०३

अथ कोयमविद्यालेशोपदनुवृत्याजीवन्मुक्तिः आवरणविक्षेपशक्तिमत्यामूलाविद्यायाः प्रारब्धकर्म वर्तमानदेहाद्यनुवृति प्रयोजको विक्षेप शक्त्यंश इति केचित् ।
क्षालितलथुन भाण्डानुवृतलथुनवासना कल्पो विद्यासंस्कार इत्यन्येदपि पटन्यायेनानुवृतामूलाविद्यैवेत्यपरे सर्वज्ञात्मगुरवस्तु विरोधि साक्षात्कारोदये लेशतोप्यविद्यानुवृत्यसम्भवात् ॥

ॐ श्रीगणेशाय नमः ॥

ॐ स्मृते सकलकल्याणभाजनं यन्न जायते ।
पुरुषस्तमजं नित्यं ब्रजामि शरणं हरिम् ॥

यत्र यस्मिन् हरौ स्मृते सतीत्यर्थः ।
नन्दहस्तमवलंव्यपाणिनामन्दमन्दमरविदलोचनः सञ्चरन् कनककिङ्किणीरवस्सन्ततं मम तनो तु मङ्गलम् ।

यस्याः स्मरणमात्रेण्ण वाम्बिभूतिर्विजृम्भते ।
सा भारती चिरं नित्यं रमतां मन्मुखां नुजेम् ॥

यश्शिवो नामरूपाभ्यां या देवी सर्वमङ्गला ।
तयोस्संस्मरणात् पुंसां सर्वतो जयमङ्गलम् ॥

विघ्नेश विधिमार्तेड चन्द्रेन्द्रोपेन्द्र वन्दित ।
नमो गणपते तुभ्यं ब्रह्मणां ब्रह्मणस्पते ॥

अथ कोपमिति ।

तृतीय परिछेदे ब्रह्मज्ञानरूपं मुक्तिसाधनं सपरिकरन्निरूपितमिदानीं तत्फलभूतामुक्तिर्निरूप्यते ।
तथा च फलनिरूपण परस्य चतुर्थ

स्मृतौ तत्पदं ब्रह्मपरमुक्तमिति ।
तेनैति ब्रह्मवित् पुण्यकृदित्यादि श्रुत्येति शेषः ।
तेन ब्रह्मवेद न पुण्ययोः समुच्चयेन एति ब्रह्मप्राप्नोतीति श्रुत्यर्थः ।
ज्ञानकर्मणोः समुच्चयस्य ब्रह्मप्राप्ति हेतुत्व श्रवणमनुमोदते ।
सत्यमिति ।

ब्रह्मप्राप्तेर्विद्यामात्रसाध्यत्व प्रतिपादक श्रुत्यन्तरेण उपपति सहितेन विरोधात् समुच्चय श्रवणं तन्मूलकस्मृतिवचनं चक्रमसमुच्चय परतया नेतव्यमित्याशयेनाह ।
नान्यः पन्था इति ।
ब्रह्मज्ञानापेक्षया अन्यः ज्ञानकर्मसमुच्चयरूपः केवलकर्मरूपो वा पन्था ।
उपायो मोक्षं प्रतितास्तीति श्रुत्यर्थः ।
नित्यमात्मस्वरूपतया सिद्धस्य ब्रह्मणो वाप्तिरप्रात्यत्वभ्रमादि निवृतिरूपा भ्रमादि निवृतिश्च ज्ञानमात्रसाध्यत्वेन लोकै दृष्टा ।
यथा कण्ठगतायामेव कनमालायां विस्मृतायां सत्यां तस्यामप्राप्तत्वभ्रमेण बहुविधविक्षेपं प्राप्तस्य आप्तोपदेशजन्य ज्ञानमात्रेणाप्राप्तत्वभ्रमनिवृतिरूपा पूर्वसिद्धकनकमालावाप्तिः ।
तत्तुल्यायां नित्यसिद्धब्रह्मावाप्तौ विद्यातिरिक्तसाधनापेक्षाभावा तदतिरिक्तस्य भ्रमादि निवृतौ सामर्थ्या भावाच्चेत्यर्थः ।
परम्परया मुक्तावुक्तं कर्मणामुपयोगं प्रपञ्चयितुं पृछति ।
क्वतर्हीति ।
तर्हि ज्ञानवत् साक्षान्मुक्ति हेतुत्वाभावे सति क्वचि विदिषायां विद्यायां वा साधनत्वं तेषामित्यर्थः ।
तमेतमिति तछब्दः प्रकृत परमात्म परः एतछब्दः नित्यापरोक्ष जीवपरः ।
तथा च जीवाभिन्नं परमात्मानं वेदानुवचनादिभिर्वेदितुमिछन्तीत्यर्थः ।

अनशनादिलक्षणतयो व्यावृतये तपसो विशेषणमनाशकेनेति ।
तथा च हितमितमेध्याशनादिरूपं तप इह विवक्षितमिति लभ्यते ।
ननु विविदिषायामपुरुषार्थभूतायां कथं विनियोगः तत्राह ।
विद्याशम्पादन द्वारेति ।
ततश्च गौणपुरुषार्थत्वं तस्याः सम्भवतीत्यर्थः ।
ननु मुक्तिं प्रतिप्रत्यासन्नत्वात् ।
विद्यायास्तस्यामेव विनियोगः कुतो न कल्प्यते ।
श्रुतत्वाविशेषाच्च कागनाविषयत्वेन श्रुतस्वर्गादेरेव कर्मफलतयान्यत्र स्वीकाराच्चेति मत्वाशङ्कते ।
नन्विति ।
स्वर्गकामादिवाक्येषु यागादेर्विधिप्रत्ययेन इष्टसाधनत्वे बोधिते किं तदिष्टमितिविशे ॥

न स्यात् ।
प्रत्ययार्थस्य प्राधान्यात् ।
विद्यासम्प्रयोगात् ।
प्रत्यासन्नानि विद्यासाधनानिशमदमादीनि विविदिषासम्प्रयोगा तु वाह्यतराणि यज्ञादीनीति ।
सर्वापेक्षाधिकरणभाष्याच्च ।
ननु विविदिषार्थं यज्ञाद्यनुष्ठातुर्वेदनगोचरेछावत्वे विविदिषायाः सिद्धत्वेन तदभावे वेदनोपाये विविदिषायां कामनाऽसम्भवेन च विविदिषार्थं यज्ञाद्यनुष्ठाना योगात् ।
न यज्ञादीनां विविदिषायां विनियोगो युक्त इति चेन्न अन्न द्वेषेण

कार्श्यं प्राप्तस्य तत्परिहारायान्न विषयौत्कण्ठ्यलक्षणायामिछायां सत्यामप्युत्सुकाजीर्णादि प्रयुक्तथा तु वैषम्य दोषात् तत्र प्रवृतिपर्यन्तारुचिर्न जायत इति तद्रोचकौषध विधिवत् ॥

षाकाङ्क्षायां सत्यां पुरुषविशेषणत्वेन श्रुतयोः कामनास्वर्गयोरन्यतरस्यापि शब्दतः प्राधान्याभावेन तत्रार्थतः प्राधान्यस्यैवाश्रयणीयत्वे स्वतः पुरुषार्थतया स्वर्गस्यैव फलत्वेनान्वयः स्वीकृतः यागः स्वर्गसाधनमिति न तु कामवायाः ।
इह तु वेदनकामनाया एव फलत्वेनान्वय उचितः शब्दतः प्रधानत्वादतः फलप्रत्यासत्यादिकमपि अकिञ्चित्करमिति मत्वासमाधते ।
न स्यादिति ।
सत्प्रत्ययः प्रत्ययशब्दार्थः विविदिषायामेव विनियोग इत्यत्र भाष्यसम्मतिमाह ।
विद्यासम्प्रयोगादिति ।
विद्यासाधनत्वादित्यर्थः ।
प्रत्यासन्नानीति ।
यावद्विद्योदयमनुष्ठेयानीत्यर्थः ।
शमादिवैषम्यं कर्मसुदर्शयति ।
विविदिषा सम्प्रयोगात्विति ।
तत्सायनत्वादेवेत्यर्थः ।
वास्पतगणीति ।
विविदिषोदय पर्यन्तमेवानुष्ठेयानीति यावत् ।
विद्योत्पतौ सर्वाणि कर्माण्यपेक्षितव्यानीति प्रतिपादकाधिकरणेत्यर्थः ।
विविदिषाविनियोगं प्रकारान्तरेणाक्षिपति ।
नन्विति ।
वेदनेछाया यज्ञादिफलत्वे वेदनेछा गोचरेछया यज्ञाद्यनुष्ठानं वाच्यम् ।
वेदने छायाश्च स्वतः फलत्वाभावाद्वेदनद्वारा

मुक्तिफलकत्वं वाच्यम् ।
तथा चायं क्रमः प्रथमं मुक्तौ स्वतः पुरुषार्थत्वज्ञानादिछा ततो वेदने मुक्तिसाधनत्व ज्ञानादिछा ततो वेदनेछायां वेदन साधनत्व ज्ञानादिछातया च यज्ञाद्यनुष्ठानमिति ।
तथा च वेदनेछारूपविविदिषोद्देशेन यज्ञाद्यनुष्ठाने प्रवर्तमानस्य ब्रह्मवेदने विविदिषाफले किमिछास्ति न वा आद्ये यज्ञानुष्ठान वैयर्थ्यमित्यभिप्रेत्याह ।
वेदन गोचरेति ।

वेदनगोचरेछाया एव विविदिषात्वादितिभावः ।
सिद्धत्वेन विविदिषार्थं यज्ञाद्यनुष्ठानायोगादिति सम्बन्धः ।
न द्वितीयः ।
विविदिषा फले वेदने कामनायाः असत्वे विविदिषायामपि कामनाया अभावाद्विविदिषोद्देशेन यज्ञाद्यनुष्ठानायोग इत्याह ।
तदभाव इति ।

वेदनगोचरे छाया अभाव इत्यर्थः ।
विविदिषार्थं यज्ञाद्यनुष्ठातुरस्त्येव वेदनगोचरेछा न चैतावता तदनुष्ठान वैयर्थ्यं विविदिषाया द्वैविध्योपपतेः ।
तथा हि वेदनेछा द्विविधा विद्याया मौन्मुख्यलक्षणा रुचिलक्षणा च तत्राद्या यज्ञाद्यनुष्ठानात्प्रागपि वेदनेपि वर्तत इति तामादाय वेदनसाधनभूतायां विविदिषायां कामना सम्भवतीति विदिषार्थं यज्ञाद्यनुष्ठानमुपपन्नं द्वितीया तु यज्ञादि फलभूता तदनुष्ठानानन्तरभाविनीति युक्त एव विविदिषायां यज्ञादि विनियोग इति समाधानमभिप्रेत्याह ।
नेति वेदनेछायाः द्वैवित्प्रेयक्षाद्यनुष्ठानादौ च दृष्टान्तमाह ।
अन्न द्वेषेणेति ।
तत्परिहारायेति कार्श्यपरिहारायान्न भक्षणविषयकोत्कटेछाया सत्यासपीत्यर्थः ।

उत्सकेति अधिकेत्यर्थः धातुवैषम्यप्रयोजकात्यन्तानशनादि सङ्ग्रहार्थमादिपदं तत्रेति अन्नभक्षण इत्यर्थः ।
न जायत इति ।
एतच्चानुभवसिद्धमितिभावः ॥

निरतिशयानन्दरूपं ब्रह्म तत्प्राप्तौविद्यासाधनमित्यर्थे ।
प्राचीन बहुजन्मानुष्ठितानभिसंहितफलनित्यनैमितिक कर्मोपार्जितचितप्रसादमहिम्नासम्पन्नविश्वासस्य पुरुषस्य ब्रह्मावाप्तौ विद्यायां च तदौत्कण्ठ्यलक्षणायामिछायां सत्यामप्यनादिभवसञ्चितानेक दुरित दोषेणास्तिक कामुकस्य हेयकर्मणीव विषयभोगे प्रावण्यं सम्पादयता प्रतिबन्धाद्विद्यासाधने श्रवणादौ प्रवृतिपर्यन्ता रुचिनं जायत इति प्रतिबन्धनिरासपूर्वं तत्सम्पादक यज्ञादि विधानोपपतेरिति ।
विवरणानुसारिणस्त्वाहुः ।
प्रकृति प्रत्ययार्थयोः प्रत्ययार्थस्य प्राधान्यमिति सामान्यन्यायात् ॥

अधीत साङ्ग स्वाध्यायः पुरुषो वेदातैः ब्राह्मणो निरतिशयानन्दरूपत्वं विद्यायां तत्प्राप्ति साधनत्वं च ज्ञात्वा तस्मिन्नर्थे सम्पन्नविश्वासो भवतीत्ययुक्तम् ।
तथा विधानामपि

पुरुषाणां बहूनां तस्मिन् नर्थे विश्वाससम्पतेरदर्शनादित्याशङ्क्याह ।
प्राचीनेति ।
प्राचीनेषु बहुषु जन्मस्वनुष्टितानि फलाभिसन्धिरहितानि च यानि नित्यनैमितिकानि कर्माणि तैरुपसञ्जातौपश्चितप्रसादः शुद्धिविशेषस्तस्य महिम्नेत्यर्थः ।
तथा च स्मृतिः ।
मनुष्याणां सहस्रेषु कश्चिद्यतति सिधय इति ।
कश्चिदिति ।
उक्तचितप्रसाद वा नित्यर्थः ।
सिद्धये विद्यालाभायन सर्व इति भावः ।
ननु ब्रह्मप्राप्ति तत् साधनविद्यागोचरोत्कटेछायां सत्यां तत्साधनश्रवणादौ प्रवृतिपर्यन्ता रुचिर्न वेदेवेति कृतं तस्य यज्ञाद्यनुष्ठानेन तत्राह ।
अनादीति ।
दुरित दोषेण प्रतिबन्धात् रुचिनं जायत इति सम्बन्धः ।
ननु पूर्वोक्त चितप्रसादमहिम्ना ब्रह्मविद्यादौ सम्पन्नविश्वासस्यास्तिकतमस्यानर्थ बहले विषयभोगे प्रावण्यं कथं सम्भवतीत्याशाङ्क्यानुभवसिद्ध दृष्टान्तेन तत्सम्भावयति ।
आस्निक कामुकस्येति ।
विहितानुष्टानादं वश्यं श्रेयो भवति निषिद्धकरणादितश्चावश्यं महाननर्थो भवति ।
शास्त्रप्रामाण्यादिति निश्चय वा नास्तिकः ।
तस्यापि कस्यचित् कामोद्रेको निन्दिता गम्यागमनादौ प्रावण्यं च यथा पाप विशेषात् सम्भवति तथा यथोक्तमुमुक्षोरपीत्यर्थः ।
प्रतिबन्धेति ।
अनादिभवसञ्चितानेक दुरित दोषकृत प्रतिबन्धेत्यर्थः ।
तत्सम्पादकेति ।
विविदिषाशदिताया श्रवणादौ प्रवृतिपर्यन्तारुचिः तत्सम्पादकेत्यर्थः ।
क्व तर्हि कर्मणामुपयोग इत्यत्र प्रश्रे विद्यायां विनियोग इति प्रतिवचनान्तरमवतारयति ।

विवरणेति पूर्वत्र यज्ञादीनां तृतीया श्रुत्यासाधनत्वेनावगतानां साध्याकाङ्क्षायां विविदिषैव साध्यत्वेनान्वेति ।
तस्याः शब्दतः प्रधान त्वात् शब्दतः प्रधानस्यैव पदार्थस्य राजपुरुषमानयेत् पादौ सर्वत्रसमभिव्याहृतपदार्थान्तरेणान्वयस्य व्युत्पति सिद्धत्वादित्याशयेन यज्ञादीनां विविदिषायां विनियोगदुक्तः ।
तत्रास्वरसन्दर्शयत् विद्यायां तेषां विनियोगमुपपादयति ।
प्रकृतीति ।
प्रकृति प्रत्ययार्थयोर्वेदन तदिछयोर्मध्ये प्रत्ययार्थस्य विविदिषा लक्षणस्य प्रत्ययार्थत्वाछब्दतः प्राधान्यम् ।
ततश्च विविदिषाया एव यज्ञादिफलत्वेनान्वय इत्यत्र हेतु भूतो यः सामान्य न्यायो राजपुरुषमानयेत्पादौ प्रसिद्धः शब्दतः प्रधानस्यैव समभिव्याहृतक्रियाकारकान्वय इत्येवं रूपः तस्मादित्यर्थः ।
विधिप्रत्ययेनेष्टसाधनत्वेनावगतयागादेरिष्टविशेषा काङ्क्षायां सत्यां शब्दतः प्राधान्याभावेपि स्वर्गस्य फलत्वेनान्वयः कॢप्त इत्यर्थः ॥

इछाविषयतया शब्दबोध्य एव शाब्दसाधनतान्वय इति स्वर्ग कामादि वाक्ये कॢप्त विशेष न्यायस्य वलीयस्त्वादश्वेन जिगमिषति असिनाजिघांसुतीत्यादि लौकिक प्रयोगेऽश्वादिरूपसाधनस्य तदन्वेष्टव्यन्तद्वावविजिज्ञासितव्यं निदिध्यासितव्य इत्यादि वै

दिकप्रयोगे तव्यार्थ भूतविधेश्च सन्प्रत्ययाभिहितेछाविषय एव गमनादावन्वयस्य व्युत्पन्नत्वाच्च प्रकृत्यभिहितायां विद्यायां यज्ञादीनां विनियोगः ।
ननु तथा सति यावद् विद्योदयं कर्मानुष्ठानापतेस्त्यजतैव हितकर्षणाज्ञेयमित्यादि श्रुतिसिद्धकर्मत्यागरूपस्य सन्न्यासस्य विद्यार्थत्वं पीड्येतेति चेन्न प्रागबीजा वा पात्कर्षणं तदनन्तरमकर्षणमिति कर्षणाभ्यां ब्रीह्यादि निष्पति वदारुरुक्षोर्मुनेर्योगं कर्मकारणमुच्यते ।
योगारूढस्य तस्यैव शमः कारणमुच्यतेत्यादिवचनानुसारेण चेतसः शुद्धौ विविदिषादिरूपप्रत्यक्प्रावण्योदयपर्यन्तं कर्मानुष्ठानं ततः सन्न्यास इति कर्म तत्सन्यासाभ्यां विद्या निष्पत्युपगमात् ॥

शाब्दप्राधान्याभवाविशेषे कामनाया एवयादि फलत्वेनान्वयः कुतो न कल्पितस्तत्राह ।
इछारिषपतयेति ।
इछाविषयत्वस्य फलत्व व्यञ्जक त्वात् ।
पुरुषार्थत्वेन प्रतीतस्य स्वर्गस्यैव फलत्वं न कामनाया इत्यर्थः ।
ननु कामनाविषयत्वस्य मुक्ति साधारण त्वात सैव यागादिफलं

कस्मान्न कल्प्यते तत्राह ।
शब्दबोध्य इति ।
शाब्दी ह्याकाङ्क्षाशब्देनैव पूर्वत इति न्यायात्नाति प्रसङ्गः ।
तथा च इछेष्यमाण समभि व्याहारे इष्यमाणस्यै च प्राधान्यं न त्विछाया इति विशेषन्यायेन उक्त सामान्यन्याय बाधस्य कामोपबन्धवाक्येषु कॢप्तत्वाद्विविदिषन्तीत्यत्रापि प्रत्ययार्थत्वप्रयुक्तं विविदिषाया शब्दप्राधान्यं त्यक्ता वेदनप्राधान्यमेवादरणीयमित्यर्थः ।
इछावाचिसन्प्रत्यय समभिव्याहृतेष्वेव लौकिक वैदिक प्रयोगेषु प्रत्ययार्थतया प्रधानामपीछामुल्लङ्घ्य तद्विषयेस्वेव समभिव्याहतपदार्थान्तरान्वय दर्शनाच्चेत्याह ।
अश्वेनेति ।
तदन्वेष्टव्यमिति ।
तद्दहराकाशाख्यं ब्रह्मविचार्यमित्यर्थः ।
विजिज्ञासितव्यमिति ।
तदेव ब्रह्मध्यातव्यमित्यर्थः ।
निदिध्यासितव्य इति ।
आत्माध्यातव्य इत्यर्थः ।
ननूदाहृतप्रयोगेषु इछाया अश्वादिसाधनाद्यन्वयायोगात्वा तस्याः परित्याग इति चेतर्हि प्रकृतेपि वेदनेछायाः तदतयोगात्वात् ।
ब्रह्मवेदनस्य च ब्रह्मानन्दसाक्षात्काररूपतया फलत्वनान्वेतुं योग्यत्वाद्वेदन एव यज्ञाद्यन्वयो न विविदिषायामिति तुल्यमितिभावः ।
विद्याविनियोगपक्षे विध्यन्तरविरोधं शङ्कते ।
न त्विति ।
कर्माणित्यजतैवमुमुक्षुणात्यक्तुः स्वस्य प्रत्यगात्मस्वरूपं पदं ब्रह्मसाक्षात्कर्तव्यं नत्वत्यजतेति श्रुत्यर्थः ।
अथ परिव्राडित्युपक्रम्य ब्रह्मभूयायकल्पत इत्यन्तेन श्रुत्यन्तरेणापि परिव्राट् शब्दोपातसन्न्यासस्य ब्रह्मभूयशब्दित ब्रह्मसाक्षात्कार हेतुत्वमुक्तम् ।
एवं श्रुत्यन्तरेष्वित्यभिप्रेत्यादि पदं

द्रष्टव्यम् ।
विविदिषावाक्यसन्न्यासविध्योरविरोधं सदृष्टान्तं सप्रमाणं च दर्शयति ।
न प्रागिति ।
वचने कारणपदद्वयं कर्तव्यार्थकं शमः सन्न्यासः चित्तशुद्धिविविदिषादिरूपप्रत्यक्प्रावण्येत्ये तद्गीतावचनगतयोगपदव्याख्यानमितिबोध्यम् ॥

उक्तं हि नैष्कर्मसिद्धौ ।
प्रत्यक् प्रवणतां बुद्धेः कर्माण्यापाद्यथुद्धितः कृतार्थान्यस्तमायान्ति प्रावृडन्ते घना इवेति ।
कर्मणां विद्यार्थत्वपक्षेपि विविदिषापर्यन्तमेव कर्मानुष्ठाने विविदिषार्थत्वपक्षात्को भेद इति चेत् ।
अयं भेदः कर्म्मणां विद्यार्थत्वपक्षे द्वारभूतविविदिषा सिद्ध्यनन्तरमुपरतावपि फलपर्यन्तानि विशिष्टगुरुलाभात्निर्विघ्नश्रवणमनननिदिध्यासनसाधनानि निवृति प्रमुखानि सम्पाद्यविद्योत्पादकत्वनियमोस्ति विविदिषार्थत्व पक्षे तु श्रवणादिप्रवृतिजननसमर्थोत्कटेछा सम्पादनमात्रेण कृतार्थतेति नावश्यं विद्योत्पादकत्वनियमः यस्यैतेष्टाचत्वारिंशत्संस्कारा इति स्मृति मूले कर्मणामात्मज्ञानयोग्यतापादकमलापकर्षणगुणाधान

लक्षणसंस्कारार्थत्वपक्ष इवेति वदन्ति ॥

रागादिराहित्यरूप चितशुद्धिविविदिषा वैराग्यगुरुदेवतादि भक्तिलक्षणप्रत्यक् प्रावण्यजन्मपर्यन्तं कर्मानुष्ठानमित्यत्र सुरेश्वराचार्य सम्मतिमाह ।
उक्तं हीति शुद्धित इति ।
शुद्धिद्वारेत्यर्थः ।
अस्तमायान्तीतित्यागमायान्ति त्यक्तव्यान्येव भवन्ति ।
कृतप्रयोजनत्वादित्यर्थः ।
कृतप्रयोजनानां निवृतौ दृष्टान्तमाह ।
प्रावृडन्त इति वर्षाकालावसान इत्यर्थः ।
विविदिषायां विनियोगपक्षे विविदिषोदय पर्यन्तमेव यज्ञाद्यनुष्ठानमित्य विवादं विद्यायां विनियोगपक्षेप्येवं चेत्कस्तयोर्भेद इति शङ्कते ।
कर्मणामिति ।
अनुष्ठाने विशेषाभावेपि फलतो विषोस्तीत्याह ।
अयं भेद इति ।
वक्ष्यमाण इत्यर्थः ।
उपरताविति त्यागेपीत्यर्थः ।
अदृष्टद्वारेति शेषः विविदिषाविनियोगपक्षे हि यज्ञादिकर्मजनितादृष्टं श्रवणादिषु प्रवृतिपर्यन्तां विविदिषा शब्दितां रुचिमुत्पाद्व्य नश्यति ।
फलैक्य नाश्यत्वाददृष्टस्य विविदिषोत्यत्यनन्तरं च श्रवणादि प्रतिबन्धक दुरिताभावे सति विविदिषावलादेव श्रवणादिकं सम्पाद्यविद्यां लभते ।
श्रवणादि प्रतिबन्धक दुरित सत्वे तु तत्सत्वं यत्ने कृतेपि श्रवणाद्यलाभेन निश्चित्य तन्निवृत्युपायमनुतिष्ठति प्रायेण तन्निवर्तकोपायाननुष्ठाने वा तदनुष्ठानस्यापि विघ्नबाहुल्ये वा श्रवणाद्यसम्भवात् न ज्ञानोदयः ।
यथा औषधवीर्येणात् न भक्षणे रुच्युत्पतौ सत्यामपि अप्रतिबन्धेनावलाभे

तद्भक्षणेन कार्श्य निवृतिं लभते तदलाभे तु तल्लाभाय स पतते यत्ने कृतेपि यद्यत्नं न लभते तदानुकार्श्यनिवृतिं लभते एवमिहापीत्यभिप्रेत्याह ।
नावश्यमिति ।
विविदिषा विनियोगपक्षस्य संस्कारे कर्मणां विनियोगपक्षं दृष्टान्तयति ।
यस्यैति इति ।
यस्य पुरुषस्य एते श्रौतस्मार्तधर्मा अष्टाचत्वारिंशत्सङ्ख्याकाः संस्काराः सन्ति शमादि सम्पतिश्च वर्तते ।
तस्य कर्मभिः संस्कृतस्य विद्याधिकारिणः श्रवणादि सम्पत्यां तत्वज्ञानद्वारा परब्रह्मप्राप्तिर्भवति ।
तदसम्पतौ च पुण्यलोकावाप्तिरिति कर्मणां संस्कारकत्वपक्षे यथा ज्ञानोत्पादकत्वनियमो नास्ति संस्कारजननमात्रेण सम् ॥

ननु केषां कर्मणामयमुदाहृत शुत्या विनियोगो बोध्यते ।
अत्र कैश्चिदुक्तं वेदानुवचनेनेति ।
ब्रह्मचारिधर्माणां यज्ञेन दानेनेति ग्रहस्थधर्माणां तपसा नाशकेनेति वानप्रस्थधर्माणां चोपलक्षणमित्याश्रमधर्माणामेव विद्योपयोगः ।
अत एव विहितत्वाच्च श्रमकर्मापीति शारीरकसूत्रे विद्यार्थकर्मस्वाश्रमकर्मपदप्रयोग इति कल्पतरौ तु नाश्रमधर्माणामेव विद्योपयोगः ॥

चरितार्थानां कर्मणां विद्योत्पतिपर्यन्त व्यापारा भावात्

तथा तेषां विविदिषार्थत्वपक्षेपीत्यर्थः ।
आत्मज्ञानयोग्यता कार्यकारणसङ्घातनिष्ठा तदा पादकौ यौमलापकर्षणगुणाधानलक्षणौ संस्कारौ तदर्थत्वपक्ष इत्यर्थः ।
कर्मणां विविदिशार्थत्वपक्षे संस्कारार्थत्वपक्षे च ज्ञानोत्पत्यनियमे समानेपि विविदिषार्थत्वपक्षे प्रायिकी ज्ञानोत्पतिः तीव्रवुभुक्षाया इव दृढ विविदिषायाः सर्वप्रयत्नेन विद्यासम्पादनसमर्थत्वात् ।
संस्कारार्थत्वपक्षे तु ब्रह्मज्ञानयोग्यतामात्र सिद्धावपि विविदिषाया अप्यनियतत्वेन विद्योत्पतिः प्रायिक्यपि न भवतीति विविदिषासंस्कारार्थत्वपक्षयोरपि भेद ऊहनीय इति भावः ।
केषामिति ।
किमाश्रमकर्मणामेव किं वाऽन्येषामपीत्यर्थः ।
नन्वाश्रमधर्माणामपि सर्वेषां विविदिषा वाक्ये श्रवणाभावात् तेषामपि न सर्वेषां विनियोगो लभ्यते तत्राह ।
वेदानुवचनेनेति ।
वेदस्य गुरुवचनमनुशिष्यस्य वचनं वेदानुवचनं वेदाध्ययनं तच्च ब्रह्मचारिधर्माणां मध्ये प्रधानं तेन तद्धर्माः सर्वे गृह्यन्त इत्यर्थः ।
एवमुत्तरत्रापि प्राधान्यं द्रष्टव्यं तपः कृछ्रचान्द्रायणादिरूपं वानप्रस्था साधारणमिह तपः शब्दरूढ्याभातीतिभावः ।
अनाश्रितः कर्मफलं कार्यं कर्मकरोति यः ।
इत्यादि स्मृतिषु नित्याश्रमिणां कार्यं कर्तव्यं यद्यत्कर्मास्ति तत्सर्वं फलाभि सन्धिन्त्यक्ता यः करोति स योगपदोदितं पूर्वोक्त चितशुद्धि विविदिषारूपं प्रत्यक् प्रावण्यं लभत इति प्रतिपादना तन्मूलभूते विविदिषा वाक्येपि सर्वेषामाश्रमकर्मणामुपलक्षणं युक्तमिति मन्तव्यम् आश्रमकर्मणामेव

विनियोग इत्यत्र सौत्रलिङ्गमाह ।
अत एवेति आश्रमकर्मणामेव विनियोगाभ्युपगमादेवेत्यर्थः ।
आश्रमकर्मणां विविदिषावाक्येन विद्यादौ विनियुक्तत्वा तत्कामनारहिते नाश्रमिणा स्वाश्रमविहितं कर्मनानुष्ठेयमिति शङ्कायामुतरं सूत्रे तेनापि कर्तव्यमेव तं प्रतिविहितत्वादन्यथा प्रत्यवाय प्रसङ्गादिति सूत्रार्थो बोध्यः ।
अन्येषामपि विनियोग इति पक्षं नित्यकर्ममात्रविषयतया प्रथमं दर्शयति ।
कल्पतरौ त्विति ।
कल्पतरावुक्तमिति सम्बन्धः ।
आश्रमधर्मव्यतिरिक्तानामप्यस्ति विद्योपयोग इति कल्पतरुकारमतमयुक्तं सूत्रे विद्यार्थकर्मस्वाश्रमकर्मथदप्रयोगविरोधान्न च सौत्राश्रमकर्मपदस्य वर्णधर्मेष्वप्यजहदल्लक्षणोपपतेर्न तद्विरोध इति वाच्यम् ।
लक्षणायामेव प्रमाणाभावादित्याशङ्क्य तत्र नियामकं दर्शयति ।
नाश्रमधर्माणामेव विद्योपयोग इति ॥

अन्तरा चापि तु तद्दृष्टेरित्यधिकरणे आश्रम रहित विधुराद्यनुष्ठितकर्मणामपि विद्योपयोगनिरूपणात् ।
न च विधुरादीनामनाश्रमिणां प्राग्जन्माद्यनुष्ठित यज्ञाद्युत्पादित विविदिषाणां विद्यासाधनश्रवणादावधिकारनिरूपणमात्रपरं तदधिकरणं न तु तदनुष्ठित कर्मणां विद्योपयोग निरूपणपरमिति शङ्क्यम् ॥

आश्रमधर्मव्यतिरिक्तानां वर्णधर्माणामप्यस्ति विद्योपयोग इत्येव कारार्थे हेतुमाह ।
अन्तरा चापि त्विति ।
विद्यां प्रतिबहिरङ्गसाधनेषु कर्म स्वन्तरङ्ग साधनेषु श्रवणादिषु चानाश्रमिणामधिकारोस्ति न वेति सन्देहे सति नास्त्यधिकार इति पूर्वपक्षः आश्रमकर्मणामेव विद्यायां विनियुक्तत्वातेषामाश्रमकर्मा भावात् ।
साधन चतुष्टय सम्पन्नस्यैव श्रवणादिष्वधिकाराच्च अनाश्रमिणां च साधन चतुष्टयान्तर्गतस्य उपरति शब्दितसन्न्यासस्याभावे न तत्स्वम्पत्यभावादिति ।
सिद्धान्तस्त सूत्रे तु शब्दः पूर्वपक्षव्यावृत्यर्थः ।
अन्तराशब्दः आश्रमाणामन्तरालमनाश्रमित्वमाह ।
तथा चानाश्रमित्वे वर्तमानोपि पुरुषः श्रवणादिषु विद्यार्थ कर्मसु चाधिक्रियते कुतः श्रुतिस्मृतिषुरैक्व वा चक्रवी प्रभृतीनामनाश्रमिणामपि विद्यावत्वोपलब्धेः परित्राजकस्य श्रवणादिषु मुख्याधिकारेपि ग्रहस्थादीनामिव अनाश्रमिणामपि गौणाधिकारोपपतेः ।
तथा च तदधिकरणे भाष्यं दृष्टार्था च विद्या प्रतिषेधा भावमात्रेणार्थिनममधिकरोति ।
श्रवणादिति ।
अविद्यानिवृतिः विद्यायाः दृष्टं फलम् अर्थिनमविद्यानिवर्तकसाक्षात्कारार्थिनमधिकारित्वेन स्वीकरोति शूद्रस्येव वेदान्त श्रवणादिष्वनाश्रमिणां प्रतिषेधा भावात् ।
गौणाधिकारे सन्न्यासापेक्षा नास्तीति मत्वामात्र पदमिति भाष्यार्थः ।

अन्तरा चापि त्वित्यधिकरणमनाश्रमिणां श्रवणाद्यधिकारमात्रनिरूपण परं न त्वनाश्रमिकर्मणामपि विद्योपयोगनिरूपणपरं तथा च सौत्राश्रमकर्मपदस्य वर्णधर्मोपलक्षणत्वं न सिध्यतीति मत्वा शङ्कते ।
न च विधुरादीनामिति ।
ननु तेषां विद्यार्थकर्माभावे विविदिषोदया सम्भवादनाश्रमिणां श्रवणाधिकारनिरूपणमयुक्तमित्याशङ्क्याह ।
प्राग्जन्मेति ।
अनाश्रमिणोपि ये जन्मान्तरीयाश्रमकर्मानुष्ठान जनित विविदिषावन्तः सन्न्यासहेतु तीव्रवैराग्या भावात् मुख्याधिकारात् प्रच्युताश्च तेषां श्रवणाधिकार निरूपण परं तदधिकरणं न त्वनाश्रमिमात्रविषयम् अविविदिषूणां श्रवणादौ प्रवृत्यसम्भवादेवेत्यर्थः ।
इति न च शङ्क्यमिति सम्बन्धः ॥

विशेषानुग्रहश्चेति तदधिकरणसूत्र तद्भाष्ययोः तदनुष्ठितानां जपादिरूपवर्णमात्रधर्माणामपि विद्योपयोगस्य कण्ठोक्तेर्विहितत्वाच्चाश्रमकर्मापीति सूत्रे आश्रमकर्मपदस्य वर्णधर्माणामप्युपलक्षणत्वादित्यभिसन्धायोक्त- माश्रर्मधर्माति रिक्तानामप्यस्ति विद्योपयोगः ।
किन्तु नित्यानामेव तेषां हि फलं दुरितक्षयं विद्यापेक्षते ।

न काम्यानां फलं स्वर्गादि ॥

ननु अन्तराचापि त्विति सूत्रे विद्यार्थकर्मसु विधुरादी नामधिकारे श्रुत्यादिष्वनाश्रमिणां रैक्व वा चक्रवी प्रभृतीनां विद्यावत्वदर्शने हेतुत्वेनोक्तं तदयुक्तं रैक्व वा चक्रवी विदुर प्रभृतीनां जन्मान्तरीय विद्यासाधनानुष्ठान वलादैव विद्याजातेति शङ्का सम्भवादतोऽनाश्रमिकर्मणां विद्योपयोग इत्यत्र तेषां विद्यावत्वदर्शनमन्यथा सिद्धं लिङ्गं न भवतीत्य स्वरसादनन्यथा सिद्धं हेतुमन्यमभिप्रेत्योक्तम् ।
विशेषानुग्रहश्चेति विशेषैः धर्मविशेषैः जपादिलक्षणैः ब्राह्मणत्वादि वर्णमात्रसम्बन्धिभिरपि वितशुद्धि विविदिषादि द्वारा आश्रमधर्मैरिव विद्याया अनुग्रहः उपकारः सम्भवत्येव कुतः जप्येनैव तु संसिध्येत् ब्राह्मणो नात्रसंशयः गङ्गायां स्नानमात्रेण मुच्यते नात्रसंशयः ।
यस्य स्मरणमात्रेणेत्यादि वचनैः जपतीर्थस्नान देवताध्यानादि धर्माणां शुद्ध्यादिद्वाराविद्यासाधनत्वस्य प्रतिपादनादिति सूत्रार्थः ।
तदनुष्ठितानामिति ।
अनाश्रमिणः तछब्दार्थाः एवमनाश्रमधर्माणामपि सूत्रकारेणैव स्पष्टं विद्योपयोगस्य साधितत्वात्तदविरोधाय सौत्रमाश्रमकर्मपदं वर्णधर्माणामप्युपलक्षकं वाच्यमित्याशयेनाह ।
सूत्र इति ।
एवं कल्पतरु काराणामभिप्रायमुपवर्ण्य तन्मतमुपपादयति ।
आश्रमधर्मेत्यादिना ।
ननु यज्ञादीनां विनियोगः कल्प्यमानः

किं काम्यसाधारणः कल्प्यते किं वा नित्यानामेव नाद्यः काम्यकर्मफलस्य स्वर्गादेर्विद्ययानपेक्षितत्वेन तेषां विद्योपकारकत्वा सम्भवात् ।
न द्वितीयः नित्यकर्मफलस्य दुरितक्षयस्यापि प्रमाणसाध्य विद्यापेक्षितत्वे मानाभावेन तेषामपि विद्याविनियोगानुपपतेरिति ।
शङ्कते ।
किं त्विति समाधते ।
नित्यानामेवेति ज्ञानमुत्पद्यते पुंसां क्षपात्पापस्य कर्मणः इत्यादि वचनं नित्यकर्मफलस्य दुरितक्षयस्य विद्यया अपेक्षितत्वे प्रमाणत्वेन सूचयति हीति ।
प्रमाणजन्यायामपि विद्यायां दुरितस्य प्रतिबन्धकत्वसम्भवात् दुरितक्षपापेक्षायुक्तेतिभावः ।
काम्यकर्मणां विद्यानुपकारकत्वमङ्गीकरोति ।
नेति ।
न च काम्यानां नित्यानामिव दुरितक्षयफलकत्वमप्यस्तु तथा च तेषामपि विद्यापेक्षित दुरितक्षयलक्षणोपकारजनकत्वं सम्भवतीति वाच्यम् ।
तेषां दुरितक्षयफलकत्वे मानाभावेन विद्योपकारकत्व स्या कॢप्तत्वादितिभावः ॥

तत्र यथा प्रकृतौ कॢप्तोपकाराणामङ्गानामति देशे सति न प्रकृतोपकारातिरिक्तोपकारकल्पनमेवं ज्ञाने विनियुक्तानां यज्ञादीनां कॢप्तनित्यफल पापक्षयातिरेकेण न नित्यकाम्यसाधारणविद्योपयोग्युपकारकल्पन निमिति सङ्क्षेपशारीरके

तु नित्यानां काम्यानां च कर्मणां विनियोग उक्तः यज्ञादिशब्दाविशेषात् ।
प्रकृतौ कॢप्तोपकाराणां पदार्थानां कॢप्तप्राकृतोपकाराति देशमुखेनैव विकृतिष्वति देशेन सम्बन्धो न तु पदार्थानामति देशानन्तरमुपकारकल्पनेति न तत्र प्राकृतोपकारातिरिक्तोपकारकल्पना प्रसक्तिः ।
इह तु प्रत्यक्षश्रुत्या प्रथममेव विनियुक्तानां यज्ञादीनामुपदिष्टानामिव पश्चात् कल्पनीय उपकारः प्रथमावगत विनियोग निर्वाहाया कॢप्तोपि सामान्यशब्दोपात सकलनित्यकाम्यसाधारणः कथं न कल्प्यः ॥

कर्मणां विद्यायां विनियोग विधेः कॢप्तोपकारैः नित्यकर्मभिरेव चारितार्थ्ये दृष्टान्तमाह ।
तत्र यथेति ।
यद्वा काम्यानां पापक्षयफलकत्वस्यान्यतः ।
प्राप्त्यभावेपि यज्ञादीनां विनियोग बलादेव तेषां तत्कल्प्यतामिति नेत्याह ।
तत्रेति ।
काम्यकर्मणाविद्यापेक्षितोपकार हेतुत्वा कॢप्तौ सत्वामित्यर्थः ।
न नित्यन्ति ।
गौरवादितिभावः ।
आश्रमकर्मव्यतिरिक्तानामपि विनियोग इति पक्षं काम्यसाधारणं दर्शयति ।
सङ्क्षेपेति अविशेषादिति ।
यज्ञादिशब्दानां नित्ययज्ञादिष्विवकाम्य

यज्ञादिष्वपि रूढत्वाविशेषात् ।
नित्यानामिव काम्यानामपि विनियोगः ।
श्रुत्वाभातीति तत्साधारण एव कर्मणामुपकारः कल्प्यत इत्यर्थः ।
काम्यसाधारण्येन विद्योपयोग्युपकार कल्पनं न सम्भवति तत्कल्पने पूर्वतन्त्र न्यायविरोधादिति मत्वा विकृतिष्वति दिष्टान्यङ्गानि दृष्टान्तत्वेन कल्पतरावुदाहृतानि न तानि यज्ञादीनां दृष्टान्तत्वेनोदाहरणे योग्यानीत्याह ।
प्रकृताविति ।
दर्शपूर्णमासादिषु प्रकृतियागादिषु यः पदार्थानां कॢप्त उपकारः ।
तस्य प्रथममति देशः तत्पृष्ठभावेन पदार्थानां विकृतिषु सौर्य पशुयागादिष्वति देशः न तु प्राकृतपदार्थानाम् अतिदेशेन विकृतिषु विनियोगानन्तरं पदार्थानामुपकारकल्पनमिति न तत्र कॢप्तोपकारपरित्यागेनोपकारान्तरप्रसक्तिरस्तीत्यर्थः ।
एतदुक्तं भवति प्रकृते यज्ञादीनां विनियोगानन्तरम् उपकारकल्पनमति देशस्थले तु उपकृतावुपकारकल्पनानन्तरं प्राकृतपदार्थानां विकृतिषु विनियोगः ।
ततो दृष्टान्तो विषम इति ।
इह त्विति ।
दार्ष्टान्तिक इत्यर्थः ।
प्रकृतानुगुणं दृष्टान्तमाह ।
उपदिष्टानामिति ।
दर्शपुमासादिप्रकरणेष्वन्यत्र वा श्रुतानां पदार्थानां श्रुतिलिङ्गादिभिः दर्शपूर्णमासादिषु विनियुक्तानां प्रथमावगतविनियोगनिर्वाहाय यथा योग्यं दृष्टादृष्टलक्षण उपकारः कल्प्यते यथा तथा उपकारोन्नापि कल्प्य

एव न तु प्रथमावगत विनियोगपरित्याग उचितः यज्ञाद्यविशेषश्रुति वाध प्रसङ्गादित्यर्थः ।
सामान्यशब्देति ।
नित्यकाम्य साधारण यज्ञादि शब्देत्यर्थः ॥

अध्वरेष्वरमीमांसकैरपि ह्युपकारमुखेन पदार्थान्वय एव कॢप्तोपकारनियमः पदार्थान्वयानन्तरमुपकारकल्पने त्वकॢप्तोपि विनियुक्तपदार्थानुगुण एवोपकारः कल्पनीय इति सम्प्रतिपद्यैव वाधलक्षणारम्भ सिद्ध्यर्थमुपकारमुखो विकृतिषु प्राकृतान्वयोदशमाद्ये समर्थितः ॥

यथा कॢप्तोपकारातिरिक्तोपकाराकल्पनं कल्पतरुकारोक्तं मिमांसक सम्मतं तथा प्रथमावगत विनियोगानुसारेणाकॢप्तोपकारकल्पनमपि मीमांसक सम्मतमेवेत्याह ।
अध्वरेष्विति कर्ममीमांसकैरपीत्यर्थः ।

अध्वरमीमांशकैरपि सम्प्रतिपद्यैव प्राकृतान्वयः समर्थित इति सम्बन्धः ।
पदार्थान्वय एवेति ।
पदार्थान्वयस्थल एवेत्यर्थः ।
कॢप्तोपकार नियमः कॢप्तोपकारातिरिक्तोपकाराकल्पनमित्यर्थः ।
एवकार व्यावर्त्यमाह ।
पदार्थान्वयानन्तरमिति ।
उपकारकल्पनस्थले त्वित्यर्थः ।
सम्प्रतिपद्यैवेति स्वीकृत्यैवेत्यर्थः ।
वाधलक्षणेति वाधाध्यायारम्भ सिध्यर्थमित्यर्थः ।
प्राकृतान्वय

इति प्रकृति यागादौ शेषभूताये पदार्थाः ।
तेषां विकृति यागादिष्वति देशेन प्राप्तिरित्यर्थः ।
एतदुक्तं भवति पूर्वतन्त्रे दशमाध्याये विकृतावति दिष्टानामङ्गानां प्रकृतौ कॢप्तस्योपकारस्यासम्भवे वाधो निरूप्यते तच्च वाधनिरूपणं विकृतिष्वति देशेन पदार्थप्राम्यनन्तरमुपकारकल्पनपक्ष्ये न सिध्यति प्रकृतौ श्रुत्यादिभिर्विनियुक्तपदार्थानां दृष्टोपकारासम्भवे अदृष्टोपकारकल्पनवत् ।
विकृतिष्वति देशेन विनियुक्तानां पदार्थानां दृष्टोपकारासम्भवे अदृष्टोपकारकल्पनया तत्सिध्यर्थं सर्वंषामेवाङ्गानामनुष्ठानावश्यम्भावेन केषाञ्चिदङ्गानामननुष्ठान तदति देशाप्रामाण्यरूपबाधा सम्भवादतो बाधनिरूपणासिद्ध्यर्थं प्रकृति कॢप्तोपकारमुखेनैव प्राकृतानामन्वयो विकृतिष्विति दशमाध्याय प्रथमाधिकरणे साधितं तथा च यत्र पदार्थानां विनियोगानन्तरमुपकारकल्पनं तत्र ततत्पदार्थं सामर्थ्यानुसारेण प्रथमावगत विनियोगनिर्वाहाया कॢप्तोपकारकल्पनं मीमांसक सम्मतमिति प्रतीयते ।
यदि विनियोगानन्तरमुकारकल्पनास्थलेपि कॢप्तोपकारासम्भवे विनियुक्तपदार्थपरित्याग एव न त्वकॢप्तोपकारकल्पनं तत्सम्मतं भवे तदा उपकारमुखेनैव पदार्थानामति देश इति निरूपणपरमधिकरणं व्यर्थं स्यात् ।
पदार्थानामेव श्रयणावचातादीनामति देशेन्स विनियोगेपि विकृति गत कृष्णलादिषु श्रयणादेर्विक्लिति तुष

विमोकरूपदृष्टोपकारस्य लोकसिद्धस्याभावादकॢप्तोपकारकल्पनानङ्गीकाराच्च श्रयणादेरननुष्ठानादिलक्षणबाधस्य दशमाध्याये निरूपणीयस्य सम्भवेन तदर्थमुपकारमुखेनैव पदार्थानामतिदेश इति निरूपणस्यानपेक्षितत्वात् ।
तस्माद्विविदिषावाक्येनाविशेषेण नित्यकाम्यसाधारणे विनियोगे प्रथममवगते सति तन्निर्वोहाया कॢत्प्तोपकारकल्पनं युक्तमेवेति ॥

किं च कॢप्तोपकारालाभान्नित्यानामेवायं विनियोग इत्यभ्युपगमे नित्येभ्योदुरितक्षयस्य तस्माद्वज्ञानोत्पतेरन्यत सिद्धौ व्यर्थोयं विनियोगः ।
अन्यतस्तदसिद्धौ ज्ञानापेक्षितोपकारजनकत्वं नित्येषु न कॢप्तमित्यविशेषान्नित्यकाम्यसाधारणविनियोगो दुर्वारः ।
ननु नित्यानां दुरितक्षयमात्र हेतुत्व स्यान्यतः सिद्धावपि विशिष्यज्ञानोत्पति प्रतिबन्धक दुरित निवर्हकत्वं न सिद्धम् ।
किं तु अस्मिन् विनियोगे सति ज्ञानोद्देशेन नित्यान्यनुतिष्ठतो वश्यं ज्ञानं भवति ।
इतरथा शुद्धिमात्रमनियता ज्ञानोत्पतिरिति सार्थकोयं विनियोग इति चेत् ।
तर्हि नित्यानामप्यकॢप्तमेव

नियमतोज्ञानोत्पति प्रतिबन्धक दुरित निवर्हणत्वम् ॥

वस्तुतस्तु नित्यकर्मस्वपि विद्यापेक्षितोपकारजनकत्व कॢप्तिरसिद्धेत्याह ।
किं चेत्यादिना ।
अलाभादिति ।
काम्येष्विति शेषः नित्यानां विद्यापेक्षित दुरितक्षयलक्षणोपकार द्वाराविद्याहेतुत्वं विविदिषा वाक्यादन्यतः सिद्धमसिद्धं वा तत्र नाद्यः विविदिषा वाक्यवैपर्थ्यप्रसङ्गादित्याह ।
नित्येभ्य इति ।
विनियोग इति ।
शेषत्वरूपविनियोगबोधक शब्द इत्यर्थः ।
द्वितीये नित्येष्वपि विद्योपकारकत्वमकॢप्तमेव कल्पनीयमिति नित्यकाम्यसाधारणोपकारकल्पनं युक्तमेवेत्याह ।
अन्यतस्तद सिद्धाविति ।
नित्यानां विद्योपकारकत्वासिध्हावित्यर्थः ।
अन्यतः सिद्धिपक्षमवलंव्य विनियोगार्थवत्वं शङ्कते ।
नन्विति दुरितं तावत् द्विविधं ज्ञानोत्पति प्रतिबन्धकं ज्ञानोत्पतिं प्रत्युदासीनं सन् नरकादिप्रदं च तथा च नित्यानां ज्ञाने विनियोगाभावे नित्यकर्मभिज्ञानप्रतिबन्धक दुरितस्यैव क्षय इत्यत्रमानं नास्ति धर्मेण पापमपनुदति ।
यज्ञोदानं तपश्चैव पावनानि मनीषिणाम् इत्यादि श्रुतिस्मृति वचनानां नित्यानां दुरितसामान्यक्षय हेतुत्वबोधनमात्रपरत्वादतो नियमेन ज्ञानप्रतिबन्धक दुरितक्षय हेतुत्वं नित्यकर्मणामन्यतो न प्राममिति तत्प्राप्त्यर्थोयं विनियोग इत्यर्थः ॥

नित्यैरेव यज्ञादिभिर्दुरितक्षयद्वाराज्ञानं सम्पादयेदिति प्रकारेण विविदिषावाक्यीये नित्यानां ज्ञाने विनियोगे सति वा कथं ज्ञानप्रतिबन्धक दुरितस्यैव क्षयोनित्यानुष्ठानतो लभ्यत इति पृछति ।
किं त्विति ।
तल्लाभप्रकारमाह ।
अस्मिन्निति अवश्यमिति ।
नित्यानुष्ठानात् ज्ञानप्रतिबन्धक दुरित क्षपे सति प्रतिबन्धक रहित महावाक्यादवश्यं ज्ञानं भवतीत्यर्थः ।
इतरथेति एतद्विनियोगाभावे इत्यर्थः ।
दुरितसामान्यक्षयरूपाशुद्धिर्भवति न तु नियमेन ज्ञानप्रतिबन्धक दुरित क्षयरूपशुद्धिविशेषो भवति ।
ज्ञानो देशेन नित्यानामनुष्टानात् ।
तथा च बहुजन्मसु नित्यकर्मानुष्ठान शीलस्यापि नियमेन ज्ञानं न जायते किं तु दैव योगात् कदाचित् ज्ञानप्रतिबन्धक दुरित सङ्घस्य निःशेषं क्षयसम्भवात् ज्ञानमपि कदाचित् भवतीत्यनियताज्ञानोत्पतिरित्यर्थः ।
ज्ञानापेक्षितोपकारो नित्येषु कॢप्त इति मनं निरालम्बनमित्यभिप्रेत्यकाम्येष्विव नित्येष्वप्यकॢप्तोपकारकल्पनं तुल्यमिति दूषयति ।
तहीति नित्येषु ज्ञानोपकारकत्वनियमासिद्धावित्यर्थः ॥

ज्ञानसाधनविशिष्टगुरुलाभश्रवणमननादि सम्पादकापूर्वं च द्वारं कल्पनीयमित्यकॢप्तोपकारकल्पनाविशेषान्न सामान्य

श्रुत्या पादितो नित्यकाम्यसाधारणविनियोगो भञ्जनीय इति ।
नन्वेवमपि कथं कर्मणैव हि संसिद्धिमास्थिता जनकादय इत्यादिस्मरणनिर्वाहः ।
न च तस्य विद्यार्थकर्मनुष्ठान परत्वं विविदिषावाक्ये ब्राह्मण ग्रहणेन ब्राह्मणानामेव विद्यार्थकर्मण्यधिकार प्रतीतेः ।
अतो जनकाद्यनुष्ठित कर्मणां साक्षादेवमुक्त्युपयोगो वक्तव्यः मैवं विविदिषावाक्यै ब्राह्मण ग्रहणस्य त्रैवर्णिकोपलक्षणत्वात् ॥

नन्वेवमपि नित्यानामेव विनियोग पक्षे विधेर्लाघवमस्ति तेषां पक्षे ज्ञानप्रतिबन्धक दुरित निर्वहकत्वस्य वचनान्तरात् प्राप्तत्वेन नियममात्रविधिलभ्यत्वात् ।
काम्येषु तु ज्ञानप्रतिबन्धकदुरितनिवर्हकत्वं सर्वर्था न प्राप्तमिति काम्यानामपि विनियोगपक्षे विधेस्तात्पर्यगौरवमपरिहार्यमिति चेत् ।
सत्यं तथापि यज्ञादिश्रुतीनां सङ्कोचलक्षणबाधपरिहारायकाम्यानामपि विनियोग आवश्यक इत्यत्रैव तात्पर्य बोध्यं नित्येभ्यो ज्ञानप्रतिबन्धक दुरितस्यैव क्षयरूपशुद्धिविशेषलाभेपि तावन्मात्रात्न ज्ञानोत्पतिरस्ति प्रमाणप्रमेयासम्भावनादिरूपदृष्टप्रतिबन्धक सत्वादतः

तन्निरासोपयोगिनामुत्कृष्टगुरुतदधीनश्रवणमननध्यानादीनां सम्पादको दृष्टजनकत्वं नित्यानाम कॢप्तमेव विविदिषा वाक्यीय विनियोग बलात् कल्पनीयमित्याह ।
ज्ञानसाधनेति ।
एवं विविदिषाद्वाराविद्यायां कर्मणां विनियोगं निरूप्य तेषु त्रैवर्णिकानामधिकार इति निरूपणार्थमाक्षेप व्याजेन प्रसङ्गं दर्शयति ।
नन्वित्यादिना एवमपीति ।
तत्प्राप्तिहेतुर्विज्ञानं कर्मचोक्तं महामुन इति ज्ञानकर्मसमुच्चय प्रतिपादकस्मरणस्य विविदिषावाक्याविरोधेन ज्ञानं साक्षाद्ब्रह्मप्राप्तिसाधनं कर्म च विद्या द्वारातत्प्राप्ति साधनमिति क्रमसमुच्चय परतया निर्वाहैपीत्यर्थः ।
अत्रावधारणेन संसिद्धि शब्दितमुक्तिं प्रतिकर्मातिरिक्तोपायनिषेधात् ।
जनकाद्यनुष्ठित कर्मणां मुक्तिं प्रतिसाक्षादेवोपयोगः प्रतीयते ।
स च विविदिषावाक्यविरुद्ध इति समुच्चय स्मरणवदस्य स्मरणस्य निर्वाहो न सिध्यतीत्यर्थः ।
अस्यापि विविदिषा वाक्याविरुद्धं सिद्धान्त्यभिमतमर्थमाशङ्क्यनिषेधति ।
न च तस्येति विद्यार्थेति ।
अस्मिन् स्मरणे संसिद्धिपदं विद्यापरं तथा च शुद्धिद्वाराकर्मणैव विद्यां प्राप्ता इति स्मरणार्थ इति भावः ।
तस्य स्मरणस्य विद्यार्थकर्मानुष्ठान परत्वं न चेत्यत्र हेतुमाह ।
विविदिषा वाक्य इति अत इति ।
विविदिषा वाक्य बोध्ये विद्यासाधनकर्मणित्रैवर्णिकानामनधिकारादित्यर्थः ।
उपलक्षण त्वादिति ।
तथा च भाष्यं ब्राह्मणग्रहणमुपलक्षणार्थम् ।

अविशिष्टो ह्यधिकारः ।
त्रयाणां वर्णानामिति तथा च विद्यार्थ कर्मसुजनकादीनामप्यधिकारसत्वात् ।
कर्मणैव हीति स्मरणं विद्यार्थकर्मानुष्ठान परमेवेति न तद्बलात् ।
तमेव विदित्वाति मृत्युमेति ।
नान्यः यथा इत्यादि श्रुति विरुद्धः साक्षादेव कर्मणां मुक्त्युपयोगो वक्तव्य इति भावः ॥

यथाहुरत्र भवन्तो वार्तिककाराः ब्राह्मण ग्रहणं चात्र द्विजानामुपलक्षणम् ।
अविशिष्टाधिकारित्वात् सर्वेषामात्मबोधन इति ।
न हि विद्याकामो यज्ञादी ननु तिष्ठेदिति विपरिणमते विद्याकामाधिकार विधौ ब्राह्मपदस्याधिकारि विशेषण समर्पकत्वं युज्यते ।
उद्देश्ये विशेषणायोगात् ।
नापि राजास्वाराज्य कामो राजसूयेन यजेतेति स्वाराज्यकामाधिकारे राजसूयविधौ स्वाराज्यकामो राजकर्तृकेण राजसूयेन यजेतेनिति कर्तृतया यागविशेषणत्वेन विधे यस्य राज्ञो राजकर्तृकराजसूयस्याराज्ञा सम्पादयितुमशक्यत्वादर्थादधिकारि कोटि निवेश वदिह यज्ञादि कर्तृतया विधेयस्य ब्राह्मणस्यार्थादधिकारि कोटिनिवेश इति युज्यते ॥

अत्र भवन्त इति पूज्या इत्यर्थः ।
आत्मबोधन इति ।
आत्मबोधसाधन यज्ञादिकर्मणीत्यर्थः ।
विद्यार्थकर्माधिकारस्यैव प्रकृतत्वादिति मन्तन्तव्यम् ।
ननु विविदिषा वाक्ये ब्राह्मण पदस्य त्रैवर्णिकौपलक्षणत्वे सिद्धे त्रयाणां वर्णानामविशेषेण विद्यार्थं कर्मस्वधिकारः सिध्यति ।
तत्र सर्वेषाम् अविशिष्टाधिकारत्वे सिद्धे तदनुरोधेने ब्राह्मण ग्रहणस्योपलक्षणत्वं सिध्यतीति परस्पराश्रयत्वप्रसङ्ग इति वेन्न व्राणग्रहणस्य द्विजोपलक्षणत्वमनुपजीव्यैव सर्वेषां द्विजानां विद्यार्थकर्मस्वधिकार सिद्धेर्वार्तिकवनैन विवक्षितत्वात ।
ननु विविदिषा वाक्ये ब्राह्मण ग्रहणेन ब्राह्मणस्यैव विद्यार्थकर्मस्वधिकारे प्रतीयमाने कथं वर्णत्र साधारणाधिकारः सिध्येदिति चेतन्न वक्तव्यं किं ब्राह्मण पदस्य यज्ञादि विधावुद्देश्य विशेषणसमर्पकतया ब्राह्मणमात्राधिकारप्रापकत्वं किं वा विधेय कर्तृसमर्पकतया तदुभयसमर्पकत्वाभावेपि स्वसन्निधिमात्रेण तन्मात्राधिकार प्रापकत्वं वा गत्यन्तराभावा तत्र नाद्य इत्याह ।
नहीति ।
यज्ञादीनां विद्यालक्षणफले विनियोगपरे विधौ विपाकामस्याधिकारः सिद्ध एव तथा च ब्राह्मण्य विशिष्टस्य विद्याकामस्याधिकारो विवक्षित इति स्वीकृत्य ब्राह्मपदस्याधिकारिविशेषण समर्पकत्वं वक्तुं न शक्यते विधेय यज्ञादि निरूपितोद्देश्यतायाः विद्याकाममात्रे पर्यवसान सम्भवेन ब्राह्मण्यरूपविशेषणस्यानाकाङ्क्षिततया

विद्याकामंष्वतिविशेषणत्वे नान्वयायोगात् ।
विशिष्टस्योद्देश्यत्वकल्पने गौरवाच्च विद्याकामब्राह्मण्ययोः प्रत्येकमुद्देश्यत्त्वे च वाक्यभेदप्रसङ्गात् ।
विद्याकामोपज्ञादीन तु तिष्ठेत ब्राह्मणो यज्ञादीननुतिष्ठेदितिभावः ।
द्वितीयं सदृष्टान्तमाशङ्क्यनिरोति ।
नापीति ।
स्वाराज्यकामवाक्ये राजपदस्य पूर्वोक्तरीत्यास्वाराज्यकामप्रतिविशेषणत्वायोगात् ।
कर्तृविधायकत्वं स्वीकृत्यराजसूये राज्ञः सतः स्वाराज्यकामस्याधिकारः साधित इत्यर्थः ।
राज्ञोर्थादधिकारिकोटि निवेशवदिति सम्बन्धः ।
अर्थादिति पदोक्तामर्थापतिं स्फुटयति ।
राजकर्तृकेति इहेति ।
विविदिषा वाक्य इत्यर्थः ।
विधे यस्येति ।
विद्याकामो ब्राह्मण कर्तृक यज्ञादीन ननु तिष्ठेत् इत्येवं विधे यस्येत्यर्थः ।
अर्थादिति ब्राह्मण कर्तृक यज्ञादेरब्राह्मणेन सम्पादयितुमशक्यत्वादित्यर्थः ॥

सर्वथापित एवोभयलिङ्गादिति सूत्रेऽन्यत्रविहितानामेव यज्ञावीनां विविदिषा वाक्ये फलविशेषसम्बन्धविधिर्नापूर्वयज्ञादि विधिरिति व्यवस्थापितत्वेन प्राप्त यज्ञाद्यनुवादेनैकस्मिन्वाक्ये कर्तृरूपगुणविधिः फलसम्बन्धविधिश्चेत्युभयविधानात् वाक्यभेदापतेः ।

नापि राजसूयवाक्ये राज्ञः कर्तृतया विधेयत्वाभावपक्षे राजपदसमभिव्याहारमात्राद्विशिष्टकर्तृत्वलाभवदिह वाक्याभेदायकर्तृतया ब्राह्मणाविधानेपि ब्राह्मणपद समभिव्याहारमात्रेण ब्राह्मकर्तृत्वलाभात् ।
तदधिकारपर्यवसानमित्युपपद्यते ।
अन्यत्र त्रैवर्णिकाधिकारकत्वेन कॢप्तानामिहापि त्रैवर्णिकारात्मविद्यार्थत्वेन विधीयमानानां यज्ञादीनां त्रैवर्णिकाधिकारित्वस्य युक्ततया विधिसंसर्गहीन ब्राह्मणपद समभिव्याहारमात्रादधिकारसङ्कोचासम्भवेन ब्राह्मण पदस्य यथा प्राप्तविद्याधिकारिमात्रोपलक्षणौवित्यात्

अर्थादधिकारिकोटिनिवेश इत्यपि न युज्यत इत्यत्र दृष्टान्तवैषम्यमभिप्रेत्य हेतुमाह ।
सर्वथापीत्यादिना ।
यज्ञादीनामाश्रमकर्मत्वपक्षे विद्या सहकारित्व पक्षे च यावजीवादिवाक्येषु येग्निर्हेत्रादयोधर्माविहितास्त एवानुष्ठेयाः कुतः श्रुतिस्मृतिरूपो भयलिङ्गात् ।
श्रुतिस्तावद्विविदिषा वाक्य गत यज्ञादि श्रुतिरेवतया प्रसिद्धयज्ञादीनां प्रसिद्धदानादीनां

च प्रत्यभिजिञायमानत्वादपूर्वयज्ञादिविधायकत्वे प्रत्यभिज्ञाविरोधात् ।
प्रसिद्धयज्ञाद्यनुवादेन फलसम्बन्धमात्र बोधने लाघवाच्च यज्ञादीनां स्रुवन्त यज्ञादिपदोषातत्वेनात्रविधेयत्वा प्रतीतेश्च स्मृतिश्च अनाश्रताकर्मफलमित्याद्याप्रसिद्धयज्ञादीनामेव फलाभिसन्धिविनानुष्ठितानां विद्या हेतुत्वं दर्शयतीति सूत्रार्थः ।
अन्यत्रेति ।
विविदिषावाक्यादन्यत्र कर्मकाण्ड इत्यर्थः ।
उभयविधानादिति ।
राजसूयवाक्ये तु कर्त्रादिगुणविशिष्टस्यापूर्वकर्मण एव विध्युपगमान्न वाक्यभेदप्रसक्तिरिति तत्र राजपदस्य कर्तृ रूपगुणविधायकत्वं युक्तमितिभावः ।
तृतीयमपि सदृष्टान्तमाशङ्क्यनिराकरोति ।
नापीति ।
राज्ञ इति राज्ञः कर्तृतया विधेयत्वाभावेपि राज्ञ एव राजसूयाधिकारः सिध्यति राजपदसन्निधानेन स्वाराज्यकामपदस्य क्षत्रिय परत्वावगमादन्यथा राजपदवैयर्थ्यप्रसङ्गादिति तात्पर्येण येषां मते राजः कर्तृतयाविधिर्नाभ्युपगम्यते तेषां पक्षे इत्यर्थः ।
ब्राह्मणाधिकारपर्यवसानमित्यपि नोपपद्यत इत्यत्र हेतुमाह ।
अन्यत्रेति ।
कर्मकाण्ड इत्यर्थः ।
इहापीति ।
विविदिषावाक्येपि इत्यर्थः ।
त्रैवर्णिकाधिकारात्मविद्येति ।
ब्राह्मणे व क्षत्रियवैश्ययोरपि विद्यायामर्थित्वलक्षणाधिकाराविशेषात् ।
शूद्रस्येव विद्यार्थ यज्ञादिषु तयोः प्रतिषेधाभावाच्चेत्यर्थः ।
युक्ततयेति ।
अधिकारिणामसङ्कोचस्य विधिगतानष्टापकत्वलक्षणप्रामाण्योपपादकत्वादितिभावः ।

अन्यत्र कॢप्तत्वाद्युपपति त्रय प्राप्तस्यापि क्षत्रिय वैश्ययोरधिकारस्य ब्राह्मणपदम् अपवादकमित्याशङ्क्याह ।
विधिसंसर्गहीनेति उद्देश्यसमर्पकतया विधेयसमर्पकतया वा विधिवाक्यार्थान्वयबोधानुपयोगीत्यर्थः ।
राजसूयवाक्ये तु राजसूयस्यात्रैव विधेयत्वेन त्रैवर्णिकाधिकारिकत्वेनान्यत्रा कॢप्तत्वाद्युक्तं विविसंसर्गहीन राजपदसमभिव्याहारमात्राद्राजकर्तृनियम इति भावः ।
ननूक्त न्यायेन ब्राह्मणपदाभावेपि क्षत्रिय वैश्ययोरिव ब्राह्मणस्यापि विद्यार्थकर्मस्वधिकार सिद्धेः ।
ब्राह्मण ग्रहणं व्यर्थमेव स्यादिति चेन्न विद्यार्थ कर्मसु ब्राह्मणस्य मुख्याधिकार ज्ञापनार्थतोपपतेः वैयर्थ्यानवकाणादिति भावः ॥

ननु विद्याधिकारिमात्रोपलक्षणत्वे शूद्रस्यापि विद्यायामर्थित्वादि सम्भवेन तस्यापि विद्यार्थकर्माधिकार प्रसङ्ग इति चेन्न ।
अध्ययन ग्रहीतस्वाध्यायजन्य तदर्थज्ञानवत एव वैदिकेष्वधिकार इत्यपशूद्राधिकरणे अध्ययनवेदवाक्य श्रवणादि विधुरस्य शूद्रस्य विद्याधिकार निषेधात् ।
न शूद्रायमतिं दद्यादिति स्मृतेरापा ततोपि तस्य विद्यां महिमा

ऽवगत्युपाया सम्भवेन तदर्थित्वानुपपतेश्च तस्य विद्यायामनधिकारादिति केचित् अन्ये त्वाहुः शूद्रस्याप्यस्त्येव विद्यार्थकर्माधिकारः तस्य वेदानुवचनाऽग्निहोत्राद्यसम्भवेपि कण्ठोक्त सर्ववर्णाधिकार श्रीपञ्चाक्षरमन्त्रराजविद्यादि जप पापक्षय हेतुतपोदानपाक यज्ञादि सम्भवात् ।
वेदानुवचनेन यज्ञेन दानेनेत्यादि पृथक्करणविभक्तिश्रुतेर्विधुरादीनां विर्थम्पदानादि मात्रानुष्ठानानुमतेश्च वेदानुवचनादि समुच्चयान पेक्षणात् ॥

ब्राह्मणग्रहणस्योपलक्षणत्वपक्षेति प्रसङ्गं शङ्कते ।
नन्विति ।
अविधेयायां हि विद्यायामधिकारो नामविद्यार्थित्वमात्रं तच्च शूद्रस्यापि सम्भवतीति क्षत्रियादेरिव तस्यापि विद्यार्थकर्मस्वधिकारो दुर्निवारा इत्यर्थः ।
शूद्रस्य शुत्युक्त सगुणब्रह्मविद्यासुनिर्गुणब्रह्मविद्यासाधन वेदान्तश्रवणादिषु चाधिकारमाशङ्क्यनास्त्यध्कार इति निर्णीतमपशूद्राधिकरणे तस्याधिकाराभावे च भाष्ये हेतुरुपन्यस्तः वेदाध्ययनाभावादिति शूद्रस्य वेदोच्चारणश्रवणसाधारण निषेधेन वेदाध्ययनाभावेपि वेदार्थभूतोपासनाद्यनुष्ठानं किं नस्यादित्याशङ्क्य अध्ययन विधिनावेदजन्यवेदार्थ ज्ञानस्य

वेदार्थानुष्ठानेषु नियमितत्वादध्ययन शून्यस्य तदभावात् न सगुणनिर्गुणविद्यानुष्ठानेष्वधिकार इत्युक्तम् ।
तर्था च तुल्यार्थतया विद्यार्थकर्मस्वप्यधिकारो नास्तीत्यर्थः ।
ननु शूद्रस्य वेदोक्तयज्ञादिष्वधिकारा भावेपि वक्ष्यमाणरीत्या तस्य विद्यासाधनकर्मणां सम्भवाद्विद्याकामनया शूद्रूस्यापि तेषामनुष्ठानं सम्भवतीत्याशङ्क्य तस्य विद्या कामनैव न सम्भवतीत्याह ।
न शूद्रायेति ।
मतिं शास्त्रार्थज्ञानं विद्यामहिमानिरतिशयानन्दरू ब्रह्मप्राप्तिसाधनत्वं शूद्रस्यापि विद्यार्थकर्माधिकार प्रसङ्ग इत्यर्त्र इष्टापतिरित्याह ।
अन्ये त्विति ।
कण्ठत उक्तः सर्ववर्णाधिकारो यस्मिन् तादृश विद्यादि जपे स तथोक्तः श्रीमत्पञ्चाक्षरमेव मन्त्रराजविद्या आदिपदं च आगमिकपौराणिकमन्त्रान्तरसङ्ग्रहार्थं तथा च ब्रह्मोतरखण्डे किं तस्य बहुभिर्मन्त्रैः किं तीर्थैः किं तपोध्वरैः यस्यों नमः शिवायेति मन्त्रो हृदयगोचरः मन्त्राअधिराजराजो यः सर्ववेदान्तशेखरः सर्वज्ञाननिधानं च सोयं शैव षडक्षरः प्रणवेन निनामन्त्रः सोयं पञ्चाक्षर स्मृतः स्त्रीभिः शूद्रैश्च सङ्कीर्णै धीर्यते मुक्तिकाङ्क्षिभिरिति ।
पाकयज्ञादीत्यादिपदं द्विजशुश्रुषानामकीर्तनतीर्थस्नानदिसङ्ग्रहार्थम् ।
ननु विविदिषा वाक्ये शूद्रसाधारणवर्णधर्माणामुपलक्षणेपि यज्ञादीनामेक वाक्योपादानातेषां समुच्चयस्य विद्यासाधनत्वं भाति यज्ञादिषु समुच्चयश्च शूद्रे वाधित इति कथं तस्य विद्यार्थ कर्माधिका इत्याशङ्क्यहेत्वसिध्या दूषयति ।
वेदानुवचनेनेति ।
वेदानुवचनेन विविदिषन्ति

यज्ञेन विविदिषन्तीत्यादिरूपेणप्रत्येकं साधनत्व प्रतीतेः न समुच्चयापेक्षा तद्विवक्षायां हि वेदानुवचनयज्ञदानतपोभिर्विविदिषन्तीति वाक्यं स्यात् पृथक्करणविभक्ति प्रवणेपि वेदानुवचनेन यज्ञेन च दानेन च तपसा चेति प्रतिपदार्थं चकारयुक्तं वा वाक्यं स्यात् यदग्नये च प्रजापतये चेत्यादि वदिति भावः

न च शूद्रस्य विद्यायामर्थित्वासम्भवः श्रावयेच्चतुरो वर्णात् ।
कृत्वा ब्राह्मणमग्रत इत्यादीतिहासपुराणश्रवणे चातुर्वर्ण्याधिकारस्मरणेन पुराणाद्यवगत विद्या माहात्म्यस्य तस्यापि विद्यार्थित्वसम्भवात् ।
न शूद्रायमतिं दद्यादिति स्मृतेश्च तदनुष्ठानानुपयोग्यग्निहोत्रादिकर्मज्ञाननिषेधपरत्वात् ।
अन्यथा तस्य स्ववर्णधर्मस्याप्यवगत्युपायासम्भवै न शूद्रः चतुर्थो वर्ण एकजातिस्तस्यापि सत्यमक्रोधः शौचमाचमनार्थे पाणिपादप्रक्षालनमेवैकं श्राद्धकर्मभृत्यभरणं स्वदार तुष्टिः परिचर्याचोतरेषामित्यादि तद्धर्मविभाजकवचनानामननुष्ठानलक्षणाप्रामाण्यापतेः ।
न चैवं सत्यपशूद्राधिकरणस्य

निर्विषयत्वं तस्य न शूद्रे पातकं किञ्चिन्न च संस्कारमर्हतीति स्मृतेर्गुरूपदनाख्य विद्याङ्गोपनयनसंस्कारविधुरस्य शूद्रस्य सगुणविद्यासुनिर्गुणविद्यासाधन वेदान्तश्रवणादिषु चाधिकारनिषेधपरत्वात् ॥

यत्वापाततो विद्यामहिमावगत्युपाया सम्भवेन विद्यायामर्थित्वलक्षणाधिकारानुपपतिरिति ।
तदनूद्यनिराकरोति ।
न च शूद्रस्येति श्रावयेदिति ब्राह्मण इति शेषः ।
यदा क्षत्रियादी न श्रावयेत् तदा विशेषमाह ।
कृत्येति ।
पुराणादिभिः साधनभूतैरवगतं विद्यामाहात्म्यं येन शूद्रेण स तथा तस्येत्यर्थः ।
मति निषेधवचनस्य सङ्कोचं दर्शयति ।
न शूद्रायेति अन्यथेति ।
शास्त्रार्थज्ञानमात्रदाननिषेधपरत्व इत्यर्थः ।
शूद्रस्य स्वतः पुराणादि पठननिषेधादन्येभ्योपि पुराणादिश्रवणाभावे स्वधर्मावगतिर्न सम्भवतीत्यर्थः ।
इष्टापतिमाशङ्क्याह ।
शूद्रश्चतुर्थो वर्ण इत्यादिना ।
जातिर्जन्म उपनयनाख्य द्वितीयजन्मशून्य इत्यर्थः ।
प्रक्षालनमेवेति नत्वपाम्प्राशनमङ्गस्पर्शनादिकं वेत्येवकारार्थः ।
उत्तरेषामिति ।
द्विजानामित्यर्थः ।
न शूद्रायमति दन्द्यादिति स्मृतेः शास्त्रार्थज्ञानमात्रदाननिषेधपरत्वेपि वृद्धौ च मातापितरौ भार्यासाध्वीसुतः शिशुः अप्यकार्यं शतं कृत्वा भर्तव्यामतुर

ब्रवीदित्यादिवचनदर्शनेन ये ब्राह्मणा उक्तलक्षणमात्रादि संरक्षणोपयोग्यर्थे लाभाय शूद्रान् प्रतिपुराणादि पठने प्रवर्तन्ते तेभ्यो विद्यामाहात्म्य स्वधर्मयोरवगतिसम्भवात् न काप्यनुपपतिरिति मन्तव्यम् ।
न चैवमिति ।
शूद्रस्यापि विद्यार्थकर्माधिकार स्वीकार इत्यर्थः ।
निर्विषयत्वमिति ।
तदधिकरणस्य शूद्राधिकार निषेधपरत्वादितिभावः ।
सत्यं तदधिकरणं शूद्राधिकार निषेधपरं किन्तु विद्यार्थ कर्माधिकार निषेधपरं न भवति ।
वेदान्तश्रवणाधिकारनिषेधपरत्वा तस्येति परिहरति ।
तस्य न शूद्र इत्याअदिना ।
वेदान्तश्रवण सगुणोपासनेषु अधिकाराभावे हेतुगर्भविशेषणमाह ।
गुरूपसदनाख्येति ।
शूद्रस्य संस्कारशून्यत्वेमानमाह ।
न शूद्र इति ।
पातकमिति ।
अभक्ष्यभक्षणादिकृतमित्यर्थः ।
अध्ययनाङ्गोपनयनलक्षणः विद्याङ्गोपनयनलक्षणश्च द्विविधमपि संस्कारं निषेधति ।
न च संस्कार मर्हतीति ।
शिष्यत्वेन स्वीकृत्य समीपे स्थापनरूपं विद्याङ्गोपनयनमाचार्यकर्तृकं तच्च शिष्यकर्तृकगुरूपसदनपूर्वकत्वात् ।
गुरूपसदनाख्यमित्युक्तं गुरूपसदनं च तद्विज्ञानार्थं स गुरुमेवाभिगछेदित्यादिना विद्याङ्गत्वेमविहितं तथातंहोपनिन्ये इत्यादि श्रुत्या विद्याङ्गत्वेनोपनयनं च प्रतीयत इति भावः ।
तं विद्यार्थिनं गुरुरुपनीतवानित्यर्थः ॥

निर्गुणविद्यायां शूद्रस्यापि विषयसौन्दर्य

प्रयुक्तस्यार्थित्वस्य निषेद्धुमशक्यत्वात् ।
अविधेयायां च तस्यां तदतिरिक्ताधिकारा प्रसक्त्या तन्निषेधायोगाच्च ।
न च तस्य वेदान्तश्रवणासम्भवे विद्यार्थकर्मानुष्ठान सम्भवेपि विद्यानुत्पतें तस्य तदर्थ कर्मानुष्ठानं व्यर्थमिति वाच्यम् ।
तस्य वेदान्तश्रवणाधिकाराभावेपि भगवत्पादैः ।
श्रावयेच्चतुरो वर्णानिति चेतिहासपुराणाधिगमे चातुर्वण्याधिकार स्मरणाद्वेदपूर्वस्तु नास्त्यधिकारः शूद्राणामिति स्थितमित्यपशूद्राधिकरण उपसंहारभाष्ये ब्रह्मात्मैक्य परपुराणादि श्रवणे विद्यासाधनेधिकारस्य दर्शितत्वात् ॥

ननु श्रुत्युक्त सगुणोपासनेष्विव निर्गुणविद्यासाधनवेदान्तश्रवणादिष्विव च निर्गुणविद्यायामप्यधिकारनिषेधपरमपशूद्राधिकरणं किं न स्याद्विनिगमकाभावा तथा च निर्गुणविद्यायामधिकाराभावे तत्साधनकर्मसुशूद्राधिकारो न सिध्येदित्यत आह ।
निर्गुण विद्यायामिति ।
ब्रह्मविद्यालक्षणस्य विषयस्य सौन्दर्यं मुक्तिसाधनत्वं तद्ज्ञानप्रयुक्तस्य विद्यायामर्थित्वलक्षणाधिकारस्य तदधिकरण न्याये

ननिषेद्धुमशक्यत्वादित्यर्थः ।
ननु शूद्रस्य विद्यायामर्थित्वलक्षणाधिकार सत्वेपि तदतिरिक्तस्य अधीतवेदत्वादिरूपविशेषणान्तरस्याभावात् ।
कथं तस्याधिकारो विद्यायामित्यत आह ।
अविधेयायामिति ।
च शब्दः शङ्का निरासार्थः ।
तदतिरिक्तेति अर्थित्वाति रिक्तेत्यर्थः ।
स्वर्गानुभववत् ब्रह्मानन्दानुभवरूपाया निर्गुणविद्यायाः फलरूपत्वादविधेयत्वं फलस्याविधेयत्वा तथा च यथा स्वर्गानुभवादीं फले तदर्थित्वमात्रमधिकारस्तथा निर्गुणविद्यायामपि तदर्थित्वमात्रमेवाधिकारः स च निषेद्धुमशक्यः विधेयेष्वेवोपासनादिषु पूर्वोक्ताधिकारि विशेषणान्तरापेक्षा शास्त्रे निरूपितेति विषमो दृष्टान्त इति भावः ।
असम्भव इति ।
अपशूद्राधिकरण न्यायेन तदसम्भवे सतीत्यर्थः ।
तस्य वेदान्तश्रवणासम्भवेपि ब्रह्मात्मैक्य परपुराणादिश्रवणाधिकारस्य भाष्ये दर्शितत्वात् शूद्रस्यापि सम्भवति विद्योत्पतिरित्यर्थः भाष्ये तु शब्दोवधारणार्थः ।
श्रावयेच्चतुरो वर्णानिति वचनेन शूद्रस्य पुराणादिश्रवणाभ्यनुज्ञानेपि मनननिदिध्यासनयोरभ्यनुज्ञानाभावात् ।
नमननाद्यनुष्ठानं तस्य सिध्यति ।
न च मननादेः श्रवणाङ्गत्वात् न पृथगभ्यनुज्ञानापेक्षेति वाच्यम् ।
प्रयाजदर्शपूर्णमासादेरिव प्रकृते शेषशेषिभावबोधक प्रमाणाभावेन श्रवणादिष्वङ्गाङ्गिभावव्यवहारस्य गौणत्वात् ।
तथा च शूद्रस्याद्वैतपरपुराणादिभागश्रवणे कृतेपि विद्योदया सम्भवात् ।
विद्यार्थकर्मानुष्ठान वैयर्थ्ये

तदवस्थमेवेत्यैस्वरसादाह ।
विद्योत्पति योग्येति ।
यद्वा इतिहासपुराणाभ्यां वेदं समुपवृंहयेदिति वचनादितिहासादि गत ब्रह्मात्मैक्य परभागस्य वेदान्तश्रवणाज्जनित वेदान्तार्थज्ञानोपकारकत्वमात्रमेव न तु वेदान्तश्रवणमनपेक्ष्यस्वातन्त्र्येण ब्रह्मात्मैक्यज्ञानजनकत्वमिति निश्चीयते ।
तथा सत्येव तद्वचनपूर्वार्धं सङ्गछते विभेत्यल्पश्रुताद्वेदो मामयं प्रतरेदितीति ।
अयमर्थः अल्पं वेदमात्रं श्रुतं विचारितं येन पुरुषेण सोल्पश्रुतः ॥

विद्योत्पति योग्यविमलदेवशरीरनिष्पादनद्वारा मुक्त्यर्थं भविष्यतीति त्रैवर्णिकानां क्रममुक्तिफलक स गुणविद्यार्थ कर्मानुष्ठानवत् वेदान्तश्रवणयोग्य त्रैवर्णिकशरीरनिष्पादनद्वारा विद्योत्पत्यर्थत्वं भविष्यतीति शूद्रस्य विद्यार्थ कर्मानुष्ठानाविरोधाच्च तस्माद्विविदिषा वाक्ये ब्राह्मण पदस्य यथा प्राप्तविद्याधिकारि मात्रोपलक्षणत्वेन शूद्रस्यापि विद्यार्थ कर्माधिकारः सिद्ध्यत्येवेति ।
ननु अस्तु कर्मणां चित्तशुद्धिद्वाराविद्योपयोगः सन्न्यासस्य किं द्वारातदुपयोगः केचिदाहुः विद्योत्पतिप्रतिबन्धक दुरिता

नामनन्तत्वात किं विद्यज्ञाद्यनुष्ठान निवर्त्यं किञ्चित् सन्न्यासापूर्वनिवर्त्यमिति कर्मवच्चितशुद्धिद्वारैव सन्न्यासस्यापि तदुपयोगः

तस्मात् पुरुषा तेन श्रुतो वेदो विभेति ।
कथन्ति भेति तत्राह मासिति ।
अयमल्पश्रुतः पुरुषः मांश्रुतं वेदं प्रतरेत् ।
मद्विचाररूपायां मीमांसायां न्यायाभासत्वादि शङ्कया मामप्यर्थान्तर परं सम्भावयेत् ।
इति शब्दो हेत्वर्थः ।
एवं प्रतारणसम्भवाद्धेतोः इतिहासपुराणाभ्यां वेदं सम्म्यगुपवृंहयेत् ।
इतिहासपुराणवचनैर्मीमांसानुसारिभिः ।
तस्यां दृढन्यायत्वनिश्चयसम्पादन द्वारा मीमांसानिर्णीतार्थपवमां वेदं स्थापयेदिति ।
तथा च शूद्रस्य वेदान्तश्रवणरहितस्य वेदान्तार्थोपवृहणरूपब्रह्मात्मैक्यपरे इतिहासादिश्रवणे प्रवजावपि नास्ति विद्योदयः श्रावयेच्चतुरो वर्णानिति वचनमपि शूद्रस्याद्वैतपरपुराणादि श्रवणांशे अदृष्टार्थमभ्युनुज्ञापरम् अपशुद्राधिकरणभाष्येपि शूद्रस्याद्वैतपुराणस्रवणादि वर्णनं विभेत्यल्पश्रुतादिति वचनं नास्तीति कृत्वाकृतमिति न भाष्यविरोधापि तथा च वेदान्तश्रवणैक साध्या विद्यात् तदभावे शूद्रस्य न सिध्यदैवेत्यस्वरसादाह ।
विद्योत्पति योग्येति मुक्त्यर्थमिति सुगुणब्रह्मोपासनमितिशेषः ।
विद्योत्यर्थत्वमिति शूद्रस्य मदनुष्ठितद्यर्माण्यं विद्योत्पत्यर्थत्वं भविष्यनीति

निश्चयेन तदनुष्ठानसम्भवादित्यर्थः ।
तस्मादिति ।
शूद्रस्य विद्यार्थकर्मानुष्ठाने बाधकाभावादित्यर्थः ।
विद्याधिकारिमात्रेति ।
न तु ब्राह्मण पदस्य ब्राह्मणमात्रपरत्वं न वा त्रैवर्णिकमात्रपरत्वमिति मात्रशब्दार्थः ब्राह्मण पदस्य द्विजोपलक्षणत्वे वार्तिक वचने यो हेतुरुक्तः त्रयाणामात्मबोधनसाधनकर्मस्वधिकाराविशेषादिति तस्य हेतोः शूद्रसाधारणत्वादितिभावः ।
किं द्वारेति ।
किमदृष्टद्वाराविद्योपयोगः किं वा दृष्टद्वारानाद्यः विद्योत्पति प्रतिबन्धक दुरितस्य यज्ञाद्यनुष्ठान जनिता पूर्वेणैव निवर्तितत्वेन सन्न्यास जनिता पूर्वनिवर्त्यदुरितालाभे सति सन्न्यास वैयर्थ्यप्रसङ्गात् ।
न द्वितीयः ।
तदनुपलम्भादित्याक्षेपाभिप्रायः ।
तत्राद्यं पक्षं समर्थयते ।
केचिदाहुरिति ।
ननु सन्न्यासापूर्वस्य न विद्योदय हेतुत्वम् असन्न्यासिनामपि केषाञ्चिद्विद्व्योद्देशेन श्रवणाद्यनुष्ठान दर्शनात् ।
केषाञ्चित् सन्न्यासं विनैव विद्योदयस्य प्रमाणसिद्धत्वाच्चेत्यत आह ॥

तथा च गृहस्थादीनां कर्मछिद्रेषु श्रवणाद्यनुतिष्ठतां न तस्मिन् जन्मनि विद्यावाप्तिः किं तु जन्मान्तरे सन्न्यासंलब्धैव येषां तु गृहस्थानामेव सताञ्जनकादीनां विद्यादृश्यते तेषां पूर्वजन्मनि सन्न्यासाद्विद्यावाप्तिः

अतो न विद्यायाः सन्न्यासापूर्वव्यभिचारशङ्कापीति ।
अन्ये तु शान्तोदान्त उपरत इत्यादि श्रुतौ उपरतशब्दगृहीततया सन्न्यासस्य साधनचतुष्टयान्तर्गतत्वात् ।
सहकार्यान्तरविधिरिति सूत्रभाष्ये तद्वतो विद्यावतः सन्न्यासिनो बाल्यपाण्डित्यापेक्षया तृतीयमिदं मौनं विधीयते ।
तस्माद्ब्राह्मणः पाण्डित्यमित्यादि श्रुतौ ।
ततः प्राक् भिक्षाचर्यं चरन्तीति सन्न्यासाधिकारादिति प्रतिपादनात् ॥

तथा चेति सन्न्यासस्य विद्यां प्रतिदृष्टद्वारानुपलम्भेनादृष्ट द्वारैव विद्या वाप्ति हेतुत्वे सन्न्यासविधिना सिद्धे सतीत्यर्थः ।
न च दृष्टद्वारानुपलम्भो सिद्धः लौकिक वैदिक व्यापार विक्षिप्त चितस्य विद्योदया सम्भवेन सर्वकर्मसन्न्यासस्य विक्षेपनिवृतिरूप दृष्टद्वाराविद्याहेतुत्वसम्भवादिति वाच्यम् ।
लौकिक वैदिक कर्मवतामपि केषाञ्चित् पुरुषधौरे याणां दैन्यहर्ष क्रोधभयादिलक्षणविक्षेपनिवृतेरनुभवसिद्धत्वेन तदर्थंसे न्यासा न पेक्षणादितिभावः ।
सन्न्यासस्यादृष्टद्वारकत्वपक्षमेवावलंव्य सन्न्यासा पूर्वस्य श्रवणाद्यधिकारि विशेषणत्वेन विद्योपयोगं सप्रमाणमाह ।
अन्येतिति शान्त इति ।
तितिक्षुः समाहितः

श्रद्धावितो भूत्वात्मन्येवात्मानं पश्येदिति श्रुतिशेषः शमः अन्तरिन्द्रियनिग्रहःदमो बाह्येन्द्रिय निग्रहः उपरतिर्नित्यकर्मत्यागः ।
ननु शान्तदान्तपदाभ्यामेव कर्ममात्रस्य वारितत्वादुपरति श्रुतिर्व्यर्थेति चेन्नशमदम विधिशास्त्रस्य सामान्यशास्त्रत्वात् ।
तस्य नित्यकर्मविधिना विशेषशास्त्रेण नित्यनैमितिककर्मव्यतिरिक्त बाह्यान्तःकरणव्यापारनिवृतिमात्र परतया सङ्कोचे सति नित्यकर्मत्यागा लाभात् ।
पुनरुपरति श्रुत्यानित्यकर्मत्यागो बोध्यत इति न तस्य वैयर्थ्यं तितिक्षुः शीतोष्णादि द्वन्द्व सहिष्णुः समाहितः श्रवणाद्यपेक्षित चित समाधानवान् देवता गुरुवेदान्तेषु श्रद्धैववितं यस्य सः श्रद्धावितो भूत्वेत्यस्य प्रत्येकमन्वयः आत्मन्येवकार्यकारणसङ्घात एसङ्घात एव सङ्घातसाक्षिणमात्मानमहं ब्रह्मास्मीति पश्येदिति श्रुत्यर्थः ।
साधनचतुष्टयेति नित्यानित्यवस्तुविवेकः ऐहिकामुष्मिकभोगविरागः शमादिष"न्कं मुमुक्षा चेति साधनचतुष्टयं तच्च श्रवणाद्यधिकारिविशेषणमिति व्यवस्थापितं प्रथमसूत्र इति भावः सन्न्यासा पूर्वस्याधिकारिविशेषणत्वे हेत्वन्तरमाह ।
सहकार्यतरेत्यादिना प्रतिपादनादित्यन्तेन सह कार्यन्तरस्य विद्यां प्रतिसाधनान्तरस्य मौनस्य विधिरथ मुनिरिति शब्द इति सूत्रभागार्थः ।
सौत्र पदं तद्वत इति तस्य व्याख्यानं विद्यावत इति श्रवणाद्यनुष्ठानोपयोग्यापात

ज्ञानवत इत्यर्थः ।
तद्वतः सह कार्यन्तर विधिरिति सूत्रे सन्न्यासिन इति कथं लभ्यते तत्राह ।
तस्मादिति ।
तस्मादित्यपि श्रुति पदमेव यस्मादतीताः ब्राह्मणाः आपाततो ब्रह्मात्मानं विदित्वा तत्वसाक्षात्कारार्थं व्युत्थान शब्दितं सन्न्यासं कृत चेतः तस्मादिदानीं तनोपि ब्राह्मणो मुमुक्षुः सन्न्यस्य पाण्डित्यादिकं तत्वसाक्षात्कारार्थमनुतिष्वेदिति श्रुत्यर्थः ।
पाण्डित्यं श्रवणं मौनं ध्यानं तत इति तस्माद्ब्राह्मण इति वाक्यात् पूर्वमित्यर्थः ॥

त्यक्ताशेष क्रियस्यैव संसारं प्रजिहासतः जिज्ञासोरेव चैकात्म्यन्त्रप्यन्तेष्वधिकारितेति वार्तिकोक्तेश्च सन्न्यासापूर्वस्य विद्यासाधन वेदान्तश्रवणाद्यधिकारि विशेषणत्वमिति तस्य विद्योपयोगमाहुः ।
अपरे तु श्रवणाद्यङ्गतयात्मज्ञानफलता सन्न्यासस्य सिद्धेति विवरणोक्तेरनन्यव्याअपारतया श्रवणादिनिष्पादनं कुर्वतस्तस्य विद्यायामुपयोगः ।
दृष्टद्वारे सम्भवत्य दृष्टकल्पनायोगात् ।
यदित्वनलसस्य धीमतः पुरुषधौरेयस्याश्रमान्तरस्थस्यापि

कर्मछिद्रेषु श्रवणादिसम्पद्यते ॥

सन्न्यासापूर्वस्याधिकारि विशेषणत्वे वार्तिक सम्मतिरूप हेत्वन्तरमाह ।
त्यक्तेति ।
वार्तिके प्रथमविशेषणं सन्न्यासपरं ततश्च सन्न्यासमुमुक्षा जिज्ञासानां समुच्चयार्थेन च कारेण मुमुक्षुत्वादेरिव सन्न्यासस्यापि वेदान्तश्रवणादिष्वधिकारि विशेषणत्वं भातीतिभावः ।
सन्न्यासापूर्वस्येति ।
सन्न्यासस्य त्यागलक्षण क्रियारूपेणानुवृत्ययोगादपूर्वपर्यन्त धावनमिति ।
सन्न्यासस्य दृष्टद्वाराविद्योपप्योग इति द्वितीयं पक्षं समर्थयते ।
अपरे त्विति ।
ननु सन्न्यासस्य विद्याङ्गत्वबोधक श्रुत्यादि वृतस्य श्रवणाद्यङ्गत्वबोधकप्रमाणाभावाद्विवरणोक्तिरयुक्तेत्याशङ्क्य तस्यास्तात्पर्यमाह ।
अनन्य व्यापार तयेति कादाचित्कं श्रवणादिकं विद्योदयद्वारानामृतत्वसाधनं किन्तु सार्वकालिकं ब्रह्मसंस्थो मृतत्वमेति ।
आसुप्तेरामृतेः कालं नयेद्वेदान्तचिन्तयेत्यादि श्रुतिस्मृति शतेभ्यः तथा चानन्यव्यापारतयाश्रवणाद्यनुष्ठानं विदधताशास्त्रेण सन्न्यासोपेक्ष्यते गृहस्थादेः स्वाश्रमविहितकर्मव्यग्रस्य सदा श्रवणाद्यनुष्ठानासम्भवात् ।
तथा विद्यासाधनत्वेन सन्न्यासं विदधतापि शास्त्रेण द्वारतया निरन्तरश्रवणाद्यनुष्ठानमपेक्ष्यते सन्न्यासस्य साक्षाद्विद्यासाधनत्वाभावात् ।
दृष्टद्वारसम्भवे अदृष्टद्वारकल्पनानुपपतेश्च ।
तत्रापि श्रवणादिकं

तत्वव्यञ्जकत्वादर्थतः ।
प्रधानं भवति सन्न्यासस्तूक्त हेत्वभावाद्गणभूत तया व्यवतिष्ठते एवं श्रवणादि विधेः सन्न्यासविधेश्च परस्परापेक्षाबलादेक वाक्यभावमापन्नाभ्यां विधिभ्यां सन्न्यासाङ्गकं मनननिदिध्यासन सहितं श्रवणं विधीयत इति सिद्धासन्न्यासस्य श्रवणाद्यङ्गतया आत्मज्ञानफलकतेति भावः ।
यद्वा विवरणोक्तेरयम्भावः श्रवणविधिस्तावत् श्रवणसाधनतया विक्षेप निवृतिं तद्धेतु सन्न्यासं चापेक्षते विक्षिप्तस्य चेतसः श्रवणाद्यनुष्ठाने प्रवृत्यसम्भवात् ।
गृहस्थादेश्च स्वाश्रमकर्मकरणकालातिरिक्तकालेपि बहुविषयतयाविक्षेपावश्यं भावात् ।
सन्न्यासविधेरपि विक्षेपनिवृतिरूपदृष्टद्वाराश्रवणादिकं घटयित्वाविद्यां सम्पादयतः सन्न्यासस्य विधानेन चारितार्थ्यसम्भवे अदृष्टद्वाराविद्यासाधनसन्न्यासविधायकत्वा सम्भवात् ।
तथा च पूर्ववत् सन्न्यासस्य श्रवणाद्यङ्गतयैव विद्याफलकत्वं न त्वदृष्टद्वारेति सिद्धमित्यस्मिन् व्याख्याने अनन्यव्यापारतयेत्यस्य विक्षेपनिवृति द्वारेत्यर्थो विवक्षितः तस्येति सन्न्यासस्येत्यर्थः ।
ननु सन्न्यासस्य विक्षेपनिवृतिद्वारा श्रवणाद्यङ्गभावमापन्नस्य विद्यासाधनत्वमुक्तमनुपपन्नं सन्न्यासं विनापि विक्षेपनिवृतिः केषुचित् श्रवणाधिकारिषु सम्भवादिति शङ्कते यदि त्विति ।
अनलसस्येति ।
सत्त्वगुणप्रधानस्येति यावत् ।
धीमत इति विषयेषु दोषदर्शनशीलस्येति यावत् ।
पुरुषधौरे यस्येति विषयेभ्यः सकाशादिन्द्रियाणां निग्रहे समर्थस्येत्यर्थः ॥

तदा चतुर्ष्वाश्रमेषु सन्न्यासाश्रमपरिग्रहेणैव श्रवणादि निवर्ततीयमिति नियमोभ्युपेय इति ।
नन्वस्मिन् पक्षद्वये क्षत्रियवैस्ययोः कथं वेदान्तश्रवणाद्यनुष्ठानं सन्न्यासस्य ब्राह्मणाधिकारत्वात् ।
ब्राह्मणो निर्वेदमायात् ब्राह्मणोव्युत्थाय ब्राह्मणः प्रव्रजेदिति सन्न्यासविधिषु ब्राह्मणग्रहणात् ।
अधिकारि विशेषस्य ज्ञानाय ब्राह्मण ग्रहः न सन्न्यासविधिर्यस्मात् श्रुतौ क्षत्रियवैश्ययोरिति वार्तिकोक्तेश्चेति चेत् ।
अत्र केचिद्यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्ग्रहाद्वाचनाद्वेत्यविशेषश्रुत्याब्राह्मणः क्षत्रियो वापि वैश्यो वा प्रव्रजेद् ग्रहात् ।
त्रयाणां वर्णानां वेदमधीत्य चत्वार आश्रमा इति स्मृत्यनुगृहीतया क्षत्रियवैश्ययोरपि सन्न्यासाधिकारसिद्धेः श्रुत्यन्तरेषु ब्राह्मणग्रहणं श्रयाणामुपलक्षणम् ।
अत एव वार्तिकेप्यधिकारिविशेषस्येति श्लोकेन भाष्याभिप्रायमुक्त्वात्रयाणामविशेषेण सन्न्यासः ।
श्रूयते श्रुतौ यदोपलक्षणार्थं स्याद्ब्राह्मण ग्रहणं तदेत्यनन्तरश्लोकेन स्वमते क्षत्रियवैश्ययोरपि सन्न्यासाधिकारो दर्शित

इति तयोः श्रवणाद्यनुष्ठानसिद्धिं समर्थयन्ते ।
अन्ये त्वनेकेषु सन्न्यासविधिवाक्येषु ब्राह्मणग्रहणादुदाहृतजावाल शुर्तौ सन्न्यासविधिवाक्ये ब्राह्मण ग्रहणाभावेपि श्रुत्यन्तरसिद्ध ब्राह्मणाधिकारमेव सिद्धं कृत्वा सन्न्यासावस्थायामयज्ञोपवीती कथं ब्राह्मण इति ब्राह्मपरामर्शाच्च ब्राह्मणस्यैव सन्न्यासाधिकारः ॥

एतैर्विशेषणैर्विक्षेप हेतूनामभावसूचनात् ।
विक्षेपनिवृतिरुक्ता सन्न्यासफलस्य विक्षेपाभावस्य सन्न्यासादिव सन्न्यासादन्यतोपि प्राप्तौ सन्न्यासस्य विधित्सितस्य श्रवणाद्यपेक्षितविक्षेप निवृतिं प्रतिपक्षे प्राप्तिः पक्षे चाप्राप्तिरिति लभ्यते ।
तथा च माभूत् सन्न्यासाश्रमविधिरपूर्वविधिः नियमविधिस्तु भवे देवेति समायते ।
तदेति परिग्रहेणैवेति ।
विक्षेप निवृति द्वारेति शेषः नन्वस्मिन् पक्षद्वय इति ।
सन्न्यासस्याधिकारिविशेषणत्वपक्षे श्रवणाङ्गत्वपक्षे चेत्यर्थः ।
कथमिति ।
सन्न्यासाभावादिति भावः ।
तयोः सन्न्यासाभावे हेतुमाह ।
सन्न्यासस्येति ।
ब्राह्मणस्यै सन्न्यासाधिकारे मानमाह ।
ब्राह्मण इति निर्वेदं वैराग्यं तत्पूर्वक सन्न्यासं न्यासं कुर्यादित्यर्थः निर्वेदशब्दितवैराग्यस्य सम्प्रतिसामग्रीत्वेन तस्मिन सति सन्न्यासस्यावश्यकत्वात् ।
सन्न्यासविधिरेवायमितिभावः ।

व्युत्थायेति सन्न्यस्येत्यर्थः ।
यस्माछ्रुतावधिकरिविशेषस्य ज्ञानाय ब्राह्मणग्रहः ।
तस्मात् क्षत्रियं वेश्ययोः सन्न्यासविधिर्नास्तीति वार्तिकयोजना ।
अत्र केचित् तयो श्रवणाद्यनुष्ठानसिद्धिं समर्थयन्त इति सम्बन्धः ब्रह्मचर्यं समाप्यगृही भवेत् ग्वहाद्वनी भूताप्रवजेदिति पूर्वश्रुतौ च स्तुर्णीमप्याश्रमाणां समुच्चयं प्रतिपाढद्यतेषां विकल्पं दर्शयति ।
यदि वेतरथेति ।
यदि वेत्यस्य ब्रह्मचर्याश्रम एव वैराग्यमुत्पन्नं चेदित्यर्थः ।
तत्र तदनुत्पतावाह ग्रहाद्वेति ग्रहाश्रमेपि तदनुत्पतावाह ।
वनाद्वेति अविशेषेति ।
ब्राह्मणादिविशेषग्रहरहितेत्यर्थः ।
अत एवेति वर्णत्रय साधारणतया सन्न्यासस्य श्रुतिस्मृति सिद्धत्वादेवेत्यर्थः ।
यदा यदि वेति श्रुतौ श्रूयते ।
तदा उपलक्षणार्थं स्यादिति सम्बन्धः ।
अन्ये त्विति ।
भाष्यानुवर्तिन इत्यर्थः ।
श्रुत्यन्तरसिद्धमिति ।
ब्राह्मणो व्युत्थायेत्यादि श्रुत्यन्तरसिद्धमित्यर्थः सिद्धं कृत्वेति ।
विद्योद्देशेन सन्न्यासविधिवाक्यानां सर्वेशामेक वाक्यत्वादितिभावः ।
कथमिति ताम् ।
तव यज्ञोपवीतादेर्ब्राह्मणत्वव्यञ्जकत्त्रात परमहंस सन्न्यासे चतुदभावादपि इत्यर्थः ।
यद्यत्र क्षत्रियवैश्ययोरपि सन्न्यासो विवक्षितः स्यात् तदा कथं ब्राह्मण इति वत् कथं क्षत्रियः कथं वैश्य इत्यपि श्रूयेत न तु श्रूयते तस्मात् न तयोः सन्न्यासः श्रुत्यभिमत इति भावः ॥

विरोधाधिकरणन्यायेन श्रुत्यविरुद्धस्यैव स्मृत्यर्थस्य ग्राह्य त्वात् ।
यतु सन्न्यारास्य सर्वाधिकारत्वे वार्तिक वचनं तद्विद्वत्सन्न्यासविषयं न त्वातुरविविदिषा सन्न्यासे भाष्याभिप्रायविरुद्धसर्वाधिकारप्रतिपादनपरं सर्वाधिकार विछेदि विज्ञानं चेदुपेयते कुतोधिकार नियमो व्युत्थाने क्रियते बलादित्यनन्तरश्लोकेन ब्रह्मज्ञानोदयानन्तरं जीवन्मुक्तेन क्रियमाणे विद्वत्सन्न्यासे एवाधिकरनियमनिराकरणात् ।
एवं च ब्राह्मणानामेव श्रवणायनुष्ठाने सन्न्यासोङ्गं क्षत्रियवैश्ययोस्तप्रि?रपेक्षः श्रवणाद्यधिकार इति तयोः श्रवणाद्यनुष्ठाननिर्वाहः न हि सन्न्यासस्य श्रवणापेक्षितत्वपक्षे श्रवणमात्रस्य तदपेक्षानियतुं शक्यते क्रममुक्तिफलकसगुणोपासनयादेवभावं प्राप्तस्य श्रवणादौ सन्न्यासनैरपेक्ष्यस्यावश्यं वक्तव्यत्वात् ॥

एवं सन्न्यासविधीनामैककण्ठ्ये स्थिते सति ब्राह्मणः क्षत्रियो वापीति स्मृति वचनं जावाल श्रुति तात्पर्याज्ञान

मूलत्वादप्रमाणमित्याह ।
विरोधाधिकरणत्यायेनेति ।
प्रत्यक्षश्रुतिविरुद्धस्मृतिवचनमप्रमाणमिति विरोधाधिकरणन्यासः ।
तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्येत्यादि श्रुतौ सन्न्यासाधिकारानुरोधेन ब्राह्मणः सन्न्यस्य पाण्डित्यादिकमनुतिष्ठेदिति वाक्यार्थलाभात् ।
विद्यार्थसन्न्यासे विविदिषुणा क्रियमाणे ब्राह्मणस्यैवाधिकार इति भगवतो भाष्यकारस्य मतं यदि वार्तिकवचनस्य प्रमाणमूलभाष्यकारमत विरुद्धेर्थे तात्पर्थे कल्पे तत् तदा सन्न्यासस्य साधारण्य प्रतिपादकस्मृतिवचनवद्वार्तिकवचनमपि हेयमेव स्यादतो भाष्याविरुद्धार्थ परं वार्तिकवचनमित्याह ।
तद्विद्वत्सन्न्यास विषयमिति ।
विविदिषा सन्न्यासे सर्वाधिकारप्रतिपादनपरं न सम्भवतीत्यत्र हेत्वन्तरमाह ।
सर्वाधिकारेति ।
क्षत्रियवैश्ययोस्तत्वज्ञानमप्युपेय तेन वानान्त्यः जनकादीनां तत्वज्ञानवत्वप्रतिपादकशास्त्रविरोधानापः तत्वज्ञानेन कर्माधिकारप्रयोजकवर्णाश्रमाद्यध्यासनिवृतौ सकलकर्मनिवृतिरूपविद्वत्सन्न्यासस्य क्षत्रियवैश्ययोरपि वारयितुमशक्यतया विविदिषा सन्न्यास इव विद्वत्सन्न्यासेपि ब्राह्मणस्यैव अधिकार इति नियमासम्भवादितिभावः ।
कुतो बलान्नियमः क्रियते तादृशं बलं नास्तीत्यर्थः ।
एवं चेति श्रवणाङ्गत्वेनापि कारिविशेषणत्वेन वा विद्या साधने विविदिषासन्न्यासे ब्राह्मणस्यैवाधिकार इति सिद्धे सतीत्यर्थः ।
ननु सन्न्यासस्याधिकारिविशेषणतया अङ्गतया वा श्रवणापेक्षितत्वपक्षे

श्रवणमात्रस्य सन्न्यासापेक्षत्वावगमात् ।
क्षत्रियवैश्ययोर्विविदिषासन्न्यासरहितयोः श्रवणानुष्ठानं नास्तीत्येव पर्यवस्यति न तु तयोः श्रवणं सन्न्यासनिरपेक्षमिति तथा च कथं तयोः श्रवणाद्यनुष्ठाननिर्वाहः ।
तत्राह नहीति ।
देवभावं प्राप्तस्येति ।
न च सगुणोपासकस्य ब्रह्मलोकं गतस्य उपासनयादेवभावं प्राप्तस्य निर्गुणब्रह्मसाक्षात्कारायोपासकेन क्रियमाणे श्रवणादौ सन्न्यासस्य व्यभिचार इत्ययुक्तं तस्य सुगुणविद्यासामर्थ्यादेव निर्गुणसाक्षात्कारसम्भवेन श्रवणाद्यनुष्ठानस्याभावादिति वाच्यम् ।
देवताधिकरणे सगुणविद्ययादेवभावं प्राप्तमुपासकमेव प्राधान्येन विषयाकृत्य श्रवणादौ देवाद्यधिकारस्य निरूपितत्वेन तस्यापि श्रवणाद्यनुष्ठानं विना विद्यानुदयस्य प्रागेव श्रवणविधिविचारावसरे दर्शितत्वात् ।
तथा च तत्र व्यभिचारात् ।
सन्न्यासो न श्रवणमात्राङ्गं किन्तु ब्राह्मणकर्तृकश्रवणस्यैवाङ्गमिति क्षत्रियवैश्ययोः सन्यासाभावेपि श्रवणाद्यनुष्ठान निर्वाह इत्यर्थः ॥

देवानां कर्मानुष्ठाना प्रसक्त्यातत्यागरूपस्य सन्न्यासस्य तेष्वसम्भवादित्याहुः ।
अपरे तु ब्रह्मसंस्थो मृतत्वमेतीति श्रुत्युदिता यस्य ब्रह्मणि संस्था समाप्तिरनन्यव्यापारत्वरूपं तत्निष्ठत्वं तस्य श्रवणादिषु मुख्योधिकारः

गछतस्तिष्ठतो वापि जाग्रतः स्वप्नोपि वा न विचार परं चेतो यस्या सौमृत उच्यते ।
आसुप्तेरामृतेः कालं नयेद्वेदान्तचिन्तयेत्यादि स्मृतिषु सर्वदाविचारविधानात् ।
सा च ब्रह्मणि संस्था विना सन्न्यासमाश्रमान्तरस्थस्य न सम्भवति ।
स्वस्वाश्रमविहित कर्मानुष्ठान वैयग्र्यादिति सन्न्यासरहितयोः क्षत्रियवैश्ययोर्न मुख्यः श्रवणाद्यधिकारः ॥

ननु देवानामपि कुतः सन्न्यासाभावः तत्राह ।
देवानामिति ।
ननु देवकर्तृक श्रवणे सन्न्यासा श्रमस्य यदि व्यभिचारः तर्हि त्रैवर्णिक मनुष्य कर्तृक श्रवणे सन्न्यासाश्रमस्य हेतुत्वमस्तु न तु ब्राह्मणमात्रकर्तृके तथा सङ्कोचे मानाभावात् ।
उक्तं हि प्रागेव चतुर्ष्वाश्रमेषु सन्न्यासाश्रमपरिग्रहेणैव श्रवणादिर्निर्वर्तनीयमिति स चाश्रमविभागो वर्णत्रय साधारण एव न ब्राह्मणमात्रगतः तथा च सन्न्यासिनो ब्राह्मणस्येव सन्न्यासहीनयोः क्षत्रियवैश्ययोः श्रवणादौ नाधिकारः सम्भवतीत्यस्वरसादाह ।
अपरे त्विति ।
श्रत्युदिता ब्रह्मणि संस्था यस्य सम्भवति तस्य मुख्योधिकार इति सम्बन्धः ।
संस्थापदस्यो व्याख्यानं समाप्तिस्तस्यापि व्याख्यानमनन्येति अमृतत्वकामस्य नैरन्तर्येण

विचारकर्तव्यतायां स्मृतिवचनान्यप्युदाहरति ।
गछत इति स्वपत इति ।
शयानस्येत्यर्थः ।
स जीवति मनो यस्य मननेनैव जीवतीत्यादि वचनसङ्ग्रहार्थमादिपदं मननं तत्वचितनं तद्रहितो जीवन्नेव मृत इत्यर्थः ।
अयं च मुख्याधिकारः सन्न्यासिनामेवेत्याह ।
सा चेति ।
वैयग्र्यादिति ।
व्यग्रत्वादित्यर्थः सार्वकालिकी विक्षेपनिवृतिरसन्न्यासिनां न भवतीति भावः ।
न मुख्य इति शास्त्रीयोधिकारो नास्तीर्थः ।
अयं भावः ब्रह्मसंस्थोमृतन्त्वमेतीति श्रुत्यापाण्डित्य श्रुत्येव ब्रह्मनिष्ठाधर्मकः सन्न्यासाश्रमो विधीयते ब्रह्मसंस्थाशब्दितायाः ब्रह्मनिष्ठायाः सन्न्यासाश्रमे सम्भवादाश्रमान्तरेष्वसम्भवादिति प्रतिपादितं सन्न्यासाधिकरणभाष्यान्दौ तथा च ब्रह्मनिष्ठत्वस्य सन्न्यासाश्रमधर्मत्वेन विहितत्वात्सन्न्यासिनो ब्राह्मणस्य ब्रह्मनिष्ठत्वं स्वधर्म इति सन्न्यासिनः तत्र मुख्योधिकारः ।
तस्य ब्रह्मनिष्ठत्व व्यतिक्रमे प्रत्यवायावगमाच्च तथा च परमहंसोपनिषदि श्रूयते काष्टदण्डो धृतो येन सर्वाशी ज्ञानवर्ज्जिताः स याति नरकान् घोरान् महारौरवसञ्ज्ञकानिति काष्टदण्डोपलक्षितः सन्न्यासाश्रमोधृतः परिगृहीतो येन सः सर्वाशी सर्वे विषयजातमशितुं भोक्तुं शीलमस्यास्तीति सर्वाशी बाह्यान्तःकरणजयरहितः इति यावत् ज्ञानवर्जितः ज्ञानाभ्यासरहित इत्यर्थः यः सन्न्यस्य शमादि सहितं ब्रह्मनिष्ठत्वं नानुतिष्ठति सतो वां दुर्गतिं गछतीत्यर्थः ।
यथा सन्न्यासिनो ज्ञाननिष्ठाविधायकानि सन्न्यस्य

श्रवणं कुर्यात् ।
गछतस्तिष्ठतो वापि आसुप्तेरामृतेः कालमित्यादीनि स्मृतिवचनानि सहस्रशः सन्ति तथा तत्परित्यागे पातित्यबोधकान्यपि स्मृतिवचनानि सहस्रशः सन्तित्वं पदार्थविवेकाय सन्न्यासः सर्वकर्मणां श्रुत्याविधीयते यस्मातत्यागी पतितो भवेत् ।
नित्यकर्मपरित्यज्य वेदान्त श्रवणं विना वर्तमानस्तु शन्न्यासी पतत्येव न संशय इत्यादीनि सर्वाश्रमसाधा ॥

किन्तु दृष्टार्था च विद्याप्रतिषेधाभावमात्रेणाप्यर्थिनमधिकरोति श्रवणादिष्विति अन्तराचापि तु तद्दृष्टेरित्यधिकरणभाष्योक्त न्यायेन शूद्रवद प्रतिषिद्धयोर्विधुरादीनामिव देहान्तरे विद्या प्रापकेणा मुख्याधिकारमात्रेण श्रवणानुमतिः न ह्यन्तरा चापि तु तदृष्टेरित्यधिकरणे विषुरादीनामनाश्रमिणामङ्गीकृतः श्रवणाद्यधिकारो मुख्य इति शक्यते ॥

रण्येनापि स्वधर्मस्य विगुणस्यापि परित्यागे महान नर्थः स्मर्यते श्रेयान्स्वधर्मो विगुणः परिधर्मात् स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावह इत्यादौ ।
सन्न्यासाधिकरणे भाष्यकारैरेव तत्सर्वमभिप्रेत्य सन्न्यासिनो

नन्यव्यापारतया श्रवणादितिष्पादनमकुर्वतः पातित्यं कण्ठत एवोक्तं तथा च भाष्यं ब्रह्मनिष्ठत्वमेव हि तस्य शमाद्युपवृंहितं स्वाश्रमविहितं कर्मयज्ञादीनीवेतरेषां तद्व्यतिक्रमे च तस्य प्रत्यवाय इति तस्माछ्रवणादेर्भिक्षुं प्रतिविहितत्वात् ।
तदति क्रमेभिक्षीः प्रत्यवायावगमाच्च सन्न्यासिनः श्रवणादौ मख्योधिकारः सन्न्यासरहितान् प्रति तु श्रवणादेरविहितत्वादकरणे प्रत्यवाया नवगमाच्च नास्ति ।
तेषां मुख्योधिकार इति ननु क्षत्रियादिकं प्रतिश्रवणादिविधानाभावे सत्यधिकार एव नास्तीति कुतो नोच्यते इति शङ्कते ।
किं त्विति ।
नित्याधिकाररूपमुख्याधिकारासम्भवेपि काम्याधिकाररूपगौणाधिकार सम्भवान्नैवमिति भाष्येणोतरमाह ।
दृष्टार्था चेति ।
किं त्वमुख्याधिकारमात्रेण श्रवणाद्यनुमितिरिति सम्बन्धः ।
यथा भुजिक्रियाक्षुद्वाधा निवृतिरूपदृष्टफला तथा विद्यापि सर्वानर्थ मूलाविद्यानिवृतिरूपदृष्टफलाश्रुतिसिद्धा तथा च तस्यां विद्यायामनर्थ निवृतिकामानां सर्वेषामेवार्थित्वलक्षणाधिकारः सम्भवति ।
तथा च विद्याधिकारिणां सर्वेषामविशेषेण वेदान्तश्रवणादावधिकारप्रसक्तौ शूद्रस्य वेदश्रवणादि प्रतिषेधात्नाधिकार इत्युक्तमपशूद्राधिकरणे क्षत्रियादीनां च तथा प्रतिषेधा भावाद्वेदान्तश्रवणाधिकारो भाष्यानुमतो विधुरादेरिवेत्यर्थः ।
नन्व मुख्याधिकारिभिरनुष्ठित श्रवणादेरपि विद्योत्पादकत्वमवश्यं

वाच्यम् अन्यथा गौणाधिकारनिरूपण परभाष्य वैयर्थ्य प्रसङ्गात् ।
विद्योत्पादकत्वावश्यम्भावे च न काम्याधिकारस्य गौणत्वं मुख्यगौणाधिकारयोः फलतौ विशेषाभावादित्यत आह ।
देहान्तर इति ।
अयं भावः मुख्याधिकारिणामनन्यव्यापारतया प्रत्यहं निर्वर्त्यमानं श्रवणादिकं निरङ्कुशब्रह्मचर्या हिंसाशमदमादि युक्तमस्मिन्नेव जन्मनि प्रायेण विद्योत्पादकं सम्पद्यते ।
अमुख्याधिकारिणां तु श्रवणादिकमनन्यव्यापाररूपत्वाभावात् ।
सङ्कुचितब्रह्मचर्यादि युक्तत्वाच्चास्मिन् जन्मनि विद्योत्पादनयोग्यमेव न भवति किन्तु बहुषु जन्मसु किञ्चित् किं छ्रवणादिकं सम्पाद्यमानं सम्भूय देहान्तरे क्वचिदेवं ज्ञानमुत्पादयेदिति महान्फलभेदो गौणमुख्याधिकारयोः ।
तथा च स्मृतिः ।
अनेकजन्मसंसिद्धस्ततो पातिपराङ्गतिमिति अनेकेषु जन्मसुकृतश्रवणादिना क्वचिज्जन्मनि संसिद्धः उत्पन्नविद्यः सन्ततः सिद्धिवलान्मुक्तिं गछतीति स्मृत्यर्थः ।
ननु क्षत्रियवैश्ययोर्विधुरादीनामिवामुख्याधिकार इत्ययुक्तम् ।
दृष्टान्ता सम्प्रतिपतेरित्यत आह ।
न हीति वक्तुं हि न शक्यत इति सम्बन्धः ॥

अतस्त्वितरज्ज्यायो लिङ्गाच्चेति सूत्रकारेणैव तेषाममुख्याधिकार स्फुटीकरणात् ।
न च तत्र तेषां श्रवणाधिकार एव नोक्तः किन्तु तदीय कर्मणां

विद्यानुग्राहकत्वमिति शङ्क्यम् ।
दृष्टार्था च विद्येत्युदाहत तदधिकरणभाष्यविरोधात् ।
न च क्षत्रियवैश्ययोः सन्न्यासाभावादमुख्याधिकारे तत एव देवानामपि श्रवणादिषुम् अमुख्य एवाधिकारः स्यात् ।
तथा च क्रममुक्तिफलक सगुणविद्ययादेवभावं प्राप्य श्रवणाद्यनुतिष्ठतां विप्राम्यर्थं सन्न्यासार्हं पुनर्ब्राह्मणजन्म वक्तव्यमिति ब्रह्ममभिसम्पद्यतेन स पुनरावर्तत अनावृतिः शब्दादित्यादि श्रुतिरूत्रविरोध इति वाच्यदेवानामनुष्टेय कर्मवैयग्न्याऽभावात् स्वत एवानन्य व्यापारत्वं सम्भवतीति क्रमं मुक्तिफलक सगुणविद्याविधापि शास्त्रप्रामाण्याद्विनापि सन्न्यासं तेषां मुख्याधिकाराभ्युपगमादित्याहुः ॥

यद्यपि सन्न्यासिन एव मुख्याधिकार इति पूर्वप्रतिपादितत्वेन विधुरादिनां सन्न्यासाभावादेवगौणाधिकारः सिद्धस्तथापि तेषां गौणाधिकारे सूत्रसङ्गृहीतामप्युपपतिमाह ।
अतस्त्वितरदिति ।
अतः अनाश्रमिभिरनुष्ठित विद्यासाधनापेक्षया इतरदाश्रमिभिरनुष्ठितं विद्यासाधनं कर्मश्रवणादिकं वाज्यायः प्रशस्तं विद्यासाधनं

ज्यायस्त्वावधारणार्थस्तु शब्दः श्रुतिलिङ्गात् स्मृति लिङ्गाच्च तेनैति ब्रह्मवित् पुण्यकृदिति वाक्यं श्रुतिलिङ्गम् ।
अनाश्रमी न तिष्ठेत क्षणमेकमपि द्विज इत्यादिवाक्यं स्मृतिलिङ्गं तेन पुण्यलब्धेन ब्रह्मवेदनेन ब्रह्म एति ब्रह्मप्राप्नोतीति श्रुत्यर्थः ।
अत्र श्रुतौ पुण्यत्वेन प्रसिद्धानामाश्रमधर्माणामेव विशिष्य ब्रह्मप्राप्ति साधनत्व प्रतिपादनादनाश्रमिधर्माणां विशेषानुग्रहश्चेति सूत्रोक्त न्यायेन विद्योपयोगीनामपि निकर्षो भाति स च निकर्षो विधुरादीनां विद्यार्थ कर्मसु श्रवणादिषु च मुख्याधिकाराभावप्रयुक्त एवेति वक्तव्यं हित्वन्तराभावादनाश्रमित्वस्य निदितत्वाच्च न हि कर्मज्ञानयोर्मुख्याधिकारी निन्दार्ह इति सूत्रभाष्यकारयोरभिप्राय इत्यर्थः ।
ननु विधुराधिकरणे विधुराद्यनुष्ठितं कर्मविद्यासाधनमित्येतावदेवोक्तं न तु विधुरादेः श्रवणाधिकारोपि तत्र प्रतिपादितः ।
तथा च श्रवणादौ विधुराद्यधिकारस्य गौणमुख्यत्वचिन्तातिरालम्बनेत्याशङ्क्य परिहरति ।
न च तत्रेति ।
विधुराधिकरण इत्यर्थः ।
तत एवेति सन्न्यासाभावादेवेत्यर्थः ।
अस्तु पुनर्ब्राह्मणजन्म इत्यत आह ।
ब्रह्मलोकमिति ।
न स पुनरिति ब्रह्मलोकमभिसम्पद्य पुनरिमंलोकं प्रतिनावर्तत इत्यर्थः ।
एतछ्रुति मूलं सूत्रमुदाहरति ।
अनावृतिरिति ।
अनावृतिरिवृतिरिति ।
ब्रह्मलोकं गतानामुपासकानामावृतिर्नास्ति ।
उदाहृत श्रुतेरित्यर्थः स्मृतेश्चेत्यादिसूत्रसङ्ग्रहार्थमादि

पदं तथा च स्मृतिः ।
ब्रह्मणा सहते सर्वे सम्प्राप्ते प्रतिसञ्चरे परस्यान्ते कृतात्मानः प्रविशन्ति परं पदमिति ।
ते ब्रह्मलोकवासिनः ब्रह्मोपासकारः प्रतिसञ्चरे महाप्रलये परस्य हिरण्यगर्भस्य ब्रह्मलोक स्वामिनः आपुषों ते कृतः साक्षात्कृतः आत्मा येषां ते तथा ।
नन्वन्यव्यापारत्वसम्भवेपि सन्न्यासो नास्तीति आशङ्क्याह ।
क्रममुक्तीति मनुष्येष्वेव सन्न्यासो मुख्याधिकार प्रयोजकः वर्णाश्रमविभागस्य मनुष्य विषयत्वादितिभावः ॥

नन्वमुख्याधिकारिणादृष्टफलभूतवाक्यार्थावगत्यर्थम् अविहित शास्त्रान्तरविचारवक्रियमाणो वेदान्त विचारः कथं जन्मान्तरीय विद्यावाप्तावुपयुज्यते ।
न खलु विचारस्य दिनान्तरीय विचार्य्यावगति हेतुत्वं युज्यते ।
दूरे जन्मान्तरीय तद्धेतुत्वं न च वाच्यं मुख्याधिकारिणापरिव्राजकेन क्रियमाणमपि श्रवणं दृष्टार्थमेव सर्वत्रविचार्य्यावगतेर्दृष्टफलत्वा तस्य यथा प्रारब्धकर्मविशेषरूपप्रतिबन्धादिह जन्मनि फलमजनयतो जन्मान्तरे प्रतिबन्धकापगमेन फलजनकत्वमैहिकमय्य प्रस्तुत

प्रतिबन्धे तद्दर्शनादित्यधिकरणे तथा निर्णयात् ।
एवमुम्बुख्याधिकारिकृतस्यापि स्यादिति ।
यतः शास्त्रीयाअङ्ग युक्तं श्रवणमपूर्वविधित्वपक्षे फलपर्यन्तमपूर्वं नियमविधित्वपक्षे नियमादृष्टं वा जनयति ।
तच्च जाति स्मरत्व प्रापका दृष्टवत् प्राग्भवीय संस्कारमुद्बोध्य तन्मूल भूतस्य विचारस्य जन्मान्तरीय विद्योपयोगितां घटयतीति पुज्यते शास्त्रीयाङ्ग विधुरं श्रवणं नादृष्टोत्पादकमिति कुतस्तस्य जन्मोतरी विद्योपयोगित्वमुपपद्यते ।
घटकादृष्टं विना जन्मान्तरीय प्रमाण व्यापारस्य जन्मान्तरीयावगति हेत्वोपगमेति प्रसङ्गात् ॥

अविहितेति ।
न्यायशास्त्रादिविचारवदित्यर्थः ।
एतज्जन्मीय वेदान्तविचारस्यागामि जन्मीयां वेदान्तार्थावगर्तिप्रतिहैतुत्वासम्भवं कैमुति कन्या येन दृढयति ।
न खल्विति ।
मुख्याधिकारिकृतविचारदृष्टान्तेन गौणाधिकारि श्रवणादेरपि जन्मान्तरीय विद्योपयोगं शङ्कते ।
न च वाच्यमिति ।
ततः किं तत्राह ।
तस्येति ।
यथा तस्य मुख्याधिकारिकृतश्रवणस्य प्रतिबन्धादिह जन्मनि विद्यालक्षणं फलमजनयतो जन्मान्तरे फलजनकत्वम् एवम् अमुख्याधिकारिकृतमपि

श्रवणं जन्मान्तरे फलजनकं स्यादिति न च वाच्यमितिसम्बन्धः ।
मुख्याधिकारिकृतश्रवणस्य सति प्रतिबन्धके आमुष्मिकं विद्याजन्मेत्यत्र मानमाह ।
ऐहिकमपीति ।
प्रस्तुत प्रतिबन्धे असतिविद्याजन्म इह जन्मन्यपिवति ।
अयि शब्दात् सति प्रतिबन्धे जन्मान्तरे भवति ।
कुतः तद्दर्शनात् ।
तस्य प्रतिबन्धक वशात् जन्मान्तरे विद्योदयस्य वामदेवादिषु दर्शनादित्यर्थः ।
दृष्टान्त वैषम्येणोतरमाह ।
शास्त्रीयाङ्ग युक्तमिति शास्त्रीयाङ्गं सन्न्यासः तद्युक्तं सन्न्यासिनानुष्ठीयमानमिति यावत् ।
तथा च शास्त्रीयाङ्ग सहितं श्रवणं श्रवणविधिरपूर्वविधिरिति पक्षे स्वयमेव विद्यालक्षणफलपर्यन्तमदृष्टं जनयति ।
श्रवणविधिर्नियमविधिरिति पक्षे तु मादृशं श्रवणं नियमविशिष्टं सत् फलपर्यन्तं नियमादृष्टं जनयतीत्यर्थः ।
तच्चेति श्रवणजनितादृष्टमित्यर्थः ।
जातीति जातिर्जन्म ततश्च यथा जाति स्मरत्व सम्पादकमदृष्टं पूवजन्म तद्वृतान्तानुभवजन्य संस्कारमस्मिन् जन्मन्युद्बोध्य तद्वद्बोधनद्वारा पूर्वजन्म तद्वृतान्त स्मृतिं घटयति तथा प्राचिभवे श्रवणादिजनतं संस्कारमुद्बोध्य तत्संस्कारकारणभूतस्य श्रवणस्य भावि जन्मनिविद्योपयोगित्वं घटयतीत्यर्थः ।
शास्त्रीयाङ्गविधुरमिति ।
सन्न्यासरहितक्षत्रिययादीना क्रियमाणं श्रवणमदृष्टोत्पादकं न भवति क्षत्रियादिकं प्रत्यविहितत्वाछ्रवणादेरितिभावः ।
नन्वविहित श्रवणस्यादृष्टानुत्पादकत्वेपि

संस्कारजनकत्वसम्भवात् ।
तद्वलादेवजन्मान्तरीय विद्या हेतुत्वं कुतो न स्यादित्यत आह ।
घटकादृष्टं विनेति ।
अतिप्रसङ्गादिति जन्मान्तरानुभूत सकलपदार्थस्मृतिप्रसङ्गादित्यर्थः ॥

उच्यते अमुख्याधिकारिणाप्युत्पन्नविविदिषेण क्रियमाणं श्रवणं द्वारभूतविविदिषोत्पादक प्राचीनयज्ञाद्यनुष्ठान जन्यापूर्वप्रयुक्तमिति तदेवापूर्वं विद्यारूपफलपर्यन्तं व्याप्रियमाणं जन्मान्तरीयायामपि विद्यायां स्वकारित श्रवणस्योपकारिकतां गटयतीति नानुपपति ।
श्रवणादौ विध्यभावपक्षे तु सन्न्यासपूर्वकृतस्यापि श्रवणस्यादृष्टानुत्पादकत्वात्सति प्रतिबन्धे तस्य जन्मान्तरीय विद्या हेतुत्वमित्थमेव निर्वाह्यम् ।
आचार्यास्तु नियमविधिपक्षेप्ययमेव निर्वाहः श्रवणमभ्यस्यतः फलप्राप्तेरर्वाक् प्रयाणे तन्नियमादृष्टस्यानुत्पतेस्तस्य फलपर्यन्ता वृतिगुणक श्रवणानुष्ठाननियमसाध्यत्वात् ।
न हि नियमादृष्टजनकः श्रवण नियमः फलपर्यन्तमार्वर्तनी

यस्य श्रवणस्योपक्रममात्रेण निर्वर्तितो भवति ।
येन तज्जन्यनियमादृष्टस्यापि फलपर्यन्त श्रवणावृतेः प्रागेवोत्पतिः सम्भाव्येत् ॥

कर्मणां विद्यायां विनियोग इति पक्षमाश्रित्य परिहरति ।
उच्यत इति ।
यज्ञादिभिर्विद्यायां सम्पादनीयायां द्वारभूताया विविदिषा तस्या उत्पादकं प्राचीनं यद्विद्यार्थ यज्ञाद्यनुष्ठानं तज्जन्येत्यर्थः ।
स्वपदं यज्ञाद्यनुष्ठानजन्यापूर्वपरं वाचस्पतिमते मुख्याधिकारिकृतश्रवणस्यापि यज्ञाद्यपूर्वेणैव निर्वाह इति दृष्टान्ताभिप्रायेणाह ।
श्रवणादौ विध्यभावपक्षे त्विति ।
विवरण पक्षेप्येवमेव निर्वाह इत्याह ।
आचार्यो त्विति ।
अयं भावः प्रमाणासम्भावना निवृतिः श्रवणफलं प्रमेयासम्भावना निवृति मनतफलं विपरीत भावना निवृति ।
निदिध्यासन फलं तथा च त्रिविधप्रतिबन्धकनिवृतिलक्षणफलपर्यन्तमावृतिविशिष्टानि श्रवणादी नियस्य मुख्यायिकारिणो निष्पन्नानि तस्य नियमादृष्टमुत्पन्नमेव ।
एवं सम्पन्नविद्यासाधनस्यापि प्रतिबन्धवशात् ।
यदि विद्या न जाता तदा पुनर्जन्मलाभेन प्रतिबन्धक्षये सति पुनर्विचारमनपेक्ष्यैव विद्या जायते ।
यथा वामदेव हिरण्यगर्भादेः यस्य तूक्तप्रतिबन्धनिवृतिपर्यन्त श्रवणाद्यावृतिर्न जाता मध्ये मृतिश्च जाता तस्य मुख्याधिकारिणोपि नियमादृष्टं

न जायते ।
स च पुनर्जन्मान्तरे उक्त प्रतिबन्धनिवृतिपर्यन्त श्रवणादिकमभ्यस्य श्रवणादिनियमादृष्टवशेन विद्याप्रतिबन्धककल्मषक्षये सति विद्यां लभते ।
तदुक्तं भगवता श्रीकृष्णेन तत्र तं बुद्धिसंयोगं लभते ।
पौर्वदैहिकं यतते च ततो भूयः संसिद्धौ कुरु नन्दन ।
इति तत्र प्राप्ते साधुजन्मनि पूर्व देहे भवमिदानिं संस्कारात्मनानुवर्तमानं बुद्धिसंयोगं श्रवणादि कर्तव्यता बुध्या सम्बन्धं लभते अस्मिन्नपि जन्मनि प्रतिबन्धनिवृतिद्वाराविद्योदयोयमयाश्रवणादिकमनुष्ठेयमिति बुध्यायुक्तो भवतीत्यर्थः ।
ततः पूर्वजन्मोय पत्नीपेक्षयाभूयः अधिकं यत्तत्ते संसिध्यर्थमित्यर्थः ।
तथा च योयं फलपर्यन्तावृतिगुणकश्रवणादिरहितो योगभ्रष्टः तस्य नियमादृष्टाभावाद्यज्ञाद्यदृष्टादेव निर्वाहः कर्तव्य इति ।
प्रतिबन्धनिवृतिरूपफलप्राप्तेः पूर्वं नियमादृष्टानुत्पतौ हेतुमाह ।
तस्येति ।
नियमादृष्टस्येत्यर्थः ।
नियमादृष्टं हि न श्रवणमात्रजन्यं किन्तु श्रवणनियमजन्यं तन्नियमश्च श्रवणादेरेव फलपर्यन्तमावृतौ सत्यां निष्पद्यते ।
तथा च फलोत्पतेरर्वाक् श्रवणादि नियमस्ये वा भावात् न नियमादृष्टोत्पतिरित्यर्थः ।
उक्तं प्रपञ्चयति ।
न हीत्यादिना ॥

अवघातादिवदावृतिगुणकस्यैव श्रवणस्य

फलसाधनत्वेन फलसाधनपदार्थनिष्पतेः प्राक् तन्नियमनिर्वतिवचनस्य निरालम्बनत्वात् श्रवणावघाताद्युपक्रममात्रेण नियमनिष्पतौ तावतैव नियमशास्त्रानुष्ठानं सिद्धमिति तेदन्नावृतावप्यवैकल्पप्रसङ्गाच्चेत्याहुः ।
केचित् तु दृष्टार्थस्यापि श्रवणस्य दिने दिने तु वेदान्तश्रवणाद्भक्ति संयुतात् गुरुशुश्रूषयालब्धात्कृछ्राशीति फलं लभेदित्यादि वचनप्रामाण्यात् स्वतत्रादृष्टोत्पादकत्वमप्यस्ति ।
यथाग्नि संस्कारार्थस्याधानस्य पुरुषसंस्कारेषु परिगनात्तदर्थत्वमपि ।
एवं च वचनवलादुभयार्थत्वोपपतेः तथा च प्रतिदिन श्रवणजनितादृष्टमहिम्नैवामुष्मिक विद्योपयोगित्वं श्रवणमननादि साधनानामित्याहुः ।
एवं श्रवणमननादि साधनानुष्ठानप्रणाड्या विद्यावाप्तिरित्यस्मिन्नर्थे सर्वसम्प्रतिपन्ने स्थिते भारतीतीर्थाः ध्यान दीपे विद्यावाप्तावुपायान्तरमप्याहुः ।

श्रवणनियमः श्रवणस्योपक्रममात्रेण निर्वर्तितो न भवतीत्यत्र हेतुमाह ।
अवघातादि वदिति ।
आवृति विशिष्टस्यैवावहन नस्य तण्डुलनिष्पतिलक्षणफलसाधनतायाः लोकसिद्धत्वादितिभावः ।
प्राक् तदिति फलपर्यन्तं श्रवणस्यैवावृतौ सत्यांश्रवणस्याप्राप्तांशपरिपूरणलक्षण नियमो निष्पन्नो भवति न ततः प्रागित्यर्थः श्रवणस्यारम्भमात्रे वा कतिपयावृतिमात्रे वा जाते सति श्रवणनियमो निष्पन्न इति वचनं विषयाभावान्निरालम्बनमित्यर्थः ।
तदनावृतावपीति ।
श्रवणावघाताद्यनुष्ठानमुपक्रम्य श्रवणादिकं त्यक्ताभाषाप्रबन्धादि विचारे नखविदलनादौघग्रवृतावपि नियमविधिविरोधाभावप्रसङ्गादित्यर्थः ।
मुख्याधिकरिभिरन्वहं क्रियमाणस्य वेदान्तश्रवणस्य प्रतिबन्धकनिवृतिरूपदृष्टफलोत्पादकत्ववददृष्टोत्पादकत्वमप्यस्ति तथा च तद्बलात् जन्मान्तरे विद्योपयोगित्वं विचारस्य घटत इति परिहारांरतमाह केचित्विति ।
फलमिति पुण्यरूपमित्यर्थः ।
वचने तु शब्दश्चार्थे ।
तथा च वेदान्तश्रवणस्य देवतागुरुवेदान्तविषयभक्ति गुरुशुश्रूषाभ्यामुपाताभ्यामनुपातैश्च शमदम ब्रह्मचर्या हिंसादिभिः समुच्चयार्थः तु शब्द इति भावः ।
स्वतन्त्रेति वेदान्तश्रवणस्य स्वतन्त्रतया अदृष्टोत्पादकत्वमस्तीत्यर्थः स्वातन्त्र्यं चादृष्टजनने श्रवणस्य विद्यायां विनियोगबोधकश्रवणविधिनैरपेक्ष्यमिति बोध्यम् ।
एकस्योभयार्थत्वे दृष्टान्तमाह

यथा प्रीति ।
अग्नीना दधीतेति वचनादाधानस्याहवनी पाद्यग्निसंस्कारत्वोपगमादितिभावः ।
पुरुषसंस्कारेष्विति ।
अग्न्याधेयमग्निहोत्रमित्यादिपुरुषसंस्कारसङ्ग्राहक सूत्रे अग्न्याधानस्यापि पावादित्यर्थः ।
अदृष्टमहिम्नैवेति ।
वेदान्तश्रवणजनितादृष्टस्य योग्यतया विद्यायामेव विनियोगस्य वक्तव्यतया तद्बलाज्जन्मान्तरीय विद्योपयोगित्वमितिभावः ।
एवम् उत्तममध्यमाधिकारिणां साङ्ख्यमार्गं निरूप्यतदशक्तानाम् अत्यन्तमन्दाधिकारिणां योगमार्गं निरूपयितुमुपक्रमते ।
एवमिति ।

सर्वसम्प्रतिपन्न इति सर्वश्रुति स्मृतिषु सम्यक् प्रतिपन्ने निश्चित इत्यर्थः ।
आहुरिति सम्यक् निरूपितवन्त इत्यर्थः ॥

तत्कारणं साङ्ख्ययोगाभिपन्नं यत्साख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते इति श्रुतिस्मृतिदर्शनाद्यथा साङ्ख्यं नाम वेदान्तविचारः श्रवणशब्दितो मननादि सहकृतो विद्यावाप्युपायः एवं योगशब्दितं निर्गुणब्रह्मोपासनपि ।
न च निर्गुणस्योपासनमेव नास्तीति शङ्क्यम् ।
प्रश्नोपनिषदि शैव्यप्रश्नेयः पुनरेतं त्रिमात्रेणोङ्कारेण परमपुरुषमभिध्यायीतेति निर्गुणस्यैवोपासनप्रतिपादनात्

तदनन्तरं स एतस्माज्जीव घनात्परात्परं पुरिशयं पुरुषमीक्षत इत्युपासनाफलवादे ईक्षति कर्मत्वेन निर्दिष्टं यन्निर्गुणं ब्रह्मतदेवोपासनावाक्येपि ध्यायति कर्मनान्यत् ईक्षति ध्यानयोः कार्यकारणभूतयोरेकविषयत्व नियमादित्यस्यार्थस्ये क्षति कर्माधिकरणे भाष्यकारादिभिरङ्गीकृतत्वात् ।

न तु नूतनतया कल्पितवन्त इति भ्रमितव्यं तथापि श्रुत्यादि सिद्धत्वात् ।
तत्प्रकृतं कारणत्वोपलक्षितं ब्रह्मसाङ्ख्ययोगाभ्यां विद्याद्वारा आभिमुख्येन प्रत्यक्तेन प्राप्तमिति श्रुत्यर्थः साङ्ख्यैः श्रवणादिपरैः योगैरुपासकैः यत्स्थानं ब्रह्मस्वरूपं विद्याद्वारागम्यते प्राप्यत इत्यर्थः योगैरपीत्यपि शब्दाद्योगमार्गस्यानुकल्पत्वं भातीति बोध्यम् अपीति ।
विद्यां प्राप्त्युपाय इत्यनुषङ्गः निर्गुणब्रह्मोपासनं मान शून्यमित्याशङ्क्यपरिहरति ।
न चेत्यादित्या नन्वियं शङ्का न युक्ता तत्कारणं यत्साङ्ख्यैरिति श्रुतिस्मृत्योरादावेव तत्र प्रमाणत्वेनोदाहृतत्वात् ।
न चोदाहृत श्रुतिस्मृतिगतयोग पदस्य सगुणोपासन परत्व सम्भवादाशङ्कायुक्तेति वाच्यम् ।
भिन्नविषयोरुपासनसाक्षात्कारयोः कार्यकारणभावा सम्भवेन निर्गुणविद्या हेतुभूतस्य योगस्य निर्गुणोपासनरूपत्वावश्यं भावान्न च साङ्ख्यैरिति वचनगतयोगपदस्योपास्ति

परत्वमेवासिद्धं तस्य गीताभाष्यकर्मयोगपरत्वेन व्याख्या तत्वादिति वाच्यम् ।
यत्साङ्ख्यैरिति वचनस्य वस्तुतो निर्गुणोपास्ति परस्यैव सतो भगवता श्रीकृष्णेन कर्मविषये उदाहृतत्वेन तदनुरोधेन भाष्ये तथा व्याख्यानोपपतेः ।
योग पदस्य ध्याने रूढत्वैन वस्तुतः कर्मपरत्वाभावात् ।
तद्वचन मूलभूतायां तत्कारणमिति श्रुतौ योगपदस्य ध्यानपरतया शारीरकभाष्ये व्याख्या तत्वाच्च कर्मयोगस्य मुखयोगद्वारा ब्रह्मप्राप्तिसाधनत्वं न तु साक्षादिति ज्ञापनायास्य वचनस्य कर्मविषयतया भगवतो दाहरण सम्भवाच्च तस्मान्मानाभावा शङ्का न युक्तेति च्चेन्न ।
उदाहृत श्रुतिस्मृति व्यतिरेकेणान्यत्र क्वापि निर्गुणोपासनं न दृष्टमित्येताभिप्रायेण शङ्कोपपतेः ।
अत एव सर्वासु श्रुतिषु निर्गुणोपासनं दृष्टमिति ।
मन्दाधिकारिणमासश्चानायाह ।
प्रश्नोपसिषदात्यादिना त्रिमात्रेणेति द्वितीयार्थे तृतीया तिस्रः अकारोकारमकाराख्यामात्रा यस्योङ्कारस्य स त्रिमात्रः ओङ्कारे निर्गुणमेव ब्रह्म तदभेदेन ध्येयमित्यत्र भाष्यादि सम्मतिमाह ।
तदनन्तरमित्यर्थः ।
जीवरूपः परमात्मनो घनः घटाकाशवदुपाधिपरिछिन्नचैतन्यात्मा जीवघनः तस्मात् परः पुरुषः निरुपाधिकः परमात्मानं सः ध्यातापुरिहार्द्दाकाशे बुद्धि साक्षित्वेन शयं वर्तमानमीक्षते साक्षात्कारोतीत्यर्थः ।
उपासना वाक्ये परं पुरुषममिध्यायीतेति वाक्य इत्यर्थः ।

कार्येति ईक्षण वाक्यस्य ध्यानफलभूतसाक्षात्कारप्रतिपादकत्वेन ध्याशवाक्यैक वाक्यत्वात् ।
ध्याने क्षणयोः कार्यकारणभावोवगम्यत इति भावः ।
नियमादिति ।
अन्य ध्यानादन्यसाक्षारादननादिति भावः ।

अन्यत्रापि तापनीय कठवल्ल्यादि श्रुत्यन्तरे निर्गुणोपास्तेः प्रपञ्चित त्वात् सूत्रकृताप्युपास्य गुणपरिछेदार्थमारब्धे गुणोपसंहार पादे निर्गुणेप्यानन्दादयः प्रधानस्येति सूत्रेण भावरूपाणां ज्ञानानन्दादिगुणानामक्षरधियान्त्ववरोध इत्यादि सूत्रेणाभावरूपाणामस्थूलत्वादि गुणानां चोपसंहारस्य दर्शितत्वाच्च ।
ननु आनन्दादि गुणोपसंहारे उपास्यं निर्गुणमेव न स्यादिति चेन्न आनन्दादिभिरस्थूलत्वादिभिश्चोपलक्षितमखण्डैकरसं ब्रह्मास्मीति निर्गुर्णत्वानुपमर्देनोपासनासम्भवात् ।
ननु तदेव ब्रह्मत्वं विद्धिनैदं यदिदमुपासत इति श्रुतेर्न परब्रह्मोपास्यमिति चेतन ॥

ननु कल्पतरौ ध्यातव्यस्य सूर्यान्तस्थत्वं स तेजसि सूर्ये

सम्पन्न इति सूर्यसपतिवचनानुसारै विशेषणं दत्तं तथा चोङ्कारे ध्यातव्य पुरुषस्य निर्गुणब्रह्मरूपत्वं कल्पतरुकारैर्नाङ्गीकृतमिति प्रतीयत इति चेन्न सूर्यसम्पतिवचनस्यार्चिरादिभार्गप्राप्ति परतायाः चतुर्थाध्याये व्यवस्थापितत्वेन सूर्य तदन्तस्थेश्वर प्राप्ति परत्वाभावात् ।
कल्पतरुकाराणामपि तदीयवचनान्तरपर्यालोचनया श्रुतेर्मार्गपरतया च सूर्यान्तस्थत्व विशेषण दाने तात्पर्याभावस्य परिमले प्रतिपादितत्वाच्चेतिभावः ।
देवाहवै प्रतिपतिमब्रुवन् ।
अणोरणीयां समिममात्मानमोङ्कारं नो व्याचक्ष्वेत्पाद्यातापनीय श्रुतिः अणोः सूक्ष्मादपि सूक्ष्मं दुर्विज्ञेयमिमं प्रत्यग्रूपं परमात्मानम् ओङ्कारगम्यमित्यर्थः ।
एतद्धेवाक्षरं ब्रह्मेत्पाद्याकठवल्ली श्रुतिः ओमित्येतदक्षरमिदं सर्वमित्यादिमाण्डूक्यश्रुतिः ओमित्येवं ध्यायथ आत्मानमिति मुण्डकश्रुतिश्चादिपदार्थः निर्गुणस्योपास्यचि सूत्रसम्मतिमाह ।
सूत्रकृतापीति ।
सूत्रकृतानिर्गुणेपि गुणानामुपसंहारस्य दर्शितत्वादिति सम्बन्धः निर्गुणे गुणोपसंहारो निर्गुणब्रह्मप्रमित्यर्थ एव न निर्गुणब्रह्मोपास्त्यर्थ इति शङ्काव्यवछेदाय पादं विशिनष्टि उपास्य गुणपरिछेदार्थमिति ।
परिछेदो निर्णयः निर्गुणे गुणोपसंहारनिरूपणस्य निर्गुणोपास्तिरपि फलमिति वक्तव्यम् अन्यथा तन्निरूपणस्य पादासङ्गति प्रसङ्गादितिभावः ।
आनन्दादयः क्वचिछ्रुता अन्यत्राप्युपसंहर्तव्याः प्रधानस्य वेद्यस्य ब्रह्मणः

सर्ववेदान्तेष्वभेदेन ब्रह्मविद्याया एकत्वादिति सूत्रार्थः भावरूपाणामिति विशेषणमक्षरधियामित्यधिकरणस्यानन्दादय इत्यधिकरणेन पौनरुक्त्यपरिहारार्थमिति बोध्यम् ।
अक्षरे ब्रह्मणि धीर्यैरस्थूलादिशब्दवाच्यार्थभूतैरभावैर्भवतितेक्षरयियः ।
तेषामवरोध उपसंहारः इतरेषु वेदान्तेषु कर्तव्य एवेति सूत्रभागार्थः स्थौल्यादिनिषेधानां निष्प्रपञ्च ब्रह्मप्रमिति हेतुत्वादितिभावः ।
व्याघातं शङ्क्यते ।
नन्विति ।
आनन्दादि गुणानामुपास्य कोटौ निवेशोनाङ्गीक्रियते येनोपास्यं ब्रह्मसगुणं स्यात् किन्तूपास्य निर्गुणनिर्णयद्वारा निगुणोपास्तावुपयोगमात्रं स्वीक्रियत इति समाधते ।
नेति ।
आनन्दादि गुणानामस्थूलादि गुणानां च उपसंहारो हि तद्वाचकपदानां सहोच्चारणरूपो विवक्षितस्तथा च उपाधिविशिष्ट चैतन्य वाचकैरानन्दादि पदैःर्स्थैल्याद्यभावविशिष्ट चैतन्यवाचकैरस्थूलादिशब्दैश्च सर्वेषु वाच्यार्थेष्वनुगतमखण्डे करसं यद्ब्रह्मलक्षणया बोध्यते न दहमस्मीत्युपासनसम्भवादित्यर्थः ।
उक्तं च ध्यान दीपे ।
आनन्दादिभिरस्थूलादिभिश्चात्मात्रलक्षितः यो खण्डैकरसः सोहमस्मीत्येवमुपासत इति ।
अत्रेति वेदान्तेष्वित्यर्थः ।
एवं श्रुति सूत्राभ्यां निर्गुणस्थौपास्येत्वं निरूप्यनिर्गुणोपासनस्य श्रुत्यन्तरविरोधमाशङ्क्यपरिहरति ।
ननु तदेवेत्यादिना ।
तदेवेति बुध्यादि साक्षिचैतन्यमेवेत्यर्थः ॥

अन्यदेव तद्विदितादथो अविदितादिति श्रुतेस्तस्य वेद्यत्वस्याप्यसिध्यापातात् ।
श्रुत्यन्तरेषु ब्रह्मवेदन प्रसिद्धेरवेद्यत्व श्रुतिर्वास्तवावेद्यत्वपराचेदाथर्वणों तदुपासनाप्रसिद्धेस्तदनुपास्यत्व श्रुतिरपि वस्तुवृत परास्तु ।
एवं च श्रवणायापि बहुभिर्यो न लभ्य इति श्रवणात् ।
येषां बुद्धिमान्द्यान्न्यायव्युत्पादनकुशलविशिष्टगुर्वलाभाद्वा-श्रव।
नादि न सम्भवति ।
तेषामध्ययने गृहीतैर्वेदान्तैरापाततोधिगमित ब्रह्मात्मभावानां तद्विचारं विनैव प्रश्नोपनिषदाद्युक्तमार्षग्रन्थेषु ब्राह्मवासिष्टादि कल्पेषु पञ्चीकरणादिषु चानेक शाखाविप्रकीर्ण सर्वार्थोपसंहारेण कल्पसूत्रेष्वग्निहोत्रादिवन्निर्धारितानुष्ठानप्रकारं निर्गुणोषासनं सम्प्रदायमात्रविद्ध्यो गुरुभ्योवधार्य तदनुष्ठानात्क्रमेणोपास्य भूतनिर्गुणब्रह्मसाक्षात्कारः सम्पद्यते ॥

उपास्यस्य ब्रह्मत्वनिषेधवद्वेद्यस्यापि ब्रह्मत्वनिषेधात् परब्रह्मवेदनमपि न सिध्येदित्याह ।
अन्यदेवेति ।
वेदनविषयादन्यत् ब्रह्मेत्युक्ते अर्थाद्ब्रह्मवेद्यं न भवतीति

सिध्यतीत्यर्थः ।
अस्त्विति वेद्यत्वमुपास्यत्वं ब्राह्मणि परमार्थतो नास्तीति ।
निषेध श्रुतीनां तात्पर्यमितिभावः ।
निर्गुणोपासने अधिकारिणं दर्शयति ।
एवं चेति निर्गुणोपास मे प्रमाणसिद्धे सतीत्यर्थः ।
केषाञ्चित् मुमुक्षूणां श्रवणासम्भवे प्रमाणम्माह ।
श्रवणायार्पाति वहभिर्मुमुक्षुभिर्यः परमात्माश्रोतुमपि नभ्यते ।
तस्याश्रुतस्यापि साक्षात्कारोदूरापास्त इत्यर्थः ।
बहुनां श्रवणा लाभे श्रुत्यभिमत्तं कारणं दर्शयति ।
येषामिति ।
बुद्धीति उक्तं च ध्यानदीपे ।
अत्यन्तबुद्धिमान्द्याद्वासामग्र्यावाप्यसम्भवात् ।
यो विचारं न लभति ब्रह्मोपासितसोनिशमिति ।
तत्र सामग्र्यभावं विवृणोति ।
न्यायेति ।
येषामत्यन्तबुद्धिमान्द्यात् श्रवणादिकम् ।
न सम्भवति येषां च कुशलमती नामपि सामग्र्यभावात् ।
श्रवणादिकं न सम्भवतीत्यर्थः ।
विशिष्टत्वम् असम्भिन्नार्यमर्यादत्वकारुणीकत्वादिलक्षणं बोध्यम् ।
तेषां ब्रह्मजिज्ञासा हेतुमाह ।
अध्ययनेति ।
अधिगमितः अवगमितः ब्रह्मात्मभावो येषां ते तथोक्ताः तेषामित्यर्थः ।
तषां तद्विचारं विनैव गुरुभ्योवधार्य तदनुष्ठानात् ।
साक्षात्कारः सम्पद्यते इति सम्बन्धः ।
निर्गुणब्रह्मविचारं विनैव निर्गुणब्रह्मोपासनादित्यर्थः ।
ननु प्रश्नोपनिषिदादावुपासनामात्रमुक्तं न तु तदनुष्ठानप्रकारोपीत्याशङ्क्याह ।
आर्षग्रन्थेष्विति ।
ननु पञ्चीकरणे वेदान्तलक्ष्ये अखण्डैकरसे प्रणवमात्रात्मककृत्स्न प्रपञ्चप्रविलापनोक्ति पूर्वकमहं ब्रह्मास्मीत्यभेदेनावस्थानं समाधिरित्युक्त्यायो खण्डैक रसः सोहमस्मीत्येवमुपासत

इत्याद्युदाहृत ध्यानदीपवचनाच्च प्रकृतं निर्गुणोपासनमहङ्ग्रहरूपं विवक्षितम् ।
प्रश्नोपनिषिद्गत शैव्यप्रश्ने तु ओङ्काररूपे प्रतीके निर्गुणब्रह्मदृष्टिर्विवक्षिता तथा कठवल्यामपि तथा च कथं प्रश्नादि वाक्यं प्रकृतोपासने प्रमाणत्वेनोदाहृतमिति चेत् ।
न प्रकृतोपासने तापनीय माण्डूक्यमुण्डक श्रुतीनामेव प्रमाणत्वेन विवक्षितत्वात् ।
प्रश्नकठवल्ली श्रुत्युदाहरणं तु निर्गुणस्याप्युपासनमन्यत्रापि दृष्टमित्ये तावन्मात्रणेति न विरोध इति भावः पञ्चीकरणादिषु च निर्धारितानुष्ठानप्रकारमिति सम्बन्धः ।
तत्र दृष्टान्तमाह ।
अनेकशाखेति ।
अनेकासु शाखासु विप्रकीर्णतया विशकलिततया स्थितानां पदार्थानामुपसंहारेण यथा अग्निहोत्रादिकर्मनिर्धारितानुष्ठानप्रकारं भवति ।
तथेत्यर्थः ।
उपासनानुष्ठानप्रकारः सम्प्रदायः तन्मात्रविद्भ्योपि गुरुभ्यः सकाशात् निश्चित्येत्यर्थः ।
उक्तं च भगवता श्रीक्र्ष्णेन निर्गुणप्रकरणे श्रुत्वान्येभ्य उपासत इति क्रमेणेति उपासनापरिपाकक्रमेणेत्यर्थः ॥

अविसंवादि विभ्रमन्यायेनोपास्तेरपि क्वचित्फलकाले प्रमापर्यवसान सम्भवात् ।
पाणौ पञ्चवराटकाः पिधाय केनचित्करे कति वराटका इति पृष्ठे पञ्चवराटका इति तदुतर

वक्तुर्वाक्यप्रयोग मूलभूतसङ्ख्याविशेषज्ञानस्य मूलप्रमाण शून्यस्याहायीरोपस्यापि यथार्थत्ववन्निर्गुणब्रह्मोपासनस्यार्थ तथात्व विवेचकनिर्विचिकित्समूलप्रमाणनिरपेक्षस्य दहराद्युपासनावदुपासना शास्त्रमात्रमवलंव्यक्रियमाणस्यापि वस्तुतो यथार्थत्वेन दहराद्युपासनेनेव निर्गुणोपासनेन जन्यस्य स्वविषयसाक्षात्कारस्य श्रवणादि प्रणाड्याजन्यसाक्षात्कारवदेवतत्वार्थविषयत्वावश्यं भावाच्च ॥

ननु निर्गुणोपासनस्य कथं प्रमालक्षणसाक्षात्कारपर्यवसानमित्यत आह ।
अविसंवादीति ।
अयमर्थः क्वचिद्ग्रहविशेषे स्थितस्य श्रीकृष्णरूपबिम्बस्य प्रतिबिम्बं गृहाद्बहिः पश्यतो दूरे स्थितस्य पुरुषस्य प्रतिबिम्बे श्रीकृंष्णोयमिति भ्रमो जायते तेन भ्रमेण प्रतिबिम्बाध्यासोपाधिसमीपं गतस्य पुरुषस्य सत्य श्रीकृष्णगोचरप्रमाजायत इति लोकप्रसिद्धम् ।
तत्र प्रतिबिम्बे बिम्बभूत श्रीकृष्ण भ्रमो विसंवादीभ्रमः विसंवादः फलाभावः तद्रहितोऽविसंवादिभ्रमः फलवद्भ्रम इति यावत् ।
यथा तेन भ्रमेण प्रवतस्य श्रीकृष्णप्राप्तिलक्षणफलकाले श्रीकृष्णप्रमाजायते तथा

निर्गुणोपासने प्रवृत्तस्यापि ब्रह्मप्राप्तिलक्षणफलकाले निर्गुणप्रमाजायत इति ।
ननु संवादिभ्रम दृष्टान्तेन निर्गुणोपास्तेः प्रमापर्यवसानमुक्तमनुपपन्नं दृष्टान्त वैषम्या तत्र हि समीपोपसर्पणानन्तरं सत्य श्रीकृष्णस्य चक्षुः सन्निकर्षे सति श्रीकृष्णप्रमाजायतेन तु संवादिभ्रममात्रात् ।
प्रकृते च निर्गुणोपासनस्य प्रमाजनने सामर्थ्याभावात् ।
सामग्र्यन्तराभावाच्च कथं प्रमापर्यवसानमित्याशङ्क्यनिर्गुणोपासनस्यैव स्वसमानविषयकप्रमाजनन सामर्थ्यसम्भावनाय तस्य यथार्थत्वं सदृष्टान्तमाह ।
पाणाविति पिधायेति ।
तदुत्तरवक्तुरविदितमितिशेषः ।
तदुतरेति ।
दैवयोगात् पञ्चैव वराटकास्तवपाणौ सन्तीत्युतरवक्तुरित्यर्थः निर्गुणोपासनस्यापि वस्तुतो यथार्थत्वेनेति सम्बन्धः ।
अखण्डैकरसम्ब्रह्माहमस्मीति प्रत्यय सन्तति रूपोपास्तेर्विषयबाधाभावाद्यथार्थत्वमितिभावः ।
ननु प्रकृतोपासनस्य निर्विकित्स तत्वज्ञानपूर्वकत्वादेवश्रवणमननोतरकालीन निदिध्यासनस्येव यथार्थत्वसम्भवात् ।
किमिति दैवयोगाद्यथार्थत्वं समर्थ्यतै तत्राह ।
अर्थ तथात्वेनि अर्थस्य ब्रह्मणः तथात्वं प्रत्यग्रूपत्वनिष्प्रपञ्चत्वादितस्य विवेचकं निर्णायकं यन्निर्विचिकित्समन्य परत्वाशङ्काशून्यं मूलप्रमाणं श्रुतिरूपं तन्निरपेक्षस्येत्यर्थः ।
निदिध्यासनस्येव प्रकृतनिर्गुणोपासनस्य विचारपूर्वकत्वाभावात् ।
न निर्विचिकित्स तत्वनिर्णयपूर्वकत्व प्रयुक्तं यथार्थत्वमितिभावः ।

ननु विचारपूर्वकं प्रत्यगभिन्नब्रह्मनिर्णयाभावे कथमहम्ब्रह्मास्मीति प्रत्यय सन्तति रूपोपास्तिरनुष्ठीयते तत्राह ।
दहरादीति ।
यथा सगुणेश्वरस्य विचारपूर्वकं जीवाभिन्नत्व निर्णयाभावेपि स्वस्य सगुणेश्वराभेदचिन्तनं कर्तव्यमित्येवं रूपं सगुणोपासनाविधिशास्त्रमवलंव्यसगुणोपासनं क्रियते तथा निर्गुणोपासनं कर्तव्यमित्येवमात्मकं शास्त्रमात्रमवलंव्य निर्गुणोपास्तिरनुष्ठीयते इत्यर्थः ।
निर्गुणोपासनस्य साक्षात्कार हेतुत्वे दृष्टान्तमाह ।
दहराद्युपासनेनेवेति ।
अवश्यं भावादिति ।
समानविषयकध्यानसामर्थ्याद्विषयाबाधाच्चेत्यर्थः ॥

इयांस्तु विशेषः प्रतिबन्धरहितस्य पुंसः श्रवणादिप्रणाड्या ब्रह्मसाक्षात्कारो फटिति सिध्यतीति साङ्ख्यमार्गो मुख्यः कल्पः उपास्त्या तु विलम्बेनेति योगमार्गोनुकल्प इति ।
नन्वस्मिन्पक्षद्वयेपि ब्रह्मसाक्षात्कारे किं करणं केचिदाहुः प्रत्ययाभ्यासरूपं प्रसङ्ख्यानमेव ।
योगमार्गे आदित आरभ्योपासनारूपस्य साङ्ख्यमार्गे मननानन्तरनिदिध्यासनरूपस्य च तस्य सत्वात् ।
न च तस्य ब्रह्मसात्कारकारणत्वे मानाभावः ततस्तुतं पश्यति निष्कलं ध्ययमान इति

श्रवणात् ।
कामातुरव्यवहित कामिनी साक्षात्कारे प्रसङ्ख्यानस्य कारणं त्वकॢप्तेश्च आप्रापणा तत्रापि हि दृष्टमित्यधिकरणे विकल्पो विशिष्टफलत्वादित्यधिकरणे च दहराद्यहङ्ग्रहोपासकानां प्रसङ्ख्यानादुपास्य सगुणब्रह्मसाक्षात्काराङ्गीकाराच्च ।
ननु च प्रसङ्ख्यानस्य प्रमाकरणेष्वपरिगणनातज्जन्यो ब्रह्मसाक्षात्कारः प्रमा न स्यात् ।
न च काकतालीय संवादिवराटक सङ्ख्याविशेषाहार्यज्ञानवदर्थाबाधेन प्रमाणत्वोपपतिः प्रमाणामूलकस्य प्रमात्वायोगात् आहार्य वृतेश्चोपासनावृतिवत् ज्ञानभिन्नयान सक्रियारूपतया इछादिवदवाधितार्थविषयत्वेपि प्रमात्वानभ्युपगमात् ॥

साङ्ख्ययोगमार्गयोस्तुल्यकल्पत्व भ्रममपनपति ।
इयांस्त्विति ।
बुद्धिमान्द्यादि प्रतिबन्धरहितस्य विशिष्टगुर्वादिलाभे सति साङ्ख्यमार्ग एवानुष्ठेयः तस्य त्वरया सिद्धिहेतुत्वात् ।
साङ्ख्यालाभे तु योगोनुष्ठेय इत्यनुकल्पः स इत्यर्थः ।
नत्वस्मिन्निति ।
साङ्ख्ययोगमार्गद्वयेपीत्यर्थः ।
ननु योगमार्गे निर्गुणोपासनस्य सगुणोपासन

दृष्टान्तोदाहरणेन साक्षात्कारकारणत्वस्यानुपदमुक्तत्वात् ।
पक्षद्वय साधारण्येन प्रश्नानुपपतिरिति चिन्नैषदोषः उपासनस्य साक्षात्कारकारणत्वे प्रमाणाभिप्रायेणै प्रश्नोपपतेरत एव तत्र प्रमाणं वक्ष्यति न चेत्यादिना ।
अथवा पूर्वत्र सगुणोपासन दृष्टान्तेन निर्गुणोपासनस्य हेतुत्वमात्रमुक्तं न तु करणत्वं तथा च योगमार्गेपि किमुपासनमेव करणं किं वा अन्यदिति प्रश्नाभिप्रायः सङ्गछत इति भावः ।
मार्गद्वयेपि साक्षात्कारोदयकास्ते प्रसङ्ख्यानस्यानुवृतिमाह ।
योगमार्ग इत्यादिना ।
निष्कलं निर्विशेषं परमात्मानं ध्यायमानः ततो ध्याना तं पश्यतीत्यर्थः ।
कामातुरेति ।
कामातुरस्यासन्निकृष्टकामिनीसाक्षात्कारे इत्यर्थः ।
तत्र सन्निकर्षाभावेन चक्षुषः करणत्वासम्भवात् मनसो बहिरस्वातन्त्र्याच्च कामिनी गोचरप्रसङ्ख्यानमेव कारणमितिभावः ।
सगुणोपासनं प्रायणपर्यन्तमावर्तनीयं कुतः तत्रापि मरणकालेपि योगिनो ब्रह्मचिन्तनस्य श्रुतिस्मृतिसिद्धत्वात् ।
सदा प्रत्यभ्यासं विना मरणकाले तदसम्भवादिति सूत्रार्थः ।
अहङ्ग्रहीपासनानां विकल्पः उपास्य देवता साक्षात्कारलक्षणस्य फलस्याविशिष्टत्वादेकार्थालां विकल्पस्य प्रसिद्धत्वादिति सूत्रार्थः ब्रह्मसाक्षात्कारस्य प्रमाकरणजन्यत्वाभावेपि विषयाबाधात् ।
प्रमास्वमाशङ्क्यनिषेधति ।
न च काकतालीयेति ।
यादृछिकेत्यर्थः ।
कॢप्तचानकरणा जन्यस्य ज्ञानत्वमेव नास्ति

प्रमात्वं तु दूरापास्तमित्यम्भिप्रायेणाह ।
प्रमाणामूलकस्येति ।
अविसंवादिवराटकसङ्ख्याविशेषगोचराहार्यवृतेरपि ज्ञानत्वमसिद्धमित्याह ।
आहार्य वृतेश्चेति अवार्धितार्थ ज्ञानत्वं हि प्रमात्वं नत्व बाधितार्थकत्वमात्रमति प्रसङ्गादिति मत्वाह ।
इछादि वदिति ॥

मैवं कॢप्तप्रमाकरणामूलकत्वेपि ईश्वर मायावृतिवत्प्रमात्वोपपतेः ।
विषयाबाधतौल्यान्मार्गद्वयेपि प्रसङ्ख्यानस्य विचारिताद उविचारिताद्वावेदान्ताद्ब्रह्मात्मैक्यावगममूलकतया प्रसङ्ख्यानजन्यस्यापि ब्रह्मसाक्षात्कारस्य प्रमाणमूलकत्वाच्च ।
उक्तं हि कल्पतरुकारैः ।
वेदान्तवाक्यजज्ञानभावनाजापरोक्षधीः मूलप्रमाणदार्द्व्येन न भ्रमत्वं प्रपद्यते ।
न च प्रामाण्यपरतस्त्वापतिस्तु प्रसज्ज्यते ।
अपवादनिरासायमूलशुद्धानुरोधनादिति ।
अन्ये तु एषोणुरात्मा चेतसा वेदितव्यः दृश्यते त्वग्र्यया बुध्येत्यादि श्रुतेर्मन एव ब्रह्मसाक्षात्कारे करणम् ।
तस्य सोपाधिकात्मन्यहं वृतिरूपप्रमाकरणकॢप्तेः ।
स्वप्नप्रपञ्चविपरीतप्रमात्रादि ज्ञानसाधन

स्यान्तःकरणस्येत्यादि पञ्चपादिका विवरण ग्रन्थेनापि तथा प्रतिपादनात् ॥

ननु च प्रसङ्ख्यानस्येत्यादिना प्राप्तं चोद्यं परिहरति ।
मैवमिति ।
मायावृतिवदिति ।
न च माया वृतेरपि मास्तु ज्ञानत्वमिति वाच्यम् ।
तथा सतीश्वरीय मायावृतेर्यः सर्वज्ञः सर्वविदित्यादि श्रुतिषु ज्ञाधात्वर्थत्वाभावप्रसङ्गादितिभावः ।
तौल्यादिति ।
न चेछादावति प्रसङ्ग इति वाच्यं तद्भिन्नत्वेन विशेषणोपपतेरितिभावः ।
प्रसङ्ख्या न जन्य साक्षात्कारस्य प्रमाणमूलकत्वात् ।
प्रमाणत्वमिति समाधानान्तरमाह ।
मार्गद्वयेपीति ।
अविचारितादिति ।
योगमार्गाभिप्रायं वैदान्ताद्या ब्रह्मावगतिः तन्मूलकतयेत्यर्थः ।
न च विचारिताद्वा यदि ब्रह्मावगतिर्जाता तर्हि किमर्थं प्रसङ्ख्यानमिति वाच्यम् ।
प्रसङ्ख्यानात्पूर्वमविद्यानिवर्तका प्रतिबधब्रह्मावगतेरलाभातदर्थ तदावश्यकमितिभावः ।
प्रमाणाजन्यस्यापि प्रमाणप्रयोज्यत्वमात्रेण प्रमात्वे सम्मतिमाह ।
उक्तं हीति ।
ज्ञानभावना ज्ञानाभ्यासरूपं प्रसङ्ख्यानन्तजन्यमपरोक्षज्ञानमित्यर्थः ।
मूलप्रमाणं वेदान्तवाक्यं तज्जन्यप्रमातस्य दाढ्यान्नामाविप्रतिपन्नप्रामाण्यकत्वमिति बोध्यम् ।
प्रसङ्ख्यानजन्यसाक्षात्कारनिष्टप्रामाण्यज्ञप्तौ मूलप्रमाणज्ञप्त्यपेक्षायामपसिद्धान्तापात इति शङ्कते ।
न चेति ।
प्रसङ्ख्यानजसाक्षात्कारनिष्टमपि प्रामाण्यं नियमेन स्वाश्रयग्राहकसाक्षिभास्यमेवेति न

तत्प्रामाण्यज्ञप्त्यर्थ मूलप्रमाणानुसरणं किन्तु प्रसङ्ख्यानजन्य व्यवहितकामिनीसाक्षात्कारस्याप्रमात्वादर्शनात् ।
प्रसङ्ख्यानजन्यब्रह्मसाक्षात्कारेपि कदाचिदप्रामाण्य शङ्कासम्भाव्यते ततस्तन्निरासाय मूलप्रमाणानुसरणमिति नापसिद्धान्त इति भावः ।
अपवादेति ।
अप्रमाण्यशङ्का अपवादः ।
प्रसङ्ख्या न मात्रं न साक्षात्कारे करणं किन्तु तत्सहकृतं मनस्तत्रकरमितिमतं दर्शयति ।
अन्ये त्विति ।
अणुः दुर्विज्ञेयः अग्न्यत्वं प्रसङ्ख्यान संस्कृतत्वं मनसैवानुद्रष्टव्यमित्यादि श्रुतिरादिपदार्थः जीवसाक्षात्कारे मनसः करणत्वे सम्मतिमाह ।
स्वप्नेति ।
प्रातिभासिकस्वप्नप्रपञ्चापेक्षया विपरीतो व्यावहारिकः प्रमात्रादिः तज्ज्ञानसाधनस्येत्यर्थः ।
आदिपदं प्रमेयादिसङ्ग्रहार्थम् ।
तथेति प्रमातृशब्दित सोपाधिकात्मसाक्षात्कारे मनसःकरणतयेति तथा शब्दार्थः ॥

अहमेवेदं सर्वं सर्वोस्मीति मन्यते सोस्य परमो लोक इति श्रुत्युक्ते स्वाप्ने ब्रह्मसाक्षात्कारे एव मनसः करणत्व सम्प्रतिपत्तेश्च तदाकरणान्तराभावात् ।
प्रसङ्ख्यानं तु मनः सहकारिभावेनोपयुज्यते ।
वाक्यार्थभावनापरिपाकसहितमन्तःकरणं त्वम्पदार्थस्यापरोक्षस्य तत् दुपाध्याकारनिषेधेन तत्पदार्थतामाविभीवयतीतिभामतीवचनात् ।

ज्ञानप्रसादेन विशुद्धे सत्वस्तस्तु तं पश्यति निष्कलं ध्यायमान इति श्रुतावपि ज्ञानप्रसादशब्दितचितैकाग्र हेतु तयैव ध्यानोपादानात् ।
ननु प्रसङ्ख्यानं स्वयं करणं तस्य क्वचिदपि ज्ञानकरणत्वा कॢप्तेः कामातुरकामिनी साक्षात्कारादावपि प्रसङ्ख्यान सहकृतस्य मनस एव करणत्वोपपत्याऽकॢप्तज्ञानकरणान्तरकल्पनायोगादित्याहुः ।
अपरे तु तद्धास्य विजिज्ञौतमसः पारं दर्शयति ।
आचार्यवान् पुरुषो वेद तस्य तावदेव चिरमित्यादि श्रुतिषु आचार्योपदेशानन्तरमेव ब्रह्मसाक्षात्कारोदये जीवन्मुक्तिश्रवणाद्वेदान्तविज्ञान सुनिश्चितार्थाः इति ज्ञानान्तरनैराकाङ्क्ष्यश्रवणातन्त्वौपनिषदं पुरुषम्मिति ब्रह्मण उपनिषदेकगम्यत्व श्रवणाच्चौपनिषदं महावाक्यमेव ब्रह्मसाक्षात्कारे करणं न मनः यन्मनसानमनुत इति तस्य ब्रह्मज्ञानकरणत्वनिषेधात् ॥

निरुपाधिकात्मसाक्षात्कारेपि मनसः करणत्वं कॢप्तमित्याह ।

अहमेवेति ।
इदं सद्रूपेण सर्ववस्तुनि अनुभूयमानं सर्वात्मकं ब्रह्मैवाहमस्मि ततः सर्वोस्मीति स्वप्ने ब्रह्मविन्मन्यत इत्यर्थः ।
ननु स्वप्ने ब्रह्मविदो महावाक्यानुसन्धानसम्भवाद्वाक्यमेव करणं किं न स्यादित्यत आह ।
तदेति ।
स्वप्ने महावाक्यानुसन्धानस्यानियतत्वाद्वाक्यस्यापरोक्षधी हेतुत्वानुपगमाच्चेति भावः सम्मतिमाह वाक्यार्थेति ।
महावाक्यार्थेत्यर्थः ।
स्थूलसूक्ष्मकारणोपाधीनान्तेति नेतीत्यादि ।
वाक्यैर्निषेधद्वाराशोधितो यः त्वं पदार्थः स्वप्रकाश चैतन्यात्मकः तस्य पूर्णतामाविर्भाव अवृतिसाक्षात्कार इत्यर्थः ।
यत्तु निष्कलं ध्यायमानस्ततो ध्याना तं पश्यति इति योजनामभिप्रेत्य ध्यानस्य साक्षात्कार करणत्वं श्रुतिसिद्धमित्युक्तं तद्दूषयति ।
ज्ञानप्रसादेनेति ।
करणव्युत्पत्याज्ञानपदं चितपरं ज्ञानस्य प्रसादः ऐकाग्र्यं तथा च ध्यायमानो ध्यानाल्लब्धेन ज्ञानप्रसादेन पश्यत इति योजना विवक्षितेति भावः ।
एवं योजनायां विनिगमकं पूर्वोदाहृतानि मनसः करणत्व बोधकवचनान्येवेत्यभिप्रेत्यप्रसङ्ख्यानमात्रस्य करणत्वं दूषयति ।
नत्विति ।
महावाक्यमेव तत्र करणमिति मतमाह ।
अपरे त्विति ।
अस्य पितुरुपदेशात् तद्ब्रह्मविजज्ञौ साक्षात्कृतवान् हकिलेत्यर्थः ।
पारमधिष्ठानभूतं ब्रह्म तस्य विदुषस्तावानेव विलम्बो विदेह कैवल्यं प्रतियावत्प्रारब्धान्न विमोक्ष्यत इत्यर्थः ।
वेदान्तेति ।
अत्र वेदान्तजन्य ज्ञानादेव ब्रह्मात्मैक्यलक्षणस्यार्थस्य सुनिश्चितत्वोक्त्यावाक्यार्थावगत्यनन्तरं प्रसङ्ख्यानानुष्ठानं नापेक्षितमिति प्रतीयत ।
इदं च तन्निरपेक्ष्यं वाक्यादेवापरोक्षज्ञानोत्पति पक्षे सङ्गछते ।
अन्यथा

अपरोक्षज्ञानाय तस्यापेक्षितत्वा तत्तेरपैक्ष्यं न सङ्गछते ।
अतो वेदान्तविज्ञानश्रुत्यावाक्यमेवापरोक्षज्ञाने करणमिति निश्चीयत इति भावः ।
महावाक्यमेवेति साङ्ख्यमार्गानुष्ठानेन योगामार्गानुष्ठामेत वा दृष्टलक्षणसकलप्रतिबन्धक्षये सति बन्धरहितं सद्वाक्यमेव साक्षात्कारं जनयतीति वाक्यस्य करणत्वपक्षेन साङ्ख्ययोगमार्गयोर्वेयर्थ्य शङ्केति मन्तव्यं लोको मनसा यच्चैतन्यं न मनुते तदेवत्वं ब्रह्मविद्धीति योजना ॥

न चापक्वमनोविषयमिदं येनाहुर्मनोमतमिति वाक्यशेषे मनोमात्रग्रहणात् ।
न चैवं यद्वाचानभ्युदितमिति शब्दस्यापि तत्करणत्वं निषिध्यत इति शङ्क्यम् ।
मनःकरणत्ववादिनापि शब्दस्य निर्विशेषपरोक्षज्ञानकरणत्वस्याभ्युपगतत्वेन तस्य यतो वाचो निवतन्ते अप्राप्यमनसा सहेति श्रुत्यनुरोधेन शब्दार्थ प्राप्ति रूपशक्तिमुखेन शब्दस्य तत्करणत्वनिषेधे तात्पर्यस्य वक्तव्यतयाशक्य सम्बन्धरूपलक्षणामुखेन तस्य तत्करणत्वाविरोधात् न च मनसैवानुद्रष्टव्यमिति श्रुतिसिद्धं मनसोपि तत्र करणत्व न पराकर्तुं शक्यमिति वाच्यम् ।
शाब्दसाक्षात्कारजननेपि तदैकाग्र्यस्यापेक्षितत्वेन

हेतुत्वमात्रेण तृतीयोपपतेः ।
मनसा ह्येव पश्यति मनसा शृणोतीत्यादौ ।
तथा दर्शनात् ।
गीता विवरणे भाष्यकारीय मनः करणत्व वचनस्य मतान्तराभिप्रायेण प्रवृतेरित्याहुः ॥

न मनुत इति वाक्यम् अशुद्धमनस एव ब्रह्मज्ञानकरणत्वं निषेधतीति न चेत्यत्र हेतुमाह ।
येनाहुरिति येन चैतन्येन मतं प्रकाशितं मन इति वाक्यशेषे अपक्व मन एव चैतन्य भास्यमिति वक्तुमशक्यतया तत्र मनो मात्रग्रहणमावश्यकं तदैकरूप्याय न मनुत इति पूर्ववाक्येपि मनोमात्रं ग्राह्यमित्यर्थः ।
न चैवमिति ।
मनो मात्रस्य ब्रह्मे ज्ञानकरणत्वनिषेधोपगमे इत्यर्थः ।
अनुभुदितमिति ।
अप्रकाशितमित्यर्थः ।
न च वा इत्यस्य वेदान्तातिरिक्तशब्दपरत्वं स्वीक्रियत इति वाच्यम् ।
अत्रापि येन वागभ्युद्यत इति वाक्यशेषे शब्दमात्रस्य चैतन्यप्रकाश्यत्व प्रतिपादनेन तदैकरूप्याय पूर्ववाक्येपि वा चेत्यस्य शब्दमात्रपरत्वादित्याशवानाह ।
शब्दस्यापीति ।
मनोमात्रस्येव शब्दमात्रस्यापीत्यर्थः ।
सत्यं शब्दमात्रस्य ब्रह्मज्ञानकरणत्वं निषेधति तथापि शब्दस्य शक्त्या ब्रह्मज्ञानकरणत्वनिषेधपरं तद्वचनं न तु लक्षणयापि तत्करणत्वनिषेधपरम् औपनिषदत्व श्रुतेर्निरालम्बनत्व प्रसङ्गादिति समाधानमभिप्रेत्यविपक्षे परेषामपि बाधकं सूचयति ।
मनःकरणत्ववादिनापीति ।
वेदान्तानां लक्षणयापि ब्रह्मबोधकत्वानभ्युपगमे ब्रह्मण एवासिध्यापत्यामनःकरणत्ववादिभिरपि तेषां

ब्रह्मज्ञानकरणत्वस्याभ्युपगन्तव्यत्वादित्यर्थः ।
परन्तु वाक्यजन्यं ब्रह्मज्ञानं परोक्षं भवतां मते अस्माकं मते तु तदपरोक्षमिति विशेष इत्याशयेनाह ।
परोक्षेति ।
वेदान्तानां शक्त्या ब्रह्मबोधकत्वनिषेधपरं यद्वा चानभ्युदितमिति वचनमिति व्यवस्थायां श्रुत्यन्तरमनुकूलयति ।
तस्येति ।
यद्वा चानभ्युदितमिति निषेधे वचनस्येत्यर्थः ।
अप्राप्येति श्रुत्या ब्रह्मणि विषयशब्दानां प्राप्तिर्निषिध्यते ।
सा च प्राप्तिः शक्तिरेव तस्याः शब्दानामौत्सर्गिकत्वादिति भावः ।
वक्तव्य तयेति ।
मनः करणत्ववादिभिरपीतिशेषः तस्येति शब्दस्येत्यर्थः ।
तदिति ब्रह्मसाक्षात्कारेत्यर्थः ।
ब्रह्मगोचरवृतिं प्रतिकरणत्वं न तृतीया श्रुत्यर्थः पूर्वोदाहृत श्रुतिविरोधात् ।
किन्तु एकाग्रस्य मनसः तां प्रत्युपादनतया हेतुत्वमात्रं तदर्थ इत्याह ।
शाब्दसाक्षात्कारजननेपीति ।
तथेति चाक्षुषज्ञानादौ मनसः करणत्वाभावेन हेतुत्व मात्रेणापि तृतीयादर्शनादिति भावः ।
शमदमादि संस्कृतं मन एवात्मदर्शने करणमिति गीताभाष्यवचनविरोधे परिहरति गीतेति ।
मतान्तरेति ।
वृतिकारमतेत्यर्थः ।
न तु स्वमताभिप्रायेण उक्तप्रमाणविरोधादितिभावः ॥

ननु तथापि शब्दस्य परोक्षज्ञानजनकत्व स्वभावस्य नापरोक्षज्ञानजनकत्वं सङ्गछत इति चेत् ।
अत्र केचित् स्वतोऽसमर्थोपि शब्दः शास्त्रीयश्रवणमननपूर्वकप्रत्ययाभ्यासजनित संस्कारप्रचयलब्ध

ब्रह्मैकाग्र्यचितदर्पणानुगृहीतोऽपरोक्षज्ञानमुत्पादयति शास्त्रीयसंस्कृताऽग्र्यधिकरण इव होमोऽपूर्वमिति कल्प्यते ।
तरति शोकमात्मविदिति शास्त्रप्रामाण्यात् अपरोक्षस्य कर्तृत्वाद्यध्यासस्यापरोक्षाधिष्ठानज्ञानं विना निवृत्ययोगात् ।
औपनिषदे ब्रह्मणि मानान्तराप्रवृतेः शब्दादप्यपरोक्षज्ञानानुपपतौ अनिर्मोक्षप्रसङ्गादित्याहुः ।
अन्ये तु भावनाप्रचय साहित्ये सति वहिरसमर्थस्यापि मनसो नष्ट वनिता साक्षात्कारजनकत्वदर्शनान्निदिध्यासन साहित्येन शब्दस्याप्यपरोक्षज्ञानजनकत्वं युक्तमिति दृष्टान्तानुरोधेन समर्थयन्ते ॥

ननु तथापीति ।
शब्दस्य ब्रह्मसाक्षात्कारकरणत्वपक्षे श्रुतिभाष्यविरोधाभावेपि शब्दप्रमाणस्वभावविरोधान्न महावाक्यं ब्रह्मसाक्षात्कारे करणमित्यर्थः ।
शब्दस्वभावमनुरुध्यैव तस्यापरोक्षज्ञानकरणत्वं साधयति ।
अत्र केचिदिति ।
प्रचयः समूहः प्रचयलब्धं यद्ब्रह्मण्यैकाग्र्यं तद्वच्चितमेव दर्पणं तदनुगृहीत इत्यर्थः ।
यथा चक्षुः स्वतः प्रतिबिम्बानुभवजननासमर्थमपि दर्पणानुग्रहीतं

सत् तदनुभवं जनयति तद्वदिति सूचयति चितदर्पणेति शास्त्रीयेति ।
यथा आधानादिजनित संस्काररहिताग्र्यधिकरणको होमस्तावदपूर्वं न जनयति ।
अग्र्यधिकरणकहोममात्रस्यापूर्वजननस्वभावाभात् शास्त्रीयसंस्कारविशिष्टाग्र्याधिकरणकहोमस्वपूर्वं जनयति तद्वदित्यर्थः ।
ननु दृष्टान्ते शास्त्रवला तथा स्वीक्रियते प्रकृते तथा शास्त्रं नोपलभ्यत इत्यत आह ।
तरतीति ।
नन्वनया श्रुत्या चिदात्मन्यध्यस्तस्य शोकोपलक्षितकर्तृत्वाद्यध्यासस्यात्मवेदनान्निवृतिरुच्यते ।
न तु शब्दस्यापरोक्षज्ञानकरणत्वमित्यत आह ।
अपरोक्षस्येति ।
यथा दृष्टान्ते होमाधिकरणस्याग्रेराधानादि संस्कृतत्वश्रवणान्यथानुपपत्याशास्त्रीयसंस्कारसहकृतग्र्यधि- करणको होमो पूर्वं जनयतीति कल्प्यते ।
तथात्मज्ञनस्यापरोक्षा ध्यासनिवर्तकत्वश्रवणान्यथानुपपत्या आत्मज्ञानजनक वेदान्तानामेवापरोक्षज्ञानकरणत्वं कल्प्यत इत्यर्थः ।
अयोगादिति सत्यपि श्रवणजनितपरोक्षज्ञाने कर्तृत्वाद्यध्यासनिवृत्यदर्शनात् ।
परोक्षज्ञानमात्रेणाध्यासनिवृतौ मननादिविधि वैयर्थ्य प्रसङ्गाच्च अपरोक्षाध्यासरूपदिग्भ्रमादिग्याथात्म्यादि साक्षात्कारं विना निवृत्यदर्शनाच्चेति भावः ।
ननु कर्तृत्वाद्यध्यासनिवर्तकमधिष्ठानात्मतत्वसाक्षात्कररूपं ज्ञानं मनसैव सम्भवति किं शब्दस्य तत्करणत्व कल्पनयेति तत्राह ।
औपनिषद इति ।
अन्तरिन्द्रियस्य मनसः प्रत्यक्षप्रमाणत्वेन ब्रह्मणस्तद्गम्यत्वे उपनिषदेक गम्यत्व

प्रतिपादकश्रुतिबाधप्रसङ्ग इति भावः ।
नन्वौपनिषदत्व श्रुति विरोधेन ब्रह्मणि मानान्तराप्रवृतौ शब्दस्वभावविरोधेन शब्दस्यापि ब्रह्मसाक्षात्कारजनने प्रवृतिर्न सम्भवति ।
तथा च ब्रह्मसाक्षात्कारकरणस्यैवालाभात् ।
मास्तु तत्साक्षात्कार इत्यत आह ।
शब्दादपीति ।
तथा च मोक्षशास्त्रप्रामाण्याय शब्दस्यैव साक्षात्कारकरणत्वं कल्पनीयमितिभावः ।
शास्त्रप्रामाण्यमनुपजीव्यापि शब्दस्यापरोक्षज्ञानकरणत्वं साधयति ।
अन्ये त्विति ॥

अपरे त्वपरोक्षार्थविषयत्वं ज्ञानस्यापरोक्ष्यं नामाऽन्याऽनिरुक्तेः अर्थापरोक्षत्वं तु नापरोक्षज्ञानविषयत्वं येनान्योन्याश्रयो भवेत् ।
किन्तु तत्तत्पुरुषचैतन्याभेदः अन्तःकरणतद्धर्माणां साक्षिणि कल्पिततया तदभेदसत्वात् ।
नाह्यचैतन्ये कल्पितानां घटादीनां बाह्यचैतन्ये वृतिकृत ततपुरुषीय चैतन्याभेदाभिव्यक्त्या तदभेदसत्वाच्च न क्वाप्यव्याप्तिः ॥

इदानीं शब्दस्य परोक्षज्ञानजननस्वाभाव्यसेवा सिद्धमतो नित्यापरोक्षे ब्रह्मणि वेदान्तानां साक्षात्कारकरणत्वं निरपवादमिति मतान्तरमाह ।
अपरे त्विति ।
नन्विन्द्रियजन्यज्ञानत्वादिकमेव ज्ञानस्यापरोक्षत्वं ब्रह्मगोचर

शाब्दज्ञानस्य तदभावात्नापरोक्ष्यमित्यत आह ।
अन्यानिरुक्तेरिति ।
इन्द्रियजज्ञानत्वादेश्च प्रथमपरिछेदावसाने निरस्तत्वादितिभावः ।
नन्वर्थस्यापरोक्षत्वमपरोक्षज्ञानविषयत्वमन्यस्यानिर्वचना तथा चानोन्याश्रयः अर्थस्यापरोक्षत्व ज्ञप्तौ ज्ञानस्यापरोक्षत्व ज्ञप्तिः ज्ञानस्यापरोक्षत्व ज्ञप्तौ च अर्थस्यापरोक्षत्व ज्ञप्तिरित्याशङ्क्यानिर्वचनमसिद्धमित्यभिप्रेत्याह ।
अर्थापरोक्षत्वं त्विति ततदिति ।
ततत्प्रमातृचैतन्याभिन्नत्वं तस्य तस्य विषयस्य तं तं प्रमातारं प्रमातारं प्रत्यपरोक्ष ततत्प्रमातृचैतन्याभिन्नार्थविषयकं ज्ञानं ततत्प्रमातुः ।
ततत्प्रमातृचैतन्याभिन्ने विषये अपरोक्षज्ञानमित्यर्थः ।
न चार्थापरोक्षादावननुगम इति वाच्यं ज्ञानगतस्यानुगता परोक्ष्यत्वस्य जातिरूपस्य उपाधिरूपस्य वा प्रा"न्निरस्तत्वेन तदभावार्थापरोक्ष्यस्याप्यनुगतस्यासम्भवेन तस्या दोषत्वादिति भावः ।
ननु प्रमातृचैतन्याभिन्नत्वरूपस्यार्थापरोक्ष्यस्य जडरूपापरोक्षार्थे व्याप्तिः चैतन्यजडयीरैक्यस्य बाधितत्वादित्यत आह ।
अन्तःकरणेति तदभेदसत्वादिति साक्षिशब्दित प्रमातृचैतन्याभेदसत्वादित्यर्थः ।
तथा चार्थापरोक्ष्यनिर्वचने कल्पिता कल्पित साधारणाभेदस्य विवक्षितत्वेन प्रमातृचैतन्यब्रह्मचैतन्ययोरिव प्रमात्रचैतन्यजडयोरकल्पिताभेदाभावेपि जडं सदिति सामान्याधिकरण्यानुभवसिद्ध कल्पिताभेद सत्वात्नाव्याप्तिरितिभावः ।
आन्तरजडपदार्थेषु प्रमातृचैतन्या भिन्नत्वमुपपाद्य बाह्यापरोक्षार्थेषु तदुपपादयति ।

बाह्येति अन्तःकरण तद्धर्माणान्दभेद सत्वात् ।
घटादीनां तदभेदसत्वाच्च न क्वाप्यान्तरार्थे वाऽव्याप्तिरितिसम्बन्धः ।
घटादीनां ततत्पुरुषीय चैतन्याभेदसत्वे हेतुमाह ।
बाह्यचैतन्ये ततत्पुरुषीय चैतन्याभेदाभिव्यक्त्येति ।
ननु बाह्यचैतन्यस्य ततत्पुरुषीय चैतन्यस्य च वस्तुतः सदा अभेद सत्वेपि तदभिव्यक्तिः कुत इत्यत आह ।
वृति कृतेति ।
बाह्ये विषयावछिन्नचैतन्ये चक्षुरादि द्वारानिर्गताया वृतेः संसर्गे सति वृत्ति वृतिमतोरभेदाद्वृतिमदन्तःकरणस्यापि तत्र संसर्गो लभ्यते ।
तथा च वृति संसृष्टबाह्यचैतन्यमेवान्तःकरणसम्बन्धा ततत्पुरुषीय चैतन्यं भवतीत्यनेन प्रकारेण बाह्यचैतन्ये वृतिकृतातपुरुषीय चैतन्याभेदाभिव्यक्तिर्भवतीत्यर्थः ।
ननूक्त प्रकारेण बाह्य चैतन्यस्य प्रमात्रचैतन्याभिन्नत्व सिद्धावपि घटादीनां प्रमातृचैतन्याभिन्नत्वमसिद्धमेवेत्याशङ्क्याह ।
बाह्यचैतन्ये कल्पितानामिति ।
बाह्यचैतन्ये तावत् घटादीनामभेदः प्रागेव सिद्धः तत्र तेषां कल्पितत्वा तथा च बाह्यचैतन्यस्य वृत्तिकृत ततत्पुरुषीय चैतन्याभेदाभिव्यक्तिदशायां घटादीनामपि ततत्पुरुषीय चैतन्याभिन्नत्वं सिध्यतीनिभावः ॥

न चान्तःकरणधर्माणां ज्ञानादीनामिवधर्माधर्मसंस्काराणामपि साक्षिणि कल्पितत्वा विशेषादापरोक्षापतिः तेषामनुद्भूतत्वात् उद्भूतस्यैव

४९ब्) जडस्य चैतन्याभेदः ।
आपरोक्ष्यमित्यभ्युपगमात् ।
एवं च सर्वपुरुषचैतन्याभिन्नत्वाद्यत्साक्षादपरोक्षाद्ब्रह्मेति श्रुत्यासत एवापरोक्षं ब्रह्मेत्यपरोक्ष्यार्थविषयत्वाछाब्दस्यापि ब्रह्मज्ञानस्यापरोक्षत्व वाचो युक्तिर्युक्ता एवेत्याहुः ।
अद्वैत विद्याचार्यास्तु नापरोक्षार्य विषयत्वं ज्ञानस्यापरोक्ष्यं स्वरूपसुखापरोक्षरूपज्ञाना व्यापनात् ।
स्वविषयकत्वलक्षण स्वप्रकाशत्व निषेधात् ।
किन्तु यथा ततदर्थस्य स्वव्यवहारानुकूलचैतन्याभेदोर्थापरोक्ष्यम् ।
एवं ततद्व्यवहारानुकूलचैततन्यस्य तत्तदर्थाभेदोज्ञानापरोक्ष्यम् ।
तथा च चैतन्यधर्म एवेदमापरोक्ष्यं न त्वनुमिति त्वेछात्वादिवदन्तःकरणवृतिधर्मः ।

अर्थापरोक्ष्यलक्षणस्याति व्याप्ति मां शङ्क्य निराकरोति न चेत्यादिना ।
धर्मेति धर्मादीनामप्यधिष्ठान भूतप्रमातृचैतन्ये सहाभिन्न सताकत्वरूपाभेदसत्वादिति भावः ।
उद्भूतत्वे सति प्रमातृचैतन्याभिन्नत्वमर्थापरोक्ष्यम् उद्भूतत्वं च फलवलकल्प्य स्वभावविशेषः ।
स च धर्मादेर्नास्तीति परिहारार्थः ।
एवं शब्दस्य ब्रह्मसाक्षात्कारे

करणत्वसिध्यर्थमुपोद्घातं कृत्वा प्रकृत दर्शयति ।
एवं चेति ।
ज्ञानापरोक्ष्यप्रयुक्तत्वे सतीत्यर्थः ।
अभिन्नत्वादिति ।
जीवरूपप्रमातुः ब्रह्माभेदस्य श्रुतिसिद्धत्वादिति भावः ।
इदं च ब्रह्मणो जीवाभिन्नत्वं जडस्य प्रमातृचैतन्याभिन्नत्ववत् काल्पनिकं न भवति किन्तु वास्तवैक्यरूपमित्याशयेनाह ।
स्वत एवेति ।
ब्रह्मणो नित्यापरोक्षप्रमातृचैतन्याभेदे श्रुतिमाह ।
यत्साक्षादिति ।
ब्रह्म जडवत् स्वव्यतिरिक्तप्रमातृचैतन्यमपेक्ष्यापरोक्षं न भवति ।
किन्तु साक्षात्प्रमातृचैतन्यस्वरूपत्वादेवापरोक्षमित्यर्थः ।
ज्ञानापरोक्ष्यमर्थापरोक्ष्यं च प्रकारान्तरेण निरूपयति ।
अद्वैतविद्याचार्यास्त्विति ।
पूर्वोक्तं ज्ञानापरोक्ष्यलक्षणमव्याप्त्या दूषयति ।
नापरोक्षेति स्वरूपसुखस्यापरोक्ष्यरूपे स्वरूपज्ञानेऽव्यापनादित्यर्थः ।
नन्वात्मस्वरूपसुखानुभवस्य साक्षिचैतन्यरूपस्य स्वप्रकाशत्वाभ्युपगमात् ।
स्वप्रकाशत्वस्य च स्वविषयकत्वरूपत्वात् ।
स्वरूपसुखविषयकत्वं तदपरोक्षरूपे स्वरूपज्ञाने निरपवादमित्यत आह ।
स्वविषयकत्वलक्षणेति ।
एकस्मिन् चैतन्ये विषय विषपि भावलक्षणसम्बन्धो न भवति सम्बन्धस्य द्विनिष्ठत्वात् स्वविषयत्वं विनापि स्वसत्ताप्रयुक्तसंशयाद्यगोचरत्वादिलक्षणस्य स्वप्रकाश तस्याकरेषु निरूपितत्वादिति भावः ।
किं तर्हि ज्ञानापरोक्ष्यमिति पृछति ।
किन्त्विति ज्ञानापरोक्ष्यनिर्वचनं प्रतिदृष्टान्तव्याजेन प्रथममर्थापरोक्ष्यं निर्वक्ति ।
यथेति ।
अर्थस्य

स्वव्यवहारानुकूलचैतन्याभिन्नत्वमपरोक्षत्वम् अस्ति चान्तःकरण तद्धर्माणां स्वव्यवहारानुकूलेन साक्षिचैतन्येनाभिन्नत्वं तत्र तेषामध्यस्तत्वात् ।
तथा घटादीनामपि स्वव्यवहारानुकूलेन घटादिगोचर वृत्युपहितेन घटाद्यभिष्टानचैतन्येनाभिन्नत्वमस्ति ।
तथा च ब्रह्मणोपि स्वव्यवहानुकूलेन स्वगोचरवृत्युपहितेन साक्षिचैत्नयेनाभिन्नत्वमस्तीति न क्वाप्यव्याप्ति घटाद्यर्थस्य चैतन्ये कल्पितस्य चैतन्याभिन्नत्वं सदा वर्तते ।
अपरोक्षत्वं तु सदा नास्तीति व्यवहारानुकूलेत्युक्तं घटादिगोचरवृति दशायामेव घटाद्यधिष्ठानचैतन्यं घटादिव्यवहारानुकूलं भवति न सर्वदेति नाति प्रसङ्गः ननु ततद्व्यवहारानुकूलचैतन्यस्य ततदर्थाभिन्नत्वमपरोक्षत्वमस्तुनाम तथापि ज्ञानापरोक्ष्यं नोक्तमेव वृतिरूपज्ञानस्य चैतन्यापेक्षा भिन्नत्वादित्यत आह ।
तथा चेति चैतन्यस्यैव ततदर्थव्यवहारानुकूलत्वे विवक्षिते सतीत्यर्थः ।
तथा च ज्ञानापरोक्ष्यमित्यत्र ज्ञानपदं चैतन्यपरमेव न वृत्तिज्ञानपरमिति नानुक्तिदोष इति भावः ॥

अत एव सुखादिप्रकाशरूपे साक्षिणि स्वरूपसुखप्रकाशरूपे चैतन्ये चापरोक्ष्यम् ।
न च घटाद्येन्द्रियकवृतौ तदनुभवविरोधः ।
अनुभवस्य वृत्यवछिन्नचैतन्यगता परोक्ष्य

विषयत्वोपपतेः ।
ननु उज्ञानार्थयोरापरोक्ष्यं हृदयादिगोचर शाब्दवृति तद्विषयोरति प्रसक्तम् ।
तत्र दैवात् कदाचिद्वृतिविषयसंसर्गे सति वृत्यवछिन्नचैतन्यस्य विषयावछिन्नचैतन्यस्य चाभेदाभिव्यक्तेरवर्जनीयत्वादिति चेत् न परोक्षवृतेर्विषयावछिन्नचैतन्यगताः ज्ञाननिवर्तनाक्षमतया तत्रा ज्ञानेनावृतस्य विषयचैतन्यस्यानावृतेन वृत्यवछिन्नसाक्षिचैतन्येनाभेदाभिव्यक्तेरभावादापरोक्ष्या- प्रसक्तेः ॥

ततदर्थव्यवहारानुकूलत्वे सति ततदर्थाभिन्नत्वरूपं ज्ञानापरोक्षत्वं चैतन्यधर्म एवेत्यत्र युक्तिमाह ।
अत एवेति ।
चैतन्यधर्मत्वाभ्युपगमादेवेत्यर्थः ।
तस्य वृतिधर्मत्वे तु सुखदुःखादिगोचरापरोक्षवृत्यनङ्गीकारात् ।
सुखदुःखादिभासकसाक्षिचैतन्ये वृतिधर्मस्यापरोक्ष्यस्यासम्भवाच्च सुखदुःखादेरपरोक्षत्वानुभवविरोधः स्यादितिभावः लक्षणे सत्यं तं वह्निगोचरानुमिति वृत्युपहिते जीवचैतन्येव हि व्यवहारानुकूले गतमिति तत्राति व्याप्तिवारणाय विशेष्यम् ।
अनुमिति वृतेः विषयदेशे गमनाभावेन तद्वृत्यवछिन्नचैतन्यस्य न वह्न्यभिर्न्नत्वमिति नाति व्याप्तिः

घटादिगोचर वृत्यभावदशायां घटाद्यवछिन्नचैतन्ये घटाद्यपरोक्षत्व विरर्हिते घटाद्यर्थाभिन्नत्वमस्तीति तद्धारणाय सत्यं तं तदा तस्य चैतन्यस्यावृतत्वेन घटादि व्यवहारानुकूलत्वाभावात् ।
नाति व्याप्तिरिति मन्तव्यम् ।
न चेति ।
ज्ञानापरोक्ष्यस्य चैतन्यधर्मत्वे घटादि गोचरवृतौ घटसाक्षात्करोमीत्यादिप्रकारेणापरोक्षत्वानुभवविरोध इत्यर्थः ।
वृतिचैतन्ययोस्तादात्म्येन वृति साक्षात्कारत्वानुभवस्य चैतन्य गता परोक्षविषयकत्वोपपतेरित्यर्थः ।
ननु हृदयनाडीधर्मादिगोचरशाब्दवृतिरन्तःशरीरव्यापिनी जायमाना दैवयोगात् हृदयनाड्याद्यवछिन्नान्तःकरणप्रदेशे यदि जायेत तदा हृदयादिरूपविषयावछिन्नचैतन्यस्य हृदयादिगोचरशाब्दवृत्यवछिन्नस्य चाभेदाभिव्यक्तिरपरिहार्या घटादिस्थले वृतेः विषयसंसर्गे सति वृतिविषयावछिन्नचैतन्ययोरभेदाभिव्यक्ति स्वीकारा तथा च हृदयादिगोचरशाब्दानुमित्यादि वृत्यवछिन्नचैतन्यरूपे परोक्षज्ञाने हृदयाद्यर्थाभिन्ने हृदयादिव्यवहारानुकूले ज्ञानापरोक्ष्यलक्षणमति व्याप्तम् ।
तथा हृदयादिरूपे परोक्षार्थे स्वव्यवहारानुकूलशाब्दादिवृत्यवछिन्नचैतन्याभिन्ने अर्थापरोक्ष्यलक्षणमति व्याप्तमिति शङ्कते ।
ननूक्तमिति ।
ययोश्चैतन्ययोरभेदाभिव्यक्तिरिष्यते ।
तयोरुभयोरप्यनावृतत्वमपेक्षितमन्यतरचैतन्यस्यावर्णदशायां तयोरभेदस्य प्रत्यक्षत्वलक्ष्ऽणाभिव्यक्त्ययोगात् तथा च हृदयादिगोचरशाब्द

वृतिस्थलेनाति व्याप्तिः तत्र विषयचैतन्यस्यावृतत्वादिति परिहरति ।
न परोक्षवृतेरिति ।
आपरोक्ष्याप्रसक्तेरिति ।
परोक्षहृदयादिविषयस्य हृदयादिगोचरशाब्दवृत्यवछिन्नचैतन्यरूपपरोक्षज्ञानस्य चेति शेषः तथा च हृदयादिगोचरशाब्दवृत्यवछिन्नचैतन्यरूपपरोक्षज्ञानस्य हृदयादिव्यवहारानु ॥

कूलज्ञानत्वे सत्यपि हृदयादिविषयेण सहाभिव्यक्त्याभेदाभावादभिव्यक्त ततदर्थाभिन्नत्वे सति तदर्थव्यवहारानुकूलज्ञानत्वलक्षणं ज्ञानापरोक्ष्यं नास्ति ।
तथा हृदयाद्यर्थस्यापि स्वव्यवहारानुकूलशाब्दवृत्यवछिन्नसाक्षिचैतन्याभेदसत्वेपि तदभेदाभिव्यक्त्यभावेन स्वव्यवहारानुकूलचैतन्याभेदाभिव्यक्ति शालित्वरूपमर्थापरोक्ष्यं नास्तीत्यर्थः ।
न चाहं सुखीदुःखीत्याकारके सुखादिसाक्षिणी सुखदुःखादिरूपविषयाभेदो विद्ययाभेदो विद्यमानोपि नाभिव्यज्यते ।
सुखादिसाक्षिणो जीवस्य सुखादेश्चाधाराधेय भावप्रतीतेः ।
तथा च सुखदुःखादिप्रत्यक्षेभिव्यक्तविषयाभेदाभावादव्याप्तिरिति

वाच्यम् ।
घटादि प्रत्यक्षरूपे घटादि स्फुरणे घटस्फुरति पटस्फुरतीत्याकारानुभवमादाय घटाद्यर्थाभेदाभिव्यक्तिमत्वस्येव सुखं स्फुरतिः दुःखं स्फुरतीत्याकारानुभवमादायैव सुखदुःखादि प्रत्यक्षे सुखाद्यर्थाभेदाभिव्यक्तिमत्व सत्वात् ।
न च घटस्फुरतीत्यनुभवे घटस्य स्फुरणाश्रयत्वमेव भाति ।
न तु स्फुरणाभेद इति वाच्यम् ।
घटस्फुरतीति प्रयोगे देवदत्तो गछतीत्यत्रगमनकर्त्रऽभिन्नो देवतदत इति वाक्यार्थवत्स्फुरणाश्रयाभिन्नो घट इति वाक्यार्थस्य वक्तव्य तया घटः स्फुरतीति प्रयोगमूलभूते घटः स्फुरतीत्यनुभवेपि स्फुरणाश्रयभूतचिदात्माभिन्नतया घटस्य भानावश्यं भावात् ।
नं च घटस्य स्फुरणाश्रयाभेदाभिव्यक्तावपि स्फुरणाभेदाभिव्यक्तिरद्यापि नोपयादितैवेति वाच्यम् ।
घटस्य स्वरूपमिति प्रत्यक्षं हि घटमेव घटस्य स्वरूपतया यथा विषयी करोति ।
तथा घटस्फुरतीति प्रत्यक्षमपि घटादिवृति दशायां घटाद्यधिष्ठानभूतमनावृत्त चिदात्मानमेव

स्वप्रकाशचिदात्माश्रित स्फुरणरूपेण विषयीकरोतीत्यभ्युपगमेन घटे स्फुरणाश्रया भेदभानस्यैव स्फुरणाभेदभानरूपत्वात् ।
एतदुक्तं भवति घटस्य स्वरूपमिति शब्दप्रयोग एव घट तत्स्वरूपयोर्भेदोभासतेन तु तन्मूलभूते घटस्य स्वरूपमिति प्रत्यक्षे अन्यथा तत्प्रत्यक्षस्य भ्रमत्व प्रसङ्गात् घटतत्स्वरूपयोर्भेदाभावात् ।
न च तस्य भ्रमत्वमभ्युपगतुं शक्यते बाधकाभावात् ।
एवं स्फुरतीति शब्दप्रयोगे एव स्वप्रकाशात्मनः स्फुरण तदाश्रयनावेन भेदभानं न तु स्फुरतीति प्रत्यक्षे तत्र स्फुरण द्वित्वानुपलम्भादिति ।
न च ब्रह्मगोचरशाब्दवृतेर्विषयसंसृष्टायाविषयगता ज्ञाननिवर्तनक्षमत्वदर्शनेन हृदयादिगोचरशाब्दवृतेरपि विषयसंसर्गाविशेषे कथं तस्यां स्वविषयचैतन्यगता ज्ञाननिवर्तन क्षमत्वं नेति वाच्यम् ।
हृदयादिगोचरशाब्दवृतेः सत्यपि विषयसंसर्गे तस्यां वृतौ अज्ञाननिवर्तकत्व प्रजकाभावेनाज्ञाननिवर्तकत्वस्य प्रथमपरिछेदावसाने

दर्शितत्वादितिभावः ।
अत एव जीवस्य संसारदशायां वस्तुतः सत्यपि ब्रह्माभेदेन तदा परोक्ष्यम् ।
अज्ञानावणाकृतभेदसत्वात् ।
न चैवं ब्रह्मणोपि जीवापरोक्ष्यासम्भवादसर्वज्ञत्वापतिः ।
अज्ञानस्येश्वरप्रत्यनावरकतया तं प्रतिजीवभेदानापादनात् ।
यदज्ञानं यं प्रत्यावरकं तस्य तं प्रत्येव स्वाश्रयभेदापादकत्वात् ।
अत एव चैत्र ज्ञानेन तस्य घटाज्ञाने निवृतेऽनिवृतं मैत्राज्ञानं मैत्रं प्रत्येव विषयचैतन्यस्य भेदापादकमिति न चैत्रस्य घटापरोक्ष्यानुपपतिरपि ॥

अर्थस्य स्वव्यवहारानुकूलचैतन्याभेदाभिव्यक्तिमत्वमेवापरोक्ष्यं न तु तादृशा भेदवत्वमात्रमित्यत्र लिङ्गमाह ।
अत एवेति ।
अभेदाभिव्यक्तेरेवापरोक्षत्वप्रयोजकत्व स्वीकारादेवेत्यर्थः ।
संसारेति ।
तत्वसाक्षात्कारात् पूर्वकाल इत्यर्थः ।
जीवस्य ब्रह्माभेदे सत्यपीत्यनेन ब्रह्मणः स्वव्यवहारानुकूलजीवचैतन्याभिन्नत्वे सत्यपीत्यपीत्यर्थो विवक्षितः ।
तथा च संसारदशायां स्वव्यवहारानुकूल जीवचैतन्याभिन्नस्यापि ब्रह्मणो जीवं प्रत्यपरोक्षत्वाभावस्तयोरभेदाभिव्यक्त्य भावादेवेति

वक्तव्यतया अभेदाभिव्यक्तेरापरोक्ष्यप्रयोजकत्वं युक्तमितिभावः ।
न चैवमिति अज्ञानकृतभेदस्याभेदाभिव्यक्ति प्रतिबन्धकत्व इत्यर्थः ।
असम्भवादिति ।
जीवं साक्षात्करोमि जीवो मम परोक्ष इति जीवगोचरव्यवहारानुकूलं ज्ञानं ब्रह्मणो मायावृत्युपहितं ब्रह्मचैतन्यमेव तथा च ब्रह्मकर्तृकव्यवहारविषयस्य जीवस्य ब्रह्मकर्तृकव्यवहारानुकूल तादृशब्रह्मचैतन्याभिन्नत्वे सत्वेप्यभिव्यक्ताभेदशालित्वा भावात् जीवस्य ब्रह्मप्रत्यपरोक्षं न सम्भवति ।
न च ब्रह्मणो जीवगोचरापरोक्षज्ञोनासम्भवेपि न सर्वज्ञत्वभङ्गः जीवगोचरपरोक्षज्ञानमात्रेणापि तत्सम्भवादिति वाच्यम् ।
ईश्वरस्य परोक्षज्ञानानङ्गीकारादितिभावः ।
अज्ञानं हि जीवधर्मिकब्रह्मप्रतियोगिकभेदप्रयोजकं जीवस्य नाहं ब्रह्मेति ब्रह्मभेदानुभव सत्वात् ।
न तु ब्रह्मधर्मिक जीवप्रतियोगिकभेदप्रयोजकं ब्रह्मणो नाहं जीव इत्यनुभवे मानाभावात् ।
तथा च ब्रह्मप्रतिजीवस्य ब्रह्माभेदाभिव्यक्ति प्रतिबन्धकस्याज्ञानकृतभेदस्याभावात् नोक्त दोष इति परिहरति ।
अज्ञानस्येति ।
अनावरकतयेति ईश्वरस्याहमज्ञ इत्यनुभवे मानाभावादज्ञानमीश्वरं प्रतिजीवावरकं न भवति ।
न चेश्वरस्यापि लीलाविग्रहपूर्वक व्यवहारकाले तदीये नैव वचनेन तस्याज्ञत्वानुभवोस्तीति गम्यत इति वाच्यं तदीयस्य तदीयाज्ञत्वगमकवचनस्यान्यथा सिद्धेश्चतुर्थपरिछेदे वक्ष्यमाणत्वादितिभावः ।
तमिति ईश्वरं प्रतिजीवप्रतियोगिक भेदाप्रयोजकत्वादित्यर्थः

तं प्रतिजीवावरकस्यापि जीवभेदा पादकं किं न स्यादित्यत आह ।
यं प्रतीति ।
यं जीवं प्रति यदज्ञानं विषयचैतन्यावरकं तं प्रत्येव तस्याज्ञानस्य स्वाश्रय भूतविषयचैतन्य प्रतियोगिकभेदापादकत्वाभ्युपगमादित्यर्थः ।
उक्त व्यवस्थायां नियामकमाह ।
अत एवेति ।
यं प्रति यदज्ञानमित्यादिव्यवस्थाभ्युपगमादेव चैत्रस्य घटापरोक्ष्यानुभवानुपपतिरपि नेति सम्बन्धः ।
घटावछिन्नचैतन्ये चैत्रं प्रतिघटचैतन्यावरकमज्ञानं यथा वर्तते तथा मैत्रं प्रत्यपि घटचैतन्यावरकमज्ञानं तत्रास्ति ।
तथा च चैत्रीय घटज्ञानेन चैत्रस्य घटाज्ञाने चैत्रं प्रतिस्वाश्रय भूतविषयचैतन्यप्रतियोगिक भेदापादके निवृते सति चैत्रीय घटज्ञानेनानिवृतं घटचैतन्यगतं मैत्रं प्रतिघटावरकाज्ञानमैत्रं प्रत्येव स्वाश्रय भूत घटचैतन्यप्रतियोगिकभेदा पादकम् ।
न तु मैत्राज्ञानं चैत्रं प्रतिघट चैतन्यानावरकमपि ।
चैत्रं प्रतिस्वाश्रयी भूतघट चैतन्यप्रतियोगिक भेदापादकम् ।
तथा सति चैत्रीय घटज्ञानेन चैत्रीयाज्ञाने निवृते सति तत्कृतभेदनिवृत्रावपि चैत्रस्य घटचैतन्यस्य च मैत्राज्ञानकृतभेदसत्वेनाभेदाभिव्यक्त्यभावात् चैत्रस्य घटापवोक्ष्यानुभवानुपपतिरेवस्यादतो मैत्राज्ञानं मैत्रं प्रतीव चैत्रं प्रतिस्वाश्रय भेदापादकं न भवति चैत्रं प्रतिस्वाश्रय चैतन्यानावरकत्वादिति वक्तव्यं तथा चोक्त व्यवस्थासिद्धेत्यर्थः ॥

नन्वेवं वृतिविषयचैतन्याभेदाभिव्यक्तिलक्षणस्यापरोक्षस्य विषयचैतन्यगताज्ञाननिवृतिप्रयोज्यत्वे तस्य अज्ञाननिवृतिप्रयोजकत्वायोगात् ज्ञानमात्रमज्ञाननिवर्तकं भवेदिति चेत् ।
न यत् ज्ञानमुत्पद्यमानं स्वकारणमहिम्नाविषयसंसृष्टमेवोत्पद्यते तदेवाज्ञाननिवर्तकमिति विशेषणात् ।
ऐन्द्रियक ज्ञानानां तथा त्वात् ।
एवं च शब्दादुत्पद्यमानमपि ब्रह्मज्ञानं सर्वोपादानभूत स्वविषयब्रह्मचैतन्यसंसृष्टमेवोत्पद्यत इति तस्याज्ञाननिवर्तकत्वमज्ञाननिवृतौ तन्मूलकभेदप्रविलयादापरोक्ष्यं चेत्युपपद्यतेतराम् ।
नन्वेवमध्ययन गृहीत वेदान्तजन्येनापि तत् ज्ञानेन मूलाज्ञाननिवृत्या आपरोक्ष्यं किं न स्यात् ॥

ननु परोक्षज्ञानमज्ञाननिवर्तकमितिरीत्याज्ञानस्य अज्ञाननिवर्तकत्वे अपरोक्षत्वं प्रयोजकमिति ।
वक्तुं न शक्यते ज्ञानगतापरोक्षत्वस्यैवाज्ञाननिवृत्यधीनत्वात् ।
न च मास्तु ज्ञानापरोक्ष्यस्याज्ञाननिवृतिप्रयोजकत्वमिति वाच्यम् ।
तथा सति ज्ञानमात्रस्याज्ञाननिवर्तकत्वापरोक्षज्ञानस्यापि

अज्ञाननिवर्तकत्वं प्रसङ्गादित्याशयेन शङ्कते ।
नन्वेवमिति ।
एवं शब्दार्थमवाह ।
वृतीति वृत्यवछिन्नचैतन्यरूपे ज्ञाने घटादिरूपविषये च वृत्यवछिन्नचैतन्यविषयावछिन्नचैतन्ययोरभेदाभिव्यक्ति घटितस्येत्यर्थः ।
अज्ञान निवृतिं प्रयोज्यत्व इति ।
प्रमातारं प्रतिषयचैतन्यावरणद्वाराविषयचैतन्यप्रतियोगिक- भेदापादकस्याज्ञानस्य निवृतिं विना अर्थस्य ज्ञानस्य वा अपरोक्ष्यासम्भवस्योक्तत्वादापरोक्ष्यस्याज्ञाननिवृतिप्रयोज्यत्वमित्यर्थः ।
ज्ञानस्याज्ञाननिवर्तकतायामापरोक्ष्यस्य प्रयोजकत्वाभावेपि न हातिः ।
प्रयोजकोतरस्य प्रथमपरिछेदान्ते दर् शितत्वादित्याशयेन परिहरति ।
नेति ।
तथात्वादिति सन्निकर्त्षरूपकारणमहिम्नाविषयसंसृष्टतयैव उत्पद्यमानत्वादित्यर्थः ।
अनुमित्यादि वृतीनाम तथात्वेनातिप्रसङ्गाभावाच्चेत्यपि द्रष्टव्यम् ।
नन्वनु मे वह्न्यादि गोचरानुमिति वृतेरिव ब्रह्मगोचरशाब्दवृतेरपि ।
स्वविषयभूतेन ब्रह्मचैतन्येन संसर्गाभावान्मूलाज्ञाननिवर्तकत्वं न स्या तथा च तत्वज्ञानानन्तरमपि ब्रह्मापरोक्ष्यं न स्यादित्यत आह ।
एवं चेति ।
एवमेवेत्यर्थः ।
ऐन्द्रयकवृतिवदेवेति यावत् ।
ब्रह्मगोचरवृतेः स्वविषयसंसर्गनियमे कारणमाह ।
सर्वोपादानभूतेति जायमानस्य सर्वस्य ब्रह्मसंसर्गनियमे सति ब्रह्मगोचरवृतेः स्वविषयसंसर्ग नियमे किं वक्तव्यमित्याशयेन सर्वोपादानेत्युक्तम् ।
कार्यस्योपादानसंसर्गनियमा

तथा च ब्रह्मगोचरवृतेर्नानुमेय वह्न्यादिगोचरानुमिति वृतितुल्यतेति भावः ।
आपरोक्ष्यं चेति ।
ननु ज्ञानापरोक्ष्यस्याज्ञाननिवृतावप्रयोजकत्वमते वेदान्तजन्य ज्ञानस्यापरोक्षत्व प्रसाधनमस्मिन् शाब्दापरोक्षवादे व्यर्थमिति चेन्न अज्ञाननिवर्तकज्ञानमपरोक्षरूपमिति नियमस्य चक्षुरादिजन्य ज्ञानेषु दृष्टस्य ब्रह्माज्ञाननिवर्तके ब्रह्मगोचरशाब्दज्ञाने व्यभिचारवारणार्थतया तत्साधनस्यार्थवत्वोपपतेः ।
मूलाज्ञाननिवर्तके ब्रह्मगोचरशाब्दज्ञाने आपरोक्ष्यस्य तद्वैतत्पश्यन्नित्यादिश्रुत्या ब्रह्मसाक्षात्करोमीति विद्वदनुभवेन च सिधस्य तत्र तत्प्रसाधनं विना अनुपपतेश्चेति भावः ।
घटादौ घटादिगोचरवृतिकाल एवापरोक्ष्यं तद्वृत्युपरमे तु पुनरज्ञानान्तरकृतभेदप्राप्त्या स्वव्यवहारानुकूल चैतन्याभेदाभिव्यक्त्यभावान्नापरोक्ष्यं ब्रह्मणि तु मूलाज्ञाननिवृतौ पुनरावरणकृतभेदाप्रसक्त्या ब्रह्मज्ञानानन्तरं सदैवापरोक्ष्यमिति विशेषं सूचयति ।
तरामिति ।
नन्वेवमध्ययन गृहीतेति ।
नियमेन यज्ञानं विषयसंसृष्टतयोदेति ।
तज्ज्ञानमज्ञानं निवर्तपत्येवेति नियमोपगमे सतीत्येवं शब्दार्थः ।
आपात ज्ञातस्यापि स्वयब्रह्मसंसर्गितयैव उत्पन्नत्वादितिभावः ॥

न च तत् सत्ता निश्चयरूपत्वाभावान्नाज्ञाननिवर्तकमिति वाच्यं तथापि कृत श्रवणस्य

निर्विचिकित्सशाब्दज्ञानेन तन्निवृत्यामननादि वैयर्थ्यापतिरिति चेन्न सत्यपि श्रवणान्निर्विचिकित्सज्ञाने चितविक्षेपदोषेण प्रतिबन्धात् ।
अज्ञानानिवृत्यातन्निराकरे मनननिदिध्यासननियमविध्यर्थानुष्टानस्यार्थवत्वात् ।
भवान्तरीयमननाद्यनुष्ठाननिरस्तचितविक्षेपस्योपदेशमात्रात् ब्रह्मापरोक्ष्यस्येष्यमाणत्वाच्चेत्याहु ।
अथैवमपि कृतनिदिध्यासनस्य वेदान्तजन्यब्रह्मब्रह्मानेनेव घटादिज्ञानेनापि ब्रह्माज्ञाननिवृतिः किं न स्यात् ।
न च तस्य ब्रह्माविषयत्वान्न ततो ब्रह्माज्ञाननिवृतिरिति वाच्यम् ।
घटः सन्नित्यादिबुद्धिवृतेः सद्रूपब्रह्मविषयत्वोपगमात् ।
न च तत्र घटाद्याकारवृत्या तदज्ञाननिवृतौ स्वतः स्फुरणादेव तदवछिन्नचैतन्यं सदिति प्रकाशतेन तस्य घटाद्याकारवृतिविषयत्वमितिवाच्यम् ।
तदभावे घटविषयं ज्ञानं तदवछिन्नचैतन्यविषयमज्ञानमिति भिन्नविषयेण ज्ञानेन तन्निवृतेरयोगात् ।
जडे आवरणकृत्याभावेन घटस्याज्ञाना

विषयत्वात् ।
न च घटादिवृतेस्तदवछिन्नचैतन्यविषयत्वेप्यखण्डानन्दाकारत्वा भावान्न ततो मूलाज्ञाननिवृतिरिति वाच्यम् ॥

सता निश्चयरूपत्वमपि निवर्तक ज्ञानविशेषणमतो नोक्ताति प्रसङ्ग इति शङ्कते ।
न च तदिति ।
विचारप्राचीनमध्ययन गृहीत वेदान्तजन्यज्ञानं तच्छब्दार्थः ।
विशेषणमभ्युपगम्याप्यति प्रसङ्गमाह ।
तथापीति ।
अप्रतिबद्धत्वमपि निवर्तक ज्ञानविशेषणमतो नोक्ताति प्रसङ्गोपीति समाधते ।
न सत्यपीति ।

ननु मननादेर्विक्षेप शब्दिता सम्भावनाविपरीतभावना निवृत्यर्थत्वे यस्य विद्याधिकारिणो जन्मान्तरीय मननादि सहित श्रवणानुष्ठानेन समस्ती विक्षेप दोषो निरस्तः तस्योपदेशमात्रेणापि सता निश्चयरूपमप्रतिबद्धं च ब्रह्मज्ञानं जायते ।
तथा च तस्येह जन्मनि श्रवणमननाद्यनुष्ठानं विनापि मूलाज्ञाननिवृतिः ब्रह्मापरोक्ष्यं च स्यादित्यत आह ।
भवान्तरीयेति ।

तथा चेष्टापतिरितिभावः ।
अथैवमपीति ।
विक्षेपदोषनिवृत्यर्थमननाद्यपेक्षायामपीत्यर्थः ।
कृतनिदिद्ध्यासनस्याधिकारिणी घटादिध्यासनस्याधिकारिणो घटादिज्ञानेनापि मूलाज्ञननिवृतिः ।
किं न स्याद्घटादिवृतेरपि मूलाज्ञानविषयचैतन्यविष्यकत्वाविशेषादित्याक्षेपाभिप्रायः मूलाज्ञानघटज्ञानयोः समानविषयत्वमसिद्धमिति सिद्धान्तितः शङ्कामनूद्यनिराकरोति ।
न च तस्येति ।
घटादिज्ञानस्येत्यर्थः ।
तत

इति घटादिज्ञानादित्यर्थः ।
घटः सन्नित्याद्याकारायावृतेः ब्रह्मचैतन्यविषयकत्वाभ्युपगमो असिद्ध इति सिद्धान्ती शङ्कते ।
न च तत्रेति ।

तत्रेत्यादितछब्दत्रये घटादिपरं तस्येति ब्रह्मण इत्यर्थः ।
घटाद्यवछिन्नचैतन्यस्य घटादिवृतिविषयत्वं पूर्ववादी साधयति ।
तदभाव इत्यादिना ।
चैतन्यस्य घटादिवृतिविषयत्वा भावे सतीत्यर्थः ।
ननु यदि घटमात्रविषयकज्ञानेन घटावछिन्नचैतन्यविषयकाज्ञाननिवृतिर्न सम्भवति तयोः समानविषयकत्वाभावात् ।
तर्हि घटज्ञानेन सहाज्ञानस्य समानविषयकत्वसम्पतये अज्ञानमपि घटादिजडमात्रविषय मे वास्तु नेत्याह पूर्ववादी ।
जड इति ।

जडस्य जडत्वादेवप्रमाणानवतारदशायामप्रकाशोपपत्या जडस्याप्रकाशार्यामावरणकल्पनायोगादित्यर्थः ।
कृत्यं फलं तथा च वेदान्तजन्य ज्ञानवत् घटादिज्ञानस्यापि ब्रह्मचैतन्यविषयकत्वावश्यम्भावेन मूलाज्ञानसमानविषयकत्वा तेनापि तन्निवृतिप्रसङ्ग इति स्थितम् ।
तत्र सिद्धान्ती शङ्कते न चेति ॥

वेदान्तजन्यसाक्षात्कारेपि तदभावात् ।
न हि तत्राखण्डत्वमानन्दत्वं वा कश्चिदस्तिप्रकारः वेदान्तानां संसर्गागोचरप्रमाननकत्वलक्षणाखण्डार्थत्वहानापतेः ।
न च वेदान्तजन्यज्ञानादेव तन्निवृतिनियम इति वाच्यम् ।
कॢप्ता

ज्ञाननिवर्तकत्व प्रयोजकरूपस्य ज्ञानान्तरेपि सद्भावे तथा नियन्तुमशक्यत्वात् ।
न च घटाद्याकारवृतिविषयस्यावछिन्नचैतन्यस्य कल्पितत्वेन यन्मूलाज्ञानविषयभूतं सत्यमनवछिन्नं चैतन्यं तद्विषयत्वाभावाद्घटादि वृतीनां निवर्त्यत्वाभिमता ज्ञानसमानविषयत्वलक्षणं कॢप्त प्रयोजकमेव नास्तीति वाच्यम् ।
तत्रावछेदकांशस्य कल्पितत्वेप्यवछेद्यांशस्याकल्पितमूलाज्ञानविषयचैतन्यरूपत्वात् ।
तस्य कल्पितत्वे घटवज्जडतयाऽवस्थाज्ञानं प्रत्यपि विषयत्वायोगेनावस्थाज्ञानविषयाकल्पितचैतन्यविषयत्वस्य वक्तव्यतया तन्निवर्तक घटादिज्ञानस्यापि तद्विषयत्वावश्यम्भवेन तत्पक्षेपि ततो मूलाज्ञाननिवृतिप्रसङ्गस्यापरिहरात् ॥

तर्हि वेदान्तजन्यज्ञानमपि ब्रह्माज्ञानविवर्तकं न स्यादिति पूर्ववादी दूषधाति ।
वेदान्तजन्येति ।
अखण्डत्व मनवछिन्नत्वं वेदान्तजन्यज्ञानस्याखण्डत्वादि धर्मवैशिष्ट्यावगाहित्वोपगमे बाधकमाह ।
वेदान्नामिति मूलाज्ञाननिवर्तकत्वानस्य वेदान्तजन्यत्वमपि विशेषणं विवक्षितमतो

घटादिज्ञानेनाति प्रसङ्ग इत्याशयवती माशङ्कामनूद्यदूषयति ।
पूर्ववादी ।
न च वेदान्तेत्यादिना ।

वेदान्तजन्यज्ञानकॢप्तस्य मूलाज्ञाननिवर्तकत्व प्रयोजक रूपस्य मूलाज्ञानसमानविषयकत्व सता निश्चयरूपत्वा प्रतिबद्धत्वलक्षणस्य निदिध्यासनपरिपाककाले चक्षुरादिजन्यघटादिज्ञानेपि सत्वे सति वेदान्तजन्यज्ञानादेवमूलाज्ञाननिवृतिः ।
न तु घटादिज्ञानादिति नियन्तुमयुक्तत्वात् ।
वेदान्तजन्यत्वस्यापि सता निश्चयरूपत्वादेरिव प्रयोजक विशेषणत्वे गौरवान्मानाभावाच्चेतिभावः ।
तर्हि वेदान्तजन्यज्ञाने कॢप्तं यत्प्रयोजकं तदेव घटादिज्ञाने नास्तीति शङ्कते ।
न च घटाद्याकारेति ।

अवछिन्नत्वं कल्पितत्वे हेतुः ।
अनवछिन्नत्वं सत्यत्वे हेतुः घटादिवृर्तानां कल्पितचैतन्यविषयकत्वेन सत्य ब्रह्मविषयकत्वाभावादित्यर्थः ।
घटाद्यवछिन्नचैतन्यं क कल्पितमित्यत्र चैतन्यांशस्याकल्पितत्वं कल्पितत्वं वा विवक्षितं नाद्य इत्याह ।
तत्रेति ।
अवछिन्नचैतन्य इत्यर्थः ।

अवछेद्यचैतन्यांशस्य घटादिवृतिविषयस्याकल्पितं यन्मूलाज्ञानविषयब्रह्मचैतन्यं तद्रूपत्वादित्यर्थः ।
तथा च घटाद्यवछिन्नचैतन्यगोचरवृतेरपि निवर्त्यत्वाभिमतमूलाज्ञान समानविषयकत्वरूपं वेदान्तजन्यज्ञाने कॢप्तं प्रयोजकमस्तीतिभावः ।
द्वितीय कल्पेपि घटादिवृतौ कॢप्त प्रयोजकमस्तीति दर्शयन् ।
तं कल्पं दूषयति ।
तस्य कल्पितत्व इति ।
अवछेद्यचैतन्यांशस्येत्यर्थः ।

वक्तव्य तयेति अवछेद्यचैतन्यांशस्य कल्पितत्वपक्षे तस्य जडत्वापत्या

जडस्य तस्याज्ञानविषयत्वासम्भवादवस्थाज्ञानं प्रतिमूलाज्ञानविषय ब्रह्मचैतन्यमेव विषय इति वक्तव्यं निर्विषयाज्ञानासम्भवात् ।
तथा च ब्रह्मचैतन्यविषयकावस्थाज्ञाननिवर्तकत्वाय घटादिवृती नामपि मूलाज्ञानविषयब्रह्मचैतन्यविषयकत्वमपरिहार्यं घटादि वृतीनां सत्यब्रह्मविषयकत्वाभावे अव आज्ञानेन सहसमानविषयकत्वाभावातासामवस्थाज्ञाननिवर्तकत्वं न स्यादित्यर्थः ।
तन्निवर्तकेति ।
अवस्थाज्ञानं तच्छब्दार्थः तद्विषयत्वेति मूलाज्ञानविषयब्रह्मचैतन्यं तछब्दार्थः तत्पक्षेपीति अवछेद्यांशस्य कल्पितत्वमिति द्वितीय कल्पेपीत्यर्थः ।
तत इति घटादिज्ञानादित्यर्थः ।
अपरिहारादिति ।

घटादिज्ञानस्यापि वेदान्तजन्यज्ञानस्येव मूलाज्ञानसमानविषयकत्वादितिभावः ॥

अत्राहुराचार्याः ।
न चैतन्यं चक्षुरादिजन्यवृतिविषयः न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चिदेनं परां विखानिव्यतृणत् स्वयम्भूस्तस्मात्परा"न्पश्यति नान्तरात्मन्नित्यादि श्रुत्या तस्य परमाण्वादि वच्चक्षुराद्ययोग्यत्वोपदेशादौपनिषदमिति विशेषणाच्च ।
न च सर्वप्रत्ययवेद्येवा ब्रह्मरूपे व्यवस्थित इत्यादि वार्तिक विरोधः ।
तस्य घटाघाकार वृत्युदये सत्यावरणाभि भवात् ।
स्वप्नभं

सद्रूपं ब्रह्मघटः सन्निति घटवद्व्यवहार्यं भवतीत्यौपचारिक घटादि वृति वेद्यत्व परत्वात् ।
आवरणाम्भिभावकत्वं च घटादिज्ञानस्य घटादिविषयत्वादेवोपपन्नं घटादेरप्यज्ञानविषयत्वात् ।
घटं न जानामि घटज्ञानेन घटाज्ञानं नष्टमित्यवस्थाज्ञानानां घटादिविषयत्वानुभवात् ।
न च तत्रावरण कृत्याभावादज्ञानाङ्गीकारो न युक्तः ।
तद्भासकस्य तदवछिन्नचैतन्यस्यावरणादेव तदप्रकाशोपपतेरिति वाच्यम् ॥

अत्राहुरिति ।
घटादिज्ञानमपि मूलाज्ञाननिवर्तकं स्याच्चैतन्यविषयकत्वाद्वेदान्तजन्य ज्ञानवदिति चोद्ये हेत्व सिद्धिमाहरित्यर्थः ।
अस्यात्मनो रूपं सन्दृशे सन्दृशश्चक्षुषो योग्यत्वेन न तिष्ठति रूपादि हीनत्वात् ।
अतो न कश्चिदेनमात्मानं चक्षुषा पश्यति परांविपराग्विंषयाणिखानि इन्द्रियाणि व्यतृणत् हिंसितवान् ।
ईश्वरः जडार्थ विषयत्वे नैवकरणानि सृष्टवानिति यावत् ।
तस्मात् तथा सृष्टत्वात्परा"न्परां चं सर्वलोक इन्द्रियैरुपलभते ।
न अन्तरात्मानं चैतन्य स्वभावमित्यर्थः ।
न चक्षुषा गृह्यत इत्यादि श्रुतिरादिपदार्थः ।
तस्येति चैतन्यस्येत्यर्थः ।
ननु यदीन्द्रिया योग्यत्वोपदेशाब्दपनिषदेक गम्यत्व श्रवणाच्च

चैतन्यं घटादिवृतिविषयोनुभवमीत्युपेयते तर्हि वार्तिक विरोध इति शङ्कते ।
न च सर्वेति ।
यद्यद्वस्तु प्रतीयते तत्सर्वं सदित्येव प्रतीयते तथा चानुभव वलात्सद्रूपं ब्रह्मसर्वप्रत्यय वेद्यतया व्यवस्थितमित्यर्थः ।
चैतन्यस्य सर्वप्रत्यय वेद्यत्वं गौणमेव वार्तिककाराणामभिमतं न घटादिवन्मुख्यम् उदाहृत श्रुतिविरोधात् ।
तथा च न वार्तिक विरोध इति समाधते ।
तस्येति वार्तिक वचनस्येत्यर्थः ।
यथा घटस्य घटगोचरवृत्यधीनव्यवहारविषयत्वं तथा घटाद्यधिष्ठानसद्रूपब्रह्मणोपि घटादिवृत्यधीन व्यवहारविषयत्वमस्तीत्यनेन गुणै न सद्रूपं ब्रह्मघटादि प्रत्यय वैद्यमिति वार्तिककारैरुच्यत इत्यर्थः ।
न चैवं परोक्षवृतिविषयेष्टावरणानुभिभवादुक्त गतिस्तत्र न सम्भवतीति वाच्यम् ।
वार्तिके प्रत्यय पदस्यावरणाभिभावकवृति परत्वोपपतेरितिभावः ।
ननु घटादिवृतेर्घटाद्यवछिन्नचैतन्यविषयकत्वाभावे चैतन्यावरकाज्ञानाभिभावकत्वं न सम्भवति ज्ञानाज्ञानयोः समानविषयकत्वाभावादित्यत आह ।
आवरणाभिभावकत्वं चेति जडस्याप्यज्ञानविषयत्वमनुभवबलात् स्वीकार्यमित्याह ।
घटादेरपीति ।
अवस्था पदं मूलाज्ञानव्यवछेदाय तस्य ब्रह्मनुजानामीति ब्रह्ममात्रविषयकत्वानुभवात् ।
न जडविषयत्वमितिभावः ।
न च तत्रेति ।

जडवस्तुतीत्यर्थः ।
न युक्त इति अज्ञानाश्रयत्वं जडेन युक्तं तत्रावरणाभावत् ।
तदभावश्च फलाभावादित्यर्थः ।
घटं न जानामीत्यनुभवस्तु घट तदधिष्ठान चैतन्ययोस्तादात्म्याच्चैतन्यविषयकत्वेनाप्युपपद्यत

इति भावः ।
ननु जडस्यावरणाभावे कथं तदप्रकाशः सम्भवति ।
न च तत्प्रकाशकचैतन्यसंसर्गाभावादेवाप्रकाशो न त्वावरण बलादिति वाच्यम् ।
जडस्य स्वप्रकाश चैतन्ये अध्यस्ततया तस्य सदावभासकचैतन्यसंसर्गसत्वादतो जडस्याप्रकाश एव जडावरणफलमित्यत आह ।
तद्भासकस्येति ।

अत्र तच्छब्दत्रयं जडपरम् ॥

उक्त भङ्ग्याजडस्य साक्षादज्ञानविषयत्व प्रतिक्षेपेपि जडावछिन्नचैतन्यप्रकाशस्याज्ञानेनावरणं ततो नित्यचैतन्यप्रकाशसंसर्गेपि जडस्य नास्ति न प्रकाशत इत्यादि व्यवहारयोग्यत्वमिति परम्परयाऽज्ञानविषयत्वाभ्युपगमात् ।
साक्षात्परम्परया वा यदज्ञानावरणीयं तद्विषयस्यैव ज्ञानस्य तदज्ञाननिवर्तकत्व प्रयोजक शरीरे निवेशात् ।
न चैवं घटादीनामुक्तरीत्यामूलाज्ञानविषयत्वमपि स्यादिति घटादिसाक्षात्कारादेव मूलाज्ञाननिवृत्यापातः फलबलातदज्ञानकार्यातिरिक्त तद्विषय विषयकत्वस्यैव तन्निवर्तकत्वे तन्त्रत्वात् ॥

उक्त भङ्ग्येति ।
तत्रावरणकृत्याभावादज्ञानाङ्गीकारो न

युक्त इति वाक्येन जडे साक्षादज्ञानाश्रयत्वस्य साक्षादज्ञानविषयत्वस्य च प्रतिक्षेपेपीत्यर्थः ।
ननु तद्वाक्यस्य जडे साक्षादज्ञानविषयत्व प्रतिक्षेपपरत्वं किमिति कल्पते साक्षात्परम्परा साधारणाज्ञानविषयत्व मात्रप्रतिक्षेपपरत्वं सम्भवादित्याशङ्क्य तथा सति तद्भासकस्य तदवछिन्नचैतन्यस्यावरणादेव तदप्रकाशोपपतेरित्युतर वाक्येन जडेपि परम्परयाज्ञानविषयत्वाभ्युपगमविरोधप्रसङ्गादित्याशयेनाह ।
जडावछिन्नेत्यादिना शङ्का ग्रन्थे तदप्रकाशोपपतेरित्यनेनांशेन जडे अस्ति ।
प्रकाशते प्रियं चेत्येवमात्मकव्यवहारायोग्यत्वलक्षणमावरणमभ्युपगतं चैतन्यस्यावरणादेवेत्यनेनांशेन जडावरणस्य कारणत्वेन चैतन्यावरणमभ्युपगतमिति प्रतिपादयति ।
अज्ञानेनेति तत इति चैतन्यावरणादित्यर्थः ।
चैतन्यस्य स्वप्रकाशतया तस्य यथा सदा प्रसक्तप्रकाशत्वमावरणकल्पकमस्ति तथा जडस्यापि सदा चैतन्यप्रकाशसंसृष्टतया सदा प्रसक्तप्रकाशत्वमावरणकल्पकं तुल्यमिति सूचयति ।
नित्यचैतन्यप्रकाशसंसर्गेपीति ।
इति शब्दः प्रकारवचनः ननूक्तरीत्यावछिन्नचैतन्यनिष्ठमवस्थाज्ञानं जड तदवछिन्नचैतन्ययोरुभयोरप्यावरकमिति लभ्यते ।
तथा च घटादिज्ञानस्य जडमात्रविषयकत्व स्वीकारेण तस्याज्ञानेन सह सर्वाशे समानविषयकत्वाभावादज्ञाननिवर्तकत्वं न स्यादित्यत आह ।
साक्षादिति ।
ज्ञानस्याज्ञानसमानविषयकत्वमात्रं विरोधप्रयोजक शरीरे

प्रविष्टं न तु सर्वांशेषि समानविषयकत्वं गौरवादितिभावः ।
न चैवमिति ।
ज्ञानाज्ञानयोः सर्वांशे समानविषकत्वानादर इत्यर्थः ।
उक्तरीत्येति ।
अवछिन्नचैतन्यस्य स्वरूपेण सत्यतया ब्रह्मस्वरूपस्यावस्थाज्ञानविषयत्ववत् मूलाज्ञानविषयत्वमप्यस्ति ।
तथा चावस्थाज्ञानकृतचैतन्यावरणबलाज्जडस्यापि परम्परयावस्थाज्ञानविषयत्वमित्युक्तरीत्या मूलाज्ञानकृतचैतन्यावरणबलात् ।
मूलाज्ञानविषयत्वमपि जडस्य घटादेरपरिहार्यं स्यादित्यर्थः ।
ततः किं तत्राह ।
घटादीति ।

यथा अवस्थापरं ज्ञानं प्रतिपरयाविषयभूत जडसाक्षात्कारादेवावछिन्न चैतन्यनिष्ठावस्थाज्ञानस्य निवृतिस्तथा मूलाज्ञानप्रत्यपि परम्परयाविषयभूत जडसाक्षात्कारादेव मूलाज्ञानस्यापि निवृत्यापात इत्यर्थः ।
मूलाज्ञाननिवृत्यापातो न चेत्यत्र हेतुमाह ।
फलबलादित्यादिना ।
घटादिसाक्षात्कारे सत्यपि मूलाज्ञानानुवृतिरूपफलबलादित्यर्थः ।
मूलाज्ञान तत्कार्यातिरिक्तो यो मूलाज्ञानविषयश्चिन्मात्रं तद्विषयकत्वख्यैवज्ञाने मूलाज्ञाननिवर्तकत्वे तन्त्रत्व कल्पनात् ।
घटादिसाक्षात्कारे च तदभावान्न मूलाज्ञाननिवर्तकत्वापात इत्यर्थः ॥

अथ वा मूलाज्ञानस्यैव जडं न विषयः अवस्था ज्ञानानां त्ववछिन्नचैतन्याश्रितानां तत जडमेव विषयः अन्यथा चाक्षुषवृत्याचन्दनखण्डे चैतन्याभिव्यक्तौ तत्संसर्गिणो गन्धस्यापरोक्ष्यापतेः ।

तदनभिव्यक्तौ चन्दन तद्रूपयोरप्यप्रकाशापतेः ।
न च चाक्षुष वृत्याचन्दन तद्रूपावछिन्न चैतन्ययोरभिव्यक्त्यातयोः प्रकाशः गन्धाकारवृत्यभावेन गन्धावछिन्नचैतन्यस्यानभिव्यक्त्या तस्यानभिव्यक्त्या तस्याप्रकाशश्चेति वाच्यम् ।
चैतन्यस्य द्विगुणीकृत्यवृत्यभावेनैक द्रव्यगुणानां स्वाश्रये सर्वत्र व्याप्य वर्तमानानां पृथक् पृथक् गगनावछेदकत्वस्येव चैतन्यावछेदकत्व स्याप्यसम्भवा तेषां स्वाश्रय द्रव्यावछिन्नचैतन्येनैव शुक्तीदमंशावछिन्नचैतन्येन शुक्तिरजतवत्प्रकाश्यतया तस्याभिव्यक्तौ गन्धस्यापि प्रकाशस्याऽनभिव्यक्तौ रूपादेरप्यप्रकाशस्या चापतेः ।
न च गन्धाकारवृत्युपरक्त एव चैतन्ये पन्धः प्रकाशत इति नियमः ॥

जडमात्रगोचरवृत्या कथमवछिन्नचैतन्यावरकाज्ञाननिवृतिर्भिन्नविषयत्वादिति शङ्कायामवस्थाज्ञानमवछिन्नचैतन्यावरणद्वारा जडमप्यावृणोति अतो जडमात्रगोचरयापि वृत्या अवस्थाज्ञान निवृतिः सम्भवतीति प्रतिपादितमिदानीं तस्यामेव शङ्कायां प्रकारान्तरेण समाधानं दर्शयति ।
अथवेति ।
अथवा अवस्थाज्ञानानां ततज्जडमेव विषय इति सम्बन्धः ।
घटं न जानामीत्यादि पूर्वोक्तानुभवादेवेति

भावः ।
तर्ह्यवस्थाज्ञानानामाश्रयोपि तत्तज्जडमेवस्या तथा चाप सिद्धात इत्यत आह ।
अवछिन्नचैतन्याश्रितानामिति ।

ननु जडस्याज्ञानविषयत्वोपगमे जडमज्ञानस्य विषयो न भवतीति सिद्धान्तस्य का गतिरित्यत आह ।
मूलाज्ञानस्यैवेति ।
जडस्याज्ञानाविषयत्व सिद्धान्तो मूलाज्ञानमात्रविषय इति भावः ।
अन्यथेति ।
जडस्यानावृतत्वे इत्यर्थः ।
चन्दनखण्डगोचर चाक्षुष वृत्या तदवछिन्नचैतन्यमभिव्यज्यतेन वा आद्ये दोषमाह ।
तत्संसर्गिण इति ।

चन्दननिष्ठगन्धस्यापि चन्दनस्येवापरोक्ष्यापतिरभिव्यक्ति चैतन्यसंसर्गित्वस्योभयत्राविशेषात् ।
जडस्यावृतत्वपक्षे तु नायं दोषः ।
चाक्षुषवृत्यागन्धावरणानिवृतेरित्यर्थः ।
द्वितीये दोषमाह ।
तदनभिव्यक्ता इति ।
अप्रकाशापतेरिति ।

चन्दनुगोचर चाक्षुषवृतिकाले चन्दनदद्रूपप्रकाशाभावो निष्ठ इति भावः ।
चन्दनखण्डन घटपटादि द्रव्याणामिवैक द्रव्यवृतिगुणानामपि चैतन्यावछेदकत्वमस्तीत्यभिप्रेत्याशङ्कते ।
न चेति ।
एकत्रद्रव्ये रूपरसगन्धादिभेदेन चैतन्यभेदो नास्ति मानाभावादित्याह ।
चैतन्यस्येति चैतन्यस्य निरवयवतया द्रव्ये द्रव्यावछेदेनैकागुणावछेदेनापरावृतिर्न सम्भवतीत्यर्थः ।
यद्येक द्रव्ये प्रदेशभेदेन गन्धादयः स्युः तदा तत्र दव्ये गन्धादिभेदेन चैतन्यभेदशङ्कापि स्यात् ।
न त्वेतदस्ति गन्धादीनां व्याप्यवृतित्वानुभवादित्याशयेनाह ।
व्याप्येति ।
यथा घटादिद्रव्याणां गगनभेदकत्वमस्ति तथा गन्धादीनां गगनभेदकत्वं नास्ति गन्धादिभेदेन गगनभेदा ननु

भवादितिभावः ।
गन्धादिभेदेन चैतन्यभेदाभावे सिद्धे चन्दनचैतन्याभिव्यक्त्यनभिव्यक्तिकृतौ पूर्वोक्त दोषौ दुष्परिहरावित्याह ।
तेषामिति ।
शुक्तीति यथा शुक्तीदमंशावछिन्नचैतन्ये रजतस्याध्यासात् रजतं शुक्तीदमंश चैतन्येवावभास्यं नत्विदमंशावछिन्नचैतन्यापेक्षया पृथग्भूतेन स्वावछिन्नचैतन्येनावभास्यं तथा द्रव्यावछिन्नचैतन्ये कल्पितारूपादयोपि द्रव्यावछिन्नचैतन्येनैव प्रकाश्या इत्यर्थः ।
ननु चन्दनगन्धस्याभिव्यक्तचैतन्यप्रकाशसंसृष्टस्यापि गन्धगोचरवृत्यभावादेवापरोक्ष्याभाव इति शङ्कामनूद्यनिराकरोति ।
न च गन्धाकारेति ॥

प्रकाशसंसर्गस्यैव प्रकाशमानशब्दार्थत्वेनासत्यामपि तदाकारवृतावनावृत प्रकाशसंसर्गेऽप्रकाशमानत्वकल्पनस्य विरुद्धत्वात् ।
अभिव्यक्तस्य च गन्धोपादानचैतन्यस्य गन्धासंसर्गोक्त्य सम्भवात् ।
तस्माद्यथा चैत्रस्य घटवतौ तं प्रत्यावरकस्यैवाज्ञानस्य निवृतिरिति तस्यैव विषयप्रकाशो नान्यस्य तथा तत्तद्विषयाकारवृत्यात तदवरकाज्ञानस्यैव निवृतेर्न विषयान्तरस्यापरोक्ष्यमनावृत्तार्थस्यैव संविदभेदापरोक्ष्यमित्युपगमादिति प्रमातृभेदेनवविषयभेदेनाप्येकत्र

चैतन्येवस्थाज्ञानभेदस्य वक्तव्यतयावस्थाज्ञानानां तत्तज्जडविषयकत्वमिति घटादिवृतीनां नावस्थाज्ञाननिवर्तकत्वे काचिदनुपपतिर्न वा मूलाज्ञाननिवर्तकत्वापतिः ॥

नियमो न चेत्यत्र हेतुमाह ।
प्रकाशसंसर्गस्यैवेति ।

न तु वृत्युपहितानावृतप्रकाशसंसर्गस्य प्रकाशमानशब्दार्थत्वं सुखादिगोचरवृत्यनुयद्रित साक्षिप्रकाशसंयसर्गिणि सुखादौ प्रकाशमान शब्दार्थत्वाभावप्रसङ्गादित्यर्थः ।
गन्धस्याभिव्यक्तचैतन्य संसर्ग एव नास्तीत्याशङ्क्याह ।
अभिव्यक्तस्य चेति चकारस्यासम्भवादित्यनेन सम्बन्धः उपादान पदमधिष्ठान परम् ।
असम्भवादिति ।

तथा च जडस्यानावृतत्वपक्षे चन्दनचैतन्याभिव्यक्तिदशायां गन्धस्याप्यापरोक्ष्यापतिरपरिहार्येति भावः ।
जडस्यावृतत्वपक्षे तु नोक्तदोषप्रसक्तिरित्याह ।
तस्मादिति ।
जडे आवरणस्य सिद्धत्वादित्यर्थः ।
ननु जडस्यावृतत्वपक्षेपि चन्दनगोचरचाक्षुष वृत्यैव गन्धावरणस्यापि निवृतिः स्यात् ।
गुणगुणिनोस्तादात्म्यात् ।
तथा च चन्दनापरोक्ष्यदशायां तद्गन्धां परोक्ष्यदोषोऽत्रापि तुल्य इति शङ्कां दृष्टान्तेन परिहरति ।
यथेति ।
नान्यं प्रत्यावरकाज्ञानस्यापि निवृतिरित्येवकारार्थः ।
तस्यैवेति ।
चैत्रस्यैव घटप्रकाशो नान्यस्य मैत्रादेरित्यर्थः ।
तथेति गुणगुणिनोस्तादात्म्येपि भेदस्यापि सत्वात् न चन्दनगोचरवृत्यागन्धादेरापरोक्ष्यप्रसक्तिरित्यर्थः ।

ननु चन्दन संविदभिन्नस्य गन्धस्यावृतस्यापि कथं नापरोक्ष्यमित्याशङ्क्यानावृत् सुखादावेव संविदभेदस्यापरोक्ष्य प्रयोजकत्वदर्शनान्मैवमित्याह ।
अनावृतार्थस्यैवेति ।
नन्वेकत्रचन्दनावछिन्नचैतन्ये अवस्था ज्ञानस्य चैत्रं प्रतिचन्दनावरकस्यैकत्वा तस्य च चन्दनगोचरवृत्यानिवृतत्वाच्चन्दनवृतिकाले गन्धस्यावरणमयुक्तमित्याशङ्कां निराकरोति इति प्रमातृभेदनेवेति ।
यथा प्रमातृविषये चैत्रमैत्रादिभेदेनाज्ञानमनेकमस्ति तथा एकत्रापि चन्दनावछिन्नचैतन्ये गन्धादिविषयभेदेनाप्यज्ञानमनेकमस्तीति वक्तव्यं चन्दनापरोक्ष्यदशायां गन्धापरोक्ष्यादर्शनादेवेत्ययं हेतुः प्रकृतपरामर्शिनेति पदेन समर्प्यते ।
तथा च चन्दनापरोक्ष्यकाले गन्धादेरावरणसम्भवात्नोक्तदोष इति भावः ।
जडविषयकत्वमितीति ।
जडविषयकत्वादित्यर्थः ।
न काचिदनुपपतिरिति ।
घटादिवृतीनां चैतन्यविषयकत्वाभावे ज्ञानाज्ञानयोः समानविषयकत्वरूपं विरोधप्रयोजकं न भवति ।
तासां जडमात्रगोचरत्वादज्ञानस्य च चैतन्यमात्रविषयकत्वादिति पूर्वोक्तानुपपतिर्नास्ति स्वस्थाज्ञानस्यापि जडमात्रविषयकत्वाभ्युपगमात् ।
तथा जडस्यावरणाभ्युपगमेपसिद्धान्तापति रूपानुपपतिरपि नास्ति जडावरणानभ्युपगमस्य मूलाज्ञानविषयत्वात् ।
तथा च ततज्जडावरकाज्ञान नानात्वाभ्युपगमे तदेकत्व सिद्धान्तविरोधरूपानुपपतिरपि नास्ति तदेकत्वाभ्युपगमस्यापि मूलाज्ञनविषयत्वात् ।
जडावरकाज्ञानानां

चावस्थारूपत्वादित्यादिकमभिप्रेत्य न काचिदनुपपतिरित्युक्तम् ।
परमप्रकृतमाह ।
न चेति ।
घटादिवृतीनामपि मूलाज्ञाननिवर्तकत्वापतिरिति यत्पूर्ववादिनश्चोद्यमादौ प्रकृतं तन्नास्त्येव घटादिवृतीनां मूलाज्ञानविषयचैतन्यविषयकत्वानभ्युपगमादित्यर्थः ॥

न चैवमपि जीवविषयाया अहमाकारवृतेर्मूलाज्ञाननिवर्तकत्वापतिस्तस्याः स्वयं प्रकाशमानचित्संवलिताऽचिदंशमात्रविषयत्वात् ।
सोहमिति प्रतिभिज्ञाया अपि स्वयं प्रकाशचैतन्येतःकरणवैशिष्ट्येन सह पूर्वापरकालवैशिष्ट्यमात्रविषयत्वेन चैतन्यविषयत्वाभावादिति ।
केचित्तु घटादिवृतीनां ततदवछिन्नचैतन्यविषयत्वमभ्युपगम्य सर्वमानप्रसक्तौ च सर्वमानफलाश्रयात् ।
श्रोतव्येति वचः प्राहवेदान्तावरुरुत्सयेति वार्तिकोक्तेः श्रोतव्यवाक्यार्थवेदान्तनियमविध्यनुसारेण वेदान्तजन्यमेव नियमादृष्ट सहितं ब्रह्मज्ञानमप्रतिबद्धं ब्रह्मज्ञाननिवर्तकमिति न घटादिज्ञाना तन्निवृतिप्रसङ्ग इत्याहुः ।
अन्ये तु तत्वमस्यादिवाक्यजन्यं जीव ब्रह्मा

भेदगोचरमेव ज्ञान मूलाज्ञाननिवर्तकं मूलाज्ञानस्य तदभेदगोचरत्वादिति न चैतन्य स्वरूपमात्रगोचराद्घटादि ज्ञाना तन्निवृति प्रसङ्गः ॥

न चैवमपीति घटादिवृतीनां चैतन्यविषयकत्वाभावेप्यहमर्थरूप जीवस्य विदचित्सम्बलितरूपतया अहं वृतेः चैतन्य विषयकत्वावश्यम्भावादित्यर्थः ।
तस्या इति स्वप्रकाशतया स्वयमेव प्रकाशमानायां चिति सम्बलितः चितादात्म्येनाध्यस्तो यो यमचिदंशः तन्मात्रविषयकत्वादहमाकारवृतेर्न चैतन्यविषयकत्वमौपनिषदत्व श्रुतिविरोधादेवेत्यर्थः ।
ननु योहं स्वप्ने श्रीकृष्णमन्वभूवं सोहं जागरे तं स्मरामीत्यादि प्रत्यभिज्ञायाश्चैतन्यविषयकत्वमावश्यकमन्यथा तया चिदात्मनः स्थायित्वं सङ्घातव्यतिरिक्तत्वं च न सिध्येदित्यत आह ।
सोहमिति ।

प्रत्यभिज्ञापि स्वयमेव प्रकाशमाने चैतन्ये अहमित्यन्तःकरण तादात्म्यमिवततादिवैशिष्ट्यमपि विषयी करोति ।
न तु स्वप्रकाशचैतन्यमस्मिन्मते चिदात्मनः स्थापित्वादेः श्रुतिवलादेव सिद्धेः न प्रत्यभिज्ञाया इति बोध्यं घटादिवृतीनामपि चतन्यंविषयकत्वाविशेषाद्वेदान्तजन्य ज्ञानवन्मूलाज्ञाननिवर्तकत्वापतिरिति चोद्ये हेतोरेवासत्वात् नोक्ताति प्रसङ्ग इति समाधानमुक्तमिदानीं तासां चैतन्यविषयकत्वाभ्युपगमेपि नोक्ताति प्रसङ्ग इत्याह ।
केचित्विति ।
अभ्युपगम्येति ।

न चैवमभ्युपगमे चैतन्यस्य चक्षुरादिविषयत्वनिषेधश्रुतिनां बाधः स्यादिति वाच्यं तासां निरुपाधिक

चैतन्यविषयत्वाभ्युपगमेनावछिन्नचैतन्यस्य चक्षुरादिवृतिविषयत्वे तद्विरोधाभावादिति भावः ।
अत एव ब्रह्मचैतन्यस्य सर्वप्रत्यय वेद्यत्वप्रतिपादकं पूर्वोदाहृत वार्तिकवचनमपि सङ्गछते ।
अज्ञातज्ञापकत्वं हि प्रामाण्यम् अज्ञातं च वस्तुचैतन्यमेव तस्यैव स्वप्रकाशतया सदाप्रसक्तप्रकाशस्याज्ञानविषयत्वकल्पनौचित्यात् ।
अवभासकचैतन्यस्यावरणे सति जडानवभाससम्भवेन तस्य पृथगावरणकल्पनायोगादज्ञानस्य चैतन्याश्रितत्वनियमेन तस्य तमस इव स्वाश्रयादन्यत्रावरण हेतुत्वानुपपतेश्च तथा च प्रत्यक्षादीनामपि प्रामाण्यसिद्धये घटाद्यवछिन्नचैतन्यविषयकत्वमेव स्वीकर्तव्यं न तु जडमात्रविषयकत्वमेवं सर्वेषामेव मानानां फलशब्दित चैतन्यविषयकत्वादमृतत्वसाधने ब्रह्मदर्शने सर्वेषां मानानाङ्कारणत्वप्रसक्तौ वेदान्तानामेवावरोधे छयानियमनेछया श्रोतव्येति वचःवेदान्तानामेव विचारः कर्तव्य इत्यमुमर्थं प्राहेति वार्तिकार्थः घटादिवृतीनां तु चैतन्यविषयकत्वेपि वेदान्तजन्यत्वाभावेन श्रोतव्यविधिसिद्धनियमादृष्टसाहित्याभावान्न मूलाज्ञाननिवर्तक प्रसङ्ग इति भावः ।
अप्रतिवद्धमिति ।

नियमादृष्टेन प्रतिबन्धक दुरितस्य क्षीणत्वादिति भावः ।
तत्वमस्यादिवाक्योत्थं ज्ञानं मोक्षस्य साधनमिति नारदवचन दर्शनात् ।
तत्वमस्यादि वाक्योत्थं यज्जीवपरमात्मनोः तादात्म्यविषयं ज्ञानं तदिदं मुक्तिसाधनमिति भगवत्पादीयवचनदर्शनाच्च मूलाज्ञानस्य जीवब्रह्माभेदावरकत्वाच्च जीव ब्रह्मणोरैक्यलक्षण तादात्म्यविषयकं यद्ज्ञानमिदमेव

मुक्तिसाधनमत्वो नोक्ताति प्रसङ्ग इति समाधानान्तरं दर्शयति ।
अन्ये त्विति ।

इतीति वाक्यजन्याभेदज्ञानमेवाज्ञाननिवर्तकमिति स्थिते तदभेदागोचरात् घटादिज्ञानात्न मूलाज्ञाननिवृति प्रसङ्ग इत्यर्थः ॥

न चाभेदस्य तत्वावेदकप्रमाणबोध्यस्य चैतन्यातिरेके द्वैतापतेश्चैतन्यमात्रमभेद इति तद्गोचरघटादिज्ञानमप्यभेदगोचरमिति वाच्यम् ।
न ह्यभेदज्ञानमितिविषयतो विशेषं ब्रूमः किन्तु ॥

न चेति ।
जीवब्रह्माभेदः चैतन्यापेक्षयातिरिक्त इति वक्तुं न शक्यते तथा सति वेदान्त तात्पर्यगोचरस्याभेदस्य सत्यत्वावश्यम्भावेन चैतन्यस्याद्वितीयत्वहानापतेर्वेदान्त तात्पर्यविषयस्याभेदस्यासत्यत्वे वेदान्तानां तत्वावेदकत्वलक्षणस्य प्रामाण्यस्य सिद्धान्त सम्मतस्य भङ्गापतेरित्यर्थः ।
अत्र तत्पदं परमार्थ वस्तुपरं नहीति ।
घटादिज्ञाने चैतन्यविषयकेपि जीवब्रह्माभेदो न विषयः महावाक्यार्थज्ञाने तु तयोरभेदो विषय इत्येवं घटादिज्ञानापेक्षया महावाक्यजन्य ज्ञानस्य विषयतो विशेषं न ब्रूमः ।
यं नोक्तदोष तादवस्थ्यं स्यादित्यर्थः ।
न त्विदं रजतमिति भ्रमे यावानधिष्ठानाशोभासते तावदपेक्षया अधिकप्युक्तित्वादिविशेषविषयकस्य शुक्त्यादि ज्ञानस्य रजतादिभ्रमविरोधित्वं दृष्टं तथा च सन्घटः

स्फुरति घट इत्यादि भ्रमेषु यावदधिष्ठानभूतं चैतन्यं विषयः तावदपेक्षया अधिकाभेदविषयकत्वस्य वाक्यजन्य ज्ञानेऽनभ्युपगमे वाक्योत्थज्ञानस्य भ्रमनिवर्तकत्वमेव न स्यादतो विषयत्वो विशेषोभ्युपगन्तव्य इति शङ्कते ।
किं त्विति भ्रमाधिकविषयाणामेव ज्ञानानां भ्रमनिवर्तकत्वमिति नियमो नास्ति भ्रमानधिकविषयाणामपि भ्रमनिवर्तकत्व दर्शनेन व्यभिचारात् ।
तथा हि वस्तुतो घोषाधारभूते गङ्गातीरे यस्य तटाकतीरत्व भ्रमैण तटाकतीरे घोष इति भ्रमोस्तितं प्रतिगङ्गायां घोष इति वाक्यप्रयोगे सति तस्माद्वाक्या तस्य पुरुषस्य गङ्गातीरे घोष इति बोधो जायते ।
तेन च बोधेन तस्य गङ्गातीरे तटाकतीरत्व भ्रमो निवर्ततेत च तत्र भ्रमविषयगङ्गातीरांशे भ्रमापेक्षया वाक्यजन्यबोधे कश्चिद्विशेषविषयो दृष्टः ।
न च तत्र वाक्यजन्य ज्ञाने तटाकतीर व्यावर्तकस्य गङ्गातीरत्व रूपविशेषस्य विषयत्वदर्शनाद्विशेषाविषयकत्वमसिद्धमिति वाच्यम् ।
यत्र तीरत्व मात्रप्रकारक तात्पर्येण गङ्गायां घोष इति प्रयोगः ।
तथैव तस्य भ्रान्तस्य तात्पर्य ग्रहश्च तत्र गन्तातीरत्व प्रकारक बोधाभावेपि भ्रमनिवृतिदर्शनेन व्यभिचार ध्रौव्यात् ।
तथा येन केनचित् कपालेन तुषो एवापः कर्तव्य इति भ्रमवन्तं पुरुषे प्रतिकपालत्वमात्रप्रकारक तात्पर्येण प्रयुक्ता तन्मात्र तात्पर्यवतया गृहीतात्पुरोडाशकपालेन तुषानु एवपतीति वाक्यात्कपालेन तुषोपवापः कर्तव्य इत्येव तस्य बोधो जायते तत्र कपालांशे कपालान्तरव्यावर्तकविशेषाग्रहणेपि पुराडाशकपालातिरिक्तकपालेषु

तुषोपवाधसाधनत्व भ्रमनिवृतिदर्शनेन तत्रापि व्यभिचारात् ।
तस्मात् तीरे घोष इति शाब्दबोधस्य गङ्गातीरत्वरूपविशेषविषयकत्वाभावेपि तद्धेतु पदार्थोपस्थितिकाले तीरस्य गङ्गासम्बधित्वेन उपस्थिति सत्वा तदुपस्थिति महिम्नावस्तुगत्यागङ्गातीरविषकस्य भ्रमानधिकविषयस्यापि तस्य भ्रमनिवर्तकत्वमिति वक्तव्यम् ।
तथा कपालेन तुषोपवापः कर्तव्य इति शाब्दबोधस्य स्वयं कपालान्तरव्यावर्तक विशेषविषयत्वाभावेपि तादृशशाब्दबोध हेतुपदार्थोपस्थितिकाले कपालस्य पुरोडाश सम्बन्धित्वेन उपस्थिति सत्वा तदुपस्थिति महिम्ना तस्य भ्रमानधिकविषयस्यापि भ्रमनिवर्तकत्वमिति वक्तव्यं तथा च ज्ञानस्य भ्रमविरोधित्वे सामग्रीविशेषप्रयोज्यत्वं प्रयोजकं न तु भ्रमाधिकविषयत्वं व्यभिचारात् ॥

तत्वं पद वाच्यार्थधर्मिद्वयपरामर्शादिरूपकारणविशेषाधीनेन स्वरूपसम्बन्धविशेषेण चैतन्यविषयत्वमेव तदभेदज्ञानत्वं यथा हि विशेषणविशेष्य तत्सम्बन्धगोचरत्वा विशेषेपि विशेषेपि विशिष्टज्ञानस्य विशेषणज्ञानादिकारणविशेषाधिन स्वरूपसम्बन्धविशेषेण तत्त्रितयगोचरत्वमेव समूहालम्बन व्यावृतं विशिष्टज्ञानत्वं यथा वा स्थाणुत्वविरुद्धपुरुषत्व वा नित्याहार्यव्यावृतं संशयत्वं

विषयत्वं विषयतो विशेषानिरूपणात् ।
तथा घटादावपि सोयं घट इत्यादिज्ञानस्य स्वरूपसम्बन्धविशेषेण घटादिविषयत्वमेव लघटशब्दादिजन्य ज्ञानव्यावृतं तदभेदज्ञानत्वमतिरिक्ताभेदानिरूपणात् ॥

किं च महावाक्यजन्य ज्ञानस्य संसारमूलभ्रमविरोधित्वं श्रुतिस्मृतिविद्वदनुभवैः सिद्धं महावाक्यानां च चैतन्य स्वरूपमात्र बोधकत्वं द्वितीयपरिछेदे मुक्तिसाधन महावाक्यजन्य ज्ञानं प्रतिचैतन्यमात्ररूपविषयनियामक श्रुत्युदाहरणेनास्माभिः साधितं प्रपञ्चितं च निबन्धनेष्वे तत् तथा च शुक्तिरजतादि स्थले भ्रमाधिकविषयक शुक्तिज्ञानादौ भ्रमविरोधिनि भ्रमाधिकविषयत्वस्येव दोषाभावादि घटितसामग्री विशेषाधीनत्व स्यापि दृष्टत्वेनाखण्डार्थक वेदान्तानुसारेण पूर्वोदाहृत व्यभिचारस्थलानुरोधेन च ज्ञानस्य भ्रमविरोधित्वे सामग्री विशेषाधीनत्वमेवानुगतं प्रयोजकं कल्पयितुं युक्तं न तु भ्रमाधिकविषयत्वमित्यभिप्रेत्यमहावाक्यार्थज्ञानस्य भ्रमानधिकविषयस्यापि भ्रमनिवर्तकत्वं सम्भवतीति समाधते ।
तत्वमिति तत्वं पदयोर्वाच्यार्थ भूतौ जीवेश्वरावेव धर्मिद्वयं तस्य तत्वं पदाभ्यां प्रथमं शक्त्यास्मृतिरूपः परामर्शस्तदनन्तरं तत्वं पदसमानाधिकरण्य बलात् ।
जीव

ईश्वराभिन्न इति तयोर्विशेषणविशेष्यभावेनावगतिः ।
तदनन्तरं च विशिष्टयोरैक्यं न सम्भवतीति विरोधप्रतीतिः ।
तदनन्तरं च तत्वं पदाभ्यां वाच्यार्थरूपविशिष्टान्तर्गतयोर्विशेष्यचैतन्यांशयोरभेद योग्ययोलङ्क्षणया प्रतीस्ततश्च विशेष्य द्वयाभेदगोचरशाब्दबोध इति क्रममभिप्रेत्य आदिपदं वाक्यजन्यज्ञानस्य स्वविषयचैतन्येन सह यः स्वरूपसम्बन्धविशेषः सामग्रीविशेषाधीनत्व प्रयुक्तस्तेन सम्बन्धेन चैतन्यगोचरत्वं घटज्ञानादि व्यावृतं तदेव तस्याभेदज्ञानत्वं तद्बलादेव तस्य मूलाज्ञानमिथ्याज्ञानादि विरोधित्वमित्यर्थः ।
महावाक्यजन्य ज्ञानस्य घटादिज्ञाना पेक्षया चैतन्यांशे विषयतो विशेषाभावेपि सामग्री विशेषा देवघटादिज्ञानापेक्षया अभेदज्ञानत्वरूपे वैलक्षण्यै दृष्टान्तमाह ।
यथाहीति ।
विशिष्टज्ञानस्येति ।

दण्डीपुरुष इति ज्ञानस्येत्यर्थः विशेषणविशेषण विशेष्ययोरसंसर्गाग्रह आदिपदार्थः समूहालम्बनेति ।

दण्डपुरुषसंयोगा इति ज्ञानम् इत्यर्थः ।
तदुक्तं चिन्तामणि क्र्ताकारणकृत इति विशिष्टज्ञानस्य समूहालम्बनापेक्षया विशेषणज्ञानादिरूप कारणकृतो विशेष इति तदर्थः ।
स्थाणुत्वेति स्थाणुत्वविरुद्धपुरुषत्व वानिति निश्चयः संशयसमानविषयकोय आहार्यवृतिरूपः तद्व्यावृतमित्यर्थः विशेषदर्शनदशायामनाहार्यनिश्चया सम्भवादाहार्येत्युक्तं विषयत इति ।
विशिष्टज्ञाने स्थाणुः पुरुषोवेति संशये चेति शेषः ।
न केवलं तत्वमसि वाक्यजन्यज्ञानस्याभेदज्ञानत्वे इयं रीतिः सोयं

घटः सोयं देवदत इत्यादिवाक्यजन ज्ञान्स्यापि केवल घटशब्ददेवदत शब्दादिजन्य ज्ञानव्यावृताभेद ज्ञानत्वेपीयंरीतिरनुसर्तव्येत्याह तथा घटादावपीति ।
अतिरिक्तेति ।

केवल घटशब्द देवदतशब्दादिजन्यज्ञानविषय घटस्वरूपापेक्षया सोयमित्यादिवाक्यगम्याभेदेस्यातिरिक्तत्वे मानाभावात् तथा च विषयतो विशेषाभावात् सोयं घट इत्यादावपि तत्वमसीत्यत्रेव सोयमिति पदद्वय वाच्यार्थरूपधर्मिद्वयपरामर्शादि रूपकारणविशेषाधीन स्वरूपसम्बन्धविशेषण घटादि स्वरूपविषयकत्वमेव घटाद्यभेदज्ञानत्वं नान्यदिति वक्तव्यमितिभावः ॥

अभावसादृश्यादीनामधिकरण प्रतियोग्यादिभिः स्वरूपं सम्बन्धयुक्तानामधिकरणेनाधाराधेय भावरूपस्वरूपसम्बन्धविशेषः प्रतियोगिना प्रतियोग्यनयोगिभावरूप इत्यादि प्रकारेण स्वरूपसम्बन्धेऽवान्तरविशेषकल्पनवत् वृतीनां विषयेपि संयोग तादात्म्ययोरति प्रसक्त्याविषयैर्विषयविषयिभाव रूपस्वरूपसम्बन्धवतीनां विषयविशेषनिरूपणासम्भवे ।
कॢप्त एव स्वरूपसम्बन्ध अवान्तरविशेषकल्पनेनाभेदज्ञानत्वादि परस्परवैलक्षण्य निर्वाहाच्च ।

एवं च ब्रह्मज्ञानस्याभेदाख्य किञ्चित्संसर्गगोचरत्वानभ्युपगमान्न वेदान्तानाम खेडार्थत्व हानिरपीत्याहुः ॥

ननु केवल घटशब्दादिजन्यज्ञानस्यापि विषयेण स्वरूपसम्बन्ध एव तथा च कथं स्वरूपसम्बन्धकृता अभेदज्ञानत्वादि व्यवस्था न च वृतिज्ञानानां विषयैः सह विषयविषयीभावप्रयोजक स्वरूपसम्बन्धानामविशेषेपि तेष्वेव विषय तद्ज्ञानस्वरूपात्ङ्क सम्बन्धेषु सामग्री विशेषाधीनत्व प्रयुक्तं परस्य वैलक्षण्यकल्पनया व्यवस्थोपपादनं कर्तुं शक्यत इति वाच्यम् ।
स्वरूपसम्बन्धेषु वैलक्षण्यस्य क्वाप्यदृष्टत्वेन तथा कल्पनानुपपतेरित्यत आह ।
अभाव सादृश्यादीनामिति ।

ननु वृतीनां विषयैः सह विषयविषयीभावः स्वरूपसम्बन्धकृत एव न भवति ।
किन्तु संयोगादि कृतः तथा च तासां तैः सह स्वरूपसम्बन्धानामेवा सिद्धत्वात् ।
तेषु वैलक्षण्यात्मकविशेषकल्पनादूरापास्तेत्यत आह ।
संयोगेति ।
वृतिसंयोगस्य वृतिविषयत्वप्रयोजकत्वे चक्षुर्गोलकादेरपि घटादिवृतिसंयोगित्वेन तद्विषयत्वप्रसङ्गावृति तादातात्म्यस्य वृतिविषयत्वप्रयोजकत्वे वृत्यधिष्ठानतयोवृति तादात्म्यापन्नस्य घटाद्यवछिन्नचैतन्यस्य घटादिवृतिविषयत्वसम्भवेपि घटादेर्वृति तादात्म्यरहितस्य तदविषयत्व प्रसङ्गा तद्वृतिपरिणाम्यतः करणस्य घटादिवृतिविषयत्वप्रसङ्गाच्च परिणाम

परिणामिनोस्तादात्म्यादित्यर्थः ।
ननु तत्वमस्यादिवाक्यजन्यज्ञानस्य विषयेण सह यः स्वरूपसम्बन्धश्चैतन्य तद्गोचरज्ञानोभयस्वरूपात्मकः तत्र सामग्री विशेषवलादपि विषयस्वरूपात्मके सम्बन्धे विशेषो निरूपयितुं न शक्यत इत्यत आह ।
विषयविशेषनिरूपणासम्भवे इति ।
विषये निर्विशेष चैतन्यात्मके विशेषाधाना सम्भवेपि स्वरूपसम्बन्धान्तर्गततया कॢप्त एव ज्ञानस्वरूपात्मके सम्बन्धे सामग्री विशेष बलाद्विशेषाधान सम्भवान्नोक्तदोष इति भावः ।
यद्वा वृतीनां विषयेपि संयोग तादात्म्ययोरति प्रसक्त्याविषयविशेषनिरूपणासम्भवे विषयैर्विषयविषयीभावरूपस्वरूप सम्बन्धवती नामिति सम्बन्धः ।
अभाव सादृश्यादीनामधिकरणादाविववृतीनामपि विषये संयोग तादात्म्ययोरति प्रसक्तत्वेन ताभ्यां वृतीं प्रतिविषयविशेषनियमनासम्भवे सति परिशेषाद्विषयविषयीभावप्रयोजकस्वरूपसम्बन्धवतीनामित्यर्थः ।
रूपपदं नियामक परं विषयविषयिभावस्य स्वरूपसम्बन्ध नियम्यत्वेन तयोरभेदस्य रूपशब्दार्थस्यायोगात् ।
ननु संयोग तादात्म्ययोर्विषयविशेषनियामकत्वाभावेपि वृतीनां विषये स्वरूपसम्बन्धत्वं परिशेषान्न सिध्यति स्वरूपसम्बन्धातिरिक्तस्य सम्बन्धान्तरस्य कल्पनोपपतेरित्यत आह ।
कॢप्त एवेति ।

स्वरूपसम्बन्धस्य वृत्यादि स्वरूपतया तस्य कॢप्तत्वात् ।
कॢप्त एव स्वरूपं बन्धे विशेषकल्पनायां लाघवं सम्बन्धान्तर कल्पयित्वा तस्मिन् सम्बन्धान्तरे अभेदज्ञानत्वादि निर्वाहकविशेषकल्पनायां

गौरवम् अतो वृतीनं विषयैः सह स्वरूपसम्बन्धत्वमेवेति भावः ।
ननु तत्वमसि वाक्यात् जीवस्य ब्रह्माभेदज्ञानोपगमे तदभेदस्यैव संसर्गविधयाभानाद्वेदान्तानां संसर्गागोचर प्रमिति जनकत्वरूपा खण्डार्थत्वाभ्युपगमहानिरित्ये तच्चोद्यं निरवकाशमित्याह ।
एवं चेति ।

महावाक्यजन्य ज्ञानगताभेदज्ञानत्वस्यान्यथोपपादितत्वेनाभेनाभेद- संसर्गभानानपेक्षायां सत्यामित्यर्थः ।
हानिरपीति ।

घटादि वृतीनां मूलाज्ञाननिवर्तकत्वापतिर्न्नास्ति ।
अखण्डार्थत्वहानिश्च नास्तीत्यपि शब्दार्थः ॥

ननु घटादिज्ञानवद्ब्रह्मज्ञानस्यापि न मूलाज्ञाननिवर्तकत्वं युक्तं निवर्तकत्वे तदवस्थानासहिष्णुत्वरूपस्य विरोधस्य तन्त्र त्वात् कार्यस्य चोपादानेन सह तां दृशविरोधाभावादिति चेत्न कार्यकारणयोरन्यत्र तादृश विरोधादर्शनेप्येक विषयज्ञानाज्ञानप्रयुक्तस्य तादृश विरोधस्यात्र सत्वात्कार्यकारणयोरप्यग्नि संयोगपटयोस्तादृशविरोध दृष्टेश्च न चाग्निसंयोगे सत्यवयवविभागप्रक्रियया असमवायिकारणसंयोगनाशादेवपटनाशोनाग्निसंयोगादिति वाच्यम् ।
दग्धपटेपि पूर्वसंस्थानानुवृतिदर्शनेन मुद्गरचूर्णीकृत घट वदवयवविभागा

दर्शनात् ।
तत्रावयवविभागादिकल्पनाया अप्रामाणिकत्वात् नापि तत्र तन्तूनामपि दाहेन समवापि कारण नाशात्पटनाश इति युक्तम् अंशुतन्त्वादिभिः सहयुगपदेव पदस्य दाहदर्शनेन क्रमकल्पनायोगात् ।
यतो नाधस्तादवयवनाशस्तत्रावयवेग्नि संयोगादेवनाशस्य वाच्यत्वात् ।
नन्वस्त्वेतदेवं तथापि सविलासाज्ञाननाशकमिदं ब्रह्मज्ञानं कथं नश्येत् नाशकान्तराभावादिति चेत् ॥

वेदान्तजन्य ज्ञानस्यापि मूलाज्ञाननिवर्तकत्वमाक्षिपति ।
नन्विति तादृशेति ।
कार्यस्य लोके उपादान स्थिति विरोधित्वा दर्शनादित्यर्थः ब्रह्मगोचरवृतिप्रत्यन्तःकरणस्यैव उपादानत्वेन तां प्रत्यज्ञानस्यानुपादानत्वात् ।
तन्निवर्तकत्वं सम्भवतीति मत्वाह ।
नेति ।

उपादानत्वमुपेत्याप्याह ।
कार्य्येति ।
उपादानोपादेययोर्निवर्त्यनिवर्तकभावप्रयोजकविरोधो नास्तीत्युत्सर्गः ।
स च ब्रह्मज्ञान तुदुपादानस्थले अपोद्यते निवर्तकभावप्रयोजकतया लोके कॢप्तसमानविषयज्ञानाज्ञान भावस्य विशेषरूपतया तेन सामान्यरूपस्य उपादानोपादेय भावप्रयुक्ताविरोधस्य बाधोपपतेरित्यर्थः ।
लोके उपादानोपादेययोर्निवर्त्यनिवर्तक भावप्रयोजक

विरोधादर्शनमसिद्धं चेत्याह ।
कार्यकारणयोरपीति ।
अग्निसंयोगरूपकार्यस्य स्वोपादानपटनाशकत्वदर्शनादित्यर्थः ।
ननु तत्राग्निसंयोगस्य नाशकत्वदर्शनं भ्रान्तिरिति मत्वाशङ्कते ।
न चाग्नीति प्रक्रिपयेति ।
अग्निसंयोगातन्तुषु क्रियाततस्तेषां विभागस्ततस्तेषां पटासमवायिकारणसंयोगनाशः ततः पटनाशः इति वैशेषिक प्रक्रिया तन्तुषु विभाग प्रक्रियैव भ्रान्ति मूलेत्याह ।
दग्धपटेपीति ।
पूर्वसंस्थानसंयुक्तावस्था व्यतिरेक दृष्टान्तमाह मुद्गरेति ।
यथा मुद्गर चूर्णीकृतस्य घटस्यावयवेषु विभागो दृश्यते ।
तथा पटदाहानन्तरं दग्धतन्तुषु विभागादर्शनेनेत्यर्थः ।
तत्रेति तन्तुष्वित्यर्थः ।
वैशेषिक प्रक्रियान्तरमपि भ्रान्तिमूलमेवेत्याह ।
नापीत्यादिना तत्रेति पटदाहस्थल इत्यर्थः ।

अग्निसंयोगस्य क्वचिदुपादानद्रव्यनाशकताया आवश्यकत्वात् पटनाशकत्वमपि तस्यैवेत्याह ।
यत इति ।

यतो द्व्यणुकाधस्ताद्व्यणुकावयवस्य परमाणोर्न नाशः ।
तत्र द्व्यणुके विद्यमानादग्निसंयोगादेवतदुपादानभूतद्व्यणुकनाशस्य वाच्य त्वान्न च तत्रावयवविभागप्रक्रियया परमाणु द्वय संयोगनाशादेव द्व्यणुकनाश इति वाच्यम् अवयवावयविविभागप्रक्रियाया निरस्तत्वात् ।
तथा चाग्निसंयोगस्य स्वोपादानपटनाशकशदर्शनं न भ्रान्तिरिति भावः ।
नन्वस्त्वेतदेवमिति ।
एतद्ब्रह्मज्ञानमेवमन्तःकरणद्वारा स्वोपादानाज्ञाननाशकमस्त्यित्यर्थः ।
तथापीति ।
ब्रह्मज्ञानस्य सविलासा

ज्ञाननाशकत्वेपीत्यर्थः ।
सकार्याज्ञाननाशकस्याज्ञाननाशकाले अवशिष्यमाणस्य ब्रह्मज्ञानस्य नाशो न सिध्येत् स्वस्य स्वनाशकत्वायोगात् नाशकान्तरानवशेषाच्चेत्यर्थः ॥

यथा कतकरजः सलिले न संयुज्य पूर्वसंयुक्तरजोन्तरविश्लेषं जनयत्स्वविश्लेषमपि जनयति ।
यथात्मन्यध्यस्य मानं ब्रह्मज्ञानं पूर्वाध्यस्त सर्वप्रपञ्च निवर्तयत् स्वात्मानमपि निवर्तयतीति केचित् ।
अन्ये त्वन्यन्निवर्त्य स्वयमपि निवृतौ दग्धलोहपीताम्बुन्यायमुदाहरेति ।
अपरे त्वत्र दग्धतृणकूटदहनोदाहरणमाहः ।
न च ध्वंसस्य प्रतियोग्यतिरिक्त जन्यत्व नियमः ।
अप्रयोजकत्वात् ।
निरन्धनदहनादि ध्वंसे व्यभिचाराच्च ।
न च ध्वंसस्य प्रतियोगिमात्रजन्यत्वेऽति प्रसङ्गात् ।
कारणान्तरम् अवश्यं वाच्यम् ।
निरिन्धन दहनादि ध्वंसेपि कालादृष्टेश्वरेछादिकारणान्तरमस्तीति वाच्यम् ।
अति प्रसङ्गापरिज्ञानात् ।
न च घटादिध्वंसस्यापि कारणान्तरनिरपेक्षत्वं स्यदित्यति प्रसङ्गः ध्वंसमात्रे कारणान्तरे नैरपेक्ष्याऽनभिधानात्

न च घटध्वंस दृष्टान्तेन ब्रह्मज्ञानध्वंसस्य कारणान्तरापेक्षासाधनं तद्दृष्टान्तेन मुद्गरपतनापेक्षाया अपि साधनापतेः ॥

प्रथमं ब्रह्मज्ञानव्यतिरिक्तस्य सकलस्य ब्रह्मज्ञानेन नाशः पश्चादवशिष्टस्य ब्रह्मज्ञानस्य नाशः इति क्रमोनोपेयते ।
किन्तु ब्र * ज्ञानेन सविलासाज्ञाननाशकाले सविलासाक्षानेन सहैव ब्रह्मज्ञानस्यापि नाश इत्युपेयते ब्रह्मज्ञानस्यैव स्वनाशं प्रत्यपि हेतुत्वाभ्युपगमात् ।
न चैकस्यैव स्वपरविलापकत्वं न दृष्टमिति वाच्यम् ।
कतकरजसिदृत्वादिति परिहरति ।
यथेति पूर्वेति ।

कतकरजः संयोगात्पूर्वं जलेन संयुक्तरजोन्तरेर्जलस्य विश्लेषमित्यर्थः ।
पूर्वाध्यस्तेति ब्रह्मज्ञानाध्यासात्पूर्वेत्यर्थः ।
अन्येतिति ।
यथा वह्नितमलोहपिण्डे प्रक्षिप्तमम्बुलोहगतमग्निं नाशयदात्मानमपि नाशयति तथा ब्रह्मज्ञानमपीत्यर्थः ।
ब्रह्मज्ञानस्य स्वातिरिक्तं सर्वं निवर्तयतः ।
तदैव स्वस्यापि निवर्तने दग्धलोहेन पीताम्बुरूपं दृष्टान्तमुदाहरन्तीत्यक्षरार्थः ।
अपरेतिति ।
यथा शुष्कतृणसमूहे प्रक्षिप्तो दहनस्तृणकूटं नाशयन्नात्मानमपि नाशयति तथा अज्ञान तत्कार्यसमुदाये समुत्पन्नो ब्रह्मप्रत्ययः तन्नाशयत् ।
आत्मानमपि नाशयतीत्यर्थः ।
ननु दग्धदाह्यदहनादि न्यायेन ब्रह्मज्ञाननाश इत्युपपादनमयुक्तं घटादिनाशे प्रतियोगि

घटाद्यतिरिक्तमुद्गरपातादिकारणान्तरदर्शनेन ध्वंसस्य प्रतियोग्यतिरिक्तकारणजन्यत्व नियमादितिशङ्कते ।
न च ध्वंसस्येति निरिन्धनेति ।
इन्धनानां निःशेषं नाशानन्तरं दहनस्य स्वतरावनाशदर्शनेन निरिन्धनदहनध्वंसे स्वापाव्यवहित पूर्वं कालीन ज्ञानादि ध्वंसे च प्रतियोगिमात्रजन्ये व्यभिचाराच्चेत्यर्थः ।
उक्तं व्यभिचारं पूर्ववादी परिहरति ।
निरिन्धनेति ।
अति प्रसङ्गस्यैवासिध्याध्वंसे प्रतियोग्यतिरिक्तकारणजन्यत्वनियमस्याप्रयोजकत्वमित्याशयेन दूषयति सिद्धान्ती ।
अति प्रसङ्गापरिज्ञानादिति ।

ननु कुतो परिज्ञानमिति चेतन्न वक्तव्यं ब्रह्मज्ञानध्वंसस्य प्रतियोग्यतिरिक्त अजन्यत्वे घटादिध्वंसोपि प्रतियोग्यतिरिक्तकारणानपेक्षः स्यादित्यति प्रसङ्गो वा घटादिध्वंसवत् ।
ब्रह्मज्ञानध्वंसोपि प्रतियोग्यतिरिक्तकारणापेक्षः स्यादित्यति प्रसङ्गो वा ब्रह्मज्ञानध्वंवसत् ।
घटज्ञानादिध्वंसोपिकारणान्तरानपेक्षः स्यादित्यति प्रसङ्गो वा ब्रह्मज्ञानस्य स्वोत्पति द्वितीय क्षण एव नाशः स्यादित्यति प्रसङ्गो वा विवक्षित इति तत्राद्य मनूद्यदूषयति न चेति ।
ध्वंसमात्र इति ध्वंसत्वावछिन्न इत्यर्थः ।
अत भिधानादिति ।
न च सिद्धान्तिना तथा नभिधानेपि ध्वंसत्वाविशेषा तत्र तदा पाद्यत इति वाच्यम् ।
अप्रयोजकत्वादिति भावः ।
द्वितीयमतिप्रसङ्गेन दूषयति ।
न च घट ध्वंस दृष्टान्तेनेति ध्वंसत्व हेतुनेति शेषः ॥

नापि ज्ञानध्वंसत्व साम्याद्घटज्ञानादिध्वंसस्यापि कारणान्तरनैरपेक्ष्यं स्यादित्यति प्रसङ्गः ।
सेन्धनानलध्वंसस्य जलसेकादि दृष्टकारणापेक्षत्वेपि निरिन्धनानलध्वंसस्य तदनपेक्षत्ववजाग्रत् ज्ञानध्वंसस्य विशेषगुणान्तरापेक्षत्वेपि सुषुप्ति पूर्वज्ञानध्वंसस्य तदनपेक्षत्व वच्च मूलाज्ञाननिवर्तक ज्ञानध्वंसस्य तदनपेक्षत्वोपपतेः नापिकारणान्तरनैरपेक्ष्ये स्वोत्पत्युतरक्षण एव नाशः स्यादित्यति प्रसङ्गः ।
इष्टापतेः तदुत्पत्युतरक्षण एव ब्रह्माध्यस्तनिखिलप्रपञ्चदाहेन तदन्तर्गतस्य तस्यापि तदैव दाहाभ्युपगमात् ।
निरिन्धन दहनध्वंसन्यायेन ब्रह्मज्ञानध्वंसस्यापि कालादृष्टेश्वरेछादिकारणान्तरजन्यत्वेप्यविरोधाच्च ।
सर्वप्रपञ्चनिवृत्युतरमेक शेषस्य ब्रह्मज्ञानस्य निवृतिरित्यनन्युपगमेन युगपत्सर्वदाहे पूर्वक्षणे चिदविद्यासम्बन्धरूपस्य द्रव्यान्तररूपस्य वा कालस्येश्वर प्रसादरूपस्यान्तःकरणगुणविशेषरूपस्य वा दृष्टस्यान्येषां च सत्वात् ।
न च तत्र ज्ञानातिरिक्तकारणापेक्षणे ब्रह्मज्ञानस्या

मिथ्यात्वप्रसङ्गः ज्ञानैक निवर्त्यत्वं मिथ्यात्वमित्युभ्युपगमादिति वाच्यम् ।
ज्ञानाघटित सामग्र्य निवर्त्यत्वे सति ज्ञाननिवर्त्यत्वस्य तदर्थत्वात् ॥

तृतीयमनूद्या * * * * जकत्वेन दूषयति ।
नापि ज्ञानध्वंसत्व साम्यादिति ।
ब्रह्मज्ञानध्वंसदृष्टान्तेनेति शेषः सुषुप्तीति ।
सुषुप्तिपूर्वज्ञानादिगुणस्य नाशकगुणान्तरापक्षायां तस्यापि नाशकात्मगुणान्तरकल्पनापत्या सुषुप्त्युछेदप्रसङ्गः स्यात् तत्परिहाराय सुषुप्तिपूर्वज्ञानादि गुणस्य नाशकान्तरानपेक्षत्वं वक्तव्यमितिभावः ।
मूलाज्ञाननिवर्तक इति ब्रह्मज्ञान इत्यर्थः ।
चतुर्थमति प्रसङ्गमनूद्यतस्येष्टत्वमाह ।
नापि कारणान्तर नैनरपेक्ष्य इति ।
ब्रह्मज्ञानध्वंसस्येति शेषः ।
ननूदाहृतनिरिन्धन दहनध्वंसादौ जलसेकादिविशेषकारणानां व्यभिचारदर्शनेपि साधारकारणानां व्यभिचारादर्शनेन ब्रह्मज्ञानध्वंसस्यापि साधारणकारणापेक्षादुर्वारेत्यत आह ।
निरिन्धनधहनध्वंसन्यायेनेति ।

ननु प्रथमक्षणे ब्रह्मज्ञानस्य जन्म द्वीतियक्षणे सविलासाज्ञाननिवृतिः तृतीयक्षणे ब्रह्मज्ञानस्य निवृतिरिति क्रमे सति ब्रह्मज्ञाननाशात् पूर्वक्षणे कालादृष्टादीनामसत्वात्कथं तेषां ब्रह्मज्ञाननाश हेतुत्वाभ्युपगमे विरोधाभाव इत्यत आह ।
सर्वप्रपञ्चेति स्वमतेनाह ।
चिदविद्यति ।
परमतेनाह ।
द्रव्यान्तरेति ।
यद्वा स्वमतेपीश्वरस्य कालत्वमभिप्रेत्याह ।

द्रव्यान्तरेति स्वमते नैवादृष्टस्य द्विप्रकारत्वमाह ।
ईश्वरेति ।
प्रसादग्रहणमुपलक्षणं पुण्यम् ईश्वर प्रसादरूपं पापम् ईश्वरक्रोधरूपमिति द्रष्टव्यम् अन्तःकरणेति आत्मनः स्वमते निर्गुणत्वादितिभावः ।
अन्येषां चेति ।
ईश्वरदिगादीनामपीत्यर्थः ।
न च तत्रेति ।
ब्रह्मज्ञानध्वंस इत्यर्थः ।
ज्ञानैकनिवर्त्यत्वं हि ज्ञानातिरिक्तानिवर्त्यत्वे सति ज्ञाननिवर्त्यत्वरूपं यथा श्रुतं न भवति ज्ञानसाध्यायामज्ञाननिवृतौ ज्ञानातिरिक्तस्य प्रतियोगिनोपि हेतुत्वात् किं त्वन्यदेवतदित्याह ।
ज्ञानाघटितेति ।
ज्ञानाघटिताया सामग्री तदनिवर्त्यत्वे सतीत्यर्थः ।
प्रपञ्च सत्यत्वमतेपि घटादेर्ज्ञाननिवर्त्यत्वमस्ति घटं नाशयामीत्यादि ज्ञानपूर्वकं मुद्गरपातादिना तन्नाशदर्शनादिति तद्धारणाय सत्यं तं घटादिनाशस्य ज्ञानपूर्वकत्वनियमाभावेन ज्ञानाघटित सामग्री निवर्त्यजातीये घटादौ तद घटित सामान्यनिवर्त्यत्वस्याभावात् ।
न च परमते नाशमात्रेस्येश्वर ज्ञानघटित सामग्री साध्यत्वा तदीयज्ञा ॥

नान्यः पन्था इति श्रुतिरपि तत्रैव तात्पर्यात् ।
अतो युक्त एव दग्धदाह्यदहनादिन्यायः केचित् तु वृतिरूपं ब्रह्मज्ञानं नाज्ञानतन्मूलप्रपञ्च निवर्तकम् ।
अज्ञानस्य प्रकाशनिवर्त्यत्वनियमेन जडरूपवृतिनिवर्त्यत्वायोगात् ।
किन्तु तदा

रूढचैतन्यप्रकाशस्तन्निवर्तकः स्वरूपेण तस्याज्ञानादि साक्षितया तदनिवर्तकत्वेपि अखण्डाकारवृत्युपारूढस्य तन्निवर्तकत्वोपपतेः ।
तृणादेर्भासिकाप्येषा सूर्यदीप्तिस्तृणं देहेत् ।
सूर्यकान्तमुपारुह्यतं न्यायं तत्र योजयेदित्यभियुक्तोक्तेः ।
एवं च यथा किञ्चित्काष्टमुपारुह्यग्रामनगरादिकं दहन् वह्निर्दहत्येव तदपि काष्ठं तथा चरमवृतिमुपारुह्यनिखिलं प्रपञ्चमुन्मूलयन्न खण्डचैतन्यप्रकाशस्तन्निवर्तनेपि प्रगल्भत इति न तन्नाशे काचिदनुपपतिरित्याहुः ॥

न मादाय कार्यमात्रे ज्ञानाघटितसामग्र्यनिवर्त्यत्वे सति ज्ञाननिवर्त्यत्वमस्तीति नैतन्मिथ्यात्वनिर्वचनमिति वाच्यम् ।
लक्षणे ज्ञानपदस्य जैवज्ञानपरत्वात् ।
आत्मन्यतिव्याप्तिवारणाय विशेष्यमितिभावः ।
ननु कार्यमात्रे कालादृष्टादेः कारणत्वमित्यङ्गीकृन्य ब्रह्मज्ञानध्वंसेपि कालादृष्टादेःकारणत्वाभ्युपगमे मूलाज्ञानध्वंसरूपे मोक्षेपि कालादेःकारणत्वं स्यात् कार्यत्वाविशेषात् ।
न चेष्टापतिः नान्यः पन्था इति श्रुति विरोधादित्यत आह ।
नान्यः पथाम् इति ।
अस्याः श्रुतेः ज्ञानमेकमेव मोक्षसाधनमित्यत्र न तात्पर्यं किन्तु मोक्षस्य ज्ञानाघटितं

किमपि साधनं नास्तीत्यत्र तात्पर्य ।
अतो न श्रुति विरोध इत्यर्थः ।
अत इति श्रुतिविरोधादिरूपबाधकाभावादित्यर्थः ।
वृतिरूपस्य ब्रह्मज्ञानस्याविद्यादिनाशकत्ववदेवस्वनाशकत्वमप्यस्तीत्युक्तमिदानिं वृतिरूपब्रह्मज्ञानस्याविद्यादिनाशकत्वं स्वनाशकत्वं वा नास्ति किन्तु तद्वृत्यारूढचैतन्यमेव तद्वृति सहित सर्वनाशेकमिति मतमाह ।
केचित्विति ।
ननु चैतन्यस्याज्ञानादि साधकत्वात्कथं तस्य नाशकत्व सत आह ।
स्वरूपेणेति ।
तत्र दृष्टान्तं श्लोकेन दर्शयति ।
तृणादेरिति ।

एषा प्रत्यक्षा सूर्यदीप्तिः स्वरूपेण तृणादेः प्रकाशिकापि सूर्यकान्तमणिमुपारुह्य तृणादिकं दहतीति प्रत्यक्षसिद्धं तत् न्यायं तत्र चैतन्ये योजयेत् ।
चैतन्यं स्वरूपेणाज्ञानादिप्रकाशकमपि वृतिविशेषसंसृष्टं सदज्ञानादेर्नाशकमिति निश्चिनुयादेव ननु साधकस्य कथं घातकत्वमित्यसम्भावनया प्रमाणसिद्धमर्थमुपेक्षेतेति श्लोकतात्पर्यं ननु मण्यारूढा सूर्यदीप्तिः मणिव्यतिरिक्तमेव तृणादिकं दहति न तु मणिमपि तथा च वृत्यारूढं चैतन्यं वृति व्यतिरिक्तमेवाज्ञानादिकं नाशयेन्न वृतिमपि ।
तथा च ब्रह्मज्ञानं कथं नश्येत् नाशकान्तराभावादिति शङ्कायाः समाधानं कथं लब्धं तत्राह ।
एवं चेति ।
चैतन्यस्य वृत्यारूढस्य नाशकत्वे प्रकाशाप्रकाशयोरेव लोके निवर्त्य निवर्तकभावदर्शनात् ।
प्रकाशस्यापि सहकारि विशेष च शेन नाशकत्वाविरोधाच्चेति युक्त द्वयेन सिद्धे सतीत्यर्थः ।
उन्मू * * * * न्नेति मूलभूताज्ञानेन सह

नाशयन्नित्यर्थः ।
प्रगल्भत इति भवतीत्यर्थः ।
तन्नाश इति चरमवृतिनाश इत्यर्थः ॥

अन्ये तु ब्रह्मज्ञानमज्ञानस्यैव निवर्तकं ज्ञानाज्ञानयोरेव साक्षाद्विरोधात् ।
प्रपञ्चस्य तूपादाननाशात्नाश इति प्रपञ्चान्तर्गतस्य ब्रह्मज्ञानस्यापि तत एव नाशः न च प्रपञ्चस्य ज्ञानानिवर्त्यत्वे मिथ्यात्वानुपपतिः ।
प्रपञ्चनिवृतेः साक्षात्ज्ञानजन्यत्वाभावेपि ज्ञानजन्या ज्ञाननाशजन्यत्वात् साक्षात्परम्परया वा ज्ञानैकनिवर्त्यत्वं मिथ्यात्वमित्यङ्गीकारात् ।
एवं च तत्वसाक्षात्कारोदयेपि जीवन्मूक्तस्य देहादिप्रतिभास उपपद्यते ।
प्रारब्धकर्मणा प्रतिबन्धेन तत्वसाक्षात्कारोदयेपि प्रारब्धकर्म तत्कार्यदेहादिप्रतिभासानुवृत्युपादानाविद्यलेशानिवृत्युपपतेः ।
अज्ञानवत्प्रपञ्चस्यापि साक्षाद्ब्रह्मसाक्षात्कारनिवर्त्यत्वेनायमुपपद्यतेऽतिविरोधिनि ब्रह्मसाक्षात्कारे सति प्रारब्धकर्मणः स्वयमवस्थानासम्भवेनाविद्यालेशनिवृतिप्रतिबन्धकत्वा- योगादित्याहुः ।

इति श्रीशास्त्रसिद्धान्तलेशसङ्ग्रहे तृतीयः परिछेदः ॥ ३ ॥

अज्ञाननाश * * ब्रह्मज्ञाननाशहेतुरितिमतं दर्शयति ।
अन्ये त्विति ।

अज्ञानस्यैवेति ।
उक्तं च पञ्चपादिकायां ज्ञानमज्ञानस्यैव निवर्तकमिति साक्षादिति विरोध प्रयोजकस्य समानविषयत्वादेरज्ञान एव सम्भवादित्यर्थः ।
तत एवेति ।
उपादान नाशादेवेत्यर्थः ।
साक्षात्परम्परयावेति मूलाज्ञानमात्रस्य ज्ञानैकनिवर्त्यतया मिथ्यात्वसिद्धौ मूलाज्ञानातिरिक्त जडमात्रस्य तदधीनतया स्वयं साक्षात् ज्ञाननिवर्त्यत्वाभावेपि कृत्स्न प्रपञ्चस्य मिथ्यात्वसिद्धिरप्रत्युहेत्यपि मन्तव्यम् ।
अस्य मतस्य जीवन्मुक्तिशास्त्रानुगृहीतत्वं दर्शयति ।
एवं चेत्यादिना ।
अज्ञानातिरिक्तस्य जडस्य ज्ञानेन सह साक्षाद्विरोधाभावे सतीत्यर्थः ।
ननु तत्वसाक्षात्कारेणाज्ञाननाशे सत्युपादानाभावात् देहादेरवस्थानासम्भवे सति कथं विद्योदये देहादि प्रतिभासः ।
इत्यत आह ।
प्रारब्धेति ।
तत्वसाक्षात्कारोदये सत्यज्ञानस्य निःशेषेण निवृतिप्रसक्तौ प्रारब्धकर्मकृतप्रतिबन्धवशादज्ञानलेशस्य निवृतिर्न सम्भवति तल्लेशानुवृतौ च तत्वज्ञानानन्तरमपि प्रारब्धकर्मणः तत्कार्यस्य देहादि प्रतिभासस्यापि अनुवृतिर्युज्यते देहाद्युपादानभूतस्याविद्यालेशस्यानुवृतेरित्यर्थः ।
पूर्वमते जीवन्मुक्त्यसिद्धिमाह ।

अज्ञानवदिति जीवन्मुक्तस्य देहादि प्रतिभास इत्यर्थः ।
विरोधिनीति ।
अज्ञानस्येव प्रारब्धकर्मणोपि साक्षाद्विरोधिनीत्यर्थः ।
श्रीकृष्णं मनसा ध्यात्वा श्रीकृष्णं सम्प्रणम्य च व्याख्यातो यं परिछेदः श्रीकृष्ण परितुष्टये ॥

इति श्रीमत्परमहंसपरिव्राजिकाचार्य श्रीमत्स्वयम्प्रकाशानन्दसरस्वस्ती दिव्य श्रीचरणारविन्दसंलग्नरजोभूतस्य अच्युतकृष्णानन्दतीर्थस्य कृतौ शास्त्रसिद्धान्तलेशसङ्ग्रहव्याख्यायां श्रीकृष्णालङ्काराख्यायां तृतीयः परिछेदः ॥ ३ ॥
समाप्तम् ॥