तृतीयः
तृतीयः खण्डः (स्वप्रक्रियानिरूपणम्)
D.C.CO.
यद्भाष्यालोकहीनास्तमसि निपतिता भावरूपामविद्या मूरीचक्रु : सुषुप्तौ परिणतिमपि च प्रोचुरस्याः प्रबोधे । सद्योमुक्तिं च गौणी विदुषि मललवं प्रेत्य मुक्तिं च मुख्याम्
त्रय्यन्तार्थप्रकाशानखिलगुरुगुरून् पूज्यपादान्नमस्ये ॥ यो वार्तिकाख्यममृतं परमादरेण निष्पक्षपातमखिलं व्यदधादुदार । भाष्याब्धितः प्रमथितं भवदुःखितेभ्यो नूनं सुरेश्वरममुं प्रणमामि भक्त्या ।।
स्वप्रक्रिया सङ्क्षपतः ६५. परमार्थज्ञानमवस्थात्रयपरीक्षणमात्रगम्यम् - इत्थमियमेकीय प्रक्रिया युक्त्यपेता", दुरवधारणायाः स्वाभ्यूहमात्रसिद्धाया मूलाविद्याया अभ्युपगमात्, निष्फला च, तदङ्गीकारेऽपि जिज्ञासोराशङ्कापारम्परी समुत्थानस्य दुर्निवारणत्वादिति बह्वीभिरुपपत्तिभिः प्रतिष्ठापितमेतत्प्राक्तनेन विचारसंदर्भण । अथेदानीं श्रीमद्गौडपादभगवत्पादाद्यभियुक्तसम्मता श्रौती प्रक्रिया निरूप्यते । जिज्ञासुदृष्ट्या तावद्विद्यन्तेजागरितस्वप्रसुषुप्तिसमाख्या स्तिस्रोऽवस्थाः । आसामन्यतमावस्थायामप्यचिन्तितायां तत्वस्या - नवस्थानात्, विचारितासु तास्ववस्थासु कस्यचिदपि विज्ञेयान्तरस्या
५८. युक्त्यनपेता इति प्रथममुद्रणे ॥ ५९. सर्वप्रावादुककल्पितवस्तुनोऽत्रैवान्तर्भावात् ।। मां. का. भा. ४-८८
८९
खण्ड:)
स्वप्रक्रिया सङ्क्षपतः - नवशेषाच्चासां तिसृणां विचारे तत्त्वपरिसमाप्तिरिति सर्वैरभ्युपेयम् ॥
६६. अवस्थात्रयप्रक्रियायां सामान्यत आक्षेपाः - ननु जागरितस्य सकललौकिकवैदिकव्यवहारभूमित्वादस्तु विचार्यत्वम् । स्वप्रसुषुत्योस्तु न किमपि विचारणाहँ पश्यामः । तत्र स्वप्नो हि नाम कादाचित्का निद्रादोषजन्या भ्रान्तिः न तु जाग्रद्वस्तुसतां दृश्यानामवकाशोऽत्र । सुषुप्तिस्तु सर्वकरणव्यापारोपरममात्रं न पुनरनुभवान्तरम् । तदेवं स्थिते किमस्ति तत्र यद्विचारणेनापि तत्त्वनिर्धारणमावश्यकं स्यात् ? अथाभिप्रायः - भ्रान्तिः करणोपरमश्चास्माकमनुभवान्तर्गतावेव तत्तेषामपि विचार्यत्वम्, अन्यथा पूर्णानुभवाकलिततत्त्वनिर्धारणं न स्यादिति । तर्हि स्वप्रवदेव भवन्ति विचार्या मदमूर्छादयोऽप्यवस्थाः । तेषामपि हि स्वरूपं परिशील नीयमेव तत्त्वं बुभुत्सुना, अन्यथा पूर्णानुभवसम्प्राप्त्यभावप्रसङ्गादेव । अपि चैकस्य पुरुषस्यावस्थानां विचारणेन कथं सर्वमपि विदितं भवे? सन्त्येव खलु परे येषामनुभवोऽपि तत्त्वनिर्णयाय नात्यन्तमनपेक्षितव्यः । किं चान्यदनादिकालात्प्रवर्तमानस्यास्य जगतस्तत्त्वं कथं तदन्तर्गतैकपुरुषावस्थामात्रविचिन्तनेनाध्यवसेयो भवेदिति ?
६७. समाधानम् - अत्रोच्यते - यत्तावदुच्यते जागरितस्य सकल व्यवहारभूमित्वमिति, तदभ्युपगम्यत एव । तद्गतव्यवहारस्य तु स्वरूपतः किं परमार्थसत्यत्वं अथवा स्वप्रादितौल्यमेवेति विशये स्वप्रादिस्वरूप विचारणं बलादायात्येव । अतो विचारणीये स्वप्नसुषुप्ती । यत्पुनरुक्तं स्वप्रः कादाचित्कभ्रान्तिमात्रं सुषुप्तिश्च करणव्यापारोपरम एव नान्यत्तत्र किमपि विचारणयमस्तीति । तत्रापि जाग्रव्यवहारपक्षपातिभिः पुरुषैः
मूलाविद्यानिरासः
(तृतीयः कादाचित्कत्वेन स्वप्रसुषुप्ती व्यवह्रियेत इति तु सम्प्रतिपन्नमेव । तथापि खलु परीक्षणीयावेव स्वप्रस्वापौ - किं यथाप्रतिपन्नावेव तौ भवतः, किं वान्यथापीति निर्धारणार्थम् ।।
यत्तूच्यते मदमूर्छादयोऽपि स्वप्नवदेवावस्था इति तेऽपि विचारणीया भविष्यन्तीति । तदप्यभ्युपगम्यते । कामं भवन्तु तेऽपि विचारणीया, न तु तेषां तावता स्वप्रसाम्यं स्वीकर्तुमुचितम् । न हि मदमूर्छादयः सर्वेषां पुरुषाणां साधारणाः, येन तेषां स्वप्रतौल्यं भवेत् । क्वचित्कस्यचिदेव भवन्ति मदमूर्योन्मादादयो नैमित्तिका अवस्थाः । तेन तेषां सकलपुरुष साधारणात्स्वाभाविकात्स्वप्राद्वैलक्षण्यमेव युक्तं स्वीकर्तुम् । एतेन समाधि रपि व्याख्यातो वेदितव्यः ॥
किं च मदमूर्छादीनामवस्थात्रिकातिरिक्तत्वमापातत एव । अन्ततो गत्वा सर्वा अप्यवस्थास्तिसृष्वेवान्तर्भवन्तीत्येव सम्यग्दर्शनम् । तथा हि - दर्शनवृत्तिरदर्शनवृत्तिरिति च परस्परव्यावृत्ते द्वे अवस्थे समनुभूयेते इत्यविवादम् । तत्र दर्शनादर्शनोभयसमधिकस्थितस्वरूपस्य सम्भावयितु मप्यशक्यत्वात्, युगपच्चैकत्रोभयस्य विरोधादसम्भवे, सर्वासामप्यवस्थानां द्वयोरेवान्तर्भावनं न्याय्यम् । तत्र दर्शनवृत्तिरूपौ जागरितस्वप्नौ, अदर्शन वृत्तिश्च सुषुप्तिः । मदमूर्छादयस्तु यदि न जिज्ञासोरन्येषां तर्हि जागरित निरूपणेनैव तेऽपि निरूपिता भवन्ति, दर्शनवृत्त्यवस्थापरिच्छिन्न स्वभावत्वात्तेषाम् । अथ जिज्ञासोरेव ते मूर्छादयः, तथापि दर्शनवृत्तयो वा भवेयुरथवा स्युरदर्शनवृत्तय इति जागरितस्वप्नसुषुप्त्याख्यावस्थात्रयमेव सम्यग्विचारितमलं तत्त्वनिर्णयायेति समीचीनमेवोक्तम् ॥
खण्ड:)
स्वप्रक्रिया सक्षेपतः यत्पुनराशङ्कयते - सन्त्येव परे येषामनुभवोऽप्यपेक्षितव्यः परीक्षणाय, अन्यथा तत्त्वनिर्णयाभावप्रसङ्गादिति । तत्र येऽभ्युपगम्यन्ते परत्वेन, तेषामपि स्वस्यैव जागरिते समुपलभ्यत्वात् स्वजागरितपरीक्षणेनैव तेषामपि परीक्षितत्वं भवतीति न तत्त्वनिर्णयस्य कापि विकलता भवेत् तेषामपृथग्वि चारणेन । अतोऽयमप्यदोषः ॥
यश्चाक्षेपः - अनादिकालात्प्रवर्तमानस्यास्य जगतस्तत्त्वं कथं तदन्तर्गतै कपुरुषावस्थामात्रविचिन्तनेनाध्यवसेयो भवेदिति । तदपि तत्त्वपरीक्षाप्रक्रियानभिज्ञतानिबन्धनं समुत्थानम् । न हि निष्पक्षपातं तत्त्वं बुभुत्सुना जिज्ञासायाः पूर्वमेव कालोऽनादिरिति,जगच्चानादिकालात्प्रवृत्तम् इति, स्वयं तु तादृशजगदन्तर्गतः कश्चित्पुरुषमात्र इति चैतत्सर्वं सिद्धव दङ्गीकृत्य तदनन्तरं तत्त्वपरीक्षायां प्रवृत्तियुक्ता भवेत् । देशकालनिमित्त प्रत्ययानुगतस्य जगतः स्वस्य च तत्त्वं निर्दिधारयिषुणा अकस्मात्क्व चित्पक्षपाते वरघाताय कन्योद्वाहः स्यादिति । अतोऽयमप्यनाक्षेपः । तस्मात्सुष्ठक्तमवस्थात्रितयविचारे तत्त्वपरिसमाप्तिरिति सर्वैरभ्युपेयमिति ॥
अनेन चावस्थात्रयविचारणेन वेदान्तदर्शने निर्धार्यमाणोऽर्थः,जागरित स्वप्नयोः साक्षिभूतो यः सुषुप्तावपि स न व्यभिचरति स्वरूपम् । दृश्यवस्तूनि तूपलभ्यमानदशायामप्यन्योन्यं व्यभिचरन्ति । सुषुप्तौ तु ६०. तदनन्तर्गत’ इति प्रथममुद्रणे ।। ६१. मनोवृत्तं मनश्चैव स्वप्रवज्जाग्रतीक्षितुः । सम्प्रसादे द्वयासत्त्वाच्चिन्मात्रः सर्वगोऽव्ययः ।। उ. ११-४ ६२. अन्योन्यव्यभिचारोऽस्य वीक्ष्यतेऽनात्मवस्तुनः । स्वरूपव्यभिचारोऽपि सुषुप्तादौ स्वसाक्षिगः ।। बृ. वा. २-३-२२२
९२
मूलाविद्यानिरासः
(तृतीयः स्वरूपमेव तेषां न विद्यते । तस्माच्चिन्मात्रस्वरूप आत्मैव सत्यं तदितरन्मिथ्येति । एतदेवात्मस्वरूपं ब्रह्मेति प्रतिपादयन्त्युपनिषदः । तदेवं ब्रह्मात्मैकत्वज्ञानं तत्त्वजिज्ञासापरिसमाप्तिकरमवस्थात्रयपरीक्षणमात्र समधिगम्यमिति परमार्थविदां विनिश्चयः ।।
६८. जागरिते विषयाणां मिथ्यात्वं व्यभिचरद्रपवत्त्वात् - तथा हि जागरिते तावत् सर्वस्य विषयस्य ज्ञेयभूतस्य तत्त्वं मिथ्यारूपत्वमेवात्मन आविष्करोति । कथम् ? यद्रूपेण निश्चितं यत् तद्रूपं न व्यभिचरति तत्सत्यम्, यत्तु निश्चितं सदेकेन रूपेण तद्रूपं व्यभिचरति तदनृतं मिथ्याबुद्धिकल्पितं इति सत्यानृतविभागे स्थिते सर्वस्यापिजागरितगृहीतस्य मिथ्यात्वमेवास्थेयं भवति । यद्यद्धि गृह्यते जागरिते तत्क्षणमपि न तिष्ठत्यविकृतमिति प्रसिद्धमेव परीक्षकाणाम् । ततश्चेदमेव वस्तुनः स्वरूपमिति निश्चायकाभावे व्यभिचरत्स्वरूपो विषयः सर्वोऽपि मिथ्येत्येव पर्यवस्यति ॥
यद्यपीह भवति शङ्का - विविधविकारभाजोऽपि विषयास्त एवैते इत्यबाधितप्रत्यभिज्ञाविषया भवन्ति, तद्वलादेव तेषां सत्यत्वं परिनि तिष्ठतीति । अथवा स्वरूपं व्यभिचरदपि विषयजातं बुद्धिबोध्यत्वरूपं न व्यभिचरतीति तस्य प्रकल्पत एव सत्यत्वम् । तथा च विकारिषु भवत्वनित्यतापादनम्, न च तावता तेषां सत्यत्वात्प्रच्यावनमपि शोभनं
६३. ज्ञाने च त्रिविधे ज्ञेये क्रमेण विदिते स्वयम् । सर्वज्ञता हि सर्वत्र भवतीह महाधियः ॥ मां. का. ४-८९ ६४. तै. भा. २-१खण्ड:)
स्वप्रक्रिया सक्षेपतः भवतीति । तथापि नेयं समुचिता शङ्का । किमिदं बुद्धिबोध्यत्वमिति हि वीक्षायां न तद्बुद्धिमारोहत्यनाकुलम् । न खलु बुद्धिमात्रगम्यत्वं तत्, सर्वस्य सर्वदा बुद्धौ नि साभावात् । नापि घटादिकं घटादिबुद्धिगम्यमिति परिष्कारे प्रयोजनं पश्यामः । का नाम घटबुद्धिरिति चिन्तायां घटं प्रत्याख्याय घटबुद्धिर्नास्ति, नापि तद्बुद्धिं विनिवर्त्य स प्रसिध्यतीत्युभयोरपि न स्वरूपस्य स्वतन्त्रस्य सिद्धिरस्ति ।
अपि चेन्द्रियाणामेव प्रामाण्यमास्थेयं विषयसत्त्वे । तेषामेवेन्द्रियाणां सत्त्वं कुत इति वीक्षायां तत्र प्रमाणं मन इति वक्तव्यम् । न च मनसस्तेषामतिरिक्तत्वे प्रमाणमस्ति । असति मनसि तेषां सत्त्वेऽनु ग्राहकानुभावाभावात्, मन एवं तु सर्वाणीन्द्रियाणि चेत्यत्रोपपत्तिरस्ति, स्वप्ने तथानुभवात् तस्मादपि स्वतन्त्रं सत्त्वं विषयाणां नावकल्पते ॥
६५. उभे ह्यन्योन्यदृश्येते किं तदस्तीति नोच्यते । लक्षणाशून्यमुभयं तन्मतेनैव गृह्यते ।। मां. का. ४-६७ (तत्रैव च भाष्यं समीक्षितव्यम् ।) ६६. यथा कूर्म इहाङ्गानि प्रसार्य विनियच्छति । एवमेवेन्द्रियग्रामं बुद्धिः सृष्ट्वा नियच्छति ।। मो.ध. २४६-२४ गुणान्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि । मनः षष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः ।। मो. ध. २४७ -२६ बुद्धिरात्मा मनुष्यस्य बुद्धिरेवात्मनात्मनि । यदा विकुरुते भावं तदा भवति सा मनः ।। इन्द्रियाणां पृथग्भावाद्बुद्धिर्विक्रियते ह्यतः । शृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते ।। पश्यती भवते दृष्टी रसती रसनं भवेत् । जिघ्रती भवति घ्राणं बुद्धिर्विक्रियते पृथक् ॥ मो. ध. २४८-३, ४, ५
मूलाविद्यानिरासः
(तृतीयः यत्पुनरुक्तं तदेवेदमिति निश्चितप्रत्यभिज्ञापरिप्रापितत्वादास्थेयं विषयस्य सत्यत्वमिति, तद्रभसात् । तदेवेदमिति प्रत्यभिज्ञा किं साध्वी भवितुं प्रभवतीति वीक्षायां बाह्यवस्तुनि विप्रलम्भस्यापि सम्भवात् कुतो विषयस्य मिथ्यात्वमपि न स्यात् ? दर्शितं च प्रागेवास्माभिः प्रत्यभिज्ञा यद्यपि व्यवहारनिर्वोढ़ी, तथापि नाबाधितानुभवारूढेति । तस्मान्न प्रत्यभिज्ञा नाप्यन्यत्किञ्चिदावहति विषयस्य सत्यत्वम् ।।
WEROMANONupay
up
p lyHuminampagmagawunganganagar
Hawald
HOME
3
ARMIND
ANDAR
MOHAMPA
वट
O
smr
COM
HTTE
.
NappaMOONRE
6
U
A
१
womegroomijamyrigure
averangam
सर्वमपि द्रव्यगुणक्रियाद्यन्यतममिति दिदर्शयिषया यत्पूर्वैस्तार्किकैः प्रतिपादितं तत्तदपरैर्युत्थापितमेवेति सर्वेषां नः प्रसिद्धमेतत् । तथाधुना तनैरपि लक्षणप्रमाणादिप्रक्रियां प्रत्यग्रामारचयद्भिरपि न शक्यते विषयस्या व्यभिचरद्रूपं दर्शयितुम् । विषयस्वभाव एव हि तादृशो यदन्यथान्यथा रूपस्वीकारः प्रतिक्षणमिति ॥
।
N
AS
mreparpur ang
HENNABHA
r
ginney
P
Pos
HAPat
क
तदेवं जागरितदृश्यानां जागरित एव निरुपाख्यस्वरूपाणां यदा सत्यत्वं पदं न लभते कैव प्रत्याशा सिद्धौ तस्यावस्थान्तरे तन्मखनिरीक्षणमप्य सहमानस्य ? अत एव जागरितोपलब्धस्य प्रपञ्चस्य तदवस्थया च विनाभावं मात्रयाप्यनर्हतः स्वप्रे सद्भावो न केनापि शङ्कयते शक्यशङ्को
वा भवति ॥
क्यशट
म
बकाया
मायालयानका
CONTAR
HEREINCHA
DEE
६९. स्वानप्रपञ्चस्य स्फुटमिथ्यात्वम्, जागरितस्य तत्समान योगक्षेमत्वं च - स्वप्नेऽपि यो दृश्यते प्रपञ्चाभासः स तदवस्था
S
PHATIMER
Front
nepawan
m
HoteAKARMALIK
६७. ‘चाविनाभावमिति प्रथममुद्रणे ।।
चावनाभावा
+MES
खण्ड:)
स्वप्रक्रिया सङ्कपतः मात्रलब्धसत्ताकस्तदविनाभूतश्चेति स्फुटमेव तन्मिथ्यात्वम् । अभ्युप गम्य लौकिकदृष्टिमिदमुक्तम् । वस्तुतस्तु स्वप्रबोधावस्थयोर्व्यपदेशभेदं विना भेदकं मनागपि न विद्यते । यथा हि - जाग्रत्वेनाभिमतं स्थानं तत्कालोचितशरीरादिकं तत्सम्बन्धिवस्तूनि च रागद्वेषौदासीन्याहा॑णि यथायथमादाय विजृम्भते, भूतभव्यजाग्रत्सन्तानेऽविच्छिन्ने एवात्मान मप्यन्त प्रविष्टं बुद्धावारोपयित्वा पूर्वसंस्कारसम्बन्धमद्यतनानुभवे सांप्रतिक कर्मफलाश्रयत्वं च भविष्यत्कालीनजागरिते आसञ्जयति, स्वपूर्वतनांश्च स्वप्रान् केवलं मनोमयत्वेन विश्वासानर्हान् कृत्वा स्वस्मिंस्तु देशकाल निमित्तप्रतिनियमसम्पत्तिम् अनेककर्तृभोक्तृव्यवहारभूमित्वं च ख्यापयित्वा स्वसत्यत्वमविशङ्कनीयं भावयति, एवमेव स्वप्रत्वेन विभाव्यमानमपि
यथावर्णितं प्रदर्शयदृष्टमिति सर्वेषां नः प्रत्यक्षमेतत् । प्रपञ्चितं च पुरस्तादेव यथा चैतत्तथा । न चेदं स्वप्रप्रबोधयोः सर्वसाम्यं केनचिदपलपितुं शक्यम्, प्रतिवादिनोऽप्यवश्यं तादृशावस्थान्तर्गतत्वात् । न हि मत्स्वप्रोपलब्ध पुरुषः कश्चित् तस्याः स्थितेर्जागरितत्वमाधातुमीशेत । अतः स्वप्नत्वमेव परमार्थत उभयोरप्यवस्थयोः१९ ॥
ततश्च विषयविषयिभेददर्शनरूपे यस्मिन् यस्मिन्नवस्थाने यो यः प्रपञ्च उपलभ्यते, स तत्तदवस्थाया न शक्यवियोजन इति नान्यावस्थायां
६८. अविचारितसंसिद्ध क्रियाकारकलक्षणम् । जाग्रद्भूमावपि मतं किमु स्वप्रैकनीडगम् ॥ बृ. वा. ४-३-९२१ ६९. स्वप्रजागरितस्थाने ह्येकमाहुर्मनीषिणः ।
भेदानां हि समत्वेन प्रसिद्धेनैव हेतुना ।। मां. का. २-५
९६
मूलाविद्यानिरासः
(तृतीयः तदपरिच्छिन्नस्य प्रपञ्चस्य सत्त्वम् । ततश्च न कस्यचिदपि प्रपञ्चस्य जातुचित् सत्यत्वं व्यवतिष्ठते । एवं च स्वप्नजागरितशब्दव्यपदेश्ययोरवस्थ योरुभयोरपि तदन्तर्गतसर्वदृश्यसहितयोः सममेव स्वप्रतीतिवेलायामपि निरूपणासहत्वमन्योन्यव्यभिचारित्वं चेति यथा स्वप्नो निश्चितमिथ्या
भावस्तथा जागरितमपीति न किञ्चिदन्याय्यम् ॥
७०. सुषुप्तौ सर्वविधप्रपञ्चस्यापि स्वरूपव्यभिचारः - सुषुप्तौ पुनः स्वाप्रस्य जागरितस्य वा प्रपञ्चस्य स्वरूपमेव न विद्यतेऽतः प्रपञ्चमिथ्यात्वं सुतरामुपपन्नम् । यस्य हि स्वरूपं क्वचिदेव दृश्यते यथा शुक्तिरजतादेः, सम्यनिरूपणे तु स्वरूपमेव नास्ति, तन्मिथ्याबुद्धिपरिकल्पितमेवेति निश्चितं लोके । तथात्रापि जागरितस्वाप्रप्रपञ्चयोः स्वावच्छेदकावस्थ योरेव प्रतीयमानयोः सुषुप्तौ च शून्यकल्पयोर्मृषात्वमेव युक्तं प्रतिपत्तुमिति ॥
७१. साक्षिसत्यत्वम् - अवस्थात्रयेऽपि तु साक्षिणो न स्वरूपव्यभि चारो दृश्यते । न हि भवत्यन्य एव स्वप्नावगन्तान्यश्च प्रबुद्ध इति । येषां मते जागरितं सत्यं स्वप्नश्च मृषा तद्वासनानिर्मितः तेषामपीक्षितुः स्वरूपैकत्वं स्वीक्रियत एव । येषां पुनः स्वप्रजागरितयोरुभयोरपि मिथ्यात्वमेव, तेषां स्वप्ने जागरिते च चैतन्यस्वरूपस्य विशेषाभावात् स्वतो भेदो न विद्यते । परतस्तु न सम्भाव्यः, परमार्थतो विद्यमानस्य मिथ्यावस्तुकृतभेदे मानाभावात् । यद्यपि स्वप्रप्रपञ्चेऽन्तर्गतमिवात्मानं
पश्यन्, तद्गतविविधविषयनिरूपितरागद्वेषादिकं सुखदुःखे चानुभवन्, जागरितदेहतदनुबन्धिपुत्रकलत्रादिकमत्यन्तमचिन्तयंश्च स्वप्नद्रष्टेति जाग्रद् द्रष्टुः सकाशाद्भिन्न एव भवितुमर्हति, तथापि नैतावता जाग्रत्स्वप्रोभय
९७
खण्डः )
स्वप्रक्रिया सक्षेपतः साक्षिणो भिन्नत्वं शक्यशङ्कम् । भिन्नत्वे तदुभयसाक्षित्वमेव न सिध्येत्कस्यचिदपीति ध्येयम् । तदित्थम् - सर्वथापि सर्वास्वप्यन्य दर्शनवृत्तिलक्षणास्ववस्थासु व्यावर्तमानास्वप्यनुवर्तमानः, पूर्वपूर्वावस्था मुत्तरोत्तरया बाधितां भ्रान्तिस्वप्नादिकोटिषु निश्चयेन निवेशयमानः, पूर्वापरालोचनया तदनेन सदृशं विसदृशं वेति सिन्दिहानोऽनुसन्दधानः, तत्र तत्र वस्तूनि तदेवेदमिति प्रत्यभिजानंश्च न कथञ्चनान्योऽन्यो भवितुमर्हति । तत्सिद्धं साक्षिणः स्वरूपस्य परमार्थतोऽपि सत्यत्वं स्वदृश्यप्रपञ्चास्पृष्टत्वमत एव शुद्धचैतन्यरूपत्वं चेति ॥
जाग्रत्स्थानं न सत्यं कथमपि न च तद्भेदकं लक्षणं वा स्वप्रादुन्नीयतेऽतः सविषयमखिलं स्वप्न एवेति सिद्धम् । स्वप्नोऽयं सप्रपञ्चं भजति विलयमात्यन्तिकं यत्सुषुप्तौ मिथ्यास्वप्रात्परोऽसौ विलसति विमलः सर्वदृक्सच्चिदात्मा ॥
७२. व्यवहारविरोधपरिहार - यद्यपि घटपटादिकं सत्यमित्येव प्रतियन्ति व्यवहरन्ति च प्रतिपत्तारः । तत्सत्यत्वे च न तस्यैव मिथ्यात्वं युक्तम् । तथापि व्यवहारविरोधोऽयमापातत एव न तु भाविक इति ज्ञेयम् । एकस्यामेवावस्थायां हि मरीचिकातोयादीनि तत्प्रत्यक्षोत्तरकालं ज्ञानान्तरबाधितानि भवन्तीति विमृशन्तो लौकिकास्तद्विपर्ययेण यावत्तत्त दवस्थं स्थिरतया भासमानानि प्रतीत्यनुरोधात्सत्यानीत्येव कल्पयन्ति । न तु तेषां पदार्थानां सत्यत्वमपि वास्तवेनैव वृत्तेन । तेनाविरोधः ।।
ननु तेषां मिथ्यात्वकल्पनातो वरं वैपरीत्यमेव कल्पितं प्रतीत्यनुसारेण । न हि ते प्रमाणसिद्धा न भवन्ति, येन मरुमरीचिकासलिलादितौल्य
मूलाविद्यानिरासः
(तृतीयः मारोप्येरनिति चेत् । स्मर्तुमर्हसि परमार्थसत्यत्वे प्रयोजकं पुरस्तादर्शितम् । न हि वयं प्रमाणगम्यं सत्यमित्युररीकृत्य प्रपञ्चसत्यत्वं व्यासेधामो, येन स्ववचनविरोध आपाद्येत । प्रमाणगम्यस्य सत्यत्वे प्रमाणस्यापि प्रमाणगम्यत्वेनैव सत्यतायाः प्रतिपादनीयत्वात् स्वगम्यत्वे स्वात्माश्रयणम्, स्वव्यतिरिक्तप्रमाणगम्यत्वेऽपि तत्रापि शङ्काप्रसारादपर्यवसाने पर्यवसानं वा स्यात् । अपि च प्रमाणमपि प्रपञ्चान्तःपात्येवेति प्रपञ्चस्य सत्यत्वा सत्यत्वविप्रतिपत्तौ को वावसरः प्रमाणोपन्यासस्य ? न हि प्रपञ्च: प्रपञ्चगम्य इत्यूरीक्रियते केनचित्, सर्वदा स्वव्यतिरिक्तज्ञानगम्यस्य स्वप्रकाशत्वाभावात् । तस्मान्न प्रमाणगम्यत्वं सत्यत्वे तन्त्रम्, किं तव्यभिचरितस्वरूपत्वमेव । तादृशं च सत्यत्वं नार्हति प्रपञ्चः । तस्मात् प्रतीतिमात्रस्य भ्रान्तिसिद्धवस्तुन्यपि सम्भवात् सार्वदिकप्रतीतेः प्रपञ्चेऽपि वक्तुमशक्यत्वान्नास्ति व्यवहारविरोधः ।
७३. सत्यानृतमिथुनीकरणरूपाध्यास एवाविद्या - उपदर्शितमार्गेण परस्परमत्यन्तविरुद्धस्वभावयोरात्मानात्मनोः सत्यमिथ्यास्वरूपयोस्तत्त्वा नवबोधादेव परस्परात्मतां परस्परधर्मतां च प्रतिपद्य व्यवहरति लोक: स्वभावत एव । पश्चात्तु सम्यग्विचारणान्न केवलमसम्बन्धमेव सर्वथा तयोः पश्यति, किं नाम सत्यमिथ्याविभागोऽपि मिथ्यावस्तुवदात्म स्वरूपानवबोधनिमित्त एवेत्यवगच्छति । यथेह लौकिकः कश्चिच्छक्ति काज्ञानसमसमयं न केवलं रजताद्विविक्तत्वं शुक्तेः पश्यति, किमन्यत्, एकस्मिन्नधिकरणे शुक्तिरजतरूपद्रव्यद्वयसंसर्गोऽपि मिथ्यैवेति निश्चिनुते ७०. सत्यासत्यविभागोऽयमविभागात्मवस्तुनि । प्रत्यगज्ञानहेतूत्थस्तद्बोधादेव तद्धतिः ॥ बृ. वा. १-३-५२
खण्ड:)
अथ जाग्रति प्रपञ्चोपलम्भविचारस तद्वत् । एवमविचारस्वभावप्राप्तमात्मानात्मनोयुगलीकरणं बुद्धौ पश्चात्तन सम्यग्ज्ञानबाध्यत्वादज्ञानं मिथ्याज्ञानमविद्येत्यादिशब्दैर्व्यवह्रियते वेदान्त सम्प्रदायाविद्भिः, तन्निवृत्तिका च बुद्धिवृत्तिर्ज्ञानं सम्यग्ज्ञानं विद्येत्यादि शब्दैः । इत्येवं सङ्ग्रहेणोपन्यस्ता वेदान्तविदा प्रक्रिया सर्वदोषास्पृष्टा ॥
अथ जाग्रति प्रपञ्चोपलम्भविचार: ७४. सुषुप्तिसमये तद्वहिर्भूतः प्रपञ्चो न विद्यते - कथं पुनर्दोषैरनुपस्पृष्टेयं प्रक्रिया ? सुषुप्तौ प्रपञ्चो नाभावमपिगन्तुमुत्सहते, अपिगच्छन् वा नाकस्माज्जागरिते पुनरुपलब्धिगोचरो भवितुमर्हतीत्युक्तं शावादिना । तत्र कः समाधिरिति चेत् । न वयं जागरित विद्यमानः प्रपञ्चः प्रसुप्तौ गच्छत्यभावतामित्याचक्ष्महे, किं तु जागरिते दृश्यमानः
प्रपञ्चस्तदवस्थासम्बद्ध एव नान्यत्रोपलभ्यते विद्यते वेति ॥
मा नामोपलभ्यताम् । तथापि खलु सुषुप्तिस्थानाद्बहिरेव कुत्रचिद्भाव्यं तेन । अन्यथा कथमुदीयात्प्रबोधे भूयोऽपीति चेत् । को भावः ? सुषुप्तावपि तद्बहिर्भूतमाश्रयान्तरं प्रपञ्चस्य विद्यत इति वा, आहोस्वित् प्रबोध प्रपञ्चोपलम्भस्य कारणं वक्तव्यमिति वा । यद्यादिमः कल्पः, कथं विदितमाश्रयान्तरसत्त्वं श्रीमता? न हि तदापि विशेषविज्ञानवान् भवान् । ननु सन्त्यन्ये प्रबुद्धाः, प्रमाणं भविष्यन्ति ये मत्सुप्तिकालेऽपि प्रपञ्चो
७१. तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते ।। - सू. भा. - अव श्रूयतां चाप्यविद्यायाः स्वरूपं कुलनन्दन । अनात्मन्यात्मबुद्धिर्या चास्वे स्वमिति या मतिः । (वि. पु. ६-७-१०, ११) तच्छ्रयतामविद्याया ।। इति पाठान्तरम्
१००
मूलाविद्यानिरासः
(तृतीयः विद्यत इत्यत्र । तथा हि लोकव्यवहारः ‘शिवरात्रावहं सुष्वाप तदानीमयं तुजजागारे’ति । तत्किं कारणमुपेक्ष्यते तेषामनुभव इति ? अत्रानुयोज्योऽसि
नस्तेऽपि त्वज्जागरितप्रपञ्चस्य, ततः कथमर्हन्त्युपलब्धुं किञ्चिदपि त्वत्सुषुप्तौ ? तेषामपि खलु सत्त्वं त्वज्जागरप्रपञ्चसत्त्वतुल्ययोगक्षेममेव । न चास्त्यन्यः प्रपञ्चानन्तर्भावीति निष्प्रमाणिकैव त्वज्जागरितावच्छिन्न प्रपञ्चस्य सत्ता स्वापेऽपि । अतो जाग्रत्प्रपञ्चो जाग्रत्सहभावी न तयावस्थया विना निमेषमपि स्थातुमेकाकी शक्नोतीति बोध्यम् ।
निप्रप
७५. जाग्रत्प्रपञ्चस्य तदवस्थाप्रतिबद्धत्वे विचार: - न चैवं मन्तुमुचितम् - जागरितप्रपञ्च इति विशेषणं विद्यमानप्रपञ्चप्रद्वेषिणा प्रक्षिप्यते । प्रपञ्च एवायं वस्तुतो न जागरितप्रपञ्चः । तस्माद्विनापि जागरितं शक्नुयादेवावस्थातुं क्वचिदन्यत्र जागरितादपीति । यस्माज्जागरिते यः प्रपञ्च इति व्यपदिश्यते जातुचिदपि जागरितमपहाय स्थित्यन्तरे न दृष्टचरः केनचित्, कथमसौ निर्विशेषणमेव प्रपञ्च इति सामान्यवाचिनाभि लप्येत? तथा हि - न कोऽप्येनं प्रपञ्चं स्वप्ने द्रष्टुं प्रतीक्षते स्थवीयोबुद्धि रपि । तत्कुतः ? नूनं तदात्वे तत्र प्रपञ्चस्यात्यन्तमभावतामसम्भाव्य मानसत्ताकत्वं च निश्चितवन्तो लोकाः ।।
७२. यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन् प्राण एवैकधा भवति तदैनं वाक् सर्वैर्नामभिः सहाप्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रं सर्वैः शब्दैः सहाप्येति मनः सर्वेध्यनिः सहाप्येति ।। कौ.३-३ (जागरितप्रपञ्चान्तःपात्यप्रविलीनं सुषुप्तौ न किञ्चिद्वाह्यतो वर्तत इति श्रुतेरर्थः ।)
१०१
खण्ड:)
अथ जाग्रति प्रपञ्चोपलम्भविचारः अथैवमाग्रहः - विशिष्टस्य यद्यपि सर्वत्र सम्भवो नास्ति । तथापि विशेष्यस्य सम्भवत्याशङ्का । यथा नीलोत्पलमेकत्र दृश्यते, अन्यत्र तु रक्तोत्पलम् । एवमेव जागरिते जागरितप्रपञ्चो दृश्यते, स्वाप्रश्च स्वप्न इति । अहो पक्षपातोऽत्यन्तासम्भाविते! यतोऽत्र विशेष्यमेव न सिध्यति विना विशेषणमित्यधस्तादुपपादितम् । प्रपञ्चत्वेनाभिमतः सिध्यन् खलु न कदापि सेडुमर्हति विना तत्साक्षिणमनुभवितारम् । स चानुभवितावश्यं भविता जागरितं स्वप्नं वानुभवन्निति, तादृशानुभवाभावेऽपि कुतः शङ्काननुभूयमानस्य प्रपञ्चस्य? न चान्ये सन्ति स्वप्रवेलायां स्वप्रबहिर्भूता ये पश्येयुः प्रपञ्चं द्रष्टुमिति शक्यमास्थातुम्, कथितदोषानुषङ्गात् ॥
तदेवं स्वप्र एवात्यन्तमनिरीक्षणीयस्वरूपस्य जाग्रत्प्रपञ्चस्य कुतस्तरां सद्भावाशङ्का सुषुप्ते सकलदृश्यव्यासेधरूपे? तस्मान्न सुप्तौ न वा तद्वहिः शक्यशङ्ख सर्वथा जागरितप्रतिबद्धस्य प्रपञ्चस्य सत्त्वम् ।।
७६.जागरितेऽपि मिथ्याप्रपञ्च एवावभासते शुक्तिरजतादिवत् - अथाभिप्रेयेत - नायं सुषुप्तौ प्रपञ्चसद्भावमङ्गीकारयितुं यत्नः, कस्तर्हि सुषुप्तावविद्यमानस्य प्रपञ्चस्य जागरिते पुनरुदये हेतुं बुभुत्सोः प्रश्न इति । अत्र व्याचष्टां भवान् पुनःशब्दस्वारस्यम् । ननु य एव प्रपञ्चोऽनुभूत: पूर्वजागरिते स एवोत्तरस्मिन्नपि पुनरुदेति, तत्कथमुपपद्यतां सुषुप्तौ विच्छिन्नसत्ताकस्येति पृच्छामीति चेत् । बाढं कुशलोऽसि विचारणे । प्रपञ्चस्य सत्यत्वतदन्यत्वावधारणे प्रवृत्तः किं कारणमादावेव सिद्धवत् तस्य दण्डायमानसत्त्वं स्वीकरोषीत्यत्र तु दीयतां कृपादृष्टिः । स्मर्तुं चार्हसि यत्प्रागेव निरासि प्रत्यभिज्ञाबलादेकत्वनिर्धारणयुक्तिरिति ॥
१०२
मूलाविद्यानिरासः
(तृतीयः ७७. प्रत्यभिज्ञाबलान जागरितप्रपञ्चैक्यं सेडुमर्हति - स्यादेतत् - प्रत्यभिज्ञानिरसनं यत् कृतं प्राक्तन्न वस्तुतो निरूपणसहम् । तथा हि - तदेवेदमिति निश्चिततद्भावमवगाहयन्ती संवित् किमित्युपेक्ष्यते ? ननूक्तं तत्र कारणं तदिति पारोक्ष्यप्रतीतिः, इदमिति चापरोक्ष्यप्रतीतिः, तयोविरुद्ध धर्मवतोरैक्यं न सम्भवतीति । सत्यमुक्तम् । अयुक्तं तु तत्, विरुद्धधर्मयोः संसर्गस्यैकस्मिन् ज्ञाने दृष्टत्वात् । सम्भवति ह्यनुमानमयं पर्वतो वह्नि मानिति । तत्रायमिति प्रत्यक्षत्वं प्रत्याययति वह्निमानिति च पारोक्ष्यम् । तयोः संसर्गो दृश्यते । तस्मादृष्टान्तभावादयुक्तमिदं प्रत्यभिज्ञाप्रत्याख्यानं तर्कमात्रेण । न च विषयभेदात् प्रत्यभिज्ञानं नैकं भवितुमर्हति, ततः प्रामाण्यविकलतेति शङ्कयम्, उक्तदृष्टान्ते विषयभेदस्यापि सत्त्वात् । नापीत्थमुत्थाप्या शङ्का - तदिति स्मरणम्, तस्य च संस्कारजन्यत्वमस्ति । अयमिति प्रत्यक्षानुभवः । एवं संस्कारेन्द्रियसंयोगरूपभिन्नसामग्रीकत्वात् प्रत्यभिज्ञा न भवत्यभिन्नं ज्ञानं किं तु स्मरणानुभवे द्वे एव ज्ञाने मिलित्वा प्रत्यभिज्ञाशब्दव्यपदेश्ये इति । तत्रापि दृष्टान्तभावात् । उदाहृतं पर्वतो वह्निमानिति ह्यनुमानमेकम् । तत्र लिङ्गज्ञानमनुमानमात्रकारणमिन्द्रिय संयोगश्च प्रत्यक्षहेतुः । उभयं मिलित्वा भवत्येकस्यैवानुमानस्य वह्नि मानयं पर्वत इत्याकारस्य हेतुः । तस्मात् प्रत्यभिज्ञेति न ज्ञानद्वयम्, न वा
लौकिकानां भ्रान्तिः, किं तर्हि, विश्वासार्हमेकमेव ज्ञानमिति ॥
एतदप्यातम्, उक्तदृष्टान्ते ऐक्यवादिन एव दौस्थ्यात् । तत्र पर्वतांशे नास्त्यनुमेयत्वं किं तु वह्नयंश एव । सर्वत्रापि ह्यनुमाने यत्किञ्चित् प्रत्यक्षपूर्वकत्वमस्त्येव । न चैतावता प्रत्यक्षस्याप्यनुमानत्वं शक्यानुमानम् ।खण्ड:)
अथ जाग्रति प्रपञ्चोपलम्भविचार
१०३ तत्रानुमाने पारोक्ष्यम्, लिङ्गज्ञानजन्यत्वम्, स्वासाधारणविषयत्वं च विद्यते । प्रत्यक्षादिसंसर्गस्त्वन्यथासिद्धमिति न केनचित्तार्किकेण शक्यं कुत्रचि दप्यनुमाने प्रत्यभिज्ञानसमानयोगक्षेमत्वं प्रदर्शयितुम् । अतः स्मरणानुभव ज्ञानद्वयत्वेन सकलानुभववेद्यं न भवितुमर्हत्येकं ज्ञानम्, दूरेतरां तत्प्रामाण्य-बलात्प्रपञ्चस्यैकत्वाध्यवसाय इति । न चैवंप्रमाणस्य प्रमेयस्य वा तत्त्वेन प्रत्यभिज्ञाभावप्रसङ्गः, ततश्च सर्वविधव्यवहारलोपप्रसङ्गश्चेति शङ्कनीयम्, प्रमाणप्रमेयव्यवहारस्य क्रियाकारकफलाभिसम्बन्धव्यवहारस्य च सर्वलोकसिद्धस्य तत्त्वनिर्धारणमात्रेण कस्यचिदपि व्यवहारलोपस्य प्रसक्त्यभावात् । न हि तत्त्वविचारकः प्रपञ्चस्वभावमन्यथयितुमुधुङ्क्ते शक्नोति वा तथा कर्तुम्, किं तु स्थितस्यैव तत्त्वं बुद्ध्या निश्चेतुं यतते । अतो न व्यवहारलोपः । तत्रैवं सति प्रपञ्चस्यैकरूपतैव नाद्यपि सिद्धति तत्पुनरुदयसिद्धौ हेतुः पर्यनुयुज्यत इति कथं युज्यते ?
७८.प्रपञ्चोपलम्भ आविद्यक एव - ननु सुषुप्तावत्यन्तमविद्यमानः प्रपञ्चश्चेत् कथं तस्योपलम्भः प्रबोधे ? यदाप्युच्यते न स एव प्रपञ्च: प्रतिजागरितं प्रतीयत इति । तदानीमपि व्याख्यातव्यं केन कथमुदपादि नव्योऽद्यतनप्रबोधप्रपञ्चो हस्तनप्रपञ्चप्रतीकाश इति । न ह्यकस्मा देवोत्पतिष्णुः प्रपञ्च इति युक्तमिति चेत् । शुक्तिरजतं पूर्वदृष्टसजातीयमिव स्वात्मानमाभासमानं कथं केनोत्पाद्यते ? यदि तु मन्यसे - तत्र रजतं नास्त्येव परमार्थतः, मिथ्यावस्तुगृहयालुना तु भ्रान्तमनसा केवलं विकल्प्यत इति । तुल्यमात्रापीति तुष्यतु श्रीमान् । यस्तु नवीनवेदान्तिभुजमवलम्ब्य
७३. ‘सकालानुभववेद्य’मिति प्रथममुद्रणे ।।
१०४
मूलाविद्यानिरासः
(तृतीयः वदेत् तत्रास्त्युपादानभूतमज्ञानम्, तेन तत्र रजतोत्पत्तिरुपपद्यत इति । स तु संविदनुसारिणामुपहास्य पूर्वखण्डोक्तयुक्तिभिः शुक्तिरजतोत्पत्ति निरासप्रकारैर्वक्तव्यैश्च प्रबोधनीयः ।।
ननु तथापि सुषुप्तेऽनुभवानर्हस्य कथमप्यशङ्कितसद्भावस्य प्रपञ्चस्य कथमकस्मादेव स्याज्जागरे जनिः ? शुक्तिरजतदृष्टान्ते तु चक्षुर्दोषो विद्यते मिथ्याप्रतीत्युपस्थापक इति वैषम्यम् । न हि सुषुप्ते कञ्चिदपि दोषं स्वीकुरुते भवान् सौषुप्तमूलाविद्यामपि निराकुर्वन्, यो दोषो जागरिते प्रपञ्चप्रत्युपस्थापको भवितुं प्रभवेत् । मैवम्, मुक्तदृष्ट्या मिथ्याभूतस्यापि प्रपञ्चस्य बद्धनानुभूयमानत्वदर्शनात् । ननु तत्रापि मुक्तस्याज्ञानं नास्तीतरस्य तु तदस्तीति वैषम्यम् । किं च मुक्तोऽन्यः पुरुषः, बद्धश्चापर इति भिन्नविषयत्वात् प्रपञ्चानुभवतदभावौ न विरुध्येते । इह पुनरेकपुरुष विषयकौ तौ कथं न परस्परं विरुन्धः ? एतदपि नास्ति वैषम्यम् । अत्रापि खलु नाङ्गीक्रियते सुषुप्तावविद्या, प्रबोधे तु स्वीक्रियते । भिन्नावस्थाविषयत्वादेव च प्रपञ्चोपलम्भतदभावयोरपरस्परविद्वेषः । नन्वेवमप्येक एव स्यादत्र भिन्नावस्थावान् । बाढम् । तथाप्येकस्यैव बद्धावस्थायां प्रपञ्चप्रतिभासो मुक्तावस्थायां तु नेति विद्यत एव दृष्टान्ततौल्यम् । अस्त्वेवम् । तथापि मुक्तो वेदान्तप्रमाणजनितपरमार्थ बुद्धित्वान्नोपलभते प्रपञ्चम् । बद्धस्त्वज्ञानकल्पितमनुभवतीत्युपपद्यते दृष्टान्तः । अत्र पुनः स एव बद्धो मुक्तश्चेत्यापद्यते । न हि सुषुप्तौ मुक्तः सन् पुनः प्रबोधे सति बद्धो भविष्यतीति भावना भव्या स्यात् । अतो विलक्षणमिदं लक्ष्यत इति चेत् । अवहितमनाः शृणु । नास्माभिरुच्यते
खण्डः )
प्रपञ्चमिथ्यात्वे शङ्का तत्परिहृतिश्च
१०५ सुप्तौ मुक्तः सन् प्रबोधे बद्धो भवतीति । कथं तर्हि, सदा मुक्तस्वरूपोऽप्य विचारितात्मयाथात्म्यो बन्धमात्मनि यथा कल्पयति । एवमेव सुप्तौ प्रपञ्चाग्रहणं प्रबोधे च प्रपञ्चसत्यत्वं चाभिमन्यते सदा निष्प्रपञ्च एव सन् इति । तस्माददोषः ।।
प्रपञ्चमिथ्यात्वे शङ्का तत्परिहृतिश्च ७९. प्रपञ्चमिथ्यात्वं न व्यावर्तमानत्वात्, न वा बाध्यत्वादिति शङ्का - प्रपञ्चस्य वर्णितं मिथ्यात्वमुपश्रुत्य कश्चिदसहिष्णुः शङ्कते यदत्राध्यवसितं मिथ्यात्वं तत्तर्कपराहतम् । तथा हि - किमात्मनोऽनु वर्तमानत्वाव्यावर्तमानत्वाच्च प्रपञ्चस्य तथात्वम्, उतान्यस्मादेव कुतश्चिद्धेतोः ? आत्मानात्मसम्बन्धविरहश्च प्रतिज्ञातः किं. हेतुक: ? किमनुपपत्त्या किंवा कारणान्तरादेवेति? सर्वथा साध्यद्वयमपि दुःसाधमेव
नः प्रतिभाति ॥
कथंकृत्वा दुःसाधम् ? यत्तावदुच्यते व्यावर्तमानत्वान्मिथ्यात्वमिति, तत्र यदि यतः कुतश्चिदन्यद्वस्तु व्यावर्तमानशब्दाभिलप्यं तदानीमात्मापि मिथ्या भवति । यदि यत्र कुत्रचिदभाववत्त्वं व्यावर्तमानत्वम्, ततः शुक्तिरजतादेरपि सत्यत्वं प्रसज्यते । विद्यते हि रजतमापणादाविति । यदि तु नाशवत्त्वं व्यावर्तमानत्वम्, तदा नष्टो मिथ्येति पर्यायत्वप्रसङ्गः । नेदं रजतमिति बाधदशायां न हि कश्चिद्यान्नष्टं रजतमिति । प्रतिपन्नदेश
७४. स्वरूपप्रच्यवनं त्वात्मनो जाग्रत्स्वप्रावस्थां प्रतिगमनं बाह्यविषयप्रतिबोधोऽविद्या कामकर्मबीजस्य ब्रह्मविद्याहुताशादाहनिमित्तमित्यवोचाम ।। छां. भा. ८-६-३
१०६
मूलाविद्यानिरासः
(तृतीयः एव निषेधार्हमुच्यते व्यावर्तमानमितीत्यपि न साधु । तथा सति यथा नायं सर्प इति स्वदेशे भुजङ्गो न विद्यत इति कृत्वा बाध्यमानमुच्यते, तद्वत् प्रपञ्चस्यापि नायं प्रपञ्च इति बाधः प्रसज्येत । न चेष्टापत्त्या परिहार्यः प्रसङ्गः । सर्पादिप्रतीतेरिव प्रपञ्चप्रतीतेरपि विनाशस्य त्वयानभ्युपगमात् । अथ कदाचित्क्वचिदेव प्रतीयमानत्वमेव व्यावर्त मानत्वमिति मतम्, तन्न । यत्र कुत्रचिद्देशे काले वा यत्प्रतीयते तत् तत एव सत्यमिति हि सिध्यति । यदि मन्यसे क्वचिदप्रकाशात्प्रकाशो मिथ्येति । तदा क्वचित्प्रकाशभावविरोधादप्रकाश एव मिथ्येति कस्मान्न भवेदिति प्रश्नो दुरुत्तरणीयः स्यात् । किञ्चात्मप्रकाशोऽपि न सार्वदिकः । ज्ञानोपदेश एव हि स्यादनर्थको यद्यात्मा संसारदशायामपि प्रकाशेत । ततश्च क्वचिदेव प्रकाशवत्त्वं यदि व्यावर्तमानत्वं मिथ्यात्वप्रयोजकम्, आत्मापि मिथ्येत्युक्तं स्यात् । न चान्योऽस्ति प्रकार, येन व्यावर्तमानत्वं लक्ष्येत । तस्मान्मन्यामहे न व्यावर्तमानं मिथ्येति ॥
एतेन स्पष्टमेव यद्वाध्यत्वमपि न हेतुर्मिथ्यात्व इति । सर्पादीनां बाध्यत्वं हि नाम स्वरूपव्यतिरेकभूतरूपविनिश्चयः । मिथ्यात्वं च तत्र स्वरूपा भावनिश्चयः । न तथा प्रपञ्चः क्वचन किञ्चन बाध्यतेऽतो न मिथ्या भवितुमर्हति । तस्मानास्त्येतन्मिथ्यात्वम् ॥
८०. आत्मानात्मसम्बन्धानुपपत्तिरिति पक्षे शङ्का - सम्बन्धानुपपत्ति रप्येवमेव प्रोत्सारणीयः । कथं ? इदं तावद्विमर्शमर्हति - किं सम्बन्धानुपपत्त्या मिथ्यात्वं निश्चीयते, उताहो मिथ्यात्वनिश्चयादेव सम्बन्धानुपपत्तिः साध्यत इति । यदि सम्बन्धानुपपत्तिं हेतूकृत्यैव
१०७
खण्ड:)
प्रपञ्चमिथ्यात्वे शङ्का तत्परिहतिश्च मिथ्यात्वनिश्चितिः, तदा सम्बन्धानुपपत्तिनिर्वाह्या भवति ।।
स्यादेतत् - संयोगसमवायादीनामन्यतमस्यापि सम्बन्धस्य न सम्भवोऽस्ति प्रकृते । यस्मादात्मा न द्रव्यं न च कार्यकारणभावो युज्यत आत्मानात्मनोः । अतः सम्बन्धानुपपत्तिः नाशक्यनिवहिति । तदयुक्तम्, अबाधितप्रत्यक्षसिद्धस्य सम्बन्धस्य कतिपयविकल्पासहत्वादेव निषेधायोगात् । यदि परिदृश्यमानः सम्बन्धोऽनुपपन्नस्तर्हि सम्बन्धान्तरमेव कल्प्यताम् । कल्प्यमानोऽपि इतरसम्बन्धवदनुपपन्न एव भातीति चेत् । सम्बन्धानुपपत्तिं प्रकल्प्य तद्बलादृश्यबाधं प्रत्यक्षविरुद्धं कल्पयन्तं कस्मानानुपपत्तिः प्रतिभायात् ? अपि च सम्बन्धानुपपत्त्या यदि प्रपञ्चस्य मिथ्यात्वं तत एव कारणादात्मनोऽपि मिथ्यात्वं किं न स्यात् ? तस्मात्सम्बन्धानुपपत्तेरनिर्वाहात् तदाश्रयणेन न मिथ्यात्वंयुक्तं स्वीकर्तुम् ।।
अथोच्यते - मिथ्यात्वनिश्चयादेव सम्बन्धानुपपत्तिरस्त्विति । न हि सत्यमिथ्यास्वभावयोर्वास्तविकः कश्चित्सम्बन्धः शक्याभ्युपगम इति । तत्र मिथ्यात्वावगम एव कुतः ? दर्शितो हि हेतोरभावो मिथ्यात्वानुमाने प्रागेवेति ॥
अथवा स्यात् - यदि प्रपञ्चः परमार्थसत्यः स्यात् तत आत्मानात्मनो? सम्बन्धाभावः प्रसज्येत तस्मान्मिथ्या प्रपञ्च इति । तदपि नोपपद्यते, मिथ्याभूतस्यापि प्रपञ्चस्यात्मना सम्बन्धानुपपत्तेरनिवार्यत्वात् । यदि तत्रोपपद्यत आरोपितः सम्बन्धः, भवत्विहापि तथैव ॥
अपि चान्यत् - उपपद्यते चायं सम्बन्धस्ततो मिथ्यात्वं प्रपञ्चस्या
(तृतीयः
१०८
मूलाविद्यानिरासः न्यथानुपपत्तेरिति वा, उपलभ्यते चायं सम्बन्धस्ततो मिथ्यात्वमेव प्रपञ्चस्य, अन्यथा तदनुपपत्तेरिति वा विवक्षितम् ? उभयथापि दोषग्रास: सम एव । यदि हि सम्बन्धोऽभ्युपगम्यते तत एव सम्बन्धी प्रपञ्चोऽङ्गी करणीयः । अथोपलभ्यत इति सम्बन्धिमिथ्यात्वमिष्यते तदा सत्य सम्बन्धिनोः क्व दृष्टा व्याप्तिर्नास्ति सम्बन्धोपलम्भ इति ? तस्मान्न प्रपञ्चमिथ्यात्वमध्यवसातुं योग्यम् । नाप्यात्मानात्मनोः सम्बन्धो नोपपद्यते । तत्सिद्धं तर्कविरुद्धमेतत् प्रक्रियारचनमितीति ॥
८१. जागरितप्रपञ्चमिथ्यात्वम् - तदिदमकाण्डे ताण्डवितम् । यत्कारणं प्रपञ्चस्य सत्यत्वमातिष्ठमानैरवश्यं वक्तव्यं भवति कस्य प्रपञ्चस्य सत्यत्वं विवक्षितमिति । दृश्यन्ते हि परशतं प्रपञ्चाः स्वप्रे । सङ्कल्पप्रपञ्चाश्च सन्त्यगणिताः । यदि ब्रूषे न स्वप्रप्रपञ्चः साङ्कल्पिको वात्राभिप्रेतः, को नाम, जागरितदृश्य एवेति । तदा जागरितावच्छिन्नस्य तस्य कथं निरपेक्षसत्यत्वमुदीर्यतां तदवस्थातोऽन्यत्रासत्त्वमपि पश्यता? अनुभूतिकाले विद्यमानवद्भासमानस्य सत्यत्वमातिष्ठमानः शुक्तिरूप्यस्य स्वानपदार्थादेर्वा कस्माद्धेतोर्न मृष्यते निरपेक्षसत्त्वम् ? ननु समानयोगक्षेम त्वमेव सर्वेषाम् ? तस्मान्मृषात्वमेव प्रपञ्चस्य स्वावच्छेदकावस्थातोऽन्य त्रालभ्यसत्त्वस्येति ।।
नन्वन्यत्रासत्त्वं न मृषात्वे तन्त्रम्, इतरथा हि रूप्यस्यापणेऽपि ७५. यथा सम्प्रतिभासस्थः स्वयं संसारखण्डकः । तथा तेषां सहस्राणि मिथ्यादृष्टानि सन्ति हि ।। स्वप्रसङ्कल्पनगरव्यवहाराः परस्परम् । पृथग्यथा न दृश्यन्ते तथा संसृतिविभ्रमाः ।। यो. ४-१७-७, १०
खण्ड:)
प्रपञ्चमिथ्यात्वे शङ्का तत्परिहतिश्च
१०९ सत्त्वाच्छुक्तिकायां तस्य सत्यत्वमापतेदित्यावेदितम् । सत्यमावेदितम् । तत्रापि तु प्रतिपन्नोपाधेरन्यत्रासत्त्वमेव रूप्यस्येति युक्तमुत्पश्यामः । न हिशुक्तिकायां प्रतिभासमानमेव तद्रूप्यं यद्विद्यत आपणादौ । किं त_न्यदेव पारमार्थिकत्वेनाभिमतं लौकिकानाम् । अपरथा ‘नात्र रजतमस्ति, किं त्वापणे वर्तते’ इत्येव बाधः स्यात् । तस्माद्व्यभिचरितस्वरूपत्वात्प्रपञ्चस्य मिथ्यात्वमेव साधीयः साधयितुम् ॥
८२. स्वप्रप्रपञ्चोऽपि सत्यः यतो मिथ्याज्ञानमेव नास्तीति शङ्का - अथास्त्वपए पक्षः - नास्माभिः प्रपञ्चसत्यत्ववादिभिः स्वाप्रप्रपञ्चस्यापि मिथ्यात्वमिष्यते । सर्वस्यापि ज्ञानस्य याथार्थ्यमेव हि न्यायविदां सम्मतम् । यत्तूदितं रूप्यत्वेनाभिमतायांशुक्तौ तदभावत्वनिश्चयात् पश्चाद्भाविप्रत्ययेन पूर्वविज्ञानं मिथ्यार्थविषयमिति । तदसारम् । यस्माद्रूप्यादेः शुक्तिकादौ सत्त्वमेव न्याय्यमभ्युपगन्तुम् । तत्र तत्प्रथाया अन्यथानुपपत्तेः । न चैवं सर्वस्य सर्वत्वापत्त्या व्यवहारविलोपनं स्यात्, न हीयं शुक्तिरिदं रजतमिति व्यपदेशभेदस्य व्यवस्थापकं किञ्चिदेष्टुं शक्यते सर्वज्ञानयाथार्थ्यवादिनेति शङ्कनीयम् । तत्तदंशभूयस्त्वाच्छुक्ती रजतमित्यादिनिर्देशभेदस्य सूपपादत्वात् । तत्र यदा दोषवशाच्छुक्त्यंशमुज्झित्वा रजतांशमेव गृण्हाति चक्षुः, तदा भवति रजतबुद्धिः । सैषा भ्रान्तिरिति निगद्यते लौकिकैर्दोष जन्यत्वात् तदपाये विलुप्तत्वग्रहणाच्च । नन्वेवं शुक्तिवद्रजतस्यापि सत्यत्वे कथं रजतबुद्धिशुक्तिबुद्धयोर्बाध्यबाधकभावः ? भूयस्त्वादित्यवेहि । यदा खलु निर्गतकरणदोषेण गृह्यते शुक्तिभूयस्त्वं साकल्येन, तदा अल्पीयस्त्वा द्रजतांशस्याग्रहे सति युज्यत एव तद्बुद्धेरपि बाध्यत्वम् । एवं सर्वत्रापि
११०
मूलाविद्यानिरासः
(तृतीयः भ्रमे शक्योपपादने सत्यनर्थिकैव सत्यमिथ्यार्थविभागकल्पना । ततश्च स्वाप्रप्रपञ्चस्यपि न मिथ्यात्वमुपपद्यते ॥
ननु स्वप्रे शतयोजनविस्तीर्णं भुवनतलमुपलभ्यते । तत्कथमव कल्पतामन्तःशरीरे परिच्छिन्नायामविस्तारे स्वप्नं पश्यतः ? सुदूरस्थितं च देशं गत्वा तत्रत्यान् विषयानुपलभते तदा स्वप्रदृक् । तदपि कथमुपपद्यता मपेक्षितकालदैर्ध्याभावात् ? अपि च तादृशदेशं गतमिव स्वात्मानमुपलभ मानस्य प्रबोधोऽपि न तद्देशे भवति, क्व तर्हि यत्र शयितस्तत्रैव भवति । किं च स्वप्नदृक् प्रचरन् यः सङ्गत इव भवति मित्रादिभिः परमार्थतो न तैर्गृह्यते । गृहीतश्चेनूनमुपलब्धवन्तो वयमायुष्मन्तं स्वप्न इति ब्रूयुः पृष्टाः । न त्वेतदस्ति । तस्मान्नेदं भजमानं स्वप्रानुभवस्य सत्यत्वमिति चेत् । शृणु । यद्यपि दूरदेशादिगमने समुचितकालाद्यभावः, तथापि तत्र तत्तत्पुरुषमात्रानुभाव्यास्तत्कालावसायिनस्तत्तत्पुण्यपापानुगुणं सत्यभूता एवार्थाः सृज्यन्त ईश्वरेणेत्यभ्युपगम्यते, आगमप्रामाण्यात् । तस्मान्न मृषा स्वप्रप्रपञ्चोऽपि, किमु जागरितप्रपञ्च इति ॥
८३. मिथ्याज्ञानमप्यङ्गीकरणीयम् - तदेतल्लौकिकप्रमाणचण साधारण्येन सिद्धस्याप्यनुभवस्यापलापं कुर्वतां स्वोपज्ञं प्रक्रियारचन मविचाररमणीयम् । यदि हि याथातथ्येनाभविष्यदेव रूप्यं शुक्तौ तदद्धा कदाचिदग्रहीष्यत लौकिकैः परीक्षकैर्वा । न त्वेतदस्ति । रजतं हि चेन्मात्र यापि समभविष्यच्छुक्तिकायां तदा यः कश्चिद्भौतिकशास्त्रवेत्ताऽशक्ष्यदपि रूप्यस्य सत्त्वमवगमयितुमस्मान् सत्यरूप्यप्रत्यभिज्ञापकभौतिकपरीक्षा
खण्ड:)
प्रपञ्चमिथ्यात्वे शङ्का तत्परिहतिश्च
१११ तद्रूप्यमिति । तर्हि दोषान्वयव्यतिरेकानुविधायितया तस्य दोषपरिकल्पितत्वं न वस्तुसत्त्वमिति कुतो न निश्चिनुयाः ? भ्रमस्य मिथ्यार्थविषयानुपपत्तेः सत्यस्जतमस्तीत्युपगम्यत इति चेत् । साधु भोः कृतं त्वया यत् प्रामाणिक वचनं प्रामाणिकी दोषानुपप्लुतकरणानां लौकिकानां च प्रतीतिमनादृत्य दृष्टकरणानामुपलम्भ एव प्रमाणीक्रियते ॥
सत्यर
८४. स्वप्नसत्यत्वे नास्ति किमपि मानम् - ननु सर्वदोषमल वर्जितमस्त्येव ममापि प्रमाणमागमरूपम् । आगमश्च त्रिवृत्करणमाह (छां.६-३-३) भूतानाम् । सूत्रकारश्च भूयस्त्वात्तत्तद्व्यपदेशत्वमाह (ब्र. सू. ३-१-२) वस्तूनाम् । तत्कथं प्रमाणापरिशुद्धिः प्रक्रियायाः ? यद्येवं विचारसीमतः प्रतिनिवृत्त्य वाक्यशरणोऽसि, स्थिरीभव तत्रैव । न तु तत्रापि ते साहाय्यमस्ति । यत्कारणं प्रकृतो विषयः प्रत्यक्षादिसीम्न्येव वर्तते न त्वागमगम्यः । प्रमाणान्तरप्रसिद्धोऽप्यर्थश्चेद्बाध्यते श्रुत्या, किं नाम स्यात् प्रामाण्यं बाध्यविषयस्य प्रत्यक्षादेः ? न च प्रत्यक्षाद्यवगाहित द्वैतस्य श्रुत्या बाधं ब्रुवतामद्वैतवादिनामप्ययं दोषः समानः । श्रुत्या हि द्वैतस्य परमार्थसत्त्वं बाध्यते, न तु तत्प्रत्यक्षादिविषयः । न च प्रमाणान्तर विरुद्धार्थविषये श्रुतेः प्रामाण्यं कल्प्यते तैः । तस्माद्भवत एवासाधराणोऽयं दोषः । त्रिवृत्करणश्रुतिस्तु सर्वपदार्थेष्वपि सर्वेषां भूतानां सत्त्वमाह । सूत्रकारश्च भूम्यादिव्यपदेशो भूयस्त्वकृत इत्याह । न तु क्वचित्प्रत्यक्ष विरुद्धं सत्यमिथ्यावस्तुनोरितरेतरत्वं मिथ्यावस्तुसामान्यनिषेधनं वा शास्त्रे दृष्टचरम् । तस्मादप्रमाणवत्येवेयं भवतः कल्पना ।
यच्चोच्यते स्वप्रप्रपञ्चः सत्य एवेश्वरेण सृज्यते तत्कालावसान इति ।
११२
मूलाविद्यानिरासः
(तृतीयः तत्र पृच्छ्यते कथमिदं ज्ञायत इति । आगमादिति चेत् । आगमः किं जागरितोपलब्धः किं वा स्वाप्न इति । यदि स जागरितमात्रगृहीतसत्ताकः, स्वप्रोच्चरितमप्याप्तवाक्यं किं प्रमाणं तत्र भवतो जागरितसत्यत्वे मिथ्यात्वे वा? न चागमार्थोऽपि भवदुक्तरूपः ‘स्वप्रान्त उच्चावचमीयमानो रूपाणि देवः कुरुते बहूनि । उतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन्’ (बृ. ४-३-१३) इत्यादि श्रुतिभ्यः । न हि स्वप्रस्य सत्यत्वे विवक्षिते मोदनजक्षणभयादिष्विवशब्दाभ्यासः समञ्जस इत्यवकल्पते ॥
८५. स्वप्रः स्वप्रदृमात्रानुभाव्यो जागरितं तु सर्वसाधारणमिति भेदो मृषा - यदप्युच्यते स्वप्रस्तत्तत्पुरुषमात्रोपलभ्यो जागरितं तु न तथेति । तदपि मनोरथमात्रम् । ननु यद्यभविष्यत्सर्वसाधारणः स्वप्नः तदा सर्वोऽप्यग्रहिष्यत् स्वप्नदृशं स्वप्रकाले, न तु तथा गृहाति । तस्मादेकपुरुषानुभाव्यः स्वप्न इति निश्चीयते । तत्किं जागरिते स्वप्रगतैः सकलेतरपुरुषैर्गृह्यते जाग्रत्पुरुषः कश्चित् ? नो चेत् को विशेषः स्वप्ने यमवलम्ब्येदमुच्यते स्वप्रदृमात्रशक्यानुभवः स्वप्रप्रपञ्चः, जागरित प्रपञ्चस्तु सर्वसाधारणं विद्यमान इति ?
नन्वस्त्येव स्वप्ने विशेषः । तथा हि - कारणमपेक्ष्यैव कार्योत्पादो दृश्यते जागरिते, न तथा स्वप्ने । क्वचिद्दण्डादौ सति क्वचित्तदभावेऽपि घटाद्युत्पत्तिर्दृश्यते । क्वचिच्च सत्यपि पुष्कलकारणे न भवति कार्योत्पाद
७६. तस्यैव सज्जागरितमिष्यते ।। मां. का. ४-३७ तस्यैव - स्वप्रदृश एव सज्जागरितं न त्वन्येषाम्, यथा स्वप्र इत्यभिप्रायः ।। मां. का. भा. ४-३७-२०८खण्डः )
प्रपञ्चमिथ्यात्वे शङ्का तत्परिहतिश्च
११३ इति । भवत्येवम्, किं तेन स्यात् ? सन्त्येव खलु परे स्वप्नदृग्व्यतिरेकेण ये तथाविधानाननुभवन्ति तत्रैव जाग्रति यथा । न हि ते कल्पिताः पुरुषाः इति वक्तुं जिह्वाप्रसारोऽस्ति भवतः स्वप्रप्रपञ्चस्य सत्यत्वं भणतः ।।
अपि च यदि स्वप्रः सत्यः, किमिति कार्यकारणभावादि वकाशं लभते सत्यत्वेन भवदभिमतजाग्रद्वदेव ? तथाविधाश्चर्यं सृजतीश्वरः स्वप्नदृशः पुण्यापुण्यानुगुणेन तद्भोगार्थमिति चेत् । ततः पुरुषान्तरसत्त्वं तद्भोगं च तत्रैव स्वप्रे दृष्टं कथं वारयिष्यसि ? अथानुमन्यसे तत्सत्यत्वमपि, कथमिदं घटते स्वप्रस्तत्तत्पुरुषमात्रभोग्य इति ? तदित्थं स्वप्रजागरित योस्तुल्यत्वं हातुमुपादातुं वा न शक्यमिति सर्वलौकिकपरीक्षकानुभव विसंवादेन भ्रमप्रमासाङ्कर्य सम्पादयतस्तव दुरन्तमेव स्याद्व्यसनम् । किं
च कार्यकारणभावविसंवादादिकं विशेष इत्यपि मृषा, तत्काले हि कार्यकारणनियमाभावो न संशय्यते किं तु तदग्रिमस्थितावेव । इदानीन्तनत्वेना । कलितायां सर्वस्यामप्यवस्थायां जागरितत्वबुद्धिरवश्यं भाविनीति पूर्वमेव प्रतिपादितत्वात् । तस्मान्नैष ऋजुः पन्थाः स्वप्नोऽपि जागरितवत् सत्य इति ॥
८६. समर्थक्रियाकारित्वेन स्वप्रस्य जागरितस्य वा सत्यत्वमिति न युक्तम् - एतेन योऽप्याचक्षीत - स्वप्रोऽपि सत्य एव समर्थक्रिया कारिवस्त्वाश्रयत्वात्, जागरितवत् । न चैवं मन्तव्यम् - स्वप्रे समर्थक्रिया कारित्वमुपलब्धं सजागरिते व्यभिचरति, तेन मिथ्यैव तदिति । सन्ति खलु स्वानाः पदार्थाः, समर्थक्रियाकारिता येषां जागरितेऽप्यनुवर्तमाना
११४
मूलाविद्यानिरास:
(तृतीयः दृश्यते । यथा स्वप्रभुजङ्गनिमित्ता भीतिः प्रतिबुद्धमपि पुरुषं क्वचिन्न जहाति, स्वप्रानुभूतं च विषयसुखं प्रबुद्धस्यापि दृश्यते, स्वप्रे एव प्रतिभात: कश्चन विचारः प्रबोधेऽप्यबाधित एव क्वचिदवतिष्ठते । स्वप्ने साधुभिः समं व्यवहार तैश्चानुगृहीतमन्त्रोपदेशश्च कदाचिज्जागरितेऽपि तथैवेत्यव गम्यते, जागरिते तैरेव साधुभिः संव्यवहारेण तथात्वावगमात् । तथा च क्वचिद्वाध्यत इत्येव स्वप्रस्य सर्वथा मिथ्यात्वनिर्धारणं तर्कशून्यमिति । तन्मतमपि प्रत्याख्यातं भवति । तथा हि - प्रबुद्धस्य “पूर्वं स्वप्रमद्राक्षं तद्गतविषयजन्यमेवेदं सुखं दुःखं ज्ञानम्, सिद्धिर्वा” इति स्मरणं जागरितोत्थमेवेति स्थिते, कथमिव तन्मात्रेण स्वप्रजागरितयोर्वास्तविक: सम्बन्धः सिध्येत् ?
…..
ननु च भोः प्रबोधे जायमानस्यास्य स्मरणस्य निमित्तीभूतः पूर्वानुभवो जाग्रद्गतो न सम्भाव्यते । स्वप्रगतत्वेन त्वनुस्मरणमस्ति । तथा च दृष्टानुसारेण वरं स्वप्नगतमेव निमित्तं कल्पितमिति । न, प्रतीतिमात्रेण तथा कल्पने अतिप्रसङ्गात् ॥
यच्च स्वप्रजागरितगतानामनुभवसिद्ध्यादीनामुभयत्राप्यनुगतत्वमर्थ क्रियाकारित्वं चोदाहृतम् । न तेन स्वप्नस्य बाधितत्वम्, जागरितस्य बाधकत्वं वा प्रहीयते । तथा च स्वप्रगतसुखदुःखज्ञानादिसदृशमन्यदेव जाग्रद्गतं न तु तदेवेति स्वीकर्तव्यं भवत्यकामेनापि । यथा जाग्रदृष्टसजातीया: पदार्थाः स्वप्नेऽपि दृश्यन्ते, न च तावता त एवैते भवितुमर्हन्तीति । नो खलु स्वप्नेऽपि तदन्तर्गतस्वप्रजन्यसुखदुःखादिफलमनुभवन्तमिवात्मान मुपलभमानस्तयोः स्वप्रावस्थयोः सम्बन्धं वास्तविकं कल्पयेत् ? तस्मान
११५
खण्डः) स्वप्नो जागरितान्तर्गतः कश्चिद्विशेष इति मतं तत्परीक्षा च स्वप्रफलसमनुवृत्तिमात्रात् सत्यत्वं स्येत्स्यति तस्यावस्थानस्य ॥
अपि च येन जागरितेऽपि समर्थक्रियाकारित्वमस्तीति कृत्वा स्वप्र वस्तुनः सत्यत्वमास्थीयते, तेन जागरितवस्तूनां येषां स्वप्ने तन्न लभ्यते किं तेषां वैतथ्यमभ्युपेयते ? नो चेत् किमायातमर्थक्रियाकारित्वमात्रेण स्वाप्रजगत इति ? तत्सिद्धमिदं यत् सर्वत्र भ्रमेऽस्त्येव तात्कालिकी सत्यत्वबुद्धिः, समर्थक्रियावत्त्वं तु स्वभावानुसारेण । क्वचिन्मिथ्यात्वाव गमेऽप्यनुवर्तत एव तत्, न तावता मिथ्यात्वहानिरिति ॥
तस्मान्न शक्यते सत्यत्वमास्थातुं स्वप्रप्रपञ्चस्य विविधदोषवातोच्च लितकल्पनातरङ्ग विनेति सिद्धम् । ततश्च लौकिकपरीक्षकबुद्धिसाम्येन स्वप्रमिथ्यात्वे सति तदविशेषाज्जागरितमपि मिथ्यैवेति पूतः पक्षः ।।
८७. प्रपञ्चमिथ्यात्वोपसंहारः - यत्पुनराशङ्कयते मिथ्यात्वप्रसाधने प्रपञ्चस्य विषयविषयिणोः सम्बन्धानुपपत्त्यपेक्षा, सम्बन्धानुपपत्तिसाधने तु मिथ्यात्वसिद्धयपेक्षेति परस्पराश्रयतेति । तत्परिहतं स्वरूपव्यभि चारित्वात् प्रपञ्चस्य सुषुप्ते तस्य मिथ्यात्वमन्यसिद्धिमनपेक्ष्यैव सिद्धायते, तत एव सम्बन्धविरहोऽपि सुसाध इति । यच्चेद्भावितं क्वचित्प्रपञ्च प्रकाशाभावः सत्यः प्रकाशस्तु मिथ्येति विनिगमने हेत्वभाव इति । तत्र वदामः - न ब्रूमो वयमप्रकाशः सत्य इति, कथं तर्हि प्रकाशाप्रकाशाभ्यां स्वरूपव्यभिचारादेव प्रपञ्चो मृषेति । न ह्यात्मापि तथा क्वचिदप्रकाश स्वरूपः येन तस्यापि मिथ्यात्वं प्रसज्येत । ननूक्तं संसारदशायामात्मा प्रकाशरहित एवाभ्युपेयः, अन्यथा शास्त्रोपदेशवैयर्थ्यादिति । मैवम्, कल्पिताप्रकाशेन नित्यप्रकाशविरोधानुपपत्तेः । संसारदशायामपि प्रकाश
११६
मूलाविद्यानिरासः
(तृतीयः स्वभाव एव हि सन्नात्मा विकल्प्यते न प्रकाशत इति, शास्त्रजनितप्रबोधेन तु विज्ञायते न क्वचिदप्यस्य स्वरूपभूतस्य प्रकाशस्य विगमः सम्भवतीति । तेन न दोषः । तस्माद्वयभिचरितस्वरूपत्वान्मिथ्यात्वं जगतः, आत्मनस्तु वैपरीत्यमिति निष्कण्टकः पन्थाः ॥
स्वप्नो जागरितान्तर्गतः कश्चिद्विशेष इति मतं
तत्परीक्षा च
८८. सुषुत्यादीनां कादाचित्कत्वान्न पृथगवस्थात्वमिति शङ्का - अथ कश्चिदेवं प्रत्यवतिष्ठेत - न किलास्ति स्वप्नो नाम जागरितव्यति रेकेणानुभवः । यथा रूप्यादिभ्रान्तिर्जागरित एव दोषबलादनुमीयते, एवमेव मदमूर्छास्वप्राद्यवस्था जागरित एवानुभूयन्ते । तस्मान्न तेषां पृथक्सत्त्व मवकल्पते । इत्थं च यदुदितं स्वप्रसाम्येन जाग्रत्प्रपञ्चस्याप्यतथात्वं तद्दुरुपपादं भवति । न हि क्वाचित्कानुभवानां सुप्तिमूर्छादीनां स्वाश्रयीभूतस्य विच्छेदराहित्येनानुवर्तमानस्य जागरितस्य सत्त्वं विनात्मलाभः सम्भवति ॥
अथ भवेन्मनीषा - न जागरिताश्रया भवितुमर्हति सुषुप्तिः, जागरित विरुद्धस्वरूपत्वात् । सुषुप्तिर्हि नाम कार्यकरणव्यापारोपरमः, जागरितं च तद्विपरीतम् । तत्कथं विरुद्धस्वभावयोराश्रयाश्रयिभावः शक्यकल्पनः? एवं च सुषुप्तिशब्दव्यपदेश्यः कश्चित् स्वतन्त्र एवानुभव इति । नैतदेवम्, असार्वदिकत्वात् सुषुप्तेः । जागरितं हि स्वाभाविकं पुरुषस्य, निद्रा तु तद्वृत्त्यभाव एव न पृथगनुभूतिः । भवति चात्र दृष्टान्तः - शस्त्रचिकित्सक: सूक्ष्मचिकित्सां प्रारिप्समाणो यं यं रुग्णं सुष्वापयिषति तं तं जनं वायुविशेषादिनस्यद्रव्यप्रयोगेण निद्रापयति । तदा प्रसुप्तत्वादेव रुजार्दितं
खण्डः) स्वप्नो जागरितान्तर्गतः कश्चिद्विशेष इति मतं तत्परीक्षा च ११७ न दुःखाकरोति शस्त्रक्रिया । यदा तु भिषक् तंजागरयति तदैवजानात्ययमहं चिकित्सित इतीति प्रसिद्धमेतत् । अतोऽवगम्यते जागरितव्यापारोपरमे
यः कादाचित्को बाह्योपलम्भनाभावः स एव सुषुप्तिरिति निगद्यते लौकिकैर्न पुनः सुषुप्तिनाम्नी काचिद्विशिष्टावस्था विद्यत इति । तत्सुष्ठुक्तं क्वाचित्का: सुप्तिस्वप्रमूर्छादयो जागरितस्यैव केचन विशेषा इति ।
एवं च स्वप्रस्य जागरिताश्रयत्वे सिद्धे तत्पूर्वं पश्चाच्चनुवर्तमानजागरितं सत्यमेव भवति । न तु स्वप्रसाम्याद्वितथम्, सामान्यविशेषभावागमात् स्वप्रजागरयोः । यथेह कश्चिदनिद्राण एवानेकधाकल्पयति सोमशर्मपितृ न्यायेन “अहममुष्य पुत्रोऽमुकगोत्र इदानीमयं नाम संवृत्त इदमिदानीं लब्धमचिरादेव प्राप्स्यते पुनरन्यदपीष्टमिति” तथैव जागरिताशय एव कश्चित्स्वप्रविकल्पोऽपि भविष्यति । न पुनरनुभवान्तरम्, मानाभावात् । न हि रज्जुसादिविकल्पंजागरिताश्रयं जागरितव्यतिरेकेणावस्थान्तरसम्बद्धं मन्येत कश्चिदपि । भवति चात्र श्रुतिः स्वमस्य जागरिताश्रयत्वं ब्रुवाणा - अथो खल्वाहुर्जागरितदेश एवास्यैष इति । यानि ह्येव जाग्रत्पश्यति तानि सुप्तः इति । (बृ. ४-३-१४) इति । तस्मान्न स्वप्रनिदर्शनेन युक्तमन्यथयितुं जागरितसत्यत्वमिति ।।
८९.जागरितं न स्वप्राद्याश्रयः, अवस्थात्वाविशेषात् - तदेतत्प्रत्युच्यते यदिदमशङ्कितमभिहितं जागरितमेवाश्रयोनुगतः सर्वासां कादाचित्काना मवस्थानामिति, तद्विचारं न क्षमते । तथा हि - जागरितस्वमसुषुप्त्यादीना मुद्भवाभिभवानुभवे समाने सति कथमिदमवधार्येत यजागरितमेवाश्रयः, तदाश्रिताश्च स्वप्नाद्यवस्था न पुनर्वैपरीत्यमिति ? यथा जागरितं पुरस्तान्मध्ये
११८
मूलाविद्यानिरासः
(तृतीयः सुषुप्तिस्ततः परंजागरितमिति वक्तुं शक्यते, एवमेव खलु प्रथमं सुषुप्तिमध्ये जागरितं तदनन्तरं पुनः सुषुप्तिरित्यपि वक्तुं शक्यत एव । अभ्युपगम्येद मुक्तम्, न तु काचिदानुपूर्वी विद्यतेऽवस्थानां वस्तुतः । निरणायि च प्रागवस्थानां पौर्वापर्यं दुर्भणमिति । तस्माद्दुराग्रहनिबन्धनोऽयं जागरिते
पक्षपातः ॥
९०. जागरितं स्वाभाविकमित्यपि न सम्यक् - यत्तु जागरितं स्वाभाविकमिति, तदपि दुःसम्पादम् । सुषुप्तेर्नास्ति कस्यचिदपेक्षा जागरिते तु विषयदर्शनापेक्षेत्यतः सुषुप्तिरेव स्वाभाविकीति वक्तुनिषेधका-भावात् । ननु तस्य पक्षे बाधकमिदमेव यत् सर्वस्य सर्वदा सुषुप्तित्वप्रसङ्गः, जागरिते हेत्वभावादिति चेत् । मैवम् । अनेनैव न्यायेन जागरितस्य स्वाभाविकत्वे तदुच्छेदे हेत्वभावप्रसङ्गात् । न च स्वाभाविकरूपे रूपान्तरानवकाश एव, शुक्तित्वस्यैव स्वाभाविकत्वेऽपि रूप्यत्व भ्रान्तिदर्शनात् । प्रकृतेऽपि सुषुप्तिः स्वाभाविकी जागरितं तु भ्रम इत्युत्थाने निवारकाभावात् । अतो दुर्घटमेतज्जागरिताश्रयत्वं नाम सुषुप्त्यादीनामिति ।।
९१. स्वप्नो नाम स्वतन्त्रावस्थाविशेष एव, स्वासाधारण सामग्रीकत्वात् - यत्तूच्यते - स्वप्रः कश्चिजागरिताश्रयः कल्पनाविशेष एवेति । नैतदेवं भवितुमर्हति सामग्रयभावात् । न हिजागरिते अनुभूयमाना एव शरीरेन्द्रियादयो वर्तन्ते स्वप्नेऽपीति वक्तुं युज्यते, माभूत्स्वपशरीरोप भुक्तगन्धमाल्यादीनां नियमेन जागरितशरीरेऽप्यनुवृत्तिरिति । तस्माद्भिन्न
७७. न जाग्रद्देशगः स्वप्रो जाग्रत्सामग्रयभावतः । अध्यात्माद्यर्थविरहे यतः स्वप्रान् प्रपश्यति ।। बृ. वा. ४-३-९६३
खण्डः) स्वप्रो जागरितान्तर्गतः कश्चिद्विशेष इति मतं तत्परीक्षा च ११९ सामग्रीकत्वाद्भिन्नस्थानत्वमेव युक्तमुत्पश्यामो स्वप्नजागरितयोः । जागरितदेशश्रुतिस्तु तत्समाननि सत्वाभिप्राया । न तु जागरितस्य स्वप्रस्य वा तात्पर्येण सत्यत्वं ब्रूते, स्वयंज्योतिष आत्मनः प्रतिपादने प्रवृत्तत्वात् । अतो न विरोधः ॥
यच्चोद्भावनं जागरितदेशमनोरथादिवन्मिथ्याकल्पनारूपोऽयं कश्चि दनुभवः स्यादिति । विषमोऽयमुपन्यासः । जाग्रत्कल्पनायां हि न परं कल्पनाकाले जाग्रगुद्धिः, क्व नु तर्हि तद्बाधानन्तरमपि “अहमेतावन्तं कालं जाग्रदेवासम्, विस्मृतं मया बहिर्विद्यमानंजगत्, विकल्पितं चानेकधा विषयसान्निध्याभावेऽपि” इति परमार्शः समुदेति । स्वप्ने पुनस्तत्काले यद्यपि जाग्रदद्धिरुपतिष्ठते । तथापि बाधवेलायां नाहमद्यावधि जजागार किं तु स्वनमेवाद्राक्षं यत्र किलारुक्षमिव गजराजमयुत्सीव च शत्रुभिः सहेत्येवंरूपा प्रतिपत्तिरुत्पद्यते । एवं वैलक्षण्यात् स्वरूपबाधाभ्यां न शक्यशङ्का स्वप्रमनोराज्ययोरेकरूपता । एतेन जाग्रत्स्पृक्त्वेनानुभूयमाना करणदोषेणातिदूरादिकारणान्मन्दान्धकारादिनिमित्ताद्वा समुपजायमाना भ्रान्तयो मदमूर्योन्मादसन्निपाताद्यवस्थाश्च स्वप्नविलक्षणत्वेन व्याख्याता वेदितव्याः । समानं हि तत्रापि यथा कथञ्चिज्जागरितसम्बद्धत्वं जागरि तान्तर्गतपुरुषान्तरज्ञानादिकं वा सर्वत्रेति । यद्यपि तत्तद्धान्तिविशेषे मदोन्मादसन्निपाताद्यवस्थायां च जागरितसकलेतरपुरुषैरननुभूयमानानि दर्शनानि प्रादुर्भवन्ति स्वप्रवदेव, तथापि सर्वथा जाग्रत्सम्बन्धकलङ्करहितेन स्वासाधारणाध्यात्मिकाधिभौतिकसामग्रीसचिवेन स्वोचिताहन्ताविशेष संवलितेन चानुभवविशेषेण स्वप्रेन न सर्वथा साम्यं सम्भवति
१२०
मूलाविद्यानिरास
(तृतीयः कस्यचिदप्युपरिनिर्दिष्टानुभवस्येति सर्वसम्प्रतिपन्नमेतत् । अपि च - मद मूर्छादयः सर्वैरपि न नियमेनानुभूयन्ते । किं तु देहमनोदोषविशेषवद्भिः कैश्चित्कदाचिदेवानुभूयन्ते । स्वप्नसुषुप्ती पुनः शरीरमनःस्वास्थ्यवतां सर्वेषामपि नियमेन भवत इति सुप्रसिद्धमेतत् । तत्सिद्धमिदं स्वप्रस्य जागरितवदेवानुभवान्तरस्थानत्वमिति । अतो निरुपसर्गमेव स्वप्नोपन्यासेन जागरितमिथ्यात्वोपपादनम् ।।
९२. जाग्रत्प्रत्ययस्य स्वप्रप्रत्ययसमानयोगक्षेमता - यद्यपि “अहं जागर्मि भूतकालेऽस्वाप्सं स्वप्रमद्राक्षं" चेत्यनुभवस्मृती जागरित एव भवतः । नो जात्वहमिदानीं स्वपिमीति स्वप्नं पश्यामीति वा तत्कालेऽनुभवः । यद्यपि च जागरिते जायमाना सुप्तिस्वप्रविषयिणी स्मृतिर्नानुभवानुरूपा । यथा हि “मम पूर्वं भुजे - इत्याकारकानुभव आसीदिदानीं तु पूर्वकालीनं भोजनं स्मरम्मीति” परामर्शः, न “तथा मम स्वपिमीत्यनुभव आसीदि"त्यनुव्यावसायो भवति कस्यचित् । तथा चानुभवाभावादनुरूपस्मृत्यभावाच्च शक्यत्त एव वदितुमवस्थात्रिक ज्ञानस्याप्याश्रयो जागरितमेवेति । तथापि निर्बाधमेव स्वप्रसाम्येन जाग्रन्मिथ्यात्वप्रतिपादनम् । यथा हि सुषुप्तिस्वप्रप्रत्ययौ तथा जागरित प्रत्ययोऽपीऽत्यविशेषात् कथं जागरितस्यैव सत्यत्वमास्थीयताम् ? सुषुप्तिस्वप्रप्रत्ययौ केवलप्रत्ययौ भवतः, जाग्रत्प्रत्ययस्त्वपरोक्षविषयः तेन भवति विशेष इति चेन्मन्यते, तत्र वक्तव्यं भवति - किमनुभव विशेषत्वाय भवत्यापरोक्ष्यं विषयस्य, आहो तत्सत्यत्वमपि बलादान यतीति । न तावदापरोक्ष्यं सत्यत्वद्योतकमपीति युक्तम् । न हि
खण्डः) स्वपो जागरितान्तर्गतः कश्चिद्विशेष इति मतं तत्परीक्षा च १२१ शुक्तिरजतापरोक्ष्येण तत् सत्यत्वमप्यवसातुं युज्यते । अतोऽनुभवविशेष त्व एव प्रयोजकमापरोक्ष्यमित्युपगन्तव्यम् । तदा प्रत्ययत्वाविशेषात् सुषुप्तिस्वप्रयोः, सह जागरितेन युगपदनुभूयमानत्वाच्च, सर्वासां वा सत्यत्वमवस्थानां अथवा सर्वासां सममेव मिथ्यात्वम् । तत्रैवं सति कथमिदामाशङ्कयेत जागरितेनैव सत्येन भाव्यमिति ।।
ननु जागरितप्रत्ययविषयस्य न बाध्यमानत्वमस्ति यथा स्वप्रसुषुप्ति विषययोः । न हि यथा जागरितप्रत्ययवेलायां जागरितविषयो वर्तते निश्चिततत्स्वरूपेण प्रत्यभिज्ञायमानः, तथा स्वप्रसुषुप्तिप्रत्ययवेलायां तद्विषयोऽपि वर्ततेऽबाधितः । तत इदमुपपन्नं यज्जागरितस्यैव सत्यत्वमिति । मैवम् । स्वप्नेऽपि जागरितप्रत्ययस्य सत्त्वात्, तद्गतविषयस्य च तदानीं निश्चिततत्स्वरूपतैव प्रत्यभिज्ञानात् । स्वप्रवेलायां तद्विषयो नाबाधितो वर्तते - इत्येतदपि स्वप्रसमनन्तरमेव जायमानं ज्ञानमिति न तत्कालेऽ बाध्यत्वेन भासमानत्वं जाग्रद्विषयाणां सत्यत्वमानेतुमलम् । किं च यदि नाम जाग्रन्मात्रे प्रत्यभिज्ञा, कथमेतावता जाग्रत्सत्यत्वमपि सिध्येदिति वक्तव्यम् । प्रत्यभिज्ञाया अपि प्रत्ययत्वाविशेषात्, सर्वप्रत्ययाणामप्यत्र परीक्षितव्यत्वात् न हि सत्यत्वमसत्यत्वं वा शङ्कितुं युज्यते प्रत्यभिज्ञामात्रबलात् ॥
ननु तर्हि सर्वासामेव प्रत्ययत्वाविशेषादस्तु सत्यत्वमेव । किमनेन मिथ्यावादेन ? न, सत्यमिथ्याविभागानुपपत्तौ जागरितेऽपि शुक्तिस्जत परमार्थरजतादीनामविशेषः प्रसज्येत । ननु सर्वमिथ्यात्ववादेऽपि समानोऽयं दोषः ? न, आत्मनः सत्यत्वाभ्युपगमात् । मिथ्यात्वाविशेषेऽपि क्वचित्
१२२
मूलाविद्यानिरास:
(तृतीयः कल्पितसत्यत्वदर्शने बाधकाभावाच्च । अव्यभिचरितस्वरूपत्वं तु न कस्यापि प्रत्ययस्य युज्यते, सर्वेषामपि प्रत्ययानामविशेषेणाविर्भाव तिरोभावसत्त्वात् । आत्मनस्तु नैवमपि स्वरूपव्यभिचारित्वम् । न हि
क्वचित्सम्भावयामः प्रत्ययं यस्मिन् स्वरूपं न स्यादस्येति ।।
९३. आत्मनः स्वतः सिद्धता - ननु किमिदं क्रियते भवता ? विषयानुभवबलादात्मानं प्रसाध्य कथं विषयस्यैवापह्नवः ? साधनस्यैवा भावतोक्तिः, तस्य चाभाविकस्य समाश्रयणेन भाविकस्य साधनमिति नवीनोऽयं पन्था न्यायविद्भिरदृष्टचरः । मैवं मंस्थाः । नाहं विषयसत्त्वा दात्मनः सत्यतां प्रसाध्य तदनन्तरं तस्यैव विषयस्य मिथ्यात्वं प्रत्यज्ञासिषम्, येनेत्थं पर्यनुयुज्येयम् । कथं तर्हि, लोकव्यवहारसिद्धमिथ्याविषयानु भवादप्यात्मास्तित्वमभ्युपगमयितुं शक्यत एवेत्यब्रवम् । तत्रादौ त्वया प्रतिज्ञातं स्वप्रादिर्जागरित एवानुभूयत इति । तथा च जागरितमेकमेवा नुभवस्थानमित्यूरीकृतम् । तत्र सुप्तिस्वप्नादिकं भूतपूर्वं न भवितुमर्हति ७८.अवगतेरात्मज्योतिषो नैरन्तर्यभावात् कूटस्थनित्यता अद्वैतभावश्च सर्वप्रत्ययभेदेष्वप्य व्यभिचारात् । प्रत्ययभेदाश्चावगतिं व्यभिचरन्ति । यथा स्वप्ने नीलपीताद्याकारभेदरूपाः प्रत्ययास्तदवगतिं व्यभिचरन्तः परमार्थतो न सन्तीत्युच्यन्ते । एवं जाग्रत्यपि नीलपीतादि प्रत्ययभेदास्तामेवावगतिं व्यभिचरन्तोऽसत्यरूपा भवितुमर्हन्ति ॥ - उ.ग. (अवगतिप्रकरणे) ७९. अज्ञानानुपमर्दैन व्याकृतिर्यास्य जायते । स्वप्रविज्ञानवन्नासौ सत्यमेयव्यपाश्रया ।। - बृ. वा. १-२-१३२ सम्यग्ज्ञानसमुत्पत्तौ हेतुत्वं तु निगच्छति । निद्रां हत्वा यतः स्वप्नज्ञानादपि विबुद्ध्यते ॥ - बृ. वा. २-२-२३३ (अस्य - जगतः, व्याकृतिः - नामरूपवद्विषया-कारेणाभिव्यक्तिः । यथा स्वप्रज्ञानान्निद्रापायः प्रबोधश्च, एवं विषयानुभवादपि सुविचारितान्मोहापाय: सम्यग्ज्ञानं चोत्पद्येयातामित्यर्थः)
Uखण्डः) स्वप्रो जागरितान्तर्गतः कश्चिद्विशेष इति मतं तत्परीक्षा च १२३ मानाभावादिति चेन्मन्यसे, तदानद्यतनविषयासम्बन्धो नित्यवर्तमान स्वरूपस्यात्मनो बलादायात् इति प्रबोध्यसे । यथा हि सुप्तिस्वप्रप्रत्ययौ प्रत्ययमात्रौ जागरितदेशस्तौ न तु तयोः पूर्वं याथातथ्येनानुभवरूपेणास्तित्वे मानमस्तीत्यनुमन्यसे, एवमन्योऽप्यनद्यतनविषयकप्रत्ययः प्रत्यय एव केवलम्, न तु तद्बलादनद्यतनविषयसम्बन्धः शक्यशङ्क आत्मनः । न च वार्तमानिकत्वमप्यात्मनो भाविकं मयाङ्गीक्रियते भूतभविष्यन्निरपेक्षस्य वर्तमानस्य दुरुपपादत्वात् । भूतभविष्यतोः प्रतिद्वन्द्वो हि वर्तमानो नामेष्यते, कुतस्तदभावे तद्भाव इति ।।
एवं तद्वितीयात्मसिद्धिः कथमिति चेत् । आत्मत्वादिति गृहाण । न ह्यात्मा प्रमाणमपेक्ष्य सिध्यति । आत्मनश्च प्रमेयसिद्धये प्रमाणानि स्वीक्रियन्त इति व्यवहारः । अप्रामाणिकत्वाच्छून्यकल्पस्तीति चेत् । न, निराकरणासम्भवात् । य एव हि निराचष्टे तस्यैव स्वरूपमात्मेति न शून्यकल्पता। तस्मात्परानपेक्षयैवात्मनः सिद्धिः ॥
९४. विषयासत्त्वनिश्चयेन न व्यवहारलोपः - नन्वेवं दृष्टापलापे सर्वव्यवहारलोपप्रसङ्गः । विषयस्य हि सर्वात्मनापि सत्त्वं प्रत्याख्यातं भवता, ततश्च दृष्टविरोधः । निर्विशेषश्चात्मावगमितः । तत्र का गतिळव हारस्य सर्वलोकसिद्धस्य ? अत्र पृच्छामः - केयं बिभीषिकेति ? निर्विशेषमात्मानं ज्ञातवतो व्यवहारः परमार्थतो नास्तीत्यापाद्यते, आहोस्वि ज्ज्ञानी न व्यवहर्तुं शक्नोतीति । आद्ये न विवादः । योऽयं विचारात्प्रागुप
८०. आत्मनः स्वतः सिद्धत्वात् । सिद्धे ह्यात्मनि प्रमातरि प्रमित्सोः प्रमाणान्वेषणा भवति ।। - गी. भा. २-१८-२९
१२४
मूलाविद्यानिरासः
(तृतीयः लभ्यते व्यवहारः स पारमार्थिकसत्यस्वरूपो भवत्युत नेति निश्चेतुं प्रवर्तते जिज्ञासुः । निश्चिनोति च विचारान्ते सर्वमिदं मिथ्यैवेति । तत एव च कृतकृत्यो भवतीति न किञ्चिदपहीनम् । उत्तरस्मिंस्तु कल्पे किं व्यवहार एष्टव्यः स च ज्ञानिनो न सिध्यतीत्यनिष्टमापाद्यते, आहोस्विज्ञानी व्यवहरन् दृश्यते तत्कथमुपपद्यतां यदि ज्ञानेन विषयाभावः सिद्ध इति शङ्काकलङ्कः ? तत्र प्रथमे यथा सर्वे व्यवहरन्ति तथा ज्ञान्यपि व्यवहरतु यदीच्छति व्यवहर्तुम् , कः प्रतिबन्धः ? व्यवहाराय सामग्र्यभाव एवेति चेत् । किमेकस्मिन् पुरुषे ज्ञानिनि प्रपञ्चप्रलयमेव शङ्कसे ? ननु प्रतीतौ तत्र व्यवहारेच सति कथं ज्ञानीति? साधु पृष्टं त्वया । न वयं जाग्रत्प्रतीत्य प्रतीतिभ्यां ज्ञानित्वान्यत्वे सम्प्रधारयाम:, अपि तु मिथ्यात्वनिश्चय तदभावाभ्याम् । तथा च स्मृतिः - वसन् विषयमध्येऽपि न वसत्येव बुद्धिमान् । संवसत्येव दुर्बुद्धिरसत्सु विषयेष्वपि ॥ (मो ध २९८-६)
८१. अहमसावमुष्य पुत्रो ममेदं क्षेत्रं धनं सुखी दुःखीत्येवमादिलक्षणा । अविद्याकृतत्वात्तस्या अविद्यायाश्च निरन्वयतो नाशितत्वात् कुतो विशेषसंज्ञासम्भवो ब्रह्मविदश्चैतन्यस्वभाव स्थितस्य ॥ - बृ. भा. २-४-१२ ८२. व्यवहारे यथैव ज्ञस्तथैवायमपण्डितः । वासनामात्रभेदोऽत्र कारणं बन्धमोक्षदम् ॥ यावच्छरीरं तावद्धि दुःखे दुःखं सुखे सुखम् । असंसक्तधियो धीरा दर्शयन्त्यप्रबुद्धवत् ।। - यो. ४-१५-३७, ३८ ८३. सर्वसंसारभावोऽस्य न यथा लक्षणं तथा । सर्वाभावोऽपि नैव स्याल्लक्षणं ब्रह्मवेदिनः ॥ - बृ. वा. ३-५-२०९ ८४. जगजीवादिरूपेण पश्यन्नपि परात्मवित् । न तत्पश्यति तद्रूपं ब्रह्मवस्त्वेव पश्यति ।। -(सू. सं. ब्र. ४-५४)
१२५
खण्ड:)
जागरितस्वप्रयोमिथ्यात्वे शङ्का परिहारश्च इति । अतो न कोऽपि दोषः ।।
__ एतेन द्वितीयोऽपि कल्पः प्रत्युक्तकल्पः । यदि ज्ञानी व्यवहरन् दृश्यते दृश्यतां नाम । व्यवहारस्य सर्वस्यापि मिथ्यात्वमेव निश्चिनोतु भवान् । येनैव कृतकृत्यता सेत्स्यति । तस्मान्माभैषीः का गतिर्भवित्री लोकव्यव हारस्य ज्ञानोदय इति । प्रपञ्चयिष्यते चेदं पुनरपि जीवन्मुक्ति विचारप्रस्तावे । तदलं प्रसङ्गागतप्रपञ्चेन ॥
इदं त्विह प्रकृतं - यस्यापि मते जागरितमेकमेवानुभवस्थानं नान्यत्ततः प्रविभक्तमवस्थान्तरमस्ति, तस्यापि प्रपञ्चस्य मिथ्यात्वमात्मनश्च निर्विशेषसत्यत्वं नाशक्यविज्ञानमिति ॥
जागरितस्वप्रयोर्मिथ्यात्वे शङ्का परिहारश्च ९५. प्रतीतिवैलक्षण्यादिभिर्जागरितसत्यत्वमेष्टव्यमिति शङ्का - अभ्युपगम्यैवावस्थात्रयं पुनरेषा प्रक्रिया प्रकारान्तरेणाक्षिप्यते । भवतु स्वप्रप्रबोधयोस्तुल्यता । न च तावता तयोमिथ्यात्वमपि, प्रतीतिविरोधात् । न हि प्रतीतिवैलक्षण्येऽपि स्वप्नवजाग्रन्मिथ्येत्यनुमातुं युक्तम् । अन्यत्र स्थितानां वस्तूनामपरत्रार्थक्रियाकारित्वाभावाच्च । न हि स्वप्रे कृतं भोजनादिकं जागरिते क्षुधाधुत्सारणायोत्सहते । नापि प्रबुद्धेन पुरुषेणानु भूयमानमष्टैश्वर्यमपि तस्यैव स्वप्रे दोदुन्वदारिद्रयदलनाय कल्पते । जागरिते यो ह्यशनायत्युदन्यति वा, तेन तस्यामेवावस्थायां भोक्तव्यं पातव्यं च
AN
८५. प्रतिलोममिदं सर्वं यथोक्तं लोकबुद्धितः । अविवेकधियामस्ति नास्ति सर्वं विवेकिनाम् ।। - उ. १८-९५
१२६
मूलाविद्यानिरासः
(तृतीयः तृप्त्यर्थम् । यश्च स्वप्ने दरिद्राति, तेन तस्यामेव स्थितौ दारिद्रयनिर्घाता यार्जितव्यं धनम् । तस्मात्तत्तदवस्थामात्रलब्धार्थक्रियस्य प्रपञ्चस्य तदन्यतो व्यावृत्तमेव किञ्चित् सत्त्वमकामेनाप्यभ्युपेयं भवति । यथेह लोके घटात् पटस्य भिन्नमेव सत्त्वं भिन्नप्रयोजनसाधनत्वात्, एवं जाग्रत्स्वप्रयोर्यावदवस्थिति सत्यत्वमेवास्थेयं भवति न पुना रजतादिव दारोपितत्वम् ॥
अपि च रजतादिकं यद्यपि न पुरोवर्तिशुक्त्याद्यात्मना सद्भवति । तथापि रजताद्यात्मस्वरूपेण तु क्वचित्सदेव दृष्टम् । अत्र तु जागरितं स्वप्रश्चेत्युभावपि चेत्समारोपितौ, कुत्र स्यात्तयोः सत्त्वं यदपेक्षयात्र मृषारूपौ स्याताम् ? अथ स्वप्रप्रबोधौ परस्परसमारोपितौ, तर्हि द्वयोरपिप्रातिस्विक स्वरूपेण सत्यत्वमेवाङ्गीकार्यं भवति । अथवा स्वप्नस्य समनन्तरप्रत्यय बाध्यत्वादस्तु समारोपितत्वम्, न त्वेव जागरितस्य मिथ्यात्वं युक्तम्, प्रतीतिवैलक्षण्यविरोधप्रसङ्गादिति ।।
९६.न प्रतीतिमात्रेण सत्यत्वं जागरितस्य - अत्र विवेक्तव्यम् - किं प्रतीतिमात्रेण जागरितादिप्रपञ्चस्य मिथ्यात्वं प्रतिक्षेप्तमीहते प्रतिवादी, अथवा स्वप्रतीतिस्थले समर्थक्रियाकारित्वात्, उताहो समारोपितस्य सर्वस्याप्यन्यत्रसत्त्वनियमादिति । सर्वथापि स्ववधाय कृत्योत्थापनमिदम् । तथा हि - यदि तावत्प्रतीतेन मिथ्यात्वम्, कथं रजतादेरपि तत्सिध्यति? तत्रापि मिथ्यात्वमननुजानन् जनस्तु पूर्वाचायैरेव सुक्षित इति नात्र तन्मतखण्डनयुक्तयः प्रतायन्ते । आदर्शि चाधस्तादिङ्गात्रेण रजतादेः शुक्त्यादावस्तित्वशङ्कापनोदनप्रकारः । तस्मान्न प्रतीतिमात्रात्सत्यत्वम् ॥
१२७
खण्ड:)
जागरितस्वप्रयोमिथ्यात्वे शङ्का परिहारश्च ननु प्रतीतिवैलक्षण्यादस्तु जागरितस्य सत्यत्वमित्युक्तम् । न । प्रतीतिवैलक्षण्यस्यापि सत्यत्वव्याप्यत्वाभावात् । न हि यत्र यत्र प्रतीतिविशेषस्तत्र तत्र सत्यत्वमिति नियन्तुं शक्यते । ननु च स्वप्रो मिथ्येति प्रतीयते जाग्रद्वाधितः । न तु तथा जागरितमपि मिथ्येति कस्याञ्चिदप्य वस्थायां प्रतीयते । इदमपि प्रतीतिवैलक्षण्यमकिञ्चित्करमेव स्वप्रान्तर्गत स्वप्नप्रतीतिवैलक्षण्यवत् । न हि तत्र बाधकः स्वप्नो जागरितमेवायम बाध्यश्चेति तत्काले प्रतीयमानोऽपि तावता सत्य एव भवितुमर्हति । तस्मान्न प्रतीतेर्जागरितस्य सत्यत्वम् ।
९७. समर्थक्रियाकारित्वादपि न सत्यत्वम् - न च समर्थक्रिया कारित्वात्सत्यं भवेत् । यतस्तिक्तता गुडे रुग्णेन दृष्टा, न तु तावता तिक्तताया भाविकत्वम् । ननु तत्र विद्यते सत्यभूतो रोगात्मको दोषः, इह तु नेति वैषम्यम् । न हि परमार्थदोषमनभ्युपगम्य कश्चिदपि भ्रमः शक्योपपादनः । तदभ्युपगमे तु जितं द्वैतिनेति । न । दोषमात्रं प्रयोजकमित्यप्युपपत्तेः । सत्यत्वविशेषणादाने गौरवात् । प्रकृतेऽपि विद्यत एवाविद्यत्मको दोषः ॥
९८. समारोपितस्यान्यत्र सत्त्वमित्यपि न - ननु प्रपञ्चस्य कुत्राप्य सत्त्वे कथं समारोपितत्वम् ? समारोपितत्वादेव हि यत्र क्वचन भाव्यं तेनेति चेत् । मैवम् । यदि प्रपञ्चस्य समारोपितत्वमनुमन्यते तदा तस्य प्रतीतिमात्रेण सन्तोष्टव्यम् । यत्कारणं तस्य समारोपितस्थलादन्यत्र सत्त्वं
८६. मनः सृजति वै देहान् गुणान् कर्माणि चात्मनः । तन्मनः सृजते माया ततो जीवस्य संसृतिः ।। भा. १२-५-६
१२८
मूलाविद्यानिरास:
(तृतीयः सम्भावयितुमपि न शक्यम् । क्वचित्स्थले समारोपितस्य वस्तुनोऽ धिष्ठानादन्यत्र सत्त्वमनुमिमानोऽपि न तद्बलादसम्भावितसत्त्वमप्यनुमातु मर्हति । न च दृष्टेऽनुपपन्नं भवेत्किञ्चित् । दृष्टा ह्यत्र प्रतीतिः क्वचित्का प्रपञ्चस्य, दृष्टा च सुषुप्तौ तस्य नितरामप्रतीतिः । न चेतरत्र तदानीं तत्सत्त्वं दृष्टम्, सम्भाव्यते वा । तस्मात् समारोपितं मिथ्या च जगदित्येतदेव दृढीकृतं भवति । न तु समारोपितत्वात् क्वचित्सत्त्वम्, आत्मजगतोभिन्नस्य जगदधिकरणस्य सम्भावयितुमशक्यत्वादित्यलम् ।।
यत्पुनरुच्यते तत्तदवस्थायां विद्यमानस्य यावत्तावदपि यत्किञ्चित्सत्त्व मभ्युपेयं भवतीति । तत्रोमिति ब्रूमः । अभ्युपगम्यते हि तद्यावत्प्रतिभासं प्रपञ्चसत्त्वम् । तदेव च सत्त्वमधिकृत्य विचार्यते किमेतत् परमार्थसत्यमपि भवतीति । निश्चीयते च प्रतिभासमात्रशरीरं तन्न परमार्थमिति । ततो न दोषः । तस्माद्विस्रब्धं निश्चीयतां यत् प्रपञ्चस्य स्वप्नोपलब्धस्येव जागरि तेऽपि परिच्छिन्नप्रतीतेः सुषुप्तावभावाच्च तुल्यमुभयत्र मिथ्यात्वमिति ॥
प्रपञ्चस्य समारोपितत्वे शङ्का तत्परिहतिश्च ९९. लोकसिद्धबाधवैलक्षण्यात्प्रपञ्चबाधासिद्धिरिति शङ्का - स्यादेतत् - सुषुप्तावभावेन प्रपञ्चबाधो न प्रपञ्चस्य मिथ्यात्वं साध्नोतीव । कुतः ? लोकदृष्टबाधधर्मवैधुर्यात् । लोके तद्धि बाधितमित्युच्यते यस्य प्रतिपन्नोपाधौ त्रैकालिकमसत्त्वमवधार्यते । नास्त्यत्र रूप्यमासीद्भविष्यति वा यस्माच्छुक्तिकैवेयमिति धीः खलु रूप्यस्य बाधो नाम । तथाविध निश्चयश्च यत्र शुक्तौ समारोपितं रजतं तस्य स्वरूपस्य निश्चयात् तत्रैव कल्पितरूपाभावदर्शनेन सिध्यति । दार्टान्तिके च न सम्भावया
१२९
खण्ड:)
प्रपञ्चस्य समारोपितत्वे शङ्का तत्परिहतिश्च मस्तादृशं बाधम् । यत्र खलु स्वप्ने स्वानः प्रपञ्चः, जागरिते वा जागरितप्रपञ्चः, तत्रैव स्वप्रे जागरिते वा न कश्चिदुपलभते, निश्चिनोति वा तदभावम् । तथा च यदि नाम सुषुप्तौ नोपलभ्यते प्रपञ्चः, किमायातं ततः प्रपञ्चमिथ्यात्वसाधने ? तस्मादननुरूपत्वादृष्टान्तस्य न जगति
सम्भवत्यारोपितत्वानुमानमिति ।।
१००. परिहार - अत्राभिधीयते - नैतद्वैषम्यमस्ति । यत्रैव ह्यात्मनि प्रपञ्च उपलभ्यते तत्रैव तस्याभावोऽपीति किमत्र चित्रम् ? नो खलु वयं जातुचिदब्रूम जगत्स्वप्ने जागरिते वा समारोपितमिति । प्रत्युत जागरितं स्वप्रश्च स्वाविनाभूतप्रपञ्चसहितमात्मनि विद्यमाने इव कल्प्येते मुग्धैरित्युद्धोषितमस्माभिः । सप्रपञ्चत्वं चोक्तनीत्या बाध्यत इत्यत इदमेवायातं यन्मिथ्यात्मत्वमात्मप्रपञ्चसम्बन्धस्येति ।।
ननु नात्मा जात्वनुभवति “सुषुप्तौ नास्ति मयि किञ्चिदणुमात्रमपि प्रपञ्चसंप्रयोगः, समारोपित एवाभूत्स्वप्रजागरितयोः” इति । ततश्च नात्र रजतमितिवन्नात्र प्रपञ्च इति बाधसमये निश्चयाभावात् तदवस्थमेव वैयर्थ्यमिति चेत् । निपुणोऽसि चोदने । तथाप्यवधारितमनाः शृणु । नोक्तमस्माभिर्निश्चयसंशयादिः प्रपञ्चानन्तःपातीति । सुषुप्तौ प्रपञ्चो न विद्यत इति प्रतिजानद्भिरिदमप्युक्तमेव खलु यत्संशयनिश्चयादिकं सविषयं न लब्धावकाशं तत्रावस्थायामिति । तथा च नास्ति चेत्प्रपञ्चबाधनिश्चयः सुषुप्तौ, मास्म नाम भूत् । इदमेव हि भूषणं सुषुप्तेर्निष्प्रपञ्चत्वस्य यदस्यामवंस्थायां निषेधप्रतियोगित्वेनापि न सम्भाव्यते प्रपञ्च इति । इत्थं च भवता दृढीकृतोऽस्मत्पक्ष एव वाचोयुक्त्यन्तरेण
१३०
चत्वा
मूलाविद्यानिरासः
(तृतीयः प्रपञ्चबाधनिश्चयाभावं सुषुप्तौ शङ्कमानेन । यत्र तु जागरिते विचारो भवति सप्रपञ्चत्वमात्मनो यदृश्यते श्रूयतेऽपि वा, किं तदापातत एव, उताहो तत्सत्त्वमप्यस्तीति, तत्र भवत्येव निश्चयस्तन्मिथ्यात्वे वर्णितन्यायेन ॥
न चेदमाशङ्कनीयम् - सुषुप्तात्मनि प्रपञ्चाभावः, जाग्रत्स्वप्रात्मनोश्च तत्प्रतीतिरिति पुनरपि स एव दोष आवर्तते, आत्मनि प्रतिपन्नोपाधौ निषेधविरहादिति । आत्मनोऽवस्थाविशिष्टत्वे विशिष्टरूपेण च भेदवत्त्वे च मानाभावात् । न च प्रतीतिरेव मानं शुक्त्यादिष्वपि रजतादिविशिष्टत्व प्रसङ्गात् । तस्मादेक एवात्मा सर्वास्वप्यवस्थासु, तथानुभवात् । अतो यत्र प्रतिपन्नः प्रपञ्चस्तत्रैव बाध्यत इति निरुपसर्ग एव प्रपञ्चमिथ्यात्व
वादः॥
सुषुप्तावनुभूतिरात्मनो धर्म इति मतं तन्निराकरणं च १०१. आत्मा ज्ञानगुणकोऽहमर्थस्वरूपश्चेति पक्षानुवादः - अन्यथा पुनरेषा प्रक्रिया कैश्चिदाक्षिप्यते - सुषुप्तौ यद्यपि निर्विषयानुभूतिर्विद्यते । सा न स्वतन्त्रा, कथं नाम, आत्मनो धर्मभूता । एवं च सुषुप्तानुभवबलेनात्म नश्चैतन्यस्वरूपता न सिध्यति, का तर्हि, चैतन्यगुणतैव । एवमेव मदमूर्छादिषु यत्र यत्र निर्विषयानुभूतिस्तत्र तत्र सविशेष एवात्मानुभवो भवति । अत एव न कदाचिदप्यहमर्थताविगमो दृश्यत आत्मनि । सुषुत्यादिष्वपि “मामप्यहं न ज्ञातवान्” इत्यहमर्थत्वेनैव परामृश्यत आत्मा । तत्स्वरूपमेवाहमर्थ आत्मनः । ज्ञानं तु तस्य धर्मः । यदा यदा ह्यत्मात्मने स्वयमवभासते तदाहमित्येव भासते । तस्मान्नात्मा निर्विषय
खण्डः) सुषुप्तावनुभूतिरात्मनो धर्म इति मतं तन्निराकरणं च १३१ निर्विशेषचैतन्यस्वरूप इति युक्तम् । अपि तु दीप इव प्रभाश्रयो नित्याविलुप्तज्ञानगुणाश्रय इत्यास्थेयमिति ॥
१०२. जागरितस्वप्रयोरेवाहप्रत्ययविषयत्वमात्मनः - अत्र वदामः - किमत्र सिसाधयिषितम् ? आत्माहमित्येव ज्ञायत इति, उत ज्ञातैव न ज्ञानस्वरूप इति, आहोस्विद्यत्किञ्चिदन्यदेवेति ? तत्राप्रत्ययवेद्यताव्यव हारस्तावदभ्युपगम्यत एव जाग्रत्स्वप्रयोर्यत्रैवाहप्रत्ययस्य सम्भवः । ननु सुषुप्तावप्यहमर्थत्वेनैव भात्यत्मेत्युक्तम् । नैतद्युक्तम्, निद्राणस्य कस्यचिदपि “इदानीमहमर्थस्वरूपोऽहम्” इति प्रतिसन्धानाभावात् । अथ सुप्तोत्थितपरामर्शादेवावसीयताम् । यदानुसन्धीयते तदाभ्युपगम्यत एव खल्वस्माभिरहमर्थः । ननु च कदापि नात्मात्मनेऽहमन्यत्वेनावभासते । बाढम् । ततो नानुमातव्यमहमर्थ एवात्मेति, कथं तर्हि, यदा व्यवहारगोचर
आत्मा, तदाहमित्येव व्यवहर्ता इति ।।
एतेन - न चेदात्माहमर्थः, कथं प्रत्यगर्थो भवेत् ? अहमर्थविनाश एव चेन्मोक्षः कथं प्रवर्तेरन् जना मोक्षकथायां स्वविनाशसमर्पिकायाम्? इत्यादयोऽपि शङ्का उट्टङ्किता भवन्ति । न ह्यस्ति स्वतःसिद्धिः सर्वप्रत्यक्त्वं वाहमः । अहंप्रत्ययस्यापि हि सिद्धिर्यस्यानुभवस्वरूपात्मनो बलात्तस्याहं प्रत्ययतः सिद्धिरिति कथं भवेत् ? अहमस्तु सिद्धेर्वाचीनैव तद्व्यतिरिक्त सकलविषयसिद्धिरिति बाह्यविषयापेक्षया प्रत्यक्त्वं सूक्ष्मत्व ८७. आत्मनश्चेदहं धर्मो यायान्मुक्तिसुषुप्तयोः ।। - नै. २-३२ ८८. न तावदयमेकान्तेनाविषयः अस्मत्प्रत्ययविषयत्वात् ॥ - सू. भा. अव. ८९. यस्यानुभवसिद्ध्यैव सिद्धिः स्याटसिद्धिवत् । ततोऽहंप्रत्ययात्सिद्धिमीक्षतेऽनुभवः कथम् ।। - बृ. वा. १०५८
१३२
मूलाविद्यानिरासः
(तृतीय मात्मदृष्टिभाक्त्वं च तस्य । अतः प्रत्यक्त्वादिभ्यो हेतुभ्यो व्यवहार दृष्टयैवाहप्रत्ययगम्यत्वमात्मनः ।।
१०३. अहंप्रत्ययगम्यत्वं न कदापि पारमार्थिकम् - अथ कस्मात्परमार्थदृष्ट्याप्येवं नेति ? अविषयत्वादिति ब्रूमः । आत्मा हि नाम जिज्ञासो स्वरूपम् । कथंकारं स्यादयं स्वस्यैव स्वयं विषयः ? न ह्यनंशस्य युगपज्ज्ञेयता ज्ञातृता च सम्भवेताम् । विषयत्वे चात्मनः किंकृतः स्याज्ज्ञानोपदेशः क्रियमाणः । शब्दादिराहित्याच्च न सम्भाविता विज्ञानकर्मतात्मनः । ननु स म आत्मेति विद्यात् (कौ ३-९) इत्यादीन्यात्मनो ज्ञेयत्वबोधकवचनानि भज्येरन्नितरथेति श्रुतार्थापत्या कल्पनीयं ज्ञानकर्मत्वमिति चेत् । न कल्पनीयम्, श्रुत्यन्तरवदत्राप्युपपत्तेः । यथा आत्मा वा अरे द्रष्टव्यः (बृ. २-४-५) इत्यादिवचने सत्यपि रूपाद्यभावान’ दृष्ट्यादिव्याप्यता कल्प्यते, किन्त्वनात्मदर्शनप्रवणता परित्यागार्थकत्वेन चारितार्थ्यमवसीयते वचनस्य । एवं विजिज्ञासितव्यता बोधकवचनान्यप्यधस्तादुक्तात्माश्रयादिदोषपरिहारायान्यस्मिन् ज्ञेयता बुद्धिवारकाण्येवेति मन्यामहे, न चक्षुषा पश्यति कश्चनैनम् (का. २ ३-९) अन्यदेव तद्विदितात् (के.१-४) इत्यादिन्यायोपबृंहितश्रुतिभ्यः । तस्मादात्मनो विषयत्वासम्भवादहमादिसकलविषयविषयित्वाच्च स्वत एव प्रत्यक्त्वम् । अहमर्थविनाशेऽपि न स्वविनाशो मोक्षमाणस्य,
९०. न हि निरवयवस्य युगपज्ज्ञेयज्ञातृत्वोपपत्तिः । आत्मनश्च घटादिक्ज्ज्ञानोपदेशानर्थक्यम् ॥ - तै. भा. २-१ भा. भा. २०० ९१. रूपवत्त्वाद्यसत्त्वान्न दृष्ट्यादेः कर्मता यथा । एवं विज्ञानकर्मत्वं भूम्नो नास्तीति गम्यते ।। - उ. ९-९खण्ड:) सुषुप्तावनुभूतिरात्मनो धर्म इति मतं तन्निराकरणं च १३३ स्वस्याहंलक्षिततत्साक्षिस्वरूपत्वात् । अतो मोक्षकथायामपि प्रवृत्त्युप पत्तिः । व्यवहारदृष्ट्या तूच्यते सर्वदाप्यहमित्येवात्मा व्यवह्रियत इति । ततो न कोऽपि विरोधः ॥
१०४. सुषुप्तौ तु नास्त्येवाहमर्थानुभवः - सुषुप्तौ तु न सम्भवत्यहं व्यवहारः । कुतः ? अहंकारस्य त्वंकारयोग्यसहोपलम्भनियमात् । प्रतिद्वन्द्विनौ ह्यहंकारत्वंकारयोग्यौ पदार्थो । प्रतिद्वन्द्विनोश्चैकज्ञानस्यापर ज्ञानसापेक्षतानियम इति प्रसिद्धमेतत् । त्वंकारयोग्यस्य चानुपलम्भात् सुषुप्ते युक्तमेतद्यदहंज्ञानाभाव एव तत्रेति । किं चाहमिदं करवाणीति यथा कर्मणि प्रवर्तते कर्मफलाकाङ्क्षी तथा यो यो निद्रास्यति सोऽहमिदानीं स्वपानीति सङ्कल्पपूर्वकं स्वप्तुं न प्रभवति । न वोपयन्तीं सुषुप्तिं वारयितुमीष्टे कश्चित् । दृष्टं हिज्वराद्युपद्रुताः केचित्सुषुप्तिलाभे सोत्कण्ठा अपि तदप्राप्त्या दुःख्यन्तीति । निद्राभिभूत एव भवति जागरूकोऽपि यामिकः कदाचिदिति च । तदेतत्कस्य हेतोः? अहंज्ञानविरुद्धस्वभावत्वादेव सुषुप्तेः । तस्मान्नाहं ज्ञानं सम्भवति स्वापे । किञ्च सकलव्यवहाराभाव एव सुषुप्ते? स्वरूपमित्यागोपालपण्डितं प्रसिद्धमेतदिति न केनचिद्युक्त्या शक्यते तत्रात्मनोऽहमर्थस्वरूपतां दर्शयितुम् । न ह्यहमित्यात्मात्मानं प्रतिसन्दधाति तदवस्थायामिति ।।
__ १०५. ज्ञातृत्वमपि न स्वरूपमात्मनः - एतेन ज्ञातृत्वमपि प्रत्युक्तं वेदितव्यम्, जानामीति न जानामीति वा प्रतिसन्धानाभावात्सुषुप्ते । अपि च सुषुप्तिर्नाम निर्विषयावस्था । तदापि चेदात्मा ज्ञाता, ज्ञातृत्वं कीदृशं भवेत् ? ज्ञातृत्वं विषयशून्यमिति च स्फुटो व्याघातः ।।
१३४
मूलाविद्यानिरासः
(तृतीयः ननु ज्ञातृत्वं विषयं नापेक्षते, ज्ञानगुणाश्रयत्वस्यैव ज्ञातृत्वशब्द भाष्यत्वात् । तर्हि वक्तुमर्हसि ज्ञानातिरिक्तस्य तस्यात्मनः किं स्वरूपमिति । न जडं न वा चिदात्मकम्, अनभ्युपगमात् । न च चिज्जडभिन्नं कस्यचिद्बुद्धौ समारोहति । अतो शून्यवादिता परिशिष्यते ज्ञानभिन्नत्वमात्मस्वरूपस्य वदतः । न चैतदपि युक्त्युपेतं स्यात्, शून्यस्य निर्धर्मकत्वात् ॥
त्वमात्मर
__ १०६. ज्ञानगुणकत्वे धर्मधर्मिणोर्दुर्विवेचनत्वम् - ननु न वयं
शून्यवादिनः । ज्ञानगुणस्य नित्यत्वं स्वाभाविकत्वं च वयमङ्गीकुर्महे । तस्मान्न जातुचिदस्ति चिद्रूपताया निवृत्तिरात्मन इति कथमस्थाने शून्यवादप्रसञ्जनमिति ? मैवम् । यदि चिद्रूपतां न व्यभिचरत्यात्मा तदा चित्स्वरूप एव स्यान्न चिदुणः । यथेह वह्निरुष्णस्वभावमव्यभिचस्नुष्ण एव भवति, न तु तद्व्यतिरिक्तस्वरूपस्तद्वत् ॥
ननु च यथा तेजोद्रव्यमेकमेव प्रभाप्रभावद्रूपेणावतिष्ठते । प्रभा च शौक्ल्यादिवदगुणोऽपि सन्नित्यतदाश्रयत्वतच्छेषत्वहेतोः प्रभावतो गुण इति व्यवह्रियते । न तु दीप एव प्रभा । अन्यथा मणिप्रभयोरैक्ये मणेरवयवा एव विशीर्णाः प्रचरन्तस्तस्य प्रभा उच्यन्त इत्यापत्त्या मणेविनाश एव प्रभाप्रसरात्प्रसज्येतेति । यथैष दृष्टान्तस्तथा चिद्रूप एवात्मा चैतन्यगुण इति श्लिष्यते । मैवं मंस्थाः । न हि कदाचिदुदाहरणमात्रेण किञ्चित्सि ध्यति, प्रत्युदाहरणस्य निवारकाभावात् । प्रकृते दृष्टान्तोपन्यासोऽपि भवतोऽनिष्टफलकः । कथम् ? निबिडावयवप्रविरलावयवरूपविशेषमात्रे णैकमेव हि तेजोद्रव्यं प्रदीप इति प्रभेति च व्यपदेशभेदं भजते । यत्तु
खण्डः) सुषुप्तावनुभूतिरात्मनो धर्म इति मतं तन्निराकरणं च १३५ मणिदृष्टान्तेन मणिनाशं प्रसज्य प्रभाप्रभावतोर्भेदानुमानम् । तन्मन्दम् । मणे[मणिप्रभृतिप्रभाप्रतिस्फालकत्वात्प्रभावत्त्वस्यैव गौणत्वात् । यत्र तु मुख्यमेव प्रभावत्त्वं तत्र प्रभाकरादावपि कालान्तरे प्रणाशो नानिष्टः, सूर्याचन्द्रमसौ धाता यथा पूर्वमकल्पयत् (ऋ. १०-१९०-३) इति श्रुतेः ॥
१०७. चिद्गुणकत्वस्यापारमार्थिकत्वे युक्तिरनुभवश्च - किं च यदि चिद्रूपचैतन्ययोर्भेद इष्यते प्रभाप्रभावद्रव्ययोरिव तदा, दीपदृष्टान्तेन सावयवत्वमप्यात्मनोऽनिष्टं बलादाकृष्यते । अथ न हि दृष्टान्ते सर्वसाम्यमिति कृत्वा प्रभाप्रभावतोर्भेद एवात्र साम्यं विवक्षितमिति स्वीक्रियते । तदा राहोः शिर इति व्यपदेशभेदान्न यथा वस्तुभेदः प्रकृतेऽपि तथैवेति प्रतिवदितुः किमुत्तरम् ? अस्ति चात्र प्रतिपक्षे न्यायानुग्रहः । न हि यथा दीपप्रभयोः शेषशेषित्वं तथात्रालक्ष्यते किंचिदपि चिद्रूपचिगुणयोः । ननु लक्ष्यत एवाहं जानमीति भेदः ? नेत्युच्यते । यद्यहमिति चिद्रूपता जानामीति च चिद्गुणता स्वीक्रियते ततः सुषुप्तौ मामप्यहं न जानामीति प्रत्ययबलादचिद्रपतामचिद्गुणतां चात्मनि किमिति न शड्रेथाः ? ननु परामर्श एवायम्, न तु सुषुप्त्यनुभवः । न हि सुषुप्ते मामन्यं वा जानामीति न जानामीति वाऽनुभवोऽस्तीति । अहो मूलच्छेदने पाण्डित्यम् ! सुषुप्तौ यदि कोऽप्यनुभवो नास्ति, तर्हि सुतरां न चिद्गुणता सम्भवत्यात्मनः ।।
१०८. चिद्रूपचिद्गुणयोः गुणगुणित्वानुपपत्तिः - अपि च ज्ञानस्वरूप मात्मनि नित्यं वर्तत इति ज्ञानगुणकमात्मानं मन्यसे चेत्, जानात्यात्मा इति कृत्वा ज्ञानक्रियाश्रयिणमपि तं कुतो न मन्येथाः ? अथ मनुषे ज्ञानं
प्रत्यय
१३६
मूलाविद्यानिरासः
(तृतीयः नाम ज्ञानद्रव्यमेवात्मशेषभूतम् । ततो न परमार्थतो गुणः शौक्ल्यादिवत् क्रिया वा गमनादिवत् । तस्माज्ज्ञानाश्रयत्वस्य स्वाभाविकत्वं ज्ञानरूपात्म नोऽभिन्नत्वं च दर्शितुमेव गुणत्वेन परिभाष्यते । तत्परिभाषायां तु नात्यन्तमाग्रह इति । तदप्यनुचितमेव ज्ञानस्यान्यशेषतायोगात् । तथा हि - शेषिभूत आत्मा ज्ञानादन्यभूतत्वाज्जडरूप एष्टव्यः । तच्चानिष्टं भवतः । न च जडस्य ज्ञानशेषिता सम्भवति, घटादीनामपि ज्ञानगुणकत्वप्रसङ्गात् । नाप्यसौ शेषी ज्ञानरूप इति युज्यते । शेषशेषिभावस्य भेदसव्यपेक्षत्वात् । अत्र हि शेषशेषिणोरुभयोरपि ज्ञानरूपतैवोपगम्यते । न च ज्ञानगुणादन्यस्य ज्ञानरूपात्मनः परमार्थतोऽपि तद्भिन्नत्वम्, जडत्वप्रसङ्गात्, ज्ञानरूपस्य जडत्वे विरोधाच्च ॥
एतेन चिद्रूप आत्मा चेतनरूपस्येश्वरस्य शेष इत्यपि निरस्तम्, चिच्चेतनयोर्भेदानिरूपणात् । चेतनत्वसिद्धिशेषत्वसिद्ध्योः परस्पराश्रयश्च स्फुटो दोषः । तदेवं चिद्रव्यमेव चिदात्मशेषभूतं गुणत्वेन परिभाष्यत इत्ययुक्तम् । तस्माद्दुर्निरूपत्वादप्रतीतत्वाच्च चिद्भिन्नज्ञानगुणस्य, चिद्रूपचिगुणयोर्भेदो दुर्भणः ॥ __ १०९. जानामीति व्यवहारे प्रकृतिप्रत्ययार्थविवेकः - तथापि
९२. चितोऽन्यशेषताभावाच्चितोऽचिच्छेषता न हि । शरावादिपदार्थानां चेतनत्व - प्रसक्तितः ।। चिच्छेषत्वं न चास्त्येव चितश्चिन्न हि भिद्यते । भिद्यते चेदचिच्चित्स्याच्चितोऽचित्वं विरुध्यते ।।
तथा चिच्चेतनस्यापि न शेषत्वमवाप्नुयात् । शेषत्वे सति तत्सिद्धिस्तत्सिद्धौ शेषता चितः ।। सू. षं. यं.७-१७, १८, १९
खण्ड:) सुषुप्तावनुभूतिरात्मनो धर्म इति मतं तन्निराकरणं च १३७ जानातीति प्रतीतेरात्मनि भासत एव ज्ञानगुणः । कथमत्र भवतः श्रद्धानुरुध्य मनः समादध्याम् ? प्रतीतिमात्रशरणो भवान्, यथाप्रतीत्येव समादधातु । कथम्? बुद्धौ परिणामलक्षणा क्रिया प्रतीयते, आत्मनि च बुद्धिविगमेऽपि चिद्रूपता प्रतीयते, सुषुप्तेऽपि चैतन्यानुवृत्तेः । तस्माज्जानातीत्यत्र ज्ञानार्थो नित्यमात्मैव । क्रियाश्रयत्वं तु सदा बुद्धावेव, बुद्धिरहिते चिदात्मन्य दर्शनात् । व्यवहारे तु बुद्धेः क्रियाश्रयत्वमात्मनि, तस्य च चिद्रूपत्वं बुद्धौ समारोप्य वक्ति लोको जानात्यात्मेति । यथा मनुष्योऽहमिति व्यवहारे देहात्मनोः स्वभावप्रविवेकाभाव एवापराध्यति, न पुनर्देह एव भवितुमर्हत्यात्मा तथा जानात्यात्मेति व्यवहारोऽप्यात्मबुद्धिविवेकाभाव निबन्धनः ॥
११०. अज्ञातर्यप्यात्मनि क्षेत्रज्ञेत्यादिव्यपदेशोपपत्तिः - ननु नित्यज्ञानक्रियाश्रयत्वाभावे कथं क्षेत्रज्ञ (श्वे.६-१६) इति वैदिकव्यवहारो घटते ज्ञोऽत एव (ब्र. सू. २-३-१८) इति च बादरायणीयं सूत्रम् ? कर्बर्थे हि कप्रत्ययः स्मर्यते (पा. सू. ३-१-१३५) । सत्यम् । कर्तृत्वं तूक्तयुक्त्या न मुख्यवृत्तं भवत्यात्मनीत्यौपचारिकमेव स्यात् । यथा प्रकाशकः सविता इत्यत्र । प्रत्ययविधानं च नित्यक्रियाश्रयानित्यक्रिया श्रयोभयसाधारणम् । यथा हि “तिष्ठन्ति पर्वता” इति नित्यनिवृत्तगतिमत्सु पर्वतेषु “तिष्ठन्ति गाव” इति सम्भवद्गमनेषु गोषु च साधारण एव ९३. बुद्धेः कर्तृत्वमध्यस्य जानातीति ज्ञ उच्यते । तथा चैतन्यमध्यस्य ज्ञत्वं बुद्धेरिहोच्यते ।। उ. १८-६५ ९४. बिलात्सर्पस्य निर्याणे सूर्यो यद्वत्प्रकाशकः । प्रयत्नेन विना तद्वज्ज्ञातात्मा बोधरूपतः ।। उ. १५-४६
१३८
मूलाविद्यानिरासः
(तृतीयः लडन्तप्रयोगः तद्वदिहापि भविष्यति । तस्मान्नित्यचैतन्यस्वरूप एव सन्नात्मा ज्ञ इति परिभाष्यतेऽतो न विरोधः । व्यवहारस्तु जानातीति बुद्धिवृत्तिरूप ज्ञानाद्विवेकाभावनिबन्धन एवेत्यनवद्यम् ।।
नजानात्यात्मेति व्यवहारोऽपि तद्वदेव बुद्धिपरिणामाभावमात्मन्यध्यस्य प्रवर्तते । यो हि न जानामीति वदति सोऽपि सदा ज्ञानस्वरूप एव । अन्यथा ज्ञानाभावं कथमवगच्छेत्परामशेद्वेति । तदेवं जानातीति व्यवहारस्य भ्रान्त्याप्युपपत्तेः प्रतीतिशरणैरात्मा ज्ञानरूप एवास्थयः तस्मिन्नंशगुण क्रियादयस्तु व्यामुग्धैः कल्पिता इति च । एवमपहस्तिते ज्ञातृत्वाहन्ता विशेषवादे सुषुप्तावात्मा निर्विशेषज्ञानरूप इति प्रक्रिया निराबाधैव
प्रतितिष्ठति ॥
अविद्यास्वरूपविचारः १११. आत्मानात्मनोरध्यास एवाविद्या - अथेदानीमेतत्प्रक्रियानु रोधेनाविद्यास्वरूपविषयाश्रयकार्यनिमित्तनिवृत्त्यादिचिन्ता प्रतन्यते । तत्राविद्या नाम चिदात्मन्यतद्रूपमिथ्यावस्तुतत्सम्बन्धप्रकल्पनम्, आत्मा नात्मस्वरूपनिर्धारणाभावनिबन्धनं च तत् । व्यवहारदशायामात्म नोऽन्यत्वेन तद्विरुद्धधर्मत्वेन च यो यो विभाव्यते स सर्वोऽप्यत्रानात्मेति भण्यते । तस्य चानात्मनो निरपेक्षसत्त्वं न सम्भवि, आत्मापेक्षायाः सदा सत्त्वात् । न च सार्वदिकमव्यभिचरस्तत्त्वम्, सत्तावगमकालेऽप्यन्यथा न्यथाभावात् । सुषुप्त्यादावत्यन्ताभावावगमाच्च । अत एवायमानात्मा ९५. कारणं कार्यमंशोंशी जातिव्यक्ती गुणी गुणः । क्रियाक्रियावानित्याद्याः प्रकाशस्यैव कल्पनाः ।। मानसोल्लासे. २-१२
१३९
खण्डः )
अविद्यास्वरूपविचारः निर्वचनीयो मिथ्येति पण्डितैर्निगद्यते । तद्विपर्ययेण चात्मा निरपेक्षसत्त्वो निर्विशेषानवच्छिन्नशुद्धचैतन्यस्वरूप इति चोच्यते । तत्र सुषुप्तौ पुरस्तादुप दर्शितप्रकारेणात्मनोऽन्यत्र किञ्चिदपि विद्यतेऽतः सिद्धस्तावदात्मा निरपेक्षसत्यस्वभावः । निर्विशेषश्चायमभ्युपगन्तव्यः, यत्कारणं विशेषा भासानां मिथ्यात्वमेव निरूपकबुद्धिमारोहति । अत एवासौ निरवच्छिन्न एषितव्यः, अवच्छेदकस्य पारमार्थिकस्यानवगमात् । शुद्धस्वरूपश्चाय मात्मा, वस्त्वन्तरलोहगन्धिताया अस्मिन्नभावात् । चैतन्यस्वरूपश्च, स्वयंसिद्धतथारूपत्वात् । व्यावहारिकप्रपञ्चप्रतिभासाधारत्वाच्च । तदेवं मिथो विरुद्धस्वभावयोरात्मानात्मनोर्यदन्योन्यतापादनमन्योन्यधर्मवत्त्वेना कल्पनं च तदेतदात्मविदो व्यवहरन्त्यविद्येति । लोके सा खल्वविद्येति भण्यते यद्व्यवधानाद्वस्तुस्वरूपंन निर्धार्यते यस्याश्च माहात्म्यादनर्थमृच्छति जन्तुः । यथा कृशानोरुष्णतास्वभावानवबोधकाबालकः पदे पदे तत्स्पृष्ट्वा दन्दह्यते । एवमिहाप्यात्मस्वरूपनिश्चयाभावादारोप्य तस्मिन्मिथ्यावस्तु सम्भेदं मनआधुपाधितादात्म्यतामात्मनि भावयमानो लोको जननमरण सुखदुःखादीन्यसकृदावृत्तीनि फलान्युपभुजानस्तदाकृष्टचेताः स्वरूप प्रच्युतिमपि विस्मृत्य स्वकर्मवशाद्वम्भ्रमीव । अतो निखिलानर्थहेतुरय मात्मानात्मनोः परस्पराध्यासः । तस्मादमुमेवाध्यासमविद्येति मन्यन्ते तत्त्वचिन्तकाः । तदेवमुपवर्णितमविद्यास्वरूपम् ।। ९६. प्रकृतसंख्यापूरणस्यात्मनोऽव्यवहितस्यापि बाह्यसंख्येयविषयासक्तचित्ततया स्वरूपा भावदर्शनवत् परमार्थब्रह्मस्वरूपाभावदर्शनलक्षणयाविद्ययान्नमयादीन्बाह्याननात्मन आत्मत्वेन प्रतिपन्नत्वात् ।। तै. भा. २-१ ९७. तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते ……तमेतमविद्याख्यामात्मा नात्मनोरितरेतराध्यासं पुरस्कृत्य………….. ।। सू. भा. अव.
१४०
मूलाविद्यानिरासः
(तृतीयः ११२. मूलाविद्यावादिनां मतेऽविद्यास्वरूपं तत्र विप्रतिपत्तिदर्शनं च - अत्र मुह्यन्ति केचित् - नाध्यास एवाविद्या, का नाम, चिन्मात्राश्रय विषया, अनाद्यनिर्वचनीया, अविद्यामायादिशब्दभागिनी काचिच्छक्ति र्भावरूपा ब्रह्मात्मैकत्वलक्षणविद्यामात्रविध्वस्या । अध्यासस्तु तत्कार्यं तदन्वयव्यतिरेकित्वादविद्येत्युच्यते क्वचित् । एष एवाध्यासः कार्याविद्या पराभिधानः । तत्कारणभूता चाविद्या मूलाविद्येति संशब्द्यत इति । तदिदं तेषां कल्पनमसारं युक्त्यनुभवविरुद्धं निष्प्रयोजनं चेति सप्रपञ्चं दर्शितमस्माभिः । श्रुत्यादिविरोधश्चास्मिन् पक्षे दर्शयिष्यते । अपरे त्वत्र जीवाश्रयैव तादृश्यविद्या ब्रह्मविषया नाना चेति मेनिरे । अत्रापि मूलाविद्यायाः स्वरूपानुपपत्तिराश्रयानुपपत्तिजीवस्य मुक्त्यभावः प्रमाणाभावश्चाद्वैत इत्यादयो दोषा न दुरूहा इवेति नेह पुनः प्रपञ्च्यन्ते ।।
११३. अध्यासरूपाविद्यायां शङ्का - ये पुनर्वर्णितोभयवाद्यन्यतरपक्ष मवलम्ब्यास्मदुक्ताविद्यालक्षणे दोषगणं निक्षेप्तुमीहन्ते तानिदानी परिहरामः । आदौ तावत्स्वरूपसिद्धौ शङ्का भवति । यद्यध्यास एव हेतुः संसारानर्थस्य, ततो दुर्निरूपं भवति मनः । न ह्यमनाः कश्चिदध्यसितुं क्षमते । तत्र समनसा सर्वमप्यध्यस्यते चेन्मनः केनाध्यस्यते ? अथ नाध्यस्तमेव मनः । तत्कथं मृषा, तदभावे वा कथमद्वैतमिति ? किञ्चात्मानात्मनो रध्यासः केन क्रियत इति वक्तव्यम् । न तावदात्मना, तस्य शुद्धत्वाङ्गी कारात् । न च बुद्ध्या, बुद्धेः स्वविषयत्वासम्भवेन स्वगतधर्माणामन्यत्र दर्शनानवकाशात् । एवमध्यासासम्भवात् स्वरूपानुपपत्तिरस्त्येवाविद्याया
अस्यामपि प्रक्रियायामिति ॥
खण्ड:)
अविद्यास्वरूपविचारः
१४१ ११४. अध्यासो निरूपणासहोऽप्यस्ति लोकप्रसिद्धः - अत्र परिहारः । किमभिसन्धिरयमाक्षेप्ता ? अध्यासस्य निरूपणासहत्वा - दध्यासो नास्तीति, आहोस्विन्मनसः कारणानिरूपणेन प्रक्रियामेता मतिलघ्याध्यासातिरिक्ता मूलाविद्या नाम मनस उपादानकारणमे वैष्टव्यमिति ? आद्ये कल्पे किमध्यासस्य युक्त्यसहत्वान्नास्तित्वं प्रतीत्यभावाद्वा तथात्वमिति? तत्राध्यासस्य युक्त्यपेतत्वमभ्युपेयत एवास्माभिः । युक्तिप्रमाणैर्यदि निश्चित एवाभविष्यदध्यासस्तदा वस्तु सन्नेवाभविष्यदिति मुधैव स्यात्तदपनयनप्रयतनम् । प्रतीतिस्तु सर्वजनीना नापह्रोतुं शक्यते केनचित् । तस्मात्प्रतीतिमात्रशरीरोऽध्यासोऽस्तीत्येव युक्तम् ॥
ननु चाध्यासकर्तुरात्मानात्मव्यतिरिक्तस्यासम्भवात्, तयोश्चात्मानात्म नोरशुद्धत्वस्वविषयत्वासम्भवाभ्यामध्यासकर्तृतानुपपत्ते ध्यासो युक्त इत्युक्तम् । न चाकर्तृक एवाध्यास इति साम्प्रतम्, क्रियैव कारकमिति वैनाशिकमतप्रवेशप्रसङ्गात् । मैवम् । अध्यासकर्तुरपि मुखाभासवदुप पद्यमानत्वात् । यथा हि दर्पणादौ प्रतिबिम्बितो मुखाभासः साक्षान्मुख मेवेति वक्तुं न शक्यते, तदन्यस्य दर्पणानुकाररहितस्य ग्रीवास्थस्य पृथगुपलम्भात् । न च दर्पणादिधर्म एव सः, मुखवियुक्ते दर्पणादावदृष्टेः ।
९८. अविद्याया अविद्यात्वमिदमेव तु लक्षणम् । यत्प्रमाणासहिष्णुत्वमन्यथा वस्तु सा भवेत् ।। बृ. सं. वा. १८१ अविद्याया अविद्यात्वे इदमेव तु लक्षणम् । मानाघातासहिष्णुत्वमसाधारणमिष्यते ।। - इति संप्रतिमुद्रितकोशेषु पाठः । ९९. मुखाभासो य आदर्श……… ।। उ. १८-३७ (इत्यादयोऽनुसन्धेयाः श्लोकाः)
१४२
मूलाविद्यानिरासः
(तृतीयः नाप्युभयव्यतिरेकेण वस्तुसन्, स्वातन्त्रयेण कुत्राप्यसत्त्वात् । न चोभयो? स्वाभाविको धर्मः, प्रातिस्विकयोर्यथाकथञ्चिदपि मिलितयोर्वा तयोरदर्श नात् । यथा ह्यस्मिन् दृष्टान्त इदन्त्वेन दुर्निरूपोऽपि मुखाभासः प्रतीयते, तथैवात्मानात्मनोरध्यासकर्तास्त्येव चिदाभासः प्रसिद्धो लोके । न चैवं चिदाभासस्य प्रतीतिमात्रसिद्धौ तस्यावस्तुत्वात्, आत्मनश्च नित्यशुद्धबुद्धविकारविधुरस्वरूपत्वात्, मनसश्च जडस्य स्वातन्त्र्याभावात् क्रियायाम्, कस्य स्यादियमध्यासात्संसारिता यस्यापगमाय वेदान्त श्रवणमुपयुज्यतेति शङ्कयम् । अविद्यामात्र एव संसारो न पुनः कस्यापि परमार्थत इत्यावेदनार्थत्वाच्छास्त्रस्य तस्मादशक्यनिरूपणोऽप्यध्यासः प्रतीतिको विद्यत इत्यनवद्यैव प्रक्रिया ॥
११५. मनसः कारणानिरूपणं न दोषाय - अथ मनसः कारणा निरूपणात्तदाश्रयोऽध्यासो न सेद्धमर्हतीत्युच्यते । तत्रोत्तरम् - न ब्रूमो निरूपयामः कारणं मनस इति । भवांस्तु ददात्वत्र दृष्टिं यदस्य कारणम शक्यनिरूपणमेव वस्तुत इति । कथम् ? सर्वं हि कर्तृक्रियाकारक १००. जीवो हि नाम देवताया आभासमानं बुद्ध्यादिभूतमात्रासंसर्गजनित आदर्श इव प्रविष्टः पुरुषप्रतिबिम्बः ।। छां. भा. ६-३-२ १०१. न दृशेरविकारित्वादाभासस्याप्यवस्तुतः । नाचितित्वादहंकर्तुः कस्य संसारिता भवेत् ॥
अविद्यामात्र एवातः संसारोऽस्त्वविवेकतः ॥ उ. १८-४२, ४३ ननु छायामात्रश्चेजीवो मृषैव प्राप्तः, तथा परलोकेहलोकादि च तस्य । नैष दोषः, सदात्मना सत्यत्वाभ्युपगमात् । सर्वं च नामरूपादि सदात्मनैव सत्यं विकारजातम्, स्वतस्त्वनृतमेव । वाचारम्भणं विकारो नामधेयम् इत्युक्तत्वात् । तथा जीवोऽपीति । यक्षानुरूपो हि बलिरिति न्यायप्रसिद्धिः ॥ छां. भा. ६-३-२खण्डः )
अविद्यास्वरूपविचार
१४३ फलजातमध्यासमाश्रित्यैव स्वं समश्नुते । तस्मादभ्युपगम्यैव यथाप्राप्त मनआत्मनोः सम्बन्धस्याध्यासिकस्य सत्त्वं लोके कार्यकारणादि भावोऽन्विष्यते । तदेवमध्यासादर्वाचीनः सिध्यन् कार्यकारणभावोऽध्या सात्पूर्वमपीष्यते चेत् तदानीमतिप्रसङ्ग एव स्यात् । मनसो ह्यात्मनः कारणनिश्चये सामर्थ्यं न शक्योद्भावनम् । न चास्ति वस्तुनिरूपणे मनसोऽतिरिक्तमान्तरं साधनम् । न चागमादिकमस्ति साधनान्तरमिति साम्प्रतम्, आगमादिबोधितविषयस्यापि मनसैवानुद्रष्टव्यत्वात् । न चागमोऽपि मनसो मनःकारणत्वनिरूपणे सामर्थ्यमाधातुमलम्, प्रमाणानां स्वभाववैपरीत्यकरणे कर्तृत्वस्यादृष्टत्वात् । मनसश्च स्वनिरूपणं स्वस्कन्धारोहणवदशक्यकरणमिति वस्तुस्वभावकृतमेतन्मनसः कारणानिरूपणं नाम न पुनर्वक्तृदोषनिबन्धनम् । तस्मादतिप्रश्न एवायं मनसः किं करणमिति ।।
११६. मूलाविद्यायाः कारणत्वेनाभ्युपगमेऽपि कारणाकाङ्क्षा न शाम्यति - यत्पुनरुपदिष्टं स्वीक्रियतां मनः कारणमविद्येति । तदनादेयम् । यस्मान्मनःकारणत्वेनाभिमताया अपि मूलाविद्यायाः कारणेच्छा समस्त्येव । एवं तस्यापि कारणं तत्कारणस्यापि कारणान्तरमन्विष्य प्रधावतोऽनवस्था दौस्थ्यमेव फलं स्यात् । ननु मूलाविद्यायाः सर्वकारणत्वादनादित्वाच्च नास्ति कारणाशङ्का । न तथा वक्तुं पार्यते, अनादितावादस्य निरस्तत्वात् ॥
अभ्युपगम्याप्युच्यते दोषः । यस्मादनादिता कालमपेक्षते । कलापेक्षिणी मूलाविद्या च कालकारणं न स्यादिति नैवोपशाम्येत कारणतृष्णा । न च कालस्य कारणं शक्यशङ्कम् । कारणबुद्धेः कालबुद्ध्यपेक्षत्वात् । अथ
१४४
मूलाविद्यानिरासः
(तृतीयः ब्रह्मैव कालकारणं भविष्यति । अत्यल्पमिदमुच्यते । ब्रह्मैव हि सर्वस्यापि कारणं व्यवहारदृष्ट्या वेदान्तिमते । ब्रह्मकारणत्वाभ्युपगमश्च न परमार्थकार्यकारणवादस्थापनाय, कस्मै तर्हि, सकलविधकारणसम्भाव नापाकरणायेति नैव स्यादपेक्षणं कस्यचिदन्तर्गडोः । तथा च न मूलाविद्यासिद्धिः । किं चाध्यासाश्रयं मनः, मनसश्च कारणमविद्येति चेत् स्वीक्रियते, ततो वक्तव्यं भवत्यविद्या किमध्यस्ता किं वा नेति । यदि नाध्यस्ता तर्हि परमार्थसती सेति कथं तन्निवृत्तिः ? अथाध्यस्तैव सा, न तर्हि मनःकारणमित्युभयतः पाशबन्धनम् । अतो न सम्यगेतत् ।।
अपि च मूलाविद्यायाः स्वरूपमेव नास्तीति प्रागेव प्रख्यापितम् । कुतस्त्या पुनः सङ्कथा तस्या मनःकारणत्वस्य? तस्मान्मनसः कारणाभाव प्रसञ्जनं तत्कारणत्वेन मूलाविद्याप्रतिष्ठापने प्रत्याशा च मोघमेव क्रियते । तदेवध्यासस्य नास्तित्वं न तत्कञभावान वा मनसः कारणाभावप्रसङ्गात् । न चास्त्यन्यद्बाधकम् । अतः परित्याज्या स्वरूपानुपपत्तिशङ्केति स्फुटम् ॥
अविद्याविषयविचारः
११७. अविद्याविषये विप्रतिपत्तिः - अधुना किंविषयेयमविद्येति विचार्यते । नन्वध्यास एव चेदात्मानात्मनोरविद्या, तत एव विज्ञायते यदुभयविषयिणीयमिति किं पुनः कृतकरणेन ? न शङ्कान्तरसम्भवात् । आत्मनि हि न विषयत्वसम्भवः, विषयित्वात्तस्य । केवलानात्मविषया तु नाभ्युपगम्यतेऽविद्या । अतः संशयः । इतश्च विचार्यमेतत् । यत आत्मविषयिणी न भवति चेदविद्या तर्हिसा नैव विनाश्या भवेदात्मविद्यया । इष्यते त्वात्मज्ञाननाश्या सेति । तस्मात् किंविषयेयमविद्येत्यवश्यमव
अविद्याविषयविचारः
१४५
खण्ड:) धारणीयमेतत् ॥
किमत्र ज्यायः ? विषयत्वसम्भवादनात्मविषयमेवाज्ञानमिति । ननु कुत्राध्यास इत्याकाङ्क्षायामात्मनोऽपि विषयत्वं बलादानीयते । दर्शितश्च दोषोऽस्याविद्याविषयत्वाभावे व्यर्थमेव स्यात् ज्ञानमिति । मिथ्यात्वाच्चा नात्मवस्तुनः तस्य विषयत्वानुपपत्तिः । अनात्मस्वरूपमेव ह्यज्ञानम्, अज्ञानमन्तरा तस्यादर्शनात् । ततश्च न तत्राविद्याकृत्यमस्ति । न ह्यज्ञान मावृत्याज्ञानं कमपि विशेषं तत्र समुपजनयेदिति शक्यं वक्तुम, यथान्धकारमावृत्यान्धकारः । न चाज्ञानोत्थितस्य रजतादेः पूर्वसिद्धाज्ञान विषयता सम्भवति । अतोऽज्ञानरूपस्य मिथ्याज्ञानरूपस्य वाध्यासस्य नानात्मा विषयः ॥
यद्येवमात्मैवाविद्याविषयोऽस्तु, तत्रोक्तदोषानवतारादिति चेत् । अस्मिन्नपि पक्षे दोषोऽस्ति । कस्याध्यास इत्याकाङ्क्षायामनात्मनोऽपि हि विषयत्वं बलादानीयते । ज्ञानस्वरूपश्चायमात्मा । न च तस्मिन्नज्ञान संसर्गो युक्तो भानाविव तमःसंसर्गः । न चोभयविषया भवत्यविद्या । दोषद्वयानुषङ्गात् । न च प्रकारान्तरं पश्यामः । अतोऽविद्यां भावभूता मनङ्गीकृत्य न विषयतोपपत्तिरिति केचित् ।।
११८. आत्मनः कल्पितं विषयत्वम् - अत्रोच्यते - अविद्या तावल्लोके संशयज्ञानज्ञानाभावान्यथाज्ञानरूपा प्रसिद्धा। सर्वप्रकारापि सा विषयविषयैवाञ्जसीत्यतो यद्यप्यविषयस्यात्मनो तद्विषयता न सम्भवति, तथाप्यात्मा व्यवहारकालेऽहंप्रत्ययविषयतां०२ प्राप्याविद्याविषय इव १०२. न तावदयमेकान्तेनाविषयः, अस्मत्प्रत्ययविषयत्वात् ।। सू. भा. अव.
१४६
मूलाविद्यानिरासः
(तृतीयः भवति । दर्शितं चान्यत्र यथात्मा स्वरूपतो नाहमर्थो ऽप्यहप्रत्यया लम्बनत्वमन्तरा न व्यवहार्यो भवतीति ।।
ननु तर्हि विषयिणोऽभावप्रसङ्गः । यदा विषयभावमापद्यत आत्मा कोऽन्यः सम्भाव्यत विषयी? द्वैतिभिः कल्पितं त्वात्मान्तरं स्वप्नदृष्टानेक कर्तृभोक्त्रवगमविषय इव मायामात्रमिति परित्यक्तं स्वप्नपरीक्षणावसरे । न चान्यं पश्यामो यो भवन् विषयी भवेदात्मानात्मनोविषययोः । किं च विषयीति यस्त]त स एवात्मा, स चाविषय एवेति हता बतेयमात्मनो विषयत्वसङ्कथेति । तदेतदनुक्तपरिभावनम् । नो खल्वस्माभिरुक्तं जातु विषय एवात्मा भवतीति, कथं तर्हि, विषय इव भवतीति । आविद्यक मेव त्वात्मनो विषयत्वं बुद्ध्याधुपाधिसम्बन्धनिमित्तत्वात् । यथा ५ नीरूपोऽपि राहुः शशिदिवाकरसम्बद्ध इव चक्षुर्विषय इव च । न तु वस्तुतोऽस्ति कलानिधेः सूर्यस्य वा तत्सम्बन्धः । नापि राहोश्चक्षुर्विषय त्वमेव स्वातन्त्र्येण, तस्य छायामात्रस्यावस्तुत्वात्तदसिद्धेः । एवमयमात्मापि
१०३. ‘स्वरूपतोऽहमर्थः’ इति प्रथममुद्रणे ॥ १०४. आत्मनो बुद्ध्युपाधिस्वरूपत्वेन भेदं परिकल्प्यात्मनात्मानं वेत्तीति संव्यवहारः ।। के. भा. २-४ १०५. नोपसर्पद्विमुञ्चद्वा शशिनं दृश्यते तमः । विसृजंश्चोपसर्जश्च तद्वत्पश्य शरीरिणम् ॥
यथा चन्द्रार्कसंयुक्तं तमस्तदुपलभ्यते । तद्वच्छरीरसंयुक्तः शरीरीत्युपलभ्यते ।। यथा चन्द्रार्क निर्मुक्तः स राहु!पलभ्यते । तद्वच्छरीरनिर्मुक्तः शरीरी नोपलभ्यते ॥ मो. ध. २०३-२०, २१, २२ (शरीरग्रहणमुभयविध-शरीरसंग्रहार्थम्, उभयोरपि तत्रैवाध्यासात् ।)
खण्ड:)
अविद्याविषयविचार
१४७ स्वयमविषय एव सन् बुद्धयादीनाम्, बुद्ध्याधुपाधिसान्निध्यादहंकञ्चुक संवृत इव बुद्धिविषयत्वमापन्न इव च भवतीत्यदोषः ॥
स्वतस्तु नाविद्याविषयत्वम्, तत्साक्षित्वात् । तस्मादिदं निश्चीयते यद्बुद्धिसम्बन्धाध्यासत एवात्मा विषय इव भातीति । आत्मनो विषयत्वं च यं प्रति भाति स विद्यत एव द्रष्टा विषय्यात्माध्यासदशायामपीति न जातु विषयिता भङ्गः । न चाध्यासविषयत्वेनात्मनः किञ्चिद्दुष्येत्, अध्यस्यमाननीलगुणकाकाशवत् । न हीन्द्रियविषयत्वेन नीलगुणकत्वेन च कल्प्यमान आकाशः प्रत्यक्षविषय एव भवति भूततो नीलगुणको वा । एवं विषयत्वेन कल्प्यमानोऽप्यात्मा स्वतो न विषयः । न च विषयत्वं विषयित्वं च युगपत् सम्भवेताम् । यो ह्यशः सम्मतो विषयित्वेन तस्य विषयत्वं नैव शक्यं कल्पयितुम् । तत्रापि विषय्यपेक्षाया पर्यवसानाभावप्रसङ्गात् । एकस्य कर्मकर्तृत्वविरोधात् विषय्यन्तरा निरूपणाच्च । तदेवं विषयांशमुज्झित्वा शिष्टोंऽशः सदाविकृत एवेति स एवात्मा । निरंशत्वाच्वात्मनो विषयांशोन भाविको भवेत् । तस्मादविषय एव सन्नात्मा विषय इव भवतीति निर्दोषम् ।।
११९. विषयत्वमप्यात्मनो न स्वाभाविकम् - अत्राह चोदकः - अध्यासवेलायां विषयिस्वरूप आत्मा प्रकाशते न वा ? यदि प्रकाशते १०६. अविद्यासाक्ष्यपि प्रत्यक्सदानस्तमितोदितः । अविद्यया व्यवहितस्तद्बलेनैव तद्वचः ।। तै. वा. २-४३८ (तद्बलेनैव - अविद्याबलेनैव, तद्वचः - अविद्याव्यवहित इति वचनम् ।।) १०७. एकस्यैव विषयविषयित्वं दीपवदिति चेत् । न, युगपदसम्भवात्, आत्मन्यंशानुप पत्तेश्च ।। बृ. भा. १-४-७
१४८
मूलाविद्यानिरासः
(तृतीयः कथमध्यासः ? अथ न प्रकाशते, तत्किं कारणम् ? न हि स्वभावो भावानां कदाचिदपि निवर्तेत । न च मन्तव्यम् - सामान्यतो गृहीतस्व रूपोऽप्यात्मा विशेषस्वरूपेण न भासते तदेति । न हि निर्विशेषचिदात्मनि सामान्यविशेषभावोऽवकल्पते । तस्माद्दुर्घटमेतदिति । अत्रोच्यते न कोऽप्येवमाह यदात्मा जातुचिन्न प्रकाशत इति । न चाध्यासानुपपत्तिः । स्वरूपतः स्फुरणेऽप्यध्यासविरोध्याकारणास्फुरणमेव हि पर्याप्तमध्यासोप पादनाय ॥
किं कारणं पुनः सदा स्फुरणस्वभवोऽपि न भासतेऽध्यासविरोध्या कारेणेति ? अविचारादिति ब्रूमः । नो खलु स्वभावोऽयमात्मनो यदध्यास विरोध्याकारेण भासमानत्वम्, किं तु भासमानत्वमेव तस्य स्वभावः । अध्यासनिरोधकत्वं तु प्रमाणोत्पन्नज्ञानकृत्यम् । तच्च ज्ञानं यस्य नोत्पन्नं तस्याविचारादेव तथा न भासत आत्मा । यत्पुनरुच्यते निर्विशेषचिदात्मनि सामान्यविशेषभावो नावकल्पत इति । तत्रोमिति ब्रूमः । तथापि तु यस्मिन्निर्विशेषचिदात्मनि सामान्यविशेषभावाभावः प्रतिज्ञायते तस्य तदेव विशेषस्वरूपम् । अविज्ञाते तु तस्मिन् भासमानं तु स्वरूपं
सामान्यमित्ययमपि विभागोऽध्यासापेक्ष एव ।।
ननु चैवमध्यासोऽप्यध्यासापेक्ष इति जातम् । सत्यमेव तत् । न खल्वयमविद्याख्योऽध्यासः स्वरूपेण वस्त्वित्यभ्युपगम्यते, कथं तर्हि, केवलमविचारसिद्ध इति प्रागेवावेदितम् । तदेवं यथा विषयत्वं तथा विषयित्वमप्यात्मनो न भवति स्वाभाविको धर्मः, उभयोरप्यध्याससापेक्ष त्वात् । अतो विषयविषयिविभागग्रहणस्य भ्रान्तिसिद्धत्वान्नात्र महानाग्रहः
अविद्याश्रयविचारः
अविद्याश्रयविचारस
खण्ड:) कार्यः ॥
१४९
१२०. अविद्याविषयत्वयोर्न पौर्वापर्यम् - ननु भ्रान्तिकाले वा कथं विषयत्वम् ? विषयत्वमात्मनोऽपेक्षते समारोपः, तदपेक्षं च विषयत्व मित्यन्योन्योदीक्षादोषादिति चेत् । मैवम् । स्वप्रवधुगपत्सम्भवात् । यथा हि स्वप्ने युगपदुद्भूतेष्वेव पूर्वापरीभावः कालिकः प्रतीयते । न तु तावता तात्त्विक एव क्रमः । यथात्राप्यात्मनो विषयत्वं विषयेऽध्यासश्चेत्युभयं परस्परानपेक्षमेव युगपत्सम्भवति, मिथ्याप्रत्ययत्वाविशेषात् । न ह्यात्मनि प्रथमं तत्त्वतो विषयत्वं सम्पाद्य ततोऽन्तःकरणादिषु विषयेषु तत्त्वत एवाध्यस्यतीत्यभ्युपगम्यते, शक्याभ्युपगमं वा, तेनादोषः । तस्मादविद्या विषय आत्मा कल्प्यते व्यवहारविषये । वास्तविकं तु विषयत्त्वं
पराणुद्यतेऽतो न काचिदनुपपत्तिः ॥
अविद्याश्रयविचारः १२१. अविद्याश्रये शङ्का - स्यादेतत् - यदेतदुपपादितं विषयत्वं न तन्निरूप्यमाणं घटनां प्राञ्चतीव । यावतास्या अविद्याया आश्रय एव नोपपद्यते । तथा हि - किमाश्रित्येयमविद्या गोचरीकुर्यादात्मानम् ? न तावद्विषयमाश्रित्य, तस्य ज्ञानाश्रयत्वासम्भवात् । न खलु ज्ञानाज्ञाने व्याश्रये भवितुमर्हतः । आत्मनि तु ज्ञानमज्ञानं चेत्युभयं सम्भाव्येत तदा यदा तदभिसम्बन्धविनिर्मुक्तो ज्ञानाज्ञानान्यतरेणात्मनः संसर्गमुपलब्धा व्यतिरिक्तः कश्चिदभ्युपगम्यते । न त्वात्मानात्मव्यतिरिक्तस्तृतीयोऽभ्युप गम्यते पदार्थ उपलभ्यते वा। ततो निराश्रयमेवाज्ञानमिति स्वाश्रयाभावे कुतोऽज्ञानम्, कुतस्तरां च तद्विषयत्वमात्मन इति ?
१५०
मूलाविद्यानिरासः
(तृतीयः १२२. अविद्याश्रयोऽपि कल्पितः - सत्यमेवं भवेद्यदि परमार्थतो विषयत्वमुररीक्रियेत । कल्पितं तु विषयत्वम् । कल्पितविषयत्वोपपादकं
चास्ति कल्पितमाश्रयवत्त्वमप्यविद्यायाः । तथा हि पूर्वं प्रोक्तं चिदाभास एव लौकिकपरिकल्पित आत्मा भवत्याश्रयोऽध्यासस्येति । वस्तुवृत्तेन तु न शक्यमेव निरूपयितुमविद्यायाः सविषयत्वं साश्रयत्वं वा, भाविकस्य विनिवृत्त्यनुपपत्तेः ॥
१२३. अविद्याया एव कल्पितं सत्त्वम् - ननु भवतु भाविकमेव विषयत्वमाश्रयत्वं च। तत्र मा स्म भूत्स्वनाशादविद्याविषयत्वस्य तदाश्रयत्वस्य वा विनिवृत्तिः । अविद्यायास्तु निवृत्त्या तद्विनिवृत्तिर्भविष्यति । भवेदेवमपि यद्यविद्याया अपि निवृत्तिरवकल्पेत वास्तवी । अविद्याया एव हि कल्पितं सत्त्वम्, कुतस्त्या तन्निवृत्तिसङ्कथेति । इयं ह्यविद्या न केवलं सुषुप्त्यादौ न विद्यते, किं तु यदापि जागरितादौ तस्यास्तित्वश्रद्धा, तदापि विचार्यमाणे तत्त्वतः स्वरूपेणाज्ञानं नाम ज्ञानव्यतिरेकेण न वस्तुसद्भवति ॥
१२४. अज्ञानस्य स्वरूपतो ज्ञानव्यतिरेकेणासत्त्वम् - अज्ञानमिति हि ज्ञानाभावो वा स्यात् संशयज्ञानमथवा मृषाज्ञानम् । तत्र ज्ञानाभावो न स्वरूपतः से मर्हति । न हि विद्यमाने ज्ञाने तदभावोऽपि पदं लभेत । १०८. नित्यविज्ञानस्वरूपेणाकाशवदप्रचलितात्मनाऽन्तर्गर्भभूतेन बाह्यो बुद्ध्यात्मा तद्विलक्षणोऽर्चिभिरिवाग्निः प्रत्ययैराविर्भावतिरोभावधर्मकैर्विज्ञानाभासस्वरूपैरनित्यविज्ञान
आत्मा सुखी दुःखीत्यभ्युपगम्यते लौकिकैः ॥ के. वा. भा. १-४ १०९. यदि ज्ञानाभावो यदि संशयज्ञानं यदि विपरीतज्ञानं वा उच्यते अज्ञानमिति सर्वं हि तज्ज्ञानेनैव निवर्त्यते ।। बृ. भा. ३-३-१
१५१
खण्ड:)
अविद्याश्रयविचारः ननु “ज्ञानं मे जातमिदानीं ज्ञानं नष्टम्”, इत्यनुभवसिद्धो ज्ञानाभावः कथमपह्नयते ? मैवम्, ज्ञानं जातमिति प्रतीतेः पूर्वम्, ज्ञानं नष्टमिति प्रत्ययात् परं च ज्ञानाभावप्रसङ्गात् । न चेष्टापत्तिः । ज्ञानोत्पत्तिं ज्ञाननाशं च ज्ञातुं ज्ञानस्याभावात् तज्ज्ञानासिद्धेः जगदान्ध्यप्रसङ्गात् । नन्वन्यदेव तज्ज्ञानम्, येनानुभूयेते ज्ञानोत्पत्तिविनाशौ । तर्हि कथय किं तज्ज्ञानविषयकं ज्ञानमुत्पत्तिनाशविधुरमुत नेति । यदि नाशवत्, तदा तस्याभावग्राहक मन्यज्ज्ञानं तस्याप्यन्यदिति शृङ्खलाया अन्तं कदा द्रष्टा भवान् ? अथ विनाशविधुरं ज्ञानज्ञानं द्वितीयम्, प्रथमं तु विषयज्ञानं न तथेति मन्यसे । तदा वक्तुमर्हसि को विशेषोऽस्ति प्रथमे येन स एवार्हति विषयं विषयीकर्तुं न पुनरुभयसिद्धं नित्यं ज्ञानमिति । किं चेदं ज्ञानत्वं नाम यदुभयसाधारणं सत् प्रथमस्यापि ज्ञानत्वमावहेत् ? न केवलं विषयित्वम्, प्रदीपादावपि प्रसङ्गात् । न च निरपेक्षविषयित्वं त्वदभिमतज्ञानेऽसम्भवात् । न चान्यः शक्योत्प्रेक्षणोऽनतिप्रसङ्गी धर्मः, येन तादृशं ज्ञानं प्राणान् धारयेत् । किञ्चान्यत् । घटज्ञानकाले तज्ज्ञानव्यतिरिक्तं द्वितीयं ज्ञानं नास्तीति वदितुं न पार्यते, तस्य नित्यत्वाभ्युपगमात् । तथा च तेनैवालं किमनेन?
ननु यदि विषयविषयं ज्ञानमात्मचैतन्यमेव स्यात् ततः सर्वाण्यपि विषयज्ञानानि युगपदवतिष्ठेरनिति न कदाचिद्विषयविस्मरणं स्यात् । तस्मादालोकेन्द्रियादिभ्यो ज्ञानमुत्पद्यमानं निरुद्धयमानं चान्यदात्मचैतन्यं चान्यन्नित्यस्वरूपमिति युक्तम् । न, तथापि दोषादनिस्तारात् । अनेकोत्पद्य माननिरुध्यमानज्ञानविषयकत्वेऽपि नित्यज्ञानस्य तानि ज्ञानानि
११०. ‘विषयाणि’ इति प्रथममुद्रणे तत्र ज्ञानपदं त्रुटितम् ।।
१५२
मूलाविद्यानिरासः
(तृतीयः युगपदवतिष्ठेरन्निति समानो दोषः । न च नित्यज्ञानैकवादिनोऽस्त्ययमपि दोषः । वृत्तेरपि विषयत्वात् तदपेक्षयैव विषयान्तरोपस्थितिव्यवस्थोपपत्तेः । यथा भवत्कल्पितानित्यज्ञानस्य ज्ञानमात्रत्वेऽपीन्द्रियविशेषमपेक्ष्यैव तत्तद्विषयपरिच्छेदो न स्वत इति न युगपदवस्थितिरेवमुभयसम्मतस्य नित्यज्ञानस्यापि मनोवृत्तिविशेषेन्द्रियाद्यपेक्ष एव तत्तद्विषयपरिच्छेदो भविष्यति व्यवहारदृष्टयेति न कोऽपि दोषः । तदित्थं नित्यज्ञानव्यतिरिक्तस्य विनाशिज्ञानस्य दुर्निरूपत्वात्सिद्धं ज्ञानाभावो नाम नास्त्येव परमार्थत इति । “जानं मे जातं ज्ञानं नष्टम्’ इत्यादिव्यवहारस्तु तद्विषयस्य जन्मनाशापेक्षमित्यविरोधः०२ ।।
एवमेव संशयज्ञानमृषाज्ञाने अपि ज्ञानव्यतिरेकेण न वस्तुसती । ज्ञानमेव तु विषयोपधानविशेषवशाव्यवह्रियते तथा तथेति मन्तव्यम् । यद्यपि सम्यग्ज्ञानसंशयज्ञानपदार्थाः परस्परं भिन्ना एव भवितुमर्हन्ति, अन्यथा भ्रमप्रमासाङ्कर्यप्रसङ्गात् । तथापि नात्रानुगतज्ञानस्य स्वतोऽनेकत्वम्, विषयोपधानात्तु तथा तथा व्यवहार इत्यनवद्यम् । यस्य तु संशयज्ञानादीनि भिन्नान्येव परस्परम्, तस्य तेषां स्वयंसिद्धत्वाभावे परस्परवेद्यत्वाभावे च ज्ञानत्वस्यैव दुर्भणत्वप्रसङ्गः । न हि संशयज्ञानं स्वसंवेद्यं मिथ्याज्ञानसंवेद्यं वा भवति । तथापि ज्ञानत्वे कः प्रतिबन्ध इति चेत् । घटज्ञानपटज्ञान योर्ज्ञानत्वात् किं घटपटयोरपि ज्ञानत्वमप्रतिहतम् ? नो चेदिहापि १११. तस्मादजायमानैव जायमानेव लक्ष्यते । अनुभूतिस्तदज्ञानहेतूत्थानात्मजन्मना । तद्विनाशेऽपि तत्साक्षाद्विनश्यन्तीव लक्ष्यते । यतोऽतः कार्यतां तस्या नेश्वरोऽपि प्रसाधयेत् ।। बृ. वा. १-४-३३५, ३३६१५३
खण्ड:)
अविद्याकार्यचिन्ता संशयमिथ्याज्ञानयोरनुगतं ज्ञानमेकमेव, संशयत्वमिथ्यात्वरूपं तु विशेषणं न स्वतः, किन्तूपधानवशादित्यवश्यमभ्युपगन्तव्यं भवति । तदेवं ज्ञानव्यतिरेकेण नास्त्यज्ञानं नाम वस्तुसदिति सिद्धम् ।।
१२५. व्यावहारिकदृष्ट्यैवाविद्यातदाश्रयादिचिन्ता - तदेवं यदा वराक्यविद्यापि स्वरूपेण न सिध्यति तदा कैव कथा तदाश्रयविषययोः? तथापि व्यावहारिकदृष्ट्या सम्भवत्येव सर्वोऽप्ययं विचारः । यदा खलु विचारात्प्राग्यथाप्रसिद्धात्मनानात्मविभागः स्वीक्रियते तदानीमविद्या विद्यत एवात्मानात्मनोमिथः सम्बन्धारोपणरूपा। विद्यत१२ एव चाविद्यागृहीतो मायात्मा चिदाभासो ज्ञानाज्ञानोभयाश्रयः । यमेव चाश्रित्याविद्याविषय इव भवत्यात्मेत्यवोचाम । तस्मादविद्ययात्मत्वेन गृहीत आत्माभासोऽध्या साश्रयो विषयश्चेति व्यवहार इत्यलं पल्लवितेन ।।
अविद्याकार्यचिन्ता
१२६. अविद्याकार्यस्वरूपम् - अथाविद्याकार्यमधिकृत्य चिन्ता प्रतायते । मिथ्यावस्तुप्रत्युपस्थापनमतस्मिंस्तद्बुद्धिश्चेत्येते प्रसिद्ध एवाध्यासकार्ये सर्वत्र । अविद्यमानं हि रजतं विद्यमानवदुपस्थाप्यारोप्यते शुक्तिकायाम् । एवमेवात्मन्यप्यनात्माध्यासः । मिथ्याकल्पनतदारोपयो
११२. नन्वात्मन्यप्यज्ञानं न घटत इत्याशङ्कायां नैष्कर्म्यसिद्धिकृतः - घटत एव । कथम्? अज्ञानमात्रनिमित्तत्वात्तद्विभागस्य सर्पात्मतेव रज्वा इति ।। न. ३-१ (तद्विभागस्यात्मानात्म विभागस्य, ज्ञानाज्ञानविभागस्येति वार्थः) कस्य पुनरयमप्रबोध इति चेत् । यस्त्वं पृच्छसि तस्य त इति वदामः । नन्वहमीश्वर एवोक्तः श्रुत्या । यद्येवंप्रतिबुद्धोऽसि नास्ति कस्यचिदप्रबोधः ।। सू. भा. ४-१-३, एवं गीताभाष्येऽपि (१३-२)
१५४
मूलाविद्यानिरासः
(तृतीयः रन्तराले कदाचित्संशयोऽपिजायेत । यथा शुक्तिका वा स्यादिदं कलधौतं वेति विशयानो कलधौतमेवेदमित्यन्ततो विपर्यस्यति । सर्वस्यास्य निमित्तं वस्तुस्वरूपानवबोधः । तदेवमात्मस्वरूपावबोधाभावात्तस्मिन्ननात्म संबन्धाभिमानतद्विषयकसंशयविपर्ययज्ञानाभासादयो मनोवृत्तयः, ततश्च मिथ्याविषयविषयकौ रागद्वेषौ, ततः पुनस्तदादानार्थं प्रहाणार्थं वा प्रवृत्ति निवृत्ती, ततस्तत्फले सुखदुःखे - इत्येवं सर्वमपि संसारप्रख्यानालम्बन
मविद्यकार्यमित्याख्यायते ॥
१२७. अविद्याकार्यमिति कोऽर्थः ? अत्र कार्यशब्दस्य प्रवृत्तिनिमित्तं प्रति भवति विमर्शः । किमेतत् सर्वमविद्याकर्तृकमित्यभिमतं घटादिकं कुलालादिकर्तृकं यथा, किं वा तां निमित्तीकृत्य दण्डादिकमिव घटादिकमात्मलाभं भजत इति, आहोस्विन्मृदादिकमिव घटादेरुपादान कारणमविद्याद्रव्यमिति । सर्वथापि दुर्घटमेव संसारस्याविद्याकार्यत्वं नः प्रतिभाति । न हि तावद्भवत्यविद्यैव संसारं करोतीति, अचेतनत्वात् प्रवृत्त्यनुपपत्तेः । तस्या अपि कर्तृत्वे हेतुमन्वेषमाणाया मनीषाया निवारकाभावाच्च । न चाविद्यैव हेतुः, संसारः स्वयमेव स्वहेतुरित्यलं किमनयेति पर्यनुयोगसम्भवात् । न च द्वितीयपक्षः क्षोदक्षम इव । अविद्याया हि निमित्तमात्रत्वे किमुपादानकः स्यात्संसारः ? अविद्यैव मृदादिकमिव घटादेरुपादानमित्यपि न साधु लक्ष्यते । अविद्या खलु मृदादिवन्न भावद्रव्यम् । तस्य परिणामित्वादिधर्माङ्गीकारोऽप्याधुनिकवेदान्तिनयानां प्रमाणविप्रतिषिद्धमिति भवद्भिरेव सिद्धान्तितम् । अधुना पुनर्नवीनाविद्या स्वीकारेणं तस्या उपादानत्ववादे नाममात्रे विवादः स्यात् । तस्मात्किं
खण्डः )
अविद्याकार्यचिन्ता
१५५ विवक्षया संसारकारणत्वमुच्यतेऽविद्याया इति भवति बुभुत्सूनां शङ्का ।।
__ अत्रोच्यते - न वयं ब्रूमोऽविद्या तार्किकसमयसिद्धसमवाय्यसमवायि निमित्ताख्यकारणप्रकारेष्वन्यतमत्वमभिलिङ्गत इति, येनोक्तदूषणपिशाचि कावेशो दुर्वारः स्यात् । कथं तर्हि, मिथ्यास्वरूपत्वात्संसारस्य पारमार्थिक दृष्ट्या न स्वरूपमस्योपलभ्यत इति । न हि द्वितीयश्चन्द्रस्तैमिरिकदृष्टि दोषपरिणामं कारणीकृत्य लोकसिद्धचन्द्रवदेव स्वकारणाजन्म लभत इति प्रतियन्ति प्रतिपत्तारः, कथं तर्हि, एक एव संश्चन्द्रो दृष्टिदोषेण सद्वितीयवदाभासत इति । एवमिहापि मिथ्याप्रत्ययदोषेण संसारदर्शनम्, शास्त्रदृष्टया च तदपहार इत्यज्ञानं संसारकारणमित्युच्यते । न पुनः कार्यकारणभावोऽपि विद्यते संसाराविद्ययोरित्युपगम्यते ॥
१२८. अविद्यायाः कार्योपदानत्वमिति वादः - ननु प्रतीत्यनुसारेण जगतो मिथ्याभूतस्य मिथ्याभूताविद्याकारणत्वमेव किमिति नाभ्युपगम्यते? यथा मिथ्यारजतस्य मिथ्याभूताज्ञानोपादानत्वं शक्योपपादनं तथेहापि भविष्यति । तथा हि - शुक्त्यज्ञानं विना कदापि नास्ति रजतबुद्धिः तदज्ञाननाशाच्चावश्यंभाविनी रजतविनष्टिश्चेत्यन्वयव्यतिरेकाभ्यां निश्चीयते यदज्ञानमेव रजतोपादानमिति । न च मृदाद्यनुविद्धघटादिप्रतीतिवदत्रापि स्यादज्ञानानुवेध इति शङ्कयम्, सर्वांशेनानुवेधे राजशासनाभावाददर्शनाच्च । यत्किंचिदंशानुवेधनं त्वत्रापि जडत्वादिना सम्भवत्येव । ननु चैवं “रूप्य मुत्पन्नं रूप्यं नष्टम्” इति प्रतीतिसमये बाधसमये च बुद्धिरुदीयात् । नैतदेवम् । उत्पादसमये शुक्त्यभिन्नतया ग्रहणात्, बाधसमये चात्यन्ताभाव ग्रहणाच्च तादृशबुद्धेः प्रतिरोधसम्भवात् । यस्तु पृच्छेत्, एवं रजतोत्पादेऽपि
१५६
मूलाविद्यानिरास:
(तृतीयः कथं तत्र त्रैकालिकनिषेधोपपत्तिरिति । तं ब्रूयात् - न रजतस्य स्वरूपेण तत्र निषेधः, केन तर्हि पारमार्थिकरूपेणेति, यद्वा लौकिकपरमार्थरजत स्यैवात्र निषेधः, न पुनः प्रतिभासमानस्यापीति न दोषः, तादृशस्जतस्मरण स्यैवात्र निषेध्यरजतप्रसञ्जकत्वात् । किञ्च “इदं रजतमि"त्यत्र भ्रमे व्यावहारिकप्रातिभासिकयोरभेदो भासते, नेदं रजतमिति तु बाधस्तयोर्भेदं बोधयतीत्यपि सूपपादम् । इत्यादितर्कबलमाश्रित्य सर्वप्रत्ययानां स्वविषयशूरत्वात्प्रातीतिकं रजतं तत्कालमविद्योपादानकं समुत्पद्यत एवेति प्रतिष्ठापितं कैश्चित् । तत्किं प्रद्विष्यत इति चेत्, मैवम्, मिथ्यावस्तुनः कारणापेक्षाभावात् ॥
१२९. मिथ्यावस्तुनः कारणापेक्षा नास्ति - तथा हि न तावन्मिथ्या भूतस्य कार्यस्य मिथ्याभूतं कारणम्, सत्यस्य तु कार्यस्य सत्यं कारणमिति नियन्तुं शक्यते, मिथ्याभूतस्य मिथ्यात्वादेव कार्यकारणत्वादिव्यवस्था नर्हत्वात् । यच्च तय॑ते शुक्त्यज्ञानान्वयव्यतिरेकित्वाद्रजतस्य तदुपादानकत्वमिति । तदसत्, नात्र रजतमासीदस्ति भविष्यति वेति बाधसमयबुद्धिविरोधात् । न च पारमार्थिकस्वरूपविषया लौकिक परमार्थस्जतविषया वा तादृशी संविदिति सम्यक् । लौकिकपरमार्थ रजतस्याप्यविद्याकार्यत्वाभ्युपगमाद्भवद्भिः ।।
१३०. अविद्याकार्यत्वे सर्वस्य व्यावहारिकप्रातिभासिकत्वेन भिदा नोपपद्यते - ननु अविद्याकार्यत्वेऽप्यागन्तुकदोषनिमित्तत्वं प्रातिभासिके विशेषः ? मैवम् । दोषस्य व्यावहारिकत्वे, मिथ्याभूतस्य मिथ्याकारणक त्वनियमव्याघातः । प्रातिभासिकत्वे तु दोषान्तरगवेषणप्रसङ्गेनानवस्थेति
१५७
खण्डः)
अविद्याकार्यचिन्ता दूषणग्रासात् । मिथ्याभूतस्य मिथ्याकारणकत्वमुपादानविषय एवेति नैतद्रूषणमिति चेत् । न, मिथ्याकारणस्याज्ञानस्याद्याप्यसिद्धत्वात् । यत्तूच्यते रजतमज्ञानोपादानकमिति निश्चीयतेऽन्वयव्यतिरेकाभ्यामिति, तत्र शुक्तिकाज्ञानं नाम तज्ज्ञानाभाव एव नान्यदिति यत्किञ्चिदेतत् । न च जाड्यादिसाम्यादज्ञानमुपादानं भवेत् । व्यावहारिकरजतस्यापि जाड्य साम्येन प्रातिभासिकरजतत्वापातात् । अपि च स्वप्नजागरितयोर्भेदस्य दुरुपपादत्वात् स्वानरजतजागरितरजतयोर्भेदस्य दुर्भणत्वादागन्तुकदोष निमित्तं प्रातिभासिकमिति किमिदमुच्यते ? तदेवं व्यावहारिकरजत व्यावर्तकस्य साम्यस्य दर्शयितुमशक्यत्वादनुपपन्नमिदं शुक्त्यज्ञानोपा दानकं मिथ्यारजतमिति ॥
१३१. प्रातिभासिकवस्तुन्यविद्याविशेषोपादानकत्वं न विद्यते - ननु मूलाविद्या तावदन्या चिन्मात्राश्रिता, तत्कार्यं व्यावहारिकसत्त्वविशिष्टं रजतम् । शुक्त्यवच्चिनचैतन्याश्रिता तु द्वितीयाविद्या रजताभासोपादान कारणीभूता । तदेतदसारम् । रजतस्य तदुपादानकत्वे मानाभावात् ॥
ननु कथं मानाभावः ? विद्यते खल्वनुमानं प्रमाणम् । रजताध्यासः साक्षादविद्योपादानकः, उपादानान्तरानुपपत्तौ सोपादानत्वात्, आकाशवत् । आकाशस्य तावदविद्योपादानकत्वं श्रुतिसिद्धमस्ति मायां तु प्रकृति विद्यात् (श्वे. ४-१०) इति श्रुतेः । तद्वदत्रापि स्यादिति श्लिष्यते । न चान्तःकरणस्यैव कारणत्वमस्तु भ्रान्तिकालीनरजतस्येति युक्तम्, अन्तःकरणस्यापि सादित्वेनाविद्यापेक्षणात् । न च विपक्षे बाधकन्यायो न विद्यते, मिथ्यार्थाव-भासानुपपत्तेरेव बाधकत्वादिति चेत् । मैवम्,
(तृतीयः
१५८
मूलाविद्यानिरास सोपादानत्वस्यैवासिद्धः । न हि मिथ्याभूतस्य रजतस्य सत्यरजतस्येव सोपादनत्वनिरुपादानत्वादितात्त्विकधर्मसम्बन्धो विद्यत इति शक्यसमर्थ नमेतत् । न च व्यावहारिकसत्त्वविशिष्टस्यापि श्लिष्टं भवत्यविद्याकारणत्वम्, अविद्यायाः परिणामित्वे मानाभाव इति प्रागेव दर्शितत्वात् । न चाकाशस्य सिद्धमस्त्यविद्योपादानत्वम् । मायां तु प्रकृतिं विद्यात् (श्वे. ४-१०) इति प्रकृतेः केवलं मायात्वाभिधानात् । प्रकृतिरेव मायिकी मिथ्याज्ञान निमित्तेत्यर्थो न तु किञ्चिदुपादानमस्तीति । यत्तु मिथ्यार्थस्य प्रथनानुपपत्तिरेव तस्य सोपादानत्वं साधयतीति, तदप्यपेशलम् । मिथ्यात्वादेव तत्प्रथनोपपत्तेः । इदमेव हि मिथ्यात्वं नाम वस्तुनो, यद्वस्तुसन्नभवत्यथ च प्रथत इति । तस्मान्न प्रातिभासिकवस्तुनः सोपादानत्वम्, प्रागेव न भावाविद्यातिरिक्ताविद्योपादानकत्वम्, तस्याः स्वरूपस्यैवासिद्धेरिति ॥
१३२. प्रातिभासिकवस्तूत्पत्तिनिषेधः - “उत्पन्नं रजतं विनष्टं रजतम्” इति प्रतीत्यभावाच्च रजतोत्पत्तिवचनमनुपपन्नम् । ननूक्तोऽत्र परिहारः - उत्पत्तिसमये शुक्त्यभिन्नतया ग्रहणात्, बाधसमये चात्यन्ताभावग्रहणाच्च तादृशबुद्धेः प्रतिरोधसम्भव इति । मैवम् । प्रतीत्यनुसारेण रजतं नासीत् प्रतीतिरेव १३ केवलमित्येव स्वीकर्तुमुचितत्वात् । न च मिथ्यैव स्जतमभादिति बाधसमये प्रतीतेरनुभवानुसारिण्येव मिथ्यारजतोत्पत्ति कल्पनेति युक्तम् । न त्वेव “रजतमासीदिति प्रतीत्या मिथ्यैवाभात्”, भानमेवारजते रजतवदिति व्यवहारार्थः कल्पनीयो न पुनर्मिथ्यारजत
११३. प्रत्येत्येव हि केवलं रजतमिति न तु तत्र रजतमस्ति । सू. भा. ४-१-५
अविद्याकार्यचिन्ता
१५९
खण्ड:) मुत्पन्नमपीति ॥
नन्वेवमसत एव भानाङ्गीकारान्माध्यमिकपक्षः स्यात् । न । शुक्तेौ किकपरमार्थस्यैव तादृशभानाधारत्वेन स्वीकारात् । नन्वेवं सति वैपरीत्यं स्याद्रजतमवभासते शुक्तिस्तु प्रतीतेरालम्बनमिति । न वैपरीत्यम्, शुक्त्यन्यस्य रजतस्यानङ्गीकारात् । शुक्तिरेव स्जतव्यवहारयोग्या प्रतिभासत इति स्वीकारात् । यदि शुक्तरेव ग्रहणं तर्हि तस्या रजतात्मना विकल्पनं कुत इति चेत् । दोषवशादधिष्टानस्य सम्यगग्रहणादिति ब्रूमः ॥
तस्माद्यथा शुक्तरेव दोषनिमित्तो रजतरूपः परिणाम इति वदन्तो दुष्टकारणजन्यायाः प्रतीतेरेव रजतोत्पाद इति वदन्तः, शुक्तौ विद्यमानमेव स्जतं दुष्टकरणवद्भिरेव गृह्यत इति वदन्तश्च न भवन्त्यादरणीयाः, एवमेव स्जतमनिर्वचनीयम्, तत्तादात्म्यम्, रजतत्वसंसर्गः - इत्येतत्त्रिकमधिष्ठान भूतेदमि, स्जते च तादात्म्योपहितेदम्, इदंतादात्म्यम्, इदन्त्वसंसर्गश्चेत्येतत् त्रिकमित्येवं पदार्थषलोत्पत्तिरङ्गीकरणीयेति वदन्तोऽप्यनवधेयवचना, मिथ्यावस्तूत्पत्तेरेवासम्भवादिति ज्ञेयम् ॥
एतेन “इदं रजतम्” इत्यत्राधिष्टानांशे अन्तःकरणवृत्तिः, रजतांशे त्वविद्यावृत्तिरिति च मिथ्यारजतोत्पत्तिमनुसृत्य तदाकारज्ञानाभासरूपा विद्यापरिणतिमप्यङ्गीकुर्वाणा अपि प्रत्युक्ता वेदितव्याः । शुक्त्याद्यतिरेकेण मिथ्याभूतरजतस्यैवाभावात्तदुत्पत्तेरिव तदाकाराविद्यापरिणामस्याप्यत्यन्ता सम्भावितत्वात् । अधिष्ठानस्यैव दोषवशात्तत्तद्विषयकान्तःकरणवृत्त्या तथाभानसम्भवे वृत्त्यन्तरकल्पने प्रयोजनाभावाच्च । रजतं पश्यामीत्यादि सर्वजनसिद्धानुभवस्य चाक्षुषत्वनिराकरणेनाविद्यापरिणामविषयत्वकल्पने
(तृतीयः
१६०
मूलाविद्यानिरासः हेतोरभावाच्च । तदेवं नास्ति सर्वथा मिथ्यावस्तूत्पत्तिः ।।
येप्याहुरभावेतरकार्यस्योपादानसापेक्षत्वनियमादनिर्वचनीयस्जतस्यानिर्वच नीयाविद्योपादानकत्वमभ्युपेयमिति । ते प्रतिबोधनीया - स्मर्तुमर्हन्ति भवन्तोऽनिर्वचनीयवादरहस्यमिति । इदमेव ह्यनिर्वचनीयत्वं नाम यत्केनापि प्रकारेण निर्वक्तुमशक्यत्वम्, अथ च भासमानत्वं वस्तुन इति । एवं च मिथ्यावस्तुनोऽनिर्वाच्यतामातिष्ठमानाः कथं तस्यैवानिर्वाच्यस्योपादान
सापेक्षत्वप्रकारेण निर्वक्तुं प्रयतमाना नापत्रपेरनिति ।।
ननु सत्त्वेनासत्त्वेन सदसत्त्वेन वा यद्विचारं न सहते तदेवानिर्वाच्यम्, न तु केनापि प्रकारेण निर्वक्तुमशक्यम् । तेनोपादानसापेक्षत्वेऽपि नानिर्वचनीयताहानिः । न च परस्परविरुद्धयोः सदसत्त्वयोनिषेधसमुच्चयोऽ नुपपन्न इति शङ्कयम्, तत्रापि निर्भराभावात् । तत्तत्प्रतियोगिदुर्निरूपतामात्र प्रकटनाय तद्विलक्षणत्वाभिलापादिति चेत् । मैवम् । सदसदादिरूपेण दुर्निरूपस्य कस्यापि रूपस्य वास्तविकस्यासम्भवे, तत एवोपादानापेक्षाया अप्यसम्भवात् तदवस्थमेवानिर्वचनीयताप्रतिज्ञाहानम् । तदेवं नास्ति मिथ्यारजतस्य मिथ्याभूताज्ञानोपादानकत्वम् । तस्माज्जगतः सकारणत्वम्,
मूलाविद्यायास्तत्कारणत्वमिति चानुपपन्नम् ।।
इतश्चैतदेवम् । यतः कार्यकारणभावः प्रपञ्चस्वरूपमेव भवति । देशकालनिमित्तबुद्ध्यन्वयव्यतिरेकाभ्यां तद्बुद्धिरेव जगद्बुद्धिरिति देशकाल निमित्तबुद्धिसंसर्गरहितं जगदेव नास्तीति ज्ञापितं प्राक् । ततश्च प्रपञ्चे विद्यमानानां पदार्थानां परस्परं कार्यत्वं कारणत्वं वोच्यमानं मुख्यवृत्तं भवेन्न तु तद्वहिरपि कार्यकारणभावः प्रगल्भते संक्रमितुम् । तत्राविद्या
खण्ड:)
अविद्यानिमित्तविचारः
१६१ मुख्यवृत्तेनैव प्रपञ्चकारणं यस्य मते, तस्य प्रपञ्चाबहिरपि प्रपञ्चो विद्यत इत्युक्तं भवेत् । यस्तु वदति प्रपञ्चान्तर्गतस्यैवाविद्यायां तद्व्यतिरिक्त
कारणत्वमुच्यते, न त्वेव प्रपञ्चाबहिरपि कार्यकारणभावः, अतो नैष दोष इति । तं ब्रूयात् - प्रपञ्चकारणत्वेनाभिमता सेयमविद्या किं मिथ्या किं वा नेति । न तावद्वितीयः कल्पः, मिथ्याकार्यस्य मिथ्याकारणकत्व प्रतिज्ञाहानप्रसङ्गात् । आद्ये तु कल्पे अविद्याया मिथ्यात्वे मिथ्याभूत कारणान्तरगवेषणप्रसङ्गः, एवं तस्य तस्यापीत्यनवस्थादोषश्च प्रसज्यते । तद्दोषपरिहारायाविद्याया अनादिमिथ्यारूपत्वाङ्गीकारे कालस्य सत्यत्वा पत्तिरित्यादयो दोषाः पूर्वोक्ताः पुनरप्यावर्तन्त इति ।।
प्रपञ्चस्य कारणमविद्येति मते च जगतः कारणं ब्रह्मेति श्रौत: पक्षो न भवेत्समञ्जस इत्यनुसन्धेयम् । न चेदमाशङ्कनीयं श्रौतपक्षेऽप्येवं दोष: प्रसज्यत इति । यथा च ब्रह्मकारणवादे एतद्दोषाभावस्तथाग्रे समुपपाद यिष्यमाणत्वात् । तस्मात्सुष्ठुक्तं न मुख्यवृत्त्या जगतो मिथ्योपादानक त्वमिति ॥
अविद्यानिमित्तविचार
१३३. अविद्यानिमित्तप्रश्नोऽनुपपन्नः - अथ भवति समीक्षा किनिमि त्तेयमविद्येति । यदि हि सर्वमेव सनिमित्तं तदविद्यापि किञ्चिन्निमित्तमुदीक्षत इति युक्तम् । ततो वक्तव्यमस्या निमित्तमिति केचित् । अत्राभिदध्महे - प्रश्न एव तु तावन्नोपपद्यते । कथम् ? देशकालनिमित्तबुद्धिरेव ह्यविद्याकार्यम्, तदन्वयव्यतिरेकानुविधायित्वात् । निमित्तबुद्धिरेव हि सर्वत्र निमित्तमाकाङ्क्षते । तादृशाकाङ्क्षावच्चिन्नस्वभावत्त्वादेव सा स्वस्या
१६२
मूलाविद्यानिरासः
(तृतीयः अपि केनचिन्निमित्तेन भाव्यमिति भावयति । परं तु सर्वं सनिमित्तमिति नियममुद्भावयित्री निमित्तबुद्धिरेवेत्यतो निमित्तान्वेषणं सर्वमपि निमित्तबुद्धिरूपाविद्याकार्यसीम्न्येव न्याय्यं न तु तदतिपातिन्यपि । यद्यद्धि निमित्तमविद्याया इति परिकल्प्येत तत्सर्वमपि निमित्तबुद्धिविषयत्वादविद्या सीमान्तःपात्येव भवति । निमित्तं च कार्यान्तःपाति चेति तु व्याघातः । तस्मादनुपपन्नः प्रश्नः ।।
१३४. अविद्या वस्तुतो न कस्यचित्कार्यं कारणं वा, ततोऽनुपपन्नः प्रश्न: - ननु अध्यासव्यतिरिक्ताया अविद्याया अनभ्युपगमाद्भवन्मते उपपन्न एव भवति निमित्तप्रश्नः, उपादानप्रश्नश्च । तथा हि - यद्यात्मा नात्माध्यासमात्रमेवाविद्या, तर्हि सा न सिद्धायत आत्मानवबोधमन्तरा। अनवबोधश्च किंनिमित्त इत्यन्वेषणे भावारूपमज्ञानमन्यद्वा यत्किञ्चिनि मित्तकारणमपेक्ष्यत एव । अपरं चास्मिन्मते ज्ञानाभाव एव मूलाज्ञानम्, तस्मादेव च मिथ्याज्ञानजनिरिति स्वीकृतं स्यात् । तथा चासत: सज्जन्माभ्युपगतं स्यात्, तच्च प्रमाणविरुद्धम् । न चान्तःकरणवृत्तिरूपस्या ध्यासस्यान्तःकरणमेव भवत्युपादानमिति नासतः सज्जन्मप्रसङ्ग इति शङ्कयम् । अन्तःकरणस्याप्युपादानापेक्षणादुपादानाकाङ्क्षाशान्त्यभावात् । तदेवमविद्यानिमित्तस्योपादानस्य वा अनिरूपणादशुद्धमिदं प्रक्रिया रचनमिति ॥
तदेतत्केवलमविद्यावष्टम्भात् - यथा ह्यविद्या प्रपञ्चस्य निमित्तमुपादानं वा भवतीति नाभ्युपगम्यते पारमार्थिकसत्त्वाभावात्तस्याः, एवं सा स्वान्यन्निमित्तमुपादानं वा कारणं स्वोत्पत्तावपेक्षत इत्यपि नाभ्युपगम्यते,खण्ड:)
अविद्यानिमित्तविचारः
१६३ उक्तहेतोरेव । न हि सत्कार्यवादिनां वेदान्तिनां मते असत्कार्यस्या सत्कारणाद्वा जन्माङ्गीक्रियते, सत एव तु मायया रूपान्तरेण विवर्त इति स्वीकारात् । तस्मान्नास्ति तावदनवबोधस्य निमित्तान्तरापेक्षणम, येन भावाविद्यादिपिशाचिकासमुत्थानं स्यात् ।।
यत्पुनरुच्यते - अनवबोधस्यासद्रूपस्य मिथ्याबोधनिमित्तत्वाङ्गी कारेऽसतः सजन्माभ्युपगतं स्यादिति । तदपि न सम्यक् । तथा हि - अनवबोधो यद्यसन किं मिथ्याबोधः सन्निष्यते येनासतः सज्जन्म पर्यनुयुज्येत । न चानवबोधं निष्कास्य भावरूपाज्ञानाह्वानेऽपि दोषानिस्तारं पश्यामः । यत्कारणं भावाज्ञानमप्यसदेव ज्ञाननिवर्त्यत्वात् । न हि भवति वस्तुसदथ च ज्ञाननिवर्त्यमिति । तस्मादात्मस्वरूपनिर्धारणा भावमात्रनिमित्तत्वान्मिथ्याज्ञानसंशयज्ञानयोग्यं व्यवहार आत्मानवबोध९६ एव कारणं तयोरिति । यस्मिन् हि विषये संशयो मिथ्याज्ञानं वा जायते तद्बाधेऽपि संशयान्तरस्य मिथ्याज्ञानान्तरस्य वा समुपजनने न विद्यते बाधकम् । ज्ञानेन तु तद्विषयकाज्ञाने परिहते तयोरप्यपहारोऽवश्यंभावी । न चानवबोधमिथ्याबोधयोस्तात्त्विकः कश्चिदत्र निमित्तनैमित्तिकभावः ११४. सतो हि मायया जन्म युज्यते न तु तत्त्वतः । तत्त्वतो जायते यस्य जातं तस्य हि जायते ।। मां. का. ३-२७ सतो हि विद्यमानात्कार णान्मायानिर्मितस्य हस्त्यादिकार्यस्येव जगज्जन्म युज्यते नासतः कारणात् । न तु तत्त्वत एवात्मनो जन्म युज्यते । अथवा सतो विद्यमानस्य वस्तुनो रज्ज्वादेः सर्पादिवन्मायया जन्म युज्यते न तु तत्त्वतः ।। मां. का. भा. ३-२७ ११५. ‘चावबोधमिति प्रथममुद्रणे ॥ ११६. अज्ञानं संशयत्वान्नो मिथ्याज्ञानात्तथैव च । तयोस्तत्त्वविवक्षायामज्ञानं तत्त्वमुच्यते ।। बृ. वा. १-४-४४०
१६४
मूलाविद्यानिरासः
(तृतीयः प्रतिपिपादयिषितः शक्यप्रतिपादनो वा, निमित्तबुद्धरेवाविद्याव्याप्तत्वा दित्यवोचाम ।।
यस्य तु मते मिथ्याज्ञानस्य कारणं भावाविद्या, तदन्यदेव वा कारणं यत्किञ्चित्, तस्य तयोः कार्यकारणयोः पूर्वापरीभावोऽभ्युपगतो भवति । तथा च मिथ्याज्ञानकारणस्य तत्पूर्वकालीनत्वमुररीक्रियते । तच्च न सम्भवि । मिथ्याज्ञानस्वरूपमेव हि कालादिबुद्धिः, तत्कथं मिथ्या ज्ञानाभावेऽपि तत्पूर्वं कालादिसत्त्वमिति । तस्मान्नानवबोधमिथ्याबोधयो? कार्यकारणता, किं तहविद्यास्वरूपतैवास्थेया। तदेवमविद्याया निमित्तोपादानाद्यपेक्षणाभावादनुपपन्न एवायं प्रश्नः इति सुस्थितम् ॥
१३५. अविद्या परमार्थतो नास्त्येव, ततोऽप्यनुपपन्नोऽयं प्रश्न: - ननु च विद्यते चेदविद्या किं कारणं न सहते निमित्तप्रश्नम् ? आत्मा खलु स्वच्छस्वरूपः अङ्गीक्रियते । तत्कथमविद्या तस्मिन्निति प्रश्नः किमिति नोपपद्येत? अथ न विद्यत एवाविद्यानामकं वस्तु, तर्हि किमिदं वर्ण्यते यदविद्यानिमित्तः सर्वोऽयं प्रपञ्च इति ? न ब्रूमो वयं वास्तविकेन वृत्तेनाविद्या नाम काचिदस्तीति, किं तद्यविद्यातत्कार्याणां स्वरूपमा त्मैव, यस्य स्वरूपाधिगमे सति ते निश्शेषमस्तं यन्तीति । यथा हि मध्याह्ने तपति प्रभाकरे कश्चिदतिमूढः पृच्छति किनिमित्तोऽयमन्धकार
११७. अज्ञानमयमेवेदं सर्वमित्यपि भाषणम् ।
नैव भाषणमज्ञानाभावादेव शिवं विना ।। तस्मादज्ञानमज्ञानकार्यं च सुरपुङ्गवाः । एतद्ब्रह्मैव नैवान्यदिति मे निश्चिता मतिः ।। सू. सं. ब्र. ८-९७, ९५, ९९
१६५
खण्ड)
अविद्यानिमित्तविचारः सूर्ये येन पेचकादयो न शक्नुवन्ति रूपग्रहणायेति । तमन्यः प्रतिबोधयति नास्त्येवात्र तमः पेचकादिकल्पितव्यतिरिक्तमिति । तद्वदेवेदमपीति विज्ञेयम् ॥
ननु च नित्यशुद्धिचिदात्मानं सन्तमात्मानमात्मा कस्माद्विसस्मार येनासौ स्वस्मिन्नविद्यां पेचकादिरिव भानावन्धकारं कल्पयन् मोमुह्यति ? क एवमाह जातुचिदात्मात्मानं स्मरति विस्मरतीति वा ? इदानीमपि प्रश्नकाले चिदात्मैवायमिति खलूद्धष्यतेऽस्माभिः । ननु कस्य तर्हि शास्त्रोपदेशः ? यः पृच्छति तस्येति विजानीहि । तस्य वा कथं प्रश्न: उक्तप्रकारेण विस्मरणानर्हत्वादात्मन इति चेत् । कथय तर्हि कथं शरीरादिव्यतिरिक्तमात्मानमपि नजानीयुः पररशतं प्राणिनो यो देहात्मवादे ११ निश्चिताः । मिथ्याज्ञानविजृम्भितमेतत्, तेषामपि वस्तुतो व्यतिरिक्तात्म स्वरूपत्वादिति चेत् । हन्त तर्हि मिथ्याज्ञानविजृम्भितमेवेदमपि यदात्मनि विस्मरणमस्मरणं स्मरणं वास्तीति कल्पनम् । तस्मादनुपपन्न एवाविद्य मानाविद्याया निमित्तप्रश्नः ।।
अपि च कः खल्वेवं चोदयेत् कुत आत्मन्यविद्येति? न तावदज्ञानी, तस्य स्वरूपानवबोधात्प्रश्नहेतोरसम्भवात् । नापि ज्ञानी, तस्य कालत्र
११८. न स्मरत्यात्मनो ह्यात्मा विस्मरेद्वाऽप्यलुप्तचित् ।। उ. १४-१६ ११९. यत्तूक्तं सदात्मा सन्नात्मानं कथं न जानीयादिति । नासौ दोषः, कार्यकारण संघातव्यतिरिक्तोऽहं जीवः कर्ता भोक्तेति स्वभावतः प्राणिनां विज्ञानादर्शनात् किमु तस्य सदात्मविज्ञानम् ।। छां. भा. ६-१६-३ १२०. कुतोऽविद्येति चोद्यं स्यात्रैव प्राग्घेत्वसम्भवात् । कालत्रयापरिच्छित्तेर्न चोर्ध्वं चोद्यसम्भवः ।। नं. ३-११६
१६६
मूलाविद्यानिरासः
(तृतीयः येऽप्यज्ञानं न स्पृशत्यात्मानमिति प्रतिपत्तेः । अतोऽपि न निमित्तप्रश्नस्या वकाशः ॥
१३६. अविचार एव निमित्तमविद्यायाः - तस्मादविद्या स्वनिमित्त प्रश्नं न सहते, अविद्याश्रयत्वानिमित्तप्रश्नस्येति परमार्थः । व्यवहारदृष्ट्या तूच्यते निसर्ग एष जन्तूनां यद्विचारमकृत्वैव गतानुगतिकतया मिथ्या प्रत्ययेऽपि सत्यत्वाग्रहं कुर्वते । तस्मादात्मस्वरूपविवेकाभावनिमित्तैवेय मविद्येति । न च स एव विवेकाभावः कथम् ? अविचारनिमित्त इत्युक्तोत्तरत्वात् । सर्वत्र हि यावद्विचारं वस्तुस्वरूपं न विविच्य ज्ञायत इति स्थितिः । तस्मादविचारनिमित्तैवाभावरूपाविद्या । मिथ्याज्ञानं तु तत एव विवेकाभावादित्यास्तां विस्तरः ॥
अविद्यानिवृत्तिविचारः १३७. सम्यग्ज्ञानादविद्यानिवृत्तिः - इदानीं प्राप्तावसरा निवृत्तिचिन्ता । मिथ्याज्ञानरूपत्वादविद्यायाः सम्यग्ज्ञानात्तन्निवृत्तिरित्यर्थादापतति । तच्चाविद्यापघातकं ज्ञानं “वेद्यवेदित्रादि सर्वमपि मिथ्याध्यासनिबन्धनमेव, वस्तुवृत्तेन तु शुद्धचैतन्यमेकमेव सत्यम्” इति निर्धारणम् । उत्पद्यमानं च तादृशं ज्ञानं स्वान्यप्रपञ्चस्येव स्वमिथ्यात्वमप्यावेदयदेव जायत इति सर्वद्वैतमिथ्यात्वसिद्धिः ॥
१२१. क्षेत्रक्षेत्रज्ञयोर्विषयविषयिणोभिन्नस्वभावयोरितरेतरतद्धर्माध्यासलक्षणः संयोगः क्षेत्रक्षेत्रज्ञस्वरूपविवेकाभावनिबन्धनो रज्जुशुक्तिकादीनां तद्विवेकज्ञानाभावादारोपित सर्परजतादिसंयोगवत् ॥ गी. भा. १३-२६
खण्ड:)
अविद्यानिवृत्तिविचारः
१६७ १३८. ज्ञानाभावस्याविद्यानिवर्त्यत्वे शङ्का - अत्र कश्चिद्यात् - नैतत्समञ्जसमविद्यानिवृत्तिवर्णनम् । यतो न केवलं मिथ्याज्ञानमविद्येत्य भ्युपगम्यते भवद्भिः, किं तु संशयज्ञानमप्यविद्यैव, तथा ज्ञानाभावोऽपि । तत्रापि संशयमिथ्याज्ञानयोर्ज्ञानाभावमात्रनिबन्धनत्वमभ्युपगम्यते । अतो ऽन्ततो गत्वा ज्ञानाभाव एव मूलभूतमज्ञानम्, तन्निवृत्तिरेव च विद्याकार्यमिति वक्तव्यम् । तत्तु न घटमानम् । न हि नास्त्येव किमप्यज्ञानं नाम योनावृतो जन्तुर्मुह्यति संसारे इति युज्यते । असति हि स्वप्रकाशचैतन्यस्वरूपस्यास्य जीवस्य स्वरूपप्रच्छादके कस्मिंश्चिदावरणे निर्निमित्त एवायं संसारमोह इत्यापद्येत । तच्चायुक्तम् । तथा मोहरूपे विद्यानिव] स्वरूपप्रकाशप्रति बन्धेऽसति स्वरसत एव सर्वोऽपि जन्तुर्मुच्येत । तथा च वेदान्तविहिता विद्या निरर्थिका स्यात्, कृत्याभावात् । अतो दोषद्वयपरिहाराय विद्यानिवत्र्यं किञ्चित्स्वरूपावरणमवश्यमभ्युपेयं भवति । तथा वियदादिके जगति जाड्यं प्रसिद्धं तत्समानस्वभावां काञ्चित्प्रकृति विनैवोत्पन्नमिति न शक्यं सम्भावयितुम् । न च साङ्ख्याभिमतप्रधानादिरभ्युपगम्यते । अथात्मन्य ध्यस्ता काचिजडप्रकृतिरिति स्वीक्रियते, ततो सैवात्मप्रकाशावरणं यस्य निवृत्तिर्भवति विद्ययेत्यवश्यमङ्गीकार्यं भवति । तदेवं जगत्यनुगतं जाड्यं जीवगतं मौढ्यं च जाड्यमौढ्यात्मकं किञ्चित्कारणमाकाङ्क्षमाणं सर्वानुभवसिद्धाज्ञानमेव तत्त्वेनाक्षिपतीत्यजडबोधरूपतिरस्कारसमर्थं भावरूपमेव किञ्चिद्विद्यानिवर्त्यमविद्याशब्दार्हमकामेनाप्यभ्युपेयमिति ।।
१३९. विद्योत्पत्तिरेवाविद्यानिवृत्तिः - तं प्रतिब्रूयात् - न तावदस्मद्दर्शन किञ्चिदसामञ्जस्यमस्ति । यत्तु त्वयाक्षिप्तम्, यदि ज्ञानाभाव एवाविद्या,
जाड
१६८
मूलाविद्यानिरासः
(तृतीयः नास्ति तदा किमपि विद्यया निवर्त्यमिति । तत्तुच्छम् । यतो न वयं विद्योत्पत्तिव्यतिरेकेण काञ्चिदविद्यानिवृत्तिमभ्युपेमो यमुयमाक्षेपः शोभेत । विद्याजनिरेव २२ हि तन्निवृत्तिः संसारनिवृत्तिश्चेत्यङ्गीक्रियते । यत्पुनर्धाष्टयम्, जाड्यमौढ्यानुगमोपपत्तये तत्कारणं भावाज्ञानं स्वीकार्यमिति । तदसकृ दुक्तपरिहारम् । न तादृशमज्ञानं कस्यचित्कारणं कार्यं वा, मानाभावात् । न वा ज्ञाननिवर्त्यम्, ज्ञानिष्वपि जीवन्मुक्तेषु भवद्भिस्तदनुवृत्त्यभ्युप गमाच्चेति । अतो न किञ्चिदेतत् । तस्माद्विद्यया निवृत्तिरविद्याया इति व्यपेदशमात्रमेतत् । न पुनर्वास्तवी निवृत्तिः, विद्योत्पत्तेरेव निवृत्तिशब्दाभि लप्यत्वात् । अत एवात्र कार्यकारणभावोऽपि नाशङ्कनीयः - विद्योत्पत्त्या पूर्वं भवितव्यं समनन्तरोत्तरं चाविद्यानिवृत्त्येति, प्रबोधस्वप्रबाधयोरिवैकस्यैव व्यवहारद्वयभाक्त्वात् । न चैवमावरणाभावात्संसरस्य निर्निमित्तत्वप्रसङ्गः, वास्तविकस्यावरणस्य संसारस्य, तन्मोक्षस्य, वानभ्युपगमादिति ध्येयम् ॥
१४०. अविद्यानिवृत्तिर्नाम न भावविकारः - एतेनेदमपि प्रत्युदस्तं भवति यदाहुर्भावाविद्यावादिनः केचित् - लोके तावद्धटादिनाशः क्षणिक भावविकार इति सर्वसम्मतम् । तथैव भवितुमर्हत्यविद्यानिवृत्तिरपि ब्रह्मज्ञान कार्यभूतेति । इत्थमत्र तैः प्रदर्श्यमानोपपत्तिः - यद्यविद्यानिवृत्तिर्ज्ञानोत्पत्ति समनन्तरक्षणमात्रवर्तिनी काचिद्विकृतिर्न स्यात्, तर्हि तार्किकादिमत इव ध्वंसस्यानन्तत्वापत्तौ मोक्षेऽपि तत्सद्भावः प्रसज्येत । न च प्रागभाव स्यानादेः प्रध्वंसाभावस्य चानन्तस्यानभ्युपगमे वस्तूत्पत्तिविनाशा दुर्निरूपाः
१२२. न चाविद्यासमुच्छित्तिर्ज्ञानोत्पत्त्यतिरेकतः । संसारनाशोऽविद्याया नाशान्न व्यतिरिच्यते ।। बृ. वा. २-४-१९५
खण्ड:)
अविद्यानिवृत्तिविचारः
१६९ स्युरिति भेतव्यम्, उत्पत्त्यादीनामनिर्वचनीयत्वस्याभीष्टत्वात् । एवमविद्या यास्तन्निवृत्तेश्चानिर्वचनीयत्वेन न कापि क्षतिः । नन्वविद्यानिवृत्तिर्यदि न चिरस्थायिनी तर्हि किं निबन्धना मुक्तिः स्थिरपुरुषार्थ इति वार्तेति चेत् । सेयं तव भ्रान्तिः । न ह्यस्माकमविद्यानिवृत्तिरेव मोक्षः, अपि त्वखण्डानन्द स्फुरणं संसारदुःखोच्छेदश्च । अथवा संसारदुःखनिवृत्तिरप्यविद्यानिवृत्ति समानैवेति केवलाखण्डानन्दस्फुरणमेव मोक्ष इति ।।
तदिदं सकलं स्वमनीषिकासमुत्थमनुपपन्नमेव, अविद्याया भावा भावादिसर्वकल्पनाबीजभूताया वस्तुतो भावत्वे प्रमाणाभावात् । अधस्तादुक्तनीत्या विद्याजन्माविद्यनाशयोर्भेदाभावाच्च । भाष्यवार्तिक विरुद्धं चैतत्कल्पनम् । तस्मादविद्यानिवृत्तिमात्रे मोक्षव्यवहारः (बृ. भा. ४-४-६) इति भगवत्पादैः अविद्यास्तमयो मोक्षः१२२ इति च सुरेश्वराचार्यश्च स्पष्टं समुदीरितत्वात् । ज्ञाते द्वैतं न विद्यते (मां. का.१-१८) इत्याचार्य वचनाज्ज्ञानोत्तरं कालसद्भावे मानाभावाच्चासङ्गतमेव निवृत्तिर्नाम विक्रियेति ज्ञानोत्तरक्षणाश्रयेति च कल्पनम् । अपि चाविद्यानिवृत्तिर्नाम ब्रह्मस्वरूपमेव, ब्रह्मणो नित्यनिवृत्ताविद्यात्वात्, तत्र तत्र भगवत्पादैस्तथा भाषितत्वाच्च । अतोऽप्यविद्यानिवृत्तिर्घटादेर्मुसलप्रहारादिना निवृत्तिवद्भावविकारः स्यादिति भ्रान्तेर्नावकाशः । न हि विद्या मुसलादिवत्कारकतामात्मनः सम्पाद्या विद्यां घटादिवद्भावरूपां नाशयतीति शक्यते वक्तुम् ।।
१२३. अविद्यानाशमात्रश्च मोक्ष आत्मन इष्यते ।। - बृ. वा. ३-३-२३ १२४. अज्ञानध्वंसि विज्ञानं न च कारकरूपताम् । गृहीत्वेह तमो हन्ति द्वैधीभावेऽसिवत्क्वचित् ।। बृ. वा. ४-४-९४२
१७०
मूलाविद्यानिरासः
(तृतीयः १४१. ज्ञानं न कारकम्, अतोऽप्यविद्यानिवृत्तिर्न वास्तवी - दृष्टवैषम्यप्रसङ्गाच्च । रज्जुस्वरूपविज्ञानव्यतिरेकेण कारकसाध्यस्य तदध्यस्तसर्पादिप्रविलयस्यादर्शनात् । यत्तु मूलाविद्यावादिनो दृष्टमप्यर्थ मन्यथयन्तो वर्णयन्ति - रज्जुं न जानामीति प्रतीतिस्त्रेधा व्याख्यातव्या, वृत्त्यभावविषयत्वेनानिर्वचनीयमूलाविद्यासंसर्गविषयत्वेन रज्ज्वावरण विषयत्वेन वेति । तत्र प्रतीतेर्वृत्त्यभावविषयत्वे तावज्ज्ञानेन सर्वस्य प्रविलयमात्रं भवति नात्यन्तं बाधः । मूलावरणसंसर्गविषयत्वे तु रज्जोरावरणस्य च साक्षिण्यध्यासात्तादृशसंसर्गोत्पत्तेः, ज्ञानेनावरणसंसर्ग निवृत्तिः क्रियते । यदि पुना रज्ज्वावरणविषया प्रतीतिरिति स्वीक्रियते, तदापि ज्ञानेन तदावरणमात्रं निराक्रियते । सर्वेष्वप्येतेषु कल्पेषु नाविद्या रज्जुज्ञानेन निवर्त्यते, तस्या ब्रह्मज्ञानमात्रनिवर्त्यत्वात् । अथवा रज्जुसर्प स्तूलाविद्यानामकाविद्यान्तरोपादान एव स्वीक्रियते । अस्मिंस्तु पक्षे सर्वत्र तत्तज्ज्ञानेन तूलाविद्यैव निवर्त्यते न तु मूलाविद्येति । तदेतत्सर्वं भावाविद्यायाः सत्त्वे तस्याश्च मूलतूलरूपभेदवत्त्वे, चिदावरकत्वे, विषयैः सह साक्षिण्य ध्यस्तत्वे, ब्रह्मविद्यानिवर्त्यत्वे वा मानाभावादभित्तिचित्रमेवेति न तत्खण्ड नायादरः क्रियते । रज्ज्वादिस्वरूपविज्ञानमात्रं तदध्यस्तसादिनाश इति तु सर्वैरपि संविदनुसारिभिरङ्गीकृतमेवेति तत्सामान्यादात्मस्वरूपज्ञानमेव तदज्ञानस्य सकार्यस्य नाश इत्यवश्यमभ्युपगन्तव्यम् । न ह्यविद्यातन्निवृत्ति कृतोऽस्ति कश्चिद्विशेष आत्मनि येनाविद्यावत्त्वं तदपगमश्च वास्तविको स्याताम् ।
१२५. न चाविद्यावत्त्वे तदपगमे च कश्चिद्विशेषोऽस्ति ।। सू. भा. १-४-६
खण्ड:)
अविद्यास्वरूपादिचिन्तोपसंहार
१७१ तस्मात्सर्वकल्पनामूलाया अविद्यायास्तन्निवृत्तेश्च वास्तविक्या अभावात्, निवृत्तिरनिर्वचनीयेति, विरोधिवृत्तिरूपेति, पञ्चमप्रकारेति, प्रध्वंसाभावरूपेति, भावविकाररूपेति च मुधैव विकल्प्यते वादिभिरिति ध्येयम् । व्यवहारदृष्टस्य चोदने परिहारे वा फलाभावात् । अथ मन्दबुद्धि व्युत्पादनार्था एते विकल्पाः । तदपि न चारु । न हि भेदवासनावासितधियो भेदप्रकारविशेषे चित्तस्थिरीकारेण बुद्धिर्युत्पाद्यते । अस्तु वेदं यथा तथा । वास्तविकं तु भावाविद्यासद्भावं तन्निवर्तनं चानिच्छद्भिर्न कोऽप्यस्माकं विवादः ॥
एतावदिह प्रकृतम् - यद्येकत्वमेव तत्त्वतो विशुद्धत्वं चात्मनस्तर्हि कथं तस्मिन्नविद्या तन्निवृत्तिश्चावकल्पेयातामिति नाशङ्कनीयमिति । यथा ह्यविद्या व्यावहारिकी दृश्यते तथा तन्निवृत्तिरपीति न दृष्टस्य युक्त्याऽप लापो न्याय्यः । न च वस्तुसतीमविद्यां तन्निवृत्तिं वा वेदान्तिनोऽभ्युप गच्छन्तीति ॥
अविद्यास्वरूपादिचिन्तोपसंहार: तदेवं वर्णिताविद्यायां द्वैतिभिराशङ्कयमानमनुपपत्तिसप्तकं न लब्धाव काशमिति सुस्पष्टम् । न हीयमविद्या भावाविद्येव वादिकल्पितानुभवमात्र सिद्धा प्रमाणापेक्षिणी वा अध्यासरूपिण्यास्तस्याः सर्वसिद्धत्वात् । तस्मा
१२६. दृश्यते ह्येकत्वविज्ञानादेवानवगमनिवृत्तिः । दृश्यमानमप्यनुपपन्नमिति ब्रुवतो दृष्टविरोध स्यात् ।। बृ. भा. १-४-१० व्यवहारदृशाविद्या तन्निवृत्तिश्च कथ्यते । तत्त्वदृष्ट्या तु नाविद्या तन्निवृत्तिश्च हे सुराः ।। सू. सं. ब्र. १२-१०
मूलाविद्यानिरासः
(तृतीयः
१७२ नास्ति स्वरूपानुपपत्तिः ॥
चिदाभासरूपस्याश्रयस्य विषयस्य च साधितत्वादस्मिन् पक्षे मूला विद्यायां प्रसञ्जिता अन्योन्याश्रयानवस्थित्यादयो दोषाः न प्रादुःष्युः ॥
तिरोधानं चोपपद्यत आत्मनः, तात्त्विकस्य तस्यानभ्युपगमात् । कल्पि तस्य च तस्य प्रतीत्यनुसारेण प्रतीतिकालेऽङ्गीकाराच्च न स्वप्रकाशविघात कत्वादिकलङ्कः ॥
निवृत्तिरपीदृश्या अविद्यायाः सुप्रतिपदा, कल्पितत्वादविद्यास्वरूपस्य, वास्तविकनिवृत्तेरनभ्युपगमाच्च । न च निवर्तकज्ञानस्यापि कल्पितत्वेन निवर्त्याज्ञानवदेव निवर्तकान्तरनिरीक्षणदायम्, निवृत्तेरनात्ममिथ्यात्व निश्चयस्वरूपत्वात् । एषा हि सर्वमिथ्यात्वमनीषा स्वस्या अपि मिथ्यात्वमवगमयन्त्येव समुन्मिषतीति न तस्या अप्यस्ति निवर्तकान्तरो दीक्षणम् । अपि च निवृत्तेर्वस्तुतो ब्रह्मस्वरूपत्वाच्च नोक्तशङ्कातङ्कः । व्यवहारतस्तूच्यते मिथ्यात्वनिश्चयो निवर्तकज्ञानमिति । तदेवं निवर्तकोप पत्तिरात्मानमासादयन्ती निवृत्त्युपपत्तिमपि प्रोद्बलयति ॥
एतेन यच्चोद्यते - समानाश्रयत्वमेव युक्तं बन्धमोक्षयोर्न व्याश्रयत्वम् । वेदितुश्च मोक्षसमयेऽभावाव्यधिकरणत्वं स्यात्तयोर्यदि वेदितृत्वनाशः एव मोक्षः । न च वेद्यवेदितनाशं विना सिद्धान्त्यभिमतो मोक्षः सेत्स्यति । किं च वेदितुः स्वनाशे प्रवृत्तिरेव नोपपद्यत इति निरस्ता मोक्षकथाप्रसक्ति रिति । तदपि प्रत्युक्तं भवति । वेदितुः स्वरूपस्य नाशानभ्युपगमाद्वेदि तृत्वस्यास्वरूपभूतस्यैव मिथ्यात्वनिश्चयो मोक्ष इत्यभ्युपगमाच्च ।।खण्ड:)
अविद्यास्वरूपादिचिन्तोपसंहार
१७३ उक्तरीत्या प्रातीतिकसत्त्वादविद्याया नेयं शशविषाणादिवदत्यन्तासती। नाप्यात्मवत्सती प्रतिपादितमिथ्यात्वात् । एकस्मिन्नेव वस्तुन्यत्यन्तासत्त्वं परमार्थसत्त्वं च न सम्भवेतां कदाचिदपि, विरोधात् । अतो नेयं सदसती । तथा चास्याः स्वकार्यसहिताया निरूपकैरनिर्वचनयत्वं यदुपदिश्यते व्यवहारदृष्ट्या तदपि प्रकल्पते ॥
न च प्रमाणानुपपत्तिशङ्कातङ्कः प्रमाणापेक्षां सर्वत्र कर्तुमयुक्तमिति दर्शितत्वात्, प्रमाणप्रमेयादिव्यवहारस्यैवाविद्यामाश्रित्य प्रवृत्तत्वाच्च । तस्मान्नास्ति कुचोद्यावकाश इति सर्वमनवद्यम् ॥
इति श्रीमत्पूज्यपादशङ्करभगवच्चरणस्मरणपरिचयाप्तवेदान्तप्रवेशेन श्रीबोधानन्देन्द्रसरस्वतीशिष्येण सच्चिदानन्देन्द्रसरस्वत्याख्येन भिक्षुणा (सुब्रह्मण्येन) विरचिते श्रीमति शङ्करहदये मूलाविद्यानिरासे
स्वप्रक्रियानिरूपणं नाम
तृतीयः खण्डः