१२

अथैकदाऽसौ यतिसार्वभौमस्तीर्थानि सर्वाणि चरन् सतीर्थ्यैः ।
घोरात् कलेर्गोपितधर्ममागाद्रोकर्णमभ्यर्णचलार्णबौधम् ॥१॥
विरिश्चिनाम्भोरुहनाभवन्द्यं प्रपञ्चनाटयद्भुतसूत्रधारम् ।
तुष्टाव वामार्धवधूटिमस्तदुष्टावलेपं प्रणमन् महेशम् ॥२॥
वपुः स्मरापि कचन स्मरारेर्बलाहकाद्वैतवदावदश्रि ।
सौदामिनी साधितसम्प्रदायसमर्थनादेशिकमन्यतश्च ॥३॥
वामाडसीमाकुरदंशुतृण्याचश्चन्मृगाश्चत्तरदक्षपाणि ।
सव्यान्यशोभाकलमाग्रभक्षसाकाङ्क्षकीरन्यकर महोऽस्मि ॥४॥
महीध्रकन्यागलसङ्गतोऽपि माडल्यतन्तुः किल हालहालम् ।
यत्कण्ठदेशेऽकृत कुण्ठशक्तिमैक्यानुभावादहमस्मि भूमा ॥५॥
गुणत्तयातीतविभाव्यमित्थं गोकर्णनाथं वचसाऽर्चयित्वा ।
तिस्रः स रात्रीस्त्रिजगत्पवित्रे क्षेत्रे मुदैष क्षिपति स्म कालम् ॥६॥
वैकुण्ठकैलासविवर्तभूतं हरन्नताघं हरिशकराख्यम् ।
दिव्यस्थलं देशिकसार्वभौमस्तीर्थप्रवासी नचिरादयासीत् ॥७॥
भ्रमापनोदाय भिदावदानामद्वैतमुद्रामिह दर्शयन्तौ ।
आराध्य देवौ हरिशकरौ द द्वयर्थाभिरित्यर्चयति स्म वाग्भिः ॥८॥
वन्द्य महासोमकलाविलासं गामादरेणाऽऽकलयन्ननादिम् ।
मैनं महः किञ्चन दिव्यमडीकुर्वन् विभुर्पे कुशलानि कुर्यात् ॥९॥
यो मन्दरागं दधदादितेयान् सुधाभुजः स्माऽऽतनुते विषादी ।
स्वामद्रिलोलोचितचारुमूर्ते कृपामपारां स भवान् विधत्ताम् ॥१०॥
उल्लासयन्यो महिमानमुचैः स्फुरद्वराहीशकलेवरोऽभूत् ।
तस्मै विदध्मः करयोरजस्रं सायन्तनाम्भोरुहसामरस्यम् ॥११॥
समावहन् केसरितां वरां यः सुरद्विषत्कुज्जरमाजघान ।
प्रहलादमुल्लासितमादधानं पश्चाननं तं प्रणुमः पुराणम् ॥१२॥
उदैत्तु बल्याहरणाभिलाषो यो वामनं हार्यजिनं वसानः ।
तपांसि कान्तारहितो व्यतानीदाद्योऽवतादाश्रमिणामयं न ः ॥१३॥
येनाधिकोद्यत्तरवारिणाऽऽशु जितोऽर्जुनः सण्डररडाभूमौ ।
नक्षत्रनाथस्फुरितेन तेन नाथेन केनापि वयं सनाथाः ॥१४॥
विलासिनाऽलीकभवेन धाम्रा कामं द्विषन्तं स दशास्यमस्यन् ।
देवो धरापत्यकुचोष्मसाक्षी देयादमन्दात्मसुखानुभूतिम् ॥१५॥
उत्ताल्केतु ; स्थिरधर्ममूर्तिर्हालाहलस्वीकरणोग्रकण्ठः ।
स रोहिणीशानिशचुम्ब्यमाननिजोत्तमाडोऽवस्तु कोऽपि भूमा ॥१६॥
विनायकेनाऽऽकलिताहिताप निषेदुषोत्सडभुवि प्रहृष्यन् ।
यः पूतनामोहकचित्तवृत्तिरव्यादसौ कोऽपि कलापभूषः ॥१७॥
पाठीनकेतोर्जयिने प्रतीतसर्वज्ञभावाय दयैकसीम्रे ।
प्रायः क्रतुद्वेषकृतादराय बोधैकधाम्रे स्पृहयामि भूम्रे ॥१८॥
व्यतीत्य चेतोविषयं जनानां विद्योतमानाय तमोनिहन्त्ने ।
भूम्रे सदावासकृताशयाय भूयांसि मे सन्तुतमां नमांसि ॥१९॥
वृषाकपायीवरयोः सपर्या वाचाऽतिमोचारसयेति तन्वन् ।
मुनिप्रवीरो मुदितात्मकामो मूकाम्बिकायाः सदनं प्रतस्थे ॥२०॥
अडे निधाय व्यसुमात्मजातं महाकुलौ हन्त मुहुः प्ररुद्य ।
तदेकपुत्रौ द्विजदम्पती स दृष्टा दयाधीनतय शुशोच ॥२१॥
अपारमश्चत्यथ शोकमस्मिन्नभूयतोचैरशरीरावा वा ।
जायेत संरक्षितुमक्षमस्य जनस्य दुःखाय परं दयेति ॥२२॥
आकर्ण्य वाणीमशरीरिणीं तामसाविति व्याहरति स्म विज्ञः ।
जगत्तयीरक्षणदक्षिणय्स सत्यं तवैकस्य तु शोभते सा ॥२३॥
इतीरयत्येव यतौ द्विजातेः सुतः सुखं सुप्त इवोदतिष्ठत् ।
समीपगैः सर्वजनीनमस्य चारित्र्यमालोक्य विसिष्मिये च ॥२४॥
रम्योपशल्यं कृतमालसालरसालहिम्तालतमालशालैः ।
सिद्धिस्थलं साधकसम्पदां तन्मूकाम्बिकायाः सदनं जगाहे ॥२५॥
उच्चावचानन्दजबाष्पामुचैरुद्रीर्णरोमाश्चमुदारभक्तिः ।
अम्बामिहापारकृपावलम्बां सम्भावयन्नस्तुत निस्तुलं सः ॥२६॥
पारेपरार्ध पदपद्मभाःसु षष्टयुतरं ते त्रिशतं तु भासः।
आविश्य वह्रयर्कसुधामरीचीनालोकवन्त्यादधते जगन्ति ॥२७॥
अन्तश्चतुः षष्टयुपचारभेदैरन्तेवसत्काण्डपटप्रदानैः।
आवहनाद्यैअस्तव देवि नित्यमाराधनामादधते महान्तः ॥२८॥
अम्बोपारेष्वधिसिन्धुषष्टि शुद्धाज्ञयोः शुद्धिदमेकमेकम् ।
सहस्रपत्रे द्वितये च साधु तन्वन्ति धन्यास्तव तोषहेतोः ॥२९॥
आराधनं ते वहिरेव केचिदन्तर्बहिश्चैकतमेऽन्तरेव ।
अन्ये परे त्वम्ब कदापि कुर्युर्नैव त्वदैक्यानुघवैकनिष्ठाः ॥३०॥
अष्टोतरत्रिंशति याः कलास्ताः स्वर्ध्याः कलाः पश्च निवृत्तिमुख्याः ।
तासामुपर्यम्ब तवाड् घ्रिपद्मं विद्योतमानं विबुधा भजन्ते ॥३१॥
कालाग्निरुपेण जगन्ति दग्ध्वा सुधात्मनाऽऽपाव्य समुत्सृजन्तीम् ।
ये त्वामवन्तीममृतात्मनैव ध्यायन्ति ते सृष्टिकृतो भवन्ति ॥३२॥
ये प्रत्यभिज्ञामतपारविज्ञा धन्यास्तु ते प्राग्विदितां गुरुक्त्या ।
सैवाहमस्मीति समाधियोगात् त्वां प्रत्यभिज्ञाविषयं विदध्युः ॥३३॥
आधारचक्रे च तदुत्तरस्मिन्नाराधयान्त्यैहिकह्बोगलुब्धाः ।
उपासते ये मणिपूरके त्वां वासस्तु तेषां नगराद्वहिस्ते ॥३४॥
अनाहते देवि भजन्ति ये त्वामन्तःस्थितिस्त्वन्नगरे तु तेषाम् ।
शुद्धाज्ञयोर्ये तु भजन्ति तेषां क्रमेण सामीप्यसमानभोगौ ॥३५॥
सहस्रपत्रे ध्रुवमण्डलाख्ये सरोरुहे त्वामनुसन्दधानः ।
चतुर्विधैक्यानुभवास्तमोहः सायुज्यमम्बाश्चति साधकेन्द्रः ॥३६॥
श्रीचक्रषट्चक्रकयोः पुरोऽथ श्रीचक्रमन्वोरक्पि चिन्तितैक्यम् ।
चक्रस्य मन्त्रस्य ततस्तवैक्यं क्रमादनुध्यायति साधकेन्द्रः ॥३७॥
इति तां वचनैः प्रपूज्य भैक्षौदनामात्रेण स तुष्टिमान् कृतार्थः ।
बहुसाधकसंस्तुतः कियन्तं समयं तत्र निनाय शान्तचेताः ॥३८॥
श्रयति स्म ततोऽग्रहारकं श्रीबलिसञ्ज्ञं स कदाचन स्वशिष्यैः ।
अनुगेहहुताग्निहोत्रदुग्धप्रसरत्पावनगन्धलोभनीयम् ॥३९॥
यतोऽपमृत्युर्बहिरेव याति भ्रान्त्वा प्रदेशं शनकैरलब्ध्वा ।
दृष्टा द्विजातीन्निकर्मनिष्ठान् दुरान्निषिद्धं त्यजतोऽप्रमत्तान् ॥४०॥
यस्मिन् सहस्रद्वितयं जनानामग्न्याहितानां श्रुतिपाठकानाम् ।
वस्त्यवश्यं श्रुतिचोदितासु क्रियासु दक्ष प्रथितानुभावम् ॥४१॥
मध्ये वसन् यस्य करोति भूषां पिनाकपाणिर्गिरिजासहायः ।
हारस्य यष्टेस्तरलो यथा वै रात्रेरिवेन्दुर्गगनाधिरुढः ॥४२॥
तत्र द्विजः कश्चन शास्त्रवेदी प्रभाकराख्य ः प्रथितानुभावः ।
प्रवृत्तिशास्त्रैकरतः सुबुद्धिरास्ते क्रतून्मीलितकीर्तिबृन्दः ॥४३॥
गावो हिरण्यं धरणी समग्रा सद्वान्धवा ज्ञातिजनाश्च तस्य ।
सन्त्येव किं तैर्न हि तोष एभिः पुत्रो यदस्याजनि मुग्धचेष्टः ॥४४॥
न वक्ति किञ्चिन्न श्रृणोति किञ्चित् ध्यायान्निवास्ते किल मन्दचेष्टाः ।
रुपेषु मारो महसा महस्वान् मुखेन चन्द्रः क्षमया महीसमः ॥४५॥
ग्रहग्रहात् किं जडवद्विचेष्टते किं वा स्वभावादुत पूर्वकर्मणः।
सञ्चिन्तयंस्तिष्ठति तत्पिताऽनिशं समागतान् प्रष्टुमना बहुश्रुतान् ॥४६॥
शिष्यैः प्रशिष्यैर्बहुपुस्तभारैः समागतं कश्चन पूज्यपादम् ।
शुश्राव तं ग्राममनिन्दितात्मा निनाय सूनुं निकटं स तस्य ॥४७॥
न शून्यहस्तो नृपमिष्टदैवं गुरुं च यायदिति शास्त्रवित् स्वयम् ।
सोपायनः प्राप गुरुं व्यशिश्रणत् फलं ननामास्य च पादपकजे ॥४८॥
अनीनमत्तं च तदीयपादयोर्जडाकृतिं भस्मनिगूढवह्रिवत् ।
स नोदतिष्ठत् पतित ः पदाम्बुजे प्रायः स्वजाडयं प्रकटं विधित्सति ॥४९॥
उपात्तहस्तः शनकैरवाडमुखं तं देशिकेन्द्रः कृपयोदतिष्ठिपत् ।
उत्थापिते स्वे तनये पिताब्रवीत् वद प्रभो जाडयममुष्य किङ्कृतम् ॥५०।
वर्षाण्यतीय्रुर्भगवन्नमुष्य पश्चाष्ट जातस्य विनाऽवबोधम् ।
नाध्यैष्ट वेदानलिखच नार्णानचीकरं चोपनयं कथश्चित् ॥५१॥
क्रीडापरः क्रोशति बालवर्गस्तथाऽपि न क्रीडितुमेष याति ।
बालाः शठा मुग्धमिमं निरीक्ष्य सन्ताडयन्तेऽपि न रोषमेति ॥५२॥
भुडे कदाचिन्न तु जातु भुडे स्वेच्छाविहारी न करोति चोक्तम् ।
तथापि रुष्टेन न ताडयतेऽयं स्वकर्मणा वर्धत एव नित्यम् ॥५३॥
इतीरयित्वोपरते च विप्रे पप्रच्छ तं शकरदेशिकेन्द्रः ।
कस्त्वं किमेवं जडवत् प्रवृत्तः स चाब्रवीद्वालवपुर्महात्मा ॥५४॥
नाहं जडः किन्तु जडः प्रवर्तते मत्सन्निधानेन न सन्दिहे गुरो ।
षडूर्मिषड्भावविकारवर्जितं सुखैकतानं परमस्मि तत्पदम् ॥५५॥
ममेव भूयादनुभूतिरेषा मुमुक्षुवर्गस्य निरुप्य विद्वन् ।
पद्यैः परैर्द्वादशभिर्बभाषे चिदात्मतत्त्वं विधुतप्रपञ्चम् ॥५६॥
प्रकाशयन्ते परमात्मतत्त्वं करस्थधात्रीफलवद्यदेकम् ।
श्लोकात्स्तु हस्तामलकाः प्रसिद्धास्तत्कर्तुराख्यापि तथैव वृत्ता ॥५७॥
विनोपदेशं स्वत एव जातः परात्मबोधो द्विजवर्यसूनो ः ।
व्यस्मेष्ट सम्प्रेक्ष्य स देशिकेन्द्रो न्यधात्स्वहस्तं कृपयोत्तमाडे ॥५८॥
सुते निवृत्ते वचनं बभाषे स देशिकेन्द्रः पितरं तदीयम् ।
वस्तुं न योग्यो भवता सहायं न तेऽमुनाऽर्थो जडिमास्पदेन ॥५९॥
पुराभवाभ्यासवशेन सर्व स वेत्ति सम्यड् न च वक्ति किञ्चित् ।
नो चेत्कथं स्वानुभवैकगर्भपद्यानि भाषेत निरक्षरास्य ः ॥६०॥
न सक्तिरस्यास्ति गॄहादिगोचरा नात्मीयदेहे भ्रमतोऽस्य विद्यते ।
तादात्म्यताऽन्यत्र ममेति वेदनं यदा न सा स्वे किमु बाह्यवस्तुषुः ॥६१॥
इतीरयित्वा भगवान् द्विजात्मजं ययौ गृहीत्वा दिशमीप्सितां पुनः ।
विप्रोऽप्यनुव्रज्य ययौ स्वमन्दिरं कियत्प्रदेशं स्थिरधीर्बहुश्रुतः॥६२॥
ततः शतानन्दमहेन्द्रपूर्वैः सुपर्वबृन्दैरुपगीयमानः।
पद्मामघ्रिमुख्यैः सममाप्तकामक्षोणीपतिः श्रृडगिरिं र्पतस्थे ॥६३॥
यत्राधुनाऽप्युत्तममृष्यश्रृडस्तपश्चरत्यात्मभृदन्तरडः।
संस्पर्शमात्रेण वितीर्णभद्रा विद्योतते यत्र च तुडभद्रा ॥६४॥
अभ्यागतार्चाल्पितक्ल्पशाखाः कूलङ्कषाधीतसमस्तशाखाः ।
इज्याशतैर्यत्र समुल्लसन्तः शान्तन्तराया निवसन्ति सन्तः ॥६५॥
अध्यापयामास स भाष्यमुख्यान् ग्रन्थान्निजांस्तत्र मनीषिमुख्यान् ।
आकर्णनप्राप्यमहापुमर्थानादिष्ट विद्याग्रहणे समर्थान् ॥६६॥
मन्दाक्षनम्रं कलयन्नशेषं पराणुदत् प्राणितमांस्यशेषम् ।
निरस्तजीवेश्वरयोर्विशेषं व्याचष्ट वाचस्पतिनिर्विशेषम् ॥६७॥
प्रकल्प्य तन्त्रेन्द्रविमानकल्पं प्रासादमाविष्कृतसर्वशिल्पम् ।
प्रवर्तयामास स देवतायाः पूजामजद्यैरपि पूजितायाः ॥६८॥
या शारदेत्यभिधां वहन्ती कृतां प्रतिज्ञां प्रतिपालयन्ती ।
अद्यापि श्रृडेरिपुरे वसन्ती प्रद्योततेऽभीष्टवरान् दिशन्ती ॥६९॥
चित्तानुवर्ती निजधर्मचारी भूतानुकम्पी तनुवाग्विभूतिः ।
कश्चिद्विनेयोऽजनि देशिकस्य यं तोटकाचार्यमुदाहरन्तिः ॥७०॥
स्रात्वा पुरा क्षिपति कम्बलवस्त्रमुख्यैरुचासनं मृदु समं स ददाति नित्यम् ।
संलक्ष्य दन्तप्रिशोधनकाष्ठमग्र्यं बाह्यादिकं गतवते सलिलादिकं च ॥७१॥
श्रीदेशिकाय गुरवे तनुमार्जवस्त्रं विश्राणयत्यनुदिनं विनयोपपन्नः ।
श्रीपादपद्मयुगमर्दनकोविदश्च छायेव देशिकमसौ भृशमन्वयाद्यः ॥७२॥
गुरोः समीपे न तु जातु जृम्भते प्रसारयन्नो चरणौ निषीदति ।
नो पेक्षते वा बहु वा न भाषते न पृष्ठदर्शी पुरतोऽस्य तिष्ठत ॥७३॥
तिष्ठन् गुरौ तिष्ठति सम्प्रयाते गच्छन् ब्रुवाणे विनयेन श्रृण्वन् ।
अनुच्यमानोऽपि हितं विधते यचाहितं तच तनोति नास्य ॥७४॥
तस्मिन् कदाचन विनेयवरे स्वशाटीप्रक्षालनाय गतवत्यपवर्तनीगाः।
व्याख्यानकर्मणि तदागममीक्षमाणो भक्तेषु वत्सलतया विललम्ब एषः ॥७५॥
शान्तिपाठमथ कर्तुमसङ्ख्येषुवतेषु स विनेयवरेषु ।
स्थीयतां गिरिरपि क्षणमात्नादेष्यतीति समुदीरयति स्म ॥७६॥
तां निशम्य निगमान्तगुरुक्तिं मन्दधीरनधिकार्यपि शास्त्रे ।
किं प्रतीक्ष्यत इति स्म ह भित्तिः पद्मपादमुनिना समदर्शि ॥७७॥
तस्य गर्वमपहर्तुमखर्व स्वाश्रयेषु करुणातिशयाच ।
व्यादिदेश स चतुर्दश विद्याः सद्य एव मनसा गिरिनाम्रे ॥७८॥
सोऽधिगम्य तदनुग्रहमग्र्यं तत्क्षणेन विदिताखिलविद्यः ।
ऐट्ट देशिकवरं परतत्त्वव्यज्जकैर्ललिततोटकवृत्तैः ॥७९॥
श्रीमद्देशिकपादकजयुगीमूला तदेकाश्रया
तत्कारुण्यसुधावसेकसहिता तद्भक्तिसद्वल्लरी ।
हॄद्यं तोटकवृत्तवृन्तरुचिरं पद्यात्मक सत्फलं
लेभे भोक्तुमनोतिसत्तमशुकैरास्वाद्यमानं मुहुः ॥८०॥
येनौन्नत्यमवापिता कृतपदा कामं क्षमायामियं
निःश्रेणिः पदमुन्नतं जिगमिषोर्व्योम स्पृशन्ती परम् ।
वंश्या काप्यधरीकृतत्रिभुवनश्रेणी गुरुणां कथं
सेवा तस्य यतीशितुर्न विरलं कुर्वीत गुर्वी तमः ॥८१॥
अतह तोटकवृत्तपद्यजातैरयमज्ञातसुपर्वसूक्तिकोऽपि ।
दययैव गुरोस्त्रयीशिरोऽर्थ स्फुटयन्नैक्षि विचक्षणः सतीर्थ्यैः ॥८२॥
अथ तस्य बुधस्य वाक्यगुम्भं निशमय्यामृतमाधुरीधुरीणम् ।
जलजाङ्घ्रिमुखाः सतीर्थ्यवर्याः स्मयमन्वस्य सविस्मया बभूवुः ॥८३॥
भक्त्युत्कर्षात् प्रादुरासन्यतोऽस्मात्पद्यान्येवं तोटकाख्यानि सन्ति ।
तस्मादाहुस्तोटकाचार्यमेनं लोके शिष्टाः शिष्टवंश्य मुनीन्द्रम् ॥८४॥
अद्यापि तत्प्रकरणं प्रथित्म पृथिव्यां तत्सञ्ज्ञया लघु महार्थमनल्पनीति ।
शिष्टैर्गृहीतमतिशिष्टपदानुविद्धं वेदान्तवेद्यपरतत्त्वनिवेदनं यत् ॥८५॥
तोटकाह्वयमवाप्य महर्षेः ख्यातिमाप स दिशासु तदादि ।
पद्मपादसदृशप्रतिभावान् मुख्याशिष्यपदवीमपि लेभे ॥८६॥
पुमर्थाश्चत्वारः किमुत निगमा ॠक्प्रभृतयः
प्रभेदा वा मुक्तेर्विमलतरसालोक्यमुखराः।
मुखान्याहो धातुश्चिरमिति विमृश्याथ विबुधा
विदूः शिष्यान् हस्तामलकमुखराञ्छकरगुरोः ॥८७॥
स्फारद्वारप्रघाणद्विरदमदसमुल्लोलकल्लोलभृडी -
सडीतोल्लासभङ्गीमुखरितहरित ः सम्पदोऽकिम्पचानैः ।
निष्ठीव्यन्तेऽतिद्वरादधिगत भगवत्पादसिद्धान्तकाष्ठा -
निष्ठासम्पद्विजृम्भन्निरवधिसुखद स्वात्मलामैकलोभैः ॥८८॥
समिन्धानो मन्थाचलमथितसिन्धृदरभव -
त्सुधाफेनाभेनामृतरुचि निभेनाऽऽत्मयशसा ।
निरुन्धानो दृष्टया परमहह पन्थानमसतां
पराधृष्यैः शिष्यैररमत विशिष्यैष मुनिराट् ॥८९॥
इति श्रीमाधवीये तद्धस्तधात्र्यादिसंश्रयः ।
सङ्क्षेपशकरजये सर्गोऽयं द्वादशोऽभवत् ॥१२॥
आदितः श्लोकाः १३१२