१६

अथ यदा जितवान्यतिशेखरोऽभिनवगुप्तमनुत्तममान्त्रिकम् ।
स तु तदाऽपजितो यतिगोचरं हतमनाः कृतवानपगोरणम् ॥१॥
स ततोऽभिचचार मूढबुद्धिर्यतिशार्दूलममुं प्ररुढरोषः ।
अचिकित्स्यतमो भिषग्भिरस्मादजनिष्ठास्य भगन्दराख्यरोगः ॥२॥
अचिकित्स्यभगन्दराख्यरोगप्रसरच्छोणितपकिलस्वशाटयाः ।
अजुपुप्सविशोधनादिरुपां परिचर्यामकृतास्य तोटकार्यः ॥३॥
भगन्दरव्याधिनिपीडितं गुरुं निरीक्ष्य शिष्याः समबोधयञ्शनैः ।
नोपेक्षणीयो भगवन् महामयस्त्वपीडितः शत्रुरिवर्द्धिमाप्रुयात ॥४॥
ममत्वहानाद्भवता शरीरके न गण्यते व्याधिकृताऽऽर्तिरीदृशी ।
पश्यन्त एवान्तिकवर्तिनो वयं भृशातुराः स्मः सहसा व्यथासहाः ॥५॥
चिकित्सका व्याधिनिदानकोविदाः सम्प्रच्छनीया भगवन्नितस्ततः ।
प्रत्यक्षवत्सम्प्रति सन्ति पूरुषा जीवातुवेदे गदितार्थसिद्धिदाः ॥६॥
उपेक्षमाणेऽपि गुरावनास्थया शरीरकादौ सुखमात्मनीश्वरैः ।
नोपेक्षणीयं गुरुदुःखदृश्वभिर्दुःखं विनेयैरिति शास्त्रनिश्चयः ॥७॥
स्वस्थे भवत्पादसरोरुहद्वये स्वस्था वयं यन्मधृपायिवृत्तयः ।
तस्माद्भवेतावकविग्रहो यथा स्वस्थस्तथा वाञ्छति पूज्य ना मनः ॥८॥
व्याधिर्हि जन्मान्तरपापपाको भोगेन तस्मात् क्षपणीय एषः ।
अभुज्यमानः पुरुषं न मुश्चेज्जन्मान्तरेऽपीति हि शास्त्रवादः ॥९॥
व्याधिर्द्विधाऽसौ कथितो हि विद्भिः कर्मोद्भवो धातुकृतस्तथेति ।
आद्यक्षयः कर्मण एव लीनाचिकित्सया स्याचरमोदितस्य ॥१०॥
सङ्क्षीयतां कर्मण एव सङ्क्षयाद्व्याधि; प्रवृत्तो न चिकित्स्यते मया ।
पतेच्छरीरं यदि तन्निमित्ततः पतत्ववश्यं न विभेमि किश्चन ॥११॥
सत्य गुरो न शरीरलोभः स्पृहालुत नस्तु चिराय तस्मै ।
त्वज्जीवनेनैव हि जीवनं नः पाथश्चरणां जलमेव तद्धि ॥१२॥
स्वयं कृतार्थाः परतुष्टिहेतोः कुर्वन्ति सन्तो निजदेहरक्षाम् ।
तस्माच्छरीरं परिरक्षणीयं त्वयाऽपि लोकस्य हिताय विद्वन् ॥१३॥
निर्बन्धतो गुरुवरः प्रददावनुज्ञां दिग्भ्यो भिषग्वरसमानयनाय तेभ्यः ।
नत्वा गुरुं प्रतिदिशं प्रययु ः प्रहृष्टाः शिष्याः प्रवासकुशला हरिभक्तिभाजः ॥१४॥
प्रायो नृपं कविजना भिषजो वदान्यं वित्तार्थिनः प्रतिदिनं कुशला जुषन्ते ।
तस्मादमी न्रुपपुरेषु निरीक्षणीया इत्येव चेतसि मनोरथमादधानाः ॥१५॥
तेऽतीत्य देशान् बहुलान् स्वकार्यसिद्धयै कचिद्राजपुरे भिषग्भिः ।
अवाप्य सन्दर्शनभाषणानि समानयस्तान् स्वाभिमतार्थदानैः ।
यदत्न कर्तव्यमुदीर्यतां तत्कुर्मः स्वशक्त्येति वदाज्जगौ सः ॥१७॥
उपगुदं भिषजः परिबाधते गद उदेत्य तनुं तनुमध्यगः ।
यदिदमस्य विधेयमिदं ध्रुवं वदत रोगतमस्तिमिरारयः ॥१८॥
चिरमुपे क्षतवानहमेतकं दुरितजोऽयमिति प्रतिभाति मे ।
तदपि शिष्यगणैर्निरहिंस्य हं प्रहितवान् भवदानयनाय तान् ॥१९॥
निगदिते मुन्निनेति भिषग्वरा विदधिरे बहुधा गदसत्क्रियाः ।
न च शशाम गदो बहुतापदो विमनसः पटवो भिषजोऽभवन् ॥२०॥
अथ मुनिर्विमनस्त्वसमन्वितानिदमवोचत सिद्धभिषग्वरान् ।
अटत गेहमगात्समया बहुर्गदहृते भवतामित ईयुषाम् ॥२१॥
दिनचय्म गणयन् पथिलोचनः प्रियचनो निवसेद्विरहातुरः ।
नरपिअतिर्भवतां शरण ध्रुवं स च विदेशगमं श्रुतवान्यदि ॥२२॥
रुषितवान्न च वो वितरेन्नृपः फणितजीवितमक्षतशासनः ।
तुरगवन्नृपतिश्चलमानसो भिषजमन्यमसौ विदधीत वा ॥२३॥
जनपदो विरलो गदहारकैर्बहुलरुग्णजनः प्रकृतेरतः ।
मृगयते भवतो भवतां गृहे गदिजनः सहितुं गदमक्षमः ॥२४॥
पितृकृता जनिरस्य शरीरिणः समवनं गदहारिषु तिष्ठति ।
जनितमप्यफलं भिषजं विना भिषगसौ हरिरेव तनूभृतः ॥२५॥
यदुदितं भवता वितथं न तत्तदपि न क्षमते व्रजितुं मनः ।
सुरभुवं प्रविहाय मनुष्यगाम व्रजितुमिच्छति कोऽत्न नरः सुधीः ॥२६॥
इति निगद्य ययुर्भिषजां गणा विमनसः पटवोऽपि निजान्ल गृहान् ।
अथ मुनिर्विजहन्ममतां तनौ गुरुवरो गुरुदुःखमसोढ सः ॥२७॥
प्रथितैरवनौ परः सहस्रैरगदङ्कारचयैरथाचिकित्स्ये ।
प्रबले स्ति हा भगन्दराख्ये स्मरति स्म स्मरशासनं मुनीन्द्र; ॥२८॥
स्मरशासनशासनान्नियुक्तौ द्विजवेषं प्रविधाय भूमिमाप्तौ ।
उपदेदतुरश्चिनौ च देवौ सुभुजौ साज्जनलोचनौ सुपुस्तौ ॥२९॥
यतिवर्य चिकित्सितुं न शक्या परकृत्याजनिता हि ते रुगेषा ।
इति तं समुदीर्य योगिवर्य विबुधौ तौ प्रतिजग्मतुर्यथेतम् ॥३०॥
तदनु स्वगुरोर्गदापनुत्त्यै परमन्त्रं तु जजाप जातमन्युः ।
मुहुरार्यपदेन वार्यमाणोऽप्यरिवर्गेऽप्यनुकम्पिनाऽब्जपादः ॥३१॥
अमुनैव ततो गदेन नीचः प्रतियातेन हतो ममार गुप्तः ।
मतिपूर्वकृतो महानुभावेष्यनयः कस्य भवेत्सुखोपलब्ध्यै ॥३२॥
स्वस्थः सोऽयं ब्रह्म सायं कदाचिद्धयायन् गडापूरसडार्द्रवातैः ।
आगच्छन्तं सैकते प्रत्यगच्छद्योगीशान्म गौडपादाभिधानम् ॥३३॥
पाणौ फुल्लश्वेतपकेरुहश्रीमैत्रीपात्रीभूतभासा घटेन ।
आराद्राजत्कैरवानन्दसन्ध्यारागारक्ताम्भोदलीलां दधानम् ॥३४॥
षाणौ शोणाम्भोजबुद्धया समन्ताद भ्राम्यद्भृडीमण्डलीतुल्यकुल्याम् ।
अड्गुल्यग्रासडिरुद्राक्षमालामड्गुष्ठाग्रेणासकृद्भ्रामयन्तम् ॥३५॥
आर्यस्याथो गौढपादस्य पादावभ्यर्च्यासौ शकरः पकजाभौ ।
भक्तिश्रद्धासम्भ्रमाक्रान्तचेताः प्रह्वस्तस्थावग्रतः प्राज्जलि ः सन् ॥३६॥
सिश्चन्नेनं क्षीरवाराशिवीचीसाचिव्यायाऽऽसन्नयत्नैः कटाक्षैः ।
दन्तज्योत्स्रादन्तुराश्चापि कुर्वन्नाशाः सूक्तिं सन्दधे गोण्ढपादः ॥३७॥
कचित्सर्वा वेत्सि गोविन्दनाम्रो हृद्या विद्या संसृदुद्धारकृद्या ।
कचित्तत्वं तत्त्वमानरुपं नित्यं सच्चिन्निर्मलं वेत्सि वेद्यम् ॥३८॥
भक्तया युक्ता स्वानुरक्ता विरक्ताः शान्ता दान्ताः सन्ततं श्रद्धाधानाः ।
कचित्तत्वज्ञानकामा विनीताः शुश्रूषन्ते शिष्यवर्या गुरुं त्वाम् ॥३९॥
कचिन्नित्या ः शत्रवो निर्जितास्ते कच्चित्प्राप्ताः सद्रुणाः शान्तिपूर्वाः ।
कच्चिद्योगः साधितोऽष्टाडयुक्तः कचिचित्तं साधुचित्तत्वर्ग ते ॥४०॥
इत्यदैताचार्यवर्येण तेन प्रेम्णा पृष्टः शकरः साधुशील ।
भक्तयुद्रेकाद्वाष्पपर्याकुलाक्षो बध्रन्मूर्धन्यज्जलिं व्याजहार ॥४१॥
यद्यत्पृष्टं स्पष्टमाचार्यपादैस्तत्तत्सर्व भो भविष्यत्यवश्यम् ।
कारुण्याब्धेः कल्पयुष्मत्कटाक्षैर्दृष्टस्याऽऽहुर्दुर्लभं किन्नु जन्तोः ॥४२॥
मूको वाग्मी मन्दधीः पण्डिताग्र्यः पापाचारः पुण्यनिष्ठेषु गण्यः ।
कामासक्तः कीर्तिमान्नि स्पृहाणामार्यापाडालोकतः स्यात्क्षणेन ॥४३॥
लेशं वाऽपि ज्ञातुमीष्टे पुमान्कः सीमातीतस्याद्य युष्मन्महिम्रः ।
तुष्ट्राऽत्यन्तं तत्त्व विद्यो पदेष्टा जातः साक्षाद्यस्य वैयासकिः सः ॥४४॥
आजानात्मज्ञानसिद्धं यमारादौदासीन्याज्जातमात्रं व्रजन्तम् ।
प्रेमावेशात्पुत्र पुत्रेति शोचन्पाराशर्यः पृष्ठतोऽनुप्रपेदे ॥४५॥
यश्चाऽऽहूतो योगभाष्यप्रणेत्ना पित्रा प्राप्तः स प्रपञ्चैकभावम् ।
सर्वाहन्ताशीलनाद्योगभूमेः प्रत्याक्रोश प्रातनोद्वक्षरुपः ॥४६॥
तत्तादृक्षज्ञानपाथोधियुष्मत्पादद्वन्द्वं पद्मसौहार्दहॄद्यम् ।
दैवादेतद्दीनदृग्गोचरश्चेद्भक्तस्यैतद्भागधेयं ह्यमेयम् ॥४७॥
इत्याकर्ण्याथाब्रवीद्रौडपादो वत्स श्रुत्वा वास्तवांस्त्वद्रुणौघान् ।
द्रष्टुं शान्तखान्तवन्तं मम तवां गाढोत्कण्ठागर्भितं चित्तमासीत् ॥४८॥
कृतास्त्वया भाष्यमुखा निबन्धा मत्कारिकावारिजनुःसुखार्का ।
श्रुत्वेति गोविन्दमुखात्प्रहृष्य दृगध्वनीनोऽस्मि तवाद्य विद्वन् ॥४९॥
इति स्फुटं प्रोक्तवते विनीतः सोऽश्रावयद्भाष्यमशेषमस्मै ।
विशिष्य माण्डूक्यगभाष्ययुग्मं श्रुत्वा प्रहृष्यन्निदमब्रवीत्तम् ॥५०॥
मत्कारिकाभावविबोधितादृडमाण्डूक्यभाष्यश्रवणोत्थहर्षः ।
दातुं वरं ते विदुषां वराय प्रोत्साहयत्याशु वरं वृणीष्वं ॥५१॥
स प्राह पर्यायशुकर्षिमीक्ष्य भवन्तमद्राक्षमतिष्यपूरुषम् ।
वरः परः कोऽस्ति तथाऽपि चिन्तनं चित्तत्वगं मेऽस्तु गुरो निरन्तरम् ॥५२॥
तथेति सोऽन्तर्धिमपास्तमोहे गते चिरज्जीविमुनावथासौ ।
वृत्तान्तमेतं स मुदाऽऽश्रवेभ्यः संश्रावयंस्तां क्षणदामनैषीत्‌ ॥५३॥
अथ द्युनद्यामुषसि क्षमीन्द्रो निर्वर्त्य नित्यं बिधित्स शिष्यैः ।
तीरे निदिध्यासनलासओऽभूदत्रान्तरेऽश्रूयत लोकवार्ता ॥५४॥
जम्बूद्वीपं शस्यतेऽस्यां पृथिव्यां तत्राप्येतन्मडलं भारताख्यम् ।
काश्मीराख्यं मण्डलं तत्र शस्तं यत्राऽऽस्तेऽऽसौ शारदा वागधीशा ॥५५॥
द्वारैर्युक्तं माण्डपैस्तचतुर्भिर्देव्या गेहं यत्र सर्ववित्सज्जनानां नान्ये सर्वे यत्प्रवेष्टुं क्षमन्ते ॥५६॥
प्राच्याः प्राच्यां पश्चिमाः पश्चिमायां ये चोदीच्यास्तामुदीचीं प्रपन्नाः ।
सर्वज्ञास्तद्द्वारमुद्धाटयन्तो दाक्षा नद्धं नो तदुद्धाटयन्ति ॥५७॥
वार्तामुपश्रुत्य स दाक्षिणात्यो मानं तदीयं परिमातुमिच्छन् ।
काश्मीरदेशाय जगाम हृष्टः श्रीशङ्करो द्वारमपावरीतुम ॥५८॥
द्वारं पिनद्धं किल दाक्षिणात्यं न सन्ति विद्वांस इतीह दाक्षाः ।
तां किंवदन्ती विफलां विधातुं जगाम देवीनिलयाय हृष्यन् ॥५९॥
वादिव्रातगजेन्द्रदुर्मद्घटादुर्गर्वसकर्षण
श्रीमच्छकरदेशिकेन्द्रमृगराडायाति सर्वार्थवित् ।
दूरं गच्छत वादिदुःशठगजाः सन्न्यासदंष्ट्रायुधो
वेदान्तोरुवनाश्रयस्तदपरं द्वैतं वनं भक्षति ॥६०॥
करटतटान्तवान्तमदसौरभसारभर -
स्खलदलिसम्भ्रमत्कलभकुम्भविज म्भवलः ।
हरिरिव जम्बुकानमददन्तगजान्कुजना
नपि खलु नाक्षिगोचरयतीह यतिर्हतकान् ॥६१॥
संश्रावयन्नध्वनि देशिकेन्द्रः श्रीदक्षिणद्वारभुवं प्रपेदे ।
कवाटमुद्धाटय निवेष्टुकामं ससम्भ्रमं वादिगणो न्यरौत्सीत् ॥६२॥
अयाव्रवीद्वादिगणाः स देशिकं किमर्थमेव बहुसम्भ्रमक्रिया ।
यदत्र कार्य तदुदीर्यतां शनैर्न सम्भ्रमः कर्तुमलं तदीप्सितम् ॥६३॥
यः कश्चदेत्येतु परीक्षितुं चेद्वेदाखिलं नाविदितं ममाणु ।
इत्थं भवान्वक्ति समुन्नतीच्छा दत्त्वा परीक्षां व्रज देवतालयम् ॥६४॥
षडभाववादी कणभुडापतस्थः पप्रच्छ तं स्वीयरहस्यमेकम् ।
संयोगभाजः परमाणुयुग्माज्जातं हि सूक्ष्म द्वयणुकं मतं न ः ॥६५॥
यत्स्यादणुत्वं तदुपाश्रितं तज्जायेत कस्माद्वद सर्वविचेत् ।
नो चेत्प्रभुत्वं तव वक्तमेते सर्वज्ञभाषां विहितां ब्रुवन्ति ॥६६॥
या द्वित्वसङ्ख्या परमाणुनिष्ठा सा कारणं तस्य गतस्य मात्रा ।
इतीरिते तद्वचनं प्रपूज्य स्वयं न्यवर्तिष्ट कणादलक्ष्मीः ॥६७॥
तत्रापि नैयायिक आत्तगर्वः कणाढपक्षाचरणाक्षपक्षे ।
मुक्तेर्विशेषं वद सर्वविचेन्नो चेत्प्रतिज्ञां त्यज सर्ववित्त्वे ॥६८॥
अत्यन्तनाशे गुणसडतेर्या स्थितिर्नभोवत्कणभक्षपक्षे ।
मुक्तिस्तदीये चरणाक्षपक्षे साऽऽनन्दसंवित्सहिता विमुक्तिः ॥६९॥
पदार्थभेदः स्फुट एव सिद्धस्तथेश्वरः सर्वजगद्विधाता ।
स ईशवादीत्युदितेऽभिनन्द्य नैयायिकोऽपि न्यवृतन्निरोधात् ॥७०॥
तं कापिलः प्राह च मूलयोनिः किं वा स्वतन्त्रा चिदधिष्ठिता वा ।
जगन्निदानं वद सर्ववित्त्वान्नो चेत्ववेशस्तव दुर्लभः स्यात् ॥७१॥
सा विश्वयोनिर्बहुरुपभागिनी स्वयं स्वतन्त्रा त्रिगुणात्मिका सती ।
इत्येव सिद्धान्तगतिस्तु कापिली वेदान्तपक्षे परतन्त्रता मता ॥७२॥
ततो नदन्तो न्यरुधन् सगर्वा दत्त्वा परीक्षां व्रज धाम देव्याः ।
बौद्धास्तथा सम्मथिताः पृथविव्यां बाह्यर्थैविज्ञानकशून्यवाढैः ॥७३॥
बाह्यार्थवादो द्विविधस्तदन्तरं वाच्यं विविक्षुर्यदि देवतालयम् ।
विज्ञानवादस्य च किं विभेदकं भवन्मतादब्रूहि ततः परं व्रज ॥७४॥
सौत्रान्तिको वक्ति हि वेद्यजातं लिडाधिगम्यं त्वितरोऽक्षिगम्यम् ।
तयोस्तयोर्भङ्ग्गुरताऽविशिष्टा भेदः कियान्वेदनवेद्यभागी ॥७५॥
विज्ञानवादी क्षणिकत्वमेपामडीचकारापि बहुत्वमेपः ।
वेदान्तवादी स्थिरसंविदेकेत्यडीचकारेति महान्विशेषः ॥७६॥
अथाब्रवीद्दिग्वसनानुसारी रहस्यमेकं वद सर्वविचेत ।
यदस्तिकायोत्तरशब्दवाच्यं तत्किं मतेऽस्मिन्वद देशिकाऽऽशु ॥७७॥
तत्राऽऽह देशिकवरः श्रृणु रोचते
चेज्जीवादिपश्चकममीष्टमुदाहरन्ति ।
तच्छब्दवाच्यमिति जैनमतेऽप्रशस्ते
यद्यस्ति बोद्धुमपरं कथयाऽऽशु तन्मे ॥७८॥
दत्तोत्तरे वादिगणे तु बाह्ये बभाण कश्चित्किल जैमिनीयः ।
शब्दः किमात्मा वद जैमिनीये द्रव्यं गुणो वेति ततो व्रज त्वम् ॥७९॥
नित्या वर्णाः सर्वगाः श्रोत्रवेद्या यत्तद्रूपं शब्दजालं च नित्यम् ।
द्रव्यं व्यापीत्यब्रुवज्जैमिनीया इत्येवं तं प्रोक्तवान्देशिकेन्द्रः ॥८०॥
शास्त्रेषु सर्वेष्वपि दत्तवन्तं प्रत्युत्तरं तं समपूजयंस्ते ।
द्वारं समुद्धाटय ददुश्च मार्ग ततो विवेशान्तरभूमिभागम् ॥८१॥
पाणौ सनन्दनमसाववलम्ब्य विद्याभद्रासनं तदवरोढुनाश्चचाल ।
अत्रान्तरे विधिवधूर्विबुधाग्रगण्यामाचार्यशकरमवाचदनडवाचा ॥८२॥
सर्वज्ञता तेऽस्ति पुरैव यस्मात्सर्वत्र पर्यैक्षि भवान्न चेत्ते ।
विरिश्चिरुपान्तरविश्वरुपः शिष्यः कथं स्यात्प्रथिताग्रणीःस ः ॥८३॥
सर्वज्ञतैकैव भवेन्न हेतुः पीठाधिरोहे परिशुद्धता च ।
सा तेऽस्ति वा ने ते विचार्यमेतत्तिष्ठ क्षण त्वं कुरु साहसं मा ॥८४॥
त्वं चाडनाः समुपभुज्य कलाहम्यप्रावीण्यभाजनमभूर्यतिधर्मनिष्ठः ।
आरोढुपीदृशपदं कथमर्हता ए सर्वज्ञतेव विमलत्वमपीह हेतुः ॥८५॥
नास्मिञ्शरीरे कृतकिल्बिषोऽहं जन्मप्रभृत्यम्ब न सन्दिहेऽहम् ।
व्यधायि देहान्तरसंश्रयाद्यन्न तेन लिप्येत हि कर्मणाऽन्यः ॥८६॥
इत्थं निरुत्तरपदां स विधाय देवीं सर्वज्ञपीठमधिरुह्य ननन्द सभ्यः ।
सम्मानितोऽपभ्रदसौ विबुधेंश्च वाण्या गार्ग्या कहोलमुखरैरिव याज्ञवल्क्यः ॥८७॥
वादप्रादुर्विनोदप्रतिकथनसुधीवाददुर्वारतर्क -
न्यक्कारस्वैरधाटीभरितहरिदुपन्यस्तमाहानुभाव्यः ।
सर्वज्ञो वस्तुमर्हस्त्वमिति बहुमतः स्फारभारत्यमोघ-
श्लाघाजोघुष्यमाणो जयति यतिपतेः शारदापीठवासः ॥८८॥
कुत्राप्यासीत्प्रलीनेक्षणचरणकथा कापिली कापि लीना
भग्राऽभग्रा गुरुक्तिः कचिदजनि परं भटटपादप्रवादः ।
भूमावायोगकाणादजनिमतमथाभूतवाग्भेदवार्ता
दुर्दान्तब्रह्मविद्यागुरुजनिमतमथाभूतवाग्भेदवार्ता
दुर्दान्तब्रह्मविद्यागुरुदुरुदकथादुन्दुभेर्धिन्धिमेतः ॥८९॥
काणादः क प्रणादः क च कपिलवचः काक्षिपादप्रवादः ।
काप्यन्धा योगकथा क गुरुरतिलघुः कापि भाट्टप्रघट्टम् ।
क द्वैताद्वैतवार्ता क्षणणकविवृतिः कापि पाष्ण्डषण्ड -
ध्वान्तध्वंसैकभानोजयति यतिपतेः शारदपीठवासे ॥९०॥
ततो दिविषदध्वनि त्वरितमध्वराशावली -
धुरन्धरसमीरितत्रिदशपाणिकोणाहनः ।
अरुन्द्ध हरिदन्तरं स्वरभरैर्भ्रमत्सिन्धुभि -
र्घनाघनघनारवमथमबन्धुभिर्दुन्दुभिः ॥९१॥
कचभरवहनं पुलोमजायाः कतिचिदहान्यपगर्भकं यथा स्यात् ।
गुरुशिरसि तथा सुधाशनाः स्वस्तरुकुसुमान्यथ हर्षतोऽभ्यवर्षन् ॥९२॥
इति मुनिरतितुष्टोऽध्युष्य सर्वज्ञपीठं
निजमगगुरुतायै ना पुनर्मानहेतोः ।
कतिचन विनिवेश्याथर्ष्यश्रृडाश्रमादौ
मुनिरथ वदरीं स प्राप कैश्चित्स्वशिष्यैः ॥९३॥
दिवमान्विनिनाय तत्र कांश्चित्स च पातज्जलतन्त्ननिष्ठितेभ्यः ।
कृपयापदिशन्स्वसूत्रभाष्यं विजितत्याजितसर्वदर्शनेभ्यः ॥९४॥
नितरां यतिराडुडुराजकरप्रकरप्रचुरप्रसरस्वयशाः ।
स्वमयं समयं गमयन्रमयन्हृदयं सदयं सुधियां शुशुभे ॥९५॥
एवम्प्रक रैः कलिकल्मषघ्रैः शिवावतारस्य शुभैश्चरित्रैः ।
द्वात्रिंशदत्युज्ज्वलकीर्तिराशेः समा व्यतीयुः किल शकरस्य ॥९६॥
भाष्यं भूष्यं सुशीलैरकलि कलिमलध्वंसि कैवल्यमूल्यं
हन्ताहन्ता समन्तात्कुमतिनतिकृता खण्डिता पण्डितानाम् ।
सद्यो विद्यातिताऽसौ विपथविमथनर्मुक्तिपद्याऽनवद्या
श्रेयो भूयो बुधानामधिकतरमितः शकरः किं करोतु ॥९७॥
हन्ताशोभि यशोभरैस्त्रिजगतीमन्दारकुन्देन्दुभा
मुक्ताहारपटीरहीरविहरन्नीहारतारानिभैः ।
कारुण्यामृतनिर्झरैः सुकृतिनां दैन्यानलः शून्यतां
नीतः शकरयोगिना किमधुना सौरभ्यमारभ्यताम् ॥९८॥
आक्रान्तानि दिगन्तराणि यशसा साधीयसा भूयसा
विस्मेराणि दिगन्तराणि रचितान्यत्यद्भुतैः क्रीडितैः ।
भक्ताः स्वेप्सितभुक्तैमुक्तिकलनोपायैः कृतार्थीकृता
भिक्षुक्ष्प्रापतिना किमन्यदधुना सौजन्यमातन्यताम् ॥९९॥
पारिकाक्षीश्वरोऽप्यापदुद्धारकं सेवमानतुलस्वस्तिविस्तारकम् ।
पापदावनलातापसंहारक योगिबृन्दाधिपः प्राप केदारकम् ॥१००॥
तत्रातिशीतार्दितशिष्यसघसंरक्षणायातुलितप्रभावः ।
तप्तोदकं प्रार्थयते स्म चन्द्रकलाधरात्तीर्थकरप्रधानः ॥१०१
कर्मन्दिबृन्दपतिना गिरिशोऽर्थितः सन् सन्तप्तवारिलहरीं स्वपदारविन्दात् ।
प्रावर्तयत्प्रथयती यतिनाथकीर्ति याऽद्यापि तत्र समुदश्चति तप्ततोया ॥१०२॥
इति कृतसुरकार्य नेतुमाजग्मुरेनं
रजतशिखरश्रृडं तुडमीशावतारम् ।
विधिशतमखचन्द्रोपेन्द्रवाय्वग्निपूर्वाः
सुरनिकरवरेण्याः सर्षिसघाः ससिद्धाः ॥१०३॥
विद्युद्वल्लीनियुतसमुदारब्धयुद्धैर्विमानैः
सङ्ख्यातीतैः सपदि गगनाभोगमाच्छादयन्तः ।
स्तुत्वा देवं त्रिपुरमथनं ते यतीशानवेषं
मन्दारोत्थैः कुसुमनिचयैरब्रुवन्नर्चयन्तः ॥१०४॥
भवानाद्यो देवः कवलितविषः कामदहनः
पुरारातिर्विश्वप्रभवलयहेतुस्त्रिनयनः ।
यदर्थ गां प्राप्तो भवमथन वृत्तं तदधुना
तदायाहि स्वर्ग सपदि गिरिशास्मत्प्रियकृते ॥१०५॥
उन्मीलद्विनयप्रधानसुमनोवाक्यावसाने महा
देवे सम्भृतसम्भ्रमे निजपदं गन्तुं मनः कुर्वति ।
शैलादिः प्रमथैः परिष्कृतवपुस्तस्थौ पुरस्तत्क्षणा -
दुक्षा शारदवारिदुग्धवरटाहकारहुकारकृत ॥१०६॥
इन्द्रोपेन्द्रप्रधानैस्त्रिदशपरिवृढैः स्तूयमानः प्रसुनै -
र्दिव्यैरभ्यर्च्यमानः सरसिरुहभुवा दत्तहस्ताबलम्बः ।
आरुह्योक्षाणमग्र्यं प्रकटितसुजटाजूटचन्द्रावतंसः
श्रृण्वन्नालोकशब्दं समुइदितमृषिभिर्धाम नैजं प्रतस्थे ॥१०७॥
आदित ः श्लोकाः १८४३.
इति श्रीमाधवीये तच्छारदापीठवासगः ।
सङ्क्षेपशकरजये सर्गः पूर्णोऽपि षोडशः ॥
इति श्रीमद्विद्यारण्यविरचितः श्रीमच्छडरदिग्विजयः समाप्तः ॥