१४

अथाब्जपात् कर्तुमनाः स तीर्थयात्रामयाचिष्ट गुरोरनुज्ञाम् ।
देया गुरो मे भगवन्ननुज्ञा देशान्दिदृक्षे बहुतीर्थयुक्तान् ॥१॥
स क्षेत्रवासो निकटे गुरोर्यो वासस्तदीयाड् घ्रिजलं तीर्थम् ।
गुरुपदेशेन यदात्मदृष्टिः सैव प्रशस्ताऽखिलदेवदृष्टिः ॥२॥
शुश्रूषमाणेन गुरोः समीपे स्थेयं न नेयं च ततोऽन्यदेशे ।
विशिष्य मार्गश्रमकर्शितस्य निद्राभिभूत्या किमु चिन्तनीयम् ॥३॥
द्विधा हि सन्न्यास उदीरितोऽयं विबुद्धतत्त्वस्य च तद्बुभुत्सोः ।
तत्त्वपदार्थैक्य उदीरितोऽयं यत्नात्त्वमर्थः परिशोधनीयः॥४॥
सम्भाव्यते क च जलं क च नास्ति पाथः
शय्यास्थलं कचिदिहास्ति न च क चास्ति ।
शय्यास्थलीजलनिरीक्षणसक्तचेताः
पान्थो न शर्म लभते कलुषीकृतात्मा ॥५॥
ज्वरातिसारादि च रोगजालं बाधेत चेत्तर्हि न कोऽप्युपायः ।
स्थातुं च गन्तुं च न पारयेत तदा सहायोऽपि विमुश्चतीमम् ॥६॥
स्रानं प्रभाते न च देवतार्चनं क चोक्तशौचं क च वा समाधयः ।
क चाशनं कुत्र च मित्रसङ्गतिः पान्थो न शाकं लभते क्षुधातुरः॥७॥
नास्त्युत्तरं गुरुगिरस्तदपीह वक्ष्ये सत्यं यदाह भगवान गुरुपाश्चवासः ।
श्रेयानिति प्रथमसंयमिनामनेकान् देशानवीक्ष्य हृदयं न निराकुलं मे ॥८॥
सर्वत्र न कापि जलं समस्ति पश्चात् पुरस्तादथवा विदुक्षु ।
मार्गो हि विद्येत न सुव्यवस्थः सुखेन पुण्यं क नु लभ्यतेऽधुना ॥९॥
जन्मान्तरार्जितमघं फलदानहेतो -
र्व्याध्यात्मना जनिमुपैति न नो विवादः ।
साधारणादिह च वा परदेशके वा
कर्म ह्यभुक्तमनुवर्तत एव जन्तुम् ॥१०॥
इह स्थितं वा परतः स्थितं वा कालो न मुश्चेत् समयागतश्चेत् ।
तद्देशगत्याऽमृत देवदत्त इत्यादिकं मोहकृतं जनानाम् ॥११॥
मन्वादयो मुनिवराः खलु धर्मशास्त्रे धर्मादि सङ्कुचितमाहुरतिप्रवृद्धम् ।
देशाद्यवेक्ष्य न तु तत्सरणिं गतानां शौचाद्यतिक्रमकृतं प्रभवेदघं न ः ॥१२॥
दैवेऽनुकुले विपिनं गतो वा समप्रुयाद्वाञ्छितमन्नमेषः ।
ह्रियेत नश्येदपि वा पुरस्थं तस्मिन् प्रतीपे तत एव सर्वम् ॥१३॥
गृहं परित्यज्य विदेशगो ना सुखं समगच्छति तीर्थदृश्वा ।
गृहं गतो याति मृतिं पुरस्तात्तदागमदत्न च किं निमित्तम् ॥१४॥
देशे कालेऽवस्थितं तद्विमुक्तं ब्रह्मानन्दं पश्यतां तत्र तत्र ।
चित्तैकाग्र्ये विद्यमाने समाधिः सर्वत्रासौ दुर्लभो नेति मन्ये ॥१५॥
सत्तीर्थसेवा मनसः प्रसादिनी देशस्य वीक्षा मनसः कुतूहलम् ।
क्षिणोत्यनर्थान् सुजनेन सडमस्तस्मान्न कस्मै भ्रमणं विरोचते ॥१६॥
अटाटयमानोऽफि विदेशसडतिं लभेत विद्वान् विदुषाऽभिसडतिम् ।
बुधो बुधानां खलु मित्रमीरितं खलेन मैत्री न चिराय तिष्ठति ॥१७॥
समीपवासोऽयमुदीरतो गुरोर्विदेशगो यद हृदयेन धारयेत् ।
समीपगोऽप्येष न संस्थितोऽन्तिके न भक्तिहीनो यदि धारयेद् हृदि ॥१८॥
सुजनः सुजनेन सङ्गतः परिपुष्णाति मतिं शनैः शनैः ।
परिपुष्ट्मातिर्विवेकवाञ्शनकैर्हेयगुणं विमुश्चति ॥१९॥
यद्याग्रहोऽस्ति तव तीर्थनिषेवणायां विघ्रो मयाऽत्र न खलु क्रियते पुमर्थे ।
चित्तस्थिरत्वगतये विहितो निषेधो मा भूद्विशेषगमनं त्वतिदुःखहेतुः ॥२०॥
नैको मार्गो बहुजनपदक्षेत्रतीर्थानि यातां
चौराध्वानं परिहर सुखं त्वन्यमार्गेण याहि ।
विप्राग्र्याणां वसतिविततिर्यत्र वस्तव्यमीष
न्नो चेत्सार्धं परिचितजनैः शीघ्रमुद्दिष्टदेशम् ॥२१॥
सद्भिः सडो विधेयः स हि सुखनिचयं सूयते सज्जनाना
मध्यात्मैक्ये कथास्ता घटितबहुरसाः श्राव्यमाणाः प्रशान्तैः ।
कायक्लेशं विभिन्द्युः सततभयभिदः श्रान्तविश्रामवृक्षाः
स्वान्तश्रोत्राभिरामाः परिमृषिततृषः क्षोभितक्शुत्कलकाः ॥२२॥
सत्सडोऽयं बहुगुणयुतोऽप्येकदोषेण दुष्टो
यत् स्वान्तेऽयं तपति च परं सूयते दुःखजालम् ।
खल्वासडो वसतिसमये शर्मदः पूर्वकाले
प्रायो लोके सततविमलं नास्ति निर्दोषमेकम् ॥२३॥
मार्गे यास्यन्न बहुदिवसान् पाथसः सङ्ग्रही स्या -
त्तस्माद्दोषो जिगमिषुपदप्राप्तिविघ्रस्ततः स्यात् ।
प्राप्योद्दिष्टं वस निरसनं तत्र कार्यस्य सिद्धे
र्मूलाद्भ्रंशोऽभिलषितपदप्राप्त्यभावोऽन्यथा हि ॥२४॥
मार्गे चोरा निकृतिवपुषः संवसेयुः सहैव
छन्नात्मानो बहुविधगुणैः सम्परीक्ष्याः प्रयत्नात् ।
देवान् वस्त्रं लिखितमथवा दुर्विधा नेतुकामा
विश्वासोऽतोऽपरिचितनृषु प्रोज्ज्ञनीयो न कार्यः ॥२५॥
मध्येमार्ग योजनाभ्यन्तरे वा तिष्ठेयुश्चेद्भिक्षवस्तेऽभिगम्याः ।
पूज्याः पूज्यास्तद्वयतिक्रान्तिरुग्रा श्रेयस्कार्य निष्फलीकर्तुमीशाः ॥२६॥
यदापदपं सदा यतिवर स्थितं वस्तु त -
न्मतं भज मितम्पचान् मनसि मा कृथाः प्राकृतान् ।
कषायकलुषाशयक्षतिविनिर्वृतः सन्मतः
सुखी चर सुखे चिरात् स्फुरति सन्ततानन्दता ॥२७॥
इत्थं गुरोर्मुखगुहोदितवाक्सुधां तामापीय हृष्टहृदयः स मुनिः प्रतस्थे ।
प्रस्थाप्य तं गुरुवरोऽथ सुरेश्वराद्यैः कालं कियन्तमनयत् सह श्रृडकुध्रे ॥२८॥
अधिगम्य तदाऽऽत्मयोगशक्तेरनुभावेन निवेद्य चाऽऽश्रवेभ्यः ।
अव्लम्बिततारकापथोऽसावचिरादन्तिकमाससाद मातुः ॥२९॥
तत्राऽऽतुरां मातरमैक्षतासौ ननाम तस्याश्चरणौ कृतात्मा ।
सा चैनमुद्वीक्ष्य शरीरतापं जहौ निदाघार्त इवाम्बुदेन ॥३०॥
असावसडोऽपि तदाऽऽर्द्रचेतास्तामाह मोहान्धतमोपहर्ता ।
अम्बायमस्त्यत्र शुचं जहीहि प्रब्रूहि किं ते करवाणि कृत्यम् ॥३१॥
दृष्ट्रा चिरात् पुत्रमनामयं सा हृष्टान्तरात्मा निजगाद मन्दम् ।
अस्यां दशायां कुशली मया त्वं दिष्टयाऽसि दृष्टः किमतोऽस्ति कृत्यम् ॥३२॥
इतः परं पुत्रक गात्रमेतद्वोढुं न शक्रोमि जरातिशीर्णम् ।
संस्कृत्य शास्त्रोदितवर्त्मना त्वं सद्वृत्त मां प्रापय पुण्यलोकान् ॥३३॥
सुतानुगां सूक्तिमिमां जनन्याः श्रुत्वाऽथ तस्मै सुखरुपमेकम् ।
मायामयाशेषविशेषशून्यं मानातिगं स्वप्रभमप्रमेयम् ॥३४॥
उपादिशब्रह्म परं सनातनं न यत्र हस्ताड् घ्रिविभागकल्पना ।
अन्तर्बहिः सन्निहितं यथाऽम्बरं निरामयं जन्मजरादिवर्जितम् ॥३५॥
सौम्यागुणे मे रमते न चित्तं रम्य रम्यं वद त्वं सगुणं तु देवम् ।
न बुद्धिमारोहति तत्त्वमात्रं यदेकमस्थूलमनण्वगोत्नम् ॥३६॥
निशम्य मातुर्वचनं दयालुस्तुष्टाव भक्त्या मुनिरष्टमूर्तिम् ।
वृर्तैभुजडोपपदैः प्रसन्नः प्रस्थापयामास स च स्वदुतान् ॥३७॥
विलोक्य ताञ्शूलपिनाकहस्तान्नैवानुगच्छेयमिति ब्रुवत्याम् ।
तस्यां विसृज्यानुनयेन शैवानस्तौदथो माधवमादरेण ॥३८॥
भुजगाधिपभोगतल्पभाजं कमलाकस्थलकल्पिताड् घ्रिपद्मम् ।
अभिवीजितमादरेण नीलावसुधाभ्यां चलमानचामराभ्याम् ॥३९॥
विहिताज्जलिना निषेव्यमाणं विनतानन्दकृताऽग्रतो रथेन ।
धृतमूर्तिभिरस्रदेवताभिः परितः पश्चभिरश्चितोक्पकण्ठम् ॥४०॥
महनीयतमालकोमलाडं मुकुटीरत्नचयं महार्हयन्तम् ।
शिशिरेतरभानुशीलिताग्रं हरिनीलोपलभूधरं हसन्तम् ॥४१॥
तत्तादृशं निजसुतो दितमम्बुजाक्षं चित्ते दधार मृतिकाल उपागतेऽपि ।
चित्तेन कज्जनयनं हृदि भावयन्ती तत्याज देहमबला किल योगिवत्सा ॥४२॥
ततः शरचन्द्रमरीचिरोचिर्विचित्रपारिलवकेतनाढयम् ।
विमानमादाय मनोज्ञरुपं प्रादुर्बभूवुः किल विष्णुदूताः ॥४३॥
वैमानिकांस्तान्नयनाभिरामानवेक्ष्य हृष्टा प्रशशंस पुत्रम् ।
विमानमारोप्य विराजमानमनायि तैः सा बहुमानपूर्वम् ॥४४॥
इयमर्चिरहर्वलक्षपक्षान् षडुदडमासमानिलार्कचन्द्रान् ।
चपलावरुणेन्द्रधातृलोकान् क्रमशोऽतीत्य परं पदं प्रपेदे ॥४५॥
स्वयमेव चिकीर्षुरेष मातुश्वरमं कर्म समाजुहाव बन्धून ।
किमिहास्ति यते तवाधिकारः कितवेत्येनममी निनिन्दुरुचैः ॥४६॥
अनलं बहुधाऽर्थिताऽपि तस्मै वत नाऽऽदत्त च बन्धुता तदीया ।
अथ कोपपरीवृतान्तरोऽसावखिलांस्तानशपच निर्ममेन्द्रः ॥४७॥
सश्चित्य काष्ठान सुशुष्कवन्ति गृहोपकण्ठे धृततोयपात्रः ।
स दक्षिणे दोष्णि ममन्थ वह्रिं ददाह तां तेन च संयतात्मा ॥४८॥
न याचिता वह्रिमदुर्यदस्मै शशाप तान् स्वीयजनान सरोषः ।
इतः परं वेदबहिष्कृतास्ते द्विजा यतीनां न भवेच्च भिक्षा ॥४९॥
गृहोपकण्ठेषु च वः श्मशासनद्यप्रभृत्यस्त्विति ताञ्शशाप ।
अद्यापि तद्देशभवा न वेदमधीयते नो यमिनं च भिक्षा ॥५०॥
तदाप्रभृत्येव गृहोपकण्ठेष्वासीच्छमशानं किल हन्त तेषाम् ।
महत्सु धीपूर्वकृतापराधो भवेत् पुनः कस्य सुखाय लोके ॥५१॥
शान्तः पुमानिति न पीडनमस्य कार्य
शान्तोऽपि पीडनवशात् क्रुधमुद्वहेत् सः ।
स्तीव्राहुताशजनको भवति क्षणेन ॥५२॥
यद्यप्यशास्त्रीयतया विभाति तेजस्विनां कर्म तथाऽप्यनिन्द्यम् ।
विनिन्द्यकृत्यं किल भार्गवस्य ददुः स्वपुत्रान् कतिचिदृकाय ॥५३॥
इति स्वजननीमसौ मुनिजनैरपि प्रार्थितां
पुनः पतनवर्जितामतनुसौख्यसन्दोहिनीम् ।
यतिक्षितिपतिर्गतिं वितमसं स नीत्वा तत
स्ततोऽन्यमतशातने प्रयतते स्म पृथ्वीतले ॥५४॥
अथ तत्सहायजलजाड घ्रयुपागमेच्छुरभीप्सितेऽत्न विललम्ब एषकः ।
जलाजाड घ्रिरप्यथ पुरा निज ज्ञया कृतवानुदीच्यबहुतीर्थसेवनम् ॥५५॥
आससाद शनकैर्दिश मुनिर्यस्य जन्म वसुधाघटी स्मृता ।
सा श्रुतिः सकलरोगनाशिनी योऽपिबज्जलधिमेक बिन्दुवत् ॥५६॥
अद्राक्षीत्सुभगाहिभूषिततनुं श्रीकालहस्तीश्वरं
लिडे सन्निहितं दधानमनिशं चान्द्री कलां मस्तके ।
पार्वत्या करुणारसार्द्रमनसाऽऽश्लिष्टं प्रमोदास्पदं
देवैरिन्द्रपुरोगमैर्जय जयेत्याभाष्यमाणं मुनिः ॥५७॥
स्रात्वा सुवर्णमुखरीसलिलाशयेऽन्तर्गत्वव पुनः प्रणमति स्मं शिवं भवान्या ।
आनर्च भावकुसुमैर्मनसा नुनाव स्तुत्वा च तं पुनरयाचत तीर्थयात्राम् ॥५८॥
लब्ध्वाऽनुज्ञां तज्ज्ञराट् कालह्स्तिक्षेत्रात् काश्चीक्षेत्रमागात् पवित्रम् ।
संसाराब्धिं सन्तितीर्षोः प्रसिद्धं वृद्धाः प्राहुर्यद्धि लोके ह्यमुष्प्रिन् ॥५९॥
तत्रैकाम्राधीश्वरं विश्वनाथं नत्वा गम्यं स्वीयभाग्यतिशीत्या ।
देवीं धामान्तर्गतामन्तकारेर्हार्द रुद्रस्येव जिज्ञासमानाम् ॥६०॥
कलालेशं द्राक्ततो नातिदूरे लक्ष्मीकान्तं संवसन्तं पुराणम् ।
कारुण्यार्द्रस्वान्तमन्तादिशून्यं दृष्ट्रा देवं सन्तुतौषैकभक्त्या ॥६१॥
पुण्डरीकपुरमाययौ मुनिर्यत्र नृत्यति सदाशिवोऽनिशम् ।
वीक्षते प्रकृतिरादिमा हृदा पार्वतीपरिणतिः शुचिस्मिता ॥६२॥
ताण्डवं मुनिजनोऽत्र वीक्षते दिव्यचक्षुरमलाशयोऽनिशम् ।
जन्ममृत्युभयभेदि दर्शनान्नेत्रमानसविनोदकारकम् ॥६३॥
किञ्चात्र तीर्तमिति भिक्षुगणेन कश्चित् ।
पृष्टोऽब्रवीच्छिवपदाम्बुजसक्तचित्तः ।
सम्प्रार्थितः करुणयाऽस्मरदत्र गडां
देवोऽथ सन्न्यधित दिव्यसरित् सुतीर्थम् ॥६४॥
शिवाज्ञयाऽभूदिति तीर्थमेतच्छिवस्य गडा प्रवदन्ति लोके ।
स्रानादमुष्यां विधुतोरुपापाः शनै ः शनैस्ताण्डवमीक्षमाणाः ॥६५॥
शिवस्य नाटयश्रमकशिन्तस्य श्रमापनोदाय विचिन्तयन्ती ।
शिवेति गडापरिणामगाऽभूत्ततोऽथवैतत्प्रथितं तदाख्यम् ॥६६॥
नृत्यत्तीरहतस्खलज्जलगतेः पर्यापतद्विन्दुकं
पार्श्वे स्वावसतेर्विनोदवशतो यज्जह्रुकन्यापयः ।
नृत्यं तन्वति धूर्जटौ विगलितं प्रेखज्जटामण्डला
त्तेनैतच्छिवजाह्रवीति कथयन्त्यन्ये विपश्चिज्जनाः ॥६७॥
स्रायंस्रायं तीर्थवर्येऽत्र नित्यं वीक्षंवीक्षं देवपादाब्जयुग्मम् ।
शोधंशोधं मानसं मानवोऽसौ वीक्षेतेदं ताण्डवं शुद्धचेताः ॥६८॥
शुद्धं महद्वर्णयितुं क्षमेत पुण्यं पुरारिः स्वयमेव तस्य ।
निमज्ज्य शम्भुद्युसरित्यमुष्यां दाक्षायणिनाथमुदीक्षते यः॥६९॥
इतीरितः शकरयोजितात्मा केनापि भिक्षुर्मुदितो जगाहे ।
तीर्थ तदाप्लुत्य ननाम शम्भोरड् घ्रि जितात्मा भुवनस्य गोप्तुः ॥७०॥
रामसेतुगमनाय सन्दधे मानसं मुनिरनुत्तमः पुनः ।
वर्त्मनि प्रयतमानसो व्रजन् सन्ददर्श सरितं कवेरजाम् ॥७१॥
यत्पवित्रपुलिनस्थलं पयः सिन्धुवासरसिकाय विष्णवे ।
अभ्यरोचत हिरण्यवाससे पद्मनाभमुखनामशालिने ॥७२॥
सह्यपर्वतसुतातिनिर्मलाम्भोभिषिक्तभगवत्पदाम्बुजे ।
आकलय्य बहुशिष्यसंवृत्तः प्रास्थिताभिरुचितस्थलाय सः॥७३॥
गच्छन गच्छन् मार्गमध्येऽभियातं गेहं भिक्षुर्मातुलस्याऽऽजगाम ।
दृष्टा शिष्यैस्तं चिरेणाभियातं मोदं प्रावन्मातुलः शास्त्रवेदी ॥७४॥
शुश्राव तं बन्धुजनः सशिष्य स्वमातुलागाग्मुपेयिवाम्मम् ।
आगत्य दृष्ट्रा चिरमागतं तं जहर्ष हर्पातिशयेन साक्षुः ॥७५॥
रुरोद कश्चिन्मुमुदेऽत्र कश्चिज्जहास पूर्वावरितं बभाषे ।
कश्चित्प्रमोदातिशयेन किश्चिद्वचः स्खलद्रीः प्रणनाम कश्चित् ॥७६॥
ऊचेऽथ तं ज्ञातिजनः प्रमोदी दृष्ट्रा चिरायाक्षिपथं गतोऽभूः ।
दिदृक्षते त्वां जनाताऽतिहार्दात्तथाऊपि शक्रोषि न वीक्षणाय ॥७७॥
पुत्राः समित्रा न न बन्धुवर्गो न राजबाधा न च चोरभीतिः? ।
कृतार्थतामूलपदं यतित्वं प्रसूनवन्तं फलितं महान्तम् ॥७८॥
शाखोपशाखाश्चितमेव वृक्षं वाधन्त आगत्य न तद्विहीनम् ।
यथा तथा वा धनिनं दरिद्रा बाधन्त आगत्य दिने दिने स्म ॥७९॥
कुटुम्बरक्षागतमानसानामायाति निद्राऽपि सुखं न जातु ।
क देवतार्चा क च तीर्थयात्रा क वा निषेवा महतां भवेन्नः ॥८०॥
अश्रौष्म सन्न्यासकृतं भवन्तं विपात् कुतश्चिद्रुहमागतान्नः।
कालोऽत्यगात्ते बहुरद्य दैवात्तीर्थस्य हेतोर्गृहमागतस्त्वम् ॥८१॥
यथा शकुन्ताः परवर्धितान् द्रुमान् समाश्रयन्ते सुखदांस्त्यजन्त्यपि ।
परप्रक्लृप्तान् मठदेवतागृहान्यतिः समाश्रित्य तथोज्ज्ञति ध्रुवम् ॥८२॥
यथा हि पुष्पाण्यभिगम्य षट्पदाः सङ्गृह्य सारं रसमेव भुज्जते ।
तथा यतिः सारमवाप्नुवन् सुखं गृहाद्र्हादोदनमेग्व्ग भिक्षते ॥८३॥
यतेर्विज्यात्मगतिः कलत्रं देहं गृहं संयतमेव सौख्यम् ।
विरक्तिभाजस्तनयाः स्वशिष्याः किमर्थनीयं यतिनो महात्मन् ॥८४॥
मनोरथानां न समाप्तिरिष्यते पुनः पुनः सन्तनुते मनोरथान् ।
दारानभीप्सुर्यतते दिवानिशं तान् प्राप्य तेभ्यस्तनयानभीप्सति ॥८५॥
अनाप्नुवन् दुःखमसौ सुतीव्रं प्राप्नोति चेष्टेन वियुज्यते पुनः ।
सर्वात्मना कामवशस्य दुःखं तस्माद्विरक्तिः पुरुषेण कार्या ॥८६॥
विरक्तिमूलं मनसो विशुद्धि तन्मूलमाहुर्महतां निषेवाम् ।
भवादृशास्तेन च दूरदेशे परोपकाराय रसामटन्ति ॥८७॥
अज्ञातगोत्रा विदितात्मतत्त्वा लोकस्य दृष्टया जडद्विभान्तः ।
चरन्ति भूतान्यनुकम्पमानाः सन्तो यदृच्छोपनतोपभोग्याः ॥८८॥
चरन्ति तीर्थान्यपि सङ्ग्रहीतुं लोकं महान्तो ननु शुद्धभावाः ।
शुद्धात्मविद्याक्षपितोरुपापास्तज्जुष्टमम्भो निगदन्ति तीर्थम् ॥८९॥
वस्तव्यमत्न कतिचिद्दिवसानि विद्वंस्त्वद्दर्शनं वितनुते मुदितादि भव्यम् ।
एष्यद्वियोगचकिता जनतेयमास्ते दुःखं गतेऽत्र भवितेति भवत्यसडे ॥९०॥
कोशं क्लेशमलस्य लास्यगृहमप्युद्रंहसामलयं
पैशुन्यस्य निशान्तमुत्कटमृषाभाषाविशेषाश्रयम् ।
हिंसामांसलमाश्रिता घनघनाशंसानृशंसा वयं
वर्ज्य दुर्जनसडमं करुणया शोध्या यतीन्दो त्वया ॥९१॥
संयुनक्ति वियुनक्ति देहिनं दैवमेव परमं मनागपि ।
इष्टसडतिनिवृत्तिकालयोर्निर्विकारहृदयो भवेन्नरः ॥९२॥
मध्याहकाले क्षुधितस्तृषार्तः क मेऽन्नदातेति वदन्नुपैति ।
यस्तस्य निर्वापयिता क्षुदार्तेः कस्तस्य पुण्यं वदितुं क्षमेत ॥९३॥
सायम्पातर्वह्रिकार्य वितन्वन् मज्जंस्तोये दण्डकृष्णाजिनी च ।
नित्यं वर्णी वेदवाक्यान्यधीयन् क्षुद्धवा शीघ्रं गेहिनी गेहमेति ॥९४॥
उच्चैः शास्त्रं भाषमाणोऽपि भिक्षुस्तारं मन्त्नं सज्जपन्वा यतात्मा ।
मध्येघस्रं जाठराग्रौ प्रदीप्ते दण्डी नित्यं गेहिनो गेहमेति ॥९५॥
यदन्नदानेन निजं शरीरं पुष्णंस्तपोऽयं कुरुते सुतीव्रम् ।
कर्तुस्तदर्ध ददतोऽन्नमर्धमिति स्मृतिः संववृतेऽनवद्या ॥९६॥
पुण्य गृहस्थेन विचक्षणेन गृहेषु सञ्चेतुमलं प्रयासात् ।
विनाऽपि तत्कर्तृनिषेवणेन तीर्थादिसेवा बहुदुःखसाध्या ॥९७॥
गृही धनी धन्यतरो मतो मे तस्योपजीवन्ति धनं हि सर्वे ।
चौर्येण कश्चित्प्रणयेन कश्चिद्दानेन कश्चिद्वलतोऽपि कश्चित् ॥९८॥
सन्तोषयेद्वेदविदं द्विजं यः सन्तोषयत्येष स सर्वदेवान् ।
तद्वेदविप्रे निवसन्ति देवा इति स्म साक्षाच्छुतिरेव वक्ति ॥९९॥
स्वधर्मनिष्ठा विदिताखिलार्था जितेन्द्रियाः सेवितसर्वतीर्थाः ।
परोपकारव्रतिनो महान्त आयान्ति सर्वे गृहिणो गृहाय ॥१००॥
गृही गृहस्थोऽपि तदश्नुते फल यत्तीर्थसेवाभिरवाप्यते जनैः ।
तत्तस्य तीर्थ गृहमेव कीर्तितं धनी वदान्यः प्रवसेन्न कश्चन ॥१०१॥
अन्तः स्थिता मूषकमुख्यजीवा बहिःस्थिता गोमृगपक्षिमुख्याः ।
जीवन्ति जीवाः सकलोपजीव्यस्तस्माद्रृही सर्ववरो मतो मे ॥१०२॥
शरीरमूलं पुरुषार्थसाधनं तच्चान्नमूलं श्रुतितोऽवगम्यते ।
तच्चान्नमस्माकममीषु संस्थितं सर्व फलं गेहपतिद्रुमाश्रयम् ॥१०३॥
ब्रवीमि भूयः श्रुणुताऽऽदरेण वो गृहागतं पूजयताऽऽतुरातिथिम् ।
सम्पूजितो वोऽतिथिरुद्धरेत्कुलं निराकृतात् किं भवतीति नोच्यते ॥१०४॥
विनाऽभिसन्धिं कुरुत श्रुतीरितं कर्म द्विजा नो जगतामधीश्वरः ।
तुष्येदिति प्रार्थनयाऽपि तेन स्वान्तस्य शुद्धिर्भविताऽचिरेण व ः ॥१०५॥
ससंरभ्याश्लिष्यत्सुफणितिवधूटीकुचतटी -
पटीवत्पाटीरागरवनवपकाकितहॄदः ।
तथाऽप्येते पूता यतिपतिपदाम्भोजभजन -
क्षणक्षीणक्लेशाः सदयहृदयाभाः सुकृतिन ः ॥१०६॥
सन्दिश्येत्थं बन्धुतां भिक्षुराजो भिक्षां चक्रे मातुलस्यैव गेहे ।
पप्रच्छैनं मातुलो भुक्तवन्तं किंस्विच्छन्नं पुस्तकं शिष्यहस्ते ॥१०७॥
टीका विद्वन् भाष्यगेति ब्रुवाणं तां देहीति प्रोचिषे दत्तवांश्च ।
अद्राक्षीत्तां मातुलस्तस्य बुद्धिं दृष्ट्राऽऽनन्दीत् खेदमापच किश्चित् ॥१०८॥
प्रबन्धनिर्माणविचित्रनैपुणीं दृष्ट्र प्रमोदं स विवेक किश्चित् ।
मतान्तराणां किल युक्तिजालैर्निरुत्तरं बन्धनमालुलोके ॥१०९॥
गुरोर्मतं स्वाभिमतं विशेषान्निराकृतं तत्र समत्सरोऽभूत ।
साधुर्निबन्धोऽयमिति ब्रुवाणस्तं साभ्यासूयोऽपि कृताभिनन्दः ॥११०॥
सेतुं गच्छाम्यालये पुस्तभारं ते न्यस्येमं वर्तते मेऽत्र जीवः ।
विद्वन् यद्वद्रोगृहादौ परेषां प्रीतिः पूर्णा नस्तथा पुस्तभारे ॥१११॥
इत्युक्त्वा तैर्मातुलं मस्करीशः शिष्यैर्हृष्यन् सेतुमेष प्रतस्थे ।
प्रस्थातुः श्रीपद्मपादस्य जातं कष्टं चैष्यत्सूचनायै निमित्तम् ॥११२॥
वामं नेत्रं गन्तुरस्पन्दतैव बाहुः पुस्फोरापि वामस्तथोरुः ।
चुक्षावोचैर्हन्त कश्चित्पुरस्तात्तत्सर्व द्राग्ज्ञोऽगणित्वा जगाम ॥११३॥
गतेऽत्र मेने किल मातुलोऽस्य ग्रन्थे स्थितेऽस्मिन् गुरुपक्षहानिः ।
दग्धेऽत्र जायेत महान् प्रचारो नोक्तया निराकर्तुमपि प्रभुत्वम् ॥११४॥
पक्षस्य नाशाद्रृहनाश एव नो वरं गृहेणैव दहामि पुस्तकम् ।
एवं निरुप्य न्यदधाद्धुताशनं चुक्रोश चाग्निर्दहतीति मे गृहम् ॥११५॥
ऐतिह्यमाश्रित्य वदन्ति चैवं तदेव मूलं मम भाषणेऽपि ।
यावत्कृतं तावदिहास्य कर्तुः पापं ततः स्याद् द्विगुणं प्रवक्तुः ॥११६॥
गच्छन्नसौ फुल्लमुनेजङ्गाम तमाश्रमं यत्र च रामचन्द्रः ।
अश्वत्थमूले न्यधित स्वचापं स्वयं कुशानामुपरि न्यषीदत् ॥११७॥
तीर्त्वा समुद्रं जनकात्मजायाः सन्दर्शनोपायमनीक्षमाणः ।
वसुन्धरायां प्रवणाः पवडा न वारिराशौ पवनं क्षमन्ते ॥११८॥
सश्चिन्तयन्निति कुशासनसन्निविष्टो ज्योतिस्तदैक्षत विद्वरगमेव किश्चित् ।
संव्याप्नुवज्जगदिदं सुखशीतलं यत्सम्प्रार्थनीयमनिशं मुनिदेवताभिः ॥११९॥
आगच्छदात्माभिमुखं निरीक्ष्य सर्वे तदुत्तस्थुरुदारवीर्याः ।
ततः पुमाकारमदृश्यतैतन्महाप्रभामण्डलमध्यवर्ति ॥१२०॥
मध्येप्रभामण्डलमैक्षताश्चितं शिंवाकृतिं सर्वतपोमयं पुनः ।
लोपादिमुद्रासहितं महामुनिं प्राबोधि कुम्भोद्भवमादराज्जनैः ॥१२१॥
अगस्त्यदृश्वा रघुनन्दनस्ततः स खेदमन्तः करणोत्थमत्यजत् ।
प्रायो महद्दर्शनमेव देहिनां क्षिणोति खेदं रविवन्महातमः ॥१२२॥
सभार्यमर्घ्यादिभिरर्चयित्वा रामस्तदड् घ्रिं शिरसा ननाम ।
तूष्णीं मुहूर्त व्यसनार्णवस्थो धृतिं समास्थाय पुनर्बभाषे ॥१२३॥
दृष्ट्रा भवन्तं पितृवत्प्रमोदे यन्मामगा दुःखमहार्णवस्थम् ।
मन्ये ममाऽऽत्मानमवाप्तकामं वंशो महान्मे तपनात्प्रवृत्तः ॥१२४॥
न तत्र मादृग्जनिता न जातः पदच्युतोऽहं प्रथमं सभार्यः ।
सलक्ष्मणोऽशोकवने समास्ते कृशा वियोगास्त्स्वत एव तन्वी ॥१२६॥
तीर्त्वा समुद्रं विनिहत्य दुष्टं बलेन सीतां महता हरामि ।
थथा तथोपायमुदाहर त्वं न मे त्वदन्योऽस्ति हितोपदेष्टा ॥१२७॥
इतीरितो वाचमुवाच विद्वान्मा राम शोकस्य वशं गतो भू ः ।
वंशद्वये सन्ति नृपा महान्तः सम्प्राप्य दुःखं परिमुक्तदुःखाः ॥१२८॥
त्वमग्रणीर्दाशरथे धनुर्भतां तवानुजस्यापि समो न लक्ष्यते ।
लवडमानामधिपस्य कोटिशो मा मुश्च मा मुश्च वचो विनार्थम् ॥१२९॥
सहायसम्पत्तिरियं तवास्ति हितोपदेष्टाऽप्यहमस्मि कश्चित् ।
वारां निधिः किं कुरुते तवायं स्मराधुना गोष्पदमात्रमेनम् ॥१३०॥
पुरेव चार्वब्धिमहं पिबामि शुष्केऽत्र तेन प्रतियाहि लकाम् ।
एवं मया कीर्तिरुपार्जिता स्याद्वद्धे तु वार्धौ तव साऽर्जिता स्यात् ॥१३१॥
सेतुं वार्धौ बन्धयित्वा जहि त्वं दुष्टं चौर्याद्येन सीता हृताऽऽसीत् ।
प्राप्रोषि त्वं कीर्तिमाचन्द्रतारं तेनात्राब्धिं बन्धय त्वं कपीन्द्रैः ॥१३२॥
इत्थं यत्र प्रेरितेऽगस्त्यवाचा सेतुं रामो बन्धयामास वार्धौ ।
तुडैः श्रृडैर्वानरैस्तेन गत्वा तं हत्वाऽऽजौ जानकीमानिनाय ॥१३३॥
तत्तादृक्षे तत्र तीर्थे स भिक्षुः स्रात्वा भक्तया रामनाथं प्रणम्य ।
तत्र श्रद्धोत्पत्तये मानुषाणां शिष्येभ्यस्तद्वैभवं सम्यगूचे ॥१३४॥
तन्माहात्म्यं वर्णयन्तं मुनिं तं पप्रच्छैनं कश्चिदेवं विपश्चित्श् ।
रामेशाख्या किंसमासोपपन्ना पृष्टस्रेधाऽवोचदेवं समासम् ॥१३५॥
रघूद्वहस्तत्पुरुषं परं जगौ शिवो बहुव्रीहिसमासमैरयत् ।
रामेश्वरे नामनि कर्मधारयं परं समाहुः स्म सुरेश्वरादयः ॥१३६॥
एवं निश्चित्योदितं तत्समासं श्रुत्वा तत्रत्यो बुधो योऽभ्यनन्दत् ।
अम्भोजाड् घ्रिस्तैरथ स्तूयमानः कश्चित्कालं तत्र योगीडनैषीत् ॥१३७॥
तस्मादार्यः प्रस्थितोऽभूत् सशिष्यस्तीर्थस्रानोपात्तचित्तामलत्वः ।
पश्यन् देशान्मातुलीयं जगाहे गेहं दग्धं तस्य पुस्तेन सार्धम् ॥१३८॥
श्रुत्वा किश्चित् खेदमापेदिवान् स मत्वा मत्वा धैर्यमापेदिवान् सः ।
श्रावं श्रावं मातुलीयस्य तीव्रं दाहं गेहस्यानुकम्पां व्यधत्त ॥१३९॥
विश्वस्य मां निहितवानसि पुस्तभारं तं चादहद्रुतवहः पतितः प्रमादात् ।
तावान्न मे सदनदाहकृतोऽनुतापो यावांस्तु पुस्तक विनाशकृतो मम स्यात् ॥१४०॥
इत्थं ब्रुवन्तं तमथो न्यगादीत् पुस्तं गतं बुद्धिरवस्थिता मे ।
उक्तवा समारब्ध पुनश्च टीकां कर्तु स धीरो यतिवृन्दवन्द्यः ॥१४१॥
दृष्ट्रा बुद्धिं मातुलस्तस्य भूयो भीतः प्रास्यद्भोजने तन्मनोघ्रम् ।
किश्चिद्रव्यं पूर्ववन्नाक्षमिष्ट टीकां कर्तु केचिदेवं ब्रुवन्ति ॥१४२॥
अत्रान्तरेऽन्यैर्निजवचरद्भिः स्वैस्तीर्थयात्नां दयितैः सतीर्थ्यैः ।
अर्थादुपेत्याऽऽश्रमतः कनिष्ठैर्ज्ञातः सखेदैः स मुनिः समैक्षिः ॥१४३॥
दृष्ट्रा पद्माड् घ्रिं क्रमात्ते प्रणेमुस्तत्पदाम्भोजीयरेणून दधानाः ।
अन्योन्यं द्रागाददुस्ते ददुश्चानेकानेहोयोगजैक्यान्नमांसि ॥१४४॥
वाणीनिर्जितपन्नगेश्वरगुरुप्राचेतसा चेतसा
विभ्राणा चरणं मुनेर्विरचितव्यापलवं पल्लवम् ।
धुन्वन्तं प्रभया निवारिततमाशकापदं कामदं
रेजेऽन्तेवसतां समष्टिरसुहॄत्तत्याहितात्याहिता ॥१४५॥
शुश्राव साऽन्तेवसतां समष्टिः स्वदेशकीयां सुखदां सुवार्ताम् ।
अर्थात् समीपागततः कुतश्चित् द्विजेन्द्रतः सेवितसर्वतीर्थात् ॥१४६॥
अथ गुरुवरमनवेक्ष्य नितान्तं व्यथितहॄदो मुनिवर्यविनेयाः ।
कथमपि विदिततदीयिअसुवार्ताः समधिगताः किल केरलदेशान् ॥१४७॥
अत्रान्तरे यतिपतिः प्रसुवोऽन्त्यकृत्यां कृत्वा स्वधर्मपरिपालनसक्तचित्तः ।
आकाशलड् घिवरकेरमहीरुहेषु श्रीकेरलेषु मुनिरास्त चरन् विरक्तः ॥१४८॥
विचरन्नथ केरलेषु विष्वड् निजशिष्यागमनं निरीक्ष्य मौनी ।
विनयेन महासुरालयेशं विनयन्नस्तुत निस्तुलानुभावः ॥१४९॥
सदसत्वविमुक्तया प्रकृत्या चिदचिद्रूपमिदं जगद्विचित्रम् ।
कुरुषे जगदीश लीलया त्वं परिपूर्णस्य न हि प्रयोजनेच्छा ॥१५०॥
रजसा सृजसीश सत्त्ववृत्तिस्रिजगद्रक्षसि तामसः क्षिणोषि ।
बहुधा परिकीर्त्यसे च स त्वं विधिवैकुण्ठशिवाभिधाभिरेकाः ॥१५१॥
विधिधेषु जलाशयेषु सोऽयं सवितेव प्रतिबिम्बितस्वभावः ।
बहुरुपमिदं पविश्य विश्वं स्वयमेकोऽपि भवान् विभात्यनेकः ॥१५२॥
इति देवमभिष्टुवन् विशिष्टस्तुतितोऽसौ सुरसद्मसन्निविष्टः ।
चिरकालवियोगदीनचितैः शिरसा शिष्यगणैरथो ववन्दे ॥१५३॥
गुरुणा कुशलानुयोगपूर्व सदयं शिष्यगणेषु सान्तितेषु ।
अतिदीनमनाः शनैरवादीदजहद्रद्रदिकं स पद्मपादः ॥१५४॥
भगवन्नभिगम्य रडनाथं पथि पद्माक्षमहं निवर्तमानः ।
बहुधाविहितानुनीतिनीतो बत पूर्वाश्रममातुलेन गेहम् ॥१५५॥
अहमस्य पुरो भिदावदेन्दोरपि पूर्वाश्रमवासनानुबन्धात् ।
अपठं भवदीयभाष्यटीकामजयं चात्र कृतानुयोगमेनम् ॥१५६॥
दग्धमुद्रमुखमुद्रणमन्त्रैर्ध्वस्ततर्कगुरुकापिल्तन्त्रैः ।
वर्मितो निगमसारसुधाक्तैर्मातुलं तमजयं तव सूक्तैः ॥१५७॥
खडाखडिविहारकल्पितरुजं काणादसेनामुखे
शस्त्राशस्त्रिकृतं श्रमं च विषमं पश्यत्पदानां पदे ।
यष्टीयष्टिभवं च कापिलबले खेदं मुने तावकैः
सूक्तैर्यौक्तिकवंशमौक्तिकमयैर्नाऽपद्यते वर्मितः ॥१५८॥
अथ गूढहॄदो यथापुरं मामभिनन्द्याऽऽहितसत्कियस्य तस्य ।
अधिसद्म निधाय भाष्यटीकामहस्याऽऽयमशकितो निशायाम् ॥१५९॥
युगपर्ययनृत्यदुग्रफालज्वलनज्वालकरालकीलजालः ।
दहनोऽधिनिशीथमस्य धाम्रा बत टीकामपि भस्मासादकार्षीत् ॥१६०॥
अदहत्स्वगृहं स्वयं हताशो विमतग्रन्थमसौ विदग्धुकामः ।
मतिमान्द्यकरं गरं च भैक्षे व्यधितास्येति विजृम्भते स्म वार्ता ॥१६१॥
अधुना धिषणा यथापुरं नो विधुनाना विशयं प्रसादमेति ।
विषमा पुनरीदृशी दशा न ः किमु युक्ता भवदड् घ्रिकिकराणाम् ॥१६२॥
गुरुवर तव या भाष्यवरेण्ये व्यरचि मया ललिता किल वृत्तिः ।
निरतिशयोज्ज्वलयुक्तियुता सा पथि किला हा विननाश कृशानौ ॥१६३॥
प्रयतेऽहं पुनरेव यदा तां प्रविधातुं बहुधाकृतयत्नः ।
न यथापूर्वमुपक्रमते ताः पटुयुक्तीर्भगन्मम बुद्धिः ॥१६४॥
कृपापारावारं तव चरणकोणाग्रशरणं
गता दीना दुनाः कति कति न सर्वेश्वरपदम् ।
गुरो मन्तुर्नन्तुः क इव मम पापांश इति चे -
न्मृषा मा भाषिष्ठाः पदकमलचिन्तवधिरसौ ॥१६५॥
इति वादिनमेनमार्यपादः करुणापूरकरम्भितान्तरडः ।
अमृताब्धिसखैरपास्तमोहैर्वचनैः सान्त्वयति स्म वल्गुबन्धैः ॥१६६॥
विषमो बत कर्मणां विपाको विषमोहोपमदुर्निवार एषः ।
विदितः प्रथमं मयाऽयमर्थः कथितश्चाड सुरेशदेशिकाय ॥१६७॥
पूर्व श्रृडक्ष्माधरे मत्समीपे प्रेम्णा याऽसौ वाचिता पश्चपादी ।
सा मे चित्तान्नपयात्यद्य शोको याताच्छीघ्रं तां लिखेत्याख्यदार्थः ॥१६८॥
आश्वास्येत्थं जलजचरणं भाष्यकृत्पश्चपादी -
माचख्यौ तां कृतिमुपहितां पूर्वयैवाऽऽनुपूर्व्या ।
नैतचित्रं परमपुरुषेऽव्याहतज्ञानशक्तौ
तस्मिन् मूले त्रिभुवनगुरौ सर्वविद्याप्रवृत्ते ः ॥१६९॥
प्रसभं स विलिख्य पश्चपादीं परमानन्दभरेण पद्मपादः ।
उदतिष्ठदतिष्ठदभ्यरोदीत् पुनरुद्रायति तु स्म नृत्यति स्म ॥१७०॥
कविताकुशलोऽथ केरलक्ष्माकमनः कश्चन राजशेखराख्यः ।
मुनिवर्यममुं मुदं वितेने निजकौटीरनिघृष्टपन्नखाग्र्यः ॥१७१॥
प्रथते किमु नाटकत्रयी सेत्यमुना संयमिना ततो नियुक्तः ।
अयमुत्तरमाददे प्रमादादनले साऽऽहुतितामुपागतेति ॥१७२॥
मुखतः पठितां मुनीन्दुना तां विलिखन्नेष विसिष्मियेऽथ भूपः ।
वद किं करवाणि किकरोऽहं वरदेति प्रणमन् व्यजिज्ञपच ॥१७३॥
नृप कालटिनामकाग्रहारा द्विजकर्मानधिकारिणोऽद्य शप्ताः ।
भवताऽपि तथैव ते विधेया बत पापा इति देशिकोऽशिषत्तम् ॥१७४॥
पद्माड्घ्रौ प्रतिपद्य नष्टविवृतिं तुष्टे पुनः केरल ल-
क्ष्मापालो यतिसार्वभौमसविधं प्राप्य प्रणम्याज्जसा ।
लब्ध्वा तस्य मुखात् स्वनाटकवराण्यानन्दपाथोनिधौ
मज्जंस्तत्पदपद्मयुग्ममनिशं ध्यायन् प्रस्तस्थे पुरीम् ॥१७५॥
इति श्रीमाधवीये तत्तीर्थयात्राटनार्थकः ।
सङ्क्षेपशकरजये सर्गोऽजनि चतुर्दशः ॥१४॥
आदितः श्लोकाः १५६२