ततः कदाचित् प्रणिपत्य भक्त्या सुरेश्वरार्यो गुरुप्रात्मदेशम् ।
शारीरकेऽत्यन्तगभीरभावे वृत्तिं स्फुटं कर्तुमना जगाद ॥१॥
मम यत्करणीयमस्ति ते त्वमिमं मामनुशाध्यसंशयम् ।
तदिदं पुरुषस्य जीवितं यदयं जोवति भक्तिमान् गुरौ ॥२॥
इतीरिते शिष्यवरेण शिष्यं प्रोचे गरीयानतिहृष्टचेताः ।
मत्कस्य भाष्यस्य विधेयमिष्टं निबन्धनं वार्तिकनामधेयम् ॥३॥
द्रष्टुं सतर्क भवदीयभाष्यं गम्भीरवाक्यं न ममास्ति शक्तिः ।
तथाऽपि भावत्ककटाक्षपाते यते यथाशक्ति निबन्धनाय ॥४॥
अस्त्वेवमित्यार्यपदाभ्यनुज्ञामादाय मूर्ध्रा स विनिर्जगाम ।
अथाम्बुजाड्घ्रेर्दयिताः सतीर्थ्यास्तं चित्सुखाद्या रहसीत्थमूचुः ॥५॥
योऽयं प्रयत्नः क्रियते हिताय हिताय नायं विफलत्वनर्थम् ।
प्रत्येकमेवं गुरवे निवेद्य बोद्धा स्वयं कर्मणि तत्परश्च ॥६॥
यः सार्वलौकिकमपीश्चरमीश्चराणां प्रत्यादिदेश भुयुक्तिभिरुत्तरज्ञः ।
कर्मैव नाकनरकादिफलं ददाति नैवं परोऽस्ति फलदो जगदीशितेति ॥७॥
प्रत्येकमस्य प्रलयं वदन्ति पुराणवाक्यानि स तस्य कर्ता ।
व्यासो मुनिर्जैमिनिरस्य शिष्यस्तत्पक्षपाती प्रलयावलम्बी ॥८॥
गुरोश्च शिष्यस्य च पक्षभेदे कथं तयोः स्याद्भुरुशिष्यभावः ।
तथाऽपि यद्यस्ति स पूर्वपक्षःसिद्धान्तभावस्तु गुरुक्त एव ॥९॥
आ जन्मनः स खलु कर्मणि योजितात्मा कुर्वन्नवस्थित इहानिशमेव कर्म ।
ब्रूते परांश्च क्रुरुतावहिताः प्रयत्नात् स्वर्गादिकं सुखमवाप्स्यथ किं वृथाध्वे ॥१०॥
एवंविधेन क्रियते निबन्धनं यदि त्वदाज्ञामवलम्ब्य भाष्यके ।
भष्यं परं कर्मपरं स योक्ष्यते मा च्यावि मूलदापि वृद्धिमिच्छता ॥११॥
सन्न्यसमप्येष अन बुद्धिपूर्वकं व्यधत्त वादे विदितो वशो व्यधात् ।
तस्मान्न विश्वासपदं विभाति नो मा चीकरोऽनेन निबन्धनं गुरो ॥१२॥
यः शक्रुयात् कर्म विधातुमीप्सितं सोऽयं न कर्माणि विहातुमर्हति ।
यद्यस्ति सन्न्यासविधौ दुराग्रहो जात्यन्धमूकादिरमुष्य गोचरः ॥१३॥
एवं सदा भट्टमतानुसारिणो ब्रुवन्त्यसौ तन्मतपक्षपातवान् ।
एवं स्थिते योग्यमदो विधीयतां न नोऽस्ति निर्बन्धनमत्र किश्चन ॥१४॥
पुरा किलास्मासु सुरापगायाः पारे परस्मिन् विचरत्सु सत्सु ।
आकारयामास भवानशेषान् भक्तिं परिज्ञातुमिवास्मदीयाम् ॥१५॥
तदा तदाकर्ण्य समाकुलेषु नावर्थमस्माप्सु परिभ्रमत्सु ।
सनन्दनस्त्वेष वियत्तटिन्या झरीमभिप्रस्थित एव तूर्णम् ॥१६॥
अनन्यसाधारणमस्य भावमाचार्यवर्ये भगवत्यवेक्ष्य ।
तुष्टा त्रिवर्त्मा कनकाम्बुजानि प्रादुष्करोति स्म पदे पदे च ॥१७॥
पदानि तेपु प्रणिधाय युष्मत्सकाशमागाद्यदयं महात्मा ।
ततोऽतितुष्टो भगवांश्चकार नाम्रा तमेनं किल पद्मपादम् ॥१८॥
स एव युष्मचरणारविन्दसेवाविनिर्धृतसमस्तभेदः ।
आजानसिद्धोऽर्हति सूत्नभाष्येवृत्तिं विधातुं भगवन्नागाधे ॥१९॥
यद्वाऽयमानन्दगिरिर्यदुग्रतपः प्रसन्ना परमेष्ठित्नी ।
भवत्प्रबन्धेषु यथाभिसन्धि व्याख्यानसामर्थ्यवरं दिदेश ॥२०॥
कर्मैकतानमतिरेष कथं गुरो ते विश्वासपात्रमभवन्ननु विश्वरुपः ।
भाष्यस्य पद्मपद एव करातु टीकामित्यूचिरे रहसि योगिवरं विधेयाः ॥२१॥
अत्रान्तरेऽभ्यर्णगतः स तूर्ण सनन्दनो वाक्यमुदाजहार ।
आचार्य हस्तामलकोऽपि कल्पो भवत्कृतौ वार्तिकमेष कर्तुम् ॥२२॥
यतः करस्थामलकाविशेशं जानाति सिद्धान्तमसावशेषम् ।
अतो ह्यमुष्मै भवतैव पूर्वमदायि हस्तामलकाभिधानम् ॥२३॥
वार्णी समाकर्ण्य सनन्दनस्य सामिस्मितं भाष्यकृदाबभाषे ।
नैपुण्यमन्यादृशमस्य किन्तु समाहितत्वान्न बहि; प्रवृत्तिः ॥२४॥
अयं तु बाल्ये न पपाठ पित्रा नियोजितः सादरमक्षराणि ।
न चोपनीतोऽपि गुरोः सकाशादध्यैष्ट वेदान् परमार्थनिष्ठाः ॥२५॥
बालैर्न चिक्रीड न चान्नमैच्छन्न चारुवाचं ह्यवदत् कदाऽपि ।
निश्चित्य भूतोपहतं तमेनमानिन्यिरेऽस्मान्निकटं कदाचित् ॥२६॥
अस्मानवेक्ष्यैव मुहुः प्रणम्य कृताज्जलौ तिष्ठति बालकेऽस्मिन् ।
इमामपूर्वा प्रकृति विलोक्य विसिष्मिये तत्र जनः समेतः ॥२७॥
कस्त्वं शिशो कस्य सुतः कुतो वेत्यस्माभिराचष्ट किलैष पृष्टः ।
आत्मानमानन्दघनस्वरुपं विस्मापयन् वृत्तयर्यैर्वचोभिः ॥२८॥
तदा कदाऽप्यश्रुतिगोचरं तदाकर्ण्य वाग्वैभवमात्मजस्य ।
पिता प्रपद्यास्य परं प्रहर्ष सप्रश्रयां वाचमुवाच विज्ञः ॥२९॥
जनैर्जड्त्वेन विनिश्चितोऽपि ब्रवीति यद्येष परात्मतत्त्वम् ।
प्रज्ञोन्नतानामपि दुर्विभाव्यं किं वर्ण्यतेऽर्हन् भवतः प्रभावः ॥३०॥
आ जन्मनः संसृतिपाशमुक्तः शिष्योऽस्त्वयं विश्वगुरोस्तवैव ।
प्रफुल्लराजीववने विहारी कथं रमेत क्षुरके मरालः ॥३१॥
विज्ञाप्य तस्मिन्निति निर्गतेऽसौ तदाप्रभृत्यत्र वसत्युदारः ।
आ शैशवादात्मविलीनचेताः कथं प्रवर्तेत महाप्रबन्धे ॥३२॥
श्रुत्वेति पप्रच्छुरमुं विनेयाः स्वामिन् विनैव श्रवणाद्युपायैः ।
अलब्ध विज्ञानमयं कथं वा भवानिदं साधु विदाङ्करोतु ॥३३॥
तानब्रवीत् संयमिचक्रवतीं कश्चित् पुरा यामुनतीरवर्ती ।
बभूव सिद्धः किल साधुवृत्तः सांसारिकेभ्यः सुतरां निवृत्तः ॥३४॥
तस्यान्तिके काचन विप्रकन्या द्विहायनं जातु निवेश्य बालम् ।
क्षणं प्रतीक्षस्व शिशुं द्विजेति स्रातुं सखीभिः सह निर्जगाम ॥३५॥
अत्रान्तरे दैववशात्स बालश्चड्क्रन्दुरुचैः पुरतो महर्षेः ॥३६॥
आक्रोशमाकर्ण्य मुनिः स तेषामत्यन्तखिन्नो निजथोगभूम्रा ।
पाविक्षदडं पृथुकस्य तस्य स एष हस्तामलकस्तपस्त्री ॥३७॥
तस्मादयं वेद विनोपदेशं श्रुतीरनन्ताः सकलाः स्मृतीश्च ।
सर्वाणि शास्त्राणि परं च तत्त्वमज्ञातमेतेन न किश्चिदस्ति ॥३८॥
तत्तादृगात्मा न बहिः प्रवृत्तौ नियोगमर्हत्ययमत्र वृतौ ।
स मण्डनस्त्वर्हति बुद्धतत्त्वः सरस्वतीसाक्षिकसर्ववित्त्वः ॥३९॥
तत्तादृशात्युज्ज्वलकीर्तिराशिईः समस्तशास्त्रार्णवपारदर्शी ।
असादितो धर्महित ः प्रयत्नात् स चेन्न रोचेत न दृश्यतेऽन्यः ॥४०॥
अहं बहूनामनभीष्टकार्य न कारयिष्ये हि महानिबन्धे ।
किञ्चात्र संशीतिरभून्ममातो यदेककार्ये बहवः प्रतीपाः ॥४१॥
भवन्निदेशाद्भगवन् सनन्दनः करिष्यते भाष्यनिबन्धमीप्सितम् ।
स ब्रह्मचर्यादुररीकृताश्रमो मतिप्रकर्षो विदितो हि सर्वतः॥४२॥
सनन्दनो नन्दयिता जनानां निबन्धमेकं विदधातु भाष्ये ।
न वार्तिकं तत्तु परप्रतिज्ञं व्यधात् प्रतिज्ञां स हि नूत्नदीक्षः ॥४३॥
आदिश्येत्थं शिष्यसघं यतीन्द्रः प्रोवाचेत्थं नूत्नभिक्षुं रहस्तम् ।
भाष्ये भिक्षो मा कृथा वार्तिकं त्वं नेमे शिष्याः सेहिरे दुर्विदग्धाः ॥४४॥
तात्पर्य ते गेहिधर्मेषु दृष्ट्रा तत्संस्कारं साम्प्रतं शकमानाः ।
भाष्ये कृत्वा वार्तिकं याजयेत्स भाष्यं प्राहुः स्वीयसिद्धान्तशेषम् ॥४५॥
नास्त्येवासावाश्रमस्तुर्य इत्थं सिद्धान्तोऽयं तावको वेदसिद्धः।
द्वारि द्वाःस्थैर्वारिता भिक्षमाणा वेश्मान्तस्ते न प्रवेशं लभन्ते ॥४६॥
इत्याद्यां तां किंवदन्तीं विदित्वा तेषां नाऽऽसीत्प्रत्ययस्त्वय्यनल्पे ।
स्वातन्त्र्यात्त्वं ग्रन्थमेकं महात्मन् कृत्वा मह्यं दर्शयाध्यात्मनिष्ठम् ॥४७॥
विद्वन् यद्वत्प्रत्ययः स्यादमीषां शिष्याणां नो ग्रन्थसन्दर्शनेन ।
इत्युक्त्वेमं वार्तिकं सूत्रभाष्ये ना भूद्धाहेत्याप खेदं च किंश्चित् ॥४८॥
शिष्योक्तिभिः शिथिलितात्ममनोरथोऽसा -
वेनं स्वतन्त्रकृतिनिर्मितये न्ययुक्त ।
नैष्कर्म्यसिद्धिमचिराद्विदधत्स चेत्थं
न्याय्यामविन्दत सुरेश्वरदेशिकाख्याम् ॥४९॥
नैष्कर्म्यसिद्धिमथ तां निरवद्ययुक्तिं निष्कर्मतत्त्वविषयावगतिप्रधानाम् ।
आद्यन्तहृद्यप्दबन्धवतीमुदारामाद्यन्तमैक्षततरां परितुष्टचेताः ॥५०॥
ग्रन्थं दृष्ट्रा मोदमानो मुनीन्द्रस्तं चान्येभ्यो दर्शयामास हृद्यम् ।
तेषां चाऽऽसीत्प्रत्ययस्तद्वदस्मिन् गद्वचान्यस्तत्त्वविद्यः स नेति ॥५१॥
यत्राद्यापि श्रूयते मस्करीन्द्रैर्निष्कर्माऽऽत्मा यत्न नैष्कर्म्यसिद्धिः ।
तन्नाम्राऽयं ववृधे ग्रन्थवर्यस्तन्माहात्म्यात् सर्वलोकादृतोऽभूत् ॥५२॥
आचार्यवाक्येण विधित्सितेऽस्मिन् विघ्रं यदन्ये व्यधुरुत्ससर्ज ।
शापं कृतेऽस्मिन् कृतमप्युदारैः तद्वार्तिकं न प्रसरेत् पृथिव्याम् ॥५३॥
नैष्कर्म्यसिद्धयाख्यनिबन्धमेकं कृत्वाऽऽत्मपूज्याय निवेद्य चाऽऽप्त्वा ।
विश्वासमुक्त्वाऽथ पुनर्बभाषे स विश्वरुपो गुरुमात्मदेवम् ॥५४॥
न ख्यातिहेतोर्न च लाभहेतोर्नाप्यर्चनायै विहितः प्रबन्धः ।
नोल्लघनीयं वचनं गुरुणां नोल्लघने स्याद्रुरुशिष्यभावः ॥५५॥
पूर्व गृहीत्वेऽपि न तत्स्वभावो न बाल्यमन्वेति हि यौवनस्थम् ।
न यौवनं वृद्धमुपैति तद्वत् व्रजन् हि पूर्वस्थितिमोज्झ्य गच्छेत् ॥५६॥
अहं गृही नात्र विचारणीयं किं तेन पूर्व मन एव हेतुः ।
बन्धे च मोक्षे च मनोविशुद्धो गृही भवेद्वाऽप्युत मस्करी वा ॥५७॥
नास्त्येव चेदाश्रम उत्तमाऽऽदिः कथं च तत्प्राप्तिनिवृत्तिगामिनौ ।
प्रतिश्रवौ नौ कथमल्पकालौ न हि प्रतिज्ञा भगवन्निरुद्धा ॥५८॥
सम्भिक्षमाणा न लभन्त एव चेद्रुहप्रवेशं गुरुणा प्रवेशनम् ।
कथं हि भिक्षा विहिता ननुत्तमा को नाम लोकस्य मुखाभिधायकः ॥५९॥
तत्त्वोपदेशाद्वितितात्मतत्त्वो व्यधामहं सन्न्यसनं कृतात्मा ।
विरागभावान्न पराजितस्तु वादो हि तत्त्वस्य विनिर्णयाय ॥६०॥
पुरा गृहस्थेन मया प्रबन्धा नैयायिकादौ विहिता महार्थाः ।
इत ः परं मे हॄदयं चिकीर्षु त्वदड् घ्रिसेवाम न विलघय किश्चित् ॥६१॥
श्रद्धामद्वैतबद्धादरबुधपरिषच्छेमुषीसन्निषण्णा -
मर्वाग्दुर्वादिगर्वानलविपुलतरज्वालमालावलीढाम् ।
सिक्त्वा सूक्तामृतौघैरहह परिहसज्जीवयस्यद्य सद्यः
को वा सेवापटुः स्याद्रणतरणविधौ सद्रुरोनैव जाने ॥६२॥
इत्युक्त्वोपरते सुरेश्वरगुरौ तेनैव शारीरके
नो सम्भाव्यहहात्र वार्तिकमिति प्रौढं शु वग्रिं शनैः ।
धीराग्र्यः शमयन्विवेकपयसा देवेश्वरेण त्रयी -
भाष्ये कारयितुं स वार्तिकयुगं बद्धादरोऽभुन्मुनिः ॥६३॥
भावानुकारिमृदुवाक्यनिवेशितार्थ स्वीयैः पदैः सह निराकुतपूर्वपक्षम् ।
सिद्धान्तयुक्तिविनिवेशिततत्स्वरुपं दृष्ट्राऽभिनन्द्य परितोषवशादवोचत् ॥६४॥
सत्यं यदात्थ विनयिन् मम याजुषी या शाखा तदन्तगतभाष्यनिबन्ध इष्टः।
तद्वार्तिकं मम कृते भवता प्रणेयं सच्चेष्टितं परहितैकफलं प्रसिद्धम् ॥६५॥
तद्वत्त्द्वीया खलु काण्वशाखा ममापि तत्रास्ति तदन्तभाष्यम् ।
तद्वार्तिकं चापि विधेयमिष्टं परोपकाराय सतां प्रवृत्तिः ॥६६॥
तत्रोभयत्र क्रुरु वार्तिकमार्तिहारि
कीर्ति च याहि जितकार्तिकचन्द्रिकाभाम् ।
मा शकि पूर्वमित्र दुःशठवाक्यरोधो
मद्वाक्यमेव शरणं व्रज मा विचारीः ॥६७॥
इत्थं स उक्तो भगवत्पदेन श्रीविश्वरुपो विदुषां वरिष्ठः ।
चकार भाष्यद्वयवार्तिके द्वे ह्याज्ञा गुरुणां ह्यविचारणीया ॥६८॥
आज्ञा गुरोरनु वरैर्न हि लघनीयेत्युक्त्वा तयोर्निगमशेखरयोरुदारम् ।
निर्माय वार्तिकयुगं निजदेशिकाय निःसीमनिस्तुलनधीरुपदां चकर ॥६९॥
सनन्दनो नाम गुरोरनुज्ञया भाष्यस्य टोकां व्यधितेरितः पराम् ।
यत्पूर्वभागः किल पश्चपादिका तच्छेषगा वृत्तिरिति प्रथीयसी ॥७०॥
व्यासर्षिसूत्रनिचयस्य विवेचनाय टीकामिधं विजयडिण्डिममात्मकीर्तेः ।
निर्माय पद्मचरणो निरवद्ययुक्तिदृब्धं प्रबन्धमकरोद्रुरुदक्षिणां स ः ॥७१॥
आलोचयन्नथ तदानुगतिं ग्रहाणामूचे सुरेश्व्व्रसमाह्वयमुपह्वरे सः ।
पश्चैव वत्स चरणाः प्रथिता इह स्युस्तत्रापि सूत्रयुगलद्वयमेव भूम्रा ॥७२॥
प्रारब्धकर्मपरीपाकवशात् पुनस्त्वं
वाचस्पतित्वमधिगम्य वसुन्धरायाम् ।
भव्यां विधास्यसितमां मम भाष्यटीका -
माभूतसंलयमधिक्षिति सा च जीयात् ॥७३॥
इत्येवमुक्त्वऽथ यतीश्वरोऽसावानन्दगिर्यादिमुनीन् स हूत्वा ।
कुरुध्वमद्वैतपरान्निबन्धान्नित्यन्वशा न्निर्ममसार्वभौमः ॥७४॥
ते सर्वेऽप्यनुमतिमाप्य देशिकेन्दोरानन्दाचलमुखरा महानुभावाः ।
आतेनुर्जगति यथास्वमात्मतत्त्वाम्भोजार्कान् विशदतरान् बहून्निबन्धान् ॥७५॥
इति श्रीमाधवीये तद्वार्तिकान्तप्रवर्तनः ।
सङ्क्षेपशकरजये पूर्णः सर्गस्रयोदशः ॥१३॥
आदितः श्लोका ः १३८७