एवं विषयचैतन्यगताज्ञाननिवृतिरनिर्गतवृत्यापि सम्भवत्यतो वृतिनिर्गमनाभ्युपगमो व्यर्थदत्याक्षेपे तन्निर्गमं विना तन्निवृतिर्न सम्भवतीति तदभ्युपगमस्सफल इति ।
समाधानं दर्शितमिदानीं विषयचैतन्यगताज्ञाननिवृत्यर्थं वृतिनिर्गमनं नापेक्षितमिति पूर्वपक्ष्युक्तमङ्गीकृत्यापि वृतिनिर्गमनं साधयति ।
केचित्विति ।
इदं च प्रकारद्वयं प्रागेव प्रपञ्चितुमिति नेह प्रपञ्च्यत इति बोध्यम् ।
प्रमात्रचैतन्यशब्दित जीवस्य ब्रह्माभेदे नास्ति प्रमाणामिति शङ्कते ।
अथेति ।
अयमभेदः किं वेदान्तप्रमाणकः किम् वा तदन्यप्रमाणकस्तत्र न तावदाद्यः कल्पः सम्भवति वेदान्तानामुपासनादिपरत्वप्रतीतेर्न द्वितीयः जीवब्रह्माभैदस्यौपनिषदत्व श्रुतिविरोधादिति भावः ।
तत्राद्यं कल्पं परिगृह्यसमाधते ।
वेदान्तेति ।
तेषामुपासनादि ।
परत्वं दूषयति ।
सर्वेपीति ।
वेदान्तानां क्व तात्पर्यमिति विमृश्यमाने सर्वेपि वेदान्ता अद्वये जीवाभिन्ने ब्रह्मणि समन्वयन्ति समन्वयं तात्पर्यं लभन्ते ।
तात्पर्यज्ञापकानि लिङ्गानि कथयति ।
उपक्रमेति आदिपदमभ्यासादिसङ्ग्रहार्थं के ते वेदान्ताः ।
कथं वा तेषूक्तलिङ्गानां सत्वं को वा तैर्लिङ्गैस्तात्पर्यावगम प्रकार इत्याकाक्षायामाह ।
यथा चेति ।
सर्वेषां वेदान्तानामयमेव परमतात्पर्यविषयीभूतोर्थः ।
न तूपासनादिरिति प्रपञ्चित इत्यर्थः ।
अत्रापि कुतो न प्रपञ्चते तत्राह ।
विस्तरेति ।
ग्रन्थविस्तारभयादित्यर्थः ।
इति श्रीमत्परमहंसपरिव्राजकावार्य श्रीमत्स्वयम्प्रकाशकानन्दसरस्वती चरणारबिन्दसंलग्नरजो भूतस्य अच्युतकृष्णानन्दतीर्थस्य कृतौ शास्त्रसिद्धान्तलेशसङ्ग्रहव्याख्यायां श्रीबालमुकुन्दानन्दतीर्थपादपूज्यशिष्यश्रीविश्वनाथतीर्थस्य पुस्तकोद्धारणः प्रथमः परिछेदस्समाप्तः ॥
ॐ श्रीगणेशाय नमः ॥
अथ कथमद्वितीये ब्रह्मणी वेदान्तान्नां समन्वयः ।
प्रत्यक्षादि विरोधादिति चेन्न ।
आरम्भणाधिकरणोदाहृत श्रुति युक्तिभिः ।
प्रत्यक्षाधिगम्यस्य प्रपञ्चस्य ब्रह्मविवर्तरूपतया मिथ्या त्वावगमात् ।
ननु न श्रुतियुक्तिभिः प्रपञ्चस्य मिथ्यात्वं प्रत्याययितुं शक्यते ।
घटः सन्नित्यादि घटादि सत्वग्राहि प्रत्यक्षादि विरोधात् ।
अत्रारूस्तत्वशुद्धिकाराः ।
न प्रत्यक्षं घटपटादि तत्सत्वं वा गृह्णाति ।
किं त्वधिष्ठानत्वेन घटाद्यनुगतं सन्मात्रं तथा च प्रत्यक्षमपि सद्रूपब्रह्माद्वैत सिद्धानुकूलमेव
ॐ श्रीमहागणपतये नमः ॥
ॐ यो मे विश्वेश्वर क्षेत्रं विश्वेश्वर समो गुरुः समध्यास्ते स्वयं ज्योतिर्वाणी सञ्ज्ञो भजामितम् ।
स्वयं प्रकाश सरस्वती सञ्ज्ञ इत्यर्थः ।
आचार्यचरणद्वन्द्वस्मृतिर्लेखकरूपिणं मां कृत्वा कुरुते व्याख्यां नाहमत्र प्रभुर्यतः ।
अत्र व्याख्याने प्रभुः समर्थ इत्यर्थः ।
प्रथमपरिछेदे ब्रह्मलक्षणविचारावसरेस्तक्षणस्य मतभेदेन ज्ञेय ब्रह्मनिष्ठत्वनिरूपणेन
ईश्वररूउपब्रह्मनिष्ठत्वनिरूपणेन च तत्पदलक्ष्यार्थ वाच्यार्थौ निरूपितौ तथा तदनन्तरं जीव तत्साक्षिणोर्निरूपणेन त्वं पदवाच्यार्थलक्ष्यार्थौ निरूपितौ तथा चार्थाद्वाक्यार्थरूपाभेदोपि निरूपितो भवति ।
वाक्यार्थस्य तत्वं पदलक्ष्यार्थानतिरेकात् ।
तथा च जीवाभिन्ने निर्विशेषे ब्रह्मणि वेदान्तसमन्वयरूपः प्रथमाध्यायार्थः ।
तात्पर्यतः पूर्वपरिछेदे निरूपितो भवति ।
इदानीं द्वितीयाध्यायार्थरूपं वेदान्त समन्वयस्य मानान्तराविरोधं निरूपयितुं परिछेदान्तरमारभते ।
अथ कथमिति ।
समन्वयस्तात्पर्यम् ।
प्रत्यक्षेति ।
ब्रह्मापेक्षया द्वितीयस्य प्रपञ्चस्य प्रत्यक्षसिद्धत्वादद्वितीयत्वं तस्य बाधितं तथा च बाधितेर्थे कथं श्रुतेस्तात्पर्थमप्रामाण्यप्रसङ्गादिति भावः ।
प्रपञ्चस्य रजु सर्पादिवत् ब्रह्मणि कल्पितत्वाद्वास्तवमद्वितीयत्वमवाधितमिति समाधते ।
नेति ।
श्रुति युक्तिभिरिति ।
एताः श्रुति युक्तयो विवर्तलक्षनिरूपणावसरेऽस्माभिर्दर्शिता इति नात्र पदर्श्यन्ते ।
प्रत्यक्षविरोधे श्रुतियुक्तीनामेव बाधो न्याय्य इति मन्यमान आक्षिपति ननु नेति ऽघटः सन्न्नित्यादिना घटादि सत्वग्राहि प्रत्यक्षेण
सहप्रपञ्चमिथ्यात्व प्रत्यायक श्रुति युक्तीनां विरोधत्वादित्यर्थः ।
श्रुत्यादिभिर्गम्यमिथ्यात्व विरुद्धं सत्वं प्रत्यक्षग्राह्यमेव न भवति ।
अतस्तद्विरोधशङ्कैव निरालम्बनेति पञ्चभिर्मतैः ।
प्रतिपादयति ।
अत्राहुरित्यादिना ।
प्रत्यक्षं घटादि न गृह्णाति घटादेः सत्वं वा न गृह्णाति चेतर्हि निर्विषयं तत्प्रसज्येतेति शङ्कते ।
किं त्विति ।
उत्तरम् ।
अधिष्ठानेति ।
सन्मात्रमिति ।
सद्रूपब्रह्मैव प्रत्यक्षप्रमेयमित्यर्थः ।
एवं स्थितेन केवलं प्रत्यक्षं विरोधा भावः ।
किं तु लाभोप्यस्तीत्याह ।
तथा चेति ॥
तथा सति सत्सदित्येव प्रत्यक्षं स्यान्न तु घटः सन्नित्यादि प्रत्यक्षमिन्द्रियान्वयव्यतिरेकानुविधायीति चेन्न ।
यथा भ्रमेष्विदमंशस्याधिष्ठानस्य प्रत्यक्षेण ग्रहणम् ।
इन्द्रियान्वय व्यतिरेकयोस्तत्रैवोपक्षयः रजतांशस्यारोपितस्य भ्रान्त्याप्रतिभासस्तथा सर्वत्र सन्मात्रस्य प्रत्यक्षेण गृहणम् ।
तत्रैवेन्द्रिय व्यापारः घटादिभेदवस्तु प्रतिभासो भ्रान्त्येत्युपगमात् ।
न तु तद्वदिह बाधादर्शनात् तथा भ्युपगम एव
निर्मूल इति चेन्न बाधा दर्शनेपि देशकालव्यवहित वस्तवत् घटादिभेदवस्तुनः प्रत्यक्षायोग्यत्वस्यैव तत्र मूलत्वात् ।
तथाहि ।
इन्द्रियव्यापारानन्तरं प्रतीयमानी घटादिः सर्वतो भिन्न एव प्रतीयते ।
तदा तत्र घटादिभेदे संशय विपर्या दर्शनात् ।
यत्रापि स्थाण्वादै पुरुषत्वादि संशयस्तत्रापि तद्व्यतिरिक्तेभ्यो भेदोऽसन्दिग्धाविपर्यस्तत्वात्प्रकाशत एव ॥
घटाद्रियकत्ववादी शङ्कते ।
तथा सतीति ।
तस्य सन्मात्रविषयकत्वे सतीत्यर्थः ।
इन्द्रियेति ।
न च सन्मात्र प्रत्यक्ष एव इन्द्रियान्वयाद्यनुविधानोपपते ।
प्रत्यक्षस्य घटादि विषयकत्वाभावे तैदनविधानं न स्यादित्ये तदभिप्रायकं विशेषैणमयुक्तमिति वाच्यम् ।
स्वप्रकाशस्य सन्मात्रस्य प्रकाशनाय इन्द्रियापेक्षानुपपतेरिति भावः ।
अत्राक्षेप्ता किं सिद्धान्त्येक देशी किं वा भेदवादी आद्ये तत्सम्मत दृष्टन्ति न सन्मात्रस्य प्रत्यक्षप्रमेयत्वमाह ।
यथेति ।
तत्रैवेति ।
अधिष्ठानग्रहण एवेत्यर्थः ।
भ्रान्त्येति साक्षिरूपयेत्यर्थः ।
सन्मात्रस्येति ।
तस्य स्वप्रकाशत्वेप्यावृतत्वादावरणनिवर्तकवृत्युत्पतये इन्द्रियापेक्षिति भावः ।
घटादीति ।
घटादेस्तद्भेदरूपस्य च वस्तुनः प्रतिभासौ भ्रान्त्या ऐन्द्रियकवृत्यभिव्यक्त सन्मात्ररूपसाक्षिचैतन्यलक्षणयेत्यभ्युपगमादित्यर्थः ।
एतेन सत्सदित्येव प्रत्यक्षं स्यादित्याक्षेप्ता
भेद वाचपि निरस्तः ।
सिद्धान्तिना घटादौ तत्सत्वे च प्रत्यक्षस्य प्रामाण्यानङ्गीकारेपि घटादेः ।
प्रत्यक्षज्ञाने साक्षिरूपेभानाङ्गीकारात् ।
भेदवादीशङ्कते ।
नन्विति शुक्तिरजतादेर्बाधदर्शनाद्युक्तं तस्य भ्रान्त्याप्रतिभासाङ्गीकरणम् ।
तथा घटादि द्वैतस्य बाधादर्शना तस्य भ्रान्तिमात्रसिद्धत्वमनुपपन्नमित्यर्थः ।
किं श्रौत बाधादर्शनं विवक्षितं किं वा प्रत्यक्षबाधादर्शनं यौक्लिकबाधादर्शनं वा आद्यमसिद्धम् ।
दृश्यमात्रस्य ब्रह्मणि नेह नानास्तीत्यादि श्रुत्याबाधदर्शनादित्याशयेनाह ।
नेति द्वितीयमङ्गीकरोति ।
बाधादर्शनेपीति ।
तृतीयमसिध्यादूषयति ।
देशकालेति ।
घटादीति ।
घटादेस्तद्धर्मिकभेदरूपस्य च वस्तुन इत्यर्थः ।
प्रत्यक्षायोग्यत्वमेव दर्शयितुं प्रथमं सम्मतमर्थं दर्शयति ।
इन्द्रियेति ।
तत्रेति ।
पदव्याख्या घटादिभेद इति घटादि धर्मिभेद इत्यर्थः ।
सर्वतोभिन्न एव प्रतीयत इत्ययुक्तम् ।
इन्द्रिय सन्निकृष्टे स्थाण्वादौ क्वचित्युरुषीदि प्रतियोगिकभेदस्याप्रतीतेः ।
प्रतीतौ वा संशयाभावापतेरत आह ।
यत्रापीति ॥
भेदस्य च प्रतियोगि सहोपलम्भनियमवतो न प्रत्यक्षेण ग्रहणं सम्भवति ।
देशकालव्यवधानेनासन्निकृष्टानामपि प्रतियोगिनां सम्भवात् ।
भेदज्ञानं प्रतियोग्यंशे संस्कारापेक्षणात् स्मृतिरूपमस्तु
प्रत्यभिज्ञानमिवततां(श इति चेन्न ।
तथापि भे)दगत प्रतियोगि वैशिष्ट्यांशे तदभावात् ।
न च कनका च लोभेदप्रतियोगीवस्तुत्वादिति भेदप्रतिवैशिष्ट्यगोचरानुमित्या तत्संस्कारसम्भवः ।
भेदज्ञानं विनाऽनुमित्यभावेनात्माश्रयापतेः ।
पक्षसाध्य हेतुपक्षताद्यभेदभ्रमे सति सिद्ध साधनादिनानुमाना प्रवृत्या तदभेदज्ञानविघटनीयस्पतेद्भेदज्ञानस्यापेक्षित्वात् ।
अस्तु तर्हि भेदांश इव प्रतियोगि वैशिष्ट्यांशेपि प्रत्यक्षत्वमिति चेन्न प्रतियोगिनोऽप्रत्यक्षत्वे तद्वैशिष्ट्य प्रत्यक्षायोगात् ।
सम्बन्धि द्वय प्रत्यक्षं विना सम्बन्ध प्रत्यक्षं विना सम्बन्ध प्रत्यक्षा सम्भवात् ।
तस्मात् प्रत्यक्षायोग्यस्य प्रतियोगिनो भ्रान्तिरूप एव प्रतिभास इति तदेकविति वेद्यत्व नियतस्य भेदस्य भेदैकविति वेद्यत्वनियमघटादेश्च भ्रमैकविषयत्वात्प्रत्यक्षं निर्विशेषसन्मात्रग्राह्यद्वैत सिद्ध्यनुकूलमिति ॥
ततः किं तत्राह ।
भेदस्य चेति ।
प्रतियोगि सहोपालम्भनियमवत
इति ।
ससम्बन्धिक पदार्थप्रत्यक्षे यावत् सम्बन्धिविविषयकत्वस्य यावत् सम्बन्धि प्रत्यक्षजन्यतायाश्च संयोगादि प्रत्यक्षे कॢप्तत्वाद्भेद पत्यक्षेपि यावत् प्रतियोगिविषकत्वं यावत् प्रतियोगिप्रत्यक्षजन्यत्वं च वाच्यं भेदप्रत्यक्षस्यापि ससम्बन्धिक पदार्थप्रत्यक्षत्वा तथा च यावन्तः प्रतियोगिनस्तावतां प्रतियोगिनां प्रत्यक्षासम्भवेन कॢप्त सामग्र्यभावान्रभेदः प्रत्यक्षप्रमायोग्य इति तस्य भ्रान्तिमात्र सिद्धत्वं युक्तम् ।
सिद्धान्ते तु भेदप्रत्यक्षस्य नित्यसाक्षिरूपत्वान्नाकारणापेक्षेतिभावः ।
सहोपलम्भति यममात्रस्य भेदसत्यत्वमते कथञ्चिदुद्धारं शङ्कते ।
भेदज्ञानमिति ।
संस्कारापेक्षणादिति ।
तज्जन्यत्व सम्भवादित्यर्थः ।
भेदज्ञाने हि प्रतियोगिनां प्रतियोगितावछेदकरूपेणैवभानम्परैरुपेयते तेन रूपेण सकलप्रतियोगिगोचरपूर्वानुभवासम्भवेन संस्काराभावादसन्निकृष्टप्रतियोग्यंशे स्मृतिरूपत्वमपि न सम्भवति ।
तदभ्युपगम्याप्याह सिद्धान्ती ।
न तथापीति ।
कनकाचलादिपदार्थानां सन्निकृष्टघटनिष्टभेदप्रतियागित्वेन पूर्वमननुभूतत्वादितिभावः ।
वैशिष्ट्यांशे पूर्वानुभवं शङ्कते ।
कनकाचल इति ।
एवमितरपदार्थेष्वप्यनुमानं द्रष्टव्यमितिभावः ।
आत्माश्रयापतेरिति ।
भेदज्ञानस्य भेदज्ञानाधीनत्वेन न किञ्चिद्भेदज्ञानं सिध्येदितिभावः ।
अप्रवृत्येति ।
तथा च पक्षाद्यभेदज्ञानस्यनुमिति
प्रतिबन्धकतया तद्विघटकं पक्षादिभेदज्ञानमावश्यकमितिभावः ।
तर्हीति ।
प्रतियोगि वैशिष्ट्यांशज्ञानस्य स्मृतिरूपत्वासम्भवे सतीत्यर्थः ।
तदेकेति तत्पदं प्रतियोगि परं नियमेन प्रतियोगि ज्ञानविषयस्येत्यर्थः ।
वितिपदं प्रत्यक्षपरं भेदपदजन्यभेदज्ञानस्य प्रतियोगिविषयत्वादर्शनादिति बोध्यम् ।
भ्रमैकविषयत्वादिति ।
अधिष्ठानस्यापि भ्रमविषयत्वात्कल्पितत्वप्रसङ्गवारणाय एकपदमधिष्ठानस्य च सम्यग्दर्शनं प्रत्यपि विषयत्वात् ।
भ्रान्त्यैकविषयत्वमसिदम् ।
तथा च प्रत्यक्षं सद्वस्तुन्येव प्रमाणं सच्छ्रुत्यनुकूलमित्यर्थः ॥
न्यायसुधाकृतस्त्वाहुः ।
घटादैरैन्द्रियकत्वेपि सन् घट इत्यादिरधिष्ठान सत्वानुवेध इति न विरोधः ।
एवं नीलो घट इत्यादिरधिष्ठाननैल्याद्यनुभवेधः ।
किं न स्यादिति चेन्न ।
श्रुत्या सद्रूपस्य वस्तुनो जगदुपादानत्वमुक्तमविरोधात् ।
सर्व सम्मतमिति तदनुवेधेनैव सन् घट इत्यादि प्रतिभासोपपतौ घटादावपि सत्ता कल्पने गौरवम् ।
तस्य रूपादि हीनत्वान्नैल्यादिकं घटादावेव कल्पनीयमिति वैषम्यादिति सङ्क्षेप शारीरकाचार्यास्त्वाहुः ।
प्रत्यक्षस्य घटादि
सत्वग्राहित्वेपि पराग्विषयस्य प्रत्यक्षादेः तत्वावेदकत्वलक्षणप्रामाण्याभावान्न तद्विरोधेनाद्वैत श्रुत्यादि बाधशङ्का अक्षात बोधकं हि प्रमाणं न च प्रत्यक्षादि विषयस्य घटादिरज्ञातत्वमस्ति जडे आवरणकृत्याभावेनाज्ञानविषयत्वानुपगमात् ।
स्वप्रकाशतया प्रसक्तप्रकाशं ब्रह्मैवाज्ञानविषय इति तद्बोधकमेव तत्वावेदकं प्रमाणं तदेव प्रमिति विषयः ॥
अस्तु वा घटादेश्चाक्षुषत्वाद्यनुभवानुरोधेन चक्षुरादि गम्यत्वम् ।
तथापि प्रपञ्चमिथ्यात्वसाधक श्रुतियुक्तीनां न प्रत्यक्षविरोधः ।
प्रत्यक्षस्यापि घटादौ पृथक् सत्वग्राहित्वाभावादित्याह ।
न्यायसुधाकृतस्त्वाहुरिति ।
सन् घट इत्यादिर्घटादेः सत्यप्रतिभासोधिष्ठां न सत्वासम्बन्धविषयक एव अतो न विरोध न इत्यर्थः ।
घटादौ प्रतीयमानसत्वस्याधिष्ठानगतत्वस्वीकारेति प्रसङ्गं शङ्कते ।
एवमिति ।
नीलो घट इत्यादिर्घटादौ नैल्यप्रतिभासोप्यधिष्ठान नैल्यसम्बन्धगोचरः ।
किं न स्यादित्यर्थः ।
तथा च ब्रह्मरूपवत् स्यादितिभावः ।
नैल्यादैः सतां वैषम्येण परिहरति नेति ।
श्रुत्येति ।
सदेवेत्यादि श्रुत्येत्यर्थः ।
सर्वसम्मतमिति ।
सर्वैरेव स्वीकर्तव्यमित्यर्थः ।
न तु यथा श्रुतं वैशेषिकादिभिरनङ्गीकारादविरोधादिति
रज्वादेः सर्पाद्युपादानत्ववत्कूटस्थ ब्रह्मणोप्युपादानत्वाविरोधादित्यर्थः ।
तदन्विति ।
तत्पदम् अधिष्ठान सतापरम् ।
तस्येति ।
जगदधिष्ठान भूतब्रह्मण इत्यर्थः ।
घटादावेवेति ।
न ब्रह्मणि तत्कल्पयितुं शक्यं श्रुतिविरोधादितिभावः ।
प्रत्यक्षस्य घटादौ पृथक्सत्व ग्राहित्वेपि तस्य प्रमाणाभासत्वान्न तेन श्रुतेर्बाधशङ्काश इत्याह ।
सङ्क्षेपशीरीरकाचार्यास्त्विति ।
परागविषयस्येति ।
जडमात्रविषयकस्येत्यर्थः ।
तत्वेति ।
अनधिगतत्वे सत्यबाधितं तत्वं तदा वेदकं तद्बोधकं प्रमाणलक्षणमिति बहुवादिसम्मतम् ।
तच्च प्रत्यक्षस्य नास्तीति प्रमाणाभासरूपं प्रत्यक्षमितिभावः ।
घटादेरिति ।
तस्याबाधितत्वे सत्यपि अज्ञातत्वं नास्तित्यभिप्रायः ।
अन्यथा तदभावादपि प्रत्यक्षघटादेक्षस्य प्रमाणाभासत्वप्रतिपादन सम्भवे अज्ञातत्वाभावमात्र प्रतिपादनायोगादतो बाधिता चासम्भवमुपेत्य तस्याभासत्व प्रतिपादनमिह विवक्षितमिति बोध्यं कृत्यं कार्यं फलमिति यावत् ॥
अत एव श्रुतिरप्यात्मावारे द्रष्टव्य इत्यात्मन एव प्रमेयत्वमिति निपछति ।
न हि द्रष्टव्य इत्यनेन दर्शनं विधीयते ।
प्रमाणपरतन्त्रस्य तस्य विध्यगोचरत्वात् ।
किं त्वात्मादर्शनाहम् इति अज्ञातत्वादात्मन एव प्रमेयत्वमुचितं नान्यस्येति
नियम्यत इति केचित् तु घटादि सत्वग्राहिणः प्रत्यक्षस्य प्रामाण्ये ब्रह्मप्रमाणाऽन्यूनतावगमेपि तद्ग्राह्यं सत्वमनुगतप्रत्ययात् सता जातिरूपं वा इहेदानीं घटोस्तीति देशकालसम्बन्धप्रतीतेस्तत्तद्देशकालसम्बन्धरूपं चा नास्ति घट इति स्वरूपनिषेध प्रतीतिर्घटादि स्वरूपं वा पर्यवस्यति ।
तच्च मिथ्यात्वैन न विरुध्यते ।
न हि मिथ्यात्ववादिनापि घटादेः स्वरूपं वा तस्य देशकालसम्बन्धो वा तत्र जात्यादिकं वा नाभ्युपगम्यते ।
किं तु तेषामबाध्यत्वं न चाबाध्यत्वमेव सत्यत्वं प्रत्यक्षग्राह्यमस्त्विति वाच्यं कालत्रयेपि नास्य बाध इति वर्तमान मात्र ग्राहिणाप्रत्यक्षेण गृहीतुमशक्यत्वादित्याहुः ।
स्वप्रकाशात्मन एव प्रमेयत्वे श्रुतिमपि प्रमाणयति ।
अत एवेति ।
अज्ञातत्वादेवेत्यर्थः ।
ननु द्रष्टव्य इति श्रुतिरात्मदर्शनं विधत्ते नेत्याह ।
नहीति ।
अगोचरत्वादिति ।
पुरुषयत्नसाध्यक्रियाया एव विधियोग्यत्वादितिभावः ।
विधिप्रत्ययस्य गतिं पृछति ।
किं त्विति ।
अर्हार्थस्तव्यप्रत्यय इत्याह ।
आत्मेति ।
प्रत्यक्षविषय जडस्याज्ञातत्वमुपेत्य जडबोधक प्रत्यक्षस्य श्रुतितुल्यप्रमाणत्व स्वीकारेपि प्रत्यक्षग्राह्यघटादि सत्वस्य मिथ्यात्वाविरुद्ध
त्वा च मिथ्यात्वबोधक श्रुत्यादीनां प्रत्यक्षविरोधशङ्केत्याह ।
केचित्विति ।
प्रत्यक्षग्राह्यं सत्वं सता जातिरूपं वा ततद्देशकालसम्बन्धरूपं वा घटादि स्वरूपं वा पर्यवस्यतीति सम्बन्धः ।
जातिरूपत्वेमानमाह ।
अनुगतेति ।
सन् घटः सन् पद इत्यादिरूपादित्यर्थः ।
द्वितीये मानमाह ।
इहेति ।
इहेदानीं घट इति प्रतीतिर्घटे प्रेतीयमानदेशकालसम्बन्धमेव सत्तारूपतया विषयी करोतीति भावः ।
तृतीये मानमाह ।
नास्ति घट इतीति ।
घटो नास्तीति घटास्तिता निषेधत्वेन रूपेण घटस्वरूपनिषेधस्यैवानुभवात् घटास्तित्वं घटस्वरूपं पर्यवस्यतीत्यर्थः ।
ततः किं तत्राह ।
तच्चेति नहीति ।
तुछविलक्षणप्रपञ्च स्वरूपाङ्गीकारादितिभावः ।
घटादेः स्वरूपं वा नाभ्युपगम्यत इति नहीति सम्बन्धः ।
तथा तस्य देशकालसम्बन्धो वा नाभ्युपगम्यत इति नहीति सम्बन्धः ।
तत्र जात्यादिकं वा नाभ्युपगम्यत इति नहीति सम्बन्धः ।
एतत्सर्वं जगन्मिथ्यात्ववादिनाभ्युपगम्यत एव विरोधाभावादितिभावः ।
तर्हि कीदृशं सत्वं मिथ्यात्वविरोधियत्वत्वयानाभ्युपेयते जगतीति पृछति ।
किं त्विति ।
उत्तरं तेषामिति ।
घटादीनामित्यर्थः ।
किं तु तेषामुबाध्यत्वं वा भ्युपगम्यत इति सम्बन्धः मिथ्यात्वस्य बाध्यरूपत्वा तद्विरुद्धसत्वमबाध्यरूपमेव चेतर्हीदमेव सत्यप्रत्यक्षविषयोस्तु तथा च प्रत्यक्षविरोधशङ्कास्यादेवेत्याशयवतीं शङ्कामुद्भाव्यनिराचष्टे ।
न चेत्यादिना ।
नास्येति जगत इत्यर्थः ॥
अन्ये तु अबाध्यत्वरूपसत्यत्वस्य प्रत्यक्षग्राह्यत्वेपि प्राणा वै सत्यं तेषाम् एष सत्यमिति श्रुत्याप्रधानभूतप्राणग्रहणोपलक्षितस्य कृत्स्न प्रपञ्चस्य ब्रह्मणश्च सत्यत्वोत्कर्षापकर्षप्रतीतेः ।
सत्यत्वे चाबाध्यत्वरूपे सर्वदैवाबाध्यत्वं किञ्चित्कालमबाध्यत्वमित्येवं विधोत्कर्षापकर्षं विना राजराजोमन्मथमन्मथ इत्यादिशब्दतात्पर्यगोचरनियन्तृत्वसौदर्यादीनामिवभूयो विषयत्वाल्पविषयत्वादिरूपोत्कर्षापकर्षासम्भवात्
अबाध्यत्वरूपमेव सत्वं प्रत्यक्षविषय इत्युपेत्यापि प्रत्यक्षविरोधाभावमाह ।
अन्ये त्विति ।
अबाध्यत्वरूपसत्वस्य प्रत्यक्षग्राह्यत्वेपि न मिथ्यात्व श्रुतिविरोध इति सम्बन्धः ।
कालत्रया बाध्यत्वरूपं सत्वं मिथ्यात्वविरोधि तच्च ब्रह्मण एव प्रपञ्चस्य तु यावतत्वज्ञानमबाध्यत्वरूपं सत्वमेतच्च न मिथ्यात्वविरोधीति न प्रत्यक्षविरोध इति वक्तुं प्रपञ्च ब्रह्मणोः ।
सत्व वैलक्षण्ये प्रमाणम्माह ।
प्राणा इति प्राणग्रहणं कृत्स्नप्रपञ्चोपलक्षणार्थम् एषः परमात्मा तेषां सत्यन्तानन पक्ष्यसत्य इत्यर्थः ।
तथा च श्रुतौ प्रपञ्चस्य सत्यत्वं निकृष्टं ब्रह्मणः सत्यत्वमुत्कृष्टमित्युक्तं भवति ।
तत्र प्राणपदेन प्रपञ्चोपलक्षणे नियामकमाह ।
प्रधानभूतति सूत्रात्मरूपस्य प्राणस्य जगद्विधारकत्वात्प्राधान्यं द्रष्टव्यम् ।
न चोपलक्षणमोनान्नावः शङ्कनीयः ।
ब्रह्मस्वरूपप्रतिपादनपरे वाक्ये प्रपञ्चैक देशभूतप्राणग्रहणे प्रयोजनाभात्कृत्स्नोपलक्षणे तु सत्यत्वेन प्रसिद्धप्रपञ्चाधिष्ठानतया ब्रह्मैव परमार्थ सत्यं न तु प्रपञ्चस्तस्य श्रुतिबाधित्वेन परमार्थ सत्यत्वायोगादिति ब्रह्मप्रमिति रूपप्रयोजनसत्वादितिभावः ।
किं तत्राह ।
सत्यत्वे चेति ।
राजेति राजत्वं पालकत्वरूपं नियन्तृत्वं तच्च पाल्यदेशसापेक्ष्यं तथा च विष्णुशर्मा राजराज इति प्रयोगे विष्णुशर्मण इतरराजापेक्षया उत्कर्षः प्रतीयत इतिरेषां च विकर्षः तौच पालनस्य भूयो देशविषयकत्वाल्पदेशविषकत्वरूपौ मन्मथस्तावन्नारायणपुत्रः सुन्दर इति प्रसिद्धिः ।
पुराणेषु तथा चाति सुन्दरोयमिति तात्पर्थेणमन्मथमन्मथ श्रीराम इति प्रयोगो दृश्यते ।
तत्र सौन्दर्यं नाम उत्कृष्टरूपादिमत्वमति सौन्दर्य्यम् ।
ततोप्युत्कृष्टरूपादिमत्वमिति बोध्यम् ।
असम्भवादिति ।
नियन्तृत्व सौन्दर्यादि विलक्षणे बाधाभावरूपेपत्वे भूयो विषयत्वाल्पविषयत्वरूपोत्कर्षापकर्षयोर्जातिविशेषरूपयोश्चा- सम्भवादित्यर्थः ।
नन्व बाधितत्वरूपेपि सत्वे प्रकारान्तरेणोत्कर्षो सम्भवत तथाहि प्रपञ्च ब्रह्मणोः कालत्रया बाध्यत्वरूपे सत्वे समानेपि ब्रह्मगतं सत्वं श्रुतिगम्यत्वादुत्कृष्टम् इतरतु लौकिकप्रमाणगम्यत्वान्निकृष्टमितिमिति श्रुत्यर्थो ॥
विधान्तरेण तत्सम्भवेपि प्रपञ्चस्य ब्रह्मज्ञानबाध्यत्व
श्रुत्यन्तरैकार्थ्यादुक्तोत्कर्षापकर्ष एव पर्यवसानाच्च प्रत्यक्ष ग्राह्यं घटाटि सत्यत्वं यावत् ब्रह्मज्ञनमबाध्यत्वरूपमिति न मिथ्यात्व श्रुतिविरोध इत्याहुः ।
अपरे तु प्रपञ्चस्य सत्थत्वमित्थ्यात्वग्राहिणोः ।
श्रुतिप्रत्यक्षयोर्विरोधेपि दोषशङ्का कलङ्कितात् ।
प्रथमप्रवृतात्प्रत्यक्षान्निर्दोषत्वादयछेदन्यायेन परत्वाच्च श्रुतिरेव बलीयसी ।
प्रावल्यमागमस्यैव जात्या तेषु त्रियुस्मृतमिति स्मरणाच्च ।
न च वेदैकगम्यार्थविषयकमिदं स्मरणम् ।
तत्र प्रत्यक्षविरोधशङ्काभावेन शङ्कित प्रत्यक्षविरोध एव वेदार्थे वेदस्य प्रावल्योक्त्यौ चित्यात् ॥
पपादनसम्भवा तथा च मिथ्यात्वविरुद्धसत्वग्राहि लौकिकप्रमाणविरोधशङ्कास्यादेवेति नेत्याह ।
विधान्तरेणेति ।
प्राणा वै सत्यमिति श्रुतौ सत्यशब्दः प्रपञ्चस्य यदि कालत्रया बाध्यत्वरूपं सत्यत्वं प्रतिपादये तदा निखिलप्रपञ्चस्य ब्रह्मज्ञानबाध्यत्वप्रतिपादक श्रुत्यन्तरेण सहप्राणा वै सत्यमिति श्रुतेर्विरोधः ।
स्यान्न चाविरोधेन श्रुतिद्वयप्रामाण्यसम्भवे विरोधेन प्रामाण्यं हातव्यं तस्माच्छ्रुत्युक्त सत्वोत्कर्षार्योः कालत्रया बाधत्वादावेवपर्यवसानं वाच्यं
नान्यत्रेत्यर्थः ।
एवमत्राहुरित्यादिना प्रपञ्चमिथ्यात्व साधकश्रुतियुक्तीनां प्रत्यक्षं विरोधि न भवतीति प्रतिपादितमिदानीं प्रत्यक्षस्य कालत्रयाबाध्यत्वरूपसत्वग्राहित्वेन श्रुतिविरोधित्वेपि न मिथ्यात्वसिद्ध्यनुपपतिः ।
श्रुत्या प्रत्यक्षस्य बाधोपपतेरित्याह ।
अपरे त्विति ।
श्रुतिरेव प्रत्यक्षाद्वलीयसीति सम्बन्धः श्रुतेः प्रावल्ये हेतुद्वयमाह ।
निर्दोषत्वादिति ।
अपछैदन्यायो वक्ष्यते प्रत्यक्षस्यापि निर्दोषत्वादिकं तुल्यमिति शङ्काञ्चारयति ।
दोषेति ।
एतच्चाग्रे स्पष्टं भविष्यति ।
श्रुतेः प्रावल्ये मनुवचनमपि नियामकमित्याह ।
प्रावल्यमिति ।
जात्या आगमत्वेनैव तेषु प्रकृतेषु प्रत्यक्षानुमानागमेषु स्मृतं वैदिकेषु प्रसिद्धमित्यर्थः ।
ननु वेदैक गम्ये स्वर्गसाधनत्वादौ वेदस्य प्रावल्यप्रतिपादकं तद्वचनं मिथ्यात्वं तु न वैदैक गम्यम् ।
तस्यानुमानादि नापि सिद्ध्युपगमादतस्तत्र श्रुतेः ।
प्रावल्ये तद्वचनं न प्रमाणमिति मत्वाशङ्कते ।
न चेति ।
निराकरोति ।
त्रतेति ।
वेदैकगम्यार्थ इत्यर्थः ।
तथा च वचनस्य तद्विषयत्वे वैद्यर्थ्यं स्यादिति भावः ।
वचनस्य मिथ्यात्वप्रतिपादकश्रुतिप्रावल्यपरत्वे तु सार्थक्यमित्याह ।
शङ्कितेति ।
शङ्कितः प्रत्यक्षेण सह विरोधोपस्य मिथ्यात्वरूपस्य वेदार्थस्य स तथा ।
एतदुक्तं भवति ।
यस्मिन्नर्थे वेद तदितर प्रमाणयोर्विरोधः
प्रसक्तस्तस्मिन्नर्थे द्वयोः प्रामाण्यायोगादन्यतर बाधे कर्तव्ये सति तत्र प्रवलेन दुर्बलस्य वाध इति च स्थिते कस्य प्रावल्यमिति भवत्यपेक्षा तथा च वचनस्यापेक्षितार्थ समर्पकत्वात्सार्थक्यमिति ।
तलवदृश्यते व्योमस्वद्योतो हव्यवाडिव न तलं विद्यते व्योम्नि न खद्योतो हताशनः ।
तत्स्मात्प्रत्यक्षदृष्टेपि युक्तमर्थे परिक्षितुं परीक्ष्यज्ञापयन्नर्थान्न धर्मात्परिहीयत इति नारद स्मृतौ साक्षि प्रकरणे प्रत्यक्षदृष्टस्यापि प्रत्यक्षमविश्वस्य प्रमाणोपदेशादिभिः परीक्षिणीयत्वप्रतिपादनाच्च ।
न हि नभो नैल्यप्रत्यक्षं नभसः शब्दादिषु पञ्चसु शब्दैकगुणत्वप्रतिपादकागमोपदेशमन्तरेण प्रत्यक्षादिनाशक्यमपवदितुम् ।
न च नभसि समीपे नैल्यानुपलम्भात् ॥
ननु प्रत्यक्षस्य क्वचिदप्रामाणो दृष्टे सति प्रपञ्च सत्वग्राहि प्रत्यक्षेपि मिथ्यात्वविरोधि कोट्यनुसन्धानवतांस्यादप्रापाण्यरूपदोषशङ्का ततश्च शङ्कित दोष प्रत्यक्षं मिथ्यात्वश्रुत्यानिर्दोषत्वेन प्रवलया बाध्यत इति वक्तव्यम् ।
तच्च न सम्भवति क्वचिदपि प्रत्यक्षाप्रामाण्यादर्शनादिति सत् व्यातिवादिनः ।
शङ्कां नारदवचनोदाहरणेन
निराकरोति ।
तलवदिति ।
तलमिन्द्रनीलमणिमयकटाहाकारत्वम् ।
तस्मादिति ।
सर्वजनप्रसिद्धस्यापि व्योमादौ तलादि प्रत्यक्षस्याप्रामाण्य दर्शनादित्यर्थः ।
अर्थ इति ।
प्रत्यक्षदृष्टेप्यर्थ इत्यर्थः ।
ज्ञापयन्निति ।
आचार्यः शिष्यान्प्रति शास्त्रार्थान् बोधधयन् धर्मात् श्रेयः साधनभूतात् न प्रच्यवत इत्यर्थः ।
आत्मनः श्रुत्युक्तं साक्षित्वमनुपपन्नम् ।
तस्य बोद्धृत्वेपि कर्तृत्वेनोदासीनत्वा भावादिति पूर्वपक्षे प्राप्तै अहङ्करोमीति प्रत्यक्षमात्रेणात्मनि कर्तृत्वं वास्तवमिति सहसा विश्वासो न कर्तव्यः लोके प्रत्यक्ष दृष्टस्यापि बाधदर्शनादतः प्रत्यक्षदृष्टसपि आत्मनि कर्तृत्वं किं चैतन्यवद्वास्तवं किं वा कल्पितमिति सम्यग्विचार्य श्रुति न्यायाभ्यां कल्पितमेव तदतो न साक्षित्वस्यानुपपतिरिति शिष्यान्प्रतिबोधयन्नाचार्यो धर्मान्न परिहीयत इत्येतद्विषयकं नारदवचन द्वयमिति सूचयति ।
साक्षिप्रकरण इति ।
एवं प्रत्यक्षदृष्टमपि प्रपञ्च सत्वं किं तस्य वास्तवं किं वा काल्पनिकमिति परीक्षायुक्तेत्याशयेन नारदवचनस्य प्रकृतसाधारणं तात्पर्यं कथयति ।
प्रत्यक्षदृष्टस्यापीति ।
प्रमाणपदमागमपरमनुमानार्थापत्त्यादय आदिपदग्राह्याः प्रतिपादनाच्च प्रत्यक्षापेक्षया श्रुतिर्वलीयसीति सम्बन्धः ।
प्रत्यक्षस्य दोषशङ्का कलङ्कितत्वं प्रदर्श्य तस्यागमेन बाधं प्रकृतोपयोगितया
प्रतिपादयति ।
नहीत्यादिना ।
नभोनैल्यप्रत्यक्षं प्रत्यक्षादिना न हि शक्यमपवदितुमिति सम्बन्धः ।
आगमं विनापि नीलं नभ इति प्रत्यक्षस्य बाधकमस्तीति शङ्कते ।
न चेति ।
समीपे गगने रूपानुपलम्भेन समीपे रूपाभावनिश्चये सति दूरेपि तत्र रूपं नास्तीति निश्रीयते रूपस्य व्याप्यवृतित्वनियमेन तदेकदेशवृतित्वायोगादित्यर्थः ॥
दूरे तद्धीर्दूरत्वदोषजन्येति निश्चयेन तुद्बाधदूरे नैल्यदर्शनात् समीपे तदनुपलम्भः तुंहिनावकुठनानुपलम्भवत्समीपत्व दोषजन्म इत्यपि सम्भवात् ।
अनुभवबलान्नभो नैल्यमव्याप्यवृतीत्युपपतेश्च ।
नापि दूरस्थस्य पुंसो यत्र भूसन्निहिते नभः प्रदेशे नैल्यधीस्तत्रैव समिप गतस्य तस्य नैल्य बुद्धेरभावात्प्रत्यक्षेण बाधः ।
उपरिस्थितस्यैव नैल्यस्याभ्रनक्षत्रादेरिवदूरत्व दोषाद्भूसन्निधानावभास इत्युपपतेः ।
पृथिव्यादिषु सङ्कीर्णतया प्रतीयमानान्नां गन्धादीनाम्मुपलभ्याप्सु वायौ च चेद्गन्धं केचिद्भूपुरनैपुणाः ।
पृथिव्यामेव तं विद्यादयो वायुं च संश्रितमित्यादिभिरागमैरेव व्यवस्थाया
वक्तव्यत्वेन प्रत्यक्षादागमप्रावल्यस्य निर्विशङ्कत्वाच्च ॥
कथं तर्ह्यति दूरे नीलं नभ इति धीस्तत्राह ।
दूरे तद्धीरिति ।
तद्बाध इति ।
तस्य नभो नैल्यप्रत्यक्षस्य इति निश्चयेन बाधो ।
न चेत्यत्र हेतुमाह ।
दूरे नैल्यदर्शनादिति ।
तुहिनावकुण्ठनं हिमरूपमावरणं तद्विसमीपे सदपि न दृश्यते ।
दूरे तु वृक्षाद्यावरणरूपत्वेन दृश्यते तद्वत् ।
सर्वत्र गगने विद्यमानमपि रूपं समीपेन दृश्यत इत्यर्थः ।
दोषजन्य इति ।
दोषाधीन स्थितिक इत्यर्थः ।
यथा च श्चतेऽनुपलम्भस्य उपलम्भप्रागभावरूपस्याऽजन्यरूपस्य जन्यत्वाभावादसङ्गतं स्यात्सामीप्यदोषेण तदुपलम्भे निरुद्धे तत्प्रागभावस्य नाशाभावाद्दोषाधीनस्थितिकत्वमस्तीति नासङ्गतिरिति मन्तव्यम् ।
रूपस्य व्याप्यवृतित्वनियममुपेत्यसमीपे तदनुपलम्भस्य गतिरुक्ता इदानीं व्याप्यवृतित्वनियमस्यासिद्धिमाह ।
अनुभवबलादिति ।
नभो नैल्य प्रत्यक्षस्य यौक्तिक निश्चय बाध्यत्वं निरस्य प्रत्यक्षबाध्यत्वमाशङ्क्यनिराकरोति ।
नापीत्यादिना ।
भूसन्निहित गगनभागे कुत्रापि नैल्यं नास्त्येव तत्र तत्प्रतीतिस्तु दूरत्वदोषात्सम्भवतीत्याह ।
उपरिस्थितस्येति तथा च गगननैल्यप्रत्यक्षमागमैक बाध्यमिति
स्थितम् ।
प्रत्यक्षस्यागमेन बाधे उदाहरणान्तरमाह ।
पृथिव्यादिष्विति ।
अप्सुवायौ च पृथिव्यामिव गन्धमुपलभ्य केचिदनैपुणाब्रूयुः ।
तयोरपि गन्धः स्वाभाविक इति तत्र तथा ग्राह्यं किं त्वपो वायुं च संश्रितं गन्धं तदन्तर्गत पृथिव्यामेव स्थितं विद्यादिति वचनार्थः ।
इत्यादिभिरिति ।
आदिपदेनरसोजलमात्रगुणः रूपं तेजोमात्रगुणः स्पर्शो वायुमात्रगुणः शब्द आकाशमात्रगुणः पृथिव्यादिषु रसाद्युपलब्धिरपि ।
पृथिव्याद्यन्तर्गत जलाद्याश्रितरसादिविषयेति व्यवस्थाप्रतिपादक पुराणवचनानि ग्राह्याणि ॥
नह्याजानसिद्धजलोपष्टम्भादिगतं गन्धादि पृथिवी गुण एव न जलादि गुण इत्यादि रूपेणास्मदादिभिः ।
प्रत्यक्षेण शक्यं विवेचयितुम् ।
पृथिव्यादीनां प्रायः परस्परसंसृष्ट तथान्यगुणस्यान्यत्राप्यवभासः सम्भवतीति शङ्कितदोषप्रत्यक्षं तत्रागमेन शिक्ष्यत इति चेत् ।
तहीहापि ब्रह्मप्रपञ्चयोरुपादानोपादेय भावेन परस्परसंसृष्टतयाऽन्यधर्मस्यान्यत्रावभासः ।
सम्भाव्यत इति शङ्कितदोषं प्रत्यक्षमस्तिभाति प्रियं रूपं नामचेत्यंश पञ्चकं
आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयमिति ।
वृद्धोक्त प्रकारेणागमेन व्यवस्थाप्यतामिति तुल्यं न चैव मुपजीव्यविरोधः ॥
ननु जले पुष्पादिरूपपार्थिवांश संसर्गे सति गन्धोपलब्धिरस्तितान्यथेत्यन्वयव्यतिरेकाभ्यामेव गन्धस्य पृथिवीमात्रगुणत्व निर्णय सम्भवात् ।
किमागमेनेति चेत् नेत्याह ।
नहीति ।
आजानसिद्धो यो जलोपष्टम्भः पार्थिवद्रव्यविशेषस्तदादिगतमित्यर्थः ।
जल एव गन्धः क्वचित् स्वाभाविकः क्वचिदौपाधिक इति कल्पनोपपत्तेश्चेतिभावः ।
ननु जलादौ गन्धादि प्रत्यक्षमप्रामाण्यरूपदोषशङ्का ।
कलङ्कितत्वादागमेन शिक्ष्यत इति युक्तं प्रपञ्च सत्वग्राहि प्रत्यक्षं तु तच्छङ्का शून्यमिति कथं तस्यागमेन बाध इत्याशयेन शङ्कते ।
पृथिव्यादीनामिति ।
तस्य तच्छङ्काशून्यत्वमसिद्धमिति तस्यागमबाध्यत्वं युक्तमित्याह ।
तहीन्ति ।
संसृष्टतयेति ।
संसर्गस्तादात्म्यम् ।
अन्य धर्मस्येति ।
जगदुपादानत्वेन श्रुतिसिद्धस्य सद्वस्तुनो धर्मः सता तस्या एव प्रपञ्चे प्रतीतिः सम्भाव्यते ।
अतः प्रपञ्च सत्वग्राहि प्रत्यक्षमन्यसताविषयकत्वेन भ्रान्तिरूपं वा प्रपञ्चस्य स्वाभाविकासताविषयकत्वेन प्रमारूपं वेति ।
शङ्का कलङ्कितमित्यर्थः ।
प्रत्यक्ष बाधप्रकारं वृद्धवचनेन दर्शयति ।
अस्तीति ।
अस्ति घटो भाति घटः ।
प्रियो घट इति घटे सत्वचैतन्यानन्दास्तावदनुभूयन्तै प्रियशब्दस्यानन्दे
मुख्य त्वात् घटस्यानन्द तादात्म्य प्रतीतिरूपपद्यत ।
एवं पदादिष्वपि द्रष्टव्यम् ।
नामघटशब्दादि कम्बुग्रीवाद्यात्मकं वस्तुरूपमंशपञ्चकमंशपञ्चकमंशाः पञ्चयस्य जगतः तदंशपञ्चकमनुभूयते ।
न च कृत्स्नेपि जगति पञ्चात्मकत्वानुभवो नास्ति दुःखं प्रियमित्यनुभवादर्शनादितिवाव्यम् ।
केषाञ्चित् परकीये दुःखे तदनुभवस्यापि सत्वा तथा च सर्वत्रानुगतं सच्चिदानन्दरूपं वस्तुब्रह्मैव ब्रह्मणस्तद्रूपतायाः श्रुतिसिद्धत्वान्नामरूपात्मकरूपमत्रतायाः सर्वाणि रूपाणि विचिन्त्य धीर इत्यादि श्रुतिसिद्धत्वादित्यनेन प्रकारेण प्रपञ्च सत्वग्राहि प्रत्यक्षं जगतः स्वाभाविकसताविषयकं न भवति ।
किं त्वधिष्ठानतया जगत्यनुगतब्रह्मसताविषयकमेवेति व्यवस्थाप्यते श्रुत्येत्यर्थः ।
एवं प्रत्यक्षस्यागमापेक्षयास्वतः प्रावल्यं निरस्य उपजीव्यत्वप्रयुक्तं निरस्यति ।
न चैवमिति ।
प्रत्यक्षस्यागमेन बाधाङ्गिकार इत्यर्थः ।
वर्णपदवाक्यात्मकशब्दप्रत्यक्षं हि श्रुतिजन्यमिथ्यात्वबोधं प्रत्युपजीव्यं शब्दज्ञानं विनाशाब्दबोधानुदया तथा च शुत्याप्रत्यक्षमात्रबाधे शब्दप्रत्यक्षस्यापिबाधः प्रसज्येत तथा चोपजीव्यबाधः स्यादित्यर्थः ॥
अगमप्रमाणेन वर्णपदवाक्यादि स्वरूपांश प्रत्यक्ष्यमुपजीव्यानुपत्रीव्यतत्सत्वांशोपमर्दनादित्याहः ।
नन्वागमस्य प्रत्यक्षात् वलीयस्त्वे यजमानः
प्रस्तर इत्यत्र प्रत्यक्षाविरोधाय यजमानशब्दस्य प्रस्तरे गौणीष्टतिर्न कल्पनीया ।
तथा सोमेन यजेतेत्यत्र वैय्यधिकरण्येनान्वये यागे इष्टसाधनत्वं सोमलतायां यागसाधनत्वं च बोधनीयमिति व्यापारभेदेन वाक्यभेदापतेः सामाधिकरण्येनान्वये वक्तव्ये प्रत्यक्षाविरोधाय सोमवतायागेनेति मत्वर्थलक्षणा न कल्पनीया ।
उभयत्रापि सत्पक्षविरोधे तदनादृत्यागमेन वलियसा प्रस्तरे यजमानाभेदस्य यागे सोमाभेदस्य च सिद्धिसम्भवादिति चेत् ।
अत्रोक्तं भामतीतिबन्धे ।
तात्पर्यवती श्रुतिः प्रत्यक्षाद्वलवती न श्रुतिमात्रं मन्त्रथिवादानां स्तुति द्वारभूतेर्थे वाक्यार्थद्वारभूते पदार्थे इव न तात्पर्यम् ॥
श्रोत्रेन्द्रियेण जायमानं प्रत्यक्षं शब्दस्वरूउपं तस्य सत्वं च विषयी करोति श्रुत्या च सत्वांशय प्रत्यक्षमेव बाध्यते तच्च न श्रुते रूपजीव्यं कल्पितशब्दस्यापि बोधकत्व सम्भवेन शाब्दबोधार्थं तत्सत्वस्यानपेक्षितत्वाद्यच्च शब्दस्वरूपांश प्रत्यक्षमुपजीव्यं तन्न बाध्यते विरोधाभावादतो नोपजीव्यविरोध इति परिहरति ।
आगमप्रमाणेनेति ।
आगममात्रस्य प्रत्यक्षात्प्रावल्यमुक्तमाक्षिपक्षिपत्वि नन्वागमस्येति ।
गौणिति क्रतु निर्वर्तकं
गुणस्तथेति सिद्धान्ते इष्टसाधनत्वं विध्यर्थः ।
ततश्च सोमयजिपदयोर्वैप्यधिकरण्येनान्वये स्वीक्रियमाणे याग इष्टसाधनं सोमो यागरूपेष्टस्य साधनमिति सकृत् छ्रुतस्य विधि प्रत्ययस्य व्यापारभेदापत्या तद्घटितवाक्यस्यापि व्यापारभेदापतेस्तत्परिहारायतयोः सामानाधिकरण्येनान्वयो वक्तव्य इति सिद्धान्ते स्थिते सतीत्यर्थः ।
प्रत्यक्षाविरोधायैति ।
सामानाधिकरण्यपक्षे सोमयागयोरभेदो वक्तव्यः ।
सोयमित्यादि स्थले समानाधिकरणपदद्वयस्य पदार्थद्वयाभेदार्थकतायाः कॢप्तत्वात्स च प्रत्यक्षविरुद्ध इति तत्परिहारायेत्यर्थः ।
सोमवतैति सोमपदस्य मत्वर्थे लक्षणा तथा च सोमवतायागे नेष्टं भावयेदिति मीमांसकरीत्यावाक्यार्थः ।
सिद्धान्तरीत्या तु सोमवदभिन्नो याग इष्टसाधनमिति वाक्यार्थो द्रष्टव्यः ।
सोमस्य यागेन सहमत्वर्थ सम्बन्धश्च वस्तुगत्या क्रियाकारकभावलक्षण इति ज्ञापनार्था सोमेनेति तृतीया भामतीति ।
भासती सञ्ज्ञक ग्रन्थे वाचस्पति मिश्रैरुक्तमित्यर्थः ।
न श्रुतिमात्रमिति ।
तथा च सोमेन यजेतेत्यत्र सोमयागसम्बन्धे श्रुतेस्तात्पर्या भावाच्छ्रुत्यपेक्षया प्रत्यक्ष मे वलवदिति तदविरोधापलक्षणा कल्पनमुचितम् ।
तथा यजमानः ।
प्रस्तर इत्याद्यर्थ वादानामपि स्वार्थे तात्पर्या भावात् ।
प्रत्यक्षप्रावल्यमिति तत्रापि तदविरोधाय गौण्यादिकल्पनं युक्तं प्रपञ्चमिथ्यात्व बोधक श्रुतीनां तु तात्पर्य सत्वात् ।
प्रत्यक्षापेक्षया
प्रावल्यमिति तासां तद्बाधकतुं निष्ट्यत्यूहमिति समाधान ग्रन्थार्थः ।
ननु मन्त्रार्थवादानामपि स्वार्थे तात्पर्यं किं न स्या तत्राह ।
मन्त्रेति ।
तेषां स्वार्थै फलाभावाद्गौरवाच्च तात्पर्यं न कल्पत इति भावः ।
देवस्य त्वेत्यादिभिर्मन्त्रैर्यजमानः प्रस्तर इत्याद्यर्थ वादैश्च विधेय यागस्तुतिर्लक्षणीया तत् श्च मन्त्रादि वाक्यार्थस्य ॥
तात्पर्याभावे मानान्तराविकद्वन्देवताविग्रहादि कथं तेभ्यः सिद्ध्येत् ।
तात्पर्यवत्येव शब्दस्य प्रामाण्यनियमादिति चेन्न ऐत् स्यैवरेवतीषु वारवन्तीयमग्निष्टोमसामकृत्वा पशुकामो ह्येतेन यजेतेति विशिष्टविधेस्तात्पर्यागोचरे विशेषण स्वरूपे प्रामाण्यदर्शनेनोक्तनियमासिद्धेः ।
अत्र हि रेवती ऋगाधारं वारवन्तीयं सामविशेषणं न चैतत्सोमादिविशेषणेवत् लोकसिद्धं येन तद्विशिष्टयागविधिमात्रे प्रामाण्यं वाक्यस्य स्यात्
द्रव्यदेवतादिरूपस्य लक्षणीययास्तत्यासहसम्बन्धो वाच्यः इतरथामन्त्रादीनां स्वज्ञाप्यसम्बन्धाभावेन स्तुतिलक्षकत्वान्वययजेरतस्तुतौ लक्षणीयायां मन्त्रादिवाक्यार्थो द्वारभूतः
पथागङ्गापदेन तीरे लक्षणीये प्रवाहः ।
अतोपि न तत्र तेषां तात्पर्यं लक्षणास्थले द्वारभतार्थे तात्पर्यादर्शनादित्याशयेनाह ।
स्तुतिद्वारभूत इति ।
तत्र स्वयं दृष्टान्तमाह ।
वाक्यार्थद्वारभूत इति वाक्यार्थ तात्पर्येण प्रयुक्तानां पदानां वाक्यार्थप्रतिपतिद्वारभूतेषु स्मारितपदार्थेषु यथा तात्पर्यं नास्ति तथेत्यर्थः ।
विधिपरमन्त्रार्थवादानां स्वार्थे तात्पर्या भावे देवताविग्रहादि प्रतिपादिकानां वज्रहस्तः पुरन्दर इत्यादीनामपि देवताविग्रहादौ स्वार्थे तात्पर्याभावापत्या तेषां देवताविग्रहादि प्रमिति जनकत्वं न स्याद्वेद तात्पर्यविषयत्वस्य वेदजन्य प्रमिति विषयत्वं प्रतिव्यापकत्वाद्व्यापकनिवृत्यातन्निवृतेरावश्यकत्वा तदाहुः ।
यत्परः शब्दः सशब्दार्थ इति तथा च देवताधिकरणविरोधः तत्रान्यपरेभ्योपि मन्त्रादिन्यो देवता विग्रहादि सिद्धिप्रतिपादनादित्याशयेन शङ्कते तात्पर्याभाव इति मानान्तराविरुद्धत्वविशेषणं यजमानः ।
प्रस्तर इत्यादिवारणाय ।
इदमुपलक्षणं मानान्तराप्राप्तस्यापि यतच्च विशेषणमग्निर्हिमस्य भेषजमित्यादि वारणाय ।
अद्येर्हिमभेषजत्वस्य प्रत्यक्षत्यक्ष सिद्धत्वेन तस्यर्थवादतः सिद्ध्य न पेक्षणा तथा च मानान्तरेण विरोधप्राप्त्योरभावे सत्यन्यपरेभ्योपि मन्त्रादिभ्योवगम्यमानोर्थः ।
सिद्ध्यत्येव देवताविग्रहादिश्च तथाविध इति तत्सिद्धिरप्रत्यूहेति प्रतिपादितं देवताधिकरण इति भावः ।
परिहरति ।
नेति
एतस्यैवैति इदमेतद्व्यत्येव देवताविग्रहादिश्च तथाविध इति तत्सिद्धिरप्रत्यूहेति प्रतिपादितं देवताधिकरण इति भावः ।
परिहरति त्पदप्रकृताग्निष्टद्धर्माति देशकं तथा चरेवत्योयारकवारवन्तीयाख्यं सामाग्निष्टोमसामकृत्वा प्रकृताग्निष्टद्धर्मकेणानेतयागेन पशून् भावयेत् इति श्रुत्यर्थः ।
विशिष्टविधेरितिरेवत्याधारकवारवन्तीपसामादि विशेषण विशिष्ट क्रतु भावनाविधेरित्यर्ह्तः ।
उक्तेति ।
शब्दतात्पर्यविषयत्वस्य शाब्दप्रमितिविषयत्वं प्रतिव्यापकत्वरूपनियमासिद्धेरित्यर्थः ।
उक्तमर्थं विवृणोति ।
अत्र हीति ।
न चैतदिति ।
यदि वारचन्तीयं सामरेवतीषु ऋत्त्वध्ययनसिद्धं भवे तदा तस्य विशेषणस्य दध्यादिवल्लोकन एवावगतत्वाद्वाक्यस्य तद्व्यतिरेकार्थ एव प्रमितिजनकत्वरूपं प्रामाण्यं भवेन्नत्वे तदस्ति ।
वारवन्तीय साम्न ऋगन्तरेष्वेवाध्ययनमिद्वत्वादतो वाक्यादेवरेवत्याधारकवारवन्तीयाख्यविशेषणस्य प्रमितिर्वक्तव्येत्यर्थः ॥
नापि विशिष्टविधिनाविशेषणाक्षेपः ।
आक्षेपाद्विशेषण प्रतिपतौ विशिष्टगोचरो विधिस्तस्मिंश्च सति तेन विशेषणाक्षेप इति परस्पराश्रयापतेः ।
अतो विशिष्टविधिपरस्यैव वाक्यस्य विशेषणस्वरूपेपि प्रामाण्यं वक्तव्यं
अथ च तत्र न तात्पर्यमुभयत्र तात्पर्ये वाक्यभेदायतेः ।
एवमर्थवादानामपि विधेय स्तुति पराणां स्तुति द्वारभूतैर्थेन तात्पर्यमिति तेभ्यः प्रत्यक्षस्यैव चलवत्वात् तदविरोधायतेषु वृत्यन्तरकल्पनं सोमेन यजेतेत्यत्र विशिष्टविधिपरे वाक्ये सोमद्रव्याभिन्नतया यागरूपं विशिष्टं विधेयमित्युपगमे तस्य विधेयस्य दध्नाजुहीतीत्यादौ विधेयस्य दध्यादेरिव लोकसिद्धत्वाभावेन विशिष्टविधिपराद्वाक्यादेवरेवत्याधारवारवन्तीयादि विशेषणस्येव ।
विना तात्पर्यं सिद्धिरष्टव्यानष तात्पर्यरहितादागमाद्याग सोमलताभेदग्राहि प्रत्यक्षविरुद्धार्थः सिद्ध्यतीति हेतोः ।
तत्रापि तदविरोधायमत्वर्थलक्षणाश्रयणम् ॥
ननु विशिष्टविषयको विधिरप्रसिद्धविशेषणस्वरूपप्रमिति जनकं रेवतीषुवारवन्तीयं सामकुर्यादित्येवमात्मकं विशेषणविधिमाक्षिपति तथा च तस्य विशेषणस्य नैतद्वाक्यप्रमेयत्वमिति नेत्याह ।
नापीति ।
विशेषणगोचरविधिकल्पनात् ।
पूर्वं विशिष्टविधिनाविशेषणस्वरूपं प्रमितं वा न आद्ये तत्कल्पनं व्यर्थं द्वितीये विध्याक्षेपो न सिध्यति प्रमितस्यैवद्दव्यदेवतासम्बन्धस्य
यागविध्याक्षेपकत्वदर्शना तथा च विशिष्टविधिनानिशेषणविधिराक्षिप्यत् इति वदता आक्षेपात् प्राग्विशेषणस्य प्रमितत्वं वाच्यं तत्प्रमापकश्च कस्त्यितविधिरिति ।
वक्तव्यं ततश्चाक्षिप्तविधिनाविशेषण स्वरूपे प्रमिते सति प्रकृतविधिर्विशिष्टगोचरः सिध्यति ।
तस्मिंश्च प्रकृतविधौविशिष्टगोचरे सति तेन विष्टविधिनाविशेषणविध्याक्षेप इति ।
परस्पराश्रयापत्याविशेषणविध्याक्षेपासिद्धेरित्यर्थः ।
अत इति रेवत्याधारकवारवतीय सामाख्यविशेषणस्य प्रकृतवाक्यादन्यतः प्रमित्यभावादित्यर्थः ।
तर्हि तत्रापि तात्प्र्यमस्तु नेत्याह ।
अथ चेति गौरव्यदिति भावः ।
न च यत्परः शब्दः सशब्दार्थ इति न्यायविरोधः ।
शङ्कनीयः ।
तस्यौत्सर्गिकत्वोपपत्तेः प्रकृते च गौरवलक्षण बाधकसत्वान्न तस्येह प्रसक्तिः ।
एवमिति विशिष्टविधेर्विशेषणरूप इवेत्यर्थः ।
न तात्पर्यमिति ।
तथा च तात्पर्याविषयेपि रेवतीवारवन्तीय विशेषणस्वरूपे श्रुतेः ।
प्रमिति जनकत्ववदन्यपसणामपि मन्त्रादीनां देवताविग्रहादि प्रमिति जनकत्वं सम्भवतीति न देवताधिकरणविरोध इति भावः ।
प्रकृतमाह ।
तेभ्य इति ।
मन्त्रार्थ वादेभ्यस्तोत्पर्यरहित श्रुतिवाक्येभ्य इति यावत् ।
सोमेन यजेतेत्यत्रसामानाधिकरण्ये नान्वय इति सिद्धान्ते कथं प्रत्यक्षविरोधः कथं वा तदविरोधावलक्षणा
कल्पनमित्याकाङ्क्षायामाह सोमेनेति ।
तत्रापीति ।
यजमानः यस्तर इत्यत्रैवेत्ययि शब्दार्थः ।
प्रत्यक्षाविरोधाय वृत्यन्तरकल्पनमात्रैदृष्टान्तः न तु मत्वर्थलक्षणांशेपीति बोध्यम् ॥
अद्वैतश्रुतिस्तूपक्रमोपसंहारैकरूप्यादि षद्भिधिर्लिगावगमिता- द्वैत तापर्याप्रत्यक्षाद्वलवतीति ततः प्रत्यक्षस्यैव वाधः ।
न तदविरोधाय श्रुतेरन्यथा नयनमिति ।
विवरणवार्तिके तु प्रतिपादितं न तात्पर्यवत्वेन श्रुतेः प्रत्यक्षात्प्रावल्यं कृष्णलं श्रययेर्दिति विधेः श्रपणस्य कृष्णलार्थत्व प्रतिपादने तात्पर्येपि कृष्णले रूपरसपरावृतिप्रादुर्भावपर्यन्त सुख्यश्रषणसम्बन्धः प्रत्यक्षविरुद्ध इति तदविरोधाय श्रयणशब्दस्योष्णीकरणमात्रे लक्षणाभ्युपगमात् ।
तत्वमसीति वाक्यस्य जीवब्रह्माभेदप्रतिपादने तात्पर्येपि त्वं पदवाच्यस्य तत्पदवाच्याभेदः प्रत्यक्षविरुद्ध इति ।
तदविरोधाय निष्कृष्टचैतन्यलक्षणाभ्युपगमाच्च
ननु द्वैतस्य मिथ्यात्वबोधकाद्वैतश्रुतेरपि न स्वार्थे मिथ्यात्वे तात्पर्यं मानाभावा तथा च द्वैतसत्वग्राहि प्रत्यक्ष
विरोधपरिहारायाद्वैतश्रुतेरप्यन्यथानयनमेव न्याय्यमिति ।
नेत्याह ।
अद्वैत श्रुतिस्त्विति ।
तात्पर्यलिङ्ग्यानि च शास्त्रे व्यक्तानि तत इत्यद्वैतश्रतेः सकाशादित्यर्थः ।
वाचस्यत्युक्तं तात्पर्यस्य प्रावल्यप्रयोजकत्वं दूषयति ।
विवरणवार्तिके त्विति ।
कृष्णलाः सुवर्णविकारानूतामाषाः कृष्णल शेषत्वेन श्रयणं विधीयत इति श्रुतेस्तत्र तात्पर्यं सिद्धमिति भावः ।
रूपरसपरावृति प्राद्वर्भावोनामपूर्वरूपरसादिनाशपूर्वकं रूपरसाद्यन्तरोत्पतिः तत्पर्यन्तो योधि श्रयणादि व्यापारः स एव श्रयणशब्दस्य मुख्योर्थः तत्सम्बन्ध इत्यर्थः ।
कृष्णलानामधिश्रयणज्वालादिसम्पादनरूपे पाके कृतेपि रूपरसादिपरावृति प्रादुर्भावो नास्तीति प्रत्यक्षसिद्धमितिभावः ।
नन्वत्र श्रयणं विधीयते ।
तच्च न प्रत्यक्ष बाधितं ज्वालाधिश्रयणादि क्रियारूपपाकस्यैव श्रयणशब्दार्थत्वेन तस्य तत्रापि सम्भवात् ।
रूपरसादि परावृत्ति प्रादुर्भावस्तु न धात्वर्थः ।
तस्य पाकफलस्य कर्मत्वरूपस्य द्वितीयार्थत्वात् ।
फलसाविध्य योग्यत्वेन विधेय श्रपणरूपत्वायोगाच्च ।
तथा च विधेय श्रपणस्य दृष्टप्रयोजनाभावाददृष्टार्थविधिः पर्यवस्यतीतिश्चति तात्पर्यविषयश्रपणस्य प्रत्यक्षबाधाभावादुष्णीकरणमात्रे श्रयणपदस्य लक्षणा न सम्पन्नेत्यस्वरसोदाह ।
तत्वमसीति वाक्यस्येति ।
निष्कृष्टेति निःकृष्टं विशिष्टरूपाद्वाव्यार्थात् ।
पृथकृन्तविशेष्यमात्रं यच्चैतन्ये तत्रेत्यर्थः ।
अत्रेदं बोध्यं महावाक्यानाम
खण्डैकरसचैतन्यरूपवस्तुमात्रबोधने तात्पर्यम् ।
कुतः तमेवैकं जानथ आत्मानं तमेव विदित्वाति मृत्युमेति ।
एकधैवानुदूष्टव्यमित्यादि श्रुतिसहस्रेण मुक्तिसाधनीभूतमहावाक्यार्थ ज्ञानं प्रतितादृशवस्तुमात्रस्यैव विषयत्वे न नियमनात् ।
श्रुतीनामेषोर्थः ।
यस्मिन् कृत्स्नं जगदध्यस्तन्तमात्मानं जानथ हे मुमुक्षवः अत्राधेयस्य कृत्स्नस्य जगतः ज्ञे ॥
अर्थवादानामपि प्रयाजाद्यङ्गविधिवाक्यानामिव स्वार्थप्रमितावनन्यार्थतया प्रमितानामेवार्थानां प्रयोजनवशादन्यार्थतेति प्रयाजादिवाक्यवतेषामप्यवान्तरसंसर्गे तात्पर्यमस्त्येव वाक्यैक वाक्य त्वात् ॥
यत्वनिषेधार्थमवधारणमेकपदं च एकरसत्व प्रतिपादनपरं मुमुक्षुज्ञेयस्यात्मनो नानारसत्वे एकपदमनर्थकं स्यादेकत्व सङ्ख्यायोग्यस्यात्मन एकवचनादेवसिद्धत्वादस्याः श्रुतेरिदं तात्पर्यद्युभ्वाद्यधिकरणभाष्ये स्फुटं दार्शितं तमेव प्रकृतं परमात्मानमेव न तु तद्व्यतिरिक्तमण्वपीत्येव कारार्थः ।
विदित्वा साक्षात्कृत्य मृत्युशब्दितं संसारमुत्येति एकधैव एकरूपेणैव शास्त्राचार्योपदेशमनुद्रष्टव्यमिति ।
तच्चाखण्डैकरसवस्तुमात्रे बोधने तात्पर्यं महावाक्येषु तत्वमादिपदानां लक्षणां विना नतिर्वहतीति तेषु तात्पर्यानुसारेणैव
लक्षणाभ्युपगमः न तु प्रत्यक्षविरोधपरिहाराय परं तु तत्वं पदयोश्चैतन्यमात्रे लक्षणां स्वीकृत्यवाक्यार्थबोधाभ्युपगमे प्रत्यक्षविरोधोपि परिहृतो भवतीत्ये तावन्मात्रेण प्रत्यक्षविरोधपरिहाराय महावाक्येषु लक्षणेति निबन्धनेषु व्यवहारः ।
तथा च सत्यपि तात्पर्ये तदनादृत्य प्रत्यक्षविरोधपरिहारायैव महावाक्येषु लक्षणाभ्युपगमा तात्पर्यस्य प्रावल्यप्रयोजकत्वं नास्तिति प्रतिपादनं मन्दमिति ।
यतु मन्त्रार्थ वादानां स्तुति द्वारभूते स्वार्थे तात्पर्यं नास्तीत्युक्तं तदूषयति ।
अर्थवादानामपीति अनन्यार्थता स्वार्थपरतेत्यर्थः ।
तर्ह्यर्थ वादानां विधिशेषत्वं न स्यादित्याशङ्क्याह ।
प्रमितानामेवेति मानान्तरसंवादविसंवादरहितार्थवादादिभिरितिशेषः ।
तेषां स्वार्थप्रमितिमात्रेण फलाभावाद्विधेयस्तावकत्वेन विध्येकवाक्यं त्वं कल्प्यत इत्यर्थः ।
यथा प्रयाज्वादिकर्मणां प्रयोजनाकाङ्क्षावशे प्रयाजादिवाक्यानां फलवद्दर्शपूर्णमासविधिवाक्यैरेकवाक्यत्वं तथेति भावः ।
अवान्तरसंसर्ग इति ।
अर्थवावानामपि विध्यन्वयात्प्राक् स्वरसतः प्रतीयमाने देवताया विग्रहादि संसर्गे अवान्तरतात्पर्यमस्तीत्यर्थः ।
प्रयाजादिवाक्यानामर्थवादादि वाक्यानां च स्वार्थप्रमितौ तात्पर्ये हेतुमाह ।
वाक्यैक वाक्यत्वादिति ।
वाक्यानां सतामेवतैषां विधिवाक्यैरेकवाक्यत्वाभ्युपगमात् ।
वाक्यानां च वाक्यार्थे तात्पर्यस्य सामान्यतः सिद्धत्वादित्यर्थः ॥
परैकवाक्यतायामेव परमवान्तरतात्पर्यानभ्युपगमादिति विवरणाचार्यैर्न्यायनिर्णये व्यवस्थापनेन ।
यजमानः प्रस्तर इत्यादिनामपि मुख्यार्थ तात्पर्य प्रसक्तौ प्रत्यक्षाविरोधायैवलक्षणाभ्युपगमाच्च ।
कथं तर्हि श्रुतैः प्रावल्यमुच्यते ।
निर्दोषतात् परत्वाच्च श्रुतिमात्रं प्रत्यक्षात्प्रवलमित्युत्सर्गः ।
किं तु श्रुतिबाधितमपि प्रत्यक्षं कथं चित्स्वोचितीवंषयोपहारेण सम्भावनीयं निर्विषयज्ञानायोगात् ।
अत एवाद्वैत श्रुतिविरोधेन तत्वावेदनात्प्रच्यावितं प्रत्यक्षमर्थक्रियासमर्थव्यावहारिकविषयसमर्पणेनोपपाद्यते ॥
यत्तु वाक्यार्थद्वारभूते पदार्थ इवेति स्तुति द्वारभूतेर्थे तात्पर्याभावे दृष्टान्तप्रदर्शनं तद्विघटयति ।
पदैकवाक्यतायामेवेति ।
पदानां सतामेकवाक्यार्थबोधनेनैकवाक्यत्वमित्यर्थः ।
तत्र पदार्थानां वाक्यार्थस्येवापूर्वत्वाभावान्न तेष्टवान्तरत्वापिर्यमपीति स्वीक्रियत इत्यर्थः ।
एतेन रेवत्याधारकवारवन्तीयस्ममाख्यविशेषणेपि तात्पर्यं व्याख्यातम् ।
वाक्यस्य वाक्यार्थे तात्पर्यस्योत्सर्गतः
सिद्धताद्विशिष्टविधेर्विशिष्टभावनायां तात्पर्यवत्वान्नु तस्य विशेषणेषु तात्पर्यं सिध्यति विशिष्टविधितात्पर्यविषयत्वस्य विशेष्यमात्रवृतित्वेत तात्पर्यस्य विशिष्टविषयकत्वानुपपतेः सीमांसकानां विशिष्टविधिर्विशेषणेषु तात्पर्याभावव्यवहारस्य विशेषणेषु प्रत्येकं तात्पर्याभावपरत्वा तस्मात् तात्पर्यविषय एवेवेदस्य प्रमिति जनकत्वमिति नियमस्य न्यायनियमस्य न्यायनिर्णयविवर्णाञ्चार्यैर्व्यवस्थापितत्वेनेत्यर्थः ।
ततः किं तत्राह यजमानः प्रस्तरम् इत्यादीनामिति ।
उक्तरीत्यातुषामपि यजमानप्रस्तराभेदादौ तात्पर्ये स्यादेव तच्च प्रत्यक्षेण बाध्यत इति वक्तव्यसतस्तात्पर्यवत्वं श्रुतेः ।
प्रावल्यप्रयोजकं न भवतीत्यर्थः ।
अत्र मन्त्रार्थवादानामपि प्रयाजादिवाक्यानामिव स्तुतिद्धारभूतेर्थे यद्यवान्तरतात्पर्यमवश्यकल्पनीयं तर्ह्यस्तुत तात्पर्यस्य न प्रावल्ये प्रयोजकत्वक्षतिः ।
महातात्पर्यस्य तत्प्रयोजकत्व सम्भवादद्वैतश्चतीनां प्रपञ्च मिथ्यात्वे महातात्पर्याभ्युपगमेन तत्र प्रपञ्च सत्वग्राहिप्रत्यक्षस्य मिथ्यात्व श्रुत्याबाधोपपतेरित्यादिकमालोचनीयम् ।
तहीति ।
तात्पर्यस्य प्रावल्यप्रयोजकत्वाभावे सतीत्यर्थः ।
ननु श्रुति मात्रस्य प्रावल्ये सिद्धे तस्यौत्सर्गिकत्वं वक्तव्यं स्यातदेव कुत इति चेन्न प्रावल्ये अन्यदपि हेतुद्वयं दर्शयतिति द्वोषत्वात्परत्वाच्चेति ।
उत्सर्ग इति ।
श्रुति तदितरप्रमाणयोर्विरोधे सति
श्रुतिरेवबाधिका भवति ।
यत्र च श्रुतिबाधितं प्रत्यक्षादि निरवकाशं भवति ।
त्वन्न निरवकाशेन तेन श्रुतिरेव बाध्यते ।
सावकाश निरवकाशयो निरवकाशं वलवदिति न्यायादित्यर्थः ।
ननु श्रुतिबाधितस्य प्रत्यक्षादेर्निरवकाशत्व स्थले तेन श्रुतेर्बाधः ।
किमर्थमुपेयते तत्राहै किं त्वित्यादिना ।
सम्भावनीयमुपपादनीयमित्यर्थः ।
अतदवेति ।
निर्विषयप्रत्यक्षायोमादेवेत्यर्थः ।
प्रच्यावितमिति श्रुति बाधितस्य द्वैतस्य तत्वरूपत्वा योगादद्वैतबाधकप्रत्यक्षस्य तत्वावेदकत्वरूपात् ।
प्रामाण्यात् प्रच्यावितत्वं बोध्यम् उपपाद्यते भाष्यादिष्वितिशेषः ॥
किं बहुनानेदं रजतमिति सर्वसिद्धप्रत्यक्षबाधितमपि शुक्तिरजतप्रत्यक्षमनुभवानुरोधात्युरोदेशे शुक्तिसम्भिन्नरजणेपगमेनैन समर्थ्यतेन तु तद्विरोधेन व्यवहितमान्तरमसदेववारजतं विषय इति कल्प्यते ।
एवं च प्रस्तरे यजमानभेदग्राहिणो यावत् ब्रह्मज्ञानमर्थक्रियासंवादेनानुवर्तमानस्य प्रत्यक्षस्य प्रातिभासिकविषयत्वाभ्यपगमैनोपपादनायोगाद्यजमानः प्रस्तर इति श्रुति बाध्यत्वे सर्वथा निर्विषयत्वं स्यादिति तत्परिहारायोत्सर्गमपौद्य श्रुतिरेव ॥
श्रुतिबाधितप्रत्यक्षादीनां सिद्धान्ते व्यावहारिक प्रामाण्योयगमेन प्रत्यक्षज्ञानस्य निर्विषयत्वरूपं निरवकाशत्वं सिद्धान्त संसतं न भवतीत्युपपाद्यतत्रकैमुतिक न्यायमाह ।
किं बहुनेति ।
अद्वैत श्रुति बाधित घटादि प्रत्यक्षस्य निर्विषयत्वोपगमे सर्वव्यवहारो छेदप्रसङ्गलक्षणं बाधकं यथा विद्यते न तथा शुक्तिरजतान्दि प्रत्यक्षस्य निर्विषयत्वोपगमे बाधकमस्तिकैश्रिदसतोपि रजतादेर्भानोपगमा तथापि तस्य तत्कालोत्यत्र रजतादि विषयकत्वं सिद्धान्ते स्वीक्रियते अनुभवस्य निर्विषयत्वा योगातस्माच्छति बाधितस्य प्रत्यक्षस्य निरवकाशत्वं यत्र प्रसज्जते ।
तत्र तेन श्रुति वायो युक्तः सिद्धान्तसम्मतश्चेति श्रुतेः ।
प्रावल्यमौत्सर्गिकमित्ये तत्सिद्धमितिभावः ।
शुक्तिसम्भिन्नेति ।
शुक्ति तादात्म्यापन्नेत्यर्थः ।
व्यवहितमिति ।
बाह्यदेशान्तरस्थामित्यर्थः ।
आन्तरमिति ज्ञानाकाररूपमित्यर्थः ।
न कल्प्यत इत्य च हेः तद्विरोधेनेति ।
रजतस्येदमर्थ्या भिन्नत्वानुभवविरोधेनेत्यर्थः ।
व्यवहितरजतादीनामिदमर्थ तादात्म्यासम्भवादितिभावः ।
एवं चेति विरोधस्थले निरवकाशमानान्तरेण श्रुतिबाधे न्याय्ये सतीत्यर्थः ।
ननु प्रस्तर यजमानयोरभेदश्रुतिबाधितस्य तयोर्भेद प्रत्यक्षस्य शुक्तिरजतप्रत्यक्षवत् प्रातिभासिकविषयसम्भवान्न तत्रैतेन श्रुतिबाधः कल्पनीय इति नेत्याह ।
प्रातिभासिकविषयत्वाभ्युपगमेनेति ।
प्रत्यक्षविषयस्य प्रस्तरे यजमानभेदस्य
प्रातिभासिकत्वासम्भवे युक्ति सूचयति ।
यावदिति ।
यथा शुक्तिरजतस्य ब्रह्मज्ञानात्यागेवमेदं रजतमिति प्रत्यक्षेण निवृतिः स्वोचितार्थ क्रियाऽभावश्च ।
तस्य प्रातिभासिकत्व हतुरस्तित तथा प्रस्तरयजमानमेदस्य प्राकृब्रह्मज्ञानाद्बाध अर्थक्रियासामर्थ्याभावश्च प्रातिभासिकत्वहेतुरस्तीत्यर्थः ।
यावद्ब्रह्मज्ञानमनुवर्तमानस्येत्यस्य ब्रह्मज्ञानात्प्राक् बाधरहितस्येत्यर्थः ।
अर्थक्रियासंवादेनेत्यस्यार्थ क्रियासमर्थभेदविषयकत्वेनेत्यर्थः ।
बाध्यत्व इति प्रस्तरे यजमान भेद ग्राहिणः प्रत्यक्षस्येत्यनुषङ्गः सर्वथेति अयमर्थः ।
प्रातिभासिकभेदविषयकत्वं तस्य प्रत्यक्षस्य न सम्भवतीत्युक्तं तथा व्यावहारिकभेदविषयत्वं तस्य न सम्भवतीत्यनुपदमेव वक्ष्यते ।
पारमार्थिक भेदश्चाद्वैत श्रुतिविरोधादेवनाभ्युपगन्तुं शक्यते ।
तथा च तस्य निर्विषयत्वरूपं निरवकाशत्वं स्यादेवेति श्रुतिरेवान्यथा नीयत इति सम्बन्धः ॥
तत्सिद्ध्यधिकरणादि प्रतिपादितप्रकारेणान्यथा नीयते न चाद्वैतश्रुति प्रत्यक्षयोरिवेह श्रुति प्रत्यक्षयोस्तात्विकव्यावहारिकविषयोपगमेन प्रत्यक्षोपपादनं कर्तुं शक्यं ब्रह्मातिरिक्तसकलमिथ्यात्वप्रतिपादक षद्विध तात्पर्यलिङ्गोयपन्नानेक श्रुतिविरुद्धेनैकेनार्थवादेन प्रस्तरे यजमान तादात्म्यस्य तात्विकस्य प्रतिपादनासम्भवात् ॥
अन्यथा नयनप्रकारमाह ।
तत्सिद्धीति ।
मुख्यार्थस्याभेदस्य प्रत्यक्षविरोधेनासम्भवात् ।
प्रस्तरे यजमान शब्दस्य गौणवृतौ कल्पनीयायां को गुण इत्याकाङ्क्षायां सूत्रकारेण गुणो दर्शितः ।
तत्सिद्धीति ।
तस्य क्रतोः सिद्धिरुपकारो यजमान प्रस्तरसाध्यो गुणः तयोः क्रतु निर्वर्तकत्वरूपं सादृश्य गुण इति यावत् ।
एवमन्येवामप्यर्थवादानां प्रत्यक्षविरोधपरिहाराय यथा सम्भवमालम्बमानि जैमिनिना भगवता अधिकरणान्तरेषु कल्पितानीत्यर्थः ।
नन्वद्वैत श्रुति प्रत्यक्षयोर्विरोधस्थले पारमार्थिकमद्वैतं श्रुति विषयः व्यावहारिक द्वैतं प्रत्यक्ष विषय इति व्यवस्था यथा कल्प्यते ।
तथा प्रकृतेपि यजमानप्रस्तरयोर्वास्तवाभेदः श्रुतिविषयः कल्पित भेदः प्रत्यक्षविषय इति व्यवस्थाकल्प्यतामिति नेत्याह ।
नदेति ।
इहेति ।
यजमाः न प्रस्तर इत्यत्रेत्यर्थः ।
यजमानः प्रस्तर इत्यर्थवादेन तयोस्तात्विक तादात्म्यं प्रतिपादयितुं न शक्यं ब्रह्माद्वेत श्रुतिभिर्विरोधान्न चाद्वैत श्रुतीनामपि विधिरूपत्वाभावेनार्थवादत्वा विशेषाद्विनिगमनाचिरह इति वाच्यम् ।
तथापि तासां बहुत्वेन विनिगमनाविरहानवतारादित्याशयेनाह ।
अनैकेति ।
किं च यजमान प्रस्तरानेदे तस्यार्थ वादस्य तात्पर्थ नास्ति तद्ग्राहकलिङ्गाभावादद्वैत श्रुतीनां च स्वार्थे तात्पर्यग्राहकलिङ्गानिषद्विधान्यपि सन्ति ।
तथाहि छान्दोगे षष्टध्याये सेदेवसौम्येदमग्र आसीदेकमेवाद्वितीयमित्युपक्रम्य ऐतदात्म्यमिदं सर्वमिति सर्वात्मकमद्वितीयं वस्तूपसंहरति श्रुतिरत उपक्रमोपसंहारयोरैकरूप्यलक्षणेन लिङ्गेन तस्याध्यायस्या द्वितीये वस्तुनि तात्पर्यं निश्चीयते ।
हे सोम्य इदं परिदृश्यमानं जगत्सृष्टेः प्रागद्वितीयमेकरूपं ब्रह्मैवासीदितिश्चेकै तुं पुत्रं प्रति उद्दालकवचनमिदं सर्वमैतदात्म्य मे तदात्मकं प्रकृतसद्वस्त्वात्मकमित्यर्थः ।
भावप्रत्ययो अविवक्षित इत्यर्थः ।
ऐतदात्म्यमिदं सर्वम्मिति वाक्यस्या सकृत्यावादभ्यास सिद्धिरद्वितीयवस्तुनो मानान्तरायोग्यत्वादपूर्वत्वसिद्धिः आचार्यवान् पुरुषो वेदेति वाक्येन प्रकृताद्वैत सद्वस्तुज्ञानं प्रकृत्यसम्पति वाक्येन तस्य मुक्तिलक्षणफल श्रवणात् ।
फलमपि तत्र तात्पर्यग्राहकमस्ति पितृपुत्राख्यापिकादि रूपार्थवादश्च ततात्मर्यग्राहकस्तत्रास्तिमृदादि दृष्टान्तैः प्रपञ्चस्य ब्रह्मकार्यत्वप्रतिपादनपूर्वकं ब्रह्मानन्यत्व प्रतिपादनमुपयतिस्तत्रास्ति तथा च षद्विधैस्तात्पर्यलिङ्गैरद्वितीयवस्तु परत्वं तस्याध्यायस्य सिद्ध एवमध्यायाम् ॥
एवं तत्वमसिवाक्येन त्वं पदवाच्यस्य सर्वज्ञत्वा भोक्तृत्वादि विशिष्टब्रह्मरूपत्व बोधने तत्रासर्वज्ञत्वभोक्तृत्वादि प्रत्यक्षमत्यन्त निरालम्बनं
स्यादिति तत्परिहारायाहङ्कारशम्बलितस्य भोक्तृत्वादि ततो निष्कृष्टस्य शुद्धस्योदासीन ब्रह्मरूपत्वमिति व्यवस्थामाथित्यभागत्यागलक्षणा श्रीयते ।
एवं कृष्णलं श्रययेदित्यादावपि प्रत्यक्षस्यात्यन्त निर्विषयत्वप्रसक्तौ तत्परिहाराय श्रुतौ लक्षणा ॥
तरेषु श्रुत्यन्तरेषु च तात्पर्यलिङ्गानि द्रष्टव्यानि ।
तथा च उक्त तात्पर्यलिङ्गैरुपे तत्वादद्वैतश्रुतीनां प्रावल्यमित्वाशयेनाह ।
षद्विधेति ।
ननु तर्हि व्यावहारिको यजमान प्रस्तरयोरभेदः ।
श्रुत्यर्थोस्तु ततश्च व्यावहारिक तदमेद प्रतिपादकश्रुतिबाधितं तयोर्भेदप्रत्यक्षमपि व्यावहारिकभेदविषयकमस्तु ।
तथा च प्रत्यक्षस्य निरवकाशत्वा भावान्न श्रुतिबाधकत्वमिति चेन्न समान सताकयोर्भेदाभेदयोरेकत्रासम्भवेन ।
तथा कल्पनायोगादस्तु तर्हि प्रातिभासिकस्तयोरभेदः ।
श्रुत्यर्थ न शुक्तो रजताभेदस्यैव प्रस्तरे यजमानाभेदस्य प्रत्यक्षप्रतिभास्य भावादितिभावः ।
श्रुते प्रत्यक्षात्प्रावल्यमित्युत्सर्गस्य यजमानः प्रस्तर इत्यत्रापवादस्थलं दर्शंयित्वा अपवादस्थलान्तरमाह ।
एवं तत्वमसीति ।
तत्वमसीति वाक्येन हि स्वरसतः किं चिह्नत्वं कर्तृत्वभोक्तृत्वादिविशिष्टचैतन्यरूप जीवस्य तद्विपरीतेन सर्वज्ञत्वा भोक्तृत्वा भोक्तृत्वा कर्तृत्वादिविशिष्ट
चैतन्यरूपेण ब्रह्मणा सहाभेदः सार्वकालिकः प्रतिपाद्यते ।
तदनुरोधेन जीवे सदासर्वज्ञत्वादि धर्माङ्गीकारें जीवे तद्विरुद्धा सर्वज्ञत्व कर्तृत्वादिरूपसंसारोवगाहि प्रत्यक्षं निरालम्बनं स्यादतो निरवकाशसंसारप्रत्यक्षेण श्रुतेर्बाधः स्वीकर्तव्यः स च बाधो विशेष्यचैतन्यांशमात्राभेदप्रतिपादकत्वेन श्रुतेः ।
सङ्कोचरूप एव न तु यजमानः प्रस्तुर इत्यत्रेव कार्त्स्येन मुख्यार्थं त्यक्त्वागौणार्थकल्पनरूप इति विशेष इत्यर्थः ।
अहङ्कारशबलि तस्येति ।
अन्तःकरणविशिष्टचैतन्यस्येत्यर्थः ।
भागत्यागेति ।
त्वं पदवाच्यस्य द्वौभागौस्तः विशेषणभागो विशेष्यभागश्चेति तत्र विशेषणरूपस्य भागस्य त्यागपूर्वकं त्वं पदस्य विशेष्यभागे चैतन्यमात्रे लक्षणा स्वीक्रियते ।
एवं तत्पदार्थेपि द्रष्टव्यम् अपवादस्थलान्तरमाह ।
एवं कृष्णलमिति ।
प्रसक्ताविति ।
श्रुतिवलात्कृष्णलेषु रूपरसपरावृतिप्रादुर्भावपर्यन्तयाकरूपसाश्रपणस्याङ्गीकारे तेषु प्रपणाभावप्रत्यक्षस्य विषयो न लभ्यते ।
अद्वैत श्रुतिविरोधेन तेष्वपारमार्थिकस्य श्रपणाभावस्यासम्भवात् ।
श्रुत्यक्त श्रपणस्य तेषु व्यावहारिकस्यैव वक्तव्यतया तेषु तदभावस्यापि व्यावहारिकस्यासम्भवात् ।
व्यावहारकाले बाधरहितस्य श्रपणाभावस्य प्रातिभासिकत्वासम्भवाच्च तस्मात् प्रर्क्षनिर्विषयं स्यादित्यर्थः ।
एवं सौमें न यजेतेत्यत्रापि सोमेन यागेनेष्वं
भावयैदिति वाक्यार्थे स्थिते श्रुतिवलात्सोमयागयोरभेदाङ्गीकारे तयोर्भेदग्राहि प्रत्यक्षं निरवकाशं स्यादिति तद्विरोधपरिहाराय सोमपदस्य मत्वर्थलक्षणा स्वीक्रियत इति दृष्टव्यम् ॥
नेह नानास्ति किञ्चनेत्यत्र कथञ्चिद्विषयोपपादनसम्भवे तु न प्रवलायाः ।
श्रुतेरन्यथा नयनमिति न कश्चिदप्यव्यवस्था प्रसङ्गः ।
अथ वा कृष्णलं श्रययेत्सोमेन यजेतेत्यादौ न प्रत्यक्षानुरोधेनलक्षणाश्रयणं किं त्वनुष्टानाशक्त्या न हि कृष्णले उष्णीकरणमात्रमिव मुख्यः पाकोनुष्टातुं शक्यते न वा सोमद्रव्यकरणयो याग इव तदभिन्नो यागः केन चिदनुष्टातुं शक्यते ।
न चानुष्टेयत्वाभिमतस्य प्रत्यक्षविरोधयवानुष्टानाशक्तिरिति शब्दान्तरेण व्यवह्रियत इति वाच्यम् ।
शशिमण्डलं कान्तिमत्कुर्यादिति विधावनुष्टेयत्वाभिमतस्य शशिमण्डले कान्तिमत्वस्य प्रत्यक्षाविरोधेप्यनुष्ठानाशक्तिदर्शनेन तस्यास्ततोभिन्नत्वात् ।
तथा च तत एव तत्र लक्षणाश्रयणम् ।
तस्मादपछेदन्यायादि सिद्धस्य श्रुति च लीयस्त्वस्य न कश्चिद्धाध इति ।
अथ कथमत्रापछेदन्यायप्रवृतिः उच्यते ॥
एवं निरवकाश प्रत्यक्षेण श्रुतिबाधमुत्सर्गस्यापवादरूपं दर्शयित्वा श्रौसर्गिकं श्रुति प्रावल्यं प्रकृताभिप्रायेण दर्शयति ।
कथञ्चिदिति ।
द्वैतमिथ्यात्व श्रुतीनां तत्सत्यग्राहिप्रत्यक्षस्य च विरोध स्थले प्रत्यक्षस्य श्रुतिबाधितस्यापि न निरवकाशतम् ।
कल्पित द्वैत तद्गत सता जात्यादिविषयकत्वेन सावकाशत्वादतोत्र श्रुत्याप्रत्यक्षस्यैव बाध इति भावः ।
कथञ्चिदित्यस्य कल्पित द्वैतादि समर्पणेन वेत्यर्थः ।
कथञ्चिच्छब्दात् पूर्वं प्रत्यक्षस्येति शेषः ।
न कश्चिदपीति ।
तात्पर्यस्य प्रावल्यप्रयोजकत्वपक्षे यथा तात्पर्यविषयस्यापि श्रयणादेर्बाध दर्शनरूपा अव्यवस्था प्रसक्ता न तथा श्रुति प्रावल्यौत्सर्गिकत्व पक्षे साप्रसज्यते अनुपलम्भादित्यर्थः ।
ननु प्रत्यक्षेण श्रुतिबाधे बह्नन्युदाहरणानि दर्शितानि श्रुत्या प्रत्यक्षबाधोदाहरणं त्वेकमेव दर्शितं तथा च प्रत्यक्षस्य श्रुत्यपेक्षया प्रावल्यमत्सर्ग इति वक्तव्य न तु वैपरीत्यमित्यस्वरसादाह ।
अथवेति ।
तदभिन्न इति ।
सोमाभिन्न इत्यर्थः ।
तस्या इति ।
अनुष्टानाशक्तेरित्यर्थः ।
तत इति प्रत्यक्षविरोधादित्यर्थः ।
तत एवेति ।
अनुष्टानाशक्तेरेव न तु प्रत्यक्षविरोधादतो न प्रत्यक्षप्रावल्यस्यौत्सर्गिकत्वम् आगमबाध्यानां गगननैल्य प्रत्यक्षादीनां भूयसां प्राग्दर्शितत्वादित्यर्थः ।
तस्मादिति ।
आगप्रावल्यस्यौत्सर्गिकत्व सम्भवादित्यर्थः ।
न कश्चिद्बाध इति ।
आगमस्य प्रत्यक्षात्प्रावल्ये यजमानः प्रस्तर इत्यादावपि यजमान प्रस्तराभेदादि सिद्धिप्रसङ्ग इति यो बाध आशङ्कितः
पूर्वं स नास्ति तस्य बहुभिः प्रकारैः परिहृतत्वादित्यर्थः अपछेदन्यायं प्रकृते योजयितुमाक्षिपति ।
अथ कथमिति ।
कथं शब्दसूचितस्याक्षेपस्य विवरणं तन्निराकरणं च यत्वित्यादिना भविष्यति प्रथमं तं न्यायं प्रकृते यौजयति ।
उच्यत इति ॥
यथा ज्योतिष्टोमेवहिष्यवमानं सर्षतामद्ज्ञातुरपछेदे सति यद्युद्ज्ञातापछिद्येतादक्षिणं यज्ञमिष्ट्वा तेन पुनर्यजेतेति श्रुतिनिरीक्षणेन जातोद्रात्रऽपछेदनिमित प्रायश्चित्त कर्तव्यताबुद्धिः पश्चात् प्रतिहर्त्रऽपछेदे सति यदि प्रतिहर्तापछिद्येत सर्ववेदसन्दद्यादिति श्रुति निरीक्षणेन जातया तद्विरुद्धप्रतिहर्त्रऽपछेद निमित प्रायश्चित्त कर्तव्यता बुद्ध्या बाध्यते ।
एवं घटादि सत्यत्व प्रत्यक्षं परया तन्मिथ्यात्व श्रुतिजन्य बुद्ध्या बाध्यते ।
न चोदाहृतस्थुले ।
पूर्वनैमितककर्तव्यता बुद्धेः परनैमितिक कर्तव्यता बुद्ध्या बाधेपि पूर्वनैमित्तक कर्तव्यताबुद्धिजनकं शास्त्रं यत्रोद्ज्ञातृमात्रापछेद उभयोरपि युगपदपछेदो वा उद्गात्रऽपछेदस्य परत्वं वा तत्र सावकाशम् ।
प्रत्यक्षं त्वद्वैत श्रुत्यावाधे विषयान्तराभावान्निरालम्बनं स्यादिति वैषस्यं शङ्कनीयम् ॥
बहिष्यवमानं स्तोत्रमुद्दिश्यान्वारब्धतयागछता मृत्विजां मध्ये उद्गातुरपछेदे सति आरब्धं क्रतुमदक्षिणतया समाप्य पुनः स एव क्रतुरनुष्टेय इति तदपछेदनिमितकमारच्ये क्रतोरदक्षिणतया समापनं प्रायश्चिततयाविहितम् ।
तथा प्रतिहर्त्रःपछेदनिमितकं सर्वस्वदानरूपदक्षिणादानविशिष्टतया आरब्धस्यैव क्रतोः समापनरूपं प्रायश्चितं विहितम् ।
तथा च एकस्मिन् प्रयोगे दैवात् क्रमेणोभयोरपछेदे सति विरुद्धयोरुक्ते प्रायश्चितयोरनुष्टातुमशक्यत्वादन्यतरस्यानुष्टेयत्वे स्थिते सति किं पूर्वनिमितक प्रायश्चितमनुष्टेयं किं वा उत्तरनिमितकमिति विषये निणैयमाह ।
उद्गातुरपछेद इत्यादिना ।
यत्र प्रयोगे प्रथममुद्गातुरपछेदो भवति तत्प्रयोगाभिप्रायोयं ग्रन्थः ।
श्रुतिनिरीक्षणेनेति ।
निमितोहुयजननानन्तरमेव नैमितकशास्त्रस्य बुद्धिस्थत्वादिति भावः ।
अपछेदनिमितकर्तव्यताबुद्धिरिति ।
उद्गात्रऽपछेदो निमितं यस्य प्रायश्चितस्य तदुद्गात्रऽपछेदनिमितं तस्य कर्तव्यता बुद्धिरित्यर्थः ।
तद्विरुद्धेति उद्गात्रयछेदनिमित कर्तव्यता तच्छब्दार्थः तद्विरुद्धत्वं च कर्तव्यताविशेषणमेवमिति ।
एकस्मिन् प्रयोगे अदक्षिणत्व सर्वस्वदक्षणाकत्वयोरिव एकत्रघटादि प्रपञ्च सत्यत्वमिथ्यात्वयोरपि विरुद्धत्वातद्बुद्ध्योर्बाध्य बाधकत्व इति भावः ।
न चोदाहृत
स्थल इति ।
यत्र प्रथममुद्गात्रऽपछेदस्तत्रेत्यर्थः ।
शास्त्रमिति ।
यद्युद्गातापछिद्येतेति शास्त्रमित्यर्थः ।
युगपदिति ।
उद्गाता प्रतिहर्त्रः पछेदयोर्यौगपद्यस्थले उद्गात्रःपछेदनिमितकमेव प्रायश्चितमनुष्टेयमित्याथस्तं वाचार्यैरुक्तत्वादितिभावः ।
प्रत्यक्षं त्विति द्वैत सत्यत्व प्रत्यक्षमित्यर्थः ।
अद्वैत श्रुत्येति ।
द्वैतमिथ्यात्व श्रुत्येत्यर्थः ।
विषयान्तराभावादिति ।
द्वैत प्रपञ्चे प्रतीयमान सत्वस्य श्रुत्वाबाधे सति तत्र सत्वान्तरा भावात् सत्व प्रक्षं निर्विषयं स्यान्न चैतद्युज्यते प्रत्यक्ष ज्ञानस्य निर्विषयत्वादर्शना तदनुपगमाच्चेति भावः ॥
यत्र घटादौ श्रुतिबाध्यं प्रत्यक्षं प्रवर्तते तत्रैव व्यावहारिकं विषयं लब्धा कृतार्थस्य तस्य परापछेदस्वलेमर्वथा बाधितस्य पूर्वापछेदशास्त्रस्येव विषयान्तरान्वेषणाभावदिहापि सर्वप्रत्ययवेद्य ब्रह्मसतायां सावकाशं प्रत्यक्षमिति वक्तुं शक्यत्वाच्च यत्वेकस्मिन्नपि प्रयोगे क्रमिकाभ्यां निमित्ताभ्यां क्रतौ ततत् नैमितिक कर्तव्यतयोः वदरफलेश्यामरक्तरूपवोरिव क्रमेणोत्पादादूपद्वज्ञानवत्कर्तव्यताज्ञानद्वयमपि प्रमाणमेवेति न परेण पूर्वज्ञानबाधेःपछेदत्याय उदाहरणम् ।
अत एवापछेदाधिकरणेनै
मिकशास्त्रस्य ह्ययमर्थः ।
निमितो यजननान्प्रागन्यथा कर्तव्योपि क्रतुर्निमिते सत्यन्यथा कर्तव्य इति शास्त्रदीपिकावचनमिति ।
द्वैत प्रपञ्चे पारमार्थिकस्य सत्वस्य श्रुत्या अपहृतत्वेपि व्यावहारिकस्य तत्सत्वस्य तयानुयहृतत्वात् ।
सत्व प्रत्यक्षस्य न निरवकाशत्वमिति परिहरति ।
यत्रेति ।
विषयमिति सत्वरूपमितिशेषः ।
ननु ब्रह्मणि सत्वं पारमार्थिकं घटादि प्रपञ्चे सत्वं व्यावहारिकं शुक्तिरजतादौ सत्वं प्रातिभासिकमिति सत्तात्रैविध्यपक्षे घटादि सत्वप्रक्षस्य विषयान्तरं नान्वेषणियं व्यावहारिक सत्वस्य घटादौ विद्यमानस्यैव तद्विषयस्य विविरुद्धापछदस्थले सर्वथा बाधितस्य पूर्वापछेदनिमितक प्रापश्रितशास्त्रस्यैत्याशङ्क्याह ।
इहापीति द्वैतसत्वप्रत्यक्षं घटादि द्वैते सतामलभमानेमपि न निरचकाशं पूर्वापछेदनिमितक प्रायश्चितशास्त्रस्य प्रयोगान्तरे सावकाशत्ववदिहापि घटादि द्वैतादन्यत्र तदधिष्ठानभूतब्रह्मसतायां सावकाशत्व सम्भवादित्यर्थः ब्रह्मस्वरूपसतायाः प्रत्यक्षविषयत्वेकैयुतिक न्यायमभिप्रेत्याह ।
सर्वेति ।
सर्वप्रत्ययवेद्यत्वं सता विशेषणं लोके हि यद्यद्वस्तुमनसिस्कुलाभादेकैव सर्वत्र सतेति पक्षे व्यावहारिक सत्व प्रातिभासिक सत्वयोरभावात् सत्वप्रत्यक्षस्य विषयान्तरमन्वेषणियमेव यथा उतरभार रति तत्सर्वं सदित्येव प्रतीयते ।
अतः सर्वस्य जगतः सता
सर्वप्रत्ययवेद्यासा च सर्वाधिष्ठान ब्रह्मसतैव न तु तदतिरिक्ताकल्पनागौरवादितिभावः ।
पूर्वं कथं शब्दसूचितमाक्षेपमिदानीमुद्भावयति ।
यत्विति ।
वदरफल इति ।
यथा तत्र पूर्वं श्यामरूपमुत्पद्यते तत्रैव प्रश्चात् पूर्वरूपनाशपूर्वकं रक्तरूपमुत्पद्यते तथा पूर्वनिमितेन जातमात्रे पूर्वनैमितिक कर्तव्यता जायते याश्चात्ये न च निमितेन पूर्वकर्तव्यतानाशपूर्वकमुत्तरनैमितककर्तव्यतोत्पाद्यत इत्यर्थः ।
ततः किं तत्राह ।
रूपद्वयज्ञानवदिति ।
तथा चोतरभावि विरुद्धापछेदवत्यपि क्रतौ पूर्वनैमितिक शास्त्रस्य नाप्रामाण्यमिति तत्प्रामाण्य संरक्षणमेव तथा कल्पकमिति भावः ।
उतरनिमितो यजननात्प्राक पूर्वनैमितिक कर्तव्यता वस्तु तत्रासीदित्यत्र सम्मतिमाह ।
अत ऐवति पूर्वं वस्तुतस्तदभ्युपगमादेवेत्यर्थः ।
उतरभाविप्रतिहर्त्रःपछेदजननात्प्रागन्यथा अदक्षिणतया वस्तुतः कर्तव्योपि क्रतुः पश्चात् प्रतिहर्त्रऽपछेदरूपे निमिते सत्यत्थथा सर्ववे दक्षिणतया कर्तव्य इति शङ्ककाभिप्रायानुसारेणवनार्थः ॥
तत्र अङ्गस्य सतः कर्तव्यत्वं न च पश्चाद्भावि प्रतिहर्त्रऽपछेदवति क्रतौ पूर्वप्रवृतोद्गात्रःपछेदनैमितकस्य प्रायश्चितस्याङ्गत्वमस्ति ।
आहवनीपशास्त्रस्य पद होमातिरिक्त होमविषयत्ववद्युद्गातेति शास्त्रस्य पश्चाद्भवि प्रतिहर्त्रःपछेदरहित
क्रतु विषय त्वात् ।
उक्तं हि न्यायरत्नमालायाम् ।
साधारणस्य शास्त्रस्य विशेषविषयादिना सङ्कोचः कॢप्तरूपस्य प्राप्तवाधो विधीयत इत्युक्त लक्षण प्राप्तवाध विवेचने ।
तत्रैवं सति शास्त्रार्थो भवति पश्चाद्भाव्युद्गात्रऽपछेदविधुर प्रतिहर्त्रःपछेदयतः क्रतोः सर्ववेद सदानमङ्गमेव मुद्गात्रऽपछेदेपि द्रष्टव्यमिति ।
यतु शास्त्रदीपीकावचनमुदाहृतम् ।
तदपि तेनोत्पन्नमपि पूर्वप्रायश्चित ज्ञानं मिथ्या भवति बाधितत्वात् ।
उत्तरस्य तु न किञ्चिद्बाधकमस्तीति पूर्वकर्तव्यता बाध्यत्व प्रतिपादक ग्रन्थोपसंहारपठिततात् ॥
क्रमेण विरुद्धापछेद द्वयवति क्रतौ पूर्वनैमितिकस्य कर्तव्यतानि व्यातौमानं नास्तीति तत्र पूर्व प्रायश्चितस्यानङ्गत्वादनङ्गत्वं च द्बोधकमानाभावातन्न च पूर्वनैमितिकशास्त्रं ततृमानम् ।
तस्य प्रयोगान्तरेषु सावकाशत्वेन तत्राप्यङ्गबोधकत्वा भावादित्याशयेन दूषयति ।
तत्रेति ।
आहवनीयेति ।
आहवनीय जुहोतीति होममात्रे आहवनीयं विधातुं प्रवृतस्य सामान्यशास्त्रस्य होमविशेषे पदरूपाधिकरण विधायकविशेषशास्त्रवशेन पदहोमातिरिक्त होमेष्वाहवनीय विधायकत्ववदित्यर्थः ।
क्रतु विषयत्वादिति ।
तादृश क्रतावेव उद्गात्रऽपछेदनिमितक
प्रायश्चितस्यागत्व बोधकत्वादित्यर्थः ।
उक्तार्थे सम्मतिमाह ।
उक्तहीति ।
कॢप्तरूपस्य प्रत्यक्षसिद्धस्य साधारणस्य होममात्रे प्राप्तस्याहवनीये जुहोतीति शास्त्रस्य विशेषशास्त्रेण यः सङ्कोचः सः प्राप्तबाधोभिधीयते ।
यथा सामान्यशास्त्रयोरेव क्वचिद्विषये विरोधे सति पूर्वप्राप्तस्य पश्चात् प्राप्तं परत्वाहाधकं भवति यथा विरुधापछेदनिमितक शास्त्रयोस्तथा च विशेषविषयादि नेत्यादि पर्दे परत्वादि सङ्ग्रहार्थमिति श्लोकार्थः ।
तत्रैवं सुतीति ।
अपछेद स्थले उतरज्ञानेन पूर्वज्ञानबाधे सतीत्यर्थः ।
द्रष्टव्यमिति ।
पश्चाद्भावि प्रतिहर्त्रज्यछेदविधुरस्य उद्गात्रऽपछेदवतः ।
क्रतोरदक्षिणतया क्रतु समापनमङ्गमिति ज्ञातव्यमित्यर्थः ।
शास्त्रदीपिकावचनमपि न त्वदभिमतार्थ परं तत्पूर्वग्रन्थविरोधात् पूर्वग्रन्थार्थनिगमनरूपस्य त्वद्वराहृतवचनस्य पूर्वग्रन्थानुसारेणैव नेतव्यत्वाच्चेत्याह तदपीति ।
तदपि कृत्वा चिन्तामात्र परमिति सम्बन्धः ।
कृत्वा चिन्ता परत्वे हेतुमाह ।
तेनेत्यादिना ।
तेनेत्यस्य कॢप्त पूर्वप्रवृति नैमितिक शास्त्रेणेत्यर्थः ॥
निमितो यजननात्प्रा"न्निमितोपजननं विना निमितोपजननाभावे सत्यन्यथा कर्तव्योपीति कृत्वा चिन्तामात्रपरं न तूतरनिमितोपजननात्प्राक् पूर्वनैमितिक कर्तव्यता वस्तुतः आसीदित्येवं
परम् ।
पूर्वग्रन्थसन्दर्भविरोधापतेः ।
आस्ताम्मीमांसकमर्य्यादा श्यामरक्तरूपे न्यायेन क्रमिक कर्तव्यता द्वयोत्यत्युपगमे को विरौधः ।
उच्यते किं तत्कर्तव्यत्वं यत्परनैमितिक कर्तव्यतोत्पत्यानिवर्तते ।
न तावत् पूर्वनैमितिकस्य कृति साध्यत्वयोग्यत्वम् ।
तस्य पश्चादप्यनपायात् ।
नापि कलमुखं कृति साध्यत्वम् ।
तस्य पूर्वमप्यजननात् ।
नापि यदननुष्टाने क्रतोर्वैकल्पं तत्त्वमङ्गत्वं वा ॥
परोदाहृतवचनस्य शास्त्रदीपिकागतपूर्वग्रन्थानुसारिणमर्थमाह ।
निमितोपजननं विनेति ।
क्रमेणविरुधापछेदद्वद्वयवति क्रतौ यदि द्वितीयमितोपजननं न स्या तदा पूर्वतिमितवशादन्यथा कर्तव्यो भवेदप्ययं क्रतुर्न त्वेतदस्तीत्ये तदर्थ परोयं ग्रन्थ इत्यर्थः ।
पराभिमतं तद्वचनार्थं निषेधति ।
नन्विति ।
तिष्ठं तु मीमांसकाः दर्शित दर्शिनः कुशलैरस्माभिः कल्पितस्य श्रुत्यर्थस्य कानुपपतिरिति शङ्कते ।
आस्तामिति ।
उतरनैमितिक कर्तव्यतोत्पत्त्यानाश्यत्वेन पराधिमतं पूर्वनिमितिकस्य कर्तव्यत्व मे विवतावद्दर्निरूपं तथा हि तत्किं कृतिसाध्यत्वयोग्यत्वं किं वा फलमुखं कृति साध्यत्वं क्रतु वैकल्पप्रयोजकाननुष्ठानप्रतियोग्यनुष्ठान शालित्वं
वा अङ्गत्वं वा अन्यद्वा किञ्चिदिति विकल्पं मनसिति धायाद्यं दूषयति ।
न तावदिति ।
अनुपायादिति ।
तथा चोत्तरनैमितिक कर्तव्यता कालेप्यनुवर्तमानायाः पूर्वकर्तव्यतायाः तन्नाश्यत्वाव्यारोनवदरफलगतश्यामुतारक्तरयोरिवतयोः क्रमिकत्वाभ्युपगमविरोध इति भावः ।
द्वितीयं दूषयति ।
नापि फलेति अजननादिति ।
तथा च पूर्वनैमितिक कर्तव्यताज्ञानस्य मीमांसकमर्य्यादासिद्धं भ्रान्तित्वमेवायातितनत्वदभिमतं श्यामताज्ञानस्येव प्रामत्वमितिभावः ।
तृतीयचतुर्थावनुदति ।
नापि यदिति ।
यस्यानुष्ठानाभावे क्रतोर्वैकल्पं भवति तत्क्रतुकैकल्पप्रयोजकाननुष्ठान प्रतियोग्यनुष्ठानशालित्वं पर्यवस्यति तत्वमित्यर्थः ।
यत्र प्रथममुद्गात्रःपछेदः पश्चात्प्रतिहर्त्रऽपछेदः तत्र उद्गात्रऽपछेदप्रायश्चिताननुष्ठानं क्रतु वैकस्त्यप्रयोजकं तत्प्रायश्चितं तस्य क्रतोरङ्गमिति च वदता वक्तव्यम् ।
पूर्वप्रायश्चिताननुष्ठानस्य क्रतु वैकल्पप्रयोजकत्वं किं वैकल्पोत्पादकत्वं किं वा तद्व्यापकत्वं तद्व्याप्यत्वं वा नाद्यः ।
अभावरूपस्याननुष्ठानस्य उत्पादकत्वासम्भवात् ।
क्रतु वैकल्पस्यापि क्रतूपकारप्रागभावरूपतया तदुत्पाद्यत्वायोगाच्च न द्वितीयः ।
यत्रोद्गातृमात्रापछेदवति क्रतौ तत्प्रायश्चितं कृतं कारणान्तराद्वैकल्पं च तत्र क्रतु वैकल्प सत्वेपि उद्गात्रऽपछेदप्रायश्चिताननुष्ठानाभावेन व्यभिचारा तस्मात् तृतीयः परिशिष्यत इत्याशयेनाह ॥
अननुष्ठाने क्रतु वैकल्पप्रयोजकत्वस्य नियमविशेषरूपत्वेन कर्माङ्गत्वस्य फलोपकारितयासन्निपतितया वा कारणत्वविशेषरूपत्वेन च त्वयोः कादाचित्कत्वायोगेन स्वाभाविकत्वनिर्वाहाय पश्चाद्भाविविरुद्धापछेदाभाववतः क्रतोः पूर्वापछेदनैमितिकं मङ्गं तत्रैव तदनुष्ठानं क्रतु वैकल्पप्रयोजकम् इति विशेषणीयतपापाश्चात्पापछेदवति क्रतौ पूर्वापछेदनैमितिके क्रत्वं गत्वस्य तदननुष्ठाने क्रतु वैकल्पप्रयोजकत्वस्य वा पाश्चात्पापछेदोत्पतेः पूर्वमसम्भवात् ।
जहि वस्तु किञ्चित्कालं व्याप्यं पश्चान्नेति वा किञ्चित्कालङ्कारणं पश्चान्नेति वा क्वचिदृष्टं युक्तं वा नापि कर्तव्यत्वं नामधर्मान्तरमेवागमापाययोग्यं कल्पनीयं मानाभावात् ॥
नियमविशेषरूपत्वेनेति ।
व्याप्यत्वरूपत्वेनेत्यर्थः ।
फलोपकारित्वं परमापूर्वरूपफलं प्रत्यदृष्टद्वाराकारणत्वं यथा प्रयाजादीनां सन्निपत्योपकारकत्वं च यागस्वरूपोत्पादकत्वं यथा द्रव्यदेवत्वादेरस्तुतयो रुक्तरूपत्वमिति चेतत्र वक्तव्यम् ।
क्रमिकविरुद्धापछेदद्वयवति क्रतौ पूर्वपापश्चिताननुष्ठानगतं
क्रतु वैकल्पव्याप्यत्वरूपं तु वैकल्पप्रयोजकत्वं पूर्वप्रायश्चित गतमङ्गत्वं च द्वितीय निमित जननानन्तरमप्यनुवर्ततेनवेति ।
आद्ये क्रतु वैकल्पप्रयोजकाननुष्ठान प्रतियोग्यनुष्ठानशालित्वरूपाः पूर्वप्रायश्चित कर्तव्यतायाः तत्प्रायश्चितगताङ्गत्वरूपकर्तव्यतायाश्च उतरनैमित कर्तव्यतानाश्यत्वाभ्युपगमभङ्गापतेः ।
द्वितीय कल्पे च पूर्वप्राथश्चिताननुष्ठानस्य क्रतु वैकल्पाव्याप्यत्वं द्वितीय निमित जननात् प्रागेवास्ति तज्जननानन्तरं तु नास्तीति पर्यवस्यति ।
तथा पूर्वप्रायश्चित गतागत्वरूपा कर्तव्यता पूर्वप्रायश्चितस्य द्वितीय निमितजननात्प्रागेवास्ति पश्चात् तु नास्तीति पर्यवस्यति ।
तथा च व्याप्यत्वकारणात्वयोः स्वाश्रये कादाचित्कत्वमभ्युपगन्तव्यं स्या तच्च न सम्भवतीत्यनुपदमेव वक्ष्यति ।
न हीत्यादिना ।
तस्मातयोर्यावदाश्रय भावित्वरूपस्वाभाविकत्वनिर्वाहायक्रमिकविरुद्धापछेदवक्त्र तु व्यावर्तकविशेषणमुभयत्रापि देषमित्याह ।
पश्चाद्भावीति ।
असम्भवादिति ।
तथा च क्रमिकविरुद्धापछेदवति क्रतौ पूर्वनैमितिक कर्तव्यताज्ञानं भ्रान्तिरेवेति भावः ।
तयोः कादाचित्कत्वायोगे हेतुमाह ।
न हीति ।
धूमादौ वह्न्यादि व्याप्यतापाः वह्न्यादौ धूमादिकारणतायाश्च कादाचित्कत्वादर्शनादित्यर्थः ।
नन्वदृष्टसपि युक्तं चेत्सङ्ग्राह्यमेव नेत्याह युक्तं वेति ।
वाकारो न जनुकर्षणार्थः ।
तयोः कादाचित्कत्वपक्षे धूमादौ कदाचिद्वह्न्यादेः व्याप्यत्वाभावापत्या तदभावप्रयोजकोपाधिमत्वप्रसङ्गः स्याद्वह्न्यादेः
कदाचिद्रूमादिकारणत्वाभापत्याधूमादिकार्यार्थिनो वह्न्याद्युपादाने तत्कारणकत्वाभावशङ्कयानिष्कम्पप्रवृतिश्च न स्यादतस्तयोः कादाचित्कत्वमयुक्तमित्यर्थः ।
पञ्चमं निराकरोति ।
नापीति ।
प्रथमनिमितजननानन्तरमेवा मम योग्यं द्वितीयनिमितजननानन्तरमेवापाययोग्यं चेत्यर्थः ॥
विरुद्धापछेदशास्त्रयोः पदाहवनीय शास्त्रवद्व्यवस्थोपपतेः ।
तस्मान्निरालम्बनं क्रमिक कर्तव्यता द्वयोत्पति वचः ।
ननु चोपक्रमाधिकरणन्यायेनासञ्जातविरोधित्वात्प्रत्यक्षमेवा- गमाद्वलीयः किं न स्यात् ।
उच्यते ।
यत्रैक वाक्यता प्रतीयते तत्रैकस्मिन्नर्थे पर्यवसानेन भाव्यम् अर्थभेदे प्रतितैकवाक्यताभङ्गप्रसङ्गात् ।
अतस्तत्र प्रथमसंसञ्जात प्रतिपक्षेण प्रजापतिर्वरुणा अमनयदित्याद्युपक्रमेणपरकृतिसरूपार्थ वादेन दातुरिष्टौ बुद्धिमधिरोपितायां तद्विरुद्धं यावतोश्चात्प्रतिगृह्णीया तावती वारुणांश्चतुः कपालान्निर्वपेदित्युपयं ह्यंहारगतं पदजातसुपसञ्जात प्रतिपक्षत्वाद्यथा श्रुतार्थसमर्पणेन तदेक वाक्यतामप्रतिपद्यमानसेकवाक्यतानिर्वाहायणिजर्थ- मन्तर्भाव्य
तदानुगुण्येनैवात्मानं लभत इत्युपक्रमस्य प्रावल्यं यत्र तु परस्परमेकवाक्यता न प्रतीयते तत्रैव पूर्ववृत्तमविगणप्यलब्धात्मकं विरुद्धार्थकं वाक्यं स्वार्थं बोधयत्ये वेति न तः त्वपूर्ववृतस्य प्रावल्यम् ।
अत एव षोडशि ग्रहवाक्यं पूर्ववृतमविगणय्य तद ग्रहवाक्यस्यापि स्वार्थबाधकत्वमुपैयते ॥
पूर्वनैमितिकशास्त्रग्रावहनीयादि शास्त्रवदन्यत्र सावकाशतायाः ।
उक्त त्वेन तस्यै तादृश धर्मे मानत्वायोगादित्वाशयेनाह ।
विरुद्धेति ।
क्रमिकविरुद्धापछेदवति क्रतौ पूर्वनिमितिककर्तव्यत्वज्ञानस्य प्रमात्वासम्भवात् सति विरोधे उतरज्ञानेन पूर्वज्ञानबाधे अपछेदन्याय उदाहरणं भवत्येवेत्याशयेनोपसंहरति ।
तस्मादिति ।
नन्वपछेद न्यायेन श्रुतेः प्रत्यक्षापेक्षया प्रावल्यावगति वदुपक्रमाधिकरणन्यायेन प्रत्यक्षस्यापि श्रुत्यपेक्षया प्रावल्यावगमाजयोर्बाध्य बाधकभावे विनिगमनाविरह इत्याशयेन शङ्कते ।
ननुवति ।
अज्ञञ्जातिति ।
यथा उपक्रमवाक्यार्थ ज्ञानकाले उपसंहारवाक्यार्थ ज्ञानाभावेन विरोधस्फुरणाभावादुपक्रमस्यासञ्जातविरोधित्वं तथा द्वत सत्वप्रवृतिकाले द्वैत मिथ्यात्वबोधक श्रुत्यर्थानुभवा भावेन
विरोधस्फूर्त्यभावात् ।
प्रत्यःक्षस्यासजातविरोधित्व मित्यर्थः ।
दृष्टान्त वैषम्येण परिहरति ।
उच्यत इति ।
अथ मनय यदिति ।
अश्चन्दतवान् इत्यर्थः परस्य प्रजापतेः कृतिरनुष्ठानं परकृतिः परकृतिपदं तत्प्रतिपादकवाक्यपरं तत्सदृशार्थवादेनेत्यर्थः ।
प्रजापतेः कर्माधिकाराभावेन वस्तु तस्तुत्प्रतिपादकत्वान्नावादिति स रूपेत्युक्तम् ।
दातुरिति ।
स एतं वारुणं चतुष्कपालमपश्यत्तन्निरवपदित्युपक्रमे श्रवणादिति भावः ।
स इत्यनेन प्रकृतः प्रजापतिः परामृश्यते उपक्रमोपसंहारयोर्वरुणेष्टिरूपैकार्थस्पर्शित्वातयोरत्रैक वाक्यत्वमवगतं तत्संरक्षणायानयोरेकार्थपर्यवसानं वक्तव्यम् ।
उपक्रमोदातुरिर्ष्टं विधे उपसंहारः प्रतिगृहीतुरिति यथा श्रुतवाक्यार्थाभ्युपगमे प्रतितैकवाक्यत्वं न स्यादित्यर्थः ।
णिजर्थमिति प्रतिगृह्णीयादित्यस्य प्रतिग्राहायेदित्यर्थः ।
एकवाक्य तु प्रतीति स्थल एवोतरस्य पूर्वापेक्षेत्युक्त्वार्थ दार्ढ्याय एकवाक्यत्वप्रतीत्यभावस्थले उतरेण पूर्वं नादर्त्तव्यमित्याशयेनाह ।
यत्र त्विति ॥
किन्तूभयोर्विषयान्तराभावादगत्या तत्रैव विकल्पानुष्ठानमिष्यते ।
एवं चाद्वैतागमस्य प्रत्यक्षेणैकवाक्यताशङ्क्यभावात्पूर्ववृतमपि तदविगणय्य स्वार्थबोधकत्वमप्रतिहतम् ।
तदर्थ बोधजनने च पूर्वं परमजातत्वादबाधित्वैव जायते ।
परस्यानन्यथोत्पादान्नाऽद्याऽबाधैन सम्भव इत्यप
छेदन्यायस्यैव प्रवृतिर्नोपक्रमन्यायस्य ।
अत एव लोकेपि ।
प्रथमप्रवृतं शुक्तिरूप्यप्रत्यक्षमाप्तोपदेशेन बाध्यत इति ।
ननु तथाप्युपजीव्यत्वेन प्रत्यक्षस्यैवल्यं दुर्वारमपछेदशास्त्रयोर्हि न पूर्वं परस्योपजीव्यमिति युक्तः परेण पूर्वस्य बाध इह तु वर्णपदादि स्वरूपग्राहकतया मिथ्यात्वबोधकमागमं प्रतिप्रत्यक्षस्योपजीव्यत्वादागमस्यैव तद्विरुद्धमिथ्यात्वाः बोधकत्वरूपो बाधो युज्यते ।
न च मिथ्यात्व श्रुत्यावर्णपदादि सत्यत्वांशोपमर्द्देप्युपजीव्यस्वरूपांशोपमर्द्दाभावान्नोप- जीव्यविरोध इति वाच्यम् ।
नेह नानास्ति किञ्चनेत्यादि श्रुतिभिः स्वरूपेणैव प्रपञ्चाभावबोधनात् ॥
नत्वेकस्मिन्नति रात्र क्रतौ षोडशि ग्रह तदभावयोर्विरुद्धत्वाद्वाक्यद्वयं कथं प्रमाणं स्यादिति शङ्कते ।
किं त्विति ।
प्रयोगभेदेन विरोधसमाधानमाह ।
उभयोरिति ।
ननु ग्रहणवाक्यं तन्निषेधवाक्यं वक्रतु भेदेन व्यवस्थापितं किं न स्यादित्यत आह ।
विषयान्तराभावादिति तयोर्वाक्ययारैकप्रकरणगतत्वादित्यर्थः ।
अगत्येति ।
समुच्चयस्याप्यसम्भवेनेत्यर्थः ।
तत्रैवेति ।
अतिरात्र एवेत्यर्थः ।
एवं चेति ।
उपक्रम न्यायस्यैक वाक्यताक ग्रन्थविषयत्वे सतीत्यर्थः ।
शङ्काभावादिति ।
तथा च त्वप्रत्यक्षस्य श्रुत्युपेक्षया प्रावल्यशङ्केति भावः
अपछेदन्यायप्रवृतिं शङ्कासमाधानाभ्यां निरूप्यनिगमयति ।
तदर्थेति ।
पूर्वमिति ।
क्रमिकविरुद्धापछेदवति क्रतौ प्रथमापछेदनिमितकप्रायश्चित कर्तव्यता ज्ञानं पूर्वशब्दार्थः ।
उत्तरनैमितिक कर्तव्यताज्ञानं परशब्दार्थः पूर्वेण परस्य बाधाभावे हेतुमाह ।
अजातत्वादिति परस्यानन्यथा पूर्वज्ञान बाधमन्तरेण उत्पत्ययोग्यत्वादाद्यस्याबाधेन परस्य सम्भवो नास्तीति श्लोकार्थः ।
पूर्वप्रवृतस्य प्रत्यक्षस्यापि परेणशब्देन बाधे उदाहरणमाह ।
अत एवेति ।
परत्वादेवेत्यर्थः ।
नन्विति ।
यद्यपीयं शङ्का न चैवमुपजीव्य प्रत्यक्षविरोध इत्यादिना निराकृतापूर्वमेव ।
तथापि तक्रोक्तं परिहारमाक्षेप्तुं तच्छङ्कापरिहारी पुनर्लिखितौ ।
तथापीति ।
आगमवत्प्रत्यक्षस्य स्वतः प्रावल्यो भावेपि इत्यर्थः ।
नन्वपछेद न्यायेन श्रुतेरपि प्रावल्यं दुर्वारं तथा च बाधकभावे विनिगमनाविरह एवेति शङ्क कस्य नेष्ट सिद्धिः प्रत्यक्षेण श्रुति बाधस्य तदिष्टत्वादित्याशङ्क्यापछेदन्यायानवतारं शङ्ककः ।
प्रकृते दर्शयति ।
अपछेदशास्त्रयोर्हीति ।
उपजीव्यविरोधशङ्कायां पूर्वोक्तं परिहारं स्मारयति ।
न च मिथ्यात्व श्रुत्येति ।
श्रुत्या प्रपञ्च सत्यत्व मात्रप्रतिषेधे सति तथा परिहारो युज्यते सा तु प्रपञ्च स्वरूपमेव निषेधति ।
तथा च वर्णपदादि स्वरूपस्यैवाभावादुपजीव्यविरोधो दुर्वार इत्याह ।
नेहेति ।
इह ब्रह्मणि नानाभिन्नं वस्तु किञ्चिदपि नास्ति इत्यर्थः ॥
अत्र केचिदाहुः ।
वृषमानयेत्यादि वाक्यं श्रवण
दोषाद्वृषभमानयेत्यादिरूपेण श्रुतवतोपि शाब्दप्रमिति दर्शनेन शाब्दप्रमितौ वर्णपदादि प्रत्यक्षं प्रमा भ्रमसाधारणमेवापेक्षितमित्यद्वैतागमेन वर्णपदादि प्रत्यक्षमात्रमपजीव्यस्वरूपोपमर्द्देपि नोपजीव्यविरोध इति ।
अन्ये त्वाहुः ।
शाब्दप्रमितौ वर्णपदादि स्वरूपसिद्ध्यनपेक्षायामपि अयोग्यशब्दात्प्रमित्यनुदयाद्योग्यतास्वरूपसिद्ध्यपेक्षास्ति ।
तदपेक्षायामपि नोपजीव्यविरोधः ।
नेह नानास्तीति श्रुत्यानानात्वनिषेधेपि यावद् ब्रह्मज्ञानमनुवर्तमानस्यार्थ क्रियासंवादिनोऽसद्विलक्षणप्रपञ्चस्वरूपस्याङ्गीकारात् ।
अन्यथा प्रत्यक्षादीनां व्यावहारिकप्रमाणानां निर्विषयत्व प्रसङ्गात् ।
न च स्वरूपेण निषेधे कथं प्रपञ्च स्वरूपस्यात्मलाभः निषेधस्य प्रतियोगि प्रतिक्षेपरूपत्वे व्याघातादिति वाच्यम् ॥
स्वरूपो मर्दमुपेत्यैवोपजीव्यविरोधं परिहरति ।
अत्र केचिदाहुरिति ।
प्रपञ्च सत्यत्वपक्षेपि वृषमानयेत्युदाहरणानुरोधेन भ्रमप्रमासाधारणमेव शब्दप्रत्यक्षं शाब्दबोधोपजीव्यमिति वक्तव्यमस्माकं तु मिषेध श्रुति प्रामाण्यात् ।
सर्वत्र भ्रमरूपमेव
प्रत्यक्षशाब्दबोधे व्यवहोरान्तरेषु च कारणमिति विशेष इति नोपजीव्यविरोधः शब्दस्वरूपस्यानुपजीव्यत्वादित्यर्थः ।
उपजीव्यविरोधं प्रकारान्तरेण परिहरति ।
अन्ये त्वाहरिति ।
प्रथमं पूर्वमते अस्वरसन्दर्शयति ।
शाब्दप्रमितिविति ।
अनपेक्षायामयीति ।
अत्रापि शब्देन ।
वस्तुतो न पेक्षानास्तीति सूचितम् ।
तथा हि पूर्वमते प्रत्यक्षज्ञानमात्रसुपजीर्व्यविषयोवर्णपदादिलक्षणो नोपजीव्य इत्युक्त तदयुक्तं निर्विषय प्रत्यक्षज्ञानायोगादतो वर्णपदादि स्वरूपमपि स्वीकर्तव्यमेव तथा च उपजीव्यविरोधे पूर्वसमाधानं न साधिति भावः ।
अस्तीति ।
तथा च योग्यताया उपजीव्यत्वमवर्ज्जनीयमिति तद्विरोधः पूर्वमते आवश्यक इति भावः ।
न चैत्वावता पूर्ववाद्यभिमतस्य कृत्स्नप्रपञ्चस्य रूपं न सिध्यतीति वाच्यम् ।
शाब्दप्रमिति लक्षणकार्यानुरोधेन ब्रह्मातिरिक्तयोग्यता स्वरूअपसिद्धौतद्वदेवजलाहरणादि कार्यानुरोधेन घटादि स्वरूपमपि सिध्यत्येवेत्याशयात् ।
ननु यदि चैतन्य व्यतिरिक्तं कृत्स्नं जगदुपेयते तर्हि तद्ग्राहि प्रत्यक्षादेः सविषयस्योपजीव्यत्वा तद्विरोध इत्यत आह ।
तदपेक्षायामपीति निषेध श्रुत्यर्था विरुद्धस्य प्रपञ्चस्वरूपस्यास्माभिरप्यङ्गीकारान्नास्माकं मते उपजीव्यविरोध इति भावः ।
असद्विलक्षणस्वरूपानङ्गीकारे बाधकं पूर्वमतानुवर्तिनं प्रत्याह अन्यथेति ।
प्रपञ्चसत्यत्ववादी शङ्कते ।
न चेति ।
ननु ब्रह्मणि प्रपञ्चस्तन्निषेधश्च युपदास्तां को दोष इत्याशङ्क्याह ।
निषेधस्येति ।
भूतलादौ घटाद्यभावस्य प्रतियोगि स्थिति
विरोधित्वदर्शनादितिभवः ।
व्याघातादिति निषेधत्वव्याघातादित्यर्थः ॥
शुक्ता च पीदं रजतं नेदं रजतमिति प्रतीति द्वयानुरोधेनाधिष्ठान गताध्यस्ताभावस्य बाधपर्यन्तानुवृतिका सद्विलक्षणप्रतियोगिस्वरूपसहिष्णुत्वाभ्युपगमात् ।
एतेन प्रपञ्चस्य स्वरूपेण निषेधे शशशृङ्गवदसत्वमेव स्यादिति निरस्तम् ।
ब्रह्मज्ञाननिवर्त्यस्वरूपाङ्गीकारेण वैय्यम्यात् ।
न चास्याध्यस्तस्याधिष्ठाने स्वरूपेण निषेधेऽन्यत्र तस्य स्वरूपैणनिषेधः स्वतः सिध इति तस्य सर्वदेशकालसम्बन्धि निषेधप्रतियोगित्वापत्याऽसत्वं दुर्वारं सर्वदेशकालसम्बन्धिनिषेध प्रतियोगित्वमसत्वमित्येवासत्वनिर्वचनात् ।
विधान्तरेण तन्निवञ्चनायोगादिति वाच्यम् ।
असतः सर्वदेशकालसम्बन्धिनिषेधप्रतियोगित्वमुपगछता तस्य तथात्वे प्रत्यक्षस्य सर्वदेशकालयोः प्रत्यक्षीकरणायोगेन आगमस्य तादृशागमानुपलम्भेन च प्रमाणयितुमशक्यतया अनुमानमेव प्रमाणयितव्यमिति ।
तदनुमाने यत्सद्व्यावृतं
लिङ्गं वाच्यम् ।
तस्यैव प्रथमप्रतीतस्यासत्वनिर्वचनोपपतेरित्याहुः ॥
कल्पितपदार्थप्रतियोगिकाभावस्याधिष्ठानादन्यत्र सदाप्रतियोगिविरोधित्वेष्वधिष्ठाने कञ्चित्कालं प्रतियोगि स्थिति सहिष्णुत्वं स्वभावः कल्प्यते ।
न च तथा कल्पकाभावः ।
द्वैतग्राहिप्रत्यक्षादे निषेध श्रुतेश्च मानत्वाद्यथापरमते घटात्यन्ताभावस्य स्वाधिकरणमात्रे प्रतियोगि प्रतिक्षेपकत्वेपि संयोगाद्यत्यन्ताभावस्य क्वचित्स्वाधिकरणे प्रतियोग्यप्रतिक्षेपकता प्रतीति बलात् स्वीक्रियते ।
तद्वदिति ।
समाधानाभिप्रायं मनसि निधाय स्वमतसिद्धं दृष्टान्तं सोपपतिकमाह ।
शुक्ताविति ।
एतच्छब्दार्थमाह ।
ब्रह्मज्ञानेति ।
वैषम्यादिति ।
शशशृङ्गादि वैषम्यादित्यर्थः ।
अन्यत्रेति ।
अधिष्ठानादन्यत्रदेशे काले वेत्यर्थः ।
ननु प्रकारान्तरेणासत्वनिर्वचनमस्तु तथा च प्रपञ्चे तदभावान्न तस्या सत्व प्रसक्तिरिति नेत्याह ।
विधान्तरेणेति ।
प्रसिद्धाऽसतः शशशृङ्गादेरुक्तलक्षणे सिद्धे सति प्रपञ्चेपि तल्लक्षण सत्वा तस्याप्यसत्वापत्यातद्विलक्षणत्वाभ्युपगमपूर्वकवैषम्योक्तिरयुक्तेति शङ्कितुं शक्यन्तदेवां सिद्धं मानाभावात् ।
कथं मानाभावः ।
इति चेत् तत्र वक्तव्यं किमसतः ।
उक्तलक्षणयोगे प्रत्यक्षं प्रमाणं किं वा आगमः ।
अथवानुमानमिति विकल्पं मनसि निधायाद्यद्वितीययोर्निराकरण पूर्वकं तृतीयं परिशेषयति ।
असत इत्यादिना ।
प्रत्यक्षस्यागमस्य च प्रमाणयितुमशक्यतयेति सम्बन्धः ।
तादृशेति शशशृङ्गादिकं
सर्वदेशकालसम्बन्धि निषेध प्रतियोगीत्येवमाकारकागमानुपलम्भेन चेत्यर्थः ।
अस्तु तर्हि परिशिष्टमनुमानमेव तत्र मानमिति नेत्याह ।
तदनुमान इति ।
यदिति ।
निःस्वरूपत्वमित्यर्थः ।
वाच्यमिति ।
त्वयेति शेषः विनिगमना विरहं परिहरति ।
प्रथम प्रतीतस्येति ।
उपपतेरिति ।
तथा च प्रपञ्चस्य ज्ञाननिवर्त्य स्वरूपाङ्गीकारात् ।
निःस्वरूपत्वलक्षणाऽसत्वं नास्तीति तस्य शशशृङ्गादि वैषम्योक्तिर्मुक्तेतिभावः ॥
अपरे तु नेह नानास्तीत्यादि श्रुतेः सत्वत्वेन प्रपञ्च निषेधे एव तात्पर्यं न स्वरूपेण निषेधस्य स्वरूपा प्रतिक्षेपकत्वे तस्य तन्निषेधत्वायोगात् ।
तत्प्रतिक्षेपकत्वे प्रत्यक्ष विरोधात् ।
न च सत्यत्वस्यापि सन् घट इत्यादि प्रत्यक्षसिद्धत्वान्न तेनापि स्वरूपेण निषेधो युक्त इति वाच्यम् ।
प्रत्यक्षस्य श्रुत्यविरोधाय सत्यत्वाभासरूप व्यावहारिक सत्यत्वविषयत्वोपपत्तेः ।
न चैवं सति पारमार्थिक सत्य त्वस्य ब्रह्मगतस्य प्रपञ्चे प्रसक्त्याभावा तेन रूपेण प्रपञ्चनिषेधानुपपतिः ।
यथा शुक्तौ रजताभासप्रतीतिरेव सत्य रजतप्रसक्तिरिति तन्निषेधः ।
अत एव नेदं रजतं किन्तु तत् नेयम्मदीयागौः ।
किन्तु सैव नात्र वर्तमानश्चैत्रः किन्त्वपवरक
इति निषिध्यमानस्यान्यत्र सत्वमवगम्यते ।
एवं सत्यत्वाभासप्रतीतिरेवसत्यत्व प्रसक्तिरिति तन्निषेधोपपतेः ।
अतो वर्णपदयोग्यतादि स्वरूपोपमर्द्दशङ्काभावान्नोपजीव्यविरोध इत्याहुः ॥
उपजीव्यविरोधं प्रकारान्तरेण परिहरति ।
अपरे त्विति ।
अयोगादिति ।
तथा चात्रावाधिकरणमात्रे प्रतियोगि स्थित्ययोगात् ।
प्रपञ्चाधिकरणे ब्रह्मणि तदभावो न निषेध श्रुतिगम्य इति भावः ।
ननु सत्यत्वेन ब्रह्मणि प्रपञ्च निषेध इति मतेपि किं सत्यत्वविशिष्टप्रपञ्चाभावो ब्रह्मणि विवक्षितः किं वा सत्यत्व धर्मावछिन्नाप्रतियोगिना कः प्रपञ्चमात्र प्रतियोगिको निषेधो ब्रह्मणि विवक्षितः ।
नोभयथापि सम्भवति प्रतियोग्यधिकरणे तदभावानङ्गीकारात् प्रपञ्चे सत्यत्वस्यानङ्गीकारेण तस्य प्रतियोगि कोटिप्रवेशप्रतियोगितावछेदकत्वयोरसम्भवाच्चेति चेदुच्यते ।
प्रपञ्चे धर्मणि सत्यत्व निषेधे श्रुतेस्तात्पर्यमित्ये तत्मताभिप्रायः ।
न तु यथा श्रुतार्थे तात्पर्यमस्य मतस्यात एव वक्ष्यति सत्यत्वाभासप्रतीतिरेव सत्यत्वप्रसक्तिरिति तन्निषेधोपपतेरिति ।
अत्र हि वाक्ये प्रपञ्च एव सत्यत्व निषेधः स्पष्टं प्रतीयते अतो नास्मिन्मते प्रतियोगि तदभावयोरेकाधिकरणत्वशङ्कावकाशः ।
ननु ब्रह्मणि प्रपञ्च स्वरूपं यथा प्रत्यक्षादि सिद्धमस्ति तथा प्रपञ्चे सत्यत्वमपि प्रत्यक्षादि सिद्धमस्त्येवेति
तन्निषेधेपि श्रुतेस्तात्पर्यं कल्पयितुं न शक्यमिति शङ्कते ।
न चेति ।
प्रत्यक्षादि ग्राह्यं प्रपञ्च सत्यत्वं ब्रह्मसत्यत्ववत् ।
पारमार्थं न भवति ।
तथा सति उपक्रमाद्यवगत स्वार्थतात्पर्यवतीनां भूयसीनां निषेध श्रुतीनां निर्विषयत्वप्रसङ्गात् किन्तु व्यावहारिक सत्यत्वादिरूपं तत्कल्प्यते ततो न सत्यत्वनिषेधानुपपतिरिति परिहरति प्रत्यक्षस्येति ।
न चैवं सतीति ।
प्रपञ्च सत्यत्वस्य व्यावहारिकत्वाङ्गीकार इत्यर्थः ।
दृष्टान्तपूर्वकं प्रसाक्तिमाह ।
यथाप्युक्ताविति ।
नेदं रजतमिति निषेध प्रत्यक्षस्य सत्यरजतनिषेधविषयकत्वं वक्तव्यं प्रातिभासिकरजताधिकरणे शुक्ति शकले कल्पितरजताभावस्यास्मिन्मते नङ्गीकारेण बाधप्रत्यक्षस्य तद्विषयत्वायोगादितिभावः ।
शुक्त्यादौ निषिध्यमानस्य देशान्तरस्थत्वे नियामकमाह ।
अत एवेति ॥
अन्ये तु ब्रह्मणि पारमार्थिक सत्यत्वं प्रपञ्चे व्यावहारिक सत्यत्वं सत्यत्वान्नाभासरूपम् ।
शुक्तिरजतादौ प्रातिभासिक सत्यत्वं ततोपि निकृष्टमिति सता त्रैविध्यं नोपेयते ।
अधिष्ठान ब्रह्मगतपारमार्थिकसतानुवेधादेवघटात्पदा- सत्यत्वाभिमानोपपत्यासत्यत्वाभासकल्पनस्य निःप्रमाणकत्वात् ।
एवं च प्रपञ्चे सत्यत्वः
प्रतीत्यभावाततादात्म्यापन्ने ब्रह्मणि तत्प्रतीतेरेवाऽविवेकेन प्रपञ्चे तत्प्रसक्त्युपपतेश्च सत्यत्वेन प्रपञ्चनिषेधेनोपजीव्यविरोधो न वा प्रसक्तनिषेधता न च ब्रह्मगतपारमार्थिक सतातिरेकेण प्रपञ्चे सत्वाभासानुपगमे व्यवहित सत्यरजतातिरेकेण शुक्तौ रजताभासोत्पतिः किमर्थमुपेयते इति वाच्यं व्यवहितस्यासन्निकृष्टस्यापरोक्ष्यासम्भवातन्निर्वाहाय तदुपगमात् ।
नन्ववं प्रतिबिम्बभ्रमस्थलेपि ग्रीवास्थमुखातिरेकण दर्पणे मुखाभासोत्पतिरुपेया स्यात् ।
स्वकीये ग्रीवास्थे मुखेनासाद्यवछिन्नप्रदेशापरोक्ष्यसम्भवैपि नयनगोलकललाटादि प्रदेशापरोक्ष्यायोगात् ।
प्रतिबिम्ब भ्रमे नयनमोलकादि प्रदेशापरोक्ष्यदर्शनाच्च ॥
प्रपञ्चे पारमार्थिक सत्यत्वस्य प्रसक्त्यभावान्निषेधानुपपतिरिति शङ्कायां सत्वत्रैविध्यमतमालंव्य परिहारो दर्शितः ।
इदानीं सर्वत्र सतैक्यपक्षे प्रसक्त्यभावशङ्कां परिहरति ।
अन्ये त्विति ।
प्रथसंसता त्रैविध्यपक्षं दूषयति ।
ब्रह्मणीत्यादिना ।
ब्रह्म गतेति ।
पारमार्थिक सतायाः ब्रह्मरूपत्वेपि भेदकल्पनया तद्गत त्वोक्तिः ।
अनुवेधा देवेति
प्रतीतेरेवेत्यर्थः ।
एवं चेति सन् ।
घट इत्यादि प्रतीतेर्घटादि तादात्म्यापन्ने सन्निति प्रतियमाने सद्वस्त्वंशरूपे ब्रह्मण्येव सता विषयकत्वं मृद्वट इति प्रतीतेरिव सृदंशे मृत्वविषयकत्वं ब्रह्मणि सताप्रतीति वशादेव घटादौ सत्व व्यवहार इति स्थिते सतीत्यर्थः ।
यत्तु भेदवादिभिरुच्यते प्रपञ्चे श्रुत्यासत्यत्वनिषेधो न सम्भवति प्रपञ्चे सत्यत्व गोचरप्रत्यक्षप्रतीति विरोधादिति ।
तत्र हेत्वसिद्धेरित्याह ।
प्रपञ्च इति यच्चोक्तत्त?ह्याप्रसक्तप्रतिषेध इति तत्राह ।
ततादात्म्येति ।
तत्पदं घटादि परं प्रपञ्चब्रह्मणोर्भेदाग्रहेण ब्रह्मणि या सता प्रतीतिः सैव प्रपञ्चे सन्त्व प्रसक्तिर्भवति ।
नन्मूलश्च तत्र व्यवहार इत्यर्थः ।
नोपजीव्यविरोध इति ।
श्रौत मिथ्यात्वबोधं प्रत्युपजीव्यस्य वर्णपदादि प्रत्यक्षस्य सालम्बनत्वाभ्युपगमातदबाधाच्चेति भावः ।
ननु यदि घटादि प्रपञ्चे ब्रह्मसतयैव सत्व व्यवहार सिद्धौ पृथक् सत्वं न कल्प्यते तत्कल्पने मानाभावाल्लाघवाच्च तर्ह्यति प्रसङ्ग इति शङ्कते ।
न चेति ।
किमर्थमिति तत्कल्पने गौरवा तथा चानिर्वचनीयरजताद्यसिद्धिरिति शङ्काभिप्रायः ।
गौरवं प्रामाणिकत्वान्न दोषायेत्याशयेन परिहरति ।
व्यवहितस्येति असन्निकृष्टस्येति ।
अभिव्यक्तचैतन्यतादात्म्य शून्यस्येति यावत् ।
नन्वेवमिति ।
आपरोक्ष्यापरजताभासोत्पत्यभ्युपगम इत्यर्थः ।
प्रतिबिम्बस्य बिम्बाभिन्नत्वेपि प्रतिबिम्बापरोक्ष्यं सम्भवतीति न सा स्वीकार्येत्यत आह ।
स्वकीय इति मुख इति बिम्बत्वेनोपेत इति शेषः ।
नासादीति तदंशे सन्निकर्ष सम्भवादित्यर्थः ॥
३५ब्) न च बिम्बातिरिक्तप्रतिबिम्बाभ्युपगमे ।
इष्टापतिः ।
ब्रह्मप्रतिबिम्ब जीवस्यापि ततो भेदेन मिथ्यात्वापते ।
अत्र विचरणानुसारिणः प्राहुः ।
ग्रीवास्थ एव मुखे दर्पणोपाधि सन्निधानदोषाद्दर्पणस्थत्व प्रत्य"नमुखत्वबिम्बभेदानामध्याससम्भवान्न दर्पणे मुखाध्यासः कल्पनीयो मौरवोत् ।
दर्पगिं मुखं नास्तीति संसर्गमात्र बाधात् मिथ्यावस्त्वन्तरत्वे चेदं मुखमिति स्वरूपबाधापतेः ।
दर्पणे मम मुखं भातीति स्वमुखाभेदप्रत्यभिज्ञानाच्च ।
न च ग्रीवास्थमुखस्याधिष्ठानस्यापरोक्ष्यासम्भवः ॥
यदि बिम्बप्रतिबिम्बयोरभेदे प्रतिबिम्बापरोक्ष्यं स्वमुखप्रतिबिम्ब स्थलेन सम्भवति ।
तर्हि प्रतिबिम्बो बिम्बात् ।
भिन्नः मिथ्याभूत एवास्तुकाहातिरद्वैत वादिन इति शङ्कते ।
न चेति ।
तस्य हानिं पूर्ववादी दर्शयति ।
ब्रह्मप्रतिबिम्बेति ।
जीवो ब्रह्मणः सकाशात् ।
स्वरूपतोभि च ते ब्रह्मप्रतिबिम्बत्वात् ।
सामान्य व्याप्तौ मुखप्रतिबिम्बवततश्च जीवो मिथ्या ब्रह्मभिन्नत्वात् ।
घटादिवदित्यर्थः ।
बिम्बप्रतिबिम्बयोर्लोके भेदाभावान्नोक्तदोष इति परिहरति ।
अत्र विवरणेति ।
ननु दर्पणे मुखस्याप्यध्यासो न कल्पनीयः गौरवादित्ययुक्तं प्रतिबिम्बमुखे दर्पणे मुखमिति दर्पणस्थत्वा यौगा तथा प्रतिबिम्बमुखस्य ग्रीवास्थमुखं प्रतिश्राभिमुख्यानुभवात् ।
मुखप्रतिमुखयोरभेदपक्षे
तस्यैव तदाभिमुख्यायोगात् ।
तयोर्भेदस्यैव स्फुटमुनुभवाच्च ।
तस्मादनुभवत्रयानुगेधेनोपाधावनिर्वचनीय प्रतिबिम्बाध्यास उपेयः ।
गौरवं च प्रामाणिकत्वान्नदोषावहमित्याशङ्क्य तदनुभवत्रयस्यान्यथा सिद्धिमाह ।
ग्रीवास्थ एवेति ।
धर्मिकल्पनापेक्षया वहधर्मकल्पनयपिस्तत्वितिभावेः ।
ननु प्रतिबिम्बस्य बाधदर्शनान्मिथ्यात्वमित्याशङ्का हेतु सिद्धिमाह ।
दर्पण इति ।
मात्र पदं प्रतिबिम्बस्वरूपबाधाभावार्थकं बाधादित्यनन्तरं दर्पणस्थत्वरूपसंसर्गस्य मिथ्यात्वं प्रतिबिम्बस्य सत्यत्वं चेति शेषः ।
विपक्षे दोषमाह ।
मिथ्यावस्त्वन्तरत्व इति ।
नन्वेवं भूतले घटो नास्तित्यत्रापि घटसंसर्गाभाव एव प्रतीयेतेति चेन्न इष्टापते ।
ननु तर्हि भूतले घटाभावो न सिद्ध्येदिति ।
चन्न घटाभाववद्भूतलमिति प्रतीत्या तत्सम्भवादितिभावः ।
बिम्बप्रतिबिम्बयोर्भेदमात्रकल्पनायां स्वरूपाभेदप्रत्यभिज्ञानमप्यनुकूलयति ।
दर्पणे ममेति ।
लाघवसमुच्चयार्थश्चकारः ।
यद्वा प्रतिबिम्बस्य सत्यत्वेति बिम्बाभिन्नत्वं हेतुमभिप्रेत्य तत्र मानमाह ।
दर्षणे ममेति ।
चकारो बाधान्नाबसमुच्चयार्थः ।
तथा च न प्रतिबिम्बस्य मिथ्यात्वं बाधाभावात् ।
बिम्बाभिन्नत्वाच्चेत्यर्थः ।
एवं लोके प्रतिबिम्बस्य बिम्बाभिन्नत्व सत्य त्वयोः ।
प्रसाधनेन ब्रह्मप्रतिबिम्बस्य जीवस्य ब्रह्मभिन्नत्व मिथ्यात्वप्रसङ्गो निरस्तः ।
यतु तयोरभेदपक्षे ग्रीवास्थ सुखस्य नयनगोलकादि प्रदेशेषु स्वचक्षः सन्निकर्षाभावेन प्रतिबिम्बस्य साकल्पेन प्रत्यक्षत्वम् ।
न सम्भवतीत्युक्तं तदनूद्य निराकरोति ।
न चेत्या
ना अधिष्ठानस्येति ।
प्रतिबिम्बत्व प्रत्य"न्मुखत्वदर्पणस्थत्व प्रतिबिम्बभेदानां कल्पनाधिष्ठानस्येत्यर्थः ॥
उपाधि प्रतिहत नयनरश्मीनां परावृत्यबिम्बग्राहकत्व नियमाभ्युपगमाल्लतादिवत् ।
तन्नियमानभ्युपगमे परमाणोः कुड्यादि व्यवहितस्थूलस्यापि चाक्षुष प्रतिबिम्बभ्रमप्रसङ्गात् ।
न चाव्यवहितस्थूलोद्भूतरूपवत् एव चाक्षुषप्रतिबिम्बो भ्रमो नान्यस्येति नियम इति वाच्यं बिम्बस्थौल्योद्भूतरूपयो कॢप्तेन चाक्षुष ज्ञानजननेनोपयोगसम्भवेपि ।
विधान्तरेणोपयोगकल्पनानुपपतेः ॥
असम्भवो न चेत्यत्र हेतुमाह ।
उपाधि प्रतिहतेति ।
नयन रश्मयः चक्षुर्गोलकाद्वहिर्न्निर्गत्य दर्पणाद्युपाधिं प्राप्यते न प्रतिहताः पुनरावृत्यग्रीवास्थमुख तदवयवैः संसृज्यन्ते ततश्चाभिमुख पुरुषान्तरमुखसाक्षात्कारत् साकल्पेन स्वग्रीवास्थमुखसाक्षात्कारः सम्भवति ।
न च परावृत्तनयनरश्मीनां गोलकद्वारां तत्प्रवेशस्यैवान्यत्रकॢप्तत्वादत्र तथा कल्पनं गौरवग्रस्तमिति वाच्यम् ।
प्रतिबिम्बोत्पति वादिनापि चक्षुः सन्निकृष्टस्यैव बिम्बताया वक्तव्यत्वेन उक्तनियमस्य तेनापि स्वीकार्यत्वादतः सम्प्रतिपन्नत्वात् गौरवं न दोषायेतिभावः ।
ननु प्रतिबिम्बाध्यासवादिना सन्निकृस्यैव बिम्बत्वं नाङ्गीक्रियते ।
अतो ग्रीवास्थमुखस्य बिम्बत्वनिर्वाहाय स्वचक्षुः सन्निकर्षा पेक्षाभावान्नायं नियमस्तेनादर्तव्य इत्यत आह तन्नियमानभ्युपगम इति ।
बिम्बसन्निकर्षस्य चाक्षुष प्रतिबिम्बाध्यासा हेतुत्वे व्यवहितस्यापि चाक्षुष प्रतिबिम्बप्रसङ्गः ।
विनानेन विशेषणेन यस्य कस्यापि प्रतिबिम्बापत्या परमाणोर्वायोश्च तत्प्रसङ्गादित्यर्थः ।
प्रतिबिम्बाध्यासे बिम्बसन्निकर्षस्य हेतुत्वं विनैव उक्ताति प्रसङ्गं परिहरति प्रतिबिम्बाध्यासवादी न चाव्यवहितेति ।
तथा च कुड्यादि व्यवहितमुखादेः परमाणोर्वायोश्च न चाक्षुष प्रतिबिम्बापतिरिति नावः ।
द्रव्यचाक्षुषं प्रतिद्रव्यगतमहत्वोद्भूतरूपयोः कारणत्वं कॢप्तं तथा कुड्यादेः सन्निकर्ष विघटन द्वाराबाह्यवस्तु गोचर प्रत्यक्ष प्रतिबन्धकत्वं कॢप्तं तथा च बिम्बप्रतिबम्बयोरभेदपक्षे बिम्बचाक्षुषस्यैव प्रतिबिम्बचाक्षुषत्वात् ।
बिम्बभूतमुखादि गतयो स्थूलत्वोद्भूतरूपयोः कॢप्तचाक्षुष प्रत्यक्षादन्यत्रकारणत्वं न कल्पनीयमिति लाघवं शुक्तिरजतादिवता साक्षिभास्य प्रतिबिम्बाध्योसोत्पति पक्षे तु बिम्बसन्निकर्षस्य प्रतिबिम्बाध्यास हेतुत्वानुपगमेन वायुपरमाण्वोश्चाक्षुष प्रतिबिम्बवारणाय बिम्बभूतद्रव्यगतयोर्महत्वोद्भूतरूपयोः स्वाश्रयगोचरचाक्षुष इव स्वाश्रयद्रव्यरूप बिम्ब हेतुक प्रतिबिम्बाध्यासोत्पत्तावपि हेतुत्वं कल्पनीयमिति गौरवम् ।
तथा बिम्बप्रति
बिम्बाभेष्टपक्षे नयनरश्मीनां परावृत्यबिम्बसम्बन्धाभ्युपगमेन प्रतिबिम्बभ्रमस्थलेपि बिम्बसन्निकर्षस्य हेतुत्व सत्वात् ।
घटादि चाक्षुष इव प्रतिबिम्ब चाक्षुषेपि कुड्यादेः सन्निकर्ष विघटन द्वारैव प्रतिबन्धकत्वं कल्पनीयमिति लाघवं प्रतिबम्बाध्यास पक्षे तु बिम्बसन्निकर्षस्य हेतुत्वानुपगमेन कुड्यादेः सन्निकर्षविघटकत्वस्य कॢप्तस्य प्रतिबिम्बभ्रमस्थले वक्तुमशक्यतया प्रतिबिम्बाध्यासम्प्रति साक्षादेव प्रतिबन्धकत्वं व्यवहितस्य प्रतिबिम्बवारणाय कल्पनीयमिति गौरवमित्याशयेन दूषयति ।
बिम्बस्थौल्य्येति ।
विधान्तरेणेति ।
स्वाश्रयभूतद्रव्यद्वाराप्रतिबिम्बाध्यासोत्पतावुपयोगकल्पनानु- पपत्तेरित्यर्थः ॥
कुड्यादि व्यवधानस्य प्रतिहत नयनरश्मिसम्बन्ध विघटनं विनैवेह प्रतिबन्धकत्वे तथैव घटप्रत्यक्षादि स्थलेपि तस्य प्रतिबन्धकत्वसम्भवेन चक्षुः सन्निकर्षमात्रस्य कारणत्वलोपप्रसङ्गाच्च दर्पणे मिथ्यामुखाध्यासवादिनापि कारणत्रयान्तर्गत संस्कारसिद्ध्यर्थं नयनरश्मीनां कदाचित् परावृत्य स्वमुखग्राहकत्व कल्पनयैव पूर्वानुभवस्य समर्थनीय त्वाच्च ।
न च नासादि प्रदेशावछिन्न पूर्वानुभवा
देवसंस्कारोपपतिः ।
तावतानयनगोलकादि प्रतिबिम्बाध्यासानुपपतेः ।
तटाक सलिले तदविचपि समारूढादृष्टचरपुरुषप्रतिबिम्बाध्यासस्थले कथमपि पूर्वानुभवस्य दुर्वचत्वात् ।
एवं चोपाधिप्रतिहत नयनरश्मीनां बिम्बं प्राप्यतद्ग्राहकत्वे वश्य वक्तव्ये ।
फलवलादर्पणाद्यभिहतानोमवबिम्बं प्राप्यतद्ग्राहकत्वम् ।
न शिलादिप्रतिहता नामनति स्वछताम्रादि प्रतिहतानां मलिनोपाधिसम्बन्धदोषान्मुखसंस्थानविशेषाग्राहकत्वम् ।
साक्षात् सूर्यं प्रेप्सूनामिवोपाधिं प्राप्यनिवृतानां न तथा सौरतेजसा प्रतिहतिति बिम्बसूर्यावलोकने साक्षातदवलोकन इव नाशक्यत्वम् ॥
इहेति प्रतिबिम्बभ्रमस्थल इत्यर्थः ।
न केवलमकॢप्तकल्पनागौरवदोषः दोषान्तरमपि प्रसज्यत इत्याह ।
तथैवैति ।
सन्निकर्षविघटनं विनैवेत्यर्थः ।
तथा चोक्त गौरवादि दोषपरिहाराय परावृत्येति नियम उपेयः बिम्बसन्निकर्षायेति भावः ।
चाक्षुषप्रतिबिम्बभ्रमस्थले बिम्बसन्निकर्षस्य त्वयापि वाच्य त्वात् ।
परावृत्येति नियमोनाप्रयोजक इत्याह ।
दर्पणे मिथ्येति ।
कारणत्रयेति ।
दोषसम्प्रयोग
संस्काररूपकारणत्रयेत्यर्थः ।
स्वमुखस्य स्वचक्षुः सन्निकर्षानुपगमे दर्पणादावारोप्य प्रतिमुखसजातीइय स्वमुखसाक्षात्कारस्य कदाप्यसम्भवेनाध्यासकारणभूतस्यारोप्य साजातीय गोचर पूर्वानुभवजन्य संस्कारस्यालाभात् ।
प्रतिबिम्बरूपाद्यध्यासस्योत्पतिर्न स्यादतः स्वमुखस्य स्वचक्षुः सन्निकर्षलाभाय उक्तनियम आदर्तव्य इति भावः ।
तावतेति ।
नासदिप्रदेशावछिन्नपूर्वानुभवमात्रेणेत्यर्थः ।
इदमपि क्वचिद्दुर्ल्लभमित्याह ।
तटाकेति ।
अदृष्ट चरेति कदाप्यदृष्टेत्यर्थः ।
एवं चेति उक्तप्रकारेणेत्यर्थः ।
उक्त नियमस्याति प्रसङ्गं परिहरति ।
फलवलादिति ।
दर्पणादौ प्रतिबिम्बभ्रमदर्शनलक्षणफलाक्षुरोधादित्यर्थः ।
एवकार व्यवछेद्यमाह ।
न शिलादीति ।
शिलादौ प्रतिबिम्बादर्शनादितिभावः ।
नन्व स्वछताम्रादेः प्रतिबिम्बग्राहित्वेन शिलादि वैलक्ष्यण्य सत्वा तत्प्रतिहन्तानां दर्पणादि प्रतिहतानामिव नयनरश्मीनां साकल्पेन मुखादि ग्राहकत्वं स्यादत आह ।
मलिनोपाधीति ।
संस्थानविशेषः नयनगोलकादिः फलवलानुसारिपदार्थ स्वभावकल्पनेन दोषान्तराण्यपि निरस्तानीत्याह ।
साक्षादित्यादिना ।
साक्षा तदिति ।
साक्षात्सूर्यावलोकन इत्यर्थः ।
ननु प्रतिबिम्बोपाधिभूतजलेन प्रतिहतानां नयनरश्मीनां बिम्बदेशप्राप्त्युपगमेज ॥
जलाद्युपाधिसन्निकर्षे केषाञ्चिदुपाधिप्रतिहतानां बिम्बप्राप्तावपि केषाञ्चितदन्तर्गतसिकतादि ग्रहणमित्यादि कल्पनान्न कश्चिद्दोष इति ।
अद्वैत विद्या कृतस्तु प्रतिबिम्बस्य मिथ्यात्वमभ्युपगछतां त्रिविधजीववादिनां विद्यारण्य गुरुप्रभृतीनामेवमभिप्रायमाहुः ।
चैत्रमुखाद्भेदेन तत्सदृशत्वेन पार्श्व स्थितैः स्पष्टं निरीक्ष्यमाणं दर्पणे तत्प्रतिबिम्बततोभिन्नं स्वरूपतो मिथ्यैव स्वकरगतादिवरजताच्छ्रुक्तिरजतम् ।
न च दर्पणे मम मुखं भातीति बिम्बाभेदज्ञानविरोधः स्पष्टभेद द्वित्व प्रत्य"न्मुखत्वादिज्ञानविरोधेनाऽभेदासम्भवात् ।
दर्पणे मम मुखमिति व्यपदेशस्य स्वछाया मुखे स्वमुखव्यपदेशवत् ।
गौणत्वाच्च ।
न चाभेदज्ञानविरोधाद्भेदव्यपदेश एवगौः किं न स्यादिति शङ्क्यं
लान्तर्गत सिकतादि प्रत्यक्षं न स्यात् ।
सन्निकर्षाभावादिति दूषणमपि निरस्तमित्याह ।
जलाद्युपाधाति ।
ननूपाधि प्रतिहतानां बिम्बदेशप्राप्त्यपगमे पृष्टभाग व्यवहित पदार्थस्यापि प्रतिबिम्बप्रसङ्ग इति चेत् ।
नायं दोषः फलवलेन शरीरावयवानानां सन्निकर्षत्वकल्पनादित्यभिप्रेत्याह
इत्योदि कल्पनादिति ।
नयनरश्मीनापरावृत्य बिम्बग्राहित्वं सुरेश्वराचार्यैरुक्तम् ।
दर्षणाभिहतादृष्टिः परावृत्यस्वमाननं व्याप्नुवत्याभिमुखेन व्यत्यस्तं दर्शयेन्मुखमिति ।
बिम्बप्रतिबिम्बयोर्भेदपक्षनिराकरणपूर्वकं तदभेदपक्षो निरूपितः ।
इदानीं तदभेदनिराकरण पूर्वकं भेदपक्षनिरूपयति ।
अद्वैतविद्याकृतस्त्विति ।
त्रिविधेति ।
पारमार्थिक व्यावहारिक प्रातिभासिक भेदेन जीवस्त्रिविध इति पक्षः ।
प्रथम परिछेदे निरूपित इति बोध्यम् ।
एवमिति वक्ष्यमाणप्रकारेणोत्यर्थः ।
चैत्रेति ।
चैत्रो यदा दर्पणे स्वमुखं पश्यति तदा पार्थस्थैश्चैत्रग्रीवायां बिम्बभूतं मुखं दर्पणे चैत्रमुखप्रतिबिम्बं च परस्परं भिन्नत्वेन परस्परं सदृशत्वेन चासन्दिग्धा विपर्ययस्तमनुभूयत इत्यर्थः ।
स्वेति स्वहस्तगतात् सत्यरजताद्भिन्नत्वेन तत्सदृशेत्वेन चानुभूयमानं शुक्तिरजतं यथा तद्भिन्नं मिथ्या च तद्वदित्यर्थः ।
अभेदज्ञानमसिद्धमित्याह ।
स्पष्टेति उदाहृतरजतयोरभेदज्ञानादर्शनादितिभावः ।
आदिपदं प्रा"न्मुखत्व ग्रीवास्थत्वदर्पणस्थत्व स्वातन्त्र्यपारतन्त्र्यादित्र ह्यर्थे ।
तर्हि सर्वानुभवसिद्धस्याभेदव्यपदेशस्य का गतिः ।
ज्ञानपूर्वकत्वाद्यपदेशस्येत्याशङ्क्यनायमभेदव्यपदेश इत्याह ।
दर्पणे ममेति ।
स्फुटभेदज्ञाने सति अभेद व्यपदेशायोगादिति भावः ।
ननु दर्पणे मम मुखं भाति मम मुखं मलिनं भाति मम मुखं दीर्घं भाति मुखं ग्रावास्थमेव न दर्पणादाविति ।
अभेदानुभवानामपि स्फुटानां भूयसां सत्वादभेदव्यपदेशो मुख्यः अभेदानुभवविरोधेन भेदानुभवस्यैवासम्भवात् ।
भेदव्यपदेशमात्रमविशिष्यते तच्च बिम्बप्रतिबिम्बयोर्वस्तु गत्याभेदा
भावेपि कल्पित भेदसत्वादुपपद्यत इति वैपरीत्यमाशङ्क्य निषेधति ।
न चेत्यादिना ॥
बालानां प्रतिबिम्बे पुरुषान्तरभ्रमस्य हानोपादित् साद्यर्थ क्रियापर्यन्तस्यापलयितुमशक्यत्वात् न च प्रेक्षावतामपि स्वमुखविशेषपरिज्ञानायदर्पणाद्युपादान दर्शनादभेदज्ञानमप्यर्थ क्रियापर्यन्तमिति वाच्यम् ।
भेदेपि प्रतिबिम्बस्य बिम्बसमानाकारत्व नियमविशेषपरिज्ञानादेव तदुपादानोपपतेः ॥
प्रतिबिम्बगोचर प्रवृत्यादिदर्शनं तस्य बिम्बाद्भेदं विना न सिध्यतीति विनिगमकमाह ।
वालावामिति ।
वालाजलाशयादौ भयङ्करं प्रतिबिम्बं दृष्ट्वा तं विहाय पलायन्ते सोम्यं प्रीतिकरं प्रतिबिम्बं दृष्ट्वातमुपादातुमिछन्ति प्रतिबिम्बदेशं गछन्ति चेति सर्वानुभवसिद्धम् ।
तदुक्तं कर्णामृताचार्यैः ।
रत्नस्थले जानुचरः कुमारः सङ्क्रान्तमात्मीय मुखारबिन्दम् ।
आदातु कामस्तदलाभ खेदाद्विलोक्यधात्री वदनं रुरोद इति ।
हुमारः श्रीकृष्णरूपः शिशुः निर्मलरत्नमयवेदिकायां जानुभ्यां सञ्चरन् तत्र सङ्क्रान्तं प्रतिबिम्बितं विविन्धैः ।
कुण्डलादि भूषणैर्भूषितं निःसीमसौन्दर्यौपेतं गोपीजन मनोहरं ब्रह्मादिभिरपि सदा स्पृहणीयं स्वकीयमुखारविन्दमुपलभ्य लोकसिद्धां वाल चेष्ट्यमनुवर्तमानः ।
तदा दानेछया चिरकालं हस्तव्यापारं कृत्वापि ।
यदा तन्न लब्धवान् ।
तदा तदल्पभखेदेन धात्र्या मुखं दृष्ट्वा त्वया इदं गृहीत्वामह्यं देयमिति ।
अभिसन्धिमान् ।
मुक्तकन्थतयारोदनं कृतवानित्यर्थः ।
अभेदज्ञानस्याप्यर्थ क्रियापर्यन्त त्वं समानमित्याशङ्क्यनिषेधति ।
न चेत्यादिना ।
यदि बिम्बप्रतिबिम्बयोर्वस्तुतो भेद एव तदा परिक्षकाणां तद्वेदनिर्णय आवश्यक इति तेषां स्वमुखगतविशेषनिर्णयाय दर्पणाद्यादानं नस्या तेषाम्मपि तद्दर्शनादभेदनिश्चयस्तेषां वाच्य इत्यर्थः ।
तेषां प्रवृतेरन्यथा सिद्धिमाह ।
भेदेपीति बिम्बप्रतिबिम्बयोः स्वरूपतो भेदे सत्यपीत्यर्थः ।
परीक्षकत्वादेव तेषामुक्तोपपतिभिः ।
भेद निश्चयवत्वं नियमविशेषज्ञानवत्वं च सम्भवतीति भावः ।
ननु बालानां प्रतिबिम्बगोचरहानादि क्रियापि बिम्बस्य उपाधिस्थत्व भ्रमादेव सम्भवतीत्यन्यथा सिद्धिः ।
तत्रापि तुल्या तथा च बिम्बप्रतिबिम्बयोर्भेदाभेदानुभवानां भेदाभेद प्रयुक्तार्थ क्रियाणां च तुल्यत्वे सत्यभेदस्य स्वाभाविकत्व कल्पनमेव युक्तं लाघवाद्बिम्बप्रतिबिम्बभावापन्नतया श्रुति सिद्ध जीवब्रह्माभेद प्रतिपत्युपयोगितया लौकिक बिम्बप्रतिबिम्बाभेदकल्पनस्याभेदश्रुत्युपोद्बलितत्वाच्च प्रतिबिम्ब जीवस्यैव ब्रह्माभेदसम्भवे तदतिरिक्त पारमार्थिकावछिन्नजीवकल्पनायाः गौरवग्रस्तत्वाच्च ।
यथा ह्ययं ज्योतिरात्माविवस्वानित्यादि मन्त्रस्य तयोरभेदपक्ष एव स्वारस्याच्च तत्र हि यथा विवस्वदादेर्वहुषूपाधिषु प्रतिबिम्बितत्वप्रयुक्तं नानात्वं स्वत एकत्वं तथा चैतन्यस्य बहुषुपाधिषु प्रतिबिम्बितत्वप्रयुक्तं नानात्वं स्वत एकत्वमिति प्रतिपाद्यते तच्च बिम्बप्रतिबिम्बयोर्भेदपक्षेन
सम्भवति तत्पक्षे हि बिम्बचैतन्यस्यैकत्वं प्रतिबिम्बानां नानात्वमिति पर्यवसानेनैकस्यैवोपाधिक नानात्व पर्यवसाना सभवा तस्माच्चैतन्य प्रतिबिम्बाङ्गीकारपक्षे लोके चैत्र प्रति ॥
यत्तु नात्रमुखमिति दर्पणे मुखसंसर्गमात्रस्य बाधो न मुखस्येति ।
तत्र नेदं रजतमित्यत्रापि इदमर्थे रजततादात्म्यमात्रस्य बाधो न रजतस्येत्यापतेः ।
यदि चेदमंशे रजतस्य तादात्म्येनाड्यासान्नेदं रजतमिति तादात्म्येन रजतस्यैव बाधो न च तादात्म्य मात्रस्य तदा दर्पणे मुखस्य संसर्गितयाध्यासान्नात्र मुखमिति संसर्गितया मुखस्यैव बाधो न संसर्गमात्रस्येति तुल्यम् ।
यत्तु धर्मिणोप्यध्यासकल्पनैगौरवमिति तद्रजताभासकल्पना गौरव च त्प्रामाणिक त्वान्न दोषः स्वनेत्र गोलकादि प्रतिबिम्बभ्रमस्य लेपि बिम्बापरोक्ष्य कल्पनीया या भावात् ।
नयनरश्मीनानामुपाधिप्रतिहतानां बिम्बप्राप्ति कल्पने हि दृष्टि विरुद्धं वह्वा पद्येते ।
कथं हि जलसन्निकर्षे केषु केषु चिन्नयनरश्मिष्वप्रतिहतमन्तर्गछत्स्वन्ये जलसम्बन्धेनापि प्रतिहन्यमाना नितान्तं मृदवः सकलनयनरश्मिप्रतिघातिनं
किरणसमूहविजित्यतन्मध्यगतं पूर्यमण्डलं प्रविशेयुः ॥
बिम्बस्थले च बिम्बप्रतिबिम्बयोरभेदपक्ष एव विवरणाद्यभिमतः श्रेयानिति चेत् सत्यं सूक्ष्मदृष्ट्या एवमेव अत एव भामती निबन्धनादिषु जीवब्रह्मणोरभेदेपि लौकिक बिम्बप्रतिबिम्बयोरिव कल्पित भेद सत्वाद्धर्म व्यवस्थेति सार्वत्रिको व्यवहारः ।
श्रीविद्यारण्य गुरुप्रभृतिभिस्तु मन्दाधिकारिणां तत्वे बुध्यारोहाय प्रतिबिम्बोत्पति प्रक्रिया उपपादिता मन्दाधिकारिणां हि यथा कर्तृत्व भोक्तृत्वादि संसाराश्रयश्चिदाभासो मिथ्याभूतः स चात्मान भवति ।
आत्मा त्वसङ्गचैतन्यरूपः न संसाराश्रय इति प्रक्रियया तत्वं बुद्धां वा रोहति ।
न तथात्मनो ब्रह्मप्रतिबिम्बस्य स्वतः सिद्धं ब्रह्मत्वमन्तःकरण तादात्म्यात् संसाराश्रयत्वमिति ।
प्रक्रिययात्व त्वं बुद्धा वा रोहति ।
लोके विरुद्धधर्मा साङ्कर्यस्य धर्मिभेदस्थल इव धर्म्यभेदस्थले स्फुटत्वाभावादयं च तेषाम्मभिप्रायः ।
कूटस्थ दीपे यया यया भवेत्युंसामिति वार्तिकवचनोदाहरणेन स्पष्टः ।
तच्च वचनमादावेवोदाहृत्यव्याख्यानमिति सङ्क्षेपः ।
प्रतिबिम्बस्थले दर्पणस्थत्वादिरूपसंसर्गमात्रचाधमुक्तमनूद्य प्रतिवन्द्या प्रतिबिम्ब स्वरूप बाधं साधयति ।
यत्वित्यादिना ।
आपतेरिति ।
तथा च शुक्तिरजतस्यानिर्वचनीयत्वं सिद्धान्ताभिमतं न स्यादिति भावः ।
अत्र यद्यपि तादात्म्य मात्रस्य बाध्यत्वेपि रजतस्यानिर्वचनीयस्योत्पतिरनिवार्व्यादेशान्तरस्थरजतादेः
संविदभिन्नत्वाभावेन पुरोवर्त्यभिन्नतया प्रत्यक्षानुपपतित्युक्तत्वा तथापि शुक्तिरजतस्य बाधोप्युपपादयितुं शक्यत इति मत्वादि प्रतिबिम्बाभेदवादी शङ्कते ।
यदि चेति संसर्गितुयेति ।
आधेय तयेत्यर्थः प्रामाणिकत्वादिति ।
बाधक प्रमाणस्य शुक्तिरजत इव प्रतिबिम्बे सन्त्वेनाध्यासकल्पना गौरवस्य तन्मूलकत्वाविशेषादित्यर्थः ।
अभेदपक्षे स्वमुखगत नयनगोलकादि प्रतिबिम्बस्यापरोक्षासम्भवाच्च तदध्यासकल्पना गौरवं प्रामाणिकमित्याह ।
स्वनेत्रेति पूर्वोक्तो यायमनूद्यनिराकरोति ।
नयन रश्मीनामिति ।
किरणसमूहमिति ।
सूर्यकिरणसमूहमित्यर्थः ॥
कथं च चन्द्रालोकन इव तत्प्रतिबिम्बालोकनेपि अमतशीतलतद्बिम्बसन्निकर्षाविशेषे लोचनयोः शैत्याभिव्यक्ता आप्यायनं न स्यात् ।
कथं च जलसम्बन्धेनापि प्रतिहन्यमानाऽशिलादिसम्बन्धेन न प्रतिहन्येरन् ।
तत्प्रतिहन्य परावृतौ वा नयनगोलकादिभिर्न संसृज्येरन् तत्संसर्गे वा संसृष्टं किं न साक्षात्कारयेयुः दोषेणापि हि विशेषांशग्रहणमात्रं प्रतिबध्यमानं दृश्यते न तु सन्निकृष्टधर्मिस्वरूपग्रहणमपि ।
प्रतिमुखाध्यासपक्षे तु न किञ्चिद् दृष्टविरुद्धं
कल्पनीयं तथा ह्यव्यवहित स्थूलोद्भूतरूपस्यैव चाक्षुषाध्यासदर्शनाद्बिम्बगतस्थौल्योद्भूतरूपयोः स्वाश्रयसाक्षात्कारकारण त्वेन कॢप्तयोः स्वाश्रय प्रतिबिम्बाध्यासेपि कारणत्वम् ॥
नन्वत्र जलस्य प्रतिघातकत्वं न कल्प्यते ।
किन्तु जलान्तर्गत सिकतादीनामतो न नितान्तमृदुत्वं यथा सूर्यादिकिरणा तां स्वतस्तृणादि दाहकत्वा भावेपि सूर्यकान्तमणि प्रतिहतानां तद्दाहकत्वं तथा नयनकिरणानास्वतः ।
सूर्यकिरणप्रतिघातकत्वा भावेपि प्रतिबिम्बोपाधिप्रतिहतानां तद्विजये सामर्थ्यातिशय कल्पनोपपद्यते ।
तथा च नोक्तदोष इत्यस्वरसादाह ।
कथं चेति ।
कथं चाप्यायनं न स्यादिति सम्बन्धः ।
अमृतमिवशीतलं यतस्य चन्द्रस्य बिम्बं तत्सन्निकर्षाविशेष इत्यर्थः ।
आप्यायनम् औष्ण्यशान्तिः ।
यदा पुमानधो मुखः सन् जलाशयादौ चन्द्रमण्डस्तप्रतिबिम्बं नैरन्तर्येण पश्यति तदा लोचनयोः शैत्याभिव्यक्त्यादिकं स्यात् ।
बिम्बप्रतिबिम्बयोरभेदेन प्रतिबिम्बसन्निकर्षस्यैव बिम्बसन्निकर्षत्वादित्यर्थः ।
ननु लोचनयोः शेत्याभिव्यक्तिश्चन्द्रसन्निकर्षादिकता न भवति ।
किन्तु तयोश्चन्द्रकिरणसंसर्गसन्तति कृता तथा चाधो सुखस्य लोचनयोस्तदभावाच्चन्द्रसन्निकर्षद्दर्शनसत्वेपि न शैत्याभिव्यक्त्यादि प्रसक्तिरित्यस्वरसादाह
कथं च जलेति ।
कथं च न प्रतिहन्येरन्निति सम्बन्धः प्रतिहन्येरन्नेवेत्यर्थः ।
ततः किं तत्राह ।
तत्प्रतिहत्येति ।
नयन गोलकादिभिः कथं न संसृज्येरन्निति सम्बन्धः ।
ततोपि किं तत्राह ।
तत्संसर्गेवेति शिलादिदर्शनकाले शिलादिना प्रतिहर्ताः नयनरश्मयः स्वमुखगतनयनगोलकादिभिः संसृष्टाश्चेत् ।
संसृष्टं नयनगोलकादिकं कथं न साक्षात्कारयेयुः साक्षात्कारयेयुरेवेत्यर्थः ।
ननु दोषबलात्संसृष्टमपि न साक्षात्कारयेयुः ।
अतो नोक्तदोष इत्यत आह ।
दोषेणापि हीति दृश्यते इति ।
शुक्तिरजतादि भ्रमस्थलेष्वपीति शेषः ।
तथा च शिलादि सन्निकर्षकाले मुखत्वादि सामान्यरूपेण वा स्वमुख साक्षत्कार प्रसङ्ग इति भावः ।
वस्तु तस्तु अनन्यथा सिद्धफलवन्यत् स्वछद्रव्यस्य तत्संसृष्टस्य वा प्रतिबिम्बोदय योग्यस्यैव प्रतिघातकत्वमुपेयते ।
अतो नोक्तदोष इति बोध्यम् ।
एवं बिम्बप्रतिबिम्बभेदपक्षे दृष्टविरोधबाहुल्यमापाततो दर्शयित्वा प्रतिबिम्बाध्यासोत्पति पक्षमुपपादयति प्रतिमुखाध्यासपक्षे त्विति ।
कारणत्वं प्रतिबन्धकत्वं च कल्पनीयमिति सम्बन्धः स्वाश्रयेति ।
महत्वोद्भूतरूपाश्रय द्रव्यगोचरचाक्षुषत्वावछिन्नं प्रतिघटादि चाक्षुषे कॢप्ते योरित्यर्थः ।
द्वितीयः स्वपदमपि स्थौल्योद्भूतरूपपरम् ।
अध्यासेपीति बिम्बभूतमुखादि चाक्षुष इव स्वाश्रयमुखादेर्यः प्रतिबिम्बरूपोध्यासः तदुत्पतावर्पात्यर्थः ।
कुड्याद्यावरणद्रव्यस्यत्वगिन्द्रिय न्यायेन प्राप्य
कारितयावगतनयनसन्निकर्षविघटनद्वाराव्यवहित वस्तु साक्षात्कारप्रतिबन्धकत्वेन कॢप्तस्य व्यवहित प्रतिबिम्बाध्यासेपि विनैव द्वारान्तरं प्रतिबन्धकत्वं च कल्पनीयम् ।
तत्र को विरोधः क्वचित्कारणत्वादिना कॢप्तस्य फलवलादन्यत्रापि कारणत्वादि कल्पने ।
एतेनोपाधिप्रतिहतनयनरश्मीनां बिम्बप्राप्त्यनुपगमे व्यवहितस्योद्भूतरूपादिरहितस्य च चाक्षुषप्रतिबिम्बतमप्रसम्म इति निरस्तम् ।
किं च तदभ्युपगम एवोक्त दूषणप्रसङ्गः कथं साक्षात्सूर्यावलोकन इव विना चक्षुर्विक्षेपमवनतमोलिनानिरीक्ष्यमाणे सलिले ततः प्रतिहतानां नयनरश्मीनाम् ऊर्द्धमुत्यबिम्बसूर्यग्राहकत्ववतिर्यक चक्षुर्विक्षेपं विना ऋजुचक्षुषादर्पणे विलोक्यमाने तत्प्रतिहतानां पार्श्वस्थमुखग्राहकत्व वच्च वदनसाचीकरणाभावेप्युपाधिप्रतिहतानां पृष्ठभाग व्यवहित ग्राहकत्वं तावत् दुर्वारम् उपाधिप्रतिहतनयनरश्मीनां प्रतिनिवृतिनियमं विहाय यत्र बिम्बं तत्रैव गमनोपगमात् ॥
यदुक्तं प्रतिबिम्बाध्यासं प्रतिकुड्यादेः साक्षात्प्रतिबन्धकत्वसीकारे अन्यत्रापि तथात्वापत्या सन्निकर्षमात्रविलोपप्रसङ्ग इति तन्न सन्निकर्षहेतुत्व ग्राहङ्क प्रमाणानुरोधेन सन्निकर्षविघटन द्वारैव तस्य प्रत्यक्षप्रतिबन्धकत्वाभ्युपगमादित्याशयेन सन्निकर्षस्य हेतुत्व ग्राहक प्रमाणं सूचयति ।
त्वगिन्द्रियेति ।
त्वगिन्द्रियस्य विषयं प्राप्तस्यैव विषयप्रत्यक्ष कारित्व दर्शनातदृष्टान्तेन नयनादेरपि प्राप्यकारित्वमवगतमित्यर्थः ।
व्यवहितेति छेदः व्यवहित प्रतिबिम्बेति ।
कुड्यादि व्यवहितस्य मुखादेः प्रतिबिम्बाध्यासे साक्षात्प्रतिबन्धकत्वं कल्पनीयम् ।
अन्यथा प्रतिबिम्बोत्पति पक्षे बिम्बसन्निकर्षस्य हेतुत्वानुपगमेन व्यवहितस्यापि प्रतिबिम्ब प्रसङ्गस्य प्राग्दर्शिततत्वादित्यर्थः ।
तत्र कल्पने को विरोध इति सम्बन्धः तस्मिन् कल्पने इत्यर्थः ।
अव्यवहितत्व स्थूलत्वोद्भूतरूपाणां मुखादि प्रतिबिम्बाध्यासोपयोगकल्पन प्रयोजनमाह ।
एतेनेति ।
आदिपदं स्थूल्यसङ्ग्रहार्थम् ।
उक्तेति व्यवहितादि बिम्बप्रसङ्ग इत्यर्थः ।
प्रसङ्ग प्रकारानभिज्ञः पृछति ।
कथमिति तमाह साक्षादिति ।
गगनस्थसूर्यावलोकने चक्षुर्विक्षेपः कॢप्तः तं विनेत्यर्थः ।
अवनतमौलिना अधोमुखेन तिर्यगिति ।
स्वाभिमुखे दर्पणे स्वप्रतिबिम्बग्रहणकाले स्वपार्श्व स्थित पुरुष प्रतिबिम्ब ग्रहणमप्यस्ति प्रतिबिम्बाभावकाले स्वपार्श्वस्थितपुरुषग्रहणाय स्वचक्षुषस्तिर्यग्विक्षेपोस्ति ऋजु चक्षुषा स्वाभिमुखपुरुषस्येव स्वपार्श्वास्थितपुरुषस्य ग्रहणा दर्शना तथा च स्वाभिमुखे दर्पणे
स्वपार्श्व च स्थित पुरुषप्रतिबिम्बग्रहणाय चक्षुषस्तिर्यखिक्षेपं विना दर्पण प्रतिहतानां स्वपाश्वं स्थित पुरुषग्राहकात्ववदित्यर्थः ।
वदनेति ।
वदनुसाचीकरणं नामचक्षुषा स्वपृष्ठभागव्यवहित पदार्थग्रहणानुकूलोवदनव्यापारः ।
प्रतिनिवृतिनियममिति ।
नयनगोलकाभिमुखविषयप्रतिहतानां पुनर्गोलकद्वारा शरीरान्तः प्रवेशनियममित्यर्थः ॥
तथा मलिनदर्पणे श्यामतयागौरमुखप्रतिबिम्बस्थले विद्यमानस्यापि बिम्बगतगौररूपस्य चाक्षुषज्ञानेऽनुपयोगितयापीतशङ्खभ्रमन्यायेनारोप्यरूप- वैशिष्ट्ये नैव बिम्बमुखस्य चाक्षुषत्वं निर्वाह्यमिति तथैव निरूपस्यापि दर्पणोपाधि श्यामत्व वैशिष्ट्येन चाक्षुष प्रतिबिम्बभ्रमविषयत्वमपि दुर्वारं स्वतोनीरूपस्यापि नभसोऽध्यस्तनैल्यवैशिष्ट्येन चाक्षुषत्व सम्प्रतिपतेः ।
तस्मात् स्वरूपतः प्रतिमुखाध्यासपक्ष एव श्रेयान् ॥
ननु प्रतिनिवृतिनियमाभावपक्षेपि बिम्बसन्निकर्षविघटक व्यवधानाभावोपेक्षास्ति अवनत मौलि नयनरश्मीनां सूर्यशप्तिस्थले ऋजुचक्षुषादर्पणे विलोक्यमाने दर्पण प्रतिहतानां पार्श्वस्थपुरुषप्राप्तिस्थले च सन्निकर्षविघटकाभावात् ।
तत्प्राप्तिः सम्भवति प्रकृते च शरीर
तदवयवानां व्यवधायकानां सत्वाद्दर्पण प्रतिहतानां न पृष्ठभागव्यवहितवस्तुप्राप्तिरित्यस्वरसादाह ।
तथेति ।
उपाधि प्रतिहत नयनरश्मीनां प्रतिनिवृतिनिवृतिनियमाभावपक्षेष्वष्टभागव्यवहितस्य प्रतिबिम्बापतिवन्नीरूपवाम्नादेरपि ।
चाक्षुष प्रतिबिम्बापतिरिति दूषणान्तर ससुच्चयार्थस्तथा शब्दः ।
ननु नीरुपस्यापि वाग्वादेर्दर्पणद्युपाधिगतरूपोपादानेन चाक्षुषप्रतिबिम्बभ्रमविषयत्वं दुर्वारमित्यनुपपन्नं द्रव्यस्य चाक्षुष प्रतिबिम्बभ्रमे बिम्बरातस्य महत्वेवदुद्भूतरूपस्यापि कारणत्वादित्याशङ्क्यद्रव्यगोचरचाक्षुष प्रतिबिम्बभ्रमे बिम्बिंवगतरूपस्यानुपयोगान्नेवमित्याह ।
मलिन्नेति ।
मलिन दर्पणे गौरमुखस्य प्रतिबिम्बे सति प्रतिबिम्बं श्यामतया गृहतेन गौरतया ।
तथा च तत्र गौरमुखे आरोप्येणैव श्यामरूपेणोपहितस्य गौरमुखस्य चाक्षुषत्वं निर्वाह्यमित्यर्थः ।
आरोप्यरूपेणैवा क्वचिद्द्रव्यस्य चाक्षुषत्वे दृष्टान्तमाह ।
पीतशङ्खेति ।
कविता किङ्कमतोपपादनावसरे शङ्खस्यारोप्यपीतरूपविशिष्टतयैव भ्रमस्थले चाक्षुषत्वं नान्यथेत्युक्तमिति भावः ।
वस्तु तस्तु द्रव्यचाक्षुषे द्रव्यगतमेवोद्भूतरूपं कारणमिति न नीरूपद्रव्यस्य चाक्षुषप्रतिबिम्बभ्रमविषयत्वं प्रसज्यते मलिन दर्पणे गौरमुखप्रतिबिम्बस्थले पीतशङ्खादि भ्रमस्थले च श्यामं मुखं पीतः शङ्ख इत्यादि भ्रमप्राचीन धर्मिज्ञाने अध्यासकारणभूतै गौरशुक्लादिरूपस्य कारणतया उपयोगाभावासिद्धेः द्रव्यचाक्षुषे रूपविषयकनियमाभावस्यकवितार्किक ग्रन्थव्याख्यानावसरे
दर्शितत्वेन पीतशङ्खभ्रमसम्भवाच्चेति बोध्यम् ।
आरोप्यरूपविशिष्टतयैव चाक्षुषत्वे उदाहरणान्तरमाह ।
स्वत इति ।
सम्प्रतिपतेरित्यापाततः गगनस्य चाक्षुष वृति विषयत्वं कवितार्किकमात्रसम्मतं न तु पूर्वाचार्यैः पूर्वाचार्याणां मते तु गगनव्यापि सौरालोकादिगोचरचाक्षुषवृत्या आलोकाद्यवछिन्न चैतन्याभिव्यक्तिकाले आलोकानुगत गगनावछिन्नचैतन्यस्याप्यभिव्यक्तिं स्वीकृत्याभिव्यक्ते गगनावछिन्ने साक्षिणि नैल्याध्यासाभ्युपगमेन नैल्यादिविशिष्टगगनस्य साक्षिमात्रभास्यत्वादिति ध्येयम् ।
तस्मादिति दृष्टविरोधरूपबाधकाभावात् स्यधकत्वाच्चैतिभावः ।
श्रेयानिति मन्दाधिकारिणः प्रतीति वस्तु गतिः ॥
न च तत्रापि पूर्वानुभवसंस्कार दौर्घट्यम् ।
पुरुषसामान्यानुभवसंस्कारमात्रेण स्वप्नेप्यवृष्टचरपुरुषाध्यासवन्मुख सामान्यानुभव संस्कारमात्रेण दर्पणे मुखविशेषाध्यासोपपतेः ।
इयांस्तु भेदः स्वप्नेषु शुभाशुभहेतु दृष्टानुरोधेन पुरुषाकृतिविशेषाध्यासः ।
इह तु बिम्बसन्निधानानुरोधेन मुखाकृतिविशेषाध्यास इति ।
न च प्रतिबिम्बस्य स्वरूपतो मिथ्यात्वे ब्रह्मप्रतिबिम्बस्य जीवस्यापि मिथ्यात्वापतिर्दोषः
प्रतिबिम्बजीवस्य तथात्वेप्यवछिन्न जीवस्य सत्यतया मुक्तिभाक्त्वोपपतेरिति ।
यतु प्रतिबिम्बं दर्पणादिषु मुखछायाविशेषरूपतयासत्यमेवेति ।
कस्यचिन्मतं तन्न छाया हि नाम शरीरादिस्ततदवयवैरालोकेकिसित यद्देशे व्यापिनि निरुद्धे तत्तद्देशे लघ्वात्मकं तम एव न च मौक्तिकमाणिक्यादि प्रतिबिम्बस्य तमो विरुद्धसितलोहितादिरूपवतस्तमोरूपछायात्वं युक्तै न वा तमोरूपछायारहितनयनादि प्रतिबिम्बस्य तथात्वमुपपन्नं ननु तर्हि प्रतिबिम्बरूपछायायास्तमौ रूपत्वासम्भवे द्रव्यान्तरत्वमस्त्वकॢप्तद्रव्यानन्तर्भावेन तमो वट् द्रव्यान्तरकल्पनोपपतेरिति चेत् ।
किं तत् द्रव्यान्तरं प्रतीयमानरूपपरिमाणसंस्था न विशेष प्रत्य"नमुखत्वादि वद्रधर्मयुक्तं तद्रहितं वा स्यात् ।
अतेन तेन द्रव्यान्तरेण रूपविशेषादि घटिते प्रतिबिम्बोपलम्भ निर्वाह इति व्यर्थ तत्कल्पन्नम् ॥
उपाधिप्रतिहतानां बिम्बप्राप्त्यनुपगमे अध्यस्यमानमुख सजातीय गोचरपूर्वानुभवानुभवासम्भवादध्यासु
कारणसंस्कारानुपपतिरित्युक्तमनूद्यनिराकरोति ।
न च तत्रापीति ।
प्रतिबिम्बाध्यासपक्षे स्वसंस्कार दौर्घट्यमपि न चेत्यर्थः ।
अदृष्ट चरेति ।
कदाप्य ननु भूतेत्यर्थः ।
ननु मुखसामान्यानुभवजन्यसंस्कारस्य प्रतिमुख्यध्यासहेतुत्वे चैत्र मुखदर्पणयोः सन्निधे सति यस्य कस्यापि मुखस्याध्यासप्रसङ्गः ।
स्वप्नवदेव न तु नियमे नाभिमुखमुखाध्यास इत्याशङ्क्य व्यवस्थामाह ।
इयांस्तु भेद इति ।
स्वप्न प्रतिबिम्बाध्यासयोरिति शेषः ।
आदौ त्रिविध जीववादिनामिति विशेषणेन सूचितं परिहारमाविष्करोति ।
प्रतिबिम्ब जीवस्यैति ।
मुक्तिभाक् तं ब्रह्माभेदः प्रतिबिम्बस्य मिथ्यात्व दार्ढ्याय तत्सत्यत्वमतं दूषयितु मनुभाषते ।
यत्विति ।
ननु वृक्षादिछायोयाः नैल्य दर्शनात् ।
प्रतिबिम्बेषु प्रायेण नैल्यादर्शनेन छाया वैलक्षण्य सत्वात् प्रतिबिम्बस्य छायारूपत्वमनुपपन्नमिति शङ्कानिराकरणार्थं विशेष पदं तथा च बिम्बभिन्नोपि मुखाद्याभासः ।
शुक्तिरजतादिवत् प्रातिभासिको न भवति ।
किन्तु बिम्बवत् सत्यः छाया विशेषरूपत्वाभ्युपगमातस्येत्यर्थः ।
छायायानीलरूपवत्वनियमा तद्विशेषरूपत्वं प्रतिबिम्बस्य न्वसम्भवतीति छाया स्वरूप कथन पूर्वकं दूषयति तन्नेति शरीरादेः छायानामतम एव नान्यदिति प्रसिद्धमित्यर्थः ।
किं यद्देशव्यापिन्या लोके शरीर तदवयवैनिरुद्धे सतीति सम्बन्धः ।
न चेति मौक्तिक स्फुटिकादि प्रतिबिम्बस्य सितरूपवतः तद्विरुद्धतमोरूपछायात्वं न युक्तं
तथा माणिक्य कनकादि प्रतिबिम्बस्य लोहितपीतरूपादि मतस्तद्विरुद्धछायात्वं न युक्तमिति विभज्य योजनीयं नयनादे छायैव नास्तिति तत्प्रतिबिम्बस्य छायारूपत्वमनुपपन्नमेवेत्यर्थः ।
तमो वदिति यथा तमसो द्रव्यस्य कॢप्त द्रव्यानन्तर्भावे सिद्धान्ते दशम द्रव्यत्वं कल्पितं तद्वदित्यर्थः ॥
प्रथमे कथमेकस्मिन्नल्यपरिमाणे दर्पणे युगपदसङ्कीर्णतया प्रतीयमानानां महापरिमाणानामनेक मुखप्रतिबिम्बानां सत्यता निर्वाहः ।
कथं च निविडा वयवानुस्यूते दर्पणे तथैवावतिष्ठमाने तदन्तहिनुनासिकाद्यनेक निम्नोन्नत प्रदेशवतो द्रव्यान्तरस्योत्पतिः ।
किं च सितरक्तपीताद्यनेक वणीदिमतः प्रतिबिम्बस्योत्पतौ दर्पणमध्ये स्थितं तान्सन्निहितं न तादृशं कारणमस्ति ।
यद्युच्येतोपाधिमध्यविश्रान्ति योग्यपरिमाणा नामेव ।
प्रतिबिम्बानां मेहापरिमाणज्ञानं तादृशनिम्नोन्नतादि ज्ञानं च भ्रम एव यथा पूर्वं दर्पण तदवयीवावस्थानाविरोधेन तादृक् प्रतिबिम्बोत्पादन समर्थ च किञ्चित् कारणं परिकल्प्यमिति तर्हि
शुक्तिरजतमपि सत्यमस्तु ।
तत्रापि शुक्तौ यथापूर्वं स्थितायामेवततादात्म्यापन्नरजतोत्पादनसमर्थम् ।
किञ्चित्कारणं परिकल्प्य तस्य रजतस्य दोषत्वाभिमतकारणसहकृतेन्द्रिय ग्राह्यत्वनियम वर्णनोपपतेः ॥
प्रथमे कथं सत्यता निर्वाह इति सम्बन्धः ।
यद्येकमपि दर्पणं विशालं स्यातदानेक प्रतिबिम्बानामसङ्कीर्णतया तत्रावस्वानं सम्भवेदिति शङ्कावारणायाह ।
अल्पेति ।
अल्पपरिमाणानामपि दर्पणानामनेकत्वे सत्येकैकस्मिन् दर्पणे एकैकं प्रतिबिम्बमसङ्कीर्णतया च तिष्ठे तदपि नास्तीत्याह एकस्मिन्निति ।
एकस्मिन्नल्यपरिमाणेपि दर्पणे क्रमेणानेक प्रतिबिम्बानाम सङ्कीर्णता स्या तदपि नास्तीत्याह ।
युगपदिति ।
प्रतिबिम्बस्य मिथ्यात्व तु नायं दोषो भवति स्वप्न दशायां स्वल्पेपि शरीरस्यान्तराकाशे रथगजादि पदार्थानां तदुचित वैशाल्यस्य चाध्यासवदल्पपरिमाणेपि दर्पणे परस्परमसङ्कीर्णतया अनेक प्रतिबिम्बानां तदुचित वैशाल्यस्य चाध्याससम्भवादितिभावः ।
कथं च द्रव्यान्तरस्योत्पतिरिति सम्बन्धः सत्यस्येति शेषः ।
सामग्र्य भावाच्च न तस्योत्पतिः ।
सम्भवतीत्याह ।
किं चेति ।
दर्पणस्य यो वर्णः स एव प्रतिबिम्बस्यापीति नियमसुत्वे तद्वर्णयुक्तं किञ्चित्कारणे दर्पणे सम्भाव्ये तापि नत्वे तदस्ति दर्पणरूपविलक्षण नानारूपवतां प्रतिबिम्बा
नामनुभवादित्याह ।
अनेकेति ।
सितपीतरक्ताद्यनेकवर्णयुक्तानां बिम्बानामेवकारणत्वमस्तु नेत्याह ।
दर्पणमध्ये स्थितमिति ।
तेषां निमितत्वेप्युपादानत्वं न सम्भवति प्रतिबिम्बोत्पति देशे तेषामभावादित्यर्थः ।
तादृशमिति ।
सितपीतरक्ताद्यनेकवर्णयुक्तं कारणं प्रतिबिम्बोदयकाले नियमेन नास्त्यनुपलम्भादित्यर्थः ।
प्रतिबिम्बं हि दर्पणस्यान्तः दर्पणस्य पृष्ठभागे दर्पणसन्निहितमनुभूयते न तु दर्पणगतरूपपरिमाणादिवद्दर्पणस्यो परिभागे ततस्तत्कारणेनापि तत्रैव भवितव्य्मिति मत्वा दर्पणमध्ये स्थितं तत्सन्निहितमित्युक्तं मध्यशब्दोन्तरर्थकः प्रतिबिम्बस्वरूपमात्रं सत्यं तत्र प्रतीयमानधर्मास्तु कल्पिता एवेति तत्सत्यत्वेभिनिवेशमानः शङ्कते ।
यद्युच्येतेति ।
वस्तु गत्या उपाधि मध्ये विश्रान्ति योग्यान्येव प्रतिबिम्बान्युत्पद्यन्ते तेषु महापरिमाणादिकं भ्रान्त्याभासत इत्यर्थः ।
कल्प्यमिति ।
नीवारावयवेषुर्ब्राह्मवयवा यथा मीमांसकैः कल्प्यं तं तद्वद्दर्पणावयवसंसृष्टाः प्रतिबिम्बावयवाः कल्प्या इत्यर्थः ।
प्रतिबन्दीमाह तहीति पूर्वोक्त दृष्टान्तमनसि निधाय शुक्तिरजतस्यापि कारणं कल्पयति तत्रापीति ।
शुक्तिरजतस्थलेपीत्यर्थः ।
ननु शुक्तिरजतं सत्यमिति स्वीकारे तस्य शुक्तौ सदा सत्वाच्छुक्ति प्रत्यक्षकाले नियमेन तदपि गृह्येत न च गृह्यते अतो न तस्य सत्यत्वं सम्भवतीत्याशङ्कां परिहरति ।
तस्येति ॥
किं शुक्तिरजतमसत्यं प्रतिबिम्बः सत्य इत्यर्ध्वजरतीय न्यायेन न च तथा सति रजतमिति दृश्यमानायाः शुक्तेरग्नौ प्रक्षेपे रजतो चितद्रवीभावापतिः ।
अनलकस्तूरिकादि प्रतिबिम्बस्थौल्यसौरभादिराहित्यवच्छुक्ति रजतस्य द्रवीभावयोग्यतानृराहित्योपपतेः ।
अथोच्येत नेदं रजतं मिथ्यैव रजतमभादिति सर्वसम्प्रतिपन्नबाधान्न शुक्तिरजतं सत्यमिति ।
तर्हि दर्पणे मुखं नास्ति मिथ्यैवात्र दर्पणे मुखमन्नादित्यादि सर्वसिद्धबाधात्प्रतिबिम्बमपि न सत्यमिति युक्तम् ।
तस्मादसङ्गतः प्रतिबिम्बसत्यत्ववादः ।
ननु मिथ्यात्ववादोप्ययुक्तः ।
शुक्तिरजत इव कस्यचिदन्वयव्यतिरेक शालिनः कारणस्याज्ञानस्य तन्निवर्तकस्य ज्ञानस्य चानिरूपणात् ।
अत्र केचित् ॥
ततः किं तत्राह ।
किमिति ।
अर्धजरतीय न्यायेनेति ।
जरतीद्ब्रद्धातस्या(?) अर्धं मुखमात्रं कामयते नाधः कायमित्ये तद्यथोपपति श्रन्यमेवमिदमपीत्यर्थः ।
ननु प्रसिद्धरजतमग्नौ प्रक्षिप्तं द्रवी भवति शुक्तिरजतं तु न तथेति ।
तस्य मिथ्यात्वमेवेति मत्वा शङ्कते ।
न च तथो सतीति तस्य सत्यत्वे सतीत्यर्थः ।
प्रतिबन्दीं समर्थयते ।
अनलेति ॥
यद्यप्यन्नेष्टापतिरेव प्रतिबिम्बसत्यत्ववादिमते शुक्तिरजतादेरपि सत्यत्वसम्भवा तथापि प्रतिबन्दी व्याजेन शुक्तिरजतादेः अपि मिथ्यात्व निरूपणे तात्पर्यं बोध्यं प्रतिबन्द्याः परिहारं शङ्कते प्रतिबिम्बसत्यतवादी अश्वोच्येतेति ।
परिहारसाम्यमाह ।
तर्हीति मिथ्यैवात्रेति ।
बिम्बप्रतिबिम्बाभेदपक्षे प्रतिबिम्बमिथ्यात्वानुभवः प्रतिबिम्बत्व विशिष्टवेषेण प्रतिबिम्बगौचरो न स्वरूपेणेति बोध्यम् ।
ननु तर्हि शुक्तिरजतमिथ्यात्वानुभवोपीदर्मर्थ तादात्म्यापन्नतयैव रजतयो चरः न स्वरूपेणेति वक्तं शक्यतयारजतेदमर्थयोस्तादात्म्यमात्रकल्पितं त्व कल्पितमिति प्रसज्येतेति चेन्न रजतस्य शुक्तावनुत्पतौ तस्य संविदभिन्नत्वाभावेन प्रत्यक्षानुपपतेस्तस्य तत्रोत्पतिरपरिहार्यातदुत्पतौ चान्वयव्यतिरेकाभ्यामनिर्वचनीयाज्ञानमेव कारणं नान्यदिति ।
प्राक्प्रतिपादितत्वेन तस्य मिथ्यात्वोपयतेः ।
पूर्वोक्तरीत्या बिम्बप्रतिबिम्बा भेदसाधकप्रमाणसत्ववच्छुक्ति रजतत्यत्व साधका नन्यथा सिद्धप्रमाणो भावेन शुक्तिरजतमिथ्यात्वानुभवस्य रजत स्वरूपगोचरत्वोपपतेश्च तस्य मिथ्यात्वमिति भावः ।
तस्मादिति बिम्बभिन्नस्य प्रतिबिम्बस्य सत्यत्वे मानाभावादित्यर्थः ।
नन्विति ।
प्रतिबिम्बाध्यासपक्षे हि तस्योपादानमज्ञानं वाच्यं तच्च न सम्भवति ।
सर्वात्मनादर्पणादिरूपाधिष्ठानगोचरसाक्षात्कारेण दर्पणाद्यवछिन्न चैतन्यनिष्ठाज्ञानस्यति वृतत्वाता
दृशसाक्षात्कारे सत्ये वानुवर्तमानस्य प्रतिबिम्बाध्यासस्य तन्निवर्त्यत्वायोगात् ।
तन्निवर्तक ज्ञानान्तरानुपलम्भाच्च ज्ञानैकनिवर्त्यत्वं विना तस्य मिथ्यानुपपतेः तस्मातन्मिथ्यात्व वादोप्यसङ्गत इत्याक्षेपाभिप्रायः यथा शुक्तिरजते शुक्त्यज्ञनस्य तत्कारणस्यान्वयव्यतिरेक सिद्धस्य पूर्वे निरूपणं कृतं तथा प्रतिबिम्बाध्यासे दर्पणाद्यज्ञाने सति प्रतिबिम्बाध्यासः ।
तदभावे तदभावः ।
इत्यत्वयव्यतिरेक शालिनस्तत्कारणस्याज्ञानस्य कस्यचिदनिरूपणातन्निवर्तक ज्ञानस्य चानिरूपणादित्यक्षरार्थः ।
परिहरति ।
अत्र केचिदिति ॥
यद्यपि सर्वात्मनाधिष्ठान ज्ञानानन्तरमपि जायमाने प्रतिम्बिम्बाध्यासेनाधिष्ठानावरणमज्ञानमुपादानं नखाधिष्ठानविशेष्यंशज्ञानं निवर्तकम् ।
तथाप्यधिष्ठानाज्ञानस्यावरणशक्त्यंशेन निवृतावपि विक्षेपशक्त्यंशेनानुवृति सम्भवातदेवोपादानम् ।
बिम्बोपाधिसन्निधिनिवृति सचिवञ्चाधिष्ठानज्ञानं सोपादानस्य तस्य निवर्तकमिति ।
अन्ये तु ज्ञानस्य विक्षेप शक्त्यंशं विहायावरणशक्त्यंशमात्रनिवर्तकत्वं न स्वाभाविकं ब्रह्मज्ञानेन मूलाज्ञानस्य शुक्त्यादि ज्ञानेनावस्था ज्ञानस्य चावर
रणशक्त्यंशमात्र निवृतौ तस्य विक्षेप शक्त्या सर्वदानुवृति प्रसङ्गात् ।
न च तद्बिम्बोपाधि सन्निधिरूपं विक्षेपशक्त्यंश निवृति प्रतिबन्धकप्रयुक्तां बिम्बोपाधि सन्निधातात्प्रागेव बिम्बे चैत्रमुखे दर्पणसंसर्गाद्यभावे दर्पणे चैत्रमुखाभावे वा प्रत्यक्षतोवगम्यमाने विक्षेपशक्त्यंशस्यापि निंवृत्यवश्यं भावेन तत्कालं तयोः सन्निधाने सत्युपादानाभावेन प्रतिबिम्बभ्रमाभावप्रसङ्गात् ॥
आक्षेयाभिप्रायमनुवदति ।
यद्यपीति ।
सर्वात्मानेति शुक्तिरजताध्यासात्पूर्वमिदं त्वात्मना साक्षात्कार सत्वेपि शुक्तित्वादि विशेषात्मना साक्षात्कारो नास्तीति तत्राधिष्ठानविशेषांशावरणमज्ञानमुपादानं लभ्यते प्रकृते तु चक्षुः सन्निकृष्टे दर्पणे प्रतिबिम्बाध्यासात्पूर्वमिदं त्वात्मनेव दर्पणत्वादि विशेषात्मनापि साक्षात्कार सत्वेन सर्वात्मनाधिष्ठान साक्षात्कारोस्ति तथा च तेनाधिष्ठान विशेषावरणस्याज्ञानस्य निवृतत्वान्न तदुपादानं सम्भवतीत्ये तद्युक्तमेवेत्यर्थः ।
अपिरवधारणे निवेर्तकमिति ।
प्रतिबिम्बाध्यासस्येति शेषः ।
कथं तर्ह्युपादानादि लाभः तत्राह ।
तथापीति ।
तदेवेति ।
अधिष्ठाना ज्ञानमेवेत्यर्थः ।
सर्वात्मनाधिष्ठान साक्षात्कारेणाप्यज्ञानैक देशस्यैव निवृतिर्न तु कार्त्स्न्येनेति
फलवलात्कल्प्यत इति भावः ।
निवर्तक ज्ञानं च निरूपयति बिम्बेति ।
बिम्बोपाध्योः सन्निधिनिवृति सहकृते दर्पणे मुखं नास्तीति ज्ञानमेव प्रतिबिम्बाध्यासस्य निवर्तकमित्यर्थः ।
दर्पणाद्युपादानभूतं मूलाज्ञानमेकमस्ति दर्पणादि ज्ञाननिवर्त्यमवस्म्यारूपाज्ञानमप्यपरमस्ति तत्र मूला ज्ञानस्यैव दर्पणाद्युपादानत्ववत् प्रतिबिम्बाध्यासोपादानत्वमपीति परिहारान्तरमाह ।
अन्येत्विति ।
ननु पूर्वोक्तमतरीत्याशुक्तिरजतादिरिव प्रतिबिम्बाध्यासस्याप्यवस्थाज्ञानपरिणामत्वसम्भवे ।
किं मूलाज्ञानस्य तत्कल्पनयेति नेत्याह ।
ज्ञानस्येत्यादिनेति ।
ज्ञानस्यावरणमात्रनिवर्तकत्वं किं स्वाभाविकं किं वा विक्षेपशक्त्यंश निवृति प्रतिबन्धक सत्व प्रयुक्तं नाद्य इत्यत्र हेतुमाह ।
ब्रह्मज्ञानेनेति ।
तस्येति ।
द्विधस्याप्यज्ञानस्य निवर्तकाभावेन विक्षेप शक्ति सहकृतस्य विदेह कैवल्येप्यनुवृति प्रसङ्गादित्यर्थः ।
द्वितीयमनुवदति ।
न चेति ।
तदिति ।
आवरणमात्रनिवर्तकत्वमित्यर्थः ।
विक्षेपशक्तिमदज्ञानांश निवृति प्रतिबन्धक प्रारब्ध नाशे सति ब्रह्मज्ञानसंस्कारविशिष्टचैतन्यमात्रादेवविक्षेपांश निवृति सम्भवान्न पूर्वोक्तदोष इति मत्वादोषमाह ।
बिम्बोपाधिसन्निधानात्प्रागिति ।
बिम्बोपाध्योराभिमुख्यलक्ष्णसन्निधानात्पूर्वक्षण एवेत्यर्थः ।
बिम्बप्रतिबिम्बाभेदपक्षे प्रतिबिम्बोत्पत्यभावेपि चैत्रस्य मुखे बिम्बभूते बिम्ब तु प्रतिबिम्बत्वदर्पणस्थत्वादेरे निर्वचनीयस्योत्पत्युपगमेन तस्य चैत्रमुखावछिन्नचैतन्यनिष्ठावस्थाज्ञानमेवकारणं वाच्यं तच्च चैत्र मुखे दर्पणाभिमुख्यात् प्राक् विष्णुमित्रेण निरीक्ष्यमाणे सति तदा प्रतिबन्धकाभावाच्चैत्रमुखगोचरेण विष्णुमि ॥
अतो मूलाज्ञानमेव प्रतिबिम्बाध्यासोपादानं न चात्राप्युक्तदोषतोल्यम् ।
पराग्विषयवृतिपरिणामानां स्वस्वविषयावछिन्नचैतन्यप्रदेशे मूलाज्ञानावरणशक्त्यंशाभिभावकत्वेपि तदीय विक्षेप शक्त्यंशा निवर्तक त्वात् ।
अन्यथा तत्प्रदेश स्थित व्यावहारिक विक्षेपाणामपि विलयापतेः ।
न च प्रतिबिम्बस्य मूलाक्ष्यान कार्यत्वे व्यावहारिकत्वापतिः ।
अविद्याति रिक्तदोषाजन्य त्वस्य व्यावहारिकत्वे प्रयोजकत्वात् ।
प्रकृते च तदतिरिक्तबिम्बोपाधि सन्निधानदोषसद्भावेन प्रातिभासिकत्वोपपतेः ।
न चैवं सति बिम्बोपाधिसन्निधिनिवृति सह कृतस्याप्यधिष्ठान ज्ञानस्य प्रतिबिम्बाध्यासाऽनिवर्तकत्व प्रसङ्गस्तन्मूलाज्ञान
निर्वतकत्वाभावादिति वाच्यम् ॥
त्रीय साक्षात्कारेण विक्षेप शक्त्या सह निवर्तते ।
उतरक्षण एव चैत्र मुखस्य दर्पणाभिमुखे सति विष्णुमित्रस्य दर्पणे चैत्रस्य मुखमिति प्रतिबिम्ब भ्रमो भवति ।
तत्र चैत्रमुखे दर्पणस्थत्वादेरुत्पतिर्न स्यादुपादानाभावादित्याहे ।
बिम्ब इति ।
दर्पण संसर्गो दर्पणस्थत्वमादिपदं प्रत्य"न्मुखत्वादिसङ्ग्रहार्थम् ।
तथा च संसर्गाद्यभावे प्रत्यक्षतोवगम्यमान इति सम्बन्धः ।
चैत्रमुखैदर्पणस्थत्वादिकं नास्तीत्यवगति प्रकारो बोध्यः ।
दपणे प्रतिबिम्बाध्यासोत्पति पक्षे अवगति प्रकारमाह दर्पण इति ।
प्रतिबिम्बाध्यासपक्षे संसर्गितया प्रतिमुखस्यैवाध्यासोपगमाद्दर्पणे चैत्रमुखं नास्तीत्यनेन प्रकारेण दर्पणे चैत्रमुखाभावे प्रत्यक्षतोवगम्यमान इत्यर्थः ।
एवं मतभेदेनाधिष्ठान भेदे तत्साक्षात्कार भेदयोः प्रदर्शनार्थमेव चैत्रमुखे दर्पणे च पृथक् सप्तमी निर्द्वेशः कृतः सतभेदज्ञापनार्थश्च वाकारः तत्कालमिति ।
अधिष्ठान भूतचैत्रमुखे दर्पणे च विक्षेप शक्त्यासहा ज्ञाननिवर्तक साक्षात्कारोत्पतेर्द्वितीयक्षण इत्यर्थः ।
तयोरिति ।
चैत्रमुखदर्पणयोः सन्निधाने सत्यधिष्ठान साक्षात्कारवतो विष्णुमित्रस्य दर्पणे चैत्र मुखमिति यः प्रतिबिम्बभुमो भवति तस्याभावप्रसङ्गादित्यत्र हेतुमाह उपादानाभावेनेति ।
तत्र हेतुमाह विक्षेप शक्त्यंशस्यापि
निवृत्यवश्यम्भावेनेति ।
अत इति अवस्थाज्ञानस्य प्रतिबिम्बाध्यासे कारणत्वायोगादित्यर्थः ।
नन्वस्मिन् पक्षेपि बिम्बोपाधिसन्निधानात् पूर्वक्षणोत्पन्नचैत्रमुखसाक्षात्कारेण चैत्रमुखाद्यवछिन्नचैतन्यावरकमूलाज्ञानस्यापि निवृतेतोदुपादानाभाव दोषस्तुल्यः तेन तदनिवृतौ च चैत्र मुखायनवभासप्रसङ्गः ।
यत्किञ्चिदावरणस्य सत्वादित्याशङ्क्याह ।
न चात्रापीति ।
ब्रह्मज्ञानस्यैव मूलाज्ञाननिवर्तकत्वं जडविषयकवृतिरूपाणामन्तःकरणपरिणामानां तु स्वस्वविषयचैतन्यस्थमूलाज्ञानस्य योयमावरणांशः तदभिभावकत्वमात्रं यावद्विषयस्फुरणमङ्गीक्रियतेनत्ववस्थाज्ञानविक्षेपांशं निवर्तकत्ववन्मूलाज्ञानविक्षेपांशनिवर्तकत्वमपीत्यर्थः ।
अन्यथेति ।
विषयचैतन्यस्थस्य मूलाज्ञानस्य विषयज्ञानेन निवृतौ दर्पणादीनां यावहारिकाणां विक्षेपशब्दितकार्याणां नाशप्रसङ्गः उपादाननाशादित्यर्थः ।
प्रातिभासिकविक्षेपाणामिवेत्यपि शब्दार्थः ।
ननु मूलाज्ञानकार्यस्य दर्पणादेर्व्यावहारिकत्व दर्शनात् ।
प्रतिबिम्बाध्यासस्यापि तत्कार्यत्वे तदापतिरित्याशङ्क्यनिरोति ।
न चेत्यादिनामूलाज्ञानकार्यत्वं व्यावहारकत्वप्रयोजकं न भवति अनाद्यविद्यादौ तदभावेपि व्यावहरिकत्व सत्वात् ।
किं त्वन्यदेव तत्प्रयोजकमित्याह ।
अविद्यातिरिक्तेति ।
अनाद्यविद्यादावविद्याजन्यत्वाभावेपि तदतिरिक्तदोष्यजनात्वस्य सत्वात्र्यव्याप्तिरितिभावः ।
प्रतिबिम्बाध्यासस्य मूलाज्ञानकार्यस्यापि न व्यावहारिकत्वं तत्प्रयोजकाभावादित्याह ।
प्रकृते चेति ।
प्रतिबिम्बाध्यास
इत्यर्थः ।
न चैवं सतीति प्रतिबिम्बाध्यासस्य मूलाज्ञानकार्यत्वे सतीत्यर्थः ।
तन्मूलेति शुक्तिरनतादि मूलाविद्यानिवर्तक शुक्त्यादि साक्षात्कारस्यैव रजताद्य ध्यासनिवर्तकत्व दर्शनादिति भावः ॥
विरोधाभावात् ।
ब्रह्माज्ञानानिवर्तकत्वेपि तदुपादानक प्रतिबिम्बाध्यासविरोधिविषयकतयाधिष्ठानयाथात्म्यज्ञानस्य प्रतिबन्धकविरह सचिवस्य तन्निवर्तकत्वोपपतेः ।
अवस्थाज्ञानोपादानत्वपक्षेपि तस्य प्राचीनाधिष्ठानज्ञानविवर्तिलावरणशक्ति कस्य समानविषयत्वमङ्गेन प्रतिबन्धकाभावकालीनाधिष्ठानज्ञानेन निवर्तयितुमशक्यतया प्रतिबिम्बाध्यासमात्रस्यैव तन्निवर्त्यत्वस्योपेयत्वात् ।
अथवा स्वोपादानाज्ञाननिवर्तक ब्रह्मज्ञाननिवर्त्य एवाय मध्यासोस्तु व्यावहारिकत्वापतिस्त विद्यातिरिक्तदोषजन्यं त्वेन प्रत्युक्तैनत्याहुः ।
एवं स्वप्नाध्यासस्याप्यनवछिन्नचैतन्येहङ्कारोपहित चैतन्येवावस्थारूपाज्ञानशून्येध्यासात् ॥
विरोधाभावादिति ।
मूलाज्ञानं ब्रह्मविषयकं प्रतिबिम्बाध्यासाधिष्ट्वान भूतदर्पणादिज्ञानं तु दर्पणाद्यवछिन्न
चैतन्यविषयकमिति तयोः समानविषयकत्वस्य विरोधप्रयोजकस्याभावेन विरोधाभावादधिष्ठानयाथात्म्यज्ञानस्य ब्रह्माज्ञानानिवर्तकत्वेपीत्यर्थः ।
तत्पदं ब्रह्माज्ञानपरं विरोधिविषयकतयेति ।
दर्पणे मुखं नास्तीत्यादि रूपस्याधिष्ठानयाथात्म्यज्ञानस्य प्रतिबिम्बाध्यासा भावविषयकतयेत्यर्थः ।
ननु प्रतिबिम्बाध्यासस्यावस्थाज्ञानोपादानकत्वपक्षे बिम्बोपाधिसन्निधिनिवृतिसहकृताधिष्ठान ज्ञानस्य तदुपादाना ज्ञाननिवर्तकत्वं लभ्यते ।
तथा च ज्ञानमज्ञानस्यैव निवर्तकमज्ञानकार्यस्य तु उपादानाज्ञाननिवृत्या निवृतिरिति पञ्चपादिकाकारोक्तं सङ्गच्छत इत्याशङ्क्याह ।
अवस्थाज्ञानेति ।
तस्येति ।
अवस्थाज्ञानस्येत्यर्थः ।
प्राचीनेति बिम्बाध्यासात् प्राचीनेनाधिष्ठानज्ञानेन दर्पणे मुखं नास्तीत्याद्याकारेण निवर्तिता आवरणशक्तिर्यस्यावस्थाज्ञानस्यत तथा तस्येत्यर्थः ।
अज्ञानविषयत्वमज्ञानावृतत्वमावरणनाशे च दर्पणाद्यवछिन्न चैतन्यस्यावस्थाज्ञानविषयत्वाभावादधिष्ठान ज्ञानस्यावस्थाज्ञानगमा न विषयकत्वं विरोधे प्रयोजकं भग्नमित्यर्थः ।
प्रतिबन्धकपदं बिम्बौपाध्योः सन्निधिपरं तस्य निवर्तयितुमशक्यतयेति सम्बन्धः तन्निवत्येति ।
तत्पदमधिष्ठानज्ञानपरम् अवस्थाज्ञानोपादानत्वपक्षेपि प्रतिबिम्बाध्यासमात्रस्यैव तन्निवर्त्यत्वस्योपेयत्वादिति सम्बन्धः ।
तथा च पञ्चपादिकाविरोधः प्रतिबिम्बाध्यासस्थावस्थाज्ञानोपादानत्वपक्षेपि तुल्य इति भावः तदविरुद्धप्रकारमाह ।
अथवेति ।
स्वपदं प्रतिबिम्बाध्यासपरम् ।
निवर्त्य एवेति ।
बिम्बोपाध्योः सन्निधिविगमकाले प्रतिबिम्बाध्यासस्य सूक्ष्मावस्था
लक्षणनाशे सत्यपि व्यावहारिकत्वापतिरिति नेत्याह ।
व्यावहारिकत्वापतिस्त्विति तु शब्दोवधारणैप्रत्युक्तैवेति सम्बन्धः ।
बिम्बोपाधिसन्न्निधिः दोषः ।
उक्त न्यायमन्यत्राप्यति दिशति ।
एवमिति ।
एवं स्वप्नाध्यासस्यापि मूलाज्ञानकार्यतया अविद्यातिरिक्तनिद्रादि दोषजन्य तयैव प्रातिभासिकत्वमिति सम्बन्धः ।
नत्ववस्था ज्ञानकार्यतया प्रातिभासिक तमित्येव कारार्थः ।
अवस्था ज्ञानस्य स्वप्नो पादानत्वाभावै हेतुमाह ।
अवस्थारूपाज्ञानशून्ये ध्यासादिति ।
मतभेदेन स्वप्नाध्यासाधिष्ठान भेदमाहपि बाधरूपानिवृतिस्तथा नास्ति सा तु ब्रह्मज्ञानाधीनैव तस्यैव तदुपादानमूलाज्ञाननिवर्तकत्वादिति भावः ।
ननु ब्रह्मज्ञान बाध्यस्य घटादेरिव तद्बाध्यस्या अनवछिन्नेति अहङ्कारानवछिन्न ब्रह्मचैतन्यस्य मूलाज्ञानमात्राश्रयत्वादवस्था ज्ञानशून्यत्वमहङ्कारोपहितस्य साक्षि चैतन्यस्य सुखाद्यधिष्ठानस्यावरणानङ्गीकारादऽवस्थाऽज्ञानशून्यत्वमिति भावः ॥
सुषुप्त्याख्यं तमोऽज्ञानं यद्बीजं स्वप्नबोधयोरित्याचार्याणां स्वप्नजाग्रत्प्रपञ्चयोरेका ज्ञानकार्यत्वोक्तेश्च मूलाज्ञानकार्यतया स्वोपादान निवर्तक ब्रह्मज्ञानैक बाध्यस्याविद्यातिरिक्त निद्रादि दोषजन्य तयैव प्रातिभासिकत्वमिति केचित् ।
अन्येत बाध्यन्ते चैते रथादयः स्वप्नदृष्टाः प्रबोध इति भाष्योक्तेरवि चात्मक बन्ध
प्रत्यनीकत्वाज्जाग्रद्बोधवदिति विवरण दर्शनादुत्थितस्य स्वप्नमिथ्यात्वानुभवाच्च जाग्रद्बोधः स्वप्नाध्यास निवर्तक इति ।
ब्रह्मज्ञानेतरज्ञानबाध्यते यैव तस्य प्रातिभासिकत्वम् ।
न चाधिष्ठानयाथात्म्यागोचरं स्वोपादानाज्ञानानिवर्तकम् ।
ज्ञानं कथमध्यासनिवर्तकं स्यादिति वाच्यं रजुसर्षाध्यासस्य स्वोपादाना अज्ञाननिवर्तकाधिष्ठानयाथात्म्यज्ञानेनेव तत्रैव स्वानन्तरोत्पन्न दण्डभ्रमेणापि निवृति दर्शनादित्याहुः ॥
अत्राज्ञानकार्यस्य स्वप्नाध्यासस्यावस्था ज्ञानशून्यचैतन्ये अध्यासोक्त्यार्थान्मूलाज्ञानकार्यत्वमुक्तम् ।
तत्र हेत्वन्तरमाह ।
सषुप्त्याख्यमिति ।
सुषुप्तेरज्ञानावस्थारूपत्व विवक्षयासुषुप्त्याख्यत्वमज्ञानस्योक्तं बीजमुपादानं बोधो जाग्रत् प्रपञ्चः ।
तस्य शुक्तिरजतादि व्यतिरिक्तस्य मूलाज्ञानकार्यत्वं सम्प्रतिपन्नमितिभावः ।
आचार्याणामुक्तेश्चेति सम्बन्धः स्वपदस्वप्नाध्यासपरम्ब्रह्मज्ञानैकेति ।
प्रबोधकाले स्वप्नप्रपञ्चस्य सूक्ष्मावस्थापति रूपनाशे सत्यपि बाधरूपानिवृतिर्ब्रह्मज्ञानैक साध्येति बोध्यम् ।
अविद्यातिरिक्तदोषजन्यत्वं प्रातिभासिकत्वप्रयोजकमिति मतेन स्वप्नाध्यासस्य निद्रादिदोषजन्यस्य प्रातिभासिकत्वमुपपादितं व्यवहारकाले बाध्यमानत्वं प्रातिभासिकत्व प्रयोजकमिति मतेन तस्य
तदुपपादयति ।
अन्ये त्विति ।
भाष्यगतं प्रबोध पदं सप्तम्यन्तं बन्धस्याविद्याकार्यत्वादविद्यात्मकत्वं प्रत्यनीकत्वं निवर्तकत्वं पञ्चम्यनन्तरं ब्रह्मज्ञानस्येति शेषः यथा जाग्रत्कालीनो घटादिबोधः स्वप्नबन्धनिवर्तकस्तद्वदित्यर्थः ।
उत्थितस्येति ।
मिथ्यैव मया स्वप्ने महाजनसमागमो दृष्टः नह्यस्ति महाजनसमागम इति तस्य मिथ्यात्वानुभवादित्यर्थः ।
यदि स्वप्नप्रपञ्चस्य ब्रह्मज्ञानबाध्यत्व प्रयुक्तं मिथ्यात्वं तदा स्वप्नादुत्थितस्य तत् मिथ्यात्वानुभवो न स्यात् ।
ब्रह्मज्ञानात् पूर्वं तद्बाध्ये घटादौ मिथ्यात्वानुभवादर्शनात् ।
अतो ब्रह्मज्ञानादितरेण जाग्रत् प्रबोधेनैव बाधः स्वप्नप्रपञ्चस्य वक्तव्य इति शुक्तिरजतादिवत् व्यवहार कालीन बाधवशादेव तस्य प्रातिभासिकत्वं व्यवहारकालश्च ब्रह्मतत्वज्ञानात् ।
पूर्वकाल इति भावः ।
ज्ञानमिति ब्रह्मज्ञानेतर ज्ञानमित्यर्थः ।
तस्य स्वप्नाध्यासनिवर्तकत्वाभावे हेतुं सूचयति ।
स्वेति ।
स्वस्य स्वप्नाध्यासस्य उपादानं मूलाज्ञानं तदनिवर्तकमित्यर्थः ।
तदनिवर्तकत्वे हेतुं सूचयति ।
अधिष्ठानेति ।
स्वप्नाधिष्ठानस्य पूर्वोक्तस्य यद्याथात्म्यमनवछिन्न ब्रह्मचैतन्यादि तदविषकमित्यर्थः ।
अधिष्ठानयाथात्म्यज्ञानस्यैवाज्ञाननिवृतिद्वाराध्यास निवर्तकत्वनियमादिति भावः ।
उक्तनियमासिध्या दूषयति ।
रजु सर्पेति ।
स्वपदं सर्पाध्यासपरं ज्ञानेनेवेति नायं सर्पः रजुरेषेति ज्ञानेनेवेत्यर्थः ।
तत्रैवेति सर्पाध्यासाधिष्ट्वान रजावेवेत्यर्थः
स्वेति सर्पभ्रमानन्तरोत्पन्नेन नायं सर्पः दण्डोयमिति भ्रमेणेत्यर्थः ।
निवृतिदर्शनादिति बाधदर्शनादित्यर्थः ॥
अपरे तु जाग्रद्भोगप्रदकर्मोपरमे जाग्रत्प्रपञ्च द्रष्टारं प्रतिबिम्बरूपं व्यावहारिकं जीवन्त दृष्टं जाग्रत्प्रपञ्चमप्यावृत्यजायमानो निद्रारूपो मूलाज्ज्ञानस्यावस्था भेदः स्वाप्नप्रपञ्चाध्यासस्योपादानं न मूलाज्ञानं न च निद्राया अवस्थाज्ञानरूपत्वे मानाभावः मूलाज्ञानानेनावृतस्य जाग्रत्प्रपञ्चद्रष्टर्व्यावहारिक जीवस्य मनुष्योहं ब्राह्मणोहं देवदतपुत्रोहमित्यादिनां स्वात्मानमसन्दिग्धाविपर्य्यस्तमभिमन्यमानस्य तदीय चिरपरिचयेन तं प्रति सर्वदानावृतैकरूपस्य स्वपितामहात्ययादि जाग्रत्प्रपञ्चवृतान्तस्य च स्वप्नकाले केनचिदावरणाभावे जाग्रत् दशायामिव स्वप्नेपि व्याघ्रोहं शूद्रोहं प्रज्ञदत्तपुत्रोहमित्यादि भ्रमस्य स्वपितामह जीवद्दशादिभ्रमस्य चाभावप्रसङ्गेन निद्राया एव तत्कालोत्पन्न व्यावहारिक जगज्जिवावरकाज्ञानावस्थाभेदरूपत्व सिद्धेः ।
न चैवं जीवस्याप्यावृतत्वात् स्वप्नप्रपञ्च दृष्टृत्वाभाव प्रसङ्गः ॥
अधिष्ठान याथात्म्यज्ञानस्यैवाध्यासनिवर्तकत्व नियमेपि प्रकृतेनानुपपतिरिति मत्वा तदनुगुणं मतान्तरमाह ।
अपरे त्विति ।
अस्मिन् मते व्यावहारिक जीवः स्वप्नप्रपञ्च द्रष्टः प्रातिभासिक जीवस्याधिष्ठानं स्वप्नप्रपञ्चस्य च जाग्रत्पपञ्च एवाधिष्ठानं नत्व नवछिन्नचैतन्यादिकं द्विविधाधिष्ठानावरणद्वारा च निद्रारूपमवस्थाज्ञानं दृष्ट्वदृश्यात्मक द्विविध स्वप्नप्रपञ्चोपादोनं न तु मूलाज्ञानं तस्या ब्रह्मचैतन्यमात्रावरकत्वेन व्यावहारिक जीवाद्यावरकत्वाभावात् ।
ततश्च व्यावहारिक जीव जगद्गोचरस्य प्रबोधस्याधिष्ठान याथात्म्यज्ञानरूपत्वा ते नैव स्वप्नाध्यासबाधः सम्भवतीति तात्पर्यार्थः कर्मो परमे सति जायमान इति सम्बन्धः आवृत्येत्यनेन उपादानमित्यनेन च निद्राया आवरणविक्षेपशक्तिमत्वरूपमज्ञानलक्षणमुक्तमेवमज्ञानत्वे तस्यासिद्धे सत्युत्पतिमत्वात् ।
तदवस्थारूपत्वं सिध्यति ।
अस्मिन्मते सर्वेषामेवावस्थाज्ञानानामादिमत्वस्य प्रथमपरिछेदे उक्तत्वादिति भावः ।
सङ्ग्रहण्णोक्तं मर्थमाशङ्कापूर्वकं प्रपञ्चयति ।
न च निद्राया इत्यादिना ।
मूलाज्ञाने नानावृतस्य व्यावहारिक जीवस्य जाग्रत्प्रपञ्चवृतान्तस्य च स्वप्नकाले केनचिदावरणाभावे यज्ञदतपुत्रोंहमित्यादि भ्रमस्य स्वपितामह जीवदशानुभवस्य चाभावे प्रसङ्गेन निद्राया एवभेदरूउपत्वसिद्धेरिति सम्बन्धः ।
जाग्रत्काले ब्राह्मणत्वादिरूपसत्वे संशविपर्ययोरभावमाह ।
असन्दिग्धेति ।
असन्दिग्धाविपर्यस्तं यथा भवति तथा अभिमन्यमानस्येति सन्देहविपर्यास-
भिन्नत्वमभिमानक्रियाविशेषणं स्वपितामहात्ययादेर्जाग्रत्प्रपञ्चवृतान्तस्य तं देवदत्तपुत्रं प्रतिसर्वदानावृतत्वेनैकरूपतयावस्थाने हेतुमाह ।
तदीयेति देवदतपुत्रो हि स्वपितामहादिमरणं प्रथममनुभूय पश्चात् प्रतिमासंवत्सरं च श्राद्धतर्पणादिकं करोति ।
ततश्च तन्मरणादिगोचरानुभवस्मरणाभ्यासः चिरपरिचयस्तेन स्वपितामहान्यपादौ संशयादिनिवृतिभात्कलक्षणमनावृतत्वं सदा एकरूपेण वर्तत इत्यर्थः ।
जागरणे यथा देवदत्तपुत्रस्य व्याघ्रादि भ्रमाभावः स्वपितामह जीवदशानुभवा भावश्च तथा स्वप्नेप्यभावप्रसङ्गेनेत्यर्थः ।
तत्कालेति ।
निराकाले उत्पन्नो यो व्यावहारिक जगज्जीवयोरावरको ज्ञानावस्थाभेदः तद्रूपत्वं निद्राया एव सिध्यति नान्यस्यावरणविक्षेपशक्तिमत्वेन तस्या उपस्थितत्वादन्यस्यानुपस्थितत्वादित्यर्थः न चैवमिति ।
निद्राया व्यावहारिक ।
जीवाद्यावरकाज्ञानावस्थाविशेषरूपत्वसिद्धौ सत्यामित्यर्थः ॥
स्वाप्नप्रपञ्चेन सहद्रष्ट्रर्जीवस्यापि प्रातिभासिकाध्यासात् ।
एवं च पुनर्जाग्रद्भोगप्रदकर्मोद्भूते बोधे व्यावहारिक जीवस्वरूपज्ञानात्स्वोपादाननिद्रारूपाज्ञाननिवर्तकादेव स्वाप्नप्रपञ्चबाधः ।
न चैवं तत् द्रष्टः प्रातिभासिक जीवस्यापि ततो बाधे स्वप्ने करिणमन्वभूवमित्यनुसन्धानं न स्यादिति वाच्यं व्यावहारिक
जीवे प्रातिभासिक जीवस्याध्यस्ततया तदनुभवाद्व्यावहारिक जीवस्यानुसन्धानोपगमेप्यति प्रसङ्गादिति ।
नन्वनवछिन्नचैतन्येऽहङ्कारावछिन्नचैतन्येवास्वाप्न- प्रपञ्चाध्यास इति प्रागुक्तं पक्षद्वयमप्ययुक्तम् ।
आद्ये स्वाप्नगजादेरहङ्कारोपहितसाक्षिणो विछिन्न देशत्वेन सखादिवदन्तःकरणवृतिसंसर्गमनपेक्ष्यतेन प्रकाशनस्य चक्षुरादिनामुपरततयावृत्युदयासम्भवेन तत्संसर्गमपेक्ष्यतैन प्रकाशनस्य चायोगात् ।
द्वितीये इदं रजतमिति वदहं गज इति वा अहं सुखीति वदहं गजवानिति वाध्यासप्रसङ्गात् ॥
प्रातिभासिकान्तःकरणे चित्प्रतिबिम्बरूपस्य जीवान्तरस्याभ्युपगमान्नैतच्चोचावकाश इत्याशयेनाह ।
स्वाप्नप्रपञ्चेन सहेति ।
एवं चेति व्यावहारिक जीवजगतोरेव स्वाप्नजीवजगदधिष्ठानत्वे सिद्धे सतीत्यर्थः ।
कर्माद्भूते बोध इति ।
कर्मजन्ये जागरण इत्यर्थः ।
जीवस्वरूपज्ञानादिति मनुष्योहं ब्राह्मणोहं देवदतपुत्रोहमित्यादिरूपादित्यर्थः ।
उपलक्षणचैतत् स्वपितामहात्ययादि ज्ञानाच्चेत्यपि द्रष्टव्यं स्वपदं स्वप्नप्रपञ्चपरं न चैमिति एवं शब्दार्थमेवाह ।
तदृष्टरिति ।
तस्य स्वप्रपञ्चस्य द्रष्ट्रः व्याघ्रोहं शूद्रोहमित्यादिरूपेण स्वात्मानं मन्यमानस्येत्यर्थः ।
तत इति व्यावहारिक जीवस्वरूपज्ञानावित्यर्थः ।
न स्यादिति अन्यानुभूतेर्थे अन्यस्य स्मरणायोगादितिभावेः ।
अध्यस्तयेति ।
तथा च व्यावहारिक प्रातिभासिक जीवयोरधिष्ठानारोप्ययोः ।
तादात्म्य स त्वात् प्रातिभासिक जीवकर्तृकानुभवाद्व्यावहारिक जीवस्य स्वप्नपदार्थानुसन्धानं सम्भवतीत्यर्थः ।
अति प्रसङ्गेति ।
यज्ञदतानुभूतार्थे विष्णुमित्रस्याप्यनुसन्धानप्रसङ्गरूपाति प्रसङ्गाभावादित्यर्थः ।
तयोस्तादात्म्याभावादिति भावः ।
ननु जीवत्रैविध्यपक्षे द्रष्टृ दृश्यत्मक स्वप्नाध्यासाधिष्ठानत्वेनोपगतस्य व्यावहारिक जीवादेर्मिथ्यात्वेन जडतया स्वप्नप्रपञ्चावभासकत्वं न सम्भवति ।
न च चैतन्यमेव तदवभासकमिति वाच्यं तथा सति तस्यैवाधिष्ठानतया तत्सतास्पूर्तिरूपत्वसम्भवे जडस्याधिष्ठानत्वाभ्युपगमायोगात् ।
तर्हि तदेवाधिष्ठानमस्त्विति चेन्न तत्राप्यनुपपतिसत्वादित्याह ।
नन्वित्यादिना ।
अनवछिन्नचैतन्यस्वाधिष्टानत्वपक्षे स्वाप्नगजादेर्देहात् ।
बाह्य देहस्थत्वं वक्तव्यं तथा च तस्य किं साक्षि भास्यत्व मैन्द्रियकत्वं वा नाद्य इत्याह ।
अहङ्कारेति ।
साक्षिण इति पञ्चमी विछेदोक्त्या साक्षिणः स्वप्नगजदिनासहस्वतः संसर्गाभावो दर्शितः ।
अन्तःकरणवृतिसंसर्गमनपेक्ष्यस्वाप्नगजादेस्तेन प्रकाशस्य तत्संसर्गमपेक्ष्यतेन प्रकाशस्य चायोगादिति सम्बन्धः तेनेति पदद्वयं साक्षि परं यथा सुखादेः सुखादि गोचरान्तःकरणवृति संसर्गमनपेक्ष्यतेन प्रकाशः तथा तेन स्वाप्नगजादेः प्रकाशायोगादित्यर्थः ।
द्वितीयं निरस्यति ।
चक्षुरादीनामिति ।
द्वितीय इति अहमनुभवगोचराहङ्कारोपहितचैतन्यस्य स्वप्नाध्यासाधिष्ठानत्व
पक्ष इत्यर्थः ।
किं गजादेस्तादात्म्येन तत्राध्यासः किं वा अधारोधेय भावसंसर्गेण आद्यं दूवयति इदं रजतमिति वदिति द्वितीयं निराकरोति ।
अहंसुखीति ।
वदिति ।
द्वितीये अहङ्गज इत्यहं गजवानिति बाध्यास प्रसङ्गादिति योजना ॥
अत्र केचिदाद्यपक्षं समर्थयन्ते ।
अहङ्कारानवछिन्नं चैतन्यं न देहाद्बहिः स्वाप्नप्रपञ्चस्याधिष्ठानमुपेयते किन्तु तदन्तरेव ।
अत एव दृश्यमान परिमाणोचित देशसम्पत्यभावान्स्वाप्नगजादीनां मायामयत्वमुच्यते ।
एवं चान्तःकरणस्य देहाद्बहिरस्वातेत्र्या जागरणे बाह्यशुक्तीदमंशादि गोचरवृत्युत्पादाय चक्षुराद्यपेक्षायामपिन्दहान्तरं तष्करणस्य स्वतन्त्रस्य स्वयमेववृतिसम्भवाद्देहान्तरं तष्करणवृत्यभिव्यक्तस्यानवछिन्नचैतन्यस्याधिष्ठानत्वेन काचिदनुपयतिः ।
अत एव यथा जागरणं सम्प्रयोगजन्यवृत्यभिव्यक्त शुक्तीदमंशावछिन्नचैतन्यस्थिता विद्यारूप्याकारेण विवर्तते तथा स्वप्नेपि देहस्यान्तरन्तःकरणवृतो निद्रादिदोषोपेतायामभिव्यक्त चैतन्यस्थाऽविद्याऽदृष्टोद्बोधित नानाविषयसंस्कार सहिता प्रपञ्चाकारेणविवर्ततामिति विवरणोयन्यासे
भारतीतीर्थवचनमिति ।
अन्ये त्वनवछिन्नचैतन्यं न वृत्यभिव्यक्तं सत्स्वाप्नप्रपञ्चस्याधिष्ठानम् ।
अशब्दमूलकानवछिन्नचैतन्यगोचरवृत्युदयास भवात् ।
मूल
टीका ।
अहङ्कारानवाछिन्नेति ।
अविद्यायां बिम्बभूतमीश्वरचैतन्यमिहानछिन्नचैतन्यं विवक्षितमीश्वरचैतन्यस्यैव सर्वाधिष्ठानत्वान्नाविद्याप्रतिबिम्बरूपं जीवचैतन्यं तस्यानुपादानत्वादिति बोध्य व्यान्तरचैतन्यस्यैवाधिष्ठानत्वे नियामकमाह ।
व्यत एवेति ।
आन्तरं चैतन्यस्याधिष्ठानत्वोपगमादेवेत्यर्थः ।
स्वप्नकाले दृश्यमानपरिमाणवतां गजादीनां शरीरस्यान्तरुचित देश सम्पत्यभावात् ।
प्रातिभासिकत्वमुच्यते सूत्रकारादिभिः शरीराद्बाह्यचैतन्यस्याधिष्ठानत्वे तु जाग्रद्गजादीनामिव स्वाप्नगजादीनामपि योग्यदेशलाभाद्व्यावहारिकत्वमेव स्यात् ।
तथा च सूत्रादि विरोध इत्यर्थः ।
एवं चेति ।
आन्तरस्यैव चैतन्यस्य स्वप्नाध्यासाधिष्ठानते प्रमाणसिद्धे सतीत्यर्थः ।
ननु शरीरान्तगन्तस्यापि ब्रह्मचैतन्यस्यावतत्वात् ।
तत्राध्यस्तानां स्वाप्नगजादीनामनवभासप्रसङ्गः ।
न चान्तःकरणवृत्यावरणनाशे सति तेषामवभासः सम्भवतीति वाच्यै स्वप्ने चक्षुरादीनामुपरतत्वेन वृत्यसम्भवान्न च स्वयमैवान्तःकरणवृतिस्तदा सम्भवतीति वाच्यम् ।
जागरणेपि तथा प्रसङ्गेन तदापि चक्षुराद्यपेक्षाभावप्रसङ्गादित्यत आह ।
अन्तःकरणस्येति स्वयमेवेति ।
चक्षुरादिके मनपेक्ष्येवेत्यर्थः ।
न काचिदिति अभिव्यक्तचैतन्यस्येवान्तरस्यैवाधिष्ठानत्वोपगमेन स्वप्नप्रपञ्चस्यावभासानुपपतिर्वा प्रातिभासिकत्वानुपपतिर्वा नास्तीत्यर्थः ।
अन्तःकरणवृत्यभिव्यक्तचैतन्य
स्याधिष्ठानते सम्मतिमाह ।
अत एवेति ।
अन्तःकरणवृत्यभिव्यक्तै चैतन्यै सदासुलभे सदास्वप्नाध्यास प्रसङ्ग इत्यत आह ।
निद्रादीति ।
पीतोद्रेकादिरादिपदार्थः ।
दोषोपप्लुतायां वृतावभिव्यक्तं यच्चैतन्यं तत्र विद्यमानाविद्येत्यर्थः ।
स्वप्नप्रपञ्चवैविचित्र्यप्रयोजकमाह ।
नानाविषयेति ।
जागरणे नानाविधविषयानुभवजनिताः संस्काराः अन्तःकरणे तिष्ठन्ति तैरदृष्टोद्बोधितैः सहिता विद्याविचित्रप्रपञ्चाकारेण परिणमत इत्यर्थः ।
इदानीमविद्यायां प्रतिबिम्बभूतमनवछिन्न जीवचैतन्यमेवाधिष्ठानमिति मतान्तरमाह ।
अन्ये त्विति ।
पूर्वमते अनुपपतिमाह ।
अनवछिन्नचैतन्यमिति ।
बिम्बभूतमितिशेषः अशब्दमूलकेति ।
शुद्धब्रह्मण इव ईश्वरचैतस्यापि शास्त्रैकराम्यत्वादितिभावः ॥
अहङ्काराद्यवछिन्नचैतन्य एवाहमाकारवृत्युदय दर्शना तस्मात् स्वतो परोक्षमहङ्काराद्यनवछिन्नं चैतन्यं तदधिष्ठानम् ।
अत एव सङ्क्षेप शारीरके ।
अपरोक्षरूपविषयभ्रमधीरपरोक्षमास्पदमपेक्ष्य भवेत् ।
मनसा स्वतो नयनतो यदि वा स्वप्नभ्रमादिषु तथा प्रथितेः ।
इति श्लोकेनापरोक्षाध्यासापेक्षितमधिष्ठानापरोक्ष्यं क्वचिन्मानसवृत्या क्वचिद्बहिरिन्द्रियवृत्येत्यभिधाय स्वतो परोक्षाविति ।
रत्रविभ्रमेस्तथापि रूपाकृतिरत्र जायते ।
मनो निमित्रं स्वपने मुहुर्मुहुर्विनापि चक्षुर्विषयं स्वमास्पदम् ।
मनोवगम्येप्यपरोक्षताबलात्तथाम्वटे
रूपमुपोलिखन्भ्रमः सितादिभेदैर्वहुधा समीक्ष्यते तथाक्षिगम्ये इजतादि विभ्रम इत्याद्यनन्तरश्लोकेन स्वप्नाप्यासे स्वतोधिष्ठानापरोक्ष्यमुदाहृते न चाहकारानवछिन्नचैतन्यमात्रमावृतमिति वृतिमतरेण न तदेभिव्यक्तिरिति वाच्यं ब्रह्मचैतन्यमेवावृतमविद्याप्रतिबिम्बजीवचैतन्यमहङ्कारा- नवछिन्नमप्यनावृतमित्यभ्युपगमात् ॥
नन्वऽनवछिन्नेप्यविद्या प्रतिबिम्बरूपजीवचैतन्ये शब्दनिरपेक्षाहमाकारवृत्युदयदर्शनात् ।
ब्रह्मचैतन्येपि तथा किं न स्यादिति नेत्याह ।
अहङ्काराद्यवछिन्नचैतन्य इति ।
इयं विषय सप्तमी आदिपदं शरीरादि सङ्ग्रहार्थं न त्वहङ्काराद्यनवछिन्न जीवचैतन्य इत्येव कारार्थः ।
जीवचैतन्यस्यापि व्यापकत्वं त्वं पदार्थशोधक श्रुति तदनुकूलन्यायगम्य मेवेति दृष्टोता सिद्धिरिति भावः ।
तस्मादिति बिम्बभूतानवछिन्नब्रह्मचैतन्यस्याभिष्ठानत्वासम्भवादित्यर्थः ।
स्वत इति वृतिमन्तरेणैवाभिव्यक्तमित्यर्थः ।
चैतन्यमिति ।
पूर्वमत इव आन्तरमेवेतिशेषः ।
अत एवेति ।
स्वतोपरोक्षचैतन्यस्यैव स्वप्नाध्यासाधिष्ठानत्वेन स्वीकारादेवेत्यर्थः ।
अपरोक्षरूपाविषयस्य शुक्तिरजतादेर्याभ्रमरूपाधीः सा अपरोक्षाधिष्ठानमपेक्ष्य भवति ।
यद्वा अपरोक्षरूपस्य विषयस्य शुक्तिरजतादिर्या भ्रमरूपाधीः सेत्यर्थः ।
तच्चाधिष्ठानापरोक्ष्यं केन भवतीत्यत आह ।
मनसेत्यादिना मनसा स्वतो
वा यदि वा नयनत इति योजना ।
तत्र प्रमाणमाह ।
स्वप्नभ्रमादिषु तथा प्रथितेरिति ।
अन्वयादिना तथा प्रतीतेरित्यर्थः ।
तथाहि शुक्तीदमंशस्य नयनसन्निकर्षे सति तस्य रजताध्यासापेक्षितमापरोक्ष्यं भवति नान्यथेत्यन्वयव्यतिरेकाभ्यां क्वचिदधिष्ठानापरोक्ष्यं नयनत इति प्रथितेः ।
तथा गगननैल्याष्वध्यासापेक्षितं गगनावछिन्नचैतन्यरूपाधिष्ठानापरोक्ष्यं मनसा सम्भवतीति गम्यते ।
मत्रसेत्यनेन गगनावछिन्नचैतन्यव्यन्तिकादि गोचरचाक्षुष वृतिर्विवक्षितानीरूपगगनगोचरचाक्षुष वृतेरसम्भवाच्चक्षुरुन्मीलनानन्तरमेव नीलं नभ इत्यादि प्रत्यक्षं नान्यथेत्यन्वयव्यतिरेकाभ्यां गगनचैतन्याभिव्यक्तौ चाक्षुषवृतेरुपयोगावगमाच्च तथा च फलबलादन्याकारवृत्याप्यन्यावछिन्नचैतन्याभिव्यक्तिरिष्यत इदं चाद्वैत दीपिकादौ प्रपञ्चितमिति बोध्यम् उदाहृत श्लोकस्य तात्पर्यमाह ।
इति श्लोकेनेति ।
अत्रेति ।
प्रकृते विभ्रमे स्वप्नाध्यासरूपे स्वतोपरोक्ष चैतन्यमधिष्ठानमित्यर्थः ।
अत एव सङ्क्षेपशारीरके स्वप्नाध्यासे स्वतोधिष्ठानापरोक्ष्यमुदाहृतमिति सम्बन्धः स्वप्नाध्यासाधिष्ठानचैतन्यापरोक्षस्य स्वतः सिद्धत्वमाक्षेप समाध्यनाभ्यां दर्शयति ।
न चाहङ्कारानवछिन्नेति ।
मात्रपदं कार्त्स्नार्थकं तथा च शरीरान्तर्गतमपि चैतन्यमावृतमेवेति भावः वृतिमिति वृतिरप्यनवछिन्नगोचराशब्दमतरेण न सम्भवतीति प्रागुक्तमिति ध्येयम् ।
अनावृतमिति ।
तदेव स्वप्नाध्यासाधिष्ठानमितिभावः ।
ननु सर्वगतस्य जीवचैतन्यस्यान्नावृतत्वे तस्य घटादिविषयदेशे सदा सत्वेन
चाक्षुषादिवृतिमनुपेक्ष्य सदासर्वविषयावभासप्रसङ्ग इति चेन्न सर्वत्र विद्यमानस्यापि तस्यानुपदानतया घटादि विषयैः सह संवेधा भावेन सम्बन्धाभवेन सम्बन्धार्थतया वृत्यपेक्षायाः प्रतिकर्मव्यवस्थाया मुक्तत्वात् ॥
एवं चाहङ्कारानवछिन्नचैतन्येध्यस्यमाने स्वाप्न गजादौ तत्समनियताधिष्ठानगोचरान्तःकरणादि वृति कृता भेदाभिव्यक्त्याप्रमातृचैतन्यस्यापीदं पश्यामीति व्यवहार इत्याहः ।
अपरे तु द्वितीयं पक्षं समर्थयन्ते ।
अहङ्कारावछिन्न चेतन्यमधिष्ठानमित्यहङ्कारस्य विशेषणभावेनाधिष्ठान कोटिप्रवेशोनोपेयते ।
किं त्वहङ्कारोपहितं तत्प्रतिबिम्बरूपचेतन्यमात्रमधिष्ठानमित्यतोनाहं गज इत्याद्यनुभवप्रसङ्ग इति एवं शुक्तिरजतमपि शुक्तीदमंशावछिन्न चैदन्यप्रतिबिम्बवृतिमदन्तःकरणगतेध्यस्यते शुक्तीदसंशावछिन्न बिम्बचैतन्ये सर्वसाधारणे तस्याध्यासे सुखादि वदनन्यवेधत्वाभावप्रसङ्गादिति केचित् ॥
ननु विद्याप्रतिबिम्बरूपजीवचैतन्ये शरीरान्तर्गते विशेषणत्वेनोपाधित्वेन वा अहङ्कारनिरपेक्षे अनवछिन्नशब्दिते स्वप्नाध्यासोपगमे सति तस्यैव स्वप्नकाले द्रष्टृत्वं स्यात्
न तु प्रमातुः तस्याहङ्कार तादात्म्यापत्या तदवछिन्नस्य ततोभिन्न त्वात् न चेष्टापतिः स्वप्नकाले अहं श्रीकृष्णं पश्यामीति प्रमातुः स्वप्नपदार्थद्रष्ट्रत्वानुभवविरोधापतेरित्यत आह ।
एवं चेति ।
स्वतो परोक्षजीवचैतन्यस्याधिष्ठानत्वै सतीत्यर्थः ।
तत्समनियतेति ।
यदा गजादिरध्यस्यते तदैव तदधिष्ठान गोचरान्तःकरणवृतिरविद्यावृतिर्वा जायते तथा च स्वाप्नगजाद्यधिष्ठान चैतन्यस्य वृतिद्वारावृतिमदन्तःकरणसम्बन्धेन प्रमातृत्व प्राप्तौ सत्यां प्रमातुस्तद्द्रष्टृत्वं सम्भवतीत्यर्थः ।
अभेदाभिव्यक्त्येति ।
उक्त प्रकारेण प्रमातृविषयचैतन्ययोरभेदाभिव्यक्त्येत्यर्थः ।
द्वितीयमिति ।
अवछिन्नचैतन्यस्वप्नाध्यासाधिष्ठानमिति पक्षमिति पक्षमित्यर्थः ।
अयं गज इति प्रत्यय स्थाने अहं गज इत्यादि प्रत्ययप्रसङ्गवारणायाहङ्कारांशस्याधिष्ठानतं नाङ्गीक्रियते चेतर्हि अनवछिन्नस्याधिष्ठानत्वमागतमिति पूर्वमताभेदे प्रसक्तिरिति शङ्कते ।
किं त्विति ।
अन्तःकरणे चैतन्यप्रतिबिम्बभूतं यज्जीवचैतन्यं तन्मात्रमधिष्ठानमुपेयते तच्च परिछिन्नमेव उपाधेः परिछिन्नत्वादिति परिहरति ।
अहङ्कारोपहितमिति ।
अत इति अहमुल्ले स्वप्रयोजकस्य अहङ्कारात्मकान्तःकरणस्याधिष्ठानकोटावननुप्रवेशादित्यर्थः ।
अविद्यायां बिम्बभूतब्रह्मचैतन्यस्य तस्यां प्रतिबिम्बभूत जीवचैतन्यस्य वा स्वप्नप्रपञ्चाध्यासाधिष्ठानत्वमते तयोः सर्वप्रमातृसाधारणत्वात् ।
स्वप्नप्रपञ्चस्यापि साधारण्यं स्यात् ।
अन्तःकरणप्रतिबिम्बचैतन्यस्य तदधिष्ठानत्वे
तु साधारण्य प्रसङ्गदोषो नास्तीत्याशयेनास्य द्वितीय पक्षस्य प्रवृतिरिति बोध्यम् ।
नन्वेवम् ।
शुक्तिरजतादेरसाधारण्यं न स्यात् ।
तदधिष्ठान चैतन्यस्य साधारणोत्वादित्याशङ्क्यहेत्वसिद्धिमाह ।
एवमिति ।
वृतिमदन्तःकरण इति ।
शुक्तिदमंश संसृष्टायां वृतौ शुक्तीदमंशावछिन्नब्रह्मचैतन्यस्य यः प्रतिबिम्बः तस्मिन् न ध्यस्यते स च प्रतिबिम्बो वृतिगत ऐव तस्य वृतिवृतिमतोरभेदोपचारात् ।
वृतिमदन्तःकरणगतत्वोक्तिरनन्य वेद्यत्वस्फुटीकरणायेति बोध्यम् ।
वृतिगतस्य ब्रह्मप्रतिबिम्बस्य शुक्तिरजताधिष्ठानत्वानुपगमे साधारण्यप्रसङ्गतादवस्थामभिप्रेत्याह ।
शुक्तीदमंशावछिन्नेति ।
सुखादेरिव शुक्तिरजतादेर्यदनन्यवेद्यत्वं तस्याभावप्रसङ्गादित्यर्थः ।
देवदत्त सुखदुःखरागद्वेषादिक देवदत्तादन्यस्य वेद्यं प्रत्यक्षं न भवतीत्यनन्य वेद्यन्तदित्यर्थः ॥
केचित् तु बिम्बचैतन्य एव तदध्यासमुपेत्य यदीयाज्ञानोपादानकं यत तस्यैव प्रत्यक्षं न जीवान्तरस्येत्यनन्य वेद्यत्वमुपपादयन्ति ।
ननु शुक्तिरजताथासे चाक्षुषत्वानुभवः साक्षाद्वाधिष्ठान ज्ञानद्वारा तदपेक्षणाद्वासमर्थ्यते स्वाप्नगजादि चाक्षुषत्वानुभवः कथं समर्थनीयः ।
उच्यते न तावतत्समर्थनाय स्वाप्नदेहवद्विसयवच्चेन्द्रियाणामपि प्रातिभासिको विवर्तः
शक्यते वक्तुं प्रातिभासिकस्याज्ञातसत्वाभावात् इन्द्रियाणां चातीन्द्रियाणां सत्वे अज्ञात सत्वस्य वश्य वाच्यत्वात् ।
नापि व्यावहारिकाणामेवेन्द्रियाणां स्वस्वगोलकेभ्यो निष्क्रम्य स्वाप्नदेहमाश्रित्य स्वस्वविषयग्राहकत्वं वक्तुं शक्यते ।
स्वप्नसमये तेषां व्यापारराहित्यरूपोपरति श्रवणात् ॥
अधिष्ठान चैतन्यस्य साधारणत्वेपि शुक्तिरजताद्युपादानाज्ञानस्यासाधारण्याच्छक्तिरजतादेर साधारण्यमित्याह ।
केचित्विति बिम्बचैतन्य एवेति वृतिगत प्रतिबिम्बं प्रतिबिम्बचैतन्य इत्यर्थः ।
यद्वा अविद्याप्रतिबिम्ब ।
प्रतिबिम्बभूते ब्रह्मचैतन्ये शुक्तीदमंशावछिन्न इत्यर्थः ।
न त्वसाधारणे वृति प्रतिबिम्ब इत्येव कारार्थः ।
यदीयेति यद्रजतं यत्पुरुर्षाया ज्ञानोपादानकं त व्रजतं तस्यैव पुरुषस्यै प्रत्यक्षं नान्यस्येति कल्पनोपपतेः ।
न शुक्तिरजतादेः साधारण्य प्रसङ्ग इत्यर्थः ।
एव स्वप्नप्रपञ्चाध्यासस्याधिष्ठानं निरूप्य स्वाप्न पदार्थानुभवः किमैन्द्रियकः किं वा साक्षिरूप इति संशये निर्णयाषाक्षेपमवतारयति ।
नन्विति साक्षाद्वेति ।
इदं च शुक्तिरजतादिरैन्द्रियकत्वमिति कविता किङ्कमतानुसारेणेति बोध्य शुक्तिरजतादेः साक्षिभाष्यत्वमतानुसारेणाह ।
अधिष्ठानज्ञानद्वारेति धर्मिज्ञानद्वाराचक्षुर
पेक्षत्वाच्छुक्तिरजतादेरित्यर्थः ।
कथमिति स्वाप्नगजादि चाक्षुषत्वानुभवो हि वासना मयैरिन्द्रियैर्वा व्यावहारिकेन्द्रियैर्वा सूक्ष्मेन्द्रियैर्वा आरोपरूपतया वा समर्थनीयतया सम्भाव्यते तथा च स केन प्रकारेण समर्थनीय इति प्रश्नार्थः ।
चतुर्थप्रकारेण तत्समर्थनं प्रतिजानीते ।
उच्यत इति ।
आद्यं प्रकारत्रयं निराकरोति न तावदित्यादिना ।
वासना मयैः प्रातिभासिकैः इन्द्रयैः चाक्षषत्वानुभवसमर्थनप्रकारं प्रथमं दूषयति स्वाप्नदेहवदिति ।
स्वाप्नाश्च विषयाः प्रातिभासिकाश्चैतन्यविवर्तरूपा यथाभ्युपगम्यं तेन तथेन्द्रियाणां स्वरूपभूतश्चैतन्यविवर्तः प्रातिभासिकोभ्युपगन्तुं शक्यते इत्यर्थः ।
वाच्यत्वादिति ।
तेषामज्ञात सत्वनियमस्य दर्शनाद् दृष्टानुसारित्वाच्च कल्पनाया इति भावः ।
द्वितीयं प्रकारं निराकरोति ।
नापीति ।
ननु व्यावहारिकैरिन्द्रियैः स्वाप्नगजादीनां चाक्षुषत्वानुभवसमर्थन प्रकारस्य उत्थितिरेव नास्ति तेषां जाग्रद्देहस्थत्वेन सुप्तदेहस्थत्वाभावादित्याशङ्क्याह ।
स्वस्वेति श्रवणादिति ।
यपषसुप्तेषु जाग्रतीत्यादि श्रुतिष्विशेषः श्रुतौ सुप्तेष्वित्यनन्तरं करणेष्वितिशेषः करणानां स्वायो नाम उपरतिः सा च स्वप्नसमये व्यापार राहित्यरूपैव न तु तेषां स्वरूपोपरतिस्तस्याः सुषुप्तावेव श्रवणादिति बोध्यम् ॥
व्यावहारिकस्य स्पर्शनेन्द्रियस्य स्वोचित व्यावहारिक देशसम्पति विधुरेतः शरीरे स्वाधिकपरिमाणकृत्स्न स्वाप्नशरीरव्यापित्वा योगाच्च
तदेक देशाश्रयत्वे च तस्य स्वाप्नजलावगाह न जन्य सर्वागीनशीतस्पर्शानिर्वाहात् ।
अत एव स्वप्ने जाग्रदिन्द्रियाणामुपरतावपि तैजसव्यवहारोपयुक्तानि सूक्ष्मशरीरावयवभूतानि सूक्ष्मेन्द्रियाणि सन्तीतितैः स्वाप्नपदार्थानामैन्द्रियकत्वमित्युपपादन शङ्कापि निरस्ता जाग्रदिन्द्रिय व्यतिरिक्त सूक्ष्मेन्द्रिया प्रसिद्धेः ।
किं चात्रायं पुरुषः स्वयं ज्योतिरिति जागरे आदित्यादि ज्योतिर्व्यतिकराच्चक्षुरादि वृतिसञ्चाराच्च दुर्विवेकमात्मनः स्वयं ज्योतिष्ट्टमिति स्वप्नावस्थामधिकृत्य तत्रात्मनः स्वयं ज्योतिष्ट्टं प्रतिपादयति ॥
त्वगिन्द्रियमात्रे दोषान्तरमाह ।
व्यावहारिकस्येति ।
स्वस्य स्पर्शनेन्द्रियस्य उचितो यो व्यावहारिक देशः तत्सम्पति विधुरे शरीरस्यान्तः प्रदेशे स्थितं व्यावहारिकत्वगिन्द्रियपरिमाणापेक्षया कदाचिदधिकपरिमाणवत्स्वाप्नदेहं कृत्स्नं न व्याप्नुयात् ।
त्वगिन्द्रियमित्यर्थः ।
व्यावहारिक स्पर्शनेन्द्रियस्योचित देशकालसम्पति वैधुर्यविशेषणेन तस्य स्वप्न देहप्रवेशायान्तः शरीरे गमनमेव न सम्भवतीति सूचितम् ।
यदि व्यावहारिकस्पर्शनेन्द्रियस्य कृत्स्नस्वाप्नदेहव्यापित्वा योगस्तहि स्वाप्नदहैकदेशाश्रयत्वमेवास्त को दोषस्तत्राह ।
तदेक देशेति ।
तस्येति ।
स्पर्शनेन्द्रियस्येत्यर्थः ।
तृतीयं प्रकारं निराकरोति ।
अत एवेति ।
व्यावहारिकस्पर्शनैन्द्रियस्यैव स्वाधिकपरिमाण कृत्स्न स्वप्नशरीरव्यापित्वायोगे सति तदवयवभूतसूक्ष्मस्पर्शनेन्द्रियस्य सुतरां स्वप्नदेहव्यापित्वायोगादेवेत्यर्थः ।
तैजसः स्वप्नावस्था गतो जीवः सूक्ष्मशरीरशब्देन व्यावहारिकाण्येकादशेन्द्रियाण्युच्यन्ते ।
स्पर्शनेन्द्रियमात्रे दोषमति देशेन दर्शयित्वा साधारणदोषमाह जाग्रदिन्द्रियेति ।
नन्व प्रसिद्धान्यपि स्वप्नकाले पदार्थानां चाक्षुषत्वाद्यनुभवानुरोधेन कल्प्यन्त इत्याशङ्क्यश्रुतिविरोधान्नैवमित्याह ।
किं चात्रेति ।
श्रुतावत्रेति पदेन स्वप्नावस्थाग्रहणस्य तात्पर्यमाह ।
जागर इति ।
जागरे कार्यकारणसङ्घातानामासनममनागमनादिलक्षणव्यवहार साधनत्वेनादित्यादि ज्योतीम्पि व्यवहिषमाणपदार्थैः सहसङ्कीर्णानिविष्टन्ति तथा व्यवहारसाधनत्वेनैव चक्षुरादि जन्यावृतयो विषयदेशं प्रतिगछन्तीत्यर्थः ।
व्यतिकरः स्वम्पर्कः संसर्ग इति यावत् ।
जागरे दुर्विवेकमिति सम्बन्धः ।
दुःखेन षिवेको निर्णयो यस्य तदुर्विवेकमनायासेन निर्णेतुमशक्यमिति यावत् ।
आत्मनः स्वयं ज्योतिष्टां नाम अन्यानवभास्यत्वे सति स्वव्यतिरिक्त सकलावभासकत्व योग्यत्वं तच्च जागरे गृहीतुमशक्यन्तेथा ह्यात्मव्यतिरिक्तस्य सर्वस्यात्ममात्रावभास्यत्वं न वक्तं शक्यते ।
आदित्यादि ज्योतिषां चक्षुरादि जन्यवृतिज्ञानानां च लोके जगदवभासकत्वेन प्रसिद्धानां
सत्वादात्मनोप्यहमिति ज्ञानप्रकाशत्वेन तस्यान्यानवभास्य त्वस्य वक्तुमशक्यत्वाच्चेति शङ्कायाः ।
जागरे परिहर्तुमशक्यत्वे जागरे स्वयं ज्योतिष्टनिर्णयायोगात् ।
स्वप्नावस्थायां तु जागरणे प्रसिद्धानामादित्यादि ज्योतिषां चक्षुरादिजन्य ज्ञानानां चाभावादात्मचैतन्यमात्रावभास्यं स्वाप्नजगदिति निर्णयः सम्भवति ।
तथाहमिति ज्ञानं वृतिरूपमात्मनः प्रकाशकं न भवतीति वक्ष्यते ।
तथा च अन्यानवभास्यत्वे सति सकलजगदवभासकत्वयोग्यत्व रूपं स्वयं ज्येतिष्ट्वमात्मनः स्वप्नावस्था साक्षित्वेन निर्णेतुं शक्यमित्यर्थः ।
ननु स्वप्नदशायामेव तस्य स्वयं ज्योतिष्ट्वं न त्ववस्थान्तर इति यथा श्रुतार्थ एव श्रुतेस्ता ॥
अन्यथा तस्य सर्वदा स्वयं ज्योतिष्ट्टंःत्रेति वैयर्थ्यात् ।
तत्र यदि स्वप्नेपि चक्षुरादि वृतिसञ्चारः कल्प्येत तदा तत्रापि जागर इव तस्य स्वयं ज्योतिष्टं दुर्विववेचं स्यादित्युदाहृता श्रुतिः पीड्येत ।
ननु स्वप्ने चक्षुरायुपरमकल्पनेर्प्यतः ।
करणमनुपरतमास्त इति परिशेषा सिद्धेर्न स्वयं ज्योतिष्ट्व विवेकः मैवं कर्ता शास्त्रार्थवत्वादित्यधिकरणे न्यायनिर्णयोक्तरीत्यान्तःकरणस्य चक्षुरादिकरणान्तर निरपेक्षस्य ज्ञानासाधनत्वाद्वा तत्वप्रदीपकोक्तरीत्या
स्वप्ने तस्यैव गजाद्याकारेण परिणामेन ज्ञानकर्मतयावस्थित त्वेन तदानीं ज्ञानसाधनत्वायोगात् वा परिशेषोपपतेः ।
न च स्वर्मेतःकरणवृत्यभावे उत्थितस्य स्वमदृष्टगजाद्यनुसन्धानानुपपतिः सुषुप्ति कॢप्तया विद्यावृत्या तदुपपतेः ।
सुषुप्तौ तदवस्थोपहितमेव स्वरूपचैतन्यमज्ञानसुखादि प्रकाशः उत्थितस्यानुसन्धानमुपाधिभूतावस्थाविनाशजन्यसंस्कारेणेति वेदान्त कौमुद्यभिमते सुषुप्तावविद्यावृत्यभावपक्षे इहापि स्वाप्नगजादिभासिक चैतन्योपाधिभूत स्वप्नावस्था विनाशजन्य संस्कारादनुसन्धानोपपतेश्च ॥
त्यर्यं किं न स्यादिति नेत्याह ।
अन्यथेति ।
श्रुतेः स्वप्नावस्थामाश्रित्य तत्साक्षित्वेन स्वयञ्ज्योतिष्ट्वमात्मनः ।
स विवेकमिति तात्पर्याकल्पन इत्यर्थः ।
सर्वदेति तमेव भातमनुभाति सर्वमित्यादि श्रुति पर्यालोचनया तस्य सर्वदा स्वयञ्ज्योतिष्ट निश्चयादिति भावः ।
अत्रेतीति ।
अत्रेति विशेषणस्य व्यावर्तकत्वा सम्भवेन व्यर्थत्वं स्यादतो न यथा श्रुतार्थे तात्पर्यं किं तूक्तार्थे तात्पर्थेमिति भावः ।
एवं श्रुति तात्पर्यं निरूप्य स्वप्नकाले चक्षुरादि व्यापार कल्पनं
तद्बाधितमित्याह ।
तत्रेति ।
स्वयं ज्योतिष्टं स्वप्नावस्था साक्षित्वेन सुगममित्यत्र श्रुति तात्पर्यं सिद्धे सतीत्यर्थः ।
ननु स्वप्नजगतोवभासकान्तराभावादात्ममात्रभास्यत्वमित्युक्तमयुक्तमिति शङ्कते ।
नन्विति ।
अनुपरतमास्त इतीति तथा च मनस एव स्वाप्नजगदवभासकत्व सम्भवादवभासकान्तराभावरूपपरिशेषा सिद्धिरित्यर्थः ।
स्वप्नावस्थायां स नमोज्ञोनकरणत्वमसिद्धमतस्तस्य स्वाप्नजगदवभासकत्वासम्भवात् परिशेषसिद्धिरिति परिहरति ।
मैवमिति ।
आत्मा कर्ता भवतु मर्हति तथा सति कर्ता विज्ञानात्मापुरुष इत्यादि शास्त्रस्यार्थवत्वोपपतेरिति सूत्रार्थः ।
उक्तरीत्येति ।
मनस उपादानत्वेन स्वतो ज्ञानकरणत्वं नास्तीत्युक्तरीत्येत्यर्थः ।
तत्वप्रदीपकोक्तरीत्येति स्वप्ने मनस एव विविध सस्कारविशिष्टस्य स्वप्नप्रपञ्चाकारेण परिणामित्वम् ।
न त्वविद्यायास्तस्याः संस्काराश्रयत्वाभावेन विचित्रपदार्थपरिणामित्वायोगादित्युक्तरीत्येत्यर्थः ।
कर्मतयेति ।
विषयत्वेनैवोपक्षीणस्य विषयित्व रूपप्रकाशकत्वाभावादित्यर्थः ।
तदानीमित्यनेन अस्त वा जागरणे ज्ञानकारणत्वं तथापि स्वप्ने तन्नोपेयते तस्य विषयत्वेनैवावस्थितत्वादिति सूचित अनुपपतिरिति संस्काराभावादितिभावः ।
ननु सुषुप्तावपि अविद्यावृतिर्न कल्पनीया सुषुप्त्यादि साक्षि चैतन्यस्यतित्यत्वेपि साक्षि भास्यायाः सुषुप्त्यवस्थायाः विनाशित्वेन विषयभूतसुषुप्त्यवस्थाविशिष्टवेषेण तत्साक्षिणो नाशलक्षणसंस्कारसम्भवात् सुषुप्तिसुखादीनामनुसन्धानोपपतिरिति चेतर्हि स्वप्न
साक्षिणोपि प्रातिभासिकविषयविशिष्टवेषेण नाशलक्षणसंस्कार सम्भवात् ।
स्वप्नदृष्टगजाद्यनुसन्धानोपपतिरित्याह ।
सुषुप्ताविति ।
तत्पदं सुषुप्तिपरम् अज्ञानसुखादि प्रकाश इति ।
अज्ञानाद्यनुभव इत्यर्थः ।
इहापीति ।
स्वप्नावस्थायामपि इत्यर्थः ।
उपाधि भूतेति विषयतया उपाधिभूतेत्यर्थः ॥
अथवा तदेतत्सत्वं येन स्वप्नं पश्यतीत्यादि श्रुतेरस्तु स्वप्नेपि कल्पतरूक्तरीत्या स्वाप्नगजादिगोचरान्तःकरणवृतिः ।
न च तावता परिशेषासिद्धिः अन्तःकरणस्याहमिति गृह्यमणस्य सर्वात्मना जीवैक्येनाध्यस्ततयालोक दृष्ट्या तस्य तद्यतिरेकाप्रसिद्धेः ।
परिशेषार्थ चक्षुरादि व्यापाराभावमात्रस्यैवापेक्षितत्वात् ।
प्रसिद्धदृश्यमात्रं दृगवभासयोग्यमिति निश्चय सत्वेन परिशेषार्थमन्यानपेक्षणात् ।
तस्मात् स्वप्ने सर्वथापि चक्षुरादि व्यापारासम्भवात् स्वाप्न गजादौ चाक्षुषत्वाद्यनुभवो भ्रम एव ननु स्वप्नेपि चक्षुरुन्मीलने गजाद्यनुभवस्तन्निमीलनेनेति जागर इव गजाद्यनुभवस्य चक्षुरुन्मीलिनाद्यनुविधान प्रतीयते इति चेत् चक्षुषारजतं पश्यामीत्यनुभववदयमपि कश्चित् स्वाप्न भ्रमो भविष्यति यत्केवलसाक्षिरूपे
स्वाप्नगजाद्यनुभवे चक्षुराद्यनुविधान तदनुविधाधिनीवृतिर्बाध्यस्यते किमिव हि दुर्घटमपि भ्रमं माया न करोति विशेषतो निद्रारूपेण परिणता यस्या माहात्म्यात् स्वप्ने रथः प्रतीतः क्षणेन मनुष्यः प्रतीयते स च क्षणेन मार्जारः स्वप्नद्रष्टश्च न पूर्वापरविरोधानुसन्धानं
जागर इव स्वप्नेपि गजादिगोचरान्तःकरणवृतिरेवोपेयते ।
अतो न संस्काराभावशङ्कावकाशः ।
न च तदन्तःकरणवृतिसत्वे परिशेषा सिद्धिरिति वाच्यं परिशेषस्यापि लोकदृष्ट्या उपपतेरिति मतान्तरमाह ।
अथवेति सत्व शब्दितान्तःकरणस्य तृतीया श्रुत्यास्वाप्नगजादिगोचरज्ञानकरणत्वं भाति तथा च श्रुतिं प्रामाण्यात् स्वप्ने चक्षुरादिजन्य वृत्यभावेपि मानसवृतिरस्ति ।
अतो न संस्कारानुपपतिरिति कल्पतरूक्तरीत्येत्यर्थः ।
तावता इत्यस्य अन्तःकरणवृति सद्भावमात्रेणेत्यर्थः ।
अन्तःकरणस्य सर्वात्मना जीवचैतन्यैकेनाध्यस्ततया अहं पश्यामीत्यादिरूपेण द्रष्टतया गृह्यमाणस्य तस्यान्तःकरणस्याज्ञ दृष्ट्या तस्माच्चिदात्मनः सकाशाद्भेदा प्रसिद्ध्यापरिशेषार्थं लोकप्रसिद्ध द्रष्ट्टव्यतिरिक्तं करणादि व्याम्पाराभावस्यैवापेक्षितत्वा तावता परिशेषा सिद्धिर्न चेत्यर्थः ।
एतदुक्ते भवति अन्तःकरणवृतिलक्षणो व्यापारो वस्तुतःकरण व्यापारोपि प्रतीतितो द्रष्टव्यापारो भवति ।
अन्तःकरणस्य द्रष्टत्वेन गृहीतत्वाल्लोकैरिति स्वयं ज्योतिष्ट्वनिर्णयप्रकारं दर्शयति ।
प्रसिद्धेति ।
पूर्वमुच्यत इत्यनेन सूचितां स्वाप्न पदार्थेषु चाक्षुषत्वाद्यनुभवस्य गतिमिदानीं प्रपञ्चयति तस्मादिति पञ्चमीं व्याचष्टे ।
सर्वथति ।
पूर्वोक्त सर्वप्रकारैरपीत्यर्थः ।
स्वप्नानुभवस्य साक्षिरूपत्वे चक्षुराद्यनुविधानविरोधमाशङ्क्य दृष्टान्तेन समाधते ।
स्वप्नेत्यादिना ।
तदनुविधायिनीति ।
जागरे चक्षुराद्यनुविधायिनीया प्रसिद्धावृतिः सा स्वप्नसाक्षिण्यध्यस्यत इति यथा श्रुतार्थो न ग्राह्यः अन्यथा ख्याति प्रसङ्गात् ।
किन्तु तदेतत्सत्वं येन स्वप्नं पश्यतीति श्रुत्यनुसारेण कल्पतरुकारैयां गजादिगोचरमानसवृतिरुपेता तस्यां तदनुविधायित्वं वाप्यस्यत इत्यर्थः ।
तथा च केवलसाक्षिरूपे स्वाप्नगजाद्यनुभवे चक्षुराद्यनुविधायिनी वृतिर्वा तत्राध्यस्यत इति यतच्च भ्रममात्रमित्यर्थः ।
नन्वै तावान्भमो दुर्घट इत्याशङ्क्याह ।
किम्मिवहाति दुर्घटमपि भ्रमं माया किमिव न करोतीति सम्बन्धः ।
किमिव केन दृष्टान्तेन न करोति दुर्घटाकरणे मायाया दृष्टान्तो नास्तीत्यर्थः ।
प्रत्युत तस्यास्तत्कारित्वमैन्द्रिजालिक मायादौ प्रसिद्धमिति हि शब्दार्थः ।
वियदादि प्रद्यं च भ्रमहेतुभूता माया दुर्घटमपि प्रपञ्च भ्रमं व्यवस्थितरूपं घटयति निद्रारूपेण परिणता तु सा ततो विलक्षणमेव भ्रमं कारयतीति मत्वाविशेषत इत्युक्तम् ।
यस्या इति निद्रारूपेण परिणताया इत्यर्थः ॥
तस्मादन्वयाद्यनुविधानप्रतीति तौल्येपि जाग्रद्गजाद्यनुभव एव चक्षुरादि जन्यो न स्वाप्न गजाद्यनुभवः दृष्टि सृष्टि वादिनस्तु कल्पितस्याज्ञातसत्वमनुपपन्नमिति कृत्स्नस्य जाग्रत्प्रपञ्चस्य
दृष्टि समसमयां सृष्टिमुपेत्य घटादि दृष्टेश्चक्षुः सन्निकर्षानुवियान प्रतीतिं दृष्टेः पूर्वे घटाद्यभावेनासङ्गछमानां स्वप्नवदेवसमर्थयमानाजाग्रद्गजाद्यनुभवोपि न चाक्षुष इत्याहुः ।
ननु दृष्टि सृष्टिमवलंव्यकृत्स्नस्य जाग्रत्प्रपञ्चस्य कल्पितत्वोपगमेकस्कल्पको निरुपाधिरात्मावा विद्योपहितो वा नाद्यः ।
मोक्षेपि साधनान्तर निरपेक्षस्य कल्पकस्य सत्वेन प्रपञ्चानुवृत्या संसाराविशेषप्रसङ्गात् ।
न द्वितीयः अविद्याया अपि कल्पनीयत्वेन तत्कल्पनात् प्रागेव कल्पकसिद्धेर्वक्तव्यत्वात् ।
अत्र केचिदाहुः पूर्व पूर्वकल्पिताविद्योपहित उतरोतराविद्याकल्पकः ।
अनिन्दं प्रथमत्वाच्च कल्पककल्पनाप्रवाहस्य नानवस्थादोषः ।
न चाविद्याया अनादित्वोपगमाच्छुक्तिरजतवत कल्पितत्वं न युज्यते ॥
स्वप्ने चाक्षुषत्वाद्यनुभवस्य गतिनिरूपणमुपसंहरति ।
तस्मादिति ।
स्वप्ने चक्षुरादि व्यापारासम्भवादित्यर्थः ।
ये त्वधिकारिणो बहुविधज्ञानकर्मानुष्ठानासादितनिरतिशय परमेश्वरप्रसादमहिम्नानितान्त निर्मलीकृतान्तःकरणाः
सन्तः जागरेपि स्वप्नाद्विशेषं न पश्यन्तिता न ब्रह्मविद्याकामानधिकृत्य प्रवृतां कृत्स्नस्य जगतः प्रबोधस्वापावस्थायोः प्रभव प्रलय प्रतिपदिकां श्रुति मनुसृत्य दृष्टि सृष्टिवादाः पूर्वाचार्यै निरूपितः तं स्वप्न विचारेण बुद्धिमागतं दर्शयति ।
दृष्टि सृष्टि वादिनस्त्विति दृष्ट्या सह समः समयो यस्याः सा तादृष्टिं कृत्स्नस्या जाग्रत्प्रपञ्चस्योपेत्येत्यत्र पूर्ववाक्येन हेतुमाह ।
कल्पितस्येति ।
स्वाप्नप्रपञ्चस्येवेत्यर्थः ।
घटादिदृष्टेर्या अनुविधानप्रतीतिः तामसङ्गछमानां स्वप्नवदे भ्रममात्ररूपा समर्थयमाना इति सम्बन्धः ।
असङ्गछमानत्वे हेतुर्दृष्टेः ।
पूर्वं घटाद्यभावेनेति ।
तत्र हेतु दृष्टिसमसमयासृष्टिः न चाक्षुष इति किं तु स्वप्नानुभववदेव केवलसाक्षिरूप इत्यर्थः ।
कल्पितत्वोपगम इति प्रातिभासिकत्वोपगम इत्यर्थः ।
कं शब्दसूचितं विकल्पं दर्शयति निरुपाधिरिति निरपेक्षश्चिदात्मैव संसारकल्पक इति प्रथमकल्पं दूषयति ।
मोक्षेपीति अनुवृत्येति ।
अनुवृत्यापत्येत्यर्थः ।
अविद्याया अपीति ।
तस्या अपि कादाचित्कत्वाभ्युपगमे अ अविद्यासृष्टेः पूर्वमेवाविद्योपहितस्य चिदात्मनो विद्यादिकल्पकस्य वक्तयत्वातदभावादविधादि सृष्टिं न सम्भवति ।
तथा च सदासंसारानुपलम्भ प्रसङ्ग इति भावः ।
नन्वेवमपि प्रथमाविद्यायाः कः कल्पकः तत्राह अनिदमिति ।
इदं प्रथमत्वाभावात् प्रथमाविद्यैव काचिन्नास्ति अतो न चोद्या च काश इति भावः ।
तर्ह्य नवस्थेत्योशङ्क्यसान दोषाया विद्योपहितात्मनः प्रपञ्च कल्पकत्वेनश्चति
सिद्धस्य पूर्वपूर्व अविद्यां विना तत्कल्पकत्वनिर्वाहाभावादित्याशयेवाह ।
नानवस्थादोष इति ।
ननु जीव ईशो विशुद्धावित् तथा जीवेशयोर्भिदा अविद्यातच्चितोर्योगः षडस्माकमनादय इति सिद्धान्तविरुद्धमविद्यायाः प्रवाहानादित्व कल्पनं तस्याः स्वरूपानादित्वस्यैव सिद्धान्तसङ्ग्रहश्लोके चैतन्यवत् प्रतीतेरिति शङ्कते ।
न चेति ॥
अन्यथा साषनादि विभागानुपपतेरिति वाच्यम् ।
यथा स्वप्ने कल्पमानं गोपुरादि किञ्चित् पूर्वसिधत्वेन कल्पते ।
किं वितदामीमुत्पाद्यत्वेन एवं जागरेपि किञ्चित्कल्प्यमानं सादित्वेन कल्पते ।
किञ्चिदन्यथेत्येतावता साद्यनादि विभागोपपतेः ।
एतेन कारणविभागोपि व्याख्यात इति अन्ये तु वस्तुतो नाद्येवा विद्यादि तत्र दृष्टिसृष्टिर्नोपेयते ।
किन्तु ततोन्यत्र प्रपञ्चमात्र इत्याहु ।
नन्वेवमपि श्रुतिमात्र प्रतीतस्य वियदादि सर्गतत् क्रमादेः कः कल्पकः न कोपि किमालंवना तर्ह्यात्मन आकाशः सम्भूत इत्यादि श्रुतिः निष्प्रपञ्च ब्रह्मात्मैक्यावलंवनेत्यवे हि ॥
सिद्धान्तमुल्लङ्घ्यप्रवृतावपि दोषमाह ।
अन्यथेति ।
अविद्यादीनां
स्वरूपानादित्वानुपगम इत्यर्थः ।
अनुपपतेरिति ।
उक्तविभागस्य लोकशास्त्रसिद्धत्वादिति भावः ।
श्रुत्यैकसमधिगम्य विशुद्ध चैतन्य व्यतिरिक्तमात्रे दृष्टिसृष्टिमुपेत्यैव साद्यनादि विभागबोधक लौकिक वैदिक प्रमाणां सिद्धान्त प्रवादस्य चावलम्बनत्वेन भ्रमविशेषं सदृष्टान्तमाह ।
यथोत्पादिना ।
किञ्चिदन्यथेति ।
किञ्चिद विद्यादिकमन्यथा नादित्वेन कल्पाते पूर्वपूर्वाविद्योपहितेनात्मनेत्यर्थः ।
एतावता कल्पनामात्रेणेत्यर्थः ।
ननु प्रत्यक्षे विषयस्य कारणतया घटादि दृष्टेः पूर्वमज्ञातो घटादिर्वाच्यः ।
अन्यथा कार्यकारणविभागोमस्या तथा अविद्योपहितस्य चिदात्मन एकस्यैव स्वस्मिन् संसारकल्पकत्वे संसारवतो जीवस्यैकत्वेन गुरुशिष्यविभागो देव तिर्य"न्मनुष्यादि विभागश्च न स्यादित्यत आह ।
एतेनेति ।
साद्यनादिविभागोपपति कथनेनेत्यर्थः ।
व्याख्यात इति वस्तुतः प्रत्यक्षे विषयस्याकारणत्वेपि सः तत्कारणत्वेन कल्पते ।
तथा अन्यदपि स्वप्न वदेव सर्वमूह्यमित्यर्थः ।
कल्पकस्याविद्योपहितस्यानन्त्य परिहाराय साद्यनादिविभागाञ्जस्याव च दृष्टिसृष्टेः सङ्कोचमाह ।
अन्ये त्विति ।
वस्तुत इति स्वरूपत इत्यर्थः ।
तर्हि दृष्टिसृष्टिः कुत्रापि नोपेयामानाभावादिति शङ्कते किं त्विति स्वापप्रबोधयोः कार्यप्रपञ्च मात्रस्य प्रलयप्रभव प्रतिपादक बहुश्रुतिसिद्धत्वान्नैवमिति परिहरति ।
ततोन्यत्रेति ।
अविद्यादेः सकाशादितिशेषः मात्रपदं कृत्स्नार्थकम् ।
ननु दृष्टिसमय एव प्रपञ्च सृष्टिरिति मतेपि
दृष्टिशब्देन प्रत्यक्षप्रतीतिरेव विवक्षिता न परोक्ष प्रतीतिः ।
अपरोक्ष प्रतीतिरेव विषया विना भूतत्वेन प्रातिभासिक विषय साधकत्वात् ।
परोक्ष प्रतितेश्चा तथा त्वात् तथा स्थिते सति बाधकमाशङ्कते ।
नन्वेवमपीति ।
अविद्योपहितस्यात्मनः प्रत्यक्षवस्तुकल्पकत्वेपीत्यर्थः ।
यदि वियदादिसर्गः श्रुत्याप्रत्यक्षेण च प्रतीतो भवे तदा प्रत्यक्ष वलाद्घटादेरिव तस्यापि प्रातिभासिकत्वस्य सिद्धिः सम्भवेन्नत्वे तदस्तीत्याशयेन मात्रं पदं दतं वायादिसङ्ग्रहार्थं प्रथममादिपदं वियदादि प्रलय तत्क्रमसङ्ग्राहार्थं द्वितीयादपदङ्क इति ।
कल्पको न सम्भवत्येवेत्यर्थः ।
कल्पकाभावे इष्टापतिमाह दृष्टिसृष्टि वादीन कोपीति ।
तर्हि सृष्ट्यादि श्रुतिप्रतिपाद्यस्य वियदादि सृष्टि तत्क्रमादेः शशशृङ्गायमानतया श्रुतेरालम्बनाभावादप्रामाण्यां स्यादिति शङ्कते ।
किमिति ।
तात्पर्यविषयीभूतार्थस्य सत्वान्नाप्रामाण्यापतिरिति परिहरति निश्चयं चेति ॥
अध्यारोपापवादाभ्यां निष्प्रपञ्चब्रह्मप्रतिपतिर्भवतीति तत्प्रतिपत्युपायतया श्रुतिषु सृष्टिप्रलयोपन्यासो न तात्पर्येणेति भाष्याद्युद्घोषः व्यर्थस्तर्हि तात्पर्याभावे वियत्प्राणपादयोर्वियदादि सर्ग तत्क्रमादि विषयश्रुतीनां परस्परविरोधपरिहाराय यत्नः न व्यर्थः न्यायव्युत्पत्यर्थमभ्युपेत्यतात्पर्यं
तत्प्रवृतेः ।
उक्तं हि शास्त्रदर्पणे श्रुतीनां सृष्टि तात्पर्यं स्वीकृत्येदमिहेरितं ब्रह्मात्मैक्य परत्वात्ततासां तत्रैव विद्यत इति ।
ज्योतिष्टोमादिश्रुतिं बोधितानुष्ठानात्फलसिद्धिः ॥
ननु सृष्ट्यादिवाक्यानां शुतार्थपरित्यामेनाश्रुतार्थे तात्पर्यकल्पनमयुक्तं किन्तु श्रुत्यनुसारेण विपदादि सर्गस्य तत्कल्पकस्य च कल्पनमेव युक्तमित्यत आह ।
अध्यारोपेति ।
यथालोके गगनतत्वबोधनापप्रवृतः कश्चित् प्रथमं नैल्यवैशाल्याद्यध्यारोपौपेतं गगनं ग्राहयित्वा पश्चात् नेदं वस्तुतो नैल्यादि युक्तमिति तदपे वादेन नीरूपं व्यापकमुदासीनं गगनतत्वमिति बोधयति ।
तथा वेदान्ता अपि प्रथमं पद्विपदादि सर्गप्रलयादिकारणं सृष्ट्यादि वाक्यैः प्रतीयते तद्ब्रह्मेत्यच्यारोपितसर्गादि युक्ततया ब्रह्मग्राहियित्वा पश्चात् ।
निषेधवाक्यैरध्यारोपित सर्गाद्यपवादेन निश्रपञ्च ब्रह्मात्मैक्यं प्रतिपादयन्ति ।
तथा च सृष्ट्यादि वाक्यानां निषेधवाक्यापेक्षितनिषेध्य समर्प्यकतया तदेक वाक्यतापन्नानां निश्रपञ्च ब्रह्मप्रतिप्रयोजनकत्वमेव न तु स्वार्थ सृष्ट्यादि प्रतिपादनमात्रेणचारितार्थ्यमर्थवादादीनामिव तेषां स्वार्थप्रतिपादने फलाभावान्निष्फलेर्थे वेद तात्पर्या योगादतो युक्तमेव स्वार्थत्यागेन निष्प्रपञ्च ब्रह्मात्मैक्ये तात्पर्य कल्पनं तहानस्य मुक्तिफलकतायाः श्रुतिसिद्धत्वादेवं च प्रथममध्यारोपेण स प्रपञ्च
ब्रह्मप्रतिपतिर्भवति पश्चात्प्रपञ्चापवादेन तस्यैव ब्रह्मणो निष्प्रपञ्चत्व प्रतिपतिर्भवति पूर्वप्रतिपतिश्चोतरप्रतिपतेः शेष एव न स्वतन्त्रेति निष्कर्षः प्रपञ्चस्तु भाष्यादिष्वेव द्रव्य इत्यर्थः ।
शङ्कते ।
व्यर्थ इति ।
तर्हीत्यस्य व्याख्या तात्पर्याभाव इति वियदादि सर्ग तत्क्रमादावितिशेषः ।
यत्नोव्यर्थः सूत्रकारभाष्यकारयोरितिशेषः तात्पर्याविषये विद्यमानस्यापि श्रुतिविरोधस्या किञ्चितेत्करत्वादिति भावः ।
परिहरति ।
न व्यर्थ इति ।
न्यायेति ।
वियत्प्राणपादद्वयगताधिकरणेषु निरूपिताये सिद्धान्त न्यायाः तेषां बोधार्थमित्यर्थः ।
तेषां न्यायानां सृष्ट्यादि वाक्यार्थाविरोधनिर्णयायानपेक्षितानामपि श्रुति तात्पर्य विषये क्वचिदेवं विरोध प्रसक्तौ तत्समाधानाय उपयोगस्तेषां भविष्यतीत्याशयेन प्रवृतः सूत्रकारादि यत्नोर्थ वा नित्यर्थः ।
तत्प्रवृतेरिति ।
वियत्प्राण पादयोः प्रवृतेरित्यर्थः ।
सृष्ट्यादि श्रुतीनां स्वार्थे तात्पर्यमभ्युपेत्यैव वियत्पादादि प्रवृतिरित्यत्रकल्पतरुकारसम्मतिमाह ।
उक्तं हीति इदमिति ।
विरोधसमाधानमित्यर्थः ।
इहेति ।
वियत्प्राणपादयोरित्यर्थः ।
तु शब्दोवधारणे तासां सृष्ट्यादि श्रुतीनां ब्रह्मात्मैक्य परत्वादेव तत् तात्पर्यं नास्त्येव तासां स्वार्थेपि तात्पर्ये वाक्य भेदप्रसङ्गात् ।
स्वार्थे फलाभावाच्चेत्यर्थः ।
एवं दृष्टि सृष्टि वादे सृष्ट्यादि श्रुतीनां निरालम्बनत्वं परिहृत्य कर्मोपासनावाक्यानामपि निरालम्बनत्वं परिहरति ।
ज्योतिष्टोमेत्यादिना ज्योतिष्टोमादि श्रुत्या
स्वर्गादिसाधनत्वेन बोधितस्य यागादेरनुष्ठानात् स्वर्गादिफलसिद्धिरित्यर्थः ॥
स्वाप्नश्रुतिबोधितानुष्ठानप्रयुक्तफलसंवादतुल्या ज्योतिष्टोमादि श्रुतीनां च सत्व शुद्धिद्वाराब्रह्मणि तात्पर्यान्नाप्रामाण्यमित्यादि दृष्टिसृष्टिव्युत्पादनप्रक्रिया प्रपञ्चस्त्वाकरे एव द्रष्टव्यः अयमेको दृष्टिसमसमयाविश्वसृष्टिरिति दृष्टिसृष्टि वादः अन्यस्तदृष्टिरेव विश्वसृष्टिः दृश्यस्य दृष्टिभेदे प्रमाणभावात् ।
ज्ञानस्वरूपमेवाहुर्जगदेतद्विचक्षणाः अर्थस्वरूपं ध्वाम्यन्तः पश्यन्त्यन्ये कुदृष्टय इति स्मृतेश्चेति सिद्धान्तमुक्तावल्यदि दर्शितो दृष्टिसृष्टिवादः द्विविधेपि दृष्टिसृष्टिवादे मनः प्रत्ययमलभमानाः केचिदाचार्याः सृष्टिदृष्टिवादं रोचपन्ते ॥
स्वामेति स्व मे हि कश्चित् कदाचिज्ज्योतिष्टोमादिश्रुतिं कल्पयित्वा ततः साधनविशेषमुपलभ्यतदनुष्ठानात्फलं लभते ।
तत्तुल्यं जागरणेपि स्वर्गादिफललभनमित्यर्थः ।
वस्तुतस्तु श्रुतिमात्रप्रतीतवियदादिसर्गतत्क्रमादेरिव श्रुतिमात्रप्रतीतस्वर्गादिफलस्याप्यसत्वमैवाभिप्रेतं
कल्पकाभावस्य तुल्यत्वादिति बोध्यम् ।
तर्हि तासामप्रमाण्यं स्यादिति नेत्याह ।
ज्योतिष्टोमादि श्रुतिनां चेति ।
कर्मवाक्यैरुपासनावाक्यैश्च विहितानि कर्मोपासनान्यनुतिष्ठतः ।
सत्वशुद्धिर्भवति शुद्धसत्वस्य चाधिकारिणो वेदान्तशास्त्रं ब्रह्मप्रमिति जनयति तथा च कर्मोपासनाकाण्डयोरधिकारिसम्पादनद्वारा ब्रह्मप्रसिति शेषत्वातयोस्तत्रैव तात्पर्यं न स्वार्थं स्वर्गसाधनत्वादावितिना प्रामाण्यप्रसङ्ग इति भावः ।
न च वेदान्तानाम् अशेषतो ब्रह्मप्रतिपतिपरत्वे नास्ति मानमिति वाच्यम् ।
सर्वे वैक्ष्य यत्पदमामनन्तितमेतं वेदानुवचनेन ब्राह्मणाविविदिषन्तीत्यादिश्रुति सहस्रस्य तत्र मानत्वादित्यादिकमभिप्रेत्याह ।
इत्यादि दृष्टिसृष्टिव्युत्पादनप्रक्रियाप्रपञ्चस्त्विति अयमेको दृष्टिसृष्टित्वाद इति सम्बन्दः अन्यस्तु सिद्धां तु मुक्तावल्यादि दर्शितः दृष्टिसृष्टिवाद इति सम्बन्धः द्वितीयं नीरूपयति दृष्टेरेवेति ।
दृष्टिर्दर्शनं स्वप्रकाशज्ञानस्वरूपमित्यर्थः ।
एतदुक्तं भवति ।
दृश्यप्रपञ्च तादात्म्यापन्नं ज्ञानस्वरूपमेव प्रपञ्चस्याद्यक्षणावछिन्नं स तस्य सृष्टिरित्युच्यत इति ।
ननु दृग्दृश्ययोर्भिन्नयोरभिन्नसताकत्वरूपं तादात्म्यमसिद्धमित्याशङ्क्याह ।
दृश्यस्येति ।
दृष्टिर्ज्ञानं तस्माद्भेदे भिन्नसत्वाकत्वे इत्यर्थः ।
अन्यथा सन् घट इत्यादि रूपेण सद्रूपस्य ज्ञानस्य घटादेश्च
सामानाधिकरण्य प्रत्ययो न स्यादितिभावः ।
स्मृतावे तदिति प्रत्यक्षसिद्धसित्यर्थः ।
अर्थ स्वरूपमिति ।
अर्थपदं स्वतन्त्रपरं कुदृष्टय इति ।
कुतर्क दूषित ज्ञाना इत्यर्थः ।
तथा चैतज्जगदन्ये कुदृष्टयो भ्रान्ताः ज्ञानस्वरूपसता पेक्षयाभिन्नसनाकं पश्यन्तीत्युतरार्धेन भेददृष्ट्यपवादाच्च तयोरभेदसताकत्वसिद्धेरित्यर्थः ।
स्मृतेश्चेति ।
चकाराच्छ्रुतेश्चेत्यर्थः चिद्वीदं सर्वमित्यादि श्रुतिरुदाहर्तव्यामनः प्रत्ययो मानसो विश्वासः प्रामाणिकत्व निश्चयः तमलभमाना इत्यर्थः ।
तदलाभे च हेतुः ।
जाग्रत्प्रपञ्चस्यापि प्रातिभासिकत्वाभ्युपगमो वियदादि सर्गाद्यपलापः कर्मोपासनाकाण्डार्थानुष्ठानाधीन स्वर्गलोकब्रह्मलोकाद्यपलायो जाग्रति चक्षुराद्यनुविधान प्रतीतेर्भ्रमत्वम् इत्यादिरिति द्रष्टव्यम् ॥
श्रुति दर्शितेन क्रमेण परमेश्वर सृष्टमज्ञातसतायुक्तमेव विश्वं ततद्विषयप्रमाणावतरणे तस्य तस्य दृष्टि सिद्धिरिति ।
न चैवं प्रपञ्चस्य कल्पितत्वाभावे श्रुत्यादि प्रतिपन्न सृष्टिप्रलयादिमतः प्रत्यक्षादि प्रतिपन्नार्थक्रियाकारिणश्च तस्य सत्यत्वमेवाभ्युपगतं स्यादिति वाच्यं शुक्तिरजतादिवत्सम्प्रयोगसंस्कारदोषरूपेणाधिष्ठान ज्ञानसंस्कारदोषरूपेण
वा कारणत्रयेणाजन्यतया कल्पना समसमयत्वाभावेपि ज्ञानेक निवर्त्यत्वरूपस्य सदसद्विलक्षणत्वरूपस्य प्रतिपन्नोपाधिगत त्रैकालिकप्रतिषेध प्रतियोगित्वरूपस्य वा मिथ्यात्वस्याभ्युपगमात् ।
सत्यत्वपक्षे प्रपञ्चे उक्तरूपमिथ्यात्वाभावेन ततो भेदात् ।
सृष्टिदृष्टि पदं व्याचष्टे ।
श्रुति दर्शिते नेत्यादिना ।
अय सिद्धान्तं शङ्कते ।
न चैवमिति ।
उक्तरीत्याप्रामाणिकत्वे प्रपञ्चस्य स्वीकृते सतीत्यर्थः ।
कल्पितत्वाभावे सत्वमेवाभ्युपगतं स्यादिति सम्बन्धः ।
प्रपञ्चः सत्यः श्रुतिसिद्धत्वात् ।
ब्रह्मवत् ।
न च तस्य प्रत्यक्ष सिद्धस्य श्रुति सिद्धत्वमसिद्धमिति वाच्यम् ।
तस्य स्वरूपेण प्रत्यक्ष सिधत्वे सृष्टिप्रलयादिविशिष्टतया श्रुतिस्मृत्यादि सिद्धत्वात् ।
तथा प्रपञ्चः सत्यः अर्थक्रियाकारित्वात् ।
सृष्ट्याद्यर्थ क्रियाकारिब्रह्मवत् ।
न च हैत्वसिद्धिः पृथिवीजलादौ तस्य प्रत्यक्षादि सिद्धत्वादितिभावः ।
प्रपञ्चस्य ब्रह्मवत्परमार्थसत्यत्वे हेतुद्वयमप्रयोजकमतोनापसिद्धान्तापतिरित्याशयेन परिहरति शुक्ति रजतादि वदिति ।
वियदादि प्रपञ्चे शुक्तिरजतादाविवकल्पनासमसमयत्वस्य दृष्टिसृष्टिवाद्यभिमतस्याभावेपि पारमार्थिक सत्यत्वविरुद्धस्य मिथ्यात्वस्याभ्युपगमादिति सम्बन्धः वियदादि
प्रपञ्चे कल्पना समसमयत्वाभावे कारणत्रयाजन्यत्वं हेतुः सम्प्रयोगस्य स्वप्नभमव्यापित्वाभावात् ।
सम्प्रयोगस्थाने अधिष्ठानसामान्यज्ञानं निक्षिपति ।
अधिष्ठान ज्ञानेति ।
मिथ्यात्वनिर्वचनं त्रेधा दर्शयति ।
क्षानैकेत्यादिना ।
अधिष्ठान तत्वज्ञानमात्रनिवर्त्यत्व रूपस्येत्यर्थः ।
सद्विलक्षणत्वमात्रम् असत्पति व्याप्तम् ।
असद्विलक्षणत्वमात्रं सति ब्रह्मण्यति व्याप्तम् अत उभयो पादानं प्रपञ्चस्य तूभयविलक्षणत्वं प्रमाणसिद्धमितिभावः ।
प्रतिपन्नेति ।
ब्रह्मणि प्रतिपन्नस्य प्रतीतस्य आरोपितस्यैति यावत् ।
ब्रह्मोपाधिरधिष्ठानं तत्र ब्रह्मणि तस्य त्रैकालिको निषेधः श्रुतिगम्योत्यन्ताभावोस्ति तत्प्रतिशेगित्वं तस्याक्षतमितिभावः ।
तत्राद्यस्तक्षणेपि घटादिकं नाशयामीत्यादि ज्ञाननिवर्त्यत्व सत्वादेक पदं दतं ज्ञानमात्रनिवर्त्यस्य च सत्यत्व वादिभिरनङ्गीकारात् ।
न सत्यत्व पक्षाविशेषः ।
तथा प्रपञ्चे परैः सद्रूपत्वाङ्गीकारेण सद्विलक्षणत्वानङ्गीकारात् ।
द्वितीयलक्षणेपि न सत्यत्वपक्षाविशेषः ।
प्रपञ्चस्य तदुपादाने ब्रह्मणि सिद्धान्त इव घटाद्युपादान वस्तुनि घटादेस्त्रैकालिक निषेधस्य परैरनङ्गीकारात् ।
न तृतीये लक्षणेपि परमताविशेष इत्याशयेनाह ।
सत्यत्वपक्ष इति ।
नन्वेवमहङ्कार तद्धर्माणामप्युक्तरूपमिथ्यात्वं वियदादिवत्कल्पितत्वाभावेपि सिध्यतीति
भाष्यटीकाविवरणेषु तदध्यासे कारणत्रितय सम्पादनादिश्रयो व्यर्थ इति चेत् ।
अहङ्कारादीनामपि केवलसाक्षिवेद्यतया शुक्तिरजतवत् प्रातिभासिकत्वमभिमतमिति चित्सुखाचार्याः अभ्युपेत्यवादमात्रे तदद्वितीयाधिष्ठान ब्रह्मात्मप्रमाणस्य चैतन्यस्येत्यादि तत्रत्यकारणत्रितयसम्पादनग्रन्थस्य चैतन्यस्य प्रमाकरणत्वे वेदान्तकरणत्वादिकल्पनार्भगप्रसङ्गेन प्रौढिवादत्वस्य स्फुटत्वादिति रामाद्वयाचार्य्याः ।
ननु दृष्टिसृष्टिवादे सृष्टिदृष्टिवादे च मिथ्यात्व सम्प्रतिपतेः ।
कथं मिथ्याभूतस्यार्थक्रियाकारित्वं स्वप्नवदिति ब्रूमः ।
ननु स्वाप्नजलादि साध्यावगाहनादि रूपार्थक्रिया असत्यैव किन्तु जाग्रज्जलादिसाध्यासा सत्या ॥
दृष्टिसृष्टिवाद्येव शङ्कते ।
नन्वेवमिति ।
ज्ञानैकनिवर्त्यत्वादेः मिथ्यात्वस्वरूपत्वे सतीत्यर्थः ।
अहङ्कारतद्धर्माणामपि उक्तरूपमिथ्यात्वं वियदादिवत्सिध्यतीति सम्बन्धः ।
कल्पितत्वाभावेपीति ।
प्रातिभासिकत्वाभावेपीत्यर्थः ।
तत्पदमहङ्कारादिपरं चिदात्मनोधिष्ठानत्वादि समर्थनमादि पदार्थः ।
अभिमतमिति ।
भाष्यकारादीनामितिशेषः ।
तथा च तत्सम्पादनादि यत्नः ।
सफल इति भावः ।
अहङ्कारतद्धर्माणां केवलसाक्षिवेद्यत्वेपि शुक्तिरजतादिवत् ।
प्रातिभासिकत्वं वक्तुमयुक्तं व्यवहारकाले बाधानुपलम्भादतो वस्तुगत्या तेषां प्रातिभासिकत्वाभावेपि तदत्युपेत्यकारणत्रयसम्पादनादि यत्नः तैः कृत इति परिहारान्तरमाह ।
अभ्युपेत्येति ।
तद्भाष्यादि प्रातिभासिकत्वमभ्युपेत्यवचनमेव न वस्तुगतिमनुरुध्येत्यर्थः ।
अद्वितीयाधिष्ठान ब्रह्मात्मनि प्रमाणं चैतन्यमिति प्रतिपादयतिष्ठीकाविवरणादि गतस्य ग्रन्थस्य प्रौद्धिवादत्व स्पष्टत्वादिति सम्बन्धः ।
प्रौढि वादत्वे उपपतिमाह ।
चैतन्यस्य प्रमाकरणत्व इति ।
ब्रह्मप्रमाकरणत्व इत्यर्थः ।
औपनिषदत्व श्रुत्यनुसारैणवेदान्तानामेव ब्रह्मप्रमाकरणत्व कल्पनेत्यर्थः ।
वेदान्तजन्यब्रह्मप्रमायाः अपरोक्षत्वकल्पनमादिपदार्थः प्रपञ्चस्य परमार्थत्वे पूर्वमर्थकिर्याकारित्वमप्रयोजकमिति सूचितं तदयुक्तं मिथ्याभूतस्य शुक्तिरूप्यादेः कदकाद्यर्थ क्रियाकारित्वा दर्शनादिति मत्वाशङ्कते ।
नन्विति ।
अर्थक्रियाकारित्वं सत्यत्व व्यभिचारीति परिहरति स्वप्नवदिति ।
स्वाप्नजलादाववगाहनादिरूपार्थक्रियाकारित्वमस्ति तत्र सत्यत्वं नास्तीति व्यभिचार इत्यर्थः ।
नन्वर्थ ।
क्रियाकारित्वमात्रं न हेतुः ।
किन्तु सत्यार्थक्रियाकारित्वं तच्च स्वाप्नजलादौ नास्तीति न व्यभिचार इति
शङ्कते ।
नन्विति असत्येव न तु सतीत्यर्थः ।
असत्यैवेति पाठे असत्या न तु सत्येत्यर्थः ।
तर्हि प्रपञ्चः सत्यः सत्यार्थक्रियाकारित्वादित्यत्र हेतुत्वसिद्धिमाह सिद्धान्ती ।
किन्त्विति ।
जाग्रज्जलादि साध्यासार्थक्रियासत्या किमिति सम्बन्धः तु शब्दोवधारणे किं शब्दः आक्षेपार्थः सासत्या न भवत्येवेत्यर्थः ।
अतो हेत्वसम्प्रतिपति परिहारायार्थ क्रियाकारित्वमात्रं सत्यत्व प्रयोजकं वाच्यं तच्च स्वाप्नजलादावस्त्येवेति व्यभिचारतादवस्थामितिभावः ॥
अविशिष्टमुभयन्नापि स्वसमानसताकार्थक्रियाकारित्वमिति केचित् ।
अद्वैतविद्याचार्यास्त्वाहुः ।
स्वाप्नपदार्थानां न केवलं प्रबोधबाध्यार्थक्रियामात्रकारित्वं स्वाप्नाङ्गना भुजङ्गमादीनां तदबाध्यसुखभयादि जनकत्वस्योपि दर्शनात् ।
स्वाप्नविषयजन्यस्यापि हि सुखभयादेः प्रबोधानन्तरं न बाधोनुभूयते ।
प्रत्युत प्रबोधानन्तरमपि मनः प्रसाद शरीरकं पादिनामह तदनुवृतिदर्शनात्प्रागपि सत्वमेवावसीयते ।
अत एव प्राणिनां पुनरपि सुखजनकविषयगोचर स्वप्ने वाञ्छा अतादृशे स्वप्ने च प्रद्वेषः सम्भवति च स्वप्ने ज्ञानवन्दतःकरणवृतिरूपस्य सुखभयादेरुदयः ॥
ननु स्वाप्नजलादौ सत्यार्थक्रियाकारित्वाभावेपि स्वसमानसताकार्य क्रियाकारित्वमस्त्येव तर्हि जाग्रत्प्रपञ्चस्यापि तदस्तनैतावता त्वदभिमतपरमार्थ सत्यत्वं सिध्यतीत्याशयेन परिहरति ।
अविशिष्टमिति ।
उभयत्रापीति ।
जाग्रत्स्वप्नावस्था द्वयेपीत्यर्थः ।
स्वपदम् अर्थक्रिया हेतुभूतवस्तुपरं स्वप्न वदिति बूम इति समाधाने स्वप्नेवदर्थक्रियासत्या न भवति जागरे तु सा सत्येति वैषम्यशङ्कायां प्रतिवन्द्या केषाञ्चित् सामाधानं दर्शितम् ।
इदानीं स्वप्नादि पदार्थानामपि सत्यार्थक्रियाकारित्व दर्शनान्न दृष्टान्त वैषम्यमिति परिहारान्तरमाह ।
अद्वैतेति ।
प्रबोधबाध्या अर्थक्रियाप्रातिभासिकी प्रबोधा बाध्यार्थ क्रियास्वप्नकालीनापि व्यावहारिकसत्यैवेति विभागस्तथा च स्वाप्नपदार्थानां प्रातिभासिकार्थक्रियाकारित्वमात्रं केवलं न भवति किन्तु व्यावहारिकार्थ क्रियाकारित्वमप्यस्ति स्वप्नाङ्गनादीनारव्यावहारिकार्थ क्रियाकारित्वं कैमुतिकन्याय सिधमिति मिथ्यात्वपक्षेनार्थक्रियाकारित्वानुपपतिरितिभावः ।
ननु स्वाप्नभुजङ्ग माङ्गनादिरूपविषयाणां प्रबोधबाध्यत्वदर्शनात् ।
तत्कार्यभयसुखादीनां कथं प्रबोधा बाध्यत्वमित्याशङ्क्याह ।
स्वाप्नविषयेति ।
न प्रबोधाबाध्यसुख जनकत्वस्य स्वप्नभुजङ्गादीनां प्रबोधाबाध्यभयाकपादिजनकत्वस्य च दर्शनादेवं च
व्यावहारिक जाग्रत्पदार्थानां त्रुटत् हि प्रबोधानन्तरं स्वप्नकाले सुखभयादिकं समनाभूदिति सुखभयादेर्बाधो अनुभूयते इत्यर्थः ।
प्रत्युतेति वर्तमानसुखानुभवकार्यं मनः प्रसादः वर्तमानभय दुःखानुभवकार्यं गात्रकम्पादिः ततश्च प्रबोधानन्तरमनुवर्तमानत्वे गमकं मनः प्रसादत्वादि तथा च तदनन्तरमनुवर्तमानस्य भयादेः ।
सत्यत्वात् ।
प्रबोधात्प्रागपि तस्य सत्यत्वं निश्रीयत इत्यर्थः ।
स्वप्नकालीनमपि सुखभयादिकं जाग्रत्सुखदिवत् व्यावहारिक सत्यमेव न प्रातिभासिकं प्रबोधानन्तरं बाधाभावात् तदनन्तरमप्यनुवर्तमानत्वाच्चेति निष्कर्षः स्वाप्नसुखभयादेः सत्यत्वे गमकान्तरमाह ।
अत एवेति स्वाप्नभयादेरप्रातिभासिकत्वादेवेत्यर्थः ।
रागद्वेषयोः सत्यसुखदुःखगोचरत्वनियमादितिभावः ।
ननु स्वप्ने सर्वस्य वासनामात्रत्वात् ।
कथं सत्यस्य भयादेः सम्भव इत्यत आह ।
सम्भवति चेति ।
तदेतत्सत्वं येन स्वप्नं पश्यतीति श्रुत्यनुसारेण कल्पतरुकारैर्मानसवृतिरूपज्ञानस्य स्वीकारात् ।
तद्वदन्तःकरणपरिणामरूपभयादेर्व्यावहारिकस्य सम्भवः तदतिरिक्तपदार्थानामेव वासनापरिणामत्वेन प्रातिभासिकत्वाभ्युपगमादिति भावः ॥
न च स्वप्नाङ्गनादि ज्ञानमेव सुखादिजनकं तच्च सदेवेति वाच्यम् ।
तस्यापि दर्शनस्पर्शनादि वृतिरूपस्य स्वप्नप्रपञ्चसाक्षिण्यध्यस्तस्य कल्पनामात्र सिद्धत्वात् ।
न ह्युपरतेन्द्रियस्य चक्षुरादि वृतयः सत्याभवन्ति ।
न च तद्विषयापरोक्ष्यमात्रं सुखजनकं तच्च साक्षिरूपं स देवेति वाच्यम् ।
दर्शेनात् स्पर्शनेकामिन्याः पदास्पर्शनात् पाणिनास्पर्शने भुजङ्गस्या मर्मस्थले स्पर्शनात्मर्मस्थले स्पर्शने च सुखविशेषस्य भयविशेषस्य चानुभवसिद्धत्वेन स्वप्नेपि ततत्सुखभयादिविशेषस्य कल्पित दर्शनस्पर्शनादि विशेषजन्यत्वस्य वक्तव्यत्वादिति ।
तथा जागरे घटादि प्रकाशनक्षम तत्रत्यपुरुषान्तरनिरीक्ष्यमाणालोकवत्पापूवरके सद्यः प्रविष्टेन पुंसा कल्पितस्य सन्तमसस्य प्रसिद्धसन्तमसोचितार्थ क्रियाकारित्वं दृष्टन्तेन तं प्रतिघटाद्यावरणं दीपाद्यानयने तदपसरणं तन्नयने पुनरावरणमित्यादि दर्शनादित्यपि केचित् ॥
ननु स्वाप्नभयादिकं न भुजङ्गमाङ्गनादि पदार्थजन्यं किन्तु तद्गोचरज्ञानजन्यं तथा च ज्ञानस्य सत्यत्वादसत्यात् सत्यस्यापि कार्यस्य जन्यत्वं स्वप्ने दृष्टमित्युनुपपन्नमिति शङ्कते ।
न चेति ।
तच्च सदेवेति वदता वक्तव्यं किं तन्मनो मात्रजन्यवृतिरूपं किं वा चक्षुरादिजन्यवृतिरूपं केवलसाक्षिरूपं वा आद्येपि किं वृतिमात्रं भयादि हेतुरुतसाप्नभुजङ्गमादि रूपविषयविशेषितम् ।
नाद्यः यत्किञ्चिद्गोचरवृतिज्ञानादपि भयादिप्रसङ्गात् ।
न द्वितीयः वृतिमात्रस्य सत्यत्वेपि विषयस्यासत्यतया तद्विशिष्टस्यापि प्रातिभासिकत्वा तथा च प्रातिभासिकज्ञानाद्व्यावहारिकार्थ क्रियोत्पतौ तदुदाहरणं भवत्येवेति मत्वा प्रथमविकल्पत्रयमध्ये द्वितीयं दूषयति ।
तस्यापीति ।
ज्ञानस्यापीत्यर्थः ।
ननु चक्षुरादिजन्यमेव दर्शनस्पर्शनादि वृतिरूपं सत्यज्ञानं कुन्तो नोपेयते तत्राह ।
नहीति ।
तृतीयं शङ्कते ।
न च तदति दूषयति दर्शनादित्यादिना ।
कामिन्याः दर्शनात् तस्याः स्पर्शने तस्या एव पदास्पर्शनात् पाणिनास्पर्शने सुखविशेषस्यानुभवसिद्धेत्वेनेनेति सम्बन्धः भुजङ्गमस्यामर्मस्थले पुछादौ स्पर्शनात् मर्मस्थले शिरसि स्पर्शनेव भयविशेषस्यानुभवसिद्धत्वेनेति सम्बन्धः ।
स्वप्नेपीति ।
यथा जागरे सुखविशेषभयविशेषादेर्दर्शनस्पर्शनादि रूपवृतिविशेषविशिष्टविषयापरोक्ष्यजन्यत्वं न तु विषयापरोक्ष्यमात्रजन्यत्वं तन्मात्रस्यैकरूपत्वेन कार्यविशेषाप्रयोजकत्वात् ।
तथा स्वप्नेपि तथा च तत्तद्विषयापरोक्ष्यमात्रस्य साक्षिरूपस्य सत्यत्वेपि सुखभयादिजनकस्य प्रातिभासिक दर्शनादि वृतिविशेषविशिष्टस्य तत्तद्विषयापरोक्ष्यस्य प्रातिभासिकत्वात् प्रातिभासिकाद्व्यावहारिकसुखभयादि सम्भव इत्यर्थः ।
एवं स्वप्नावस्थायामसत्यात् सत्यार्थ क्रियामुदाहृत्यजागरेपि तामुदाहरति ।
तथेति ।
प्रकाशन क्षमो यः तत्रत्यैरपवरकस्थैः पुरुषान्तरैः निरीक्ष्यमाणालोकः तद्वतीत्यर्थः ।
अपवरकं स्वल्पग्रहं तत्रत्यालोकासत्वशङ्का व्यावृतये पुरुषान्तरनिरीक्ष्यमाणत्व विशेषणं दृष्टमित्येतत्प्रपञ्चयति ।
तैनेति ।
सन्तमसेनेत्यर्थः ।
अपि शब्दस्य तथा जागरेपीति सम्बन्धः ॥
अन्ये तु पानावगाहनाद्यर्थ क्रियायां जलादिस्वरूपमात्रमुपयोगिन तद्गतं सत्यत्वं तस्य कारणत्व तदवछेदकत्वयोरभावादिति किं तेन न चैवं सति मरुमरीचिकोदक शुक्ति रजतादेरपि प्रसिद्धोदकाद्युचितार्थ क्रियाकारित्वप्रसङ्गः मरीचिकोदकादाबुदकत्वादि जातिनीस्तीति ।
तद्विषयक भ्रमस्योदकशब्दोल्लेखित्वं तदुल्लेखि पूर्वानुभवसंस्कारजन्यत्व प्रयुक्तमिति तत्व शुद्धिकारादिमर्ते
तदर्थक्रियाप्रयोजकोदकत्वादि जात्याभावादेव तदप्रसङ्गात् ।
तत्राप्युदकत्वादि जातिरस्त्यन्यथा तद्वैशिष्ट्योल्लेखिभ्रमविरोधादुदकाद्यर्थिनस्तत्र प्रवृत्यभावप्रसङ्गाच्चेति ॥
अन्ये त्विति जगत्सत्यत्ववादिभिरपि हि अर्थक्रियाकारित्वमेव सत्यत्वमिति वक्तुं न शक्यते अर्थक्रियानुत्पति दशायां घटादेरसत्यत्वप्रसङ्गात् ।
किन्तु सत्वमर्थ क्रियाप्रयोजकमिति वक्तव्यं तथा च किं सत्वमर्थक्रियाकारणमभिप्रेतं किं वा कारणतावछेदकं नोभयथापीत्याह ।
पानेत्यादिना ।
जलादिपदं जलत्वादेरपि सङ्ग्राहकं बोध्यम् ।
उपयोगीति ।
जलादि स्वरूपं कारणतया जलत्वादि स्वरूपं कारणतावछेदकतयेति विभागः ।
मात्रपदव्यवछेद्यमाह ।
न तद्गतमिति सत्यत्वस्य जलादि स्वरूपातिरिक्ततयाकारणत्वाभावादति प्रसक्ततया कारणतावछेदकत्वाभावाच्चेत्यर्थः ।
किं तेनेति सत्यत्वेनेत्यर्थः ।
तथा च सत्यत्वाभावेपि प्रपञ्चस्यार्थक्रियाकारित्वं सम्भवान्न मिथ्यात्वविरोध इति भावः ।
ननु सत्यत्वस्य ततदर्थक्रियाकारिताया सति प्रसक्तत्वेप्यर्थक्रियाकारित्व सामान्ये सत्वमनति प्रसक्तत्वादवछेदकमेवान्यथा बाधकमाशङ्कते ।
न चैवं सतीति ।
सत्यत्वस्य कारणतासामान्यानवछेदकत्वे सतीत्यर्थः ।
एवं सति प्रसङ्ग इति न
चेत्यत्र हेतुमाह ।
मरीचिकोदकादिविति ।
मरुभूमिसंसृष्टासमरीचिकासुसमारोपितं तोयं मरीचिकोदकं तस्य तोयाभासत्वा तत्र तोयत्वं नास्ति कथं तर्हि तोयमिदमुदकमिति शब्दोल्लेखिप्रत्ययम् इत्याशङ्क्य तस्यान्यथा सिद्धिमाह ।
तद्विषयकभ्रमस्येति ।
मरीचिकोदकविषयकभ्रमस्येत्यर्थः ।
उदकशब्दोल्लेखीयः पूर्वानुभवः सत्योदकविषयः तजन्यसंस्कारजन्यत्वान्म्रीचिकोदकस्य तत्प्रयुक्तं तच्छब्दोल्लेखित्वमित्यर्थः ।
प्रयोजकेति ।
प्रसिद्धोदकस्य उचितार्थक्रियायापानादि रुपातस्यामुदकत्वजातिः प्रयोजिका उदकादन्यत्रपानादेरदर्शना तथा प्रसिद्धरजतादेरुचितार्थक्रियाकटकादिलक्षणा तत्र च रजतत्वादिकं प्रयोजकं मदोदौ कटकाद्यर्थक्रियादर्शनादितिभावः ।
तदप्रसङ्गादिति ।
प्रसिद्धोदकाद्युचितार्थ क्रियाकारित्व प्रसङ्गाभावादित्यर्थः ।
मरीचिकोदकादावर्थक्रियाकारित्व प्रयोजकजातिमभ्युपगम्याप्युक्ताति प्रसङ्गं परिहरति तत्रापीत्यादिना मरीचिकोदकादावपीत्यर्थः ।
अन्यथेति ।
तत्र जलत्वादि जात्यभावे सतीत्यर्थः ।
तत्रेति मरीचिकोदकादाविष्टनावछेदक जलत्वाधिवैशिष्ट्यभानं विना तदर्थिनस्तत्र प्रवृतिर्न सम्भवतीतिभावः ॥
प्रातिभासिके पूर्वदृष्टसजातीयत्व व्यवहारानुरोधिनां मते क्वचिदधिष्ठानविशेष
ज्ञानेन समूलाध्यासनिवृति सम्भवात् ।
क्वचिदधिष्ठान सामान्यज्ञानोपरमेण केवलाध्यासनाशात् ।
क्वचिद्गञ्जादौ चक्षुषावह्न्याद्यध्यासस्थले दाहपाकादिप्रयोजकस्योलस्पर्शादेरनुध्यासाच्च तत्र तत्रोर्थ क्रियाभावोपपतेः ।
क्वचित्कासाञ्चिदर्थ क्रियाणापिष्यमाणत्वाच्च ।
मरीचिकोदकादिव्यावर्तकस्यार्थ क्रियोययोगिरूपस्य वक्तव्यत्वे च श्रुतिविरुद्धं प्रत्यक्षादिना दुर्ग्रहन्त्रिकालाबाध्यत्वं विहाय दोषविशेषाजन्यरजतत्वादेरेव रजताद्युचितार्थक्रियोपयोगिरूपस्य वक्तुं शक्यत्वाच्च ।
तस्मान्मिथ्यात्वेप्यर्थक्रियाकारित्व सम्भवान्मिथ्यैव प्रपञ्चो न सत्य इति ॥
किं च शुक्तिरजतादौ सत्यरजतादौ च रजतत्वादि जातेरेकस्या अभावे प्रातिभासिकाध्यासेषु पूर्वदृष्टसाजात्यव्यवहारो भाष्यादि गतो न स्यात् तदनुरोधेनापि तत्र जातिरङ्गी कर्तव्येत्याशयेनाह ।
प्रातिभासिके इति ।
क्वचिदिति ।
दूरे मरीचिकोदकभ्रमानन्तरं स्नानाद्यर्थ समीपं गतस्यनेदं जलं
मरीचिमात्रमिति विशेषदर्शने सति जलाध्यासस्य स्वमूलाज्ञानेन सहैव नाशात् न ततोर्थ क्रियोत्पतिरापादयितुं शक्येत्यर्थः ।
क्वचिदधिष्ठानेति ।
शुक्त्यादौ रजता ध्यासानन्तरं यत्र विशेषदर्शनमस्ति तत्र पूर्वोक्तारीतिर्यत्र तत्रास्ति तत्राधिष्ठानसामान्यज्ञानरूपं कारणनाशेन रजताध्यासमात्र नाशसम्भवात् ।
तत्रापि नार्थक्रियोत्पतिरापादपादयितुं शक्येत्यर्थः ।
स्वप्नवदिति ब्रूमरूत्यादि पूर्वग्रन्थे प्रातिभासिक पदार्थानामपि अर्थं क्रियाकारित्वस्य दर्शितत्वादुक्ताति प्रसङ्गे इष्टापतिरपीत्याह ।
क्वचित्कासाञ्चिदिति ।
इदानीं प्रातिभासिकेष्वर्थक्रियाकारित्वराहित्यमुपेत्यापि सत्यत्वं कारणतावछेदकं न वक्तव्यमित्याह ।
मरीचिकोदकादीति ।
च शब्दोप्यर्थः श्रुतीति मिथ्यात्व श्रुतीत्यर्थः ।
सद्रजतात् कटकादि कार्यं सम्भवति तद्विलक्षणाछ्रक्ति रजता तन्न सम्भवतीत्यन्वय व्यतिरेक सह कृत प्रत्यक्षेण हि त्वया सत्वमर्थ क्रियाकारितायामवछेदकतया ग्राह्यं तादृशं च सत्वं मिथ्यात्व विरुद्धकालत्रया बाध्यत्वरूपं न भवति ।
तस्य प्रत्यक्षा योग्यत्वादतोन्यदेव किञ्चितदवछेदकं वाच्यमित्याशयेनाह प्रत्यक्षादिनेति ।
अत्रादि पदमनुमानादि सङ्ग्रहार्थं प्रत्यक्षश्रुतिविरोधेनानुमानादेरपि प्रपञ्चे कालत्रया बाध्यत्वरूपसत्वसाधकस्यानुदयादेवतस्थानुमानादिनापि दुर्ग्रहत्वमुक्तमिति बोध्यम् ।
रजतत्वादेरिति व्यवहारकालीत बाधरहित सर्पत्वादिकमादिपदार्थः ।
तस्मादिति सत्यत्व स्यार्थ क्रियां प्रत्यप्रयोजकत्वादित्यर्थः ॥
ननु मिथ्यात्वस्य प्रपञ्चधर्मस्य सत्यत्वे ब्रह्मा द्वैतक्षतेस्तदपि मिथ्यैव वक्तव्यमिति कुतः प्रपञ्चस्य सत्यत्वक्षतिः मिथ्याभूतं ब्रह्मणः स प्रपञ्चत्वं ननिः प्रपञ्चत्वाविरोधीति त्वदुक्तरीत्या मिथ्याभूतमिथ्यात्वस्य सत्यत्वाविरोधित्वात् ।
अत्रोक्तमद्वैत दीपिकायां वियदादि प्रपञ्च समान स्वभावं मिथ्यात्वम् ।
तच्च धर्मिणः सत्यत्व प्रतिक्षेपकं धर्मस्य स्वविरुद्धधर्मप्रतिक्षेपकत्वे हि उभयवादि सिद्धं धर्मि समसत्वं तन्त्रं न पारमार्थकत्वम् ।
अघटत्वादि प्रतिक्षेपके घटत्वादावस्माकं पारमार्थिकत्वा सम्प्रतिपतेः ।
ब्रह्मणः स प्रपञ्च त्वेन धर्मि समसताकमिति ननिः प्रपञ्चत्व प्रतिक्षेपकम् ।
अत एव मिथ्यात्वस्य व्यावहारिकत्वे तद्विरोधिनोऽप्रातिभासिकस्य प्रपञ्च सत्यत्वस्य पारमार्थिकत्वं स्यादिति निरस्तम् ॥
प्रकारान्तरेण प्रपञ्चस्य सत्यत्वं शङ्कते ।
नन्विति वक्तव्यमिति ।
सिद्धान्ति नेतिशेषः ।
ननु मिथ्या भूतस्यापि मिथ्यात्वस्य स्वाश्रये प्रपञ्चे स्वविरोधि सत्यत्व प्रतिक्षेपकत्वा तस्य सत्यत्वक्षतिरपरिहार्येत्याशङ्क्यसिधान्ति सम्मतदृष्टान्तेन परिहरति ।
मिथ्याभूतमिति ।
सप्रपञ्चत्वं प्रपञ्च तादात्म्यं निष्प्रपञ्चत्वं प्रपञ्चात्यताभाववत्वं तच्च वास्तवं व्यावहारिक प्रपञ्चात्यन्ताभावस्य ब्रह्मणि परमार्थत्वाभ्युपयमादतः सप्रपञ्चत्व निःप्रपञ्चत्वयोर्यथा एकत्राविरोधस्तथा मिथ्यात्वसत्यत्वयोरप्यविरोध इति भावः ।
मिथ्यात्वभुमी मिथ्या भूत इति पक्षमेव परिगृह्यसमाधते ।
अत्रोक्तमिति ।
समान स्वभावमिति ।
समानसताकमित्यर्थः ।
वियदादि प्रपञ्चस्य च?श्च व्यावहारिक सता इति भावः ।
नन्वरोपित घटत्वादेरारोपाधिष्ठानभूते स्वाश्रये स्वविरुद्धां घटत्वादि प्रतिक्षेपकत्वादर्शनात् सत्यमेव घटत्वादि स्वाश्रये सविरुद्धर्मप्रतिक्षेपकत्वेन कल्पनीयमिति कथं मिथ्याभूतं मिथ्यात्वं स्वधर्मिणि प्रपञ्चे सत्यत्व प्रतिक्षेपकं भवेदित्याशङ्क्याह धर्मस्येति ।
घटत्वादौ परमतरीत्या पारमार्थिकत्वरूपं सत्यत्वमस्ति तथा धर्मि समानसताकत्वं मतद्वयसम्मतमस्ति तथा च घटत्वादि धर्मस्य स्वाभाविकाश्रये स्वविरुद्धधर्मप्रतिक्षेपकत्वे प्रयोजकाकाङ्क्षायां सम्प्रतिपन्नमेव प्रयोजकं कल्पनीयं न विप्रतिपन्नमित्यर्थः ।
दृष्टान्तं
विघटयति ब्रह्मण इति ।
नुधर्मीति ।
ब्रह्मणः पारमार्थिकत्वात् सप्रपञ्चस्य च व्यावहारिकत्वादितिभावः ।
ननु प्रपञ्चगत मिथ्यात्वस्य मिथ्यात्वपक्षे तद्व्यावहारिकमैव वाच्यं ब्रह्मज्ञानैक निवर्त्यस्य मिथ्या मिथ्यात्वधर्मस्य प्रातिभसिकत्व पारमार्थिकत्वयोरयोगा तस्य व्यावहारिकत्वे तु प्रपञ्च गतं सत्यत्वं पारिमार्थिकं सिध्यति तस्यापि स न घट इत्यादि प्रत्यक्षसिद्धस्य यावतत्वज्ञानमनुवर्तमानस्य प्रातिभासिकत्वायोगात् ।
व्यावहारिक मिथ्यात्व धर्मवति प्रपञ्चे तत्सत्यत्वस्य व्यावहारिकस्यायोगाच्च तथा च प्रपञ्च गतस्य सत्वत्व धर्मस्य पारमार्थिकत्व सिद्धौ धर्मिणः प्रपञ्चस्यापि पारमार्थिकत्वमनिर्वार्यमिति ।
ब्रह्माद्वैतक्षतिरिति कस्य चिच्चोद्यं वक्ष्यमाण हेतुना निरस्तमित्याह ।
अत एवेति ॥
धर्मि समसता कस्य मिथ्यात्वस्य व्यावहारिकत्वे धर्मिणोपि व्यावहारिकत्व नियमात् ।
अथ वायो यस्य स्वाविषयमाक्षात्कारानिवृर्त्योधर्मः स तत्र स्वविरुद्धधर्मप्रतिक्षेपकः शुक्तौ शुक्ति तादात्म्यं तद्विषयसाक्षात्कारानिवर्त्यमशुक्तित्वविरोधि तत्रैव रजत तादात्म्यं तन्निवर्त्यमरजतत्वाने विरोधीति व्यवस्था दर्शनात् ।
एवं च मिथ्यात्वं कल्पितमपि
प्रपञ्चसाक्षात्कारानिवर्त्यमिति सत्वत्व प्रतिक्षेपकमेव ब्रह्मणः सप्रपञ्चत्वं तु ब्रह्मसाक्षात्कारनिवर्त्यमिति ननिः प्रपञ्चत्वप्रतिक्षेपकमिति ।
एतेन शब्दगम्यस्य ब्रह्मणा सत्यत्वे शब्दयोग्यतायाः शाब्दधी प्रामाण्यस्य च सत्यत्वं वक्तव्यं प्रातिभासिक योग्यतावताः नाप्तवाक्येन व्यावहारिकार्थस्य व्यावहारिकयोषतावतावताग्निहोत्रादि वाक्येन तात्विकार्थस्य वामिद्व्यभावेन योग्यता समानसताकस्यैव शब्दार्थस्य सिद्धिनियमात् ॥
नियमादिति मिथ्यात्व धर्मस्य धर्मिसमानसताकत्वप्रयुक्तं व्यावहारिकत्वमुपेत्यमिथ्यात्वधर्मिणि प्रपञ्चे सत्यत्व पर्यवसायिनः प्रपञ्च सत्यत्वे पारमर्थिकत्वा पादनस्य विरोधेनासम्भवादित्यर्थः ।
न च प्रपञ्चे पारमार्थिकस्य सत्यत्वस्याभावे प्रातिभासिक सत्यत्वयोरपि प्रा"ननिरस्तत्वा तत्र सत्वानुभवविरोध इति वाच्यम् ।
व्यावेहारिकस्यैव सत्वस्य प्रपञ्चे स्वीकारैणानुभवविरोधाभावात् ।
न च मिथ्यात्व सत्यत्वयोर्व्यावहारिकत्वेन समानसताकयोरेकत्र विरोध इति वाच्यम् ।
मिथ्यात्वाविरुद्धस्य या वृतत्वज्ञानं बाध
रहित स्वरूपत्व लक्षणसत्वस्य प्रत्यक्षादि विषयस्या सकृदुक्तत्वादितिभावः ।
सर्वत्रब्रह्मसतैव प्रतीय तेन तदतिरकेर्णव्यावहारिकं प्रातिभासिकं वा सत्वमस्तीति मते धर्मिसमसत्वं तन्त्रमिति समाधानं न सम्भवतीति मत्वासमाधानान्तरमाह ।
अथवेति ।
धर्मस्य स्वविरुद्धधर्मप्रतिक्षेपकत्वे हि स्वाश्रयसाक्षात्कारा निवर्त्यत्वं प्रयोजकं कल्पाते सम्प्रति पन्नुत्वान्नतु पारमार्थिकत्वं तस्यास्मा वामसम्प्रतिपतेरितिभावः ।
यो धर्मो यस्य धर्मिणो धर्मि गोचर साक्षात्कारा निवर्त्यः ।
स धर्मस्तत्र धर्मिणीत्यक्षरार्थः उक्त प्रयोजके हेत्वन्तरमाह ।
शुक्ताविति ।
तत्पदं शुक्तिपरम् अशुक्तित्वविरोधीति ।
अशुक्तित्वस्य प्रतिक्षेपकमित्यर्थः ।
तत्रैवेति ।
शुक्तावेव रजत तादात्म्यरूपो धर्मो वर्तते स च स्वविरुद्धस्यारजतत्वस्य रजत भिन्नत्वस्य शुक्तिगतस्याविरोधी प्रतिक्षेपको न सम्भवतीत्यत्र हेतुगर्भं विशेषणं तन्निवर्त्यमिति ।
शुक्तिसाक्षारनिवर्त्यमित्यर्थः ।
एवं वेति स्वाश्रयसाक्षात्कारानिवर्त्य धर्मस्य स्वाश्रये स्वविरुद्धधर्मस्थिति विरोधित्वे प्रमाणेन निश्चिते सतीत्यर्थः ।
अनिवर्त्यमिति यथा शुक्तिसाक्षात्कारे सति शुक्ति तादात्म्यं न निवर्त्यते तथा घटादिरूपप्रपञ्च साक्षात्कारे सति श्रुति न्यायसिद्धं मिथ्यात्वं न निवर्तत इत्यर्थः ।
चोद्यान्तरमपि वक्ष्यमाण हेतुना निरस्तमित्याह ।
एतेनेति ।
शब्दगम्यस्य
ब्रह्मणः सत्यत्वे शब्दनिष्टयोग्यतायाः सत्यत्वं वक्तव्यमित्यत्र हेतुमाह ।
योग्यता समान सता कस्यैवेति ।
वाक्यार्थ वाक्यनिष्ठयोग्यतयोः समानसताकत्वनियमं साधयति ।
प्रातिभासिक योग्यतावतेति ।
व्यावहारिकार्थस्य सिध्यभावेनेति सम्बन्धः
अर्था बाधरूपप्रामाण्यस्यासत्यत्वेर्थस्य सत्यत्वा योगाच्च ।
तथा च ब्रह्मातिरिक्त सत्यवस्तुसत्वेन द्वैतावश्यम्भाव इति वियदादि प्रपञ्चोपि सत्योऽस्तिति निरस्तां व्यावहारिकस्यार्थ क्रियाकारित्वस्य व्यवस्थापितत्वेन व्यावहारिकयोग्यताया अपि सत्यब्रह्मसिद्धि सम्भवात् ।
ब्रह्मपरे वेदान्ते सत्यादि पद सत्वाद्ब्रह्मसत्यत्वसिद्धेः ।
अग्निहोत्रादिवाक्ये तादृशपदाभावा तत्सत्वेपि प्रबलब्रह्माद्वैत श्रुतिविरोधा तदसिद्धिरित्येव वैषम्योपपतेः ।
शब्दार्थयोग्यतयोः समानसताकत्व नियमस्य निःप्रमाणकत्वात् घटज्ञानप्रामाण्यस्था घटत्ववत् सत्यभूतब्रह्मज्ञानप्रामाण्यस्यापि तदतिरिक्तघटितत्वेन मिथ्यात्वोपपतेश्च ॥
शब्दगम्यस्य ब्रहमणः सत्यत्वे ब्रह्मगोचरशाब्दज्ञाननिष्टस्य प्रामाण्यस्य सत्यत्वं वक्तव्यमित्यत्र हेतुमाह ।
अर्था बाधरूपेति तथा च वेदान्तार्थस्य ब्रह्मणः सत्यत्वसंरक्षणाय तद्वीप्रामाण्यस्य सत्यत्वं वक्तव्यमितिभावः ।
ननु ब्रह्मव्यतिरिक्त निरुक्तयोग्यतादेः सत्यत्व सिद्धावपि पूर्ववाद्यभिमतं निखिलद्वैत सत्यत्वं कथं सिध्यति तत्राह ।
तथा चेति ।
द्वैतावश्यम्भाव इति ।
अद्वैतभङ्गावश्यम्भाव इत्यर्थः ।
वेदान्तशब्दनिष्टयोग्यतायाः सत्यत्वं किं तस्याः शादबोधरूपार्थक्रियाकारित्वसिध्यर्थमपेक्ष्यते किं वा ब्राह्मणः सत्यत्व सिध्यर्थं नाद्यत इत्याह ।
व्यावहारिकस्येति ।
प्रपञ्चस्येति शेषः ।
योग्यताया इति पञ्चमी सत्वस्य ब्रह्मणः सिद्धिः शाब्दबोधः द्वितीये योग्यतायाः सत्यत्वाभावेपि ब्रह्मणस्तत्सिध्यतीत्याह ।
ब्रह्मपर इति ।
अत्रादि पदं चित्पदादि सङ्ग्रहार्थम् ।
तर्ह्यग्निहोत्रादि धर्मि स्यापि सत्यादि यदात्सत्यत्वसिद्धिः स्यादिति नेत्याह ।
अग्निहोत्रादीति ।
ननु यो वै स धर्मः सत्यं चैतदिति धर्मेपि सत्यपदं श्रुतौ प्रयुक्तमस्ति तत्राह ।
तत्सत्वेपीति तदसिद्धिरिति ।
यो वै स धर्म इति वाक्यस्याग्निहोत्रादौ परमार्थत्व प्रतिपादने तात्पर्यलिङ्गानाम भावेना तत्परस्य तं स्यतेत्परत्वरत्व न प्रवलया द्वैत श्रुत्यावाधाद्धर्मस्य न ब्रह्मवत्परमार्थत्वसिद्धिरित्यर्थः श्रुतावग्निहोवादेरवगत्यर्थत्वेन
सत्यत्वमनुष्टीय मानावस्थत्वेन धर्मत्वं च विवक्षित्वा यो वै स धर्मः सत्यं चैतदिति सत्यधर्मयोरभेद उक्त इति मन्तव्यं व्यावहारिकयोग्यतावता वेदान्तवाक्येन सत्यस्य ब्रह्मणः सिद्धौ फलितमाह शब्दार्थयोग्यतयोरिति ।
ब्रह्मणः सत्यत्वेपितहाननिष्टप्रामाण्यस्य न सत्यत्वं सिध्यति ।
तस्य ब्रह्ममात्रत्वाभावादित्याह ।
घटज्ञानेति ।
तदतिरिक्तेति ।
ब्रह्मत्ववति ब्रह्मत्वप्रकारकानुभवत्वरूप तत्प्रामाण्यस्यापि ब्रह्मातिरिक्त ब्रह्मत्व वैशिष्ट्य घटितत्वेनेत्यर्थः ।
यदि च ब्रह्मज्ञानगतं प्रामाण्यमबाधितार्थानुभवत्वरूपं तच्च विवक्षितविवैकेन बाधायोग्यविषयस्वरूपमात्रं पर्यवस्यति तन्मात्रपर्यवसित प्रामाण्यस्य चाखण्डार्थ परवेदान्तेषु ब्रह्ममात्रत्वमेव न तदतिरिक्त घटितत्वमिति ब्रह्मज्ञानप्रामाण्यस्य सत्यत्वं सम्भवतीत्युच्येत तर्हि ब्रह्मगोचरशाब्दधी प्रामाण्यस्य सत्यत्वेपि न तवेष्टसिद्धिः ।
तस्य ब्रह्ममात्रत्वेन ब्रह्मातिरिक्त सत्यवस्त्वसिद्धेरितिभावः ॥
तस्मादारम्भणाधिकरणोक्त न्यायेन कृत्स्नस्य वियदादि प्रपंस्य मिथ्यात्वं वज्रलेपायते नन्वारम्भणशब्दादिभिरचेतनस्य वियदादि प्रपञ्चस्य मिथ्यात्वसिद्धावपि चेतनानामपवर्गभाजां
मिथ्यात्वायोगादद्वितीय ब्रह्मणि समन्वयो न युक्तः ।
न च तेषां ब्रह्माभेदः प्रागुक्तो युक्तः परस्परभिन्नानां तेषामेकेन ब्रह्मणाभेदासम्भवात् ।
न च तद्भेदासिद्धिः सुखदुःखादि व्यवस्थया तत्सिद्धेरिति चेत् ।
न तेषामभेदेप्युपाधिभेदादेव तद्यवस्थोपपतेः ।
ननूपाधिभेदेपि तदभेदा न पायात् कथं व्यवस्था न ह्याश्रयभेदं नोपपादनीयो विरुद्धधर्मा सङ्करस्तदतिरिक्तस्य कस्यचिद्भेदोपगमेन सिध्यति ।
अत्र केचिदाहुः सिद्धात्येवान्तःकरणोपाधिभेदेन सुखदुःखादिव्यवस्था कामः सङ्कल्पो विचिकित्सा श्रद्धा श्रद्धा धृतिरधृतिर्ह्रीर्ध्रीर्भीरित्येतत्सर्वं मन एव विज्ञानं यज्ञं तनुत इत्यादिभिः श्रुतिभिस्तस्यैव निखिलानर्था श्रयत्वप्रतिपादनादसङ्गो ह्ययं पुरुषः असङ्गो न हि सजत इत्यादि श्रुतिभिश्चेतनस्य सर्वात्मनौदासीन्य प्रतिपादनाच्च न चैवं सति कर्तृत्वादि बन्धस्य
चैतन्यसामानाधिकरण्यानुभवविरोधः
तस्मादिति ।
विरोधाभावादित्यर्थः ।
प्रपञ्चस्य मिथ्यात्वपक्षे प्रत्यक्षादि विरोधाभावो निरूपितः ।
इदानीं सर्वेषु शरीरेष्टात्मन एकत्वपक्षे सुखदुःखादि व्यवस्थाविरोधमाशङ्क्यतां निरूपयितुं प्रसङ्गमाह ।
नन्वित्यादिना अपवर्गेति ।
जीवानां स्वरूपेण मिथ्यात्वज्ञानेन निवृत्यापत्या तेषां मुक्तिभात्कं न स्यादित्यर्थः ।
ननु जीवानां ब्रह्माभेदस्य वेदान्तप्रमाणकस्य प्रथमपरिछेदावसाने उक्तत्वात् ।
ब्रह्माणेनाद्वितीयत्वानुपपतिरित्याशङ्क्य निराकरोति ।
न च तेषामिति ।
जीवानां परस्य भेदासिद्धिमाशङ्क्याह ।
न च तदिति ।
एकस्य यदाहुः खं भवति तदा जीवान्तरस्य सुखं भवतीति सुखदुःखव्यवस्था एवं रागद्वेषादि व्यवस्थाप्यनुभवसिद्धा द्रष्टव्यान्त तया तेषां परस्परभेदः सिध्यतीत्याह ।
सुखेति नन्वारम्भणेत्यादिना प्राप्तं प्रतिशरीरमात्मभेदपक्षं प्रतिक्षिपति नेति ।
उपपतेरिति ।
नात्मभेदः प्रामाणिक इत्यर्थः ।
तदभेदेति ।
आत्मा भेदेत्यर्थः ।
कथं शब्दसूचितामनुपपतिमाह न हीति ।
तदतिरिक्तस्येति विरुद्ध सुखदुःखाद्याश्च याति रिक्तस्य कस्यचिदहमनुभवगोचरस्येत्यर्थः ।
अन्तःकरणमेव बन्धाश्रयो अहमनुभवगोचरश्च नत्वात्मा
तस्य कूटस्थत्वात् तथा चाश्रयभेदादेव धर्मव्यवस्थेति समाधते ।
अत्र केचिदाहुरिति मन एवेति ।
मनोन्तःकरणं कामसङ्कल्पादीनां तत्परिणामत्वात् सामानाधिकरण्यं विज्ञानमन्तःकरणं तनुते करोति यज्ञं शास्त्रीयं कर्म आदिपदेन कामायेऽस्य हृदिश्रिता इत्यादिश्रुतिर्ग्राह्याचिदात्मनः कूटस्थत्वे प्रमाणमाह ।
असङ्गो ह्ययमिति असङ्गो न हि सज्जत इति सङ्गा योग्यत्वादित्यर्थः ।
आदिपदेन साक्षी चेता केवलो निर्गुणंश्च अनश्ननऽन्यो अभिचाकशीतीत्यादि श्रुतिसङ्ग्रहः ।
न चैवं सतीति अन्तःकरणस्यैव बन्धाश्रयत्वे सतीत्यर्थः ।
अहङ्करोम्यहं सुख्यहं दुःख्यहमुपलभे इत्यादिरूपेण उपलब्धिरूप चैतन्यस्य कर्तृत्वसुखदुःखाद्यात्मकबन्धसामानाधिकरण्यमनुभूयते तद्विरोध इत्यर्थः ।
अन्तःकरणस्य चैतन तादात्म्येनाध्यस्ततया तद्धर्माणां चैतन्यसामानाधिकरण्यानुभवोपपतेः ।
न चान्तःकरणस्य कर्तृत्वादि बन्धाश्रयत्वे चेतनः संसारीनस्यादिति वाच्यं कर्तृत्वादि बन्धाश्रयाहङ्कारग्रन्थि तादात्म्याध्यासाधिष्ठानभाव एव तस्य संसार इत्युपरामात्
तावतैव भीषणत्वाश्रय सर्प तादात्म्याध्यासाधिष्ठाने रजादावयं भीषण इत्यभिमानवदात्मनोनर्था श्रयत्वाभिमानोपपतेः ।
एतदभिप्रायेणैव ध्यायतीवलेला स्मृतिव अहङ्कार विमूढात्मा कर्ताहमिति मन्यत इत्यादि श्रुतिदर्शनाच्च न चैकस्मिन्नेवात्मनिविचित्रसुखदुःखाश्रयत तदन्तःकरणानामध्यासादात्मन्याभिमानिक सुखदुःखादि व्यवस्थैवमपि न सिद्ध्यतीति वाच्यम् ॥
यथा इदमंश तादात्म्येनाध्यस्ते रजते रजतत्वस्य इदं त्व सामानाधिकरण्यानुभवः ।
तद्वदिति समाधते अन्तःकरणस्येति ।
तद्धर्माणामित्यत्र तत्पदमन्तःकरणपरम् एतदुक्तं भवति ।
आत्मनश्चैतन्यरूपत्वेपि भेदकल्पनया चैतन्यमात्मधर्मः ।
तथा चात्म्यन्तःकरणयोरैक्याध्यासे सति तयोर्धर्माणां चैतन्य कर्तृत्वादीनां सामानाधिकरण्यं सम्पद्यत इति न तदनुभवविरोध इति ।
चेतन इति ।
चैतन्याश्रय आत्मा संसारी कर्तृत्वादि धर्मवान् न स्यादित्यर्थः ।
चेतनस्य स्वतः संसाराश्रयत्वाभावेपि बुद्धिनिष्टस्य संसाराश्रयत्वस्य साक्षिणानुभूयमानस्यात्मन्यारोधोपपतेः
आरोपित संसाराश्रयत्वमस्तीति परिहरति ।
कर्तृत्वादीति ।
अहङ्कारस्य चेतनेन सह ग्रन्थितुल्यो यस्तादात्म्यरूपो ध्यासस्तदधिष्ठानत्वमेवेत्यर्थः ।
तस्य चेतनस्य इत्यर्थः ।
संसार इति संसाराश्रयत्व भ्रान्तिप्रयोजक इत्युपगमादित्यर्थः ।
तावतैवेति ।
उपाधेः संसाराश्रयत्वमात्रेणेत्यर्थः ।
भीषणत्वं भय हेतुत्वं तच्च सर्पधर्मः अभिमानो भ्रान्तिः न चान्य निष्टसंसाराश्रयत्वस्यात्मन्यारोपे अन्यथा ख्याति प्रसङ्ग इति वाच्यम् ।
अनुभूयमानारोपस्थले आरोप्याधिष्ठानयोः संसर्गस्यानिर्वचनीयस्योत्पत्युपगमेन तदप्रसङ्गादिति भावः ।
एतदिति बुद्धिनिष्टसंसारस्यात्मन्यारोपाभिप्रायेणैवेत्यर्थः ।
बुद्धौ ध्यायन्त्वामात्माध्यायतीवभाति तस्यामेवलेलायन्त्यां चलन्त्यामात्माचलतीव न तु वस्तुतो ध्यानाद्याश्रय इति इव शब्दार्थः ।
ध्यानादिग्रहणमशेषबुद्धिधर्माणामुपलक्षणार्थम् अहङ्कारेण कर्तृत्वाश्रयेण सह विमोहं तादात्म्याध्यासमापन्नः स न आत्मा नमहं कर्तेति मन्यते कर्तृत्वमननमशेषसंसारमननोपलक्षणार्थम् ।
ननु बुद्धेः स्वतः संसाराश्रयत्वं चिदात्मनस्तु भ्रान्ति सिद्धं संसाराश्रयत्वमिति ।
विभागाभ्युपगमे प्रतिशरीरं बुद्धिभेदातद्धेर्मव्यवस्थासिद्धावपि प्रतिशरीरमात्मभेदाभावात् ।
तद्गतस्य बन्धस्य न
व्यवस्थासिध्यतीति शङ्कते ।
न चैकस्मिन्नेवेति ।
विचित्राणां सुखदुःखानां माश्रयभूतानि ततदन्तःकरणानि तेषामेकस्मिन्नेवात्मन्यध्यासाद्धेतोर्य आत्मन्याभिमानिकः सुखदुःखादिः तस्य व्यवस्था न सिध्यतीत्यर्थः ।
एवमपीति ।
बुद्धि धर्मव्यवस्थासिद्धावपीत्यर्थः ॥
आध्यासिक तादात्म्यापन्नान्तःकरणगतानर्थजातस्येव तद्गतपरस्परभेदस्याप्यभिमानत आत्मीय तयात्मनो यादृशमनर्थभात्कं तादृशेन भेदेन तद्यवस्थोपपतेः ।
एतेन सुखदुःखादीनामन्तःकरणधर्मत्वम्पि तदनुभवः साक्षिरूप इति तस्यैकत्वात् सुखदुःखाद्यनुभवरूप भोगव्यवस्थान सिद्ध्यतीति निरस्तं तन्हद्रन्तःकरण तादात्म्यापत्त्या ततदन्तःकरणभेदेन भेदेवते एव साक्षिणस्तम्नदन्तःकरण सुखदुःखाद्यनुभवरूपत्वेन तद्व्यवस्थाया अप्युपपतेरिति ।
अन्ये तु जडस्य कर्तृत्वादि बन्धाश्रयत्वानुपपतेः कर्ता शास्त्रार्थवत्वादिति चेतनस्यैव तदाश्रयत्वप्रतिपादकसूत्रेणान्तःकरणे
चिदाभासोबन्धाश्रयस्तस्य चासत्यस्य बिम्बाद्भिन्नस्य प्रत्यन्तःकरणं भेदाद्विद्वदविद्वत्सुखिदुःखिकर्त्रऽकर्त्रादि व्यवस्था ॥
बन्धाश्रयत्वस्येव बुद्धिगतस्य परस्परभेदाश्रयत्वस्याप्यात्मन्यारोपाभ्युपगमान्ना व्यवस्थेति परिहरति ।
आध्यासिकेति ।
नन्वारोपितेन भेदेन कथं व्यवस्थेत्याशङ्क्य व्यवस्थापनीय स्यात्मन्यारोपितत्वान्ना व्यवस्थापकत्वं तादृश भेदस्येत्याह ।
यादृशमिति ।
आत्मसाक्षिचैतन्ययोरभेदेपि भेदं कल्पयित्वा कल्पितबन्धाश्रयस्यात्मन एकसुखदुःखादेः त्व प्रयुक्तौ दोषो निरस्तः ।
इदानीं साक्षि चैतन्यस्य सर्वशरीरष्वेकत्वप्रयुक्तं दोषमाशङ्क्यनिराकरोति ।
एतेनेति ।
वक्ष्यमाणहेतुनेत्यर्यः ।
तदनुभव इति ।
सुखाद्यनुभव इत्यर्थः ।
सुखेति देवदत्तस्य यः सुखानुभवः स एव चेद्यज्ञदतस्यापि तदा देवदत्तस्य सुखानुभवकाले तमेव सुखानुभवमादाय यज्ञदत्तस्याप्यहं सुखीति भोगप्रसङ्ग इत्यर्थः ।
यथा अन्तःकरणगतभेदस्यात्मन्यारोपः तथा साक्षि चैतन्यरूपे सुखाद्यनुभवेपि तद्गतभेदारोपाभ्युपगमात् ।
न भोगा व्यवस्थेति परिहरति ते तदिति ।
भेदेनेति ।
ततदन्तःकरण भेदेन साक्षिण्यारौपितेन
भेदविशिष्टस्यैवेत्यर्थः ।
धान्येन धनवानित्यत्रैव तृतीया साक्षिण्यन्तःकरणभेदारोपे हेतुः ।
तादात्म्यापत्येति ।
सर्वशरीरेष्वात्मन एकत्वे सुखादि व्यवस्थानस्यादिति पूर्ववाद्याक्षेपे ।
अन्यत् समाधानमाह ।
अन्ये त्विति पूर्वोक्तं बुद्धेर्बन्धाश्रयत्वं दूषयति ।
जडस्येति ।
अनुपपतेरिति ।
बन्धस्य चेतनधर्मत्वप्रसिद्धिविरोधादितिभावः ।
बुद्धेरेव कर्तृत्वं न चेतनस्य तस्य कूटस्थ त्वादिति साङ्ख्यमत निराकरण पूर्वकं चेतनस्यैव कर्तृत्व व्यवस्थापक सूत्रानुसाराच्चेत्याह ।
कर्तेति ।
चेतनः कर्ता भवितु मर्हति तथा सत्यैव चेतनस्य कर्तृत्व प्रतिपादकं कर्ता विज्ञानात्मा पुरुष इति शास्त्रमर्थवद्भवति ।
अन्यथा तदनर्थकं स्यादिति सूत्रार्थः ।
चिदाभास इति ।
न तु साक्षाच्चिदात्मैव तस्य कूटस्थत्वेन बन्ध परिणामित्वा योगादिति भावः ।
चिदाभासस्य बन्धा श्रयत्वेपि कथं व्यवस्था सिद्धिस्तत्राह ।
तस्य चैति बिम्बपति बिम्बयोरे भेदेपि प्रत्यन्तःकरणं प्रतिबिम्बभेदो लभ्यते उपाधि भेदेन तन्निरूपित प्रतिबिबानामपि कल्पित भेदाभ्युपगमा तथापि प्रतिबिम्बमिथ्यात्वमत एव तस्य बन्धाश्रयत्वं स्वाभाविकं भवतीति तन्मिथ्यात्वमतमाश्रितम् ॥
न चैवमसत्यस्य बन्धाश्रयत्वे बन्धमोक्षयोर्वैयधिकरण्यापतिः
अस्य चिदाभासस्यान्तःकरणावछिन्ने स्वरूपतः सत्यतया मुक्त्य नयिनि पारमार्थिक जीवेऽध्यस्ततया कर्तृत्वाद्याश्रय चिदाभास तादात्म्याध्यासाधिष्ठान भावस्तस्य बन्ध इत्युपगमादित्याहुः ।
अपरे त्वात्मेन्द्रियमेनोयुक्तं भोक्तेत्याहुर्मरमीषिण इति सह कारित्वेन देहेन्द्रियैस्तादात्म्यो न मनसा च युक्तस्य चेतनेस्य भोत्कृत्व श्रवणादन्तःकरणभेदनतेद्विशिष्टभेदाद्व्यवस्थान चैवं विशिष्टस्य बन्धः शुद्धस्य मोक्ष इति वैयधिकरण्यं विशिष्टगतस्य बन्धस्य विशेष्ये अनन्वयाभावात् विशिष्टस्यानतिरेकादित्याहुः ॥
न चैवमिति ।
बिम्बप्रतिबिम्बयोर्भेदाङ्गीकारेत्यर्थः ।
सत्यस्य बिम्बचैतन्यस्य ब्रह्मभावलक्षणमोक्षाश्रयत्वे च सतीतिशेषः मुक्त्यन्वपि नो बिम्बभूतावछिन्नचैतन्यस्य स्वतः संसाराश्रयत्वाभावेपि भ्रान्ति सिद्धस्य तदाश्रयत्वस्य सम्भवान्न वैयधिकरण्य दोष इत्याह अस्येति ।
चिदाभास गत बन्धस्य चिदात्मन्यध्यासे चिदात्मचिदाभासयोस्तादात्म्याध्यासं हेतुमाह
अध्यस्ततयेति ।
अस्य चिदाभासस्य परमार्थ जीवे ध्यस्तनयेति सम्बन्धः ।
तस्य बन्ध इति बन्धः ।
बन्धारोपे हेतुरित्युपगमादित्यर्थः ।
यथा श्रुतस्याध्यासाधिष्ठानत्वस्य बन्धरूपत्वाभावात् सुखादेरेव बन्धरूपत्वाच्चेति बोध्यम् ।
सर्वशरीरेषु चिदात्मन एकत्वेपि तस्य केवलस्य बन्धाश्रयत्वं नोपेयते ।
किन्तु बुद्धिविशिष्टस्य चिदात्मनस्तथा च बन्धाश्रयस्य विशिष्टस्य प्रतिशरीरं भेदान्न सुखदुःकादि साङ्कार्यमिति मतान्तरमाह ।
अपरे त्विति ।
विशिष्टस्य भोक्तत्वे मानमाह ।
आत्मेति आत्मशब्दो देहपरः श्रुतावात्मानमित्यध्याहारः इति शब्दो द्वितीया समानार्थकः ।
ततश्च देहेन्द्रियान्तःकरणयुक्तमात्मानं भोक्तारमाहुर्विद्वांस इत्यर्थः ।
ननु देहस्य विशेषणतया भोक्तृ कोटौ निवेशो न सम्भवति तस्यात्मनि भोगं प्रत्यवछेदकतया उपकरणं त्वादिन्द्रियाणामपि भोक्तृ कोटौ निवेशौ न सम्भवति ।
तेषामुपकरणमात्रत्वात् स्वप्ने तेषामभावेपि भोगदर्शनाच्च तस्माद्देहेन्द्रियैर्युक्तस्यात्मनो भोक्तत्व श्रुतिरनुपपत्तेत्याशङ्क्य युक्तपदोदितं योगं यथायोग्यं दर्शयति ।
सह कारित्वेनेति ।
आत्मनि तावत् कामसङ्कल्पादयोनुभूयन्ते ते च मनोधर्मत्वेन श्रुति सिद्धास्तथा च कामादिमन्मनस्तादात्म्यं विनात्मनः
कामाद्याश्रयत्वानुपपतेः ।
ततादात्म्येन तद्विशिष्टस्य भोक्तृत्वं युक्तमित्याशयेनाह ।
तादात्म्येनेति ।
ननु बुद्धिविशिष्टात्मा केवलात्मनः सकाशाद्भिन्नः विशिष्टं केवलं न भवतिति प्रतीतेः विशिष्टवृति केवलप्रतियोगिक भेदस्य विशेष्यवृतित्व नियमा तथा च विशिष्टात्मगत बन्धस्य विशेष्यान्वपि त्वेपि मुक्तान्वपि केवलचैतन्ये बन्धानन्वयाद्वैयधिकरण्यतादवस्थ्यमिति नेत्याह ।
विशिष्टस्येति ।
विशिष्टान्तर्गतविशेष्यस्य केवलादनतिरेकादित्यर्थः ।
अयं भावः ।
लोके दण्डविशिष्टपुरुषे कैवलपुरुषाभेदस्य प्रत्यभिज्ञायमानतात् ।
तत्प्रत्यभिज्ञाया बाधका भावाच्च विशिष्टान्तर्गत विशेष्यस्य केवलस्य च स्वाभाविकमेकत्वं विशिष्टत्वाविशिष्टत्वरूपभेदेन काल्पनिको भेदश्च कल्प्यते तथा च विशिष्टगत बन्धस्य विशेष्यान्वयिनः केवलात्मन्यय्यन्वयः सिद्ध इति ॥
इतरे तु अस्तु केवलश्चेतनः कर्तृत्वादिबन्धाश्रयः स्फटिकलौहित्य न्यायेनान्तःकरणस्य तद्विशिष्टस्य वा कर्तृत्वाद्या अपस्य सन्निधानाच्चेतनेपि कर्तृत्वाद्यन्तराध्यासोपगमात् ।
न च तस्यैकत्वाद्व्यवस्थानुपपतिः ।
उपाधिभेदादेव तदुपपते ।
न चान्यभेदादन्यत्रविरुद्ध
धर्मव्यवस्थानुयुज्यत इति वाच्यम् ।
मूलाग्ररूपोपाधिमात्रेण वृक्षे संयोग तदभावव्यवस्था दर्शनात् ।
तत्तत्पुरुषकर्णपुटोपाधिभेदेन श्रोत्रभावमुपगतस्याकाशस्य तत्र शब्दोपलम्भकत्वानुपलम्भकत्वतारमन्देष्टानिष्ट शब्दोपलम्भकत्वादि वैचित्र्यदर्शनाच्चेत्याहुः ।
एके तु यद्याश्रयभेदादेवविरुद्धधर्मव्यवस्थोपपादनीया तदा चेतने निकृष्टे एवोपाधिवशाद्भेदकल्पनास्तु अकल्पिताश्रयभेद एव व्यवस्थाप्रयोजक इति क्वाप्य सम्प्रतिपतैः मणिमुकरकृपाणाद्युपाधिकल्पितेन भेदेन मुखे श्यामा वदातवर्तुलदीर्घभावादि धर्माणाम् अङ्गुल्युपष्टम्भोपाधिकल्पितेन भेदेन दीपे पाश्चात्यपौरस्त्यभावादि धर्माणां च व्यवस्थासम्प्रतिपतेरित्याहुः ॥
अञ्जसाबन्धमोक्षयोः सामानाधिकरण्यमाह ।
इतरे त्विति ।
स्फुटिकेति ।
यथा लोहित्याश्रयस्य जपाकुसुमादेः सन्निधानात् स्फटिके उपाधिगतलौहित्यापेक्षया तत्प्रतिबिम्बभूतस्य लौहित्यान्तरस्योत्पतिः तथा चिदात्मनि बुध्यादि गतत बन्धापैक्षया अन्यस्य
कर्तृत्वादिबन्धस्याभ्रमात्मकस्योपगमादित्यर्थः ।
न च बुध्यादौ साक्षिणानुभूयमानस्य बन्धस्य चिदात्मनि संसर्गमात्राध्यासोपगमेन वैयधिकरण्य शङ्का परिहारसम्भवात् तत्र बुध्यादिनिष्टकर्तृत्वादि सदृश कर्तृत्व प्रमुख बन्धोत्पति कल्पनं न प्रामाणिकमिति वाच्यम् ।
बुद्धेर्गुणेनाराग्रमात्रो ह्यवर इति श्रुताववरशब्दित जीवस्याराग्रमात्रशब्दितमल्पपरिमाणं बुद्धिगुणशब्दित परिमाण हेतुकमिति प्रतिपादनेन तुल्यन्यायतया कर्तृत्वादिकमपि बुद्धिधर्मसदृशमात्मन्युत्पद्यत इति ।
अस्यार्थस्य श्रुति सम्मतत्वेन प्रामाणिकत्वात् ।
न च तस्येति ।
कर्तृत्वाद्यध्यासाधिष्ठानस्यात्मन इत्यर्थः ।
मूलेति परमते नेदं दृष्टान्त द्वयं सिद्धान्ते मूलावछिन्नवृक्षस्याग्रावछिन्नवृक्षस्य च काल्पनिक भेदाभ्युपगमेनैव संयोग तदभावव्यवस्थोपगमात् ।
श्रोत्रेन्द्रियस्पदिगारभ्यत्वोपगमाच्चेति योध्यम् ।
तारेति ।
तारशब्दोपलम्भकत्वमन्दशब्दोपलम्भकत्वेष्टशब्दोपलम्भकत्वा निष्टशब्दोपलम्भकत्वादिलक्षणस्य वैचित्र्यस्य दर्शनादित्यर्थः ।
यदि दृष्टान्तयोरुपाधिभेदेन तदुपहित वृक्षादिभेदं परो ब्रूया तदा प्रकृतेपि तथास्त्वित्याशयेनाह ।
एके त्विति ।
निकृष्ट इति ।
अन्तःकरणविशिष्टवेषान्निकृष्टे तदुपहिते चिदात्मनीत्यर्थः ।
ननु सत्यभे एव व्यवस्था प्रयोजक इति नेत्याह ।
अकल्पितेति ।
घटादिभेदस्यापि सत्यत्वस्यास्माकमसम्मतत्वादित्यर्थः ।
ननु स्वाभाविकभेदे एव व्यवस्था प्रयोजको नत्वौपाधिकभेद इत्याशङ्क्याह ।
मणीति ।
मुखे हि मलिन मणि दर्पण कृतेन भेदेन श्यामत्वावदातत्व व्यवस्था सम्प्रतियतेः ।
कृपाणमणिमयस्तम्भादि कृतेन भेदेन वर्तुलत्व दीर्घभावादि व्यवस्था सम्प्रतिपतेरित्यर्थः ।
न च बिम्बप्रतिबिम्बयोरभेदे स्वाभाविके खलुभेद औपाधिक इति सिध्यति तद्वशाद्व्यवस्थापि सिध्यति तयोरभेद एव कथं सिद्ध इति वाच्यं तस्य प्रागेव साधितत्वादितिभावः ।
अवछेदपक्षे औपाधिकभेदस्य व्यवस्थापकत्व सम्प्रतिपतिं दर्शयति अङ्गुलीति ॥
एवमुपाधिवशाद्व्यवस्थोपपादने सम्भाविते जीवानां परस्परसुखाद्यनुनुसन्धानप्रयोजक उपाधिः क इति निरूपणीयम् ।
अत्र केचिदाहुः भोगायतनाभेद तद्भेदावनुसन्धानाननुसन्धानप्रयोजका उपाधी शरीरावछिन्नवेदनायास्तदवछिन्नेनानुसन्धानात् चरणावछिन्नवेदनाया हस्तावछिन्नेनाननुसन्धानाच्च हस्तावछिन्नोहं पादावछिन्नवेदनामनुभवामीत्यप्रत्ययात् ।
कथं तर्हि चरणलग्नकण्टको द्वाराय हस्तव्यापारः
नायं हस्तव्यापारो हे स्तावछिन्नानुसन्धानात् ।
किं त्वव एवावयविनोश्ररण शरीरयोरभेदसत्वेन वरणावछिन्नवेदनाशरीरावछिन्नेनाहं चरणे वेदना वा नित्यनुसन्धीयत इति तदनुसन्धानात् ।
एवं च चैत्रमैत्रशरीरयोरभेदाभावाच्चैत्रशरीरावछिन्नवेदनामैत्र शरीरावछिन्नेन नानुसन्धीयते ।
नाप्युभयशरीरानुस्यूतावयव्यन्तरावछिन्नेनानुसन्धीयते उभयानुस्यूतस्यावयविनो भोगायतनस्या भावादिति न चैत्रशरीरलग्नकण्टकाद्वासय मैत्रशरीरव्यापारमप्रसङ्ग इति ॥
जीवानामुपाधिभेदाद्वा औपाधिकभेदाद्वासुखदुःखादि व्यवस्थासिद्धौ तेषां वस्तुतः परस्पर भेदे प्रमाणाभादादेक ब्रह्माभेदः सिध्यति ।
तत्सिद्धौवजीवाभिन्ने निष्प्रपञ्चे ब्रह्मणि वेदान्तसमन्वयः सिद्ध इति प्रतिपादितम् ।
सम्प्रति विचारान्तरमारभते ।
एवमिति ।
उक्त प्रकारेणेत्यर्थः ।
अनुसन्दानाननुसन्धानयोः किं भोगायतनाभेद तद्भेदौ प्रयोजकौ किं वा विश्लिष्टभोव्यायतनाभेद तद्भेदौ ।
अथवा शरीराभेदतद्भेदौ ।
अन्तःकरणाभेदतद्भेदौ वा अज्ञानाभेद तद्भेदौ
वा इति प्रश्रे प्रतिवचनं निरूपणीयमित्यर्थः ।
तत्राद्यपक्षमादाय प्रतिवचनं निरूपयति ।
अत्र केचिदाहुरिति तत्रान्वयव्यतिरेकौ प्रमाणयति शरीरावछिन्नेति ।
भोगायतनं ह्यवछेदकता स बन्धेन भोगाश्रयः सन्नदेहः तदवयवहस्तादिश्च भवतीत्याशयेनाह ।
चरणेति ।
अननुसन्धानमेव दर्शयति ।
हस्तावछिन्न इति हस्तावछिन्नात्मनः पादावछिन्नात्म गत दुःखानुसन्धातृत्वाभावे बाधकं शङ्कते ।
कथं तर्हीति ।
अयं हस्तव्यापादो हस्तावछिन्नस्यानुसन्धानान्न भवति ।
किन्तु तदनुसन्धानादिति सम्बन्धः तस्य शरीरोवछिन्नस्य यच्चरणावछिन्नगत वेदनानुसन्धनं तस्मादित्यर्थः ।
ननु चरणावछिन्नगतवेदना कथं शरीरावछिन्नेनानुसन्धीयते अवयवावयविनोर्भेदात् ।
भेदप्यनुसन्धानोपगमें चैत्र शरीरावचिन्नवेदना मैत्र शरीरावछिन्नेनाप्यनुसन्धीयेत भेदा विशेषात् ।
तथा च चैत्र शरीरलग्नकण्टको द्वाराय मैत्र शरीरस्य स्वारसिकौ व्यापारः प्रसज्येतात आह ।
अवयवावयविनोरिति ।
अवयवानां परस्पर भेदेपि शरीर तदवयवयोस्तादात्म्योपगमादित्यर्थः ।
एवं चेति ।
शरीरावछिन्नस्य चरणावछिन्नस्ये चरणावच्छिनवैदनानुसन्धानं प्रतिशरीरचरणयोस्तादात्म्यस्य नियामकत्वे
सतीत्यर्थः ।
ननु हस्तावछिन्नस्य चरणावछिन्नगवेदनानुसन्धातृत्वाभावेपि चरणलग्नकण्टको द्वाराय हस्त व्यापार चरेत् मैत्र शरीवछिन्नस्य चैत्रशरीरावछिन्नगतवेदनानुसन्धातृत्वाभावेपि चैत्रशरीरलग्नकण्टको द्वारापमैत्रशरीरव्यापारप्रसङ्गः परिहर्तुं न शकाते तत्राह नापीति ।
चैत्रमैत्र शरीरद्वयानुस्यूतेत्यर्थः ।
चैत्रशरीरावछिन्नवेदना उभयाअनुस्यूताऽवयव्यन्तरावछिन्नेनापि नानुसन्धीय इति सम्बन्धः ।
अतो न दृष्टान्तस्य म्य?मितिभावः ॥
अन्ये तु विश्लिष्टोपाधिभेदो ननु सन्धानप्रयोजकः ।
तथा च हस्तावछिन्नस्य चरणावछिन्नवेदनानुसन्धानाभ्युपगमेपि न दोषः ।
न चैवं सति गर्भस्थस्य मातृसुखानुसन्धान प्रसङ्गः ।
एकस्मिन्न वयविन्यवयवभावेनाननुप्रविष्टयोर्विश्लिष्टशब्देन विवक्षितत्वात् ।
मातृगर्भशरीरयोस्तथात्वादित्वाहुः ।
न च उघदायुधदोर्दण्डाः ।
पतित स्वशिरोक्षिभिः पश्यन्तः यातयन्तिस्मकबन्धा अप्यरी तन् ।
इहेति भारतोक्त्याविश्लेषेप्यनुसन्धानमवगमिति वाच्यम् ।
तत्रापि शिरः कबन्धयोरेकस्मिन्नवयविन्य च यवभावेनानुप्रविष्ट
चरत्वात् ।
शिरश्चेदानन्तरं मूर्छामरणयोरन्यतरावश्यम्भावे न दृष्टविरुद्धार्थस्य तादृशवचनस्य केम्मुत्यन्यायेन योद्धुत्साहातिशय प्रशंसा परत्वात् ।
तादृक् प्रभाव युक्त पुरुषविशेषविषयत्वेन भूतार्थवादत्वेपि निरुक्तस्योत्सर्वातो ।
ननुसन्धानतन्त्रत्वा विघाताच्च ।
अत एवोक्त वक्ष्यमाणपक्षेषुयोगिनां जाति स्मराणां च शरीरान्तरवृतान्तानुसन्धानेन दोष प्रसक्तिः ॥
चरणलग्नं कण्टको द्वाराध हस्त व्यापारानुरोधेन हस्तावछिन्नस्यैव चरणावछिन्नवेदनानुसन्धातृत्वमुपेयते ।
न च तथा सति भोगायतन भेदस्याननुसन्धानप्रयोजकत्वं न स्याच्चरणहस्तभेदे व्यभिचारादिति वाच्यम् ।
तद्धारणाय विशेषणदानोपपतेरिति मत्वा द्वितीयम् उपाधिं निरूपयति ।
अन्ये त्विति ।
उपाधि पदं भोगायतनपरम् ।
न दोष इति ।
भोगायतनयोर्हस्तचरणयोर्भेदे सत्यपि तयोर्विश्लिष्टत्वाभावेन विश्लिष्टभोगायतन भेदस्याननुसन्धानप्रयोजकस्याभावात् ।
न तत्र व्यभिचार दोष इत्यर्थः ।
न चैवं सतीति विश्रिष्टत्वविशेषणदाने सतीत्यर्थः ।
गर्भस्य जीवस्य यद्भोगायतने तस्य मातृशरीरस्य च विश्लोषाभावादितिभावः ।
विश्लिष्टपदार्था न भिज्ञ स्पन्दे
चाद्यमिति परिहरति ।
एकस्मिन्निति तथात्वादिति ।
एकस्मिन्न वयविनि अवयव भावे नाननुप्रविष्टत्वादित्यर्थः ।
तथा च विश्लिष्टोपाधिभैदसत्वान्न गर्भस्थ जीवस्य हृसुखानुसन्धान प्रसङ्ग इति भावः निरुक्ताननुसन्धानप्रयोजकस्य व्यभिचारं शङ्कते ।
न चेति ।
दोर्दण्डाः क बन्धाः छिन्नशिरस्का देहाः ।
इह युद्धे भूमो वा अत्र वचने चैत्र मैत्र शरीरयोरिव विश्लिष्टयोः क बन्ध शिरसोर्भेदै सत्यपि शिरोवछिन्नस्य क चैधावछिन्नगतयोद्धृत्वानुसन्धातृत्वमवगम्यत इति व्यभिचार इत्यर्थः ।
तत्रानुसन्धानमुपेत्य चैत्र मैत्र शरीवैलक्ष्ण्येन समाधते ।
तत्रापीति चरत्वादिति ।
पूर्वमनुप्रविष्टत्वादित्यर्थः ।
अस्य वचनस्य स्वार्थे मानुत्वाभावाद्व्यभिचार शङ्कैवा युक्तेत्याशयेनाभ्युपगमं परित्यजति ।
शिरस्छेदानन्तरमिति ।
कबन्धा अपि पातयन्ति किमुतान्य इति योद्धृणामुत्साहातिशयं प्रशंसत्ये तद्वचनमित्यर्थः ।
ननु शिरस्छेदानन्तरमपि युद्धानुसन्धानादिकं योगमहिम्नातयो महिम्ना वा चरदान महिम्ना वा केषाञ्चित् सम्भवति ।
ततो विद्यमानार्थकमेवेदं वचनमित्याशङ्कायां पुनरनुसन्धानमुपेत्य व्यभिचारं परहरति ।
तादृगिति ।
विश्लिष्टभोगायतन भेदो ननुसन्धानप्रयोजक इत्युत्सर्ग
इत्युपगमादुदाहृतानुसन्धानस्थलस्य तदपवादस्थलत्वाभ्युपगमात् ।
तत्र व्यभिचारो न दोषायेतिभावः ।
अत एवेति उत्सर्गरूपत्वाभ्युपगमादेवेत्यर्थः ।
न दोष प्रक्तिरिति भोगायतन भेदादेरननुसन्धानप्रयोजकत्वनियमाभ्युपगमे हि योगियुजाति स्मरेषु च भोगायतनभेदादि प्रयोजक चतुष्टयस्य सत्वेप्यननुसन्धानाभावेन व्यभिचाररूप दोष प्रसक्तिर्न भवेदित्यर्थः ॥
अपरे तु शरीरैक्यभेदावनुसन्धान तदभावप्रयोजकोपाधीवाल्य भवान्तरानुभूतयोरनुसन्धान तदभावदृष्टेः ।
न च वाल्यैयोवनयोरपि शरीरभेदः शङ्कनीयः प्रत्यभिज्ञानात् ।
न च परिमाणभेदा तद्भेदावगमः एकस्मिन् वृक्षे मूलाग्रभेदेनेव कालभेदेनैकस्मिन्ननेकपरिमाणान्वयोपपतेः ।
नन्ववयवोपचयमन्तरेण न परिमाणभेदः ।
अवयवाश्च पश्चादापतन्तो न पूर्वसिद्धं शरीरं परियुज्यन्त इति परिमाणभेदे शरीरभेदे आवश्यक इति चैन्न प्रदीपारोपणक्रियासमसमयसौधोदरव्यापि प्रभामण्डलविकास तत्पिधानसमसमयत्
त्सङ्कोचाद्यननुरोधिं नः परिमाणुप्रक्रियारम्भवादस्यानभ्युपगमात् ।
विवर्तवादे चेन्द्रजालिक दर्शित शरीरवद्विनैवावयवोपचयं मायया शरीरस्य वृद्युपपतेरित्याहुः ।
इतरेत्वन्तःकरणाभेदतद्भेदाभ्याम् अनुसन्धानाननुसन्धान व्यवस्थामाहुः ।
अयं च पक्षः प्रागुपपादितः ।
केचित् तु अज्ञानानि जीवभेदोपाधिभूतानि नानेति स्वीकृत्य तद्भेदाभेदाभ्या अनुसन्धाना ननुसन्धान व्यवस्थामाहुः ।
अत्र केचित् तु ॥
अदृष्टविशेषा सह कृतस्य भोगायतनभेदादेरननुसन्धानप्रयोजकत्वस्य विवक्षितत्वात् न योग्यादिषु व्यभिचार इति तात्पर्यं तृतीयपक्षमादाय प्रतिवचनं निरूपयति ।
अपरे त्विति ।
तत्र मानमाह ।
बाल्येति ।
बाल्येऽनुभूतस्य वार्धिके अनुसन्धानं दृश्यते बाल्यवार्धकयोः शराभेदात् ।
तत् भेदादेव भवान्तरानुभूतस्यास्मित् जन्मन्यनुसन्धानं न दृश्यत इत्यर्थः ।
शङ्कनीय इति ।
परिमाणभेदादितिभावः ।
बाल्याद्यवस्थाभेदेपि तदेवेदं शरीरमिति प्रत्यभिज्ञा दर्शनात् ।
न शरीरभेद इति परिहरति ।
प्रत्यभिज्ञानादि शङ्का बीजमरुद्य अन्यथा सिद्धिमाह ।
न चेत्यादिना ।
आरम्भवादमाश्रित्यशङ्कते ।
नन्विति न पूर्वसिद्धमिति ।
पूर्वसिद्धे शरीरे उपादानत्वा योगात् पूर्वसिद्ध शरीरनाशपूर्वं तदवयवैरुपचितावयवैश्च मिलित्वा शरीरान्तरद्व्यणुकत्र्यणुकादिक्रमेणारब्धव्यमिति परिमाणभेदे शरीरभेद आवश्यकः प्रत्यभिज्ञा च शरीरत्वसामान्यविषया भविष्यतीत्यर्थः ।
समसमयकत्वं विकास विशेषणं समयश्च क्षणरूपौ बोध्यः ।
तत्पदं तदीय दीप्तिपरम् उपादाना पादे ययोः सामानाधिकरण्यानुभवादिरादिपदार्थः ।
अननुरोधिन इति द्यष्णुकादिक्रमेण स्थूलावयव्युत्पतिपक्षे बिलम्बापतेः समसमयत्वानुभवविरोधात्परिमाणुसंयोगनाशक्रमेण प्रभादिनाशेपि बिलम्बापतेरारम्भवादे उपादानो पादेययोरत्यन्तभेदाभ्युपगमेन सामानाधिकरण्यानुभवविरोधाच्च तद्वादस्य हेयत्वमेवेत्यर्थः ।
अवयवो पचय क्रमेण शरान्तरांरम्भानुपगमे कथमेकस्मिन् शरीरे विरुद्धपरिमाणयोग इत्यत आह ।
विवर्तवादेवेति चतुर्थपक्षमादाय प्रतिवचनं ददाति ।
इतरे त्विति प्रागिति सुखदुःखादि व्यवस्थोपपादनग्रन्थ इत्यर्थः ।
पञ्चमपक्षमाह केचित्विति प्रतिजीवमज्ञानभेदे प्रमाणं ब्रह्मलक्षणविचारावसरे दर्शितम् एवमैकात्म्यवादे व्यवस्थामुपपादातन्नानात्ववादे व्यवस्थानुपपतिमाह ।
अत्रेति ॥
अंशो नानाव्यपदेशादित्यधिकरणे अदृष्टानियमात अभिसन्ध्यादिष्वपि चैवं प्रदेशादिति चेन्नान्तर्भावादिति सूत्रतद्भाष्यरीति मनुसृत्यैकस्मिन्नात्मन्युपाधिभेदेन व्यवस्थानुपगमेकणभुगादिरीत्यात्मभेदवादेपि व्यवस्थानुपपति तौल्यमाहुः ।
तथा हि चैत्रचरणलग्नकण्टकेन चैत्रस्य वेदनोत्पादे समयेऽन्येषामप्यात्मनां कुतो वेदना न जायेत ।
सर्वात्मनां सर्वगत्वत्वेन चैत्रशरीरान्तर्भावाविशेषात् ।
न च यस्य शरीरे कण्टकवेधादि तस्यैव वेदनानान्येषामिति व्यवस्था सर्वात्मसन्निधावुत्पद्यमानं शरीरं कस्यचिदेव नान्येषामिति नियन्तुमशक्यत्वात् न च यददृष्टोत्पादितं यच्छरीरं ततदीयमिति नियमः ।
अदृष्टस्यापि नियमासिद्धेः ।
यदा हि तदृष्टोत्पादाय केन चिदात्मना संयुज्यते मनः संयुज्यत एवं तदान्यैरपि कथं कारणसाधारण्यै क्वचिदेव तदृष्टमुत्पद्येत ।
ननु मनः संयोगमात्रसाधारण्येप्यहमिदं फलं प्राप्नुयामित्यभि
सन्धिरदृष्टोत्पादककर्मानुकूलकृतिरित्येवमादि व्यवस्थितमिति तत एवादृष्टनियमो भविष्यतीति चेन्न अभिसन्ध्यादीनामपि साधारण मनः संयोगादिति ध्याद्यतया व्यवस्थित्यसिद्धेः ।
ननु स्वकीयमनः संयोगोभिसन्ध्यादिकारणमिति मनसंयोग एवासाधारण्ये भविष्यतीति ।
न नित्यं सर्वात्मसंयुक्तं मनः कस्यचिदेव स्वमिति नियन्तुमशक्यत्वात् ।
न चादृष्टविशेषादात्मविशेषेणमनसः स्वस्वामिभावसिद्धिः तस्याप्यदृष्टस्य पूर्ववद्व्यस्थित्यसिद्धेः ॥
अंशो ब्रह्मणो जीवः श्रुतिषु जीवब्रह्मणोर्नानात्व व्यपदेशान्न च ब्रह्मणो निरंशस्य कथं जीव अंश इति वाच्यम् ।
अवछिन्नाकाशो महाकाशस्य यथा अंशस्तथा अवाछिन्नमनछिन्नचैतन्यरूपस्य ब्रह्मणोंश इत्युपगमादिति सूत्रभागार्थः ।
अदृष्टानियमादि सूत्रत्रयस्य व्याख्यानं भविष्यति काणभुगादिभिर्हि प्रतिशरीरमात्मभेदाभावे व्यवस्थान सम्भवतीत्यात्मभेद आश्रितः न चात्मनः एकत्वेपि उपाधि कृता व्यवस्था सम्भवतीति ।
तद्भेदाश्रयणं तैषां व्यर्थमिति वाच्यम् ।
उपाधि कृत व्यवस्थायाः क्लिष्टत्वात् ।
अतोञ्जसा व्यवस्था सिद्धये आत्मभेदस्तैराश्रित तदेतन्मतं
दूषयति ।
कणभुगादिरीत्येति ।
व्यवस्थेति व्यवस्थाञ्जस्याम्भावस्य तूल्यत्वमाहुरित्यर्थः ।
यथा चैत्रस्य तथाऽन्येषामपीत्यर्थः ।
कण्टकवेधादीत्यादिपदं खड्गघातादि सङ्ग्रहार्थम् ।
शरीरस्थात्मविशेषं प्रत्यसाधारण्यससिद्धमिति दूषयति सर्वात्मसन्निधाविति ।
अदृष्टानियमादिति सूत्रमवतारयति ।
यद दृष्टेति ।
सूत्रं व्याचष्टे अदृष्टस्यापीति ।
अनियमं साधयति ।
यदा हीति ।
तदान्यैरप्यात्मभिः संयुज्यत इत्यर्थः ।
संयोगमात्रेति मात्रपदमभिसन्ध्यादिसाधारण्य व्यवछेदार्थं न तु समवापि कारणस्य तद्व्यवछेदार्थमिति बोध्यम् ।
अभिसन्धिफलेछा आदिपदेन कृतिजनककार्यताज्ञानचिङ्कीर्ययोः सङ्ग्रहः अभिसन्ध्यादिष्वपि चैवमिति सूत्रं योजयन्नुतरमाह ।
नेत्यादिना मनसो अंसाधारण्यमाशङ्क्यनिराकरोति ।
ननु स्वकीयेति ।
तथा च तत्संयोगा समवायि कारणकं सर्वमसाधारणं भविष्यतीति भावः ।
ततः किं तत्राह कथमिति आत्मममः संयोगरूपासमवायि कारणस्य समवायि कारणरूपात्मनश्च साधारणत्वादित्यर्थः त्रुटत् ३५ ॥
नन्वात्मनां विभुत्वेपि तेषां प्रदेशविशेषा एवबन्धभाज इत्यात्मान्तराणां चैत्र शरीरे तत्प्रदेशविशेषाभावात् सखादि व्यवस्था भविष्यतीति ।
न यस्मिन् ।
प्रदेशे चैत्रः सुखाद्यनुभूय तस्मात् प्रदेशादपक्रान्तस्तस्मिन्नेव मैत्रे समागते तस्यापि तत्र सुखदुःखादि दर्शनेन शरीरान्तरे आत्मातंरप्रदेशविशेषस्याप्यन्तर्भावात् ।
तस्मादात्मभेदेपि व्यवस्थादुरुपपादैव कथञ्चितदुपपादने च श्रुत्यनुरोधाल्लाघवाच्चैकात्म्यमङ्गीकृत्य तत्रैव तदुपपादनं कर्तुं युक्तमिति ।
सन्तु तर्ह्यणव एवात्मानो खदि विभुत्वे व्यवस्थान स्रुवचा नैवम् आत्मनामणुत्वे कदाचित् सर्वाङ्गीण सुखोदयस्य करशिरश्चरणाधिष्ठानस्य चानुपपतेः ।
यदत्रार्वाची न कल्पन मत्क्रान्ति गत्यागति श्रवणान्यथानुपपत्या अणुर्ह्येवैष आत्मायं वा एतेसिनीतः पुण्यं च पापं च वालाग्र शतभागस्येत्यादि श्रुतिषु साक्षादणुदत्व श्रवणेन चाणव एव जीवाः ॥
प्रदेशादिति चेन्नान्तर्भावादिति सूत्रं व्याचक्षाण एव प्रदेश कृतां व्यवस्थामाशङ्क्यनिराकरोति ।
नन्वात्मनामिति ।
बन्धः सुखदुःखादिः ततदात्मासाधारणात् प्रदेशविशेषाद्यवस्थेति ।
चेदिति सौत्र
शङ्काभागाक्षरार्थः ।
एकस्मिन् शरीरे एकस्यैवात्मनः प्रदेशोनात्मान्तराणामिति नियमो असिद्ध इति दूषयति ।
न यस्मिन्निति ।
अदृष्टसुखादेरव्याप्यवृतित्वादात्मनो यः प्रदेशो अदृष्टाद्याश्रयः स एवात्र प्रदेशशब्दार्थः ।
तथा च यस्मिन्नासनादि प्रदेशे चैत्र शरीरं स्थितं सच्चैत्रस्य सुखाद्यायतनं भवति ।
तस्मिन्नेव प्रदेशे चैत्र शरीराय क्रमणानन्तरं मैत्र शरीरमागत्य स्थितं सन्मैत्रस्य सुखाद्यायतनं दृश्यते ।
अतस्तत्र पश्चादागतमेत्र शरीरे चैत्रमैत्रात्मप्रदेशयोरदृष्टायश्रयोः प्रवेशात् ।
तच्छरीरे चैत्रमैत्रयोरुभयोरपि भोगप्रसङ्गः ।
न च पूर्वशरीरापक्रमणसमये तच्छरीरगतस्य चैत्रात्मप्रदेशस्याप्यपक्रमणमेवास्त्विति वाच्यं प्रदेशवत्वः आत्मनः स्थिर त्वेन प्रदेशस्य चलनानुपपतेरेव मन्येषामप्यात्मनां प्रदेशान्तभीवप्रयुक्तं भोगसाङ्कर्यमूह्यं तस्मादिति ।
आत्मनां व्यापकत्वाभ्युपगमादित्यर्थः ।
नन्वात्मैक्य मते इव तन्नानात्वमतेपि कथञ्चिद्व्यवस्था स्वीक्रियत इत्याशङ्क्याह ।
श्रुतीति आत्मैक्यश्रुतीत्यर्थः ।
तत्रैवेति ।
एकस्मिन्नेवात्मनीत्यर्थः ।
जीवाणुत्वगमक श्रुतियुक्त्यवष्टम्भेन पुनर्जीवब्रह्माभेदमाक्षिपति ।
सन्त्विति ।
निराकरोति नैवमिति ।
अधिष्ठानस्य चेति ।
युगपत्करादि प्रेररणस्येत्यर्थः
जीवस्याणुत्वेपि सर्वशरीरव्यापि सुखादिकं सम्भवतीति शङ्कते ।
यदत्रेति ।
कल्पनाप्रकारस्तेषामणुत्वेपीत्यादिना भविष्यति ।
आदौ तस्याणुत्वे मानमाह ।
उत्क्रान्तीति ।
तु मुत्क्रामन्तमित्यादि श्रुतिषूत्क्रान्त्यादिकं श्रूयत इति भावः ।
ननु मध्यमपरिमाणस्य जीवस्योत्क्रान्त्याद्यन्यथाऽनुपपत्या चेदणुत्वं कल्पते तर्हि जीवस्य ब्रह्मभावश्रवणानुपपत्या तस्य विभुत्वं कल्प्यते श्रुतार्थापतेरविशेषादित्याशङ्क्य श्रुतिमप्याह ।
अणुर्हीति ।
यमात्मानमेतेसिनीतः ।
वध्नीनः केते तत्राह ।
पुण्यं च पापं च एष आत्मा अणुर्हीत्यर्थः ।
बालः केशः शतधा कल्पितस्य च भागो जीवः स विज्ञेय इति ।
वाक्यमादिपदेन गृह्यते ।
बालाग्रस्य यः शत तमो भागः तस्यापि शतधा विभक्तस्य यो भागस्तुल्यपरिमाणो जीव इत्यर्थः ॥
तेषामणुत्वेपि ज्ञानसुखादीनां प्रदीपप्रभान्यायेनाश्रयातिरिक्तप्रदेशविशेषव्यापि गुणतया सर्वाङ्गीणतया सर्वाङ्गीणसुखाद्युपलम्भः द्रोणं बृहस्पतेर्भागमित्यादि स्मृत्यनुरोधेन जीवानामंश सत्वात् ।
करशिरश्चरणाद्यनुर्गतेषु सुखदुःखादि
यौगपद्यङ्काय व्यूहगतेषु योगिनां भोग वैचित्र्यं चेति न काचिदनुपपतिः ।
एवं च जीवानामणुत्वेनासङ्करात् सुखदुःखादिव्यवस्थाविभोरीश्वराद्भेदश्चेति ।
अत्रोक्तमद्वैतदीपिकायाम् एवमपि कथं व्यवस्था सिद्धिः ।
चैत्रस्य पादै वेदना शिरसि सुखमिति स्वांशभेदगतसुखदुःकानुभववन्मैत्रगत सुखदुःखानुसन्धानस्यापि दुर्वारत्वात् ।
अविशेषो हि चैत्र जीवातदंशयोर्मैत्रस्य च भेदः कायव्यूहस्थले वियुज्यान्यत्रसंसरणसमर्थानामंशानां जीवाद्भेदावश्यम्भावादंशांशिनोस्त्वयाभेदाभेदाभ्युप- गमाच्च ।
न च शुद्धभेदोऽननुसन्धानप्रयोजक इति वाच्यम् ।
शुद्धत्वं हि भेदस्यांशांशिभावा सहचरि तत्वमभेदा सहचरित्वत्वं वा स्यात् ।
जीवस्याणुत्व साधकप्रमाणानुसारिणमर्वाचीन कल्पना प्रकारं दर्शयति ।
तेषामणुत्वेपीति ।
यथा प्रभायाः स्वाश्रयं प्रदीपं विहाय प्रदेशान्तर व्यापित्वं तथा ज्ञानादीनां स्वाश्रयमणुमात्मानं विहाय कदाचिच्छरीर व्यापित्वं कल्पत इत्यर्थः ।
नन्वात्मनः शशरीरव्यापित्वे सति
युगपत्सुखप्रयत्नादय उत्पद्यमानाः तस्मिन्नवछेदकभेदेन सम्भवन्ति तस्याणुत्वे तु कथं तेषां यौगपद्यनिर्वाहः ।
तत्राह द्रोणमिति ।
अनुगतेष्टित्यनन्तरं जीवांशेष्वितिशेषः व्यूहः काय व्यूहगतेष्वित्यनन्तरमपि जीवांशेष्वितिशेषः ।
भोगानां भुज्यमानसुखादीनां वैचित्र्यं युगपन्नाना विधत्वं युगपदनेकशरीराधिष्ठानं च योगिनां खांशैः सम्भवतीत्यर्थः ।
जीवाणुत्वपक्षेन केवलमनुपपति सामान्याभावः ।
किं तु लाभोप्यस्तीत्याह ।
एवं चेति ।
जीवस्याणुत्वे सतीत्यर्थः असङ्करादिति ।
एकस्मिन् शरीरे सर्वेषां जीवानां प्रवेशाभावादित्यर्थः ।
विभोरिति ।
जीवस्यापि विभुत्वे लक्षणभेदाभावादीशात् भेदो न सिध्येत् अणुत्वेत्वत्यन्त वैलक्षण्यात् भेदः सुगम इति भावः ।
अर्वाचीन कल्पनं दूषयति ।
अत्रोक्तमिति ।
एवमपीति जीवस्याणुत्वसांशत्व कल्पनेपीत्यर्थः ।
जीवस्य स्वांशगतसुखाद्यनुसन्धानं जीवान्तरगतसुखाद्यननुसन्धानं चाभ्युपगछतात्वयाभेदो ननु सन्धानप्रयोजकः ।
अभेदश्च तदनुसन्धानप्रयोजक इति वक्तव्यं तत्राननुसन्धानप्रयोजकभेदोभेदमात्रं वा शुद्धभेदो वा आद्ये चैत्रः स्वांशगतसुखादिकं नानुसन्धानप्रयोजकभेदस्य सत्वाद्यदि सत्यपि भेदे स्वांशगतमनुसन्दध्यात् ।
तदा चैत्रोगेत्र गत सुखादिकं
मप्यनुसन्दध्यादित्याह ।
चैत्रस्येति ।
अंशाऽंशिनोरननुसन्धानप्रयोजकभेदासिद्धिमाशङ्क्यतम् ।
साधयति कायव्यूहेति वियुज्येति ।
अंशिनः सकाशाद्विभागं प्राप्येत्यर्थः ।
अन्यत्रेति ।
योगिनो निजशरीरादन्यत्र कायव्यूह इत्यर्थः ।
तयोर्भेदो नास्माभिः साधनीय इत्याशयेनाह ।
अंशांशिनोरिति ।
ननुभेदमात्रम् अननुसन्धानप्रयोजकतयानेष्यते ।
येन जीवस्वांशगमपि सुखादिकं नानुसन्दध्यात् यद्यनुसन्दध्यात् ।
तदा जीवान्तरगतमपि तदनुसन्दध्यात् दितिदोषः प्रसज्येत किन्तु विशेषतो भेद इति द्वितीयं शङ्कते ।
न चेति ॥
नाद्यः अंशो ह्येष परमस्य ममैवांशो जीवलोके अंशो नानाव्यपदेशादिति श्रुतिस्मृति सूत्रैर्जीवस्य ब्रह्मांशत्वप्रतिपादनैन ब्रह्मजीवयोर्भोगसाङ्कर्य प्रसङ्गात् ।
ननु जीवांशानां जीवं प्रतीव जीवस्य ब्रह्मप्रतिनांशत्वं किं त्व चन्द्रबिम्बस्य गुरुबिम्बः शतांश इति वत्सदृशत्वे सति ततो न्यूनत्वमात्रमौपचारिकांशत्वमिति चेत् ।
किं तदेनदतिरेकेण मुख्यमंशत्वं जीवांशानां जीवं प्रतिपदत्राननुसन्धानप्रयोजकं शरीरे निवेश्यते ।
न तावत् पटं प्रतिजन्तूनामिवारम्भकत्वं जीवस्यानादित्वात् ।
नापि महाकाशं प्रतिघटाकाशादीनामिव प्रदेशत्वं टङ्कछिन्नपाषाणशकलादीनामिव खण्डत्वं वा अणुत्वेन निःप्रदेशत्वात् ।
अछेद्यत्वाच्च भिन्नाभिन्नद्रव्यत्वमंशत्वमभिमतमिति चेत् न तथा सति जीवेश्वरयोर्जीवांशानां च भोगसाङ्कर्यप्रसङ्गात् ।
स्वतो भिन्नानां तेषां चेतनत्वादिनाऽभेदस्यापि त्वयाङ्गीकारात् ।
समूहसमूहिनोर्भेदाभेदवादिनस्तवमते एकसमूहान्तर्गतानां जीवानां परस्परमप्यभेदस्य त्वाच्च ॥
आद्ये कल्पे जीवेश्वरभेदस्यांशांशिभाव सह चरितत्वेन शुद्धभेदत्वान्नावातयोः परस्परं सुखाद्यनुसन्धानं स्यादित्याह ।
नाद्य इति ।
जीवेश्वरयोरंशांशिभावे मानमाह ।
अंशोहिति ।
परमस्य परमात्मनः जीवलक्षणो लोको जीवलोकः ननु भेदस्यांशांशिभावमात्रा सह चरितत्वं शुद्धत्वं न भवति ।
किन्तु मुख्यांशांशिभावा सह चरितत्वं जीवेश्वरयोरंशांशित्वं तु न मुख्यमतेः तयोर्भेदे मुखाशांशिभावा सह चरितत्वरूपशुद्धत्वस्य सत्वान्नोक्त दोष इति शङ्कते ।
नन्विति जीवं प्रतीति ।
तथा च जीव तदंशयोर्भेदे मुख्यांशांशिभाव सह चरितत्वस्यैव सत्वेन तद सह चरितत्वरूपशुद्धत्वाभावादनुसन्धो नोपपतिरितिभावः ।
नांशत्वमित्यनन्तरं मुखमितिशेषः कान्तिमत्वम् ।
मुख्यांशांशिभावा सह चरित भेदो ननुसन्धानप्रयोजक इत्यत्र मुख्यांशांशिभावो दुर्निरूप इत्याह ।
किं तदिति ।
यन्मुख्यमंशत्वमत्रप्रयोजकशरीरे निवेश्यते तदेतदतिरेकेण किमिति योजना मुख्यमंशत्वम् आरम्भकावयवत्वं वो प्रदेशत्वं वा खण्डत्वं वा भिन्नाभिन्नद्रव्यत्वं वेति किं शब्दार्थः ।
तत्राद्यं निराकरोति ।
न तावदिति ।
द्वितीय तृतीयौ क्रमेणानूद्यदूषयति ।
नापीत्यादिना ।
जीवस्याणुत्वेन प्रदेशासम्भवादणुत्वेनैव द्वैधीभावा योग्यत्वाच्चेत्यर्थः ।
चतुर्थं शङ्कते ।
भिन्नाभिन्नेति ।
जीवांशानां जीवेन सह भिन्नद्रव्यत्वं मुख्यमंशत्वमभिमतं तदेव चाननुसन्धानप्रयोजकशरीरे निवेश्यते ।
तथा च भिन्नाभिन्नद्रव्यत्वा सहचरितभेदः शुद्धभेदः स चाननुसन्धानप्रयोजक इति निष्कर्षः ।
तत्र दूषणमाह ।
तथा सतीति ।
जीवेश्वरयोस्त्वयाभिन्नाभिन्नद्रव्यत्वाभ्युपगमात् ।
तयोर्भेदः शुद्धभेदो न भवति ।
तथा जीवाशानां परस्परं भिन्नाभिन्नद्रव्यत्वस्य त्वया स्वीकारा तेषां भेदोपि शुद्धभेदो न भवति ।
तथा चाननुसन्धानप्रयोजका भावाज्जीवेश्वरयोर्जीवांशानां च भोगसाङ्कर्य प्रसङ्ग इत्यर्थः ।
चेतनत्वादिनेति सत्व द्रव्यत्व सङ्ग्रहार्थमादिपदं दूषणान्तरमाह ।
समूहेति ।
समूहस्य समूहिनां च परस्परं भिन्नात्वे सत्य
भिन्नत्वमङ्गीकुर्वतस्तवमते समूहिनामपि परस्परभिन्नत्वमावश्यकम् ।
तथा च उत्मवादौवेकत्रमिलितानां जीवानां भिन्नानां परस्परमभिन्नद्रव्यत्वस्यापि सत्वा तेषां परस्परं भेदः शुद्धभेदो न भवति भिन्नाभिन्नाभिन्नद्रव्यत्व सहचरितत्वा तथा च परस्परं तेषां सुखाद्यनुसन्धान प्रसङ्ग इत्यर्थः ॥
स्वाभिन्नसमूहाभिन्नेन स्वस्याप्यभेदस्य दुर्वारत्वात् ।
यदि संयोगादीनां जातेश्चानेकाश्रितत्वं स्या तदागुणगुण्यादेरभेदात् ।
तदा घटाभिन्नसंयोगाभिन्नपटादेरपि घटाभेदः प्रसज्येत इत्यादि च दतात्वया तदभिन्नाभिन्नस्य तदभेदनियमाभ्युपगमात् ।
न च जीवान्तरस्य धारण चेतनत्वादि धर्मैक रूप्यैक समूहान्तर्गत्यादि प्रयुक्ताभेदविलक्षणमभेदान्तरमंशांशिनोरस्ति भेदेप्यनुसन्धानप्रयोजकं यदत्रा नति प्रसङ्गाय विनक्ष्येत तथा सति तस्यैव विशिष्यनिर्वक्तव्यत्वापतेः ।
धर्मैकरूप्याद्यप्रयुक्तत्वमंशाशिनोरभेदे विशेष इति चेत् ॥
ननु समूहिनां समूह्य भिन्नत्वेपि ।
न तेषां परस्परमभिन्नत्वमस्मन्मतेऽस्ति अतो नोक्तदोष इत्याशङ्क्याह ।
स्वाभिन्नेति ।
स्वयमेकः समूही देवदतः तदभिन्नः समूहः तदभिन्नो यज्ञदतः तेन सहस्वस्यापि देवदतस्याप्यभेदस्य तस्य च मते दुर्वारत्वात् ।
त्वया तदभिन्नाभिन्नस्य तदभिन्नत्वनियमाभ्युपगमादित्यर्थः परं प्रत्युक्त नियमाभ्युपगमं साधयति ।
यदीत्यादिना ।
गुणगुण्योर्जाति व्यक्त्योश्चाभेदवादिनं प्रतिदूषणपरोयं जीवाणुत्ववादिग्रन्थो यदीत्यादिः ।
गुणगुण्योरभेदमङ्गीकृत्य यदि गुणस्य संयोगविभागद्वित्वादेरनेकाश्रितत्वमभ्युपगम्येत तथा जातिव्यक्त्यारभेदमुपेत्य यदि जातेरनेकाश्रितत्वेमभ्युपगम्येत तदा पटादेरपि घटाभेदप्रसङ्ग इति ।
तत्र हेतुगर्भं विशेषणमाह ।
घटाभिन्नेति ।
घटाभिन्नः संयोगः तदभिन्नत्वात्पटादरित्यर्थः ।
ननु जीवेश्वरयोर्जीवोंशानां समूहाभिन्नजीवानां च योयंवेतनत्वादि धर्मप्रयुक्ताभेदः एकसमूहाभेदप्रयुक्ताभेदश्च तदपेक्षयान्य एवाभेदो जीव तदंयोरस्ति अतस्तयोर्भेदे सत्यपि परस्परमनुसन्धानं जीवेश्वरयोर्जीवांशानां समूहिजीवानां च तादृशाभेदाभावाच्चेतनत्वादि प्रयुक्ताभेदे सत्यपि न परस्परमनुसन्धानमिति
व्यवस्था तथा च भिन्नाभिन्नद्रव्यत्वा सहचरितभेदः शुद्धे भेदः स चाननुसन्धानप्रयोजक इत्यत्र जीव तदंशयोः परस्परानुसन्धानप्रयोजकत्वाभिमतो विलक्षणाभेद एव प्रविष्ट इति जीवेश्वरादौ तादृशाभेदघटित भिन्नाभिन्नद्रव्यत्वा सहचरितभेदसत्वान्नोक्ताति प्रसङ्ग इति शङ्कां निराकरोति ।
न चेति ।
जीवतदंशयोरिव जीवान्तराणामपि साधारणो यश्चेतनत्वादि धर्मैकरूप्यप्रयुक्त एकसमूहान्तर्गत्यादिप्रयुक्तश्चाभेदः तद्विलक्षणमित्यर्थः ।
जीवेश्वर गतस्यामुख्यांशांशिभावस्य सङ्ग्रहार्थमादिपदम् अंशांशिनोर्भेदे सत्यपि तयोरनुसन्धानप्रयोजकभेदान्तरं ने चास्ति यदभेदान्तरं जीवेश्वरादावति प्रसङ्गपरिहाराय भिन्नाभिन्नद्रव्यत्व शरीरप्रविष्टतया विवक्ष्येतेति योजना नन्वभेदान्तरं कुतो नास्तीत्वाशङ्क्याह तथा सतीति विलक्षणाभेदस्यांशांशिनोः सत्व इत्यर्थः ।
जीवेश्वराद्यभेदापेक्षया जीव तदंशयोरभेदस्य विशेषं विशेषतौ निर्वक्ति धर्मैकरूप्याद्य प्रयुक्तत्वमिति ॥
न जीवतदंशयोश्चोतनत्वादि धर्मैकरूप्यसत्वैनेकशरीरावछेदेकायव्यूहमेलने च समूह सत्वेन च तयोरभेदे धर्मैकरूप्यादि प्रयुक्तत्वस्यापि सम्भवात् धर्मैक
रूप्यादिप्रयुक्ताभेदान्तर सत्वेपि जीव तदंशयोरंशांशिभावप्रयोजकाभेदो न तत्प्रयुक्त इति चेत् न तयोरभेदद्वयाभावात् ।
त्वन्मतेऽधिकरणैक्ये सति भेदस्याभेदस्य वा प्रतियोगिभेदेन तदाकारभेदेन वानेकत्वानभ्युपगमात् ।
तस्मादाद्यपक्षे सुस्थोति प्रसङ्गः ।
एतेनैव द्वितीय पक्षोपि निरस्तः ।
अभेदा सह चरितभेदस्याननुसन्धानप्रयोजकत्वे उक्तरीत्यात्वन्मते जीवब्रह्मणो जीवानां चाभेदस्यापि सत्वेनाति प्रसङ्गस्य दुर्वारत्वात् ।
नन्वभेदप्रत्यक्षमनुसन्धाने तन्त्रमिति तदभावेः ।
ननुसन्धानं स्वस्य स्वाभेदः स्वांशाभेदश्च प्रत्यक्ष इति तद्द्रष्ट्रर्दुखाद्यनुसन्धानं जीवान्तरेणऽभेदसत्वेपि तस्याप्रत्यक्षत्वान्न तदुःखाद्यनुसन्धानम् ।
उक्त विशेषासिद्धिमाह ।
न जीवेति ।
जीवस्य तदंशानां च चेतनत्व सत्वद्रव्यत्वादि धर्मैकरूप्यमस्ति तथा जीवस्य तदवयवानां चैकशरीरानुप्रवेशकाले
तछरीरावछेदेन समूहोप्यस्ति तथा योगि जीवावयनां कायव्यूहशब्दितानेकशरीरेषु प्रविष्टानां कदाचित् तेषां शरीराणां मेलने सति योगि जीवेनांशिना सहस्रमूहोस्मि तथा च जीवतदंशयोरभेदे धर्मैकरूप्यादिप्रयुक्तत्व सम्भवातदप्रयुक्तत्वमसिद्धमित्यर्थः ।
ननु जीवानां चेतनत्वादि धर्मैकरूप्यादिप्रयुक्ताभेदसत्वेपि तेषामंशांशिभावादंशांशिभावप्रयोजकाभेदोन्य एव स च न धर्मैकरूप्यादिप्रयुक्त इति शङ्कते ।
धर्मैकरूप्यादीति जीवान्तरसाधारणाभेदस्य धर्मैकरूप्यादि प्रयुक्तस्याप्य परिहार्यत्वा तस्याप्यभ्युपगमे सति जीव तदंशयोरभेदद्वयमभ्युपगते परस्य मते प्रसज्यते ।
ओमिति वदन्तं परं प्रत्याह ।
न तयोरिति ।
अंशांशिनोरित्यर्थः ।
तदा कोरेति प्रतियोग्याकारेत्यर्थः ।
प्रतियोगितावछेदकेति यावत् ।
भेदस्यानेकत्वानभ्युपगमोपन्यासो दृष्टान्तार्थः ।
तस्यादिति ।
जीवेश्वरयोर्यः पूर्वमंशाशिभावो निरूपिता तदतिरेकेण जीवतदंशयोर्मुखस्यांशांशिभावस्य दुर्निरूपत्वादित्यर्थः ।
तथा च जीवैश्वरयोर्भेदस्य निरूपितांशांशिभावसहचरितत्वेन तदसहचरितत्वरूपशुद्धत्वाभावे सत्यननुसन्धानप्रयोजक शुद्धभेदाभावाज्जीवेश्वरयोः परस्परं भोगसाङ्कर्यप्रसङ्गरूपो दोषः स्थिर इत्यर्थः ।
आद्यपक्ष इति अशांशिभावा सहचरितत्वं शुद्धत्वमिति पक्ष इत्यर्थः ।
अभेदासहचरितत्वं शुद्धत्वं भेदस्येति पक्षं
वक्ष्यमाण हेतुना निराकरोति ।
एतेनेनैवेति ।
उक्तरीत्येति ।
चेतनत्वादि धर्मैकरूप्यमुक्तारीतिः ।
जीव तदंशयोरिव जीव ब्रह्मणोर्जीवाअनां चाभेदमुपेत्यापि पूर्वोक्ताति प्रसङ्गपरिहारं शङ्कते नन्विति स्वस्येति अंशिनो जीवस्येत्यर्थः ।
जीवान्तरेणेति ।
स्वस्येत्यिनुसङ्गः ॥
जातिस्मरस्य प्राग्भवीयात्मनाप्यभेदस्य प्रत्यक्ष सत्वा तद्वृतान्तानुसन्धानमन्येषां तदभावान्नेत्यादि सर्वं सङ्गछत इति चेत् ।
तर्हि ऐकात्म्यवादेपि सर्वात्मतावरकाज्ञानावरणाच्चैत्रस्य न मैत्रात्माद्य भेदप्रत्यक्षमिति तत एव सर्वव्यवस्थोपपतेर्व्यर्थः ।
श्रुति विरुद्धात्मभेदाभ्युपगमः ।
न चेत्थमपि प्रपञ्चतत्ववादिनः तव व्यवस्था निर्वाहः सर्वज्ञस्येश्वरस्य वस्तु स जीवान्तराभेदप्रत्यक्षावश्यम्भावे न जीवेषु दुःखवत् स्वहं दुःखीत्यनुभवापतेः ।
अस्मन्मते त्वीश्वरः स्वाभिन्ने जीवे संसारं प्रतिमुखे मालिन्यमिव पश्यन्नपि मिथ्यात्वनिश्चयान्न शोचतीति नैष प्रसङ्गः स्यादे
तन्माभूदंश भेदं शङ्करशिरश्चरणादीनां काय व्यूहस्य चाधिष्ठानमात्मदीपस्यानपायिनी ज्ञानप्रभास्तिव्यापिनीति तयैव सर्वाधिष्ठानं भविष्यतीति चेत् ॥
जातिस्मरस्येति ।
पूर्वजन्मस्मरणवत इत्यर्थः ।
सर्वेति सर्वात्मतावरकम् ।
यदज्ञानं तत्प्रयुक्तावरणादित्यर्थः ।
तत एवेति चैत्र मैन्त्रादीनां सर्वेषां परस्परमभेद प्रत्यक्षाभावादेव व्यवस्थिततया सुखाद्यननुसन्धानोपपतेरित्यर्थः ।
अभेदप्रत्यक्षस्यानुसन्धानप्रयोजकत्वमुपेत्यपरमते आत्माभेदकल्पनागौरवं श्रुतिविरोधं च दर्शयित्वा परमते तस्य प्रयोजकत्वमपि न सम्भवत्यति प्रसङ्गादित्याह ।
न चेत्थमपीति ।
अभेदप्रत्यक्षमवुसन्धानप्रयोजकमिति कल्पनयापीत्यर्थः ।
वस्तुसन् परमार्थो यो जीवान्तराभेदः तत्प्रत्यक्षमीश्वरस्यावश्यकम् ।
अन्यथा असर्वज्ञत्वप्रसङ्गः स्यादित्यर्थः ।
ननु सिद्धन्तेपि ब्रह्मणः सर्वज्ञत्वजीवाभिन्नत्वयोः सत्वादुक्तदोषप्रसङ्ग इति नेत्याह ।
अस्मत्मत इति ।
यत्तु जीवानां सावयवत्वात् करशिरश्चरणानुगतेषु जीवांशेषु सुखदुःखादि यौगपद्यं सम्भवति योगिनां कायव्यूहगतेषु योगिजीवावयवेषु युगपत्सुखदुःखादिभोगवैचित्र्यं च सम्भवतीति न काचिदनुपपतिरिति तन्न जीवं प्रतिजीवांशानां
सुख्यांशत्वस्यापि निरस्तत्वाज्जीवं प्रति तदंशानां जीवसदृशत्वे सति जीवापेक्षया न्यूनपरिमाणत्वरूपौपाचारिकांशत्वस्यापि जीवाणुत्वपक्षे बाधितत्वाच्च अणुपरिमाणस्यैव सर्वपरिमाणापेक्षया न्यूनपरिमाणत्वेन ततोपि न्यूनपरिमाणाभावात् सदृशत्वे सति ततो न्यूनत्वरूपांशत्वस्य चन्द्रबिम्बांश गुरुबिम्बवज्जीवांशानां जीवापेक्षयात्यन्तभेदप्रयोजकत्वेन जीवस्य स्वांशगतसुखाद्यनुसन्धातृत्वासम्भवाच्च तथा योगि जीवांशानां कायव्यूहाधिष्ठातृत्वेपि तेभ्योत्यन्तभिन्नस्य योगि जीवस्य कायव्यूहाधिष्ठातृत्वाभावप्रसङ्गा तथा शरीरधिष्ठातुर्जीवस्य शरीरावयवशिरश्चरणाद्यधिष्ठातॄणां जीवांशानां चात्यन्तभिन्नत्वेनैकस्मिन् शरीरे भोक्तृतानात्वप्रसङ्गात् जीवस्य सांशत्वे मानान्नावाच्च द्रोणं बृहस्पतेभीगमिति ।
वचनस्य वर्णितरीत्यादुक्तांशपरत्वाभावेन बृहस्पत्यादेर्योगप्रभावेणभूतारहरणादिदेव कार्यार्थं शरीरान्तरपरिग्रहमात्रपरत्वात् ।
एतेन श्रीरामकृष्णादेर्विष्णुंशत्व व्यवहारोपि व्याख्यातः तस्माज्जीवांशविशेषस्य करशिरश्चरणाद्यधिष्टातृत्वं कायव्यूहाद्यधिष्ठातृत्वं च न सम्भवतीति पूर्वग्रन्थस्याशये स्थिते शङ्कते स्यादेतदिति अधिष्ठानमिति ।
प्रेरक इत्यी भविष्यतीति ।
जीवः स्वयमणुतया शरीरैकदेशस्थोपि स्वसमचैतेन व्यापि ज्ञानेन करशिरश्चरणादीन् कायव्यूहं चाधि तिष्ठतीति
निरंशस्याप्यणोर्जीवस्य कृत्स्नशरीरोधिष्ठातृत्वादिकं नानुपपन्नमितिभावः ॥
न ज्ञानवदात्मसुधर्मस्य सुखदुःखभोगस्य ज्ञानमाश्रित्योत्यत्यसम्भवे नर चरणाद्यवयवभेदेन कायव्यूहवतः कायभेदेन च भोगवैचित्र्याभावप्रसङ्गात् ।
सुखदुःखभोगादिर्ज्ञानधर्म एवनात्मधर्म इत्युपगमे तद्वैचित्र्येण आत्मगुणस्य ज्ञानस्य भेदसिद्धावप्यात्मनो भेदासिद्ध्याभोगवैचित्र्यादिना आत्माभेदप्रतिक्षेपा योगाद्भोगाद्याश्रयस्यात्मनोणत्वेन प्रतिशरीरं विछिन्नतया तद्व्यापित्ववाद इव तदभेदवाद इवचनधर्मसङ्करापतिरिति मतहानेश्च तस्माज्जीवस्याणुत्वोपगमेन व्यवस्थोपपादनेन युक्तं नापि तेन तस्येश्वराद्भेदसाधनं युक्तम् उत्क्रान्त्यादिश्रवणात्साक्षादणुत्व श्रवणाच्चाणुर्जीव इति वदतस्तवमते तत्सृष्टातदेवानुप्राविशत् अन्तःप्रविष्टः शास्ताजनानां गुहां प्रविष्टौ परे मे परार्द्ध्ये इत्यादि श्रुतिषु प्रवैशादिश्रवणात् स एषोणिमा एषम
आत्मान्तं हृदयोणीयान् ब्रीहेर्वायवाद्धेति श्रुतेः साक्षादणुत्व श्रवणाच्च परोप्यणुरेव सिध्येदिति कुतः परजीवयोर्विभुत्वाणुत्वाभ्यां भेदसिद्धिः नन्वाकाशवत्सर्वगतश्च नित्यः ज्यायान् दिवोज्ज्यायान्नन्तरिक्षादित्यादि श्रवणात् ॥
ज्ञानमाश्रित्येति ।
ज्ञानधर्मत्वे हि सुखादेर्ज्ञाने उत्पतिः सम्भवे ततश्च ज्ञानस्य व्यापकता तदाश्रित सुखादिरूपभोगस्यापि करशिरश्चरणादौ कायव्यूह च युगपदुदयः सम्भवेन्नतत्वया सुखादेर्ज्ञानधर्मत्वमिष्यते ।
तस्य ज्ञानवदात्मधर्मत्वाभ्युपगमादंशि ज्ञानस्य व्यापित्वेपि न करशिरश्चरणादौ कायव्यूहे च युगपद्भोगवैचित्र्यं सम्भवतीत्यर्थः ।
कायव्यूहवृत इति ।
योगिन इति शेषः तस्य च भोगवैचित्र्यं स्मर्यर्तौ क्षिपेच्च पुनस्तानि सूर्योरश्मिगणानिवेति ।
आत्मनां शरीराणां बलं योगजनितं सामर्थ्यम् ।
तर्हि ज्ञानधर्मत्वमेव सुखादेरस्तु यदि तद्धर्षत्व भोगवैचित्र्यं सम्भवेत् तत्राह ।
सुखदुःखभोगादिरिति ।
असिद्ध्यति आत्मगुणज्ञाननिष्ठस्य भोगवैचित्र्यस्य व्यधिकरणतयो आत्मभेद साधकत्वासम्भवादित्यर्थः ।
सुखादेर्व्यापि ज्ञानधर्मत्वं स्वमतविरुद्धं चेत्याह ।
भोगाद्याश्रयस्येति ।
नैय्यायिकादि मत इवाद्वैतमत इव चेत्यर्थः ।
तस्मादिति ।
आत्मगुणस्य ज्ञानसुखादेर्व्यापि
त्वकल्पनायोगादित्यर्थः ।
जीवाणुत्वाभ्युपगमस्य पराभिमतं प्रयोजनान्तरम् ।
आत्मनां च सहस्राणि बहूनि भरतर्षभयोगी कुर्यात् बलं प्राप्यतैश्च सर्वां सह्ये चरेत् प्राप्नुयाद्विषयान् कैश्चित्कैश्चिदुग्रन्त पश्चरेत् सं ५ त्रुटित् दूषयति ।
नापि तेन तस्येति जीवस्याणुत्वे नेत्यर्थः ।
श्रुति तदर्थापतिभ्यां जीवस्याणुत्वं वदतस्तवमते ताभ्यामेवेश्वराणुत्वस्थापि दुर्वारत्वान्नेश्वरस्य विभुत्वसिद्धिस्तदसिद्धौवनतवेष्टसिद्धिरिति दूषयति ।
उत्क्रान्त्वादिति ।
वदन्तस्तवपक्षेप्यणुरेवसिध्येदिति सम्बन्धः ।
तत्सृष्टोत्यवतत्पदद्वयं जगत्परं प्रकृतः परमात्मासृष्ट्यादिकर्ता अन्तरिति शरीरेष्वितिशेषः शास्तानियन्तापरस्यार्द्धस्थानमर्हतीति परार्द्ध्यं परममुत्कृष्टं हार्दाकाशं तस्मिन् या बुद्धिलक्षणागुहातां प्रविष्टौ जीवेश्वरावित्यर्थः ।
प्रवेशादिति ।
शरीरान्तस्थत्वादिकमादिपदार्थः स उपक्रमे प्रकृत एषः सन्निहितः अणिमा अणुर्भाव प्रत्ययो न विवक्षिप्तः मे हृदयेन्तरेषः प्रकृतोभाक्रूपत्वादिगुणक आत्मावर्तते स च ब्रीह्माद्यपेक्षयाणुतर इत्यर्थः ।
अनन्यथा सिद्धशुत्यादि वशेन विभुत्वमीश्वरस्य शङ्कते ।
नन्विति ।
ज्यायात्महतरःराः ॥
सर्वप्रपञ्चोपादानत्वाच्च परस्य सर्वगत्वसिद्धेः तदणत्वश्रुतयः उपासनार्थादुर्ग्रहत्वाभिप्रावा उन्नेयाः प्रवेशश्रुतयश्च शरीराद्युपाधिना निर्वाह्याः ।
न च जीवोत्क्रान्त्यादि श्रुतयोपि
बुद्ध्या उपाधिनानिर्वोदुंशक्या इति शङ्क्यं तमुत्क्रामन्तं प्राणोनूत्क्रामतीति प्राणाख्य बुद्व्युत्क्रान्तेः प्रावेव जीवोत्क्रान्ति वचनात् ।
तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति टिव्यमिति नामरूपमोक्षानन्तरमपि गति श्रवणाच्च त चथानः सुसमाहितमुत्सुर्जन्यायादेवमेवायं शारीर आत्माप्राज्ञे नात्मनान्वारूढ उत्सर्जन्यातीति स्वाभाविकगत्याश्रयशकट दृष्टान्तोक्तेश्चेति चेत् ।
नैतत्सारं स वा एष महानज आत्मायोयं विज्ञानमयः घटसंवृत आकाशे नीयमाने घटे यथा घटोनियेतनाकाशं तद्वज्जीवो नभोपम इत्यादि श्रुतिषु जीवस्यापि विभुत्वश्रवणात् ॥
परस्य विभुत्वे लिङ्गमाह ।
सर्वेति ।
परमाणुत्व श्रुतीनामन्युथा सिद्धिमाह ।
तदणुत्वेति ।
उपासनार्था इति अणीयान् ब्रीहेर्वेत्या विश्रुतय इत्यर्थः ।
दुर्ग्रहत्वेति स एषोणिमेत्यादि श्रुतय इत्यर्थः ।
आसामुपासनाप्रकरणगतत्वाभावादिति भावः ।
व्यवस्थितविकल्पवाचीवाकारः प्रवेशादि श्रवणस्यान्यथा सिद्धिमाह ।
प्रवेश श्रुतयश्चेति परमेश्वरस्य स्वेछापरिगृहीत
शरीरेन्द्रिय प्रवेशोपाधिकः शरीरेष्वन्तः प्रवेश इत्यर्थः ।
ननु जीवाणुत्व श्रुति लिङ्गानामप्यन्यथा नयन सम्भवाज्जीवस्यापि स्वाभाविकं विभुत्वं किं न स्यात् तथा च न तस्याणुत्वसिद्धिरिति सिद्धान्तिनः शङ्का मनूद्यनिराकरोति ।
जीवाणुत्ववादी न चेत्यादिनातमुत्क्रामन्तमिति ।
न चात्र श्रुतौ प्राणोप्राणोत्क्रान्तेः प्रागेव जीवस्योत्क्रान्ति श्रवणेपि न केवलस्य तस्योत्क्रान्ति सिद्धिंर्बुद्धि विशिष्टस्योत्क्रान्ति सम्भवादिति वाच्यं बुद्धिप्राणयोर्भेदासिद्धेस्तयोरभेदस्यैव श्रुति सिद्धत्वाच्च तथा च श्रुतिर्यो वै प्राणः सा प्रज्ञाया वा प्रज्ञा स प्राण इति प्रज्ञाबुद्धिरित्याशयेनाह प्राणाख्या बुद्ध्यत्क्रान्तेरिति ।
नामरूपशब्दितोपाधिनिवृत्यनन्तरमपि जीवस्य ब्रह्म प्रतिगतिः श्रूयते ।
तथा च यथा उत्क्रान्ते रौपायिकत्वं न सम्भवति तथा गतेररपौपाधिकत्वं न सम्भवतीत्य मध्यमपरिमाणस्य जीवस्य स्वाभाविकमणुत्वं स्वीकर्तव्यमित्याशयेनाह ।
तथा विद्वानिति पराद्धिरण्यगर्भात् जीवस्या स्वाभाविके गत्याश्रयत्वे सत्येव दृष्टान्तविशेषः सङ्गछते न्यथा तद्वैरूप्यं स्यादित्याशयेनाह ।
तद्यथेति ।
ततत्र जीवस्य पारलोकं प्रतिगमने दृष्टां तत उच्यते ।
अनः शकठंसुसमाहितं गृहोपकरणैः पूर्णमुत्सर्जन् शब्दं कुर्वन् पायात् ।
गछेद्यथा एवं जीव ईश्वरेणान्वारूढः प्रेरितो गछति परलोक इत्यर्थः ।
तथा च जीवस्याणुत्वे
स्वाभाविके सिद्धे सत्यणुत्वविभुत्वाभ्यां जीवेश्वरयोर्भेदसिद्धिरिति भावः ।
सिद्धान्ती दूषय इति ।
नैतत् सारमिति ।
यथा परमात्मप्रकरणे श्रुतं परस्य विभुत्वमन्यथानेतुमयुक्तं तथा जीव प्रकरणे श्रुतं जीवस्य विभुत्वमप्यन्यथा नेतुमयुक्तमित्याशयेनकतम आत्मेत्यादि जीवप्रकरण गतं वाक्यं जातमुदाहरति ।
स वा इत्यादिना विज्ञानमयो जीवो महान् व्यापक आत्मेति जीवस्य व्यापकत्व श्रवणादित्यर्थः ।
नभोपम इत्यनेन स्वतो जीवस्य विभुत्वमुच्यत इत्यर्थः ।
इयं श्रुतिः प्रागेव व्याख्याता ॥
त्वन्मते प्रकृतेरेव जगदुपादानत्वेन ब्रह्मणो जगदुपादानत्वा भावात् ।
जीवस्य कायव्यूहुगत सुखदुःखोपादानत्ववदणुत्वेपि जगदुपादानत्वसम्भवाच्च ।
ततस्तस्य सर्वगत्वासिद्धेः ।
तत्प्रवेश श्रुतीनां शरीरोपाधिकत्वकल्पने जीवोत्क्रान्त्यादि श्रुतीनामपि बुद्ध्युपाधिकत्वोपगमसम्भवात् ।
पञ्चवृतिर्मनोवद्यय दिश्यत इति सूत्रभाष्ये बुद्धिप्रायोः कार्यभेदस्य प्रतिपादितत्वेन बुद्ध्यपाधिके जीवे प्रथममुत्क्रामति प्राणस्यानूत्क्रमणोपपतेः
नामरूपमोक्षानन्तरं ब्रह्मप्रामिश्रवणस्य प्राप्तरिजीवे इव प्राप्ये ब्रह्मण्यपि विभुत्वविरोधित्वात् ।
प्राकृतनामरूपविमोक्षातन्तरमर्प्य प्राकृततोकविग्रहाद्युपाधाने ब्रह्मणः प्राप्तव्यत्ववादिमने प्राप्तुर्जीवस्याप्यप्राकृत देहेन्द्रियादि सत्त्वेन तदुप्राधानेन ब्रह्मप्राप्ति श्रवणाविरोधात् ।
स्वाभाविक गत्याश्रय शकट दृष्टान्तश्रवणमात्राज्जीवस्य स्वाभाविक गति सिद्धौ गुहां प्रदिष्टाविति स्वाभाविक प्रवेशाश्रय जीवसमभिव्याहारेण ब्रह्मणोपि स्वाभाविक प्रवेशसिद्धिसम्भवात् ।
विभुत्वेन न्यथासिद्धश्रुतिसाम्यमुक्त्वापरस्परोक्त विभुत्व लिङ्गं विघटयति ।
तन्मत इति ।
प्रकृतिर्माया परस्य ब्रह्मणः सर्वप्रपञ्चोपादानत्वमुपेत्यापि न तद्विभुत्वसाधकमियत्याह ।
जीवस्येति ।
अणोरितिशेषः ।
ततः सर्वोपादान त्वात्तस्येत्यर्थः ।
जीवाणुत्वश्रुतिलिङ्गानामन्यथा नयनमपि तुल्यमेवैत्याह ।
तत्प्रवेश श्रुतीति ।
ब्रह्मप्रवेशेत्यर्थः ।
पञ्चप्राणापानादिलक्षणावृतयो यस्य मुख्यप्राणस्य सः पञ्चवृतिः प्राणः श्रुतिषु व्यपदिश्यतै बहुवृतिमत्वमात्रे च दृष्टान्तः मनो वदिति ।
प्राणापानादि वृतीनां चोछासादिकं प्रत्येत्येकं कार्यमिति द्रष्टव्यम् ।
तथा च दृष्टान्त दार्ष्टान्तिक भावेन सूत्रे मनःशब्दितबुद्धेः प्राणस्य च भेदौ निर्दिष्टः ।
स च बुद्धीन्द्रिय कार्यविषयो लोचनापेक्षया विलक्षणस्योछासादि क्रियारूपकार्यस्य प्राणे दर्शनात् ।
प्राणो बुद्ध्यादिभ्यो भिन्न इत्यादिप्रकारेण भाष्ये साधित इत्यर्थः ।
यो वै प्राणः सा प्रज्ञेति श्रुतौ प्रज्ञाप्राणयोर्भेदे सत्यपि प्रज्ञाप्राणोपहितस्य प्रत्यगात्मन एकत्वादुपहितात्प्राधान्येन तयोरेकीकरणमविरुद्धमिति प्रतर्दनाधिकरणभाष्यो प्रतिपादितत्वान्न श्रुतिविरोधोपीतिभावः ।
यतु नामरूपोपाधि निवृत्यनन्तरं जीवस्य ब्रह्मप्रतिगति श्रवणं जीवस्य विभुत्व विरोधीति तदयुक्तं तस्य ब्रह्मण्यपि विभुत्वविरोधित्वेन ब्रह्मणोपि तदंसिद्धिप्रसङ्गात् ।
लोके परिछिन्नस्यैव गन्तव्यत्वनियमदर्शनादित्याह ।
नामरूपेति ।
ननु परमते ब्रह्मणो व्यापक स्वरूपेण न मुक्तप्राप्यत्वं किन्तु लोकविशेषाद्युपहितत्वेन उपहितरूपेण प्राप्तव्य त्वं च न ब्रह्मणः स्वरूपेण व्यापकत्वविदोधीत्याशङ्क्यतुल्यमेव तत्तवमते जीवस्यापीत्याह ।
प्राकृतेति विद्वाम्नामरूपाद्विमुक्त इति श्रुतौ प्राकृतनामरूपाद्विमुक्त इत्यर्थं कल्पयता त्वया विदुषो जीवस्याप्यप्राकृतनामरूप स्वीकारेण स्वतो विभोरपि जीवस्याप्राकृतनामरूपोपाधिपरिछिन्नस्य
ब्रह्मप्रतिगन्तृत्व सम्भवान्न विभुत्व श्रुतयो जीवविषयावायनीया इत्यर्थः ॥
ब्रह्मजीवोभयान्वयि न एकस्य प्रवेश पदस्य एकरूपप्रवेशपरत्वस्य वक्तव्यत्वात् ततः परमते ब्रह्मजीवयोर्विभुत्वाणुत्वादि व्यवस्थित्य सिद्धेर्न कुतोपि भेदसिद्धिं प्रत्याशा अस्मत्मते ब्रह्मात्मैक्य परमहावाक्यानुरोधेनावान्तरवाक्यानां नेयत्वात् स्वरूपेण जीवस्य विभुत्वमौपाधिकरूपेण परिछेद इत्यादिप्रकारेण जीव ब्रह्मभेदे प्रात्यायक श्रुतीनाम्मुपपादेनं भाष्यादिषु व्यक्तं तस्मादचेतनस्य प्रपञ्चस्य मिथ्यात्वाच्चेतन प्रपञ्चस्य ब्रह्माभेदाच्च न वेदान्तानाम द्वितीये ब्रह्मणि विद्यैक प्राप्ये समन्वयस्य कश्चिद्विरोध इति ।
इति शास्त्रसिद्धान्तलेशसङ्ग्रहे द्वितीयः परिच्छेदः ॥ २ ॥
ननु प्रविष्टावित्यत्र प्रविष्टपदं जीवे स्वाभाविक प्रवेशार्थकं ब्रह्मणि तु शरीराद्युपाधिकृतप्रवेशार्थकमित्याशङ्क्य तथा सति सकृच्छृतस्य प्रतिष्टपदस्यार्थ
वैरूप्यं प्रसज्येतेतिमत्वाह ।
ब्रह्मजीवो भयेति ।
यदि च ब्रह्मणो विभुत्व श्रुत्याद्यवुरोधेन प्रवेशमान्य परत्वमेव प्रविष्टपदस्य कल्पाते ननु तद्गतविशेषपरत्वमपि तर्हि जीवस्यापि विभुत्वश्रुत्यनुरोधेन शकटदृष्टान्ते गमनादि साम्यमात्रं विवक्ष्यतेन तु स्वाभाविक गत्या श्रयत्वादिकमपीति न जीवस्य स्वाभाविकाणुत्व सिद्धिः ।
तस्य तत्सिद्धौ वा ब्रह्मणोप्यणुत्वं दुर्वारं विनिगमनाविरहादिति भावः ।
तत इति उक्त व्यवस्थितेरित्यर्थः ।
ननु परमते जीवेश्वरयोरपि विभुत्वाणुत्व श्रुतिलिङ्गानामविशेषादुभयाणुत्व श्रुतिलिङ्गानामन्यथा सिद्ध्यविशेषाच्च तयोरणुत्वं विभुत्वं वा ससान तयैव सिध्येन्नत्वे कस्य विभुत्वमपरस्याणुत्वमिति व्यवस्था सिध्येदिति यथा दोषः प्रसज्यते ।
तथा सिद्ध्यन्तेपि जीवस्य परिच्छिन्नत्व विभुत्वश्रुतिलिङ्गानामविशेषा तस्य स्वान्नाविकंविभुत्वं परिछिन्नत्वमौपाधिकमिति व्यवस्थान सिध्येदिति दोषः ।
प्रसज्यत एवेति नेत्याह ।
अस्मन्मत इति ।
ब्रह्मात्मैक्य ज्ञानस्य मुक्तिसाधनत्वातक्यानजनकानि तत्वमस्यादिवाक्यानि महावाक्यानि महावाक्यार्थज्ञानकारणी भूततत्वं पदार्थज्ञानं प्रतिसाधनभूतानि जीवस्वरूपप्रतिपादकवाक्यानीश्वर स्वरूपप्रतिपादकवाक्यानि चावान्तर वाक्यानि महावाक्यशेषत्वात्पदार्थ प्रति
पादकवाक्यानामिति प्रधानवाक्यानुरोधेन गुणभूतवाक्यानां नेयत्वादित्यर्थः ।
स्वरूपेणेति ।
जीवस्य स्वरूपेणाणुत्वे महावाक्याप्रतिपाद्य ब्रह्माभेदानुपपतेर्ब्रमणश्च स्वरूपेण पूर्णत्वाभावे बहुश्रुत्यादि विरोधादितिभावः ।
अद्वितीये ब्रह्मणि वेदान्तसमन्वयाविरोधसमर्थनरूपं परिछेदार्थमुपसंहरति ।
तस्मादिति ।
पञ्चम्यान्तं पञ्चमीभ्यां विवृणोति ।
अचेतनस्येति ।
इति श्रीमत्परमहंसपरिव्राजिकाचार्य-
श्रीमत्-स्वयम्-प्रकाशानन्द-सरस्वती–दिव्य-श्री-चरणारविन्द-संलग्न-रजो-भूतस्याच्युत-कृष्णानन्दतीर्थस्य कृतौ
शास्त्रसिद्धान्तलेशसङ्ग्रहव्याख्यायां द्वितीयः परिछेदः ॥ २ ॥
ॐ श्रीगणेशाय नमः ।