अथ पुरोहितमन्त्रिपुरः सरैर्नरपतिः कृतशान्तिककर्मभिः ।
विहितमाडलिकः स यथोचितं नगरमास्थितभद्रगजो ययौ ॥१॥
समधिगम्य पुरं परिसान्त्वितप्रियजनः सचिवैः सह सम्प्रतैः ।
भुवमपालयदादृतशासनो नृपतिभिर्दिवमिन्द्र इवाधिराट् ॥२॥
इति नृपत्वमुपेत्य वसुन्धरामवति संयमिभूभृति मन्त्निणः ।
तमधिकृत्य परं कृतसंशया इति जजल्पुरनल्पधियो मिथः ॥३॥
मृतिमुपेत्य यथा पुनरुत्थितः प्रकृतिभाग्यवशेन तथा त्वयम् ।
नरपतिः प्रतिभाति न पूर्ववत्समुदिताखिलदिव्यगुणोदयः ॥४॥
वसु ददाति ययातिवदर्थिने वदति गीष्पतिवद्रिरमर्थवित् ।
जयति फाल्गुनवत्प्रतिपार्थिवान् सकलमप्यवगच्छति शर्ववत् ॥५॥
अनुसवनविसृत्वरैरपूर्वैर्वितरणपौरुषशौर्यधैर्यपूर्वैः ।
अनितरसुलभैर्गुणैर्विभाति क्षितिपतिरेष परः पुमानिवाद्यः ॥६॥
अनृतुषु तरवः सुपुष्पिताग्रा बहुतरदुग्धदुघाश्च गोमहिष्यः ।
क्षितिरभिमतवृष्टिराढयसस्या स्वविहितधर्मरताः प्रजाश्च सर्वाः ॥७॥
कालस्तिष्यः सर्वदोषाकरोऽपि त्नेतामत्येत्यद्य राज्ञः प्रभावात् ।
तस्मादस्मद्राजवर्ष्म प्रविश्य प्राप्तैश्वर्यः शास्ति कश्चिद्धरित्रीम् ॥८॥
तदयं गुणवारिधिर्यथा प्रतिपद्येत न पूर्वकं वपुः ।
करवाम तथेति निश्चयं कृतवन्तः सचिवाः परस्परम् ॥९॥
अथ ते भुवि यस्य कस्यचिद्विगतासोर्वपुरस्ति देहिनः ।
अविचार्य तदाशु दह्यतामिति भृत्यान् रहसि न्ययोजयन् ॥१०॥
अथ राज्यधुरं धराधिपः परमाप्तेषु निवेश्य मन्त्रिषु ।
बुभुजे विषयान् विलासिनीसचिवोऽन्यक्षितिपालदुर्लभान् ॥११॥
स्फटिकफलके ज्योत्स्राशुभ्रे मनोज्ञशिरोगृहे
वरयुवतिभिर्दीव्यन्नक्षैर्दुरोदरकेलिषु ।
अधरदशनं बाह्वावाहं महोत्पलताडनं
रतिविनिमयं राजाऽकार्षीद्ग्लहं विजये मिथः ॥१२॥
अधरजसुधाश्लेषाद्रुच्यं सुगन्धि मुखानिल -
व्यतिकरवशात्कामं कान्ताकरात्तमतिप्रियम् ।
मधु मदकरं पायम्पायं प्रियाः समपायय -
त्कनकचषकैरिन्दुच्छायापरिष्कृतमादरात् ॥१३॥
मधुमदकलं मन्दस्विन्नं मनोहरभाषणं
निभृतपुलकं सीत्काराढयं सरोरुहसौरभम् ।
दरमुकुलिताक्षीषल्लज्जं विसृत्वरमन्मथं
प्रचरदलकं कान्तावक्तं निपीय कृती नृपः ॥१४॥
विवृतजघनं सन्दष्टेष्ठं प्रणुन्नपयोधरं
प्रसृतभणितं प्राप्तोत्साहं रणन्मणिमेखलम् ।
निभृतकरणं नृत्यद्रात्रं गतेतरभावनं
प्रसृमरसुखं प्रादुर्भूतं किमप्यपदं गिराम् ॥१५॥
मनसिजकलातत्त्वाभिज्ज्ञो मनोज्ञविचेष्टितः
सकलविषयव्यावृत्ताक्षः सदानुसृतोत्तमः ।
कृतकुचगुरुपास्त्याऽत्यन्तं सुनिर्वृतमानसो
निधुवनवरब्रह्मानन्दं निरर्ग्लमन्वभूत् ॥१६॥
पुरेव भोगान् बुभुजे महीभृत्स भोगिनीभि ः सहितोऽप्यरंस्त ।
कन्दर्पशास्त्रनुगतः प्रवीणैर्वात्स्यायने तच निरक्षैताद्धा ॥१७॥
वात्स्यायनप्रोदितसूत्रजातं तदीयभाष्यं च निरीक्ष्य सम्यक् ।
स्वयं व्यधत्ताभिनवार्थगर्भ निबन्धमेकं नृपवेषधारी ॥१८॥
पारशर्यवनिभृति प्रविश्य राज्ञो वर्ष्मैवं विहरति तद्विलासिनीभिः ।
दृष्टा तत्समयमतीतमस्य शिष्या रक्षन्तो वपुरितरेतरं जजल्पुः ॥१९॥
आचार्यैरवधिकरकारि मासमात्रं सोऽतीतः पुनरपि पश्चषाश्च घस्राः ।
अद्यापि स्वकरणमेत्य न ः सनऽथान् कर्तु तन्मनसि न जायतेऽनुकम्पा ॥२०॥
किं कुर्मः क नु मृगयामहे क यामः को जानन्निह वसतीति नोऽभिदध्यात् ।
विज्ञातुं कथमिमर्मश्महे विचिन्त्याप्या सिन्धु क्षितितलमन्यगात्रगूढम् ॥२१॥
गुरुणा करुणानिधिना ह्यधुना यदि नो निहिता विहितास्त्यजिताः ।
जगति क गतिर्भजतां त्यजतां स्वपदं विपदन्तकरं तदिदम् ॥२२॥
निःशेषेन्दियजाडयहृन्नवनवाहलादं मुहुस्तन्वती
नित्याश्लिष्टरजोयतीशचरणम्भोजाश्रया श्रेयसी ।
निष्प्रत्यूहविजम्भमाणवृजिनस्योद्वासना वासना
निःसीमा हृदयेन कल्पितपरीरम्भा चिरं भाव्यते ॥२३॥
फलितैरिव सत्वपादपैः परिणामैरिव योगस्म्पदाम् ।
समयैरिव वैदिकश्रियां सशरीरैरिव तत्वनिर्णयैः ॥२४॥
सधनैर्निजलाभवैभवात् सकुटुम्बैरुपशान्तिकान्तया ।
अतदन्यतयाऽखिलात्मकैरनुगृह्येय कदा नु धामभिः ॥२५॥
अविनयं विनयन्नसतां सतामतिरयं तिरयन् भवपावकम् ।
जयति यो यतियोगभृतां वरो जगति मे गतिमेष विधास्यति ॥२६॥
विगतमोहतमोहतिमाप्य यं विधुतमायतमा यतयोऽभवन् ।
अमृतदस्य तदस्य दृशः सृतवावतरेम तरेम शुगर्णवम् ॥२७॥
शुभाशुभविभाजकस्फुरणदृष्टिमुष्टिन्धयः
क्षपान्धमतापान्थदुष्कथकदम्भकुक्षिम्भरिः ।
कदा भवसि मे पुनःपुनरनाद्यविद्यातमः
प्रमृद्य गलितद्वयं पदमुदश्चयन्नद्वयम् ॥२८॥
मर्त्यानां निजपादपकजजुषामाचार्य वाचा यया
रुन्धानो मतिकल्मषं त्वमिह किङ्कुर्वाणनिर्वाणया ।
द्राड् नायास्यासि चेत्सुधीकृतपरीहासस्य दसस्य ते
दुःखान्तो न भवेदितीडय स पुनर्जानीहि मीनीहि मा ॥२९॥
इति खेदमुपेयुषि मित्रजने प्रतिपन्नयतिक्षितिभृन्महिमा ।
शुचमर्थवता शमयन्वचस निजगाद सरोरुहपाद इदम् ॥३०॥
पर्याप्तं न ः क्लैब्यमुपेत्यात्र सखायः कृत्वोत्साहं भूमिमशेषामपिधानात् ।
अन्वेष्यामो भूविवराण्यप्यथ च द्यां यद्वद्देवं देवमनुष्यादिषु गूढम् ॥३१॥
अनिर्विण्णचेताः समास्थाय यत्नं सुदुष्प्रापमप्यर्थमाप्रोत्यवश्यम् ।
मुहुर्विघ्रजालैः सुरा हन्यमाना सुधामप्यवापुर्ह्यनिर्विण्णचित्ताः ॥३२॥
यदप्यन्यगात्रप्रतिच्छन्नरुपो दुरन्वेषणः स्याद्रुरुर्नस्तथापि ।
स्वभानूदरस्थः शशीव प्रकाशैस्तदीयैर्गुणैरेव वेत्तुं स शक्यः॥३३॥
इक्षुचापागमापेक्षया निर्गतो वर्ष्म तस्योचितं कृष्णवर्त्मद्युतिः ।
विभ्रमाणां पदं सुभ्रुवां भूपतेः प्राप्तुमर्हत्यकामाग्रणीः संयमी ॥३४॥
नित्यतृप्ताग्रयाय्याश्रिते निर्वृताः प्राणिनो रोगशोकादिना नेक्षिताः ।
दस्युपीडोज्झिताः स्वस्वधर्मे रताः कालवर्षी स्वराण्मेदिनी कामसूः ॥३५॥
तदिहाऽऽलस्यमपास्य विचेतुं निखधिसंसृतिजलधेः सेतुम् ।
देशिकवरपदकमलं यामो न वृथाऽनेहसमत्न नयामः ॥३६॥
इति जलरुहपदवचनं सर्वे मनसि निधाय निराकृतगर्वे ।
कांश्चित्तत्न निवेश्य शरीरं रक्षितुमन्ये निरगुरुदारम् ॥३७॥
ते चिन्वन्तः शैलाच्छैलं विषयाद्विषयं भुवमनुवेलम् ।
प्रापुर्धिक कृतविबुधनिवेशान् स्फीतानमरुकनृपतेर्देशान् ॥३८॥
मृत्वा पुनरप्युत्थितमेनं श्रुत्वा वैन्यदिलीपसमानम् ।
त्यक्त्वा विरहजदैन्यममन्दं मत्वऽऽचार्य धैर्यमविन्दन् ॥३९॥
ते च ज्ञात्वा गानविलोलं तरुणीसक्तं धरणीपालम् ।
विविशुः स्वीकृतगयकवेषा नगरं विदितसमस्तविशेषाः ॥४०॥
राज्ञे ज्ञापितविद्यातिशयास्ते तत्सङ्ग्रहविधृतातिशयाः ।
रमणीशतमध्यगमवनीन्द्रं दहशुस्तारावृतमित्र चन्द्रम् ॥४१॥
वरचाम्रकरतरुणीककणरज्जितमनोहरपश्चाद्भागम् ।
गीतिगतिज्ञोद्रीतश्रुतिसुखतानसमुल्लसदग्रिमदेशम् ॥४२॥
धृतचामीकरदण्डसितातपवारणरज्जितरत्नकिरीटम् ।
श्रितविग्रहमिव रतिपतिमाश्रितभुवमिव सान्तःपुरममरेशम् ॥४३॥
रुचिरवेषाः समासाद्य तां संसदं नयनसञ्ज्ञावितीर्णासना भूभुजा ।
समतिसृष्टास्ततः सुस्वरं मूर्च्छनापदविदस्ते जगुर्मोहयन्तः सभाम् ॥४४॥
भृड तव सडतिमपास्य गिरिश्रृडे तुडविटपिनि मडमजुषि त्वदडे ।
स्वाडरचिताः सकलुषान्तरडाः सङ्गमकृते भङ्गमुपयन्ति भृडाः ॥४५॥
पश्चशरसमयसश्चयकृते प्राश्चं मुश्चन्निवेह सश्च्रसि प्रपञ्चम् ।
पश्चजनमुख पश्चमुखमप्यनश्चंस्त्वं च गतिरिति किञ्च किल वश्चितोऽसौ ॥४६॥
पर्वशशिमुख सर्वमपहाय पूर्व कुर्वदिह गर्वमनुसृत्य हृदपूर्वम् ।
न स्मरसि वस्त्वस्मदीयमिति कस्मात्संस्मर तद्स्मर परमस्मदुक्त्या ॥४७॥
नेतिनेती त्यादिनिगमवचनेन निपुणं निषिध्य मूर्तामूर्तराशिम् ।
यदशक्यनिह्रवं स्वात्मरुपतया जानन्ति कोविदास्तत्त्वमसि तत्त्वम् ॥४८॥
खाद्यमुत्पाद्य विश्वमनुप्रविश्य गूढमन्नपयादिकोशतुषजाले ।
कवयो विविच्य युक्तयघाततो यत्तण्डुलवदाददति तत्त्वमसि तत्त्वम् ॥४९॥
विषमविषयेषु सश्चारिणोऽक्षाश्वान् दोषदर्शनकशाभिघाततः ।
स्वैरं सन्निवर्त्य स्वान्तरश्मिभिर्धीरा बध्रन्ति यत्र तत्त्वमसि तत्त्वम् ॥५०॥
व्यावृत्तजाग्रदादिष्वनुस्यूतं तेभ्योऽन्यदिव पुष्पेभ्य इव सूत्रम् ।
इति यदौपाधिकत्रयपृथक्तवेन विदन्ति सूरयस्तत्त्वमसि तत्त्वम् ॥५१॥
पुरुष एवेदमित्यादिवेदेषु सर्वकारणतया यस्य ।
सार्वात्म्यं हाटकस्येव मुकुटादितादाभ्यं सरसमाम्रायते तत्त्वमसि तत्त्वम् ॥५२॥
यश्चाहमत्र वर्ष्मणि भामि सोऽसौ योऽसौ विभाति रविमण्डले सोऽहमिति ।
वेदवादिनो व्यतिहारतो यदध्यापयन्ति यत्नतस्यत्त्वमसि तत्त्वम् ॥५३॥
वेदानुवचनसद्दानमुखधर्मैः श्रद्धयाऽनुष्ठितैर्विद्यया युक्तैः ।
विविदषन्त्यत्यन्तविमलस्वान्ता ब्राह्मणा य ब्रह्म तत्त्वमसि तत्त्वम् ॥५४॥
शमदमोपरमादिसाधनैर्धीराः स्वात्मनऽऽत्मनि यदन्विष्य कृतकृत्याः ।
अधिगतामितसचिदानन्दरुपा न पुनरिह खिद्यन्ते तत्त्वमसि तत्त्वम् ॥५५॥
अविगीतमेवं नरपतिराकर्ण्य वर्णितात्मार्थम् ।
विससर्ज पूरिताशानेतान्निर्ज्ञातकर्तव्यः ॥५६॥
उद्वोधितः सदसि तैरवलम्ब्य मूर्च्छा निर्गत्य राजतनुतो निजमाविवेश ।
गात्रं पुरोदितनयेन स देशिकेन्द्रः सञ्ज्ञामवाप्य च पुरेव समुत्थितोऽभूत् ॥५७॥
तदेनु कुहरमेत्य पूर्वदृष्टं नरपतिभृत्यविसृष्टपावकेन ।
निजवपुरवलोक्य दह्यमानं झटिति स योगधुरन्धरो विवेश ॥५८॥
सपदि दहनशान्तये महान्तं नरमृगरुपमधोक्षजं शरण्यम् ।
स्तुतिभिरधिकलालसत्पदाभिस्त्वरितमतो षयदात्मवित्प्रधानः ॥५९॥
नरहरिकृपया ततः प्रशान्ते प्रबलतरे स हुताशने प्रविष्टः ।
निरगमदचलेन्द्रकन्दरान्ताद्विधुरिव वक्तबिलाद्विधुन्तुदस्य ॥६०॥
तदनु शमधनाधिपो विनेयैश्चिरविरहादतिवर्धमानहार्दैः ।
सनक इव वृतः सनन्दनाद्यैर्जिगमिषुराजनि मण्डनस्य गेहम् ॥६१॥
तदनु सदनमेत्य पूर्वदृष्टं गगनपथाद्रलितक्रियाभिमानम् ।
विषयविषनिवृत्ततर्षमुचैरतनुत मण्डनमिश्रमक्षिपात्रम् ॥६२॥
तं समीक्ष्य नभश्च्युतं स च प्राज्जलिः प्रणतपूर्वविग्रहः ।
अर्हणाभिरभिपूज्य तस्थिवानीक्षणैरनिमिषैः पिबन्निव ॥६३॥
स विश्वरुपो बत सत्यवादी पपात पादाम्बुजयोर्यतीशः ।
गृहं शरीरं मम यच सर्व तवेति वादी मुदितो महात्मा ॥६४॥
प्रेयसा प्रथममर्चितं मुनिं प्राप्तविष्टरमुपस्थितं बुधैः।
प्रश्रयावनतमूर्तिरब्रवीच्छारदाऽभिवदने विशारदा ॥६५॥
ईशान ःसर्वविद्यानामीश्वर ः सर्वदेहिनाम् ।
ब्रह्मणोऽधिपतिर्ब्रह्मन् भवान् साक्षात्सदाशिवः ॥६६॥
सदसि मामविजित्य तथैव यन्मदनशासन कामकलास्वपि ।
तदवबोधकृते कृतिमाचरस्तदिह मर्त्यचरित्नविडम्बनम् ॥६७॥
त्वया यदावां विजितौ परात्मन्न तत्तपामावहतीडय सर्वथा ।
कृताभिभूतिर्न मयूखशालिना निशाकरादेरपकीर्तये खलु ॥६८॥
आदावात्म्यं धाम कामं प्रयास्याम्यर्हस्यच्छं मामनुज्ञातुमर्हन् ।
इत्यामन्त्र्यान्तर्हितां योगशक्त्या पश्यन् देवीं भाष्यकर्ता बभाषे ॥६९॥
जानामि त्वां देवि देवस्य धातुर्भार्यामिष्टामष्टमूर्तेः सगर्भ्याम् ।
वाचामाद्यां देवतां विश्वगुप्त्यै चिन्मात्रामप्यात्तलक्ष्म्यादिरुपाम् ॥७०॥
तस्मादस्मत्कल्पितेष्वर्च्यमाना स्थानेषु त्वं शारदाख्या दिशन्ती ।
इष्टानर्थानृष्यश्रृडादिकेषु क्षेत्रेष्वास्स्व प्राप्तसत्सन्निधाना ॥७१॥
तथेति संश्रुत्य सरस्वती सा प्रायात्प्रियं धाम पितामहस्य ।
अदर्शनं तत्र समीक्ष्य सर्व आकस्मिकं विस्मयमीयुरुचैः ॥७२॥
तस्या यतीशजितभर्तृयतित्वजातवैधव्यसम्भशुचा भुवमस्पृशन्त्याः ।
अन्तर्धिमेक्ष्य मुदितोऽजनि मण्डनोऽपि तत्साधु वीक्ष्य मुमुदे यतिशेखरश्च ॥७३॥
मण्डनमिश्रोऽप्यथ विधिपूर्व दत्वा वित्तं यागे सर्वम् ।
आत्मारोपितशोचिष्केशो भेजे शकरमस्तमिताशः ॥७४॥
सन्न्यासगृह्यविधिना सकलानि कर्माण्यह्राय शकरगुरुर्विदुषोऽस्य कुर्वन् ।
कर्णे जगौ किमपि तत्त्वमसीति वाक्यं कर्णेजपं निखिलसंसृतिदुःखहानेः ॥७५॥
सन्न्यासपूर्व विधिवद्विभिक्षे पश्चादुपादिक्षदथाऽऽत्मतत्त्वम् ।
आचार्यवर्यः श्रुतिमस्तकस्थं तदादिवाक्यं पुनराबभाषे ॥७६॥
त्वं नासि देहो घटवद्धयनात्मा रुपादिमत्त्वादिह जातिमत्त्वात् ।
ममेति भेदप्रथनादभेदसम्प्रत्ययं विद्धि विपर्ययोत्थम् ॥७७॥
लोप्यो हि लोप्यव्यतिरिक्तलोपको दृष्टो घटादिः खलु तादृशी तनुः ।
दृश्यत्वहेतोर्व्यतिरेकसाधने त्वत्तः शरीरं कथमात्मतागतिः ॥७८॥
नापीन्द्रियाणि खलु तानि च साधनानि
दात्रादिवत्कथममीषु तवाऽऽत्मभावः ।
चक्षुर्मदीयमिति भेदगतेरमीषां
स्वप्रादिभावविरहाच घटादिसाम्यम् ॥७९॥
यद्यात्मतैषां समुदायगा स्यादेकव्ययेनापि भवेन्न तद्धीः ।
प्रत्येकमात्मत्वमुदीर्यते चेन्नश्येच्छरीरं बहुनायकत्वात् ॥८०॥
आत्मत्वमन्यतमगं यदि चक्षुरादेश्चक्षुर्विनाशसमये स्मरणं न हि स्यात् ।
एकाश्रयत्वनियमात्स्मरनानुभूत्योर्दृष्टश्रुतार्थविषयावगतिश्च न स्यात् ॥८१॥
मनोऽपि नाऽऽत्मा करणत्वहेतोर्मनो मदीयं गतमन्यतोऽभूत् ।
इति प्रतीतेर्व्यभिचारितायाः सुप्तौ च तच्चिन्मनसोर्विविक्तता ॥८२॥
अनयैव दिशा निराकृता न च बुद्धेरपि चाऽऽत्मता स्फुटम् ।
अपि भेदगतेरनन्वयात्करणादाविव बुद्धिमुज्झ भोः ॥८३॥
नाहङ्कृतिश्चरमधातुपदप्रयोगात् प्राणा मदीया इति लोकवादात् ।
प्राणोऽपि नाऽऽत्मा भवितुं प्रगल्भः सर्वोपसंहारिणी सन् सुषुप्ते ॥८४॥
एवं शरीराद्यविविक्त आत्मा त्वंशब्दवाच्योऽभिहितोऽत्न वाक्ये ।
तदोदितं ब्रह्म जगन्निदानं तथा तथैक्यं पदयुत्मबोध्यम् ॥८५॥
कथं तदैक्यं प्रतिपादयेद्वचः सर्वज्ञसम्मूढपदाभिषिक्तयोः ।
न ह्येकता सन्तमसप्रकाशयोः सन्दृष्टपूर्वा न च दृश्यतेऽधुना ॥८६॥
सत्यं विरोधगतिरस्ति तु वाच्यगेयं सोऽयं पुमानितिवदत्न विरोधहानेः ।
आदाय वाच्यमविरोधि पदद्वयं तल्लक्ष्यैक्यबोधनपरं ननु को विरोधः ॥८७॥
जहीहि देहादिगतामहन्धियं चिरार्जितां कर्मशठैः सुदुस्त्यजाम् ।
विवेकबुद्धया परमेव सन्ततं ध्यायाऽऽत्मभावेन यतो विमुक्तता ॥८८॥
साधारणे वपुषि काकश्रृगालवह्रिमात्रादिकस्य ममतां त्यज दुःखहेतुम् ।
तद्वज्जहीहि बहिरर्थगतां च विद्वंश्चित्तं बधान परमात्मनि निर्विशकम् ॥८९॥
तीरात्तीरं सञ्चरन् दीर्घमत्स्यस्तीराद्भिन्नो लिप्यते नापि तेन ।
एवं देही सञ्चरजाग्रदादौ त्स्माद्भिन्नो नापि तद्धर्मको वा ॥९०॥
जाग्रत्स्वप्रसुषुप्तिलक्षणमदोऽवस्थात्रयं चित्तनौ
त्वय्येवानुगते मिथो व्यभिचरद्धीसञ्ज्ञमज्ञानतः ।
क्लृप्तं रज्ज्विदमंशके वसुमतीच्छिद्राहिदण्डादिवत्
त ब्रह्मासि तुरीयमुज्झितभयं मा त्वं पुरेव भ्रमीः ॥९१॥
प्रत्यक्तमं परपदं विदुषोऽन्तिकस्थं
दूरं तदेव परिमूढमतेर्जनस्य ।
अन्तर्बहिश्च चितिरस्ति न वेति कश्चि -
चिन्वन् बहिर्बहिरहो महिमाऽऽत्मशक्तेः ॥९२॥
यथा प्रपायां बहवो मिलन्ते क्षणे द्वितीये बत भिन्नमार्गाः ।
प्रयान्ति तद्वद्वहुनामभाजो गृहे भवन्त्यत्र न कश्चिदन्ते ॥९३॥
सुखाय यद्यत् क्रियते दिवानिशं सुखं न किञ्चिद्वहुदुःखमेव तत् ।
विना न हेतुं सुखजन्म दृश्यते हेतुश्च हेत्वन्तरसन्निधौ भवेत् ॥९४॥
परिपक्कमतेः सकृच्छ्रुतं जनयेदात्मधियं श्रुतेर्वचः ।
परिमन्दमतेः शनैः शनैर्गुरुपादाब्जनिषेवणादिना ॥९५॥
प्रणवाभ्यसनोक्तकर्मणोः करणेनापि गुरोर्निषेवणात् ।
अपगच्छति मानसं मलं क्षमते तत्त्वमुदीरितं ततः ॥९६॥
मनोऽनुवर्तेत दिवानिशं गुरौ गुरुर्हि साक्षाच्छिव एव तत्त्ववित् ।
निजानुवृत्या परितोषितो गुरुर्विनेयवक्तं कृपया हि वीक्षते ॥९७॥
सा कल्पवल्लीव निजेष्टमर्थ फलत्यवश्यं किमकार्यमस्याः ।
आज्ञा गुरोस्तत्परिपालनीया सा मोदमानीय विद्यातुमिष्टा ॥९८॥
गुरुपदिष्टा निजदेवता चेत्कुप्येत्तदा पालयिता गुरुः स्यात् ।
रुष्टे गुरौ पालयिता न कश्चिद्रुरौ न तस्माज्जनयेत कोपम् ॥९९॥
पुमान् पुमर्थ लभतेऽपि चोदितं भजन्निवृत्तः प्रतिषिद्धसेवनात् ।
विधिं निषेधं च निवेदयत्ससौ गुरोरनिष्टच्युतिरिष्टसम्भवः ॥१००॥
आराधितं दैवतमिष्टमर्थ ददाति तस्याधिगमो गुरोः स्यात् ।
नो चेत्कथं वेदितुमीश्वरोऽयमतीन्द्रियं दैवतमिष्टदं न ः ॥१०१॥
तुष्टे गुरौ तुष्यति देवतागणो रुष्टे गुरौ रुष्यति देवतागणः ।
सदाऽऽत्मभावेन सदात्मदेवताः पश्यन्नसौ विश्वमयो हि देशिकः ॥१०२॥
एवं पुराणगुरुणा परमात्मतत्त्वं शिष्टो गुरोश्चरणयोर्निपपात तस्य ।
धन्योऽस्म्यहं तव गुरो करुणाकटाक्षपातेन पातिततमा इति भाषमाणः ॥१०३॥
ततः स सम्प्राप्य सुरेश्वराख्यां दिगडनाभिः क्रियमाणसख्याम् ।
सच्छिष्यतां भाष्यकृतश्च मुख्यामवाप तुच्छीकृतधातृसौख्याम् ॥१०४॥
निखिलनिगमचूडाचिन्तया हन्त यावत्
स्वमनवधिकसौख्यं निर्विशन्निर्विशकम् ।
बहुतिथमभितोऽसौ नर्मदां नर्मदां तां
मगधभुवि निवासं निर्ममे निर्ममेन्दः ॥१०५॥
इति वशीकृतमण्डनपण्डितः प्रणतसत्करणत्रयदण्डितः ।
सकलसद्रुणमण्डलमण्डितः स निरगात् कृतदुर्मतखण्डितः ॥१०६॥
कुसुमितविविधपलाशभ्रमदलिकुलगीतमधुरस्वनम् ।
पश्यन् विपिनमयासीदाशां कीनाशपालितामेषः ॥१०७॥
तत्र महाराष्ट्रमुखे देशे ग्रन्थान् प्रचारयन् प्राज्ञतमः ।
शमितपतान्तरमानः शनकैः सनकोपमोऽगमच्छ्रीशैलम् ॥१०८॥
प्रफुल्लमल्लिकावनप्रसडसतामितप्रकाण्डगन्धबन्धुरप्रवातधूतपादपम् ।
सदामदद्विपाधिपरहारशूरकेसरिव्रजं भुजङ्गभूषणप्रियं स्वयम्भुकौशलम् ॥१०९॥
कलिकल्पषभङ्गायां सोऽद्रेराराच्चलत्तरडायाम् ।
अधरीकृततुडायां सस्रौ पातालगामिगडायाम् ॥११०॥
नमन्मोहभङ्गं नभोलेहिश्रृडं त्रुटत्पापसडं रटत्पक्षिभृडम् ।
समाश्लिष्टगडं प्रहृष्टान्तरडं तमारुह्य तुडं ददर्शेशलिडम् ॥१११॥
प्रणमद्भवबीजभर्जनं प्रणिपत्यामृतमम्पदार्जनम् ।
प्रमुमोद स मल्लिकार्जुनं भ्रमराम्बासचिवं नतार्जुनम् ॥११२॥
तीररुहैः कृष्णायास्तीरेऽवात्सीत्तिरोहितोष्णायाः ।
आवजिततृष्णाया आचार्येन्द्रो निरस्तकार्ष्ण्यायाः ॥११३॥
तत्रातिचित्रपदमत्रभवान् पवित्रकीर्तिर्विचित्रसुचरित्रनिधिः सुधीन्द्रान् ।
अग्राहयत्कृतमसदग्रहनिग्रहार्थमग्र्यान् समग्रसुगुणान् महदग्रयायी ॥११४॥
अध्यापयन्तमसदर्थनिरासपूर्व किन्त्वन्यतीर्थयश्सं श्रुतिभाष्यजातम् ।
आक्षिप्य पाशुपतवैष्णववीरशैवमाहेश्वराश्च विजिता हि सुरेश्वराद्यैः ॥११५॥
केचिद्विसृज्य मतमात्म्यममुष्य शिष्य -
भावं गता विगतमत्सरमानदोषाः ।
अन्ये तु मन्युवशमेत्य जघन्यचित्ता
निन्युःक्षणं निधनमस्य निरीक्षमाणाः ॥११६॥
वेदान्तीकृतनीचशूद्रवचसो वेदाः स्वयं कल्पनाः
पापिष्ठाः स्वमपि त्रयीपथमपि प्रायो दहन्त ः खलाः ।
साक्षाब्रह्मणि शकरे विदधति स्पर्धानिबद्धां मतिं
कृष्णे पौण्ड्रकवत्तथा न चरमां किं ते लभन्ते गतिम् ॥११७॥
वाणी काणभुजी च नैव गणिता लीना कचित्कापिली
शैवं चाशिवभावमेति भजते गर्हापदं चार्हतम् ।
दौर्ग दुर्गतिमश्नुते भुवि जनः पुष्णाति को वैष्णवं
निष्णातेषु यतीशसूक्तिषु कथाकेलीकृतासूक्तिषु ॥११८॥
तथागतकथा गता तदनुयायि नैयायिकं
वचोऽजनि न चोदितो वदति जातु तौता तितः ।
विदग्धति न दग्धधीर्विदितचापलं कापिलं
विनिर्दयविनिर्दलद्विमतसकरे शकरे ॥११९॥
इति श्रीमाधवीये तत्कलाज्ञत्वप्रपञ्चनम् ।
सङ्क्षेपशकरजये सर्गोऽयं दशमोऽभवत् ॥१०॥
आदितः श्लोकाः ११४८