१५

अथ शिष्यवरैर्युतः सहस्रैरनुयातः स सुधन्वना च राज्ञा ।
ककुभो विजिगीषुरेष सर्वाः प्रथमं सेतुमुदारधीः प्रतस्थे ॥१॥
अभवत् किल तस्य तत्र शाक्तैर्गिरिजार्चाकपटान्मधुप्रसक्तैः ।
निकटस्थवितीर्णभूरिमोदस्फुटरिखत्पटुयुक्तिमान् विवादः ॥२॥
स हि युक्तिभरैर्विधाय शाक्तान् प्रतिवग्व्याहरणेऽपि तानशक्तान् ।
द्विजजातिबहिष्कृताननार्यानकरोल्लोकहिताय कर्मसेतुम् ॥३॥
अभिपूज्य स तत्र रामनाथं सह पाण्डैयः स्ववशे विधाय चोलान् ।
द्रविडांश्च ततो जगाम काश्चीं नगरीं हस्तिगिरेर्नितम्बकाश्चीम् ॥४॥
सुरधाम स तत्र कारयित्वा परविद्याचरणानुसारि चित्रम् ।
अपवार्य च तान्त्रिकानतानीद्भगवत्याः श्रुतिसम्मतां सपर्याम् ॥५॥
निजपादसरोजसेवनायै विनयेन स्वयमागतानथाऽऽन्ध्रान् ।
अनुगृह्य स वेकाचलेशसं प्रणिपत्याऽऽप विदर्भराजधानीम् ॥६॥
अभिगम्य स भक्तिपूर्वमस्यां कृतपूजः क्रथकैशिकेश्वरेण ।
निजशिष्यनिरस्तदुष्टबुद्धीन् व्यदधाद्भैअरवतन्त्रसावलम्बान् ॥७॥
अभिवाद्य विदर्भराडावादीदथ कर्णाटवसुन्धरामियासुम् ।
भगवन् बहुभिः कपालिजालैः स हि देशो भवतामगम्यरुपः ॥८॥
न हि ते भगवद्यशः सहन्ते निहितेर्ष्याः श्रुतिषु ब्रवीम्म्यतोऽहम् ।
अहिते जगतां समुत्सहन्ते महितेषु प्रतिपक्षतां वहन्ते ॥९॥
इति वादिनि भूमिपे सुधन्वा यतिराजं निजगावधिज्यधन्वा ।
मयि तिष्ठति किं भयं परेभ्यस्तव भक्ते यतिनाथ पामरेभ्यः ॥१०॥
अथ तीर्थकराग्रणीः प्रतस्थे किल कापालिकजालकं विजेतुम् ।
निशमय्य तमागतं समागात्क्रकचो नाम कपालिदेशिकाग्र्यः ॥११॥
पितृकाननभस्मनाऽनुलिप्तः करसम्प्राप्तकरोटिरात्तशूलः ।
सहितो बहुभिः स्वतुल्यवेषैः स इति स्माऽऽह महामनाः सगर्वः ॥१२॥
भसितं धृतमित्यदस्तु युक्तं शुचि सन्त्यज्य शिरः कपालभेतत् ।
वहथाशुचि खर्परं किमर्थ न कथङ्कारमुपास्यते कपाली ॥१३॥
नरशीर्षकुशेशयैरलब्ध्वा रुधिराक्तैर्मधुना च भैरवार्चाम् ।
उमया समया सरोरुहाक्ष्या कथमाश्लिष्टवपुर्मुदं प्रयायात् ॥१४॥
इति जल्पति भैरवागमानां हृदयं कापुरुषेति तं विनिन्द्य ।
निरवासयदात्मवित्समाजात् पुरुषैः स्वैरधिकारिभिः सुधन्वा ॥१५॥
भ्रुकुटीकुटिलाननश्चलोष्ठः सितमुद्यम्य परश्वधं स मूर्खः ।
भवतां न शिरांसि चेद्विभिन्द्यां क्रकचो नाहमिति ब्रुवन्नयासीत् ॥१६॥
रुषितानि कपालिनां कुलानि प्रलयाम्भोधरभीकरारवाणि ।
अमुना प्रहितान्यतिप्रसङ्ख्यान्यभियातानि समुद्यतायुधानि ॥१७॥
अथ विप्रकुलं भयाकुलं तद्रुतमालोक्य महारथः सुधन्वा ।
कुपितः कवची रथी निषडी धनुरादाय ययौ शरान् विमुश्चन् ॥१८॥
अवनीभृति योधयत्यरींस्तांस्त्वरयैकत्न ततोऽन्यतो नियुक्ताः ।
क्रकचेन वधाय भूसुराणां द्रुतमासेदुरुदायुधाः सहस्रम् ॥१९॥
अवलोक्य कपालिसघमाराच्छमनानीकनिकाशमापतन्तम् ।
व्यथिताः प्रतिपेदिरे शरण्यं शरणं शकरयोगिनं द्विजेन्द्राः ॥२०॥
असितोमरपट्टिशत्रिशूलैः प्रजिघांसून् भृशमुज्झिताट्टहासान् ।
यतिराट् स चकार भस्मसात्तान्निजहुकारभुवाऽग्निना क्षणेन ॥२१॥
नृपतिश्च शरैः सुवर्णपुडैर्विनिकृतैः प्रतिपक्षवक्तपद्मैः ।
रणरडभुवं सहस्रसघैः समलङ्कृत्य मुदाऽगमन्मुनीन्द्रम् ॥२२॥
तदनु क्रकचो हतान् स्वकीयानरुजांश्च द्विजपुडवानुदीक्ष्य ।
अतिमात्रद्विदूयमानचेता यतिराजस्य समीपमाप भूयः ॥२३॥
कुमताश्रय पश्य मे प्रभावं फलमाप्स्यस्यधुनैव कर्मणोऽस्य ।
इति हस्ततले दधत्कपालं क्षणमध्यापदसौ निमील्य नेत्रे ॥२४॥
सुरया परिपूरितं कपालं झटिति ध्यायति भैरवागमज्ञे ।
स निपीय तदर्धमर्धमस्या निदधार स्मरति स्म भैरवं च ॥२५॥
अथ मर्त्यशिरः कपालमाली ज्वलनज्वालजटाछटस्रिशूली ।
विकटप्रकटाट्टहासशाली पुरतः प्रादुरभून्महाकपाली ॥२६॥
तव भक्तजनद्रहं दृशा सज्जहि देवेति कपालिना नियुक्तः ।
कथमात्मनि मेऽपराध्यसीति क्रकचस्यैव शिरो जहार रुष्टः ॥२७॥
यमिनामृषभेण संस्तुतः सन्नयमन्तर्धिमवाप देववर्यः ।
अखिलेऽपि खिले कुले खलानाममुमानर्चुरलं द्विजाः प्रहृष्टाः ॥२८॥
यतिराडथ तेषु तेषु देशेष्विति पाषण्डपरान् द्विजान् विमथ्नन् ।
अपरान्तमहार्णवोपकण्ठं प्रतिपेदे प्रतिवादिदर्पहन्ता ॥२९॥
विललास चलत्तरडहस्तैर्नदराजोऽभिनयन्निगूढमर्थम् ।
अवधीरितदुन्दुभिस्वनेन प्रतिवादीव महान् महारेण ॥३०॥
बहुलभ्रमवानयं जडात्मा सुमनोभिर्मथितश्च पूर्वमेव ।
इति सिन्धुमुपेक्ष्य स क्षमावानिव गोकर्णमुदारधीः प्रतस्थे ॥३१॥
अवगाह्य सरित्पतिं स तत्र प्रियमासाद्य तुषारशैलपुत्र्याः ।
स्तवसत्तममद्भुतार्थचित्रं रचयामास भुजडवृत्तरम्यम् ॥३२॥
तदनन्तरमागमान्तविद्यां प्रणतेभ्यः प्रतिपादयन्तमेनम् ।
हरदत्तसमाह्वयोऽधिगम्य स्वगुरुं सडिरते स्म नीलकण्ठम् ॥३३॥
भगवन्निह शकराभिधानो यतिरागत्य जीगीषुरार्यपादान् ।
स्ववशीकृतभट्टमण्डनादिः सह शिष्यैर्गिरिशालये समास्ते ॥३४॥
इति तद्वचनं निशम्य सम्यग्ग्रथितानेकनिबन्धरत्नहारः ।
शिवतत्परसूत्नभाष्यकर्ता प्रहसन् वाचमुवाच शैववर्यः ॥३५॥
सरितां पतिमेष शोषयेद्वा सवितारं वियतः प्रपातयेद्वा ।
पटवत्सुरवर्त्म वेष्टयेद्वा विजये नैव तथाऽपि मे समर्थः ॥३६॥
परपक्षतमिस्रचश्चदर्कैर्मम तर्कैर्बहुधा विशीर्यमाणम् ।
अधुनैव मतं निजं स पश्यत्विति जल्पन्निरगादनल्पकोपः ॥३७॥
सितभूतितरडिताखिलाडैः स्फुटरुद्राक्षकलापकम्रकण्ठैः ।
परिवीतमधीतशैवशास्त्रैर्मुनिरायान्तममुं ददर्श शिष्यैः ॥३८॥
अधिगत्य महर्षिसन्निकर्ष कविरातिष्ठिपदात्मपक्षमेषः ।
शुकतातकृतात्मशास्त्रतः प्राकपिलाचार्य इवाऽऽत्मशास्त्रपद्धा ॥३९॥
भगवन् क्षणमात्रमीक्ष्यतां तत्प्रथमं तु स्फुरदुक्तिपाटवं मे ।
इति देशिकपुडवं निवार्य व्यवदत्तेन सुरेश्वरः सुधीशः ॥४०॥
सुमते तव कौशलं विजाने स्वयमेवैष मुनिः प्रतिब्रुवीतु ।
इति तं विनिवर्त्य नीलकण्ठो यतिकण्ठीरवसम्मुख्यस्तदाऽऽसीत् ॥४१॥
परपक्षबिसावलीमरालैर्वनैस्तस्य मतं चखण्ड दण्डी ।
अथ नीलगलः स्वपक्षरक्षां जहदद्वैतमपाकरिष्णुरुचे ॥४२॥
प्रशमिंस्तदसीति यस्त्रयीकैः कथितोऽर्थः स न युज्यते त्वदिष्टः ।
अभिदा तिमिरप्रकाशयोः किं घटते हन्त विरुद्धधर्मवत्त्वात् ॥४३॥
रवितत्प्रतिबिम्बयोरिवाभिद्धटतामित्यपि तत्त्वतो न वाच्यम् ।
मुकुरे प्रतिबिम्बितस्य मिथ्यात्वगतेर्व्योमशिवादिदेशिकोक्तया ॥४४॥
मुकुरस्थमुखस्य बिम्बवक्ताद्भिदया पार्श्वगलोकलोकनेन ।
प्रतिबिम्बतमाननं मृषा स्यादिति भावत्कमतानुगोक्तिका च ॥४५॥
न च मायिकजीवनिष्ठमौढयेश्वरसार्वज्ञविरुद्धधर्मबाधत् ।
उभयोरपि चित्स्वरुपताया अविशेषादभिदैव वास्तवीति ॥४६॥
न हि मानशतैः स्थितस्य बाधाऽपरथा दत्तजलाज्जलिर्भिदा स्यात् ।
विपरीतहयत्वगोत्वबाधाद्धपश्वोर्निजरुपकैक्यघुक्तया ॥४७॥
यदि मानगतस्य हानमिष्टं न भवेत्तर्हि न चेश्वरोऽहमस्मि ।
इति मानगतस्य जीवसर्वेश्वरभेदस्य न हानमप्यभीष्टम् ॥४८॥
इति युक्तिशतैः स नीलकण्ठः कविरक्षोभयदद्वितीयपक्षम् ।
निगमान्तवचः प्रकाश्यमानं कलभः पद्मवनं यथा प्रफुल्लम् ॥४९॥
अथ नीलगलोक्तदोषजालो भगवानेवमवोचदस्तु कामम् ।
श्रृणु तत्त्वमसीति सम्प्रदायश्रुतिवाक्यस्य परावरेऽभिसन्धिम् ॥५०॥
ननु वाच्यगता विरुद्धताधीरिह सोऽसावितिवद्विरोधहाने ।
अविरोधि तु वाच्यमाददैक्यं पदयुग्मं स्फुटमाह को विरोधः॥५१॥
यदिहोक्तमतिप्रसज्जनं भो न भवेन्नो हि गवाश्वयोः प्रमाणम् ।
अभिदाघटकं तयोर्यतः स्यादुभयोर्लक्षणयाऽभिदानुभूतिः ॥५२॥
ननु मौढयसमस्तवित्त्वधर्मान्वितजीवेश्वररुपतोऽतिरिक्तम् ।
उभयोः परिनिष्ठितं स्वरुपं बत नास्त्येव यतोऽत्र लक्षणा स्यात् ॥५३॥
इति चेन्न समीक्ष्यमाणजीवेश्वररुपस्य च कल्पितत्वयुक्तया ।
तदधिष्ठितसत्यवस्तुनोऽद्धा नियमेनैव सदाऽभ्युपेयतायाः ॥५४॥
भवताऽपि तथा हि दृश्यदेहाद्यहमन्तस्य जडत्वमभ्युपेयम् ।
परिशिष्टमुपेयमेकरुपं ननु किश्चिद्धि तदेव तस्य रुपम् ॥५५॥
जगतोऽसत एवमेव युक्तया त्वनिरुप्यत्वत एव कल्पितत्वात् ।
तदधिष्ठितभूतरुपमेष्यं ननु किश्चिद्धि तदीश्वरस्य सत्यम् ॥५६॥
तदिह श्रुतिगोभयस्वरुपे निरुपाधौ न हि मौढयसर्ववित्त्वे ।
न जपाकुसुमात्तलोहितिम्रः स्फटिके स्यान्निरुपाधिके प्रसक्तिः ॥५७॥
अपि भेदधियो यथार्थतायां न भयं भेददृशः श्रुतिर्ब्रवीतु ।
विपरितदृशो ह्यनर्थयोगो न भिदाधीर्विपरीतधीर्यतः स्यात् ॥५८॥
अभिदा श्रुतिगाऽप्यतात्त्विकी चेत्पुरुपार्थश्रवणं न तद्रतौ स्यात् ।
अशिवोऽहमिति भ्रमस्य शास्त्राद्विधुमानत्वगतेरिवास्ति बाधः ॥५९॥
तदबाधितकल्पनाक्षतिर्नो श्रुतिसिद्धात्मपरैक्यबुद्धिबाधः।
निगमात् प्रबलं विलोक्यते माकरणं येन तदीरितस्य बाधः ॥६०॥
ऋषिभिर्बहुधा परात्मतत्त्वं पुरुषार्थस्य च तत्त्वमप्यथोक्तम् ।
तदपास्य निरुपितप्रकारो भवताऽसौ कथमेक एव धार्यः ॥६१॥
प्रबलश्रुतिमानतो विरोधे बलहीनस्मृतिवाच एव मेयाः ।
इति नीतिबलात्तयीविरुद्धं न ऋषीणां वचनं प्रमात्वमीयात् ॥६२॥
ननु युक्तियुतं महर्षिवाक्यं श्रुतिवद्ग्राह्यतमं परं तथा हि ।
प्रतिदेहमसौ विभिन्न आत्मा सुखदुःखादिविचित्रतावलोकात् ॥६३॥
यदि चाऽऽत्मन एकता तदानीमतिदुःखी युवराजसौख्यमीयात् ।
अमुकः ससुखोऽमुकस्तु दुःखीत्यनुभूतिर्न भवेत्तयोरभेदात् ॥६४॥
अयमेव विदन्वितश्च कर्ता न हि कर्तृत्वमचेतनस्य दृष्टम् ।
अत एव भुजेर्भवेत्स कर्ता परभोक्तत्वमतिप्रसडदुष्टम् ॥६५॥
पुरुषार्थ इहैष दुःखनाशः सकलस्यापि सुखस्य दुःखयुक्तवात् ।
अतिहेयतया पुमर्थता नो विषयपृक्तान्नवदित्यभेद्ययुक्ते ः ॥६६॥
इति चेन्न सुखादिचित्रताया मनसो धर्मतयाऽऽत्मभेदकत्वम् ।
न कथश्चन युज्यते पुनः सा घटयेत्प्रत्युत मानसीयभेदम् ॥६७॥
चितियोगविशेष एव देहे कृतिमत्ताघटकोऽप्यचेतने स्यात् ।
तदभावत एव कर्तृता स्यान्न तृणादेरिति कल्पनं वरीयः ॥६८॥
विषयोत्थसुखस्य दुःखयुक्तवेऽप्यलयं ब्रह्मसुखं न दुःखयुक्तम् ।
पुरुषार्थतया तदेव गम्यं न पुनस्तुच्छकदुःखनाशमात्रम् ॥६९॥
इति युक्तिशतोपबृंहितार्थैर्वचनैः श्रुत्यवरोधमौविदल्लैः ।
यतिरात्ममतं प्रसाध्य शैवं परकृद्दर्शनदारुणैरजैपीत् ॥७०॥
विजितो यत्रिभूभूता स शैवः सह गर्वेण विसृज्य च स्वभाष्यम् ।
शरणं प्रतिपेदिवान् महर्षि हरदत्तप्रमुखैः सहाऽऽत्मशिष्यैः ॥७१॥
यमिनामृषभेण नीलकण्ठं जितमाकर्ण्य मनीपिधुर्यवर्यम् ।
सहसोदयनादयः कवीन्द्राः परमद्वैतमुपश्चकम्पिरे स्म ॥७२॥
विषयेषु वितत्य नैजभाष्याण्यथ सौराष्ट्रमुखेषु तत्र तत्र ।
बहुधा विबुधैः प्रशस्यमानो भगवान् द्वारवतीं पुरीं विवेश ॥७३॥
भुजयोरतितप्तशख चक्राकृतिलोहाहतसम्भृतव्रगाकाः ।
शरदण्डसहोदरोर्ध्वपुण्ड्रास्तुलसीपर्णसनाथकर्णदेशाः ॥७४॥
शतशः समवेत्य पाश्चरात्रस्त्वमृतं पश्चभिदाविदां वदन्तः ।
मुनिशिष्यवरैरतिप्रगल्भैर्मृगरजैरिव कुज्जराः प्रभग्राः ॥७५॥
इति वैष्णवशैवशाक्तसौरप्रमुखानात्मवशंवदान्विधाय ।
अतिवेलवचोझरीनिरस्तप्रतिवाद्युज्जयिनीं पुरीमयासीत् ॥७६॥
सपदि प्रतिनादितः पयोदस्वनशककुलगेहकेकिजालैः ।
शशभृन्मुकुटार्हणामृदडध्वनिरश्रूयत तत्र मूर्छिताशः ॥७७॥
मकरध्वजविद्विडाप्तिविद्वाञ्श्रमहृत्पुष्पसुगन्धवन्मरुद्भिः ।
अगरुद्भवधूपधूपिताशं स महाकलनिवेशनं विवेश ॥७८॥
भगवानभिवन्द्य चन्द्रमौलिं मुनिवृन्दरैरभिवन्द्यपादपद्मः ।
श्रमहारिणि मण्डपे मनोज्ञे स विशश्राम विसृत्वरप्रभावः ॥७९॥
कवये कथयास्मदीयवार्तामिह सौम्येति स भट्टभास्कराय ।
विससर्ज वशंवदाग्रगण्यं मुनिरभ्यर्णगतं सनन्दनार्यम् ॥८०॥
अभिरुपकुलावतंसभूतं बहुधाव्याकृतसर्ववेदराशिम् ।
तमयत्ननिरस्तदुः सपत्नं प्रतिपद्येत्थमुवाच वावदृकः ॥८१॥
जयति स्म दिगन्तगीतकीर्तिर्भगवाञ्शकरयोगिचक्रवर्ती ।
प्रथयन् परमाद्वितीयतत्त्वं शमयंस्तत्परिपन्थिवादिदर्पम् ॥८२॥
स जगाद बुधाग्रणीर्भवन्तं कुमतोत्प्रेक्षितसूववृत्तिजालम् ।
अभिभूय वयं त्रयीशिखानां समवादिष्म परावरेऽभिसन्धिम् ॥८३॥
तदिदं परिगृह्यतां मनी षिन मनसाऽऽलोच्य निरस्य दुर्मतं स्वम् ।
अथवाऽस्मदुदग्रतर्कवज्रमतिघातात् परिरक्ष्यतां स्वपक्षः ॥८४॥
इति तामवहेलपूर्ववर्णा गिरमाकर्ण्य तदा स लब्धवर्णः ।
यशसां निधिरीषदात्तरोषस्तमुवाच प्रहसन् यतीन्द्रशिष्यम् ॥८५॥
ध्रुवमेष न शुश्रुवानुदन्तं मम दुर्वादिवचस्ततीर्नुदन्तम् ।
परकीर्तिबिसाकुरानन्दन्तं विदुषां मूर्धसु नानटत्पदं तम् ॥८६॥
मम वल्गति सूक्तिगुम्फवृन्दे कणभुग्जल्पितमम्पतामुपैति ।
कपिलस्य पलायते प्रलापः सुधियां कैव कथाऽधुनातनानाम् ॥८७॥
इति वादिनमब्रवीत् सनन्दः कुशलोऽथैनमविज्ञ माऽवमंस्था ः ।
न हि दारितभूधरोऽपि टकः प्रभवेद्वज्रमणिप्रभेदनाय ॥८८॥
स तमेवमुदीर्य तीर्थकीर्तेरुपकण्ठं प्रतिपद्य सद्विदग्र्यः ।
सकलं तदवोचदानुपूर्व्या स महात्माऽपि यतीशमाससाद ॥८९॥
अथ भास्करमस्करिप्रवीरौ बहुधाक्षेपसमर्थनप्रवीणौ ।
बहुभिर्व्वनैरुदारवृत्तैर्व्यदधातां विजयैषिणौ विवादम् ॥९०॥
अनयोरतिचित्रशद्वशय्यां दधतोर्दुर्नयभेदशक्तयुक्तयोः ।
पटुवादमृधेऽन्तरं तटस्थाः श्रुतवन्तोऽपि न किश्चनान्वविन्दन् ॥९१॥
अथ तस्य यतिः समीक्ष्य दाक्ष्यं निजपक्षाब्जशरज्जाडाब्जभूतम् ।
बहुधाऽऽक्षिपदस्य पक्षमार्यो विबुधानां पुरतोऽप्रभातकक्ष्यम् ॥९२॥
अथ भास्करवित्स्वपक्षगुप्त्यै विधुतो वाग्ग्मिवरः प्रगल्भयुक्तया ।
श्रुतिशीर्षवचः प्रकाश्यमेवं कविरद्वैतमपाकरिष्णुरुचे ॥९३॥
प्रशमिंस्त्वदुदीरितं न युक्तं प्रकृतिर्जीवपरात्मभेदिकेति ।
न भिनत्ति हि जीवगेशगा वोभयभावस्य तदुत्तरोद्भवत्वात् ॥९४॥
मुनिरेवमिहोत्तरं बभाषे मुकुरो वा प्रतिबिम्बविम्बभेदी ।
कथमीरय वक्तमात्रगश्चेचितिमात्राश्रिदियं तथेति तुल्यम् ॥९५॥
चितिमात्रगप्रकृत्युपाधेर्जहतो बिम्बपरात्मपक्षपातम् ।
प्रतिबिम्बितजीवपक्षपातो मुकुरस्येव विरुध्यते न जातु ॥९६॥
अविकारिनिरस्तसडबोधैकरसात्माश्रयता न युज्यतेऽस्याः ।
अत एव विशिष्टसंश्रितत्वं प्रकृतेः स्यादिति नापि शकनीयम् ॥९७॥
न हि मानकथा विशिष्टगत्वे भवदापादित ईक्षते तथा हि ।
अहमज्ञ इति प्रतीतिरेषा न हि मानत्वमिहाश्रुते तथा चेत् ॥९८॥
अनुभव्यहमित्यपि प्रतीतेरनुभूतेश्च विशिष्टनिष्ठता स्यात् ।
अजडानुभवस्य नो जडान्तः करणस्थत्वमितीष्टता न तस्याः ॥९९॥
ननु दाहकता यथाग्नियोगादधिकूटं व्यपदिश्यते तथैव ।
अनुभूतिमदात्मयोगतोऽन्तः करणे सा व्यपदिश्यतेऽनुभूतिः ॥१००॥
इति चेन्मैवमिहापि तस्य मायाश्रयचिन्मात्रयुते तथोपचारः ।
न पुनस्तदुपाधियोगतोऽन्तः करणस्येति समाऽन्यथागतिर्हि ॥१०१॥
न च तत्र हि बाधकस्य सत्वादियमस्तु प्रकृतेर्न साऽस्त्यबाधात् ।
इति वाच्यमिहापि तज्जचित्ते तदुपाश्रित्ययुतेश्च बाधकत्वात् ॥१०२॥
अधिसुप्त्यपि चित्तवर्ति तत्स्याद्यदि चाज्ञानमिदं हृदाश्रितं स्यात् ।
तदिहास्ति न मानह्वुक्तरीत्या प्रकृतेर्दृश्यविशिष्टनिष्ठतायाम् ॥१०३॥
ननु न प्रतिबन्धिकैव सुप्ताविति सा दूरत एव चिद्रतेति ।
प्रतिबन्धकशून्यता तु सुप्तेः प्रमात्मैक्यगतः सतेति वाक्यात ॥१०४॥
न च तत्र च तत्स्थितिप्रतीतिः सति सम्पद्य विदुर्न हीति वाक्यात् ।
श्रुतिगीस्तसधिक्षिपत्यभावप्रतिपत्तेर्न च निह्रवोऽत्र नेति ॥१०५॥
किमु नित्यमनित्यमेव चैतत्प्रथमो नेह समस्ति युक्तयभावात् ।
अनिवर्तकसत्वतोऽस्य नान्त्यो न हि भिन्द्यादविरोधि चित्प्रकाशः ॥१०६॥
न च तच्छमयेज्जड प्रकाशोऽप्यविरोधात् सुतरां जडत्वतोऽस्य ।
तदिहाप्रतिबन्धकत्वमस्य प्रभवेत् किन्त्विह तद् भ्रमाग्रहादि ॥१०७॥
इति चेदिदमीरय भ्रमः को मनुजोऽहं त्विति शेमुषीति चेन्न ।
अतिविस्मृतिशीलता तवाहो गदितुः सर्वपदार्थसकरस्य ॥१०८॥
प्रमितित्वमुपाश्रयन् प्रतीतेरमुकः खण्ड इति स्वाशास्त्रसिद्धात् ।
भिदभिदद्वयगोत्तरत्वहेतोर्धियमेतां तु किमित्युपेक्षसे त्वम् ।॥१०९॥
अनुमानमिदं तथा च सिद्धं विमता धीः प्रमितिर्भिदाभिदत्वात् ।
इह चारु निदर्शनं भवेत् सा तव खण्डोऽयमिति प्रतीतिरेषा ॥११०॥
ननु संहननात्मधीः प्रमाणं न भवत्येव निषिद्धयमानगत्वात् ।
इदमिति प्रतिपन्नरुप्यधीवत्प्रबला सत्प्रतिपक्षतेति चेन्न ॥१११॥
व्यभिचारयुतत्वतोऽस्य खण्ड ः पशुरित्यत्र तदन्यधीस्थमुण्डे ।
इतरत्र निषिध्यमानखण्डोल्लिखितत्वेन निरुक्तहेतुमत्त्वात् ॥११२॥
ननु हेतुरयं विवक्ष्यतेऽत्र प्रतिपन्नोपधिके निषेधगत्वम् ।
इति चेन्न विवक्षितस्य हेतोर्व्यभिचारात् पुनरप्यमुत्र चैव ॥११३॥
ननु गोत्व उपाधिके त्वमुष्य प्रतिपन्नस्य हि तत्र नो निषेधः ।
अपि तु प्रथमानमुण्ड इत्यत्र तथा च व्यभिचारिता न हेतोः ॥११४॥
इति चेन्न विकल्पनासहत्वात् किमु खण्डस्य तु केवले निषेधः ।
उत गोत्वसमन्विते स मुण्डे प्रथमो नो घटते प्रसक्तयभावात् ॥११५॥
न हि जात्वपि खण्डके प्रसक्तः परमुण्डास्त्विति सम्प्रसक्तयभावः ।
चरमोऽपि न गोत्वयुक्तमुण्डे खलु खण्डस्य निषेधकाल एव ॥११६॥
स्वविशेषणभूतगोत्व एव स्फुटमेतस्य निषेधनं श्रुतं स्यात् ।
तदिहोदितहेतुसत्त्वतोऽस्य व्यभिचारो दृढवज्रलेप एव ॥११७॥
ननु भातितरामुपाधिरत्नादलदेतद्वयवहर्तृतेति चेन्न ।
अहमोऽनुभवेन साधनव्यापकभावादवगत्यनन्तंर च ॥११८॥
ननु तद्वयवहारसञ्छिदाया इह तत्केन कमित्यनेन मुक्तौ ।
श्रुतिवाक्यगतेन सम्प्रतीतेर्व्यवहर्तुर्न कथं छिदेति चेन्न ॥११९॥
तदिदं घटते मतेऽस्मदीये तदबोधोल्लसितत्वतोऽखिलस्य ।
तदबोधलये लयोपपत्तेर्जगतः सत्यतया छिदा न ते स्यात् ॥१२०॥
ननु पश्चसु तु स्थलेषु भेदो हृभिदा नो तु शरीरदेहिनोस्ते ।
प्रथितस्थलपश्चकेतरत्वात् फलिता ह्यत्र तथा च हेत्वसिद्धिः ॥१२१॥
इति चेन्न विकल्पनासहत्वान्मिलितानां भिदभेदतन्त्रता किम् ।
उत वा पृथगेव तत्र नाऽऽद्यो मिलिताः पश्च न हि कचिद्यतः स्युः ॥१२२॥
चरमोऽपि न युज्यते तदाऽडाडिकभावस्य च तन्त्नता न किं स्यात् ।
न च योजकगौरवं च दोषः प्रकृते तस्य तवापि सम्मतत्वात् ॥१२३॥
अपि चान्यतमस्य जातितद्वत्प्रभृतीनां घटकत्व आग्रहश्चेत् ।
अपि सोऽत्र न दुर्लभश्चिदात्माडकयोः कारणकार्यभावभावात् ॥१२४॥
न च वाच्यमिदं परात्मजत्वात्सकलस्यापि न जीवकार्यतेति ।
तदभेदत एव सर्वसस्याप्युपपत्तेरिह जीवकार्यताया ः ॥१२५॥
तदसिद्धिमुखानुदोषानुदयादुक्तनयस्य निर्मलत्वम् ।
भ्रमधीप्रमितित्ववेदिनोऽतस्तव न भ्रान्तिपदार्थ एव सिध्येत् ॥१२६॥
अपि च भ्रम एष किं तवान्तः करणस्येति चिदात्मनोऽथवाऽसौ ।
परिणाम इहाऽऽदिमो न तस्याऽऽत्मगतत्वानुभवस्य भङ्गपत्तेः ॥१२७॥
ननु रक्ततमप्रसूनयोगात् स्फटिके संस्फुरणं यथाऽरुणिम्र ः ।
भ्रमसंयुतचित्तयोगतोऽस्य भ्रमणस्यानुभवस्तथाऽऽत्मनि स्यात् ॥१२८॥
इति चेदयमीरयाऽऽत्मयोगो भ्रमणस्याऽऽश्रित एष सन्नसन्वा ।
प्रथमो घटते न संसृजेस्तेऽपरथाख्यातिवदस्य शून्यकत्वात् ॥१२९॥
चरमोऽपि न युज्यतेऽपरोक्षप्रथनस्यानुपपद्यमानतायाः ।
परिणामविशेष आत्मनोऽसौ भ्रम इत्येष न युज्यतेऽन्त्यपक्षः ॥१३०॥
असभागतयाऽऽत्मनो निरस्तेतरयुक्तेः परिणत्ययोग्यतायाः ।
परिणत्ययुजेश्च योग्यतायामपि बुद्धयाकृतितश्चिदात्मनोऽस्य ॥१३१॥
न हि नित्यचिदाश्रयप्रतीचः परिणामः पुनरन्यचित्स्वरुपः ।
गुणयोः समुदायगत्ययोगाद्रुणतावान्तरजातितः सजात्योः ॥१३२॥
युगपत्समवैति नो हि शौक्लयद्वयकं यत्र च कुत्रचिद्यदेतत् ।
ननु चिन्न गुणो गुणी तथा च प्रसरेन्नोदितदुष्टतेति चेन्न ॥१३३॥
कटकाश्रयभूतदीप्तहेम्रो रुचकाधारकभाववत्तथैव ।
अविनाशिचिदाश्रयस्य भूयोऽन्यचिदाधारतया स्थितेरयोगात् ॥१३४॥
न च संस्कृतिरग्रहोऽप्यविद्या भ्रमशब्दार्थनिरुक्तयसम्भवेऽपि ।
भ्रमसञ्ज्ञितवस्त्वसम्भवेन भ्रमसम्पादितसंस्कृतेरयोगात् ॥१३५॥
अपि नाग्रहणं चितेरभावश्चितिरुपग्रहणस्य नित्यतायाः ।
तदसम्भवतो न वृत्त्यभावस्तदभावेऽपि चिदात्मनोऽवभासात् ॥१३६॥
न च भज्जकमीक्ष्यते न तस्योपगमे दुःखजडानृतात्मकस्य ।
इति वाच्यमखण्डवृत्तिरुढेश्वरबोधस्य निवर्तकत्वयोगात् ॥१३७॥
अपि चेष्टतदन्यहेतुधीजे जगतः कृत्यकृती न ते घटेते ।
सकलव्यवहारसकरत्वात्तदलं जीवनिकाऽपि दुर्लभा ते ॥१३८॥
इति युक्तिशतैरमर्त्यकीर्तिः सुमतीन्द्रं तमतन्द्रितं स जित्वा ।
श्रुतिभावविरोधिभावभाजं विमतग्रन्थममन्थरं ममन्थ ॥१३९॥
इति भास्करदुर्मतेऽभिभूते भगवत्पादकथासुधा प्रसस्रे ।
घनवार्षिकवारिवाहजाले विगते शारदचन्द्रचन्द्रिकेव ॥१४०॥
स कथाभिरवन्तिषु प्रसिद्धान् विबुधान् बाणमयूरदण्डिमुख्यान् ।
शिथिलीकृतदुर्मताभिमानान्निजभाष्यश्रवणोत्सुकांश्चकार ॥१४१॥
प्रतिपद्य तु बाह् लिकान् महर्षौ विनयिभ्यः प्रविवृण्वति स्वभाष्यम् ।
अवदन्नसहिष्णवः प्रवीणाः समये केचिदथाऽऽर्हताभिधाने ॥१४२॥
ननु जीवमजीवमास्रवं च श्रितवत्संवरनिर्जरौ च बन्धः ।
अपि मोक्ष उपैषि सप्तसङ्ख्यान्न पदार्थान् कथमेव सप्तभङ्गया ॥१४३॥
कथयाऽऽर्हत जीवमस्तिकायं स्फुटमेवंविध इत्युवाच मौनी ।
अवदत्स च देहतुल्यमनो दृढकर्माष्टकवेष्टतश्च विद्वन् ॥१४४॥
अमहाननणुर्घटादिवत्स्यात्स न नित्योऽपि च मानुषाच देहात् ।
गजदेहमयन्विशेन्न कृत्स्रं प्रविशेच प्लुषिदेहमप्यकृत्स्रः ॥१४५॥
उपयान्ति च केचन प्रतीका महता संहननेन सडमेऽस्य ।
अपयान्त्यधिजग्मुषोऽल्पदेहं तदयं देहसमः समश्रुतेश्च ॥१४६॥
उपयन्त इमे तथाऽपयन्तो यदि वर्ष्मेव न जीवतां भजेयुः ।
प्रभवेयुरनात्मन ;कथं ते कथमात्प्रावयवाः प्रयन्तु तस्मिन् ॥१४७॥
जनितारहिताः क्षयेण हीनाः समुपायान्त्यपयान्ति चाऽऽत्मनस्ते ।
अमुकोपचितः प्रयाति कृत्स्रं त्वमुकैश्चापचितः प्रयात्यकृत्स्रम् ॥१४८॥
किमचेतनतोत चेतनत्वं वद तेषां चरमे विरुद्धमत्या ।
वपुरुन्मथितं भवेत्तु पूर्वे बत कार्त्न्येन वपुर्न चेतयेयुः ॥१४९॥
चलयन्ति रथं यथैकमत्या बहवो वाजिन एवमप्रतीताः ।
इतरेतरमडमेजयन्तु ज्ञपते चेतनतामपि प्रपद्य ॥१५०॥
बहवोऽपि नियामकस्य सत्त्वात्सुमते तत्न भजेयुरैकमत्यम् ।
कथमत्र नियामकस्य तद्वद्विरहात् कस्यचिदप्यदो घटॆत ॥१५१॥
उपयान्ति च चापयान्ति जीवावयवाः किन्तु महत्तरे शरीरे ।
विकसन्ति च सकुलन्त्यनिष्टे यतिवर्यात्र निदर्शनं जलौका ॥१५२॥
यदि चैवममी सविक्रियत्वाद्धटवते च विनश्वरा भवेयुः ।
इति नश्वरताम प्रयाति जीवे कृतनाशाकृतसडमौ भवेताम् ॥१५३॥
अपि चैवमलाबुवद्भवाब्धौ निजकर्माष्टकभारमग्रजन्तोः ।
सततोर्ध्वगतिस्वरुपमोक्षस्तव सिद्धान्तसमर्थितो न सिध्येत् ॥१५४॥
अपि साधनभूतसप्तभङ्गिनयमप्यार्हत नाऽऽद्रियामहे ते ।
परमार्थसतां विरोधभाजां स्थितिरेकत्र हि नैकदा घटेत ॥१५५॥
इति माध्यमिकेषु भग्रदर्पेष्वथ भाष्याणि स नैमिशे वितत्य ।
दरदान् भरतांश्च शूरसेनान् कुरुपाश्चालमुखान् बहूनजैषीत् ॥१५६॥
पटुयुक्तिनिकृत्तसर्वशास्त्रं गुरुभटटोदयनादिकैरजय्यम् ।
स हि खण्डनकारमूढदर्प बहुधा व्युद्य वशंवदं चकार ॥१५७॥
तदनन्तरमेष कामरुपानधिगत्याभिनवोपशब्दगुप्तम् ।
अजयत्किल शाक्तभाष्यकारं स च भग्रो मनसेदमालुलोचे ॥१५८॥
निगमाब्जविकासिवालभानोर्न समोऽमुष्य विलोक्यते त्रिलोक्याम् ।
न कथश्चन मद्वशंवदोऽसौ तदमुं दैवतकृत्यया हरेयम् ॥१५९॥
इति गूढमसौ विचिन्त्य पश्चात् सह शिष्यैः सहसा स्वशाक्तभाष्यम् ।
परिहृत्य जनापवादभीत्या यमिनः शिष्य इवान्ववर्ततैषः ॥१६०॥
निजशिष्यपदं गतानुदीच्यानिति कृत्वाऽथ विदेहकौशलाद्यैः ।
विहितापचितिस्तथाऽडवडेष्वयमास्तीर्थ यशो जगाम गौडान् ॥१६१॥
अभिभूय मुरारिमिश्रवर्य सहसा चोदयनं विजित्य वादे ।
अवधूय च धर्मगुप्तमिश्रं स्वयशः प्रौढमगापयत्स गौडान् ॥१६२॥
पूर्व येन विमोहिता द्विजवरास्तस्यासतोऽरीन् कलौ
बुद्धस्य प्रबिभेद मस्करिवरस्तान् भास्करादीन् क्षणात् ।
शास्त्रम्रायविनिन्दकेन कुधिया कूटप्रवादाग्रहा -
न्निष्णातो निगमागमादिषु मतं दक्षस्य कूटग्रहे ॥१६३॥
शाक्तैः पाशुपतैरपि क्षपणकैः कापालिकैर्वैष्णवै -
रप्यन्यैरखिलैः खिलं खलु खलैर्दुर्वादिभिर्वैदिकम् ।
मार्ग रक्षितुमुग्रवादिविजयं नो मानहेतोर्व्यधा -
त्सर्वज्ञो न यतोऽस्य सम्भवति सम्मानग्रहग्रस्तता ॥१६४॥
दिष्टे पकजविष्टरेण जगतामाद्येन तत्सूनुभि -
र्निर्दिष्टे सनकादिभिः परिचिते प्राचेतसाद्यैरपि ।
श्रौताद्वैतपथे परात्मभिदुरान् दुर्वादिनः कण्टकान्
प्रोद्धृत्याथ चकार तत्र करुणो मोक्षाध्वगक्षुण्णताम् ॥१६५॥
शान्तिर्दान्तिविरागते ह्युपरतिः क्षान्तिः परैकाग्रता
श्रद्धेति प्रथिताभिरेधिततनौ षडवक्तवन्मातृभिः ।
भिक्षुक्षोणिपतौ पिचण्डिलतरोच्चण्डातिकण्डूचल -
त्पाखण्डासुरखण्डनैकरसिके बाधा बुधानां कुतः ॥१६६॥
यत्राऽऽरम्भजकाहलाकलकलैर्लोकायतो विद्रुतः
काणाः यत्राऽऽरम्भजकाहलाकलकलैर्लोकायतो विद्रुतः
काणाः काण्भुजास्तु सैन्यरजसा साङ्ख्यैर्धृताऽसाङ्ख्यधीः ।
युद्धवा तेषु पलायितेषु सहसा योगाः सहैवाद्रवन्
को वा वादिभटः पटुर्भुवि भवेद्वस्तुं पुरस्तान्मुनेः ॥१६७॥
उच्चण्डे पणबन्धबन्धुरतरे वाचंयमक्ष्मापतेः
पूर्व मण्डनखण्डने समुदभूद्यो डिण्डिमाडम्बरः ।
जाताः शब्दपरम्परास्तत इमाः पाखण्डदुर्वादिना
मद्य श्रोत्रातटाटवीषु दधते दावानलज्वालताम् ॥१६८॥
बुद्धो युद्धसमुद्यतः किल पुनः स्थित्वा क्षणाद्विद्रुतः
कोणे द्राकणभुग्व्यलीयत तमः स्तोमावृतो गौतमः ।
भग्रोऽसौ कपिल ः पलायत ततः पातज्जलाश्चाज्जलिं
चक्रुस्तस्य यतीशितुश्चतुरता केनोपमीय़ेत सा ॥१६९॥
हस्तग्राहं गृहीताः कतिचन समरे वैदिका वादियोधाः
काणादाद्याः परे तु प्रसभमभिहता हन्त लोकायताद्याः ।
गाढं बन्दीकृतास्ते सुचिरमथ पुनः स्वस्वराज्ये नियुक्ताः
सेवन्ते तं विचित्रा यतिधरणिपतेः शूरता वा दया वा ॥१७०॥
शान्त्याद्यर्णववाडवानलशिखा सत्याभ्रवात्या दया -
ज्योत्स्रादर्शनिशाऽथ शान्तिनलिनीराकाशशाकद्युति ः ।
आस्तिक्यद्रुमदावपावकनवज्वालावली सत्कथा -
हंसीप्रावृडखण्डि दण्डिपतिना पाखण्डवामण्डली ॥१७१॥
अद्वैतामृतवर्षिभि ः पग्गुरुव्याहारधाराधरैः
कान्तैर्हन्त समन्ततः प्रसृमरैरुत्कृत्ततापत्रयैः ।
दुर्भिक्षं स्वपरैकताफलगतं दुर्भिक्षुसम्पादितं
शान्तं सम्प्रति खण्डिताश्च निबिडाः पाखण्डचण्डातपाः ॥१७२॥
शान्तानां सुभटाः कपालिकपतद्ग्रहव्यापृताः
काणादप्रतिहारिणः क्षपणकक्षोणीशवैतालिकाः ।
सामन्ताश्च दिगम्बरान्वयभुवश्चार्वाकवंशाङ्कुरा
नव्याः केचिदलं मुनीश्वरगिरा नीताः कथाशेषताम् ॥१७३॥
इति सकलदिशासु द्वैतवार्तानिवृतौ स्वयमथ परितस्तारायमद्वैतवर्त्म ।
प्रतिदिनमपि कुर्वन् सर्वसन्देहमोक्षं रविरिव तिमिरौघे सम्प्रशान्ते महः स्वम् ॥
इति श्रीमाधवीये तत्तदाशाजयकौतुकी ।
सङ्क्षेपशकरजये मार्गः पश्चदशोऽभवम् ॥१५॥
आदितः श्लोकाः १७३६.