११

तत्रैकदाच्छादितनैजदोषः पौलस्त्यवत्कल्पितसाधुवेषः ।
निर्मानमायं स्थितकार्यशेषः कापालिकः कश्चितनल्पदोषः ॥१॥
असावपश्यन्मदनाद्यवश्यं वश्येन्दियाश्वैर्मुनिभिर्विमृग्यम् ।
आदिश्य भाष्यं सपदि प्रशस्यमासीनमाश्रित्य मुनिं रहस्यम् ॥२॥
दृष्टैव हृष्टः स चिरादभीष्टं निर्धार्य संसिद्धमिव स्वमिष्टम् ।
महद्विशिष्टं निजलाभतुष्टं विस्पष्टमाचष्ट कृत्यशिष्टम् ॥३॥
गुणांस्तवाकर्ण्य मुनेऽनवद्यान्सार्वज्ञ्यसौशील्यदयालुताद्यान् ।
द्रष्टुं समुत्कण्ठितचित्तवृत्तिर्भवन्तमागां विदितप्रवृत्तिः ॥४॥
त्वमेक एवात्र निरस्तमोहः पराकृतद्वैतिवच ः समूहः ।
आभासि दूरीकृतदेहमानः शुद्धाद्वये योजितसर्वमानः ॥५॥
परोपकृत्यै प्रगृहीतमूर्तिरर्त्यलोकेष्वपि गीतकीर्तिः ।
कटाक्षलेशार्दितसज्जनार्तिः सदुक्तिसम्पादितविश्वपूर्तिः ॥६॥
गुणाकरत्वाद्भुवनैकमान्यः समस्तवित्त्वादभिमानशून्यः ।
विजित्वरत्वाद्रलहसिततान्यः स्वात्मप्रदत्वाच महावदान्यः ॥७॥
अशेष कल्याणगुणालयेषु परावरज्ञेषु भवादृशेषु ।
कार्यार्थिनः काप्यनवाप्य कामं न यान्ति दुष्प्रापमपि प्रकामम् ॥८॥
तस्मान्महत्कार्यमहं प्रपद्य निर्वर्तितं सर्वविदा त्वयाऽद्य ।
कपालिनं प्रीणयितुं यतिष्ये कृतार्थमात्मानमतः करिष्ये ॥९॥
अनेन देहेन सहैव गन्तुं कैलासमीशेन समं च रन्तुम् ।
अतोषयं तीव्रतपोभिरुग्रं सुदुष्करैरब्दशतं समग्रम् ॥१०॥
तुष्टोऽब्रवीन्मां गिरिशः पुमर्थमभीप्सितं प्राप्स्यसि मत्प्रियार्थम् ।
जुहोषि चेत्सर्वविदः शिरा वा हुताशने भूमिपतेः शिरो वा ॥११॥
एतावदुक्त्वाऽन्तरधान्महेशस्तदादि तत्सङ्ग्रहणे धृताशः ।
चराम्यथापि क्षितिपो न लब्धो न सर्ववित्तत्र मयोपलब्धः ॥१२॥
दिष्टयाऽद्य लोकस्य हिते चरन्तं सर्वज्ञमद्राक्षमहं भवन्तम् ।
इतः परं सेत्स्यति मेऽनुबन्धः सन्दर्शशान्तो हि जनस्य बन्धः ॥१३॥
मूर्धाभिपिक्तल्य शिरः कपालं मुनीशितुर्वा मम सिद्धिहेतुः ।
आद्यं पुनर्मे मनसाऽप्यलभ्यं ततःपरं तत्रभवान् प्रमाणम् ॥१४॥
शिरः प्रदानोऽद्भुतकीर्तिलाभस्तवापि लोके मम सिद्धिलाभः ।
आलोच्य देहस्य च नश्वरत्वं यद्रोचते सत्तम तत्कुरु त्वम् ॥१५॥
तद्याचितुं न क्षमते मनो मे को वेष्टदायि स्वरशरीरमुज्झतु ।
भवान्विरक्तो न शरीरमानी परोपकाराय धृतात्मदेहः ॥१६॥
जनाः परक्लेशकथानभिज्ञा नक्तं दिवा स्वार्थकृतात्मचित्ताः ।
रिपुं निहन्तुं कुलिशाय वज्री दाधीचमादात्किल वाञ्छितास्थि ॥१७॥
दधीचिमुख्याः क्षणिकं शरीरं त्यक्तवा परार्थे स्म यशः शरीरम् ।
प्राप्य स्थिरं सर्वगतं जगन्ति गुणैरनऽर्यैः किल रज्जयन्ति ॥१८॥
वपुर्धरन्ते परतुष्टिहेतोः केचित्प्रयोजनं ते विधुतैषणस्य ।
अस्मादृशाः कामवशास्तु युक्तायुक्ते विजानन्ति न हन्त योगिन् ॥२०॥
जीमूतवाहो निजजीवदायी दधीचिरप्यस्थि मृदा ददानः ।
आचन्द्रतारार्कमपायशून्यं प्राप्तौ यशः कर्णपथं गतौ हि ॥२१॥
यदप्यदेयं ननु देहवद्भिर्मयाऽर्थितं गर्हितमेव सद्भिः ।
तथाऽपि सर्वत्र विरागवद्भिः किमस्त्यदेयं परमार्थविद्भिः ॥२२॥
अखण्डमूर्धन्यकपालमाहुः संसिद्धिदं साधकपुडवेभ्यः ।
विना भवन्तं बहवो न सन्ति तद्वत्पुमांसो भगवन् पृथिव्याम् ॥२३॥
प्रयच्छ शीर्ष भगवन्नमः स्तादितीरयित्वा पतितं पुरस्तात् ।
तमब्रवीद्वीक्ष्य सुधीरधस्तात्कृपालुरावृत्तमना ः समस्तात् ॥२४॥
नैवाभ्यसूयामि वचस्त्वदीयं प्रीत्या प्रयच्छामि शिरोऽस्मदीयम् ।
को वाऽर्थिसात्प्राज्ञतमो नृकायं जानन्न कुर्यादिहि बह्वपायम् ॥२५॥
पतत्यवश्यं हि विकृष्याणं कालेन यत्नादपि रक्ष्यमाणम् ।
वर्ष्मामुना सिध्यति चेत्परार्थः स एव मर्त्यस्य परः पुमर्थः ॥२६॥
वर्ते विविक्तेऽधिसमाधि सिद्धिविन्मिथः समायाहि करोमि ते मतम् ।
नाहं प्रकाशं वितरीतुमुत्सहे शिरः कपालं विजनं समाश्रय ॥२७॥
शिष्या विदन्ति यदि चिन्तितकार्यमेतत्
योगिन् मदेकशरणा विहतिं विदध्युः ।
को वा सहेत वपुरेतदपोहितुं स्वं
को वा क्षमेत निजनाथशरीरमोक्षम् ॥२८॥
तौ संविदं वितनुतामिति सम्प्रहृष्टौ
योगी जगाम मुदितो निलयं मनस्वी ।
श्रीशङ्करोऽपि निजधामनि जोषमास
प्रोचे न किञ्चिदपि भावमसौ मनोगम् ॥२९॥
शूली त्रिपुण्ड्री पुरतोऽवलोकी कङ्कालमालाकृतगात्रभूषः ।
संरक्तनेत्रो मदघूर्णिताक्षो योगी ययौ देशिकवासभूमिम् ॥३०॥
शिष्येषु शिष्टेषु विदूग्गेषु स्र नादिकार्याय विविक्तभाजि ।
श्रीदेशिकेन्द्रे तु सनन्दनाख्यभीत्या स्वदेह व्यवधाय गूढे ॥३१॥
तं भैरवाकारमुदीक्ष्य देशिकस्त्यक्तुं शरीरं व्यधित स्वयं मनः ।
आत्मानमात्मन्युदयुक्त यो जपन् समाहितात्मा करणानि संहरन् ॥३२॥
तं भैरवोऽलोकत लोकपूज्यं स्वसौख्यतुच्छीकृतदेवराज्यम् ।
योगीशमासादितनिर्विकल्प सनत्सुजातप्रभृतेरल्पम् ॥३३॥
जत्रुप्रदेशे चिबुकं निधाय व्यत्ताम्यमुत्तानकरौ निधाय ।
जानुपरि प्रेक्षितनासिकान्तं विलोचने सामि निमील्य कान्तम् ॥३४॥
आसीनमुचीकृतपूर्वगात्रं सिद्धासनं शेषितबोधमात्रम् ।
चिन्मात्रविन्यस्तहृषीकवर्ग समाधिविस्मारितविश्वसर्गम् ॥३५॥
विलोक्य तं हन्तुमपास्तशकःस्वबुद्धिपूर्वार्जिततीव्रपकः ।
प्रापोद्यतासिः सविधं स यावद्विज्ञातवान् पद्मपदोऽपि तवात् ॥३६॥
त्रिशूलमुद्य निहन्तुकामं गुरुं यतात्मा समुदैक्षतान्तः ।
स्थितश्चुकोप ज्वलिताग्निकल्पः स पद्मपाद" स्वगुरोर्हितैषी ॥३७॥
स्मरन्नथैष स्मरदार्तिहारि प्रह्रादवश्यं परमं महस्तत् ।
स मन्त्रसिद्धो नृहरेनृसिंहो भूत्वा ददर्शोग्रदुरीहचेष्टाम् ॥३८॥
स तत्क्षणक्षुब्धनिजस्वभावः प्रवृद्धरुड् विस्मृतमर्त्यभावः ।
आविष्कृतात्युग्रनृसिंहभावः समुत्पपातातुलितप्रभावः ॥३९॥
सटाच्छटास्फोटितमेघसङ्घस्तीव्रारवत्रासितभूतसङ्घः ।
संवेगसम्भूर्च्छितलोकसङ्घः किमेतदित्याकुलदेवसङ्घः ॥४०॥
क्षुभ्यत्समुद्रं समुदृढरौद्रं रटन्निशाटं स्फुटदद्रिकूटम् ।
ज्वलद्दिशान्तं प्रचलद्धरान्तं प्रभ्रश्यदक्षं दलदन्तरिक्षम् ॥४१॥
जवादभिद्रुत्य शितस्वरुग्रैर्दैत्येश्वरस्येव पुरा नखाग्रैः ।
क्षिपक्तिशूलस्य स तस्य वक्षो ददार विक्षिप्तसुरारिपक्षः ॥४२॥
तत्तादृगत्युग्रनखायूधाग्र्यो दंष्ट्रान्तरप्रोतदुरीहदेहः ।
नित्ये तदानीं नृहरिर्विदीर्णद्युपट्टनाट्टालिकमट्टहासम् ॥४३॥
आकर्णसंस्तं निनदं बहिर्गता उपागमन्नाकुलचित्तवृत्तयः ।
व्यलोकयन् भैरवमग्रतो मृतं ततो विमुक्तं च गुरुं सुखोषितम् ॥४४॥
प्रह्रदक्श्यो भगवान् कथं वा प्रसादितोऽयं नृहरिस्त्वयेति ।
सविस्मयैः स्त्रिग्धजनैः स पृष्टः सनन्दनः सस्मितमित्यवादीत् ॥४५॥
पुरा किलाहं बलभूधराग्रे पुण्यं समाश्रित्य किमप्यरण्यम् ।
भक्तैकवश्यं भगवन्तमेनं ध्यायन्ननेकान् दिवसाननैषम् ॥४६॥
किमर्थमेको गिरिगह्ररेऽस्मिन् वाचंयम त्वं वससीति शश्वत् ।
केनापि पृष्टोऽत्न किरातयूना प्रत्युत्तरं प्रागहमित्यवोचम् ॥४७॥
आकण्ठमत्यद्भुतमर्त्यमूर्तिः कण्ठीरवात्मा परतश्च कश्चित् ।
मृगो वनेऽस्मिन् मृगयो वसन्मे भवत्यहो नाक्षिपथे कदापि ॥४८॥
इतीग्यत्येव मयि क्षणेन वनेचरोऽयं प्रविशन् वनान्तम् ।
निबध्य गाढं नृहरिं लताभिः पुण्यैरगण्यैः पुरतो न्यधान्मे ॥४९॥
महर्षिभिस्त्वं मनसाप्यगभ्यो वनेचरस्यैव कथं वशेऽभूः ।
इत्यद्भुताविष्टहृदा मयाऽसौ विज्ञाप्यमानो विभुरित्यवादीत् ॥५०॥
एकाग्रचित्तेन यथाऽमुनाहं ध्यातस्तथा धातृमुखैर्न पूर्वैः ।
नोपालभेथास्त्वमितीरयन्मे कृत्वा प्रसादं कृतवांस्तिरोधिम् ॥५१॥
आकर्ण्य तां पद्मपदस्य वाणीमानन्दमग्रैरखिलैरभावि ।
जगर्ज चोचैर्जगदण्डभाण्डं भूम्रा स्वधाम्रा दलयन् नृसिंहः ॥५२॥
ततस्तदार्भाटचलत्समाधिः स्वात्मप्रबोधोन्मथितत्र्युपाधिः ।
उन्मील्य नेत्रे विकरालवक्तं व्यलोकयन्मानवपश्चवक्तम् ॥५३॥
चन्द्रांशुसोदर्यसटाजटालं तार्तीयनेत्राब्जकनन्निटालम् ।
सहोद्यदुष्णांशुसहस्रभासं विध्यण्डविस्फोटकृदट्टहासम् ॥५४॥
नखाग्रनिर्भिन्नकपालिवक्षः स्थलोचलच्छोणितापकिलाकम् ।
श्रीवत्सवत्सं गलवैजयन्तीश्रीरत्नसम्म्पर्धितदन्त्रमालम् ॥५५॥
सुरासुरत्रासकरातिघोरस्वाकारसारव्यथिताण्डकोशम् ।
दंष्ट्रकरालानननिर्यदग्निज्वालालिसंलीढनभोवकाशम् ॥५६॥
स्वरोमकूपोद्रतविस्फुलिडप्रचारसन्दीपितसर्वलोकम् ।
जम्भद्विडुज्जम्भितशम्भुदमभसंस्तम्भनारम्भकदन्तपेषम् ॥५७॥
मा भूदकाण्डे प्रलयो महात्मन् कोपं नियिच्छेति गृणद्भिरारात् ।
ससाध्यसैः प्राज्जलिभिः सगात्रकम्पैर्विरिञ्च्यादिभिरर्थ्यमानम् ॥५८॥
विलोक्य विद्युचपलोक्ग्रजिह्वं यतिक्षितीशः पुरतो नृसिंहम् ।
अभीतिरैडिष्ट तदोपकण्ठं स्थितोऽपि हर्षाश्रुपिनद्धकण्ठः ॥५९॥
नरहरे हर कोपमनर्थदं तव रिपुर्निहतो भुवि वर्तते ।
कुरु कृपां मयि देव सनातनीं जगदिदं भयमेति भवदृशा ॥६०॥
तव वपुःकिल सत्वमुदाहृतं तव हि कोपनमण्वपि नोचितम् ।
तदिह शान्तिमवाप्रुहि शर्मणे हरगुणं हरिराश्रयसे कथम् ॥६१॥
सकलभीतिषु दैवतम स्मरन् सकलभीतिमपोह्य सुखी पुमान् ।
भवति किं प्रवदामि तवेक्षणे परमदुर्लभमेव तवेक्षणम् ॥६२॥
स्मृतवतस्तव पादसरोरुहं मृतवतः पुरुषस्य विमुक्तता ।
तव कराभिहतोऽमृत भैरवो न हि स एष पुनर्भवमेष्यति ॥६३॥
दितिजसूनुममुं व्यसनार्दितं सकृदरक्षदुदारगुणो भवान् ।
सकलगत्वमुदीरितमस्फुटं प्रकटमेव विधित्सुरभूत्पुरः ॥६४॥
सृजसि विश्वमिदं रजसाऽऽवृतः स्थितिविधौ श्रितसत्व उदायुधः ।
अवसि तद्धरणे तमसाऽऽवृतो हरसि देव तदा हरसञ्ज्ञितः ॥६५॥
तव जनिर्न गुणास्तव तत्त्वतो जगदनुग्रहणाय भवादिकम् ।
तव पदं खलु वाड्मनसातिगं श्रुतिवचश्चकितं तव बोधकम् ॥६६॥
नरहरे तव नामपरिश्रवात् प्रथमगुह्यकदुष्टपिशाचकाः ।
अपसरन्ति विभोऽसुरनायका न हि पुरः स्थितये प्रभवन्त्यमी ॥६७॥
त्वमेव सर्गस्थितिहेतुरस्य त्वमेव नेता नृहरेऽखिलस्य ।
त्वमेव चिन्त्यो हृदयेऽनवद्ये त्वामेव चिन्मात्रमहं प्रपद्ये ॥६८॥
हतो वराको हि रुषं नियच्छ विश्वस्य भूमन्नभयं प्रयच्छ ।
एते हि देवाः शममर्थयन्ते निरीक्ष्य भीताः प्रतिखेदयन्ते ॥६९॥
द्रष्टुं न शक्या हि तवानुकम्पाहीनैर्जनैर्निह्रुतकोटिशम्पाम् ।
मूर्ति तदात्मन्नुपसंहरेमां पाहि त्रीलोकीं समतीतसीमाम् ॥७०॥
कल्पान्तोज्जृम्भमाणप्रमथपरिवृढप्रौढलालाटवह्रि -
ज्ज्वालालीढत्निलोकीजनितचटचटाध्वानधिक्कारधुर्यः ।
मध्ये ब्रह्माण्डाभाण्डोदरकुहरमनैकान्त्यदुःस्थामवस्थां
स्त्यानस्त्यानो ममायं दलयतु दुरितं श्रीनृसिंहाट्टहासः ॥७१॥
मध्ये व्यानद्धवातन्धयवलनाधानमन्थान भूभृ
न्मन्थेनोत्क्षिप्तदुग्धोदधिलहरिमिथः स्फालनाचारघोरः ।
कल्पान्तोन्निद्ररुद्रोचतरडमरुकध्वानबद्धाभ्यसूयो
घोषोऽयं कर्णघोरः क्षपयतु नृहरे रंहसां संहतिं न ः ॥७२॥
क्षुन्दानो मङ्क्षु कल्पावधिसमयसमुज्जृम्भदम्भोदगुम्भः-
स्फूर्जद्दम्भोलिसङ्घस्फुरदुरुरटिताखर्वगर्वप्ररोहान् ।
क्रीडाक्रोडेन्द्रघोणासरभसविसरद्धोरघूर्घोरवश्री -
र्गम्भीरस्तेऽट्टहासो हर हर नृहरे रहंसाऽहांसि हन्यात् ॥७३॥
एवं विशिष्टनुतिभिर्नृहरौ प्रशान्ते स्वं भावमेत्य मुनिरेष बभूव शान्तः ।
स्वप्रानुभूतमिव शान्तमनाः स्मरंस्तमात्मानमात्मगुरवे प्रणतिं चकार ॥७४॥
चारित्र्यमेतत्प्रयतस्रिसन्ध्यं भक्त्या पठेद्यः श्रृणुयादवन्ध्यम् ।
तीर्त्त्वाऽपमृत्युं प्रतिपद्य भक्तिं स भुक्तभोगः समुपैति मुक्तिम् ॥७५॥
इति श्रीमाधवीये तदुग्रभैरवनिर्जयः ।
सङ्क्षेपशकरजये सर्ग एकादशोऽभवत् ॥११॥
आदितः श्लोकाः १२२३