोति तदैव लस्य भयं भवतीत्यर्थः । तम्माच्छूतजगत्मटिंप्रतिपादननिष्ठत्वामाचात्, अविद्यादृष्ट्या संभूतस्य जगत अनुवादमात्रेण न मृषावादित्वं स्यात् । प्रत्युत ब्रह्मणि जगत्सं. बन्धी नेवास्तीति बिदुषो भवाहित्यकथनादस्मदुक्त एव श्रुत्यर्थोऽपी. त्यत्सीयते ॥
४०. अविद्भिर्विचार्य शानिरिणाभावमाळेगापि कथमदिधमान जगद्
वस्तुत्वेन प्रतोपेलेति न पश्यामि ।
को वा ब्रूते अविद्यमान वस्तुत्वेन प्रतीयत इति ? विद्यमानमेव खल्बात्मतत्वम् अविचारदृष्टेरनात्मरूपेण प्रतिभातीति भणामि। यच्च किंचिजगद्रूपं दृश्यते श्रूयतेऽपि वा तदेतत्सर्व वस्तुत आत्मैवेति विद्धि । अशेषमूर्तिर्हि देवः । ‘पादोऽस्य विश्वा भूतानि’ (ऋ. १०-९०-३) इति मन्त्रवर्णात् । ‘यस्यैव महिमा भुवि’ (मु. २-२-७) इति च श्रुतेः ।।
रज्ज्वां शुजङ्गम इव ६५. अन्न व्यामुग्धमिव में मनः । यसकारण पूर्व मुक्तं भगवता आमनि
नास्ति कनिद्विशेषशकार इति। इदानीं तूच्यते सर्वेऽध्याकारा आत्मन एवेति । तस्कथं न व्याहत बत्र इति ?
न व्याहतम् । यतः पूर्वमुत्तमात्मनो निविशेषत्वं यत् तद्विद्वदृष्टया । इदानी तूच्यमानम् अात्मन्येव सर्वेऽप्याकारविशेषाः
वेदान्तवाल्बोधिनी
[ो . ३ प्रतीयन्त इत्येतदविष्टिया । आत्मनि प्रतीयमानो हि विशेपो रज्जु भुजङ्गमन्यायेन वेदितव्यः ।। ४२. कथं तस्य न्यायस्थान प्रवृत्तिः ?
इत्थम् । रज्ज्वां हि वस्तुतो वीक्ष्यमाणायां नास्त्येव कुत्रापि तस्या अवयवे भुजङ्गमः। अथ च मन्दान्धकारे सा भुजङ्गमवदव. भासत इति दृष्टमेतत् । अत्र प्रत्येत्येव केवलं भुजङ्गम इति न तु तत्र भुजङ्गमोऽस्तीति रज्जुरेवानिश्चितस्वरूपा भुजङ्गमत्वेन विकल्प्यात इत्यविवादम्। एवमेवाऽऽनापि द्वैतजगद्गण विकल्प्यतेऽहरिति ज्ञेयम् । न ा नात्मा नान बस्तुतो लब्धत्त्वतन्त्रसत्ताक आत्मनि कदा चिदभूत्’, भवति वा विकल्पनाकालेऽपि । तथाप्यनिश्चिततत्स्व रूयाणामविदुधाम् आत्मैव विविधाकारबदनालोव प्रतिभाति। तस्मा दनात्मापि वस्तुत अत्मैव नान्यः । प्रतीयमानं तु रूपं तस्याज्ञानकार्य मित्यवसीयते ।। ८३. ननु भगवन् , उज्यां भुजङ्गमस्याभावेऽपि स्वयं पत्रकुत्रचिगुजङ्गमोऽस्त्ये.
बेति प्रान्त्या रज्ज्चामपि तत्मातीतिर्भवेत् । अन्न पुनर्न हात्मनो ब्यतिरिक्त सत्यं जगद्यानचित्पीति कथमविद्यमानस्यैव जगतो भान्त्यापि प्रतीतिर्भवेदारमनीति निस्सयते अम घेतः ॥
मा स्म इत्त, दृष्टान्तमानमवलम्ब्य तर्कशारणो भूः । न हि मया रज्जुभुजङ्गमयान्तबलादेव केवलमात्मनि जगद्धान्तिः साध्यते येनेत्थं
- रज्ज्वां भुजङ्गमः काय ख्याति लभते, किं वा तस्य खरूपमित्यत्र वादिविप्रतिपत्तिरस्ति । अनुशाङ्करच्याख्यानप्रस्थानमवलम्बमानाश्च केचित स्वतन्त्रा मेव काचन प्रक्रिया रचयन्ति । तद्विसस्तुि शुक्तिरजनख्यातिविचारादध्यासभाष्य ‘सुगमा’ - व्याख्यानस्वादवगन्तव्यः ।।
*लो. ३]
तमसः परमर्कवर्णम्
४५
पर्यनुयोगः स्यात् । दर्शितं हि सार्वलौकिकानुभवावष्ट भेन यथाऽयमात्मा सञ्चित्सुखधन एव निविशेष इति। अवस्थात्रयपरीक्षणेन हीदमवगतं यजामन्मानियतमाबिनोऽस्य जगतः स्वसे सुघुझे वा नात्येव स्वरूपमिति। आत्मा च बिनैव जगत्साहचः सुधुप्तेऽपि स्वरूपेणानुवर्तत इति च। तत्रैवं स्थिते याऽस्य जगतः काचित्की प्रतीतिरात्मनि, सा रजवां भुजङ्गमप्रतीतिवदपारमार्थिकीत्येतावन्मान मया दृष्टान्तेन विशदीकृतम् । तस्मात् , यथा ‘अयं भुजङ्गमः’ इत्या. कारेण प्रतीयमानं वस्तु न रज्ज्वां नाप्यन्यत्र कुत्रचिदरित, रज्जुरेव तु भुजङ्गमस्य तत्त्वम् , तथैव ‘इदं जगद’, ‘अहं मनुष्यः’ इत्याकारण प्रतीयमानं वस्तु नाऽऽत्मनि न तदन्यत्र दा कुत्रचिदस्ति । आत्मैव तु तस्य तत्त्वम् इत्येव त्वं दृष्टानुसारेण निश्चिनु, न हि हेऽप्यनुपयन नामेति ।।
__ तमसः परमर्कवर्णद ८४. अद्यात्मनोऽन्यन्नास्त्येव परमार्थतः, तीज्ञानतोऽनात्मप्रतिपत्तिरप्या स्मन एवेत्यापनम् । तस्किमिदानीमात्मैवाज्ञानाश्रय इत्यभ्युपगम्यताम् ?
ओम् । विचारात्प्रागात्मन्येव भवत्यज्ञानं, तत्रैव चानात्मजग प्रतीतिः । परमार्थतस्तु नात्मन्यज्ञानं जगद्वा विद्यते । यथैव ह्ययमात्मा अनात्मभूतं जगद्विषयीकृत्यैव गृह्णाति विविच्य, तौवाज्ञानमपि विविध गृहातीत्यत: सिद्धं न विषयिणि सचिदात्मके आत्मनि विषयभूतस्याज्ञानस्य मनागपि संसर्ग इति । अत एव हि श्रुतिः ‘वेदाह. मेतं रूपं महान्तम् आदित्यवणे तमसः परस्तात् (श्वे. ३-८) इति ।। … जट पूर्वमुक्त नाऽऽत्मनः कश्चिद्वर्णोऽस्तीति तय निर्विशेषत्वं स्थाप
पतिः । तत्कथमयमादित्यवर्ण उच्यत इदानीम् ?
वेशन्तबाटबोधिनी
श्लो. ३
अपमुदाहृतश्नुतेरभिप्रायः । यथा ह्यादित्ये प्रकाशैकरूपे तम स्संसर्गस्य संभवो नास्ति। एवमात्मनि चित्प्रकाशैकरूपे अज्ञानस्य संभवो नास्तीति । अज्ञानम् , तमः, अविद्या, मोहः, श्रमः- इति पर्यायाः। तस्यास्याज्ञानतमसः संसगो न कथञ्चिदणुमात्रमध्यात्मादित्यस्य नित्यचित्प्रकाशस्वरूपस्येति ॥ ८६. ननु तर्हि जगत्प्रतीते: कावसर; ?
नात्येत्र कोऽप्यात्मदृष्टया ।। ४७. ननु सन्ति बहो ये आमहानिन इति गण्यते। लेन्यस्मदादिदेव
व्यवहरन्ति । चदि हि तेजी जगत्प्रतीतिन स्यात् , कं नु तेषां च्यव. हारोऽअकल्पेत ?
धुपरिवर्णितविषया आत्मदृष्टया वीक्ष्यते, तर्हि नैदोपलभ्ये. रन् शानिनोऽज्ञानिलो वा आत्मम्मतिरिक्ताः । नापि देहेन्द्रियविषयाः । अविद्यातिमिरान्धदृष्टीनां तु सर्वमिदं सर्वदा भातीत्यविञ्चित्करमेतत् ।।
पूर्ण सनातनपदं पुरुषोत्तमाख्यम् ४६. तदेतदारमतवं किंकिंरूपेण कदा कदा छ कुन भवति ?
इदं सर्वदा सर्वत्रैकरूपेणैव भवति । तस्यास्यैवाऽऽख्या पुरुषोत्तम इति ।। ८९. कथमेतदिति विस्तर अतुमर्हति भगवान् ।
शृणु। तदेतत्तत्वं सनातनं शाश्वतम् । यतः कालकृतपरि च्छेदरहितम् । कालस्याप्ये तदतिरेकेणाभावात् । ‘सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि’ (ते. ना. १) इति श्रुतेः । पूर्ण च सर्वव्यापकम् ।
पूर्ण सनातनपदं शुरुषोतमाख्यम्
तेनेदं पूर्ण पुरुषेण सर्वम् (ते. ना. २८) इति श्रुतेः । लोके पूर्णत्वे - नाभिमतस्य आकाशस्याप्येतदधीनसत्ताकल्यादेतेनैव पूर्णः सोऽपीति । ‘तस्माद्वा एतस्मादात्मन आकाशः संभूतः’ (ते. २–१) इति श्रुतेः । पुरुषोत्तमाख्यं चेदम् । यलो वस्तुकृतपरिच्छेदशून्यम्। एतदति रेकेण कस्यापि द्वितीयस्य वस्तुनोऽभावादेव। ‘एकमेवाद्वितीयम्’ (छां. ६.२–१) इति श्रुतेः ॥ ९०. कथं पुनर्वस्तुकृतपरिच्छेदाभावमात्रेण पुरुषोत्तमाया ?
उच्यते। जामस्वभयोरुपलभ्यमानं सर्वमपि व्याकृत क्षरसंज्ञ भवति । नश्वरस्वभावत्वात्। सुपुतिप्रलययोः शक्तिरूपेणावस्थितमिति यदनुमीयते तदक्षरसंझं भवति । यद्यपि परमार्थदृष्टया सुधुने न किञ्चि दप्यात्मव्यतिरिक्तं वस्तु विद्यत इति दर्शितं प्रागस्माभिः । न तु तद् द्वितीयमस्ति ततोऽन्यहिभक्तम्’ (बृ. ४-३-२३) इति च अतिः। तथापि मन्दधियः कल्पयन्ति, सुप्तिप्रलययोरयं प्रपञ्चो बीज. रूपेण विद्यत एव, कथमन्यथा जाग्रति स्थितिकाले वा संभवेदस्य पुनः प्रतीतिरिति । तदेतदरनुमानेन कल्प्यमानं प्रपञ्चबीजम् अक्षरसंज्ञ भवति। आत्मा तु वर्णितं क्षरमक्षरं चातीत एव परमार्थतः । नित्य निवृत्तद्वितीयवस्तुतत्संस्कारसंपर्कत्वात् । यथोक्तं गीतासु द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च। क्षरः सर्वाणि भूतानि कूटम्योऽक्षर उच्यते ॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः !! यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ।। (गी. १५-१६.
१७, १८) इति ॥
वेदान्तबारबोधिनी
[लो. ३
९५. सर्भमा विद्यमान वस्तु देशकालवस्तुपरि दयदेव दृश्यते लोके !
यद्यहि विद्यभागस्थिति विभाब्यते इतर करिमश्रिद्देशे काले या अवश्य विभाव्यते। वस्त्वन्त तद्बुद्धिर्विनिवर्तत इति प्रसिद्ध लेतत् । भारमतवमेव तु सकलबस्न्वन्तरविलक्षणम् , सर्वथाप्युक्तपरिछेदनय. शून्य सिया को हेतुः ?
शृणु तत्र कारणम् । सर्वाण्यपि हि वस्तूनि सह कालाकाशा. माम् अनात्मभूतानि आत्मन्येव लब्धस्थितिकानि भान्ति । अनात्मा च रज्ज्वां भुजङ्गम इव प्रतीतिशरीरमात्र इत्येतदमिन् प्रकरणे प्रदर्शितमन्माभिः । प्रकरण नाम शास्सैकदेशसंबद्धो अन्धः । वेदान्तशाले
च परमात्मा देशकालवस्तुऋतपरिच्छेदशून्यः प्रत्यगात्मानन्यश्च त्येष प्रधानभूतो विषयः । एष एवार्थोऽसिन प्रकरणे स्वमजागरसुषुप्ता ख्यावस्थात्रयपरीक्षणेनोपराध रज्जुसर्गदृष्टान्तेन विशदीकृतः। यथा हि रज्ज्वा प्रतीयमान; सर्पो रज्जुस्वरूप न किञ्चिदतिशयाबहो न्यूनतापादको बा, एवमेव देशकालवस्तून्यपि निर्विशेषे अद्वितीयात्म स्वरूप न किंचिदतिशबावहानि न्यूनतापादकानि बा। सत्यानृतयोहि न कश्चिदपि कश्चन संबन्धोऽस्तीति ।।
प्रातनमामि ९२. तवं सति यथोक्तालवस्तु, ज्ञातवासा कि कामिति भगवतो मत्तम् ?
का वा तस्य कार्याका चिन्ता ? यथा हि कश्चिदमिलपितबस्तु. प्राप्तौ तस्मिन्नेव रत आनन्देन कालं नयति, एवमसावपि ज्ञानी प्रात. रुत्थाय स्वात्मनः स्वजागरसुषुप्ताख्यावस्थात्रयातीतत्वम् उपशान्त सर्वप्राञ्चत्वं सचित्सुखात्मकत्वं च मनस्यनुसंदधाति । तस्यैव मनोवाग गोचरस्थ स्वयंप्रकाशस्य मनोवागादिसकलकरणजातस्यापि ज्योतिष्ट्वानु.
श्लो. ३]
মালালানি
४९
ग्राहकस्य जन्मादिविकाररहितस्य नित्याविलुप्तस्वरूपस्य समस्तजग. कारणतां च पुनःपुनर्विभावयन् तमेव भजते । जगत्कारणं सदिदमात्म. तत्वम् अज्ञदृष्ट्या सकलविशेषरूपेण प्रतिभासमानमपि स्वरूपेण क्षराक्षरसंज्ञितस्य बीजाङ्कुरभावेन वर्तमानस्यास्य जगतो गुणदोषैरणु मानमप्यसंस्पृष्ट रज्जुसर्पवत्प्रतिभासमात्रशरीरस्यास्य परमार्थाधारभूतं नित्यशुद्धबुद्धमुक्तस्वभावं चेति मत्या सर्वात्मानं तमेव नमस्करोति । एवं तम्मरणदर्शनमनन विज्ञानातिशयालयतावस्तस्मिन्नेव रतः, विगतसर्व विषयाभिलाष आनन्देन कालं नयति। न हि ताशय नित्यमुक्तस्य इदं कर्तव्यम् इदमकर्तव्यम् इति विधिनिषेधगोचरता संभवति । सर्वथा कृतकृत्यत्वात् । तथा हि श्रुतिः ‘अधात आत्मादेश एवात्मैवाचस्तादात्मोपरिष्टादात्मा पवादात्मा पुरस्तादात्मा दक्षिणत मात्मोत्तरत आत्मवेदः सर्वमिति स बा एष एवं पश्यन्नेर्व मन्वान एवं विजाननात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दस्स स्वराड भवति’ (छा. ७.-२५-२) इति। स्मृतिश्च ‘एतद्धा बुद्धिमान् स्यात्कृत कृत्यश्च भारत’ (गी. १५-२०) इति॥
इति श्री सच्चिदानन्देन्द्रसरस्वत्याख्येन भिक्षुणा विरचितायां
प्रातःस्मरणस्तोत्रव्याख्यायां वेदान्तबालबोधिन्या नृतीयश्लोकव्याख्या
वेदान्तवालबोधिनी ५, स्तोत्रपठितृणां फलम् श्लोकत्रयमिदं पुण्यं लोकत्रयविभूपणम् । प्रातःकाले पठेवस्तु म मच्छेन् परमं पदम् ।।
यस्तु इदं पुण्यकरं शोकत्रयं प्रातः स्मरामि’ इत्यादिक लोक अयस्याप्यलारभूतं प्रात:काले सुरुत्थाय पठेत् स मानवः परमं पदं मोक्षाख्यं गच्छत् चित्तशुद्धयादिक्रमेणेति यथाश्रुतश्लोकार्थः ॥
अथ शोकविशेषणाभिप्रायः स्तोत्रपाठफलं च विशदीक्रियते ।।
श्लोकत्रयमिदं लोकत्रयविभूषणम् १३. ये त्रिमं प्रकरणदर्शितभयं सहसा साक्षात्कर्तुमसमास्तैः कितनुष्टेयम् ?
तेषामप्यस्ति किंचित्साधनम् । ते सर्वे प्रतिदिन प्रातरुत्थायेदं लोकत्रयं पठेयुरादरात् । एते हि श्लोकाः परममङ्गलस्वरूपस्य ब्रह्मणः प्रतिपादकत्वेन स्वयं मङ्गलरूपाः । अत एषां श्रद्धाभक्तिपुरस्सरं पाठात् पठितणामतिशयिता पुण्यावाप्तिर्भवेत् । किं चाय लोकत्रयान्तर्गतो विचारः स्वर्गमयंपालालाख्यलोकनयस्याप्यलङ्कारभूतः । न हि लोक. ब्रयेऽपि ब्रह्मात्मलाभविचारतोऽधिको मङ्गलतरो विचारो विद्यते । अथवा लोकत्रयविभूषणमित्यस्यान्यथापि व्याख्यानं भवति। स्वाभाविक शास्त्रीयोभयव्यवहारास्पदं प्रायवस्तुग्राहकज्ञानरूपेण विभक्त जागरित लौकिकमित्युच्यते। सर्वलोकसाधारणत्वात् । तदाभासरूपं स्वप्मस्थानं शुद्धलौकिकमित्युच्यते। प्रतिपुरुषमन्तर्विभाव्यमानत्वेन स्वासाधारण त्वात् । सर्वथा ग्राह्यग्रहणविभागरहित सुषुप्तं लोकोत्तरमित्युच्यते । लोकातीतत्वात् । तदेव लौकिकादिनाना अभियुक्तैर्यपदिश्यमानमवपटिनूगां कमेध परमपदप्राणिः
स्थात्रयमिह लोकत्रयशब्देनाभिधीयते । लोक्यतेऽनुभूपत इति लोकः अनु भवगोचर इति यावत् । एतत्त्रयव्यतिरेकेण चानुभाव्यविषयासंभवात् एतदेव लोकत्रयम् । यस्मादस्मिन् श्लोकत्रये अवस्थात्रयविचारावसेयं मङ्गलरूपमात्मतत्वं प्रशंसितम् , तस्मादयस्थात्रयविभूषणभूतमिदम् ।।
पटितण क्रमेणा परमपदग्राप्तिः ९४. तथापि श्लोकानां पठनमानेग कथं परमपद्गमनं भवेत् ?
उच्यते। प्रतिदिनमेषां प्रातःकाले पठनेन पठितुश्चित्ते पुण्य वासना उपचिता भवति । ततः स्ववर्णाश्चमधर्मानुष्ठानेन भगवत्तोषणा चित्तशुद्धिर्मविता । ततश्च वैरायविवेकमुमुक्षादिसाधनसंपत्तिर्भवेत् । तदनु सद्गुरुपादमूलं प्राप्य तत्प्रणिपातपरिप्रश्नादिसाधनलाभः । तदनु वेदान्तश्रवणमनननिदिध्यासनक्रमेणाऽऽत्मतत्त्वस्य पूर्णमेव विज्ञानं समुदेति। तत्र श्रवणं नाम वेदान्तवाक्यार्थस्य आप्तेभ्य आकलनम् । मननं च श्रुतस्यार्थस्य पुनः पुनः सार्वत्रिकानुभवानुसारियुक्त्या परि शीलनम् । निदिध्यासनं पुनम्तस्यैवार्थस्य मनस एकाग्रीकरणेन तदेक. ध्यानेन स्वानुभवारूढतापादनम् । एतद्धि, श्रवणमनननिदिध्यासन रूप साधनमकतां गतं मुमुक्षूमा प्रापयित तद्धिप्योः परमं पदमिति ।। इति श्रीमत्दूज्यपादशङ्करभगवचरणस्मरणपरिचयावावेदान्तप्रवेशेन श्रीबोदानदेन्द्रसरस्वतीशिष्यश्रीमचिदानन्दन्द्रसरस्वत्याख्येन
भिक्षुणा निर्मिता प्रातःस्मरणस्तोत्रव्याख्या वेदान्तवालबोधिनी संपूर्ण
ॐ तत्सत्
वेदान् बालबोधिनी
सार्थविशेषशब्दानुक्रमाणिका
अत्रत्याः सङ्ख्या अन्यशरीरस्थखण्डपरामर्शिकाः अक्षरम्- मिथ्याज्ञानकल्पितं जगढीजम् , ९० अमः- मूलकारणभूतः परमात्मा, ७३ अच्युतः- विकारहीनत्वान्नाशरहिन आत्मा, ७३ अजः– जन्मादिविकाररहित आत्मा, ७३ अज्ञानम्- आत्मस्वरूपस्याज्ञानादन्याथैव ग्रहण, ६५, ८४ सवस्थात्रयम्- जाग्रत्स्वप्नमुषुहाउसस्थितिविशेषाः, ‘५ अविद्या- अज्ञानशब्दं पश्यत । अहवारः- अभिमानाश्रय मूनमन्तःकरणम् , ४३
आत्मतत्त्वम्- आत्मनः परमार्थस्वरूपम् । ४ आत्मानुग्रहः- आत्मचैतन्येन प्रदीपनम् , चिदाभासः, ७० आत्ता - सारूरम् , सर्वेषां. परमार्थ महाभूतः परमात्मा, २, ६९ इन्द्रियाणि - आत्मनो विषयमानार्थ कर्मार्थ चापेक्षितानि करणानि, (अस्मिन्
प्रकरणे श्रोत्रादिज्ञाननेन्द्रियाण्येव विशेषतः परामृष्टानि), १० उपलक्षण - अविशेषगमय च वस्तुज्ञापकम् , ७१ उपाधिः- यत्माहचर्याद्वस्तु तथा तथा विभाव्यते मया चक्षुनिमित्तमेवाऽमनों
द्रष्टत्व मात्सनो भातीति तद्मृतो च झुरुपाधिरिति व्यपदिश्यते, २७ एवणात्रय- पुत्रत्रगा, वित्त कमा, लोकपणे,ते. त्रितयम् , यत्प्रयुक्तं सबै कर्म,
५८ क्षरम्- विनशनशीलं जगत , ९० चैतन्यम्- स्वरूपभूत ज्ञानरूपमात्मनः, चिद्रू मिलपि व्यपदिश्यते, २८, ३३ जागरः- इन्द्रियविषयोपलब्धिः ; जागरा, जागिरतम् , जाग्रत् , प्रबोधावस्था
इति नामान्तराज्यस्यैव, १० ज्ञानम्- आत्मनः स्वरूपभूतं चिद्रूवम् ; ज्ञानाभासः प्रत्ययः, ३३ ।
द्रष्टव्यः प्रत्ययशब्दः। तवम– तस्य भावः, परमार्थस्वरूपम् , ४
सार्थविशेषशब्दानुक्रमणिका
तमः- अन्धकारबदात्मतत्त्वतिरोधायकत्वेन कल्पितमज्ञानम् , ८५ तुरीयम्- चतुर्थेन, अवस्थात्रयानुभवितृरूपाद्विलक्षणमित्यभिप्रायेण आत्मतत्व
‘तुरीयम्’ इत्युच्यते, ५४ । दृष्टान्त:- चिवक्षिताविशदीकरणाय लोकष्टस्य कस्यचिदर्थस्य निदर्शनम् , ८२ दृष्टवादिकम्- द्रष्टा, श्रोता, सन्ता, विज्ञाता, बर्ता, भोक्ता– इत्येवं देहेन्द्रिय
भनआदिव्यापारकतृत्वम् , ४ निगमा:- उपनिषदः, निश्चयेनाऽऽत्मतत्त्वं गमयन्तीति कृत्वा, ६५ निदिध्यासनम्- मनसस्तदेकथ्यानेनानुभवपर्यन्ततापादनम् । नेदं भावनारूपम् ,
__किंतु चित्तैकाग्रीकरणेन रत्नादिपरीक्षणवदात्मन्येवैकाग्रीकरणेनान्वेषणम् , ९४ निर्भकम्- निर्गुणमात्मवस्तु, ७१
निर्विशेष- नामजात्यादिविशेषरहितमात्मतत्वम् , ६८ पञ्चभूतानि- प्रथिव्याजोवाय्वाकाशानि, गन्धाद्यसाधारणगुणवन्ति, ६२ परमहंसा:- चावविधयेषु विस्ताः परमात्मैकारणाः परिव्राजकाः परमार्थ
संन्यासिनः, ५६ पुरुषोत्तमः- अराक्षरातीतः परमात्मा, ८९ पूर्ण:- सर्वव्यापकः परमात्मा, ८९ प्रकरणम्– शास्त्रकेदशविवेचनपरो ग्रन्थविशेषः, ९१ प्रत्यक्षादीनि- प्रत्यक्षम् , अनुमानम् , उपमानम् , शब्दः, अर्धापत्तिः, अनुप
लभिः - इत्येतानि यथार्थज्ञानकरगानीति दर्शनकाररभ्युपगतानि, २४ प्रत्ययः– अन्तःकरणवृत्तिविशेषो येन बाहाविषयो ज्ञायते, ३२ प्रमा- यथार्थज्ञानम् , ७१ प्रमाणम्- प्रमाकरणम् , ७९ ब्रह्म- सर्वथापि निरतिशयबृहत् परमात्मस्वरूपम् , ६०
भूतसङ्क:- पञ्चभूतैरारब्धो दहकरणासङ्घातः, ६२ : द्रष्टव्यः सातशब्दः । मन:– अन्तःकरणम् , यस्य प्रत्ययैर्वाद्यवस्तूनि विज्ञायन्ते, तस्यैव ‘हत्’ इति
नामान्तरम् , २ मननम्- श्रुतस्य वेदान्तार्थस्य पुन:पुनरनुभवानुसारियुक्तया परिशीलनम् , ९४ ममुक्षवः- भूतसङ्ग्रपदेहादितादात्म्यामियाबुद्धिबन्धान्मोक्षमिच्छवः, ६४
५४
वेदान्तबारबोधिनी
लोकष्टिः- व्यवहारे स्थिताना जनानां दृष्टिः, ७२ विकल्प:- रजौ सर्प इव मनःकल्पितविशेषाकारः, ८२ विषय:- ज्ञानकर्मभूतं वस्तु, २ । इन्द्रियार्थः शब्दादिः, २५ ; अद्याप ज्ञाने.
च्छाकृतिसंस्कारदोषाः सर्व एव सांवेश्याः, तथापि ज्ञानकर्मभूत एव त्वत्र
विषयत्वेन विशेषतो त्यपदिश्यते । विषयी- प्रकाशनकर्ता, ज्ञाता, २
वृत्तयः.. अन्तःकरणापरिणामविशेषाः । असिज प्रकरणे ज्ञानरूपपरियामविशेषा
एक प्रत्ययापरनामधेया वृत्तिशब्दनोच्यन्ते, ३३ वेदान्ताः– उपनिषदः, ६५ वेदान्तः- उपनिषदर्थनिरूपक दर्शनम् , ९१ शब्दप्रवृत्तिनिमित्तम्- नामरूपजात्यादि, चिमनीकृत्यैव शब्दो वस्तुषु वर्तते, ६८ शमदमादीनि- शमो दम उपरतिस्तितिक्षा श्रद्धा समाधानाख्यानि साधनानि:५६ शास्त्रदृष्टि:- शानस्थितानां परमार्थदृष्टिः, ४२ शुन्यवाद:- सर्व निरात्मकमेव, सर्वथा नि:श्व भावम् इत्यातिष्ठमानानां बौद्धानां
वादः, ६९ श्रवणम् - वेदान्तवाक्यार्थग्रहण : ९४ श्रुति:- उपनिषद्वाक्यम् , ६७ संहता:- अन्योन्यसाहाय्येन कार्यकारिणः, ३१ ; नेषां समूह एत्र सञ्चसङ्घातादि
शब्दवाच्यः । यथा देहेन्द्रियसतातः, भूतसङ्घः इति ।। सञ्चित्सुखरूपत्व- स्वरूपतः सत्यज्ञानानन्दत्वम् , २८ सनासन:- कालापरिनिन्नः शाश्वत:, ८९ साक्षी- सर्वस्य साक्षादृष्टा, चिप आत्मा, ७३ सुषुप्तम् , सुषुतिः- स्वामरहिता सुतिः, यत्र नेवाऽनात्मभूतं किञ्चिदपि दृश्यते,५० स्वभ:- यन्त्र देहकरणविषयाः मिथ्यैव भासन्ते, ताहशी मुप्तिः । ९ स्वयंप्रकाश:- अन्यनिरपेक्षत्रिय आत्मा, यत्प्रकाशनैव सर्वमिदं विभाति, ७२ स्वयंसिद्धानुभव:- प्रमाणनिरपेक्षमेव सिद्धमात्मचैतन्यम् , १५०
By The Aadhor of “Vedanta Balatorik isz?”
31
[Works calculated to enable students of philosophy to determine the exact method of Shankars’s Vedanta System)
isavanya Upaaishad Bhasya :- A Critical Edition of the Text with Commentary. Hoct-notes, the text in the Madhyandiox Reconsient Suminary of the Upanishad, an Appoudix discussing the Samucłchaya- Vadas Iudex and other sids. R$, 0.30
Vedanta Dindina : The Drum-beat ci Vedanta by Sri Nrisimla Saraswati Thirtha. Sadeorit Text critically edited with an originsi Commentary.
Rs. 0.63 Sugame :- A new Comineptary on Sri Shankara’s Introduction to his famous Sutra Bhashya. Clear’s out of the way all later uo desirable accreticas to genuine Vedanta.
Rs. 1.50 Mandukya Rabasya Vipsiti :- AO Exhaustive Commentary on lihe Mandukya Upanishad and the Gaudayada Karikas thereon. The fudapeutal difference between the Advaita Vedanta, and the Mabar yana Systera, has been clearly brought out here.
Rs, 12.00
READY FOR THE PRESS Bhashyas on THE KENOPANISHAD, MUNDAKA UPANISHAD. ind the TAITTIREEYA UPANISHAD with Notes etc..
Apply for Details to: TUE ADHYATMA PRAKASHA KARYALAYA
HOLENARSIPUR. .* DIST MYSORE STATE, SOCTIILRY RAILWAY
कतिचन वेदान्तग्रन्थाः (शाहरवेदान्तप्रक्रियानिर्धारणे सहायकाः)
एतदन्थकर्तृभिरेव प्रणीतटिप्पणादिसंबलिताः १. ईशावास्योपनिाच्छाङ्करमाध्यम् - विषयविभागानुसारेग प्रविभक्त भाष्यशरीरम् , भाष्यान्तरसंत्रादादिटिप्पगयुतम् , जिज्ञासूपयोगिपरिशिष्टमन्त्रानु क्रमाणे काशब्दच्यादिसमेत च ॥ इदानींतनं मूल्यम् रू. ७.५०
२. वेदान्तडिण्डिमः – श्रीमन्नृसिंहसरस्वतीतीर्थतः भावबोधिन्याख्य नवीनव्याख्यानसंयुतः; शोधितपाठथ ।
रू. ०.६३ ३. मूलाविधानिरासः - “शङ्करहदया पराभिधानः । अढतवेदान्त प्रक्रियातत्वविमर्शनपरो निबन्धः समभागवचनः । वेदान्तविद्भिरवश्यमवलोक नीयः ॥
रू. २.५० ४. सुगमा– अध्यासभाध्यस्य नवीनव्याख्या। अत्र भाष्यकारोक्युपजीव नेनैव शाङ्करवेदान्तप्रक्रिया वाचकहृदयनीकुता। शुद्धसंप्रदाविरुद्धा वादाश्च तत्र तन्त्र अतियुज्यनुभवप्रातिकून्य प्रकटनपूर्वक निर्विशकं निराकृताः । रू. १.५० ___५. माण्डूक्मरहस्यविश्रुति: – माण्डूक्योपनिषद्याख्या गौडपादीयकारिका - व्याख्या च । अन्न माण्डूक्योपनिषदि गर्भीकृतानि नकानि रहस्यानि श्रीगौडपादा मिमतप्रक्रियानुसारेणोद्धाटितानि । श्रीशङ्करभाष्योक्त्युपजीवनेनैव उपनिषदः कारिकाणां चार्थो भाष्यान्तरोक्तिसंगानेन व्याख्यान्तरदोषावकरणसहितं व्याकृताः । अर्वाचीन ग्रन्थपुरातत्वशोधकोत्थापितमतान्तरसंक्रान्तिशङ्कानिरसनपूर्वकं गौडपादीय प्रक्रिया विशदीवृत्ता च ।।
रू. १२.०० अचिरादेव प्रचिकाशयिषितानि केनमुण्डकतैहियादिभाष्याणां टिप्पणव्याख्यानादीनि ।। पुस्तकप्राप्तिस्यानम् :
अध्यात्मप्रकाशकार्यालयः, होळेनरसीपुरम् ,
(हासन जिल्ला, मैसूरु संस्थानम् , दक्षिण रेल्वे.)
MANDUKYA RAHASYA VIVRITI (An open sesame to the Mandukya) SOME OPINIONS
- Very useful to the students of Adwaita Vedants who follow the modern method as well as the ancient ovo. Svamiji’s Comnuantary on the Karikas shows the depth of his knowledge in the subject, the clarity of his expression and his lucidity in style. -The Sunday Standard
- This is cot merely a Commentary on the Karikas of Gowdapade. The author covers a much wider ground, taking into account all relevent criticism and digcuases threadbare the implications of the Advaita standjoint vis a vis the other systems, —The Vedanta Kesari
- The Introduction in English and the Bhumika ja Sanskrit are both scholarly and valuable… The language is easy and forcible… This is a book that requiros and degerveg careiul study, -The Probuddha Bharata
- It is an erudite and scholarly work explaining the Upapiehad sed Karika passages fully and thoroughly with appropriate beadings and often criticises views held by others… The language einployed in the commentary is rasjestic and heautiful and ove rarely comes uoross such writing cowadays. –The Bindu