विश्वास-प्रस्तुतिः
अथ संयमिक्षितिपतेर्वचनैर्निगमार्थनिर्णयकरैः सनयैः ।
शमिताग्रहोऽपि पुनरप्यवदत् कृतसंशयः सपदि कर्मजडः ॥१॥
मूलम्

यतिराज सम्प्रति ममाभिभवान्
न विषादितोऽस्म्य्, अप्रजयाद् अपि तु ।
अपि जैमिनीय-वचनान्य् अहहोन्-
मथितानि हीति भृशम् अस्मि कृशः ॥२॥
मूलम्
यतिराज सम्प्रति ममाभिनवान्न विषादितोऽस्म्यप्रजयादपि तु ।
अपि जैमिनीयवचनान्यहहोन्मथितानि हीति भृशमस्मि कृशः ॥२॥
विश्वास-प्रस्तुतिः
स हि वेत्त्यनागतमतीतमपि प्रियकृत्समस्तजगतोऽधिकृतः ।
निगमप्रवर्तनविधौ स कथं तपसां निधिर्वितथसूत्नपदः ॥३॥

इति सन्दिहानमवदत्तमसौ न हि जैमिनावपनयोऽस्ति मनाक् ।
प्रमिमीमहे न वयमेव मुनेर्हॄदयं यथावदनभिज्ञतया ॥४॥

यदि विद्यते कविजनाविदितं हृदयं मुनेस्तदिह वर्णय भोः ।
यदि युक्तमत्न भवता कथितं हृदि कुर्महे दलदहङ्कृतयः ॥५॥

अभिसन्धिमानपि परे विषयप्रसरन्मतीननुजिघृक्षुरसौ ।
तदवाप्तिसाधनतया सकलं सुकृतं न्यरुपयदिति स्म परम् ॥६॥

वचनं तमेतमिति धर्मचयं विदधाति बोधजनिहेतुतया ।
तदपेक्षयैव स च मोक्षपरे निरधारयन्न परथेति वयम् ॥७॥

श्रुतयः क्रियार्थकतया सफला अतदर्थकानि तु वचांसि वृथा ।
इति सूत्रयन्ननु कथं मुनिराडपि सिद्धवस्तुपरतां मनुते ॥८॥

श्रुतिराशिरद्वयपरोऽपि परम्परयाऽऽत्मबोधफलकर्मणि च ।
प्रसरत्कटाक्ष इति कार्यपरत्वमसूचि तत्प्रकरणस्थगिराम् ॥९॥

ननु सच्चिदात्मपरताऽभिमता यदि कृत्स्रवेदनिचयस्य मुनेः ।
फलदातृतामपुरुषस्य वदन् स कथं निराह परमेशमपि ॥१०॥

ननु कर्तृपूर्वकमिदं जगदित्यनुमानमागमवचांसि विना ।
परमेश्वरं प्रथयति श्रुतस्त्वनुवादमात्रमिति काणभुजाः ॥११॥

न कथञ्चिदौपनिषदं पुरुषं मनुते बृहन्तमिति वेदवचः ।
कथयत्यवेदविदगोचरतां गमयेत् कथं तमनुमानमिदम् ॥१२॥

इति भावमात्मनि निधाय मुनिः स निराकरोन्निशितयुक्तिशतैः ।
अनुमानमीश्वरपरं जगतः प्रभवं लयं फलमपीश्वरतः ॥१३॥

तदिहास्मदुक्तविधया निषदा न विरुद्धमण्वपि मुनेर्वचसि ।
इति गूढ्भावमनवेक्ष्य बुधास्तमनीशवाद्ययमिति ब्रुवते ॥१४॥

किमु तावतैव स निरीश्वरवाद्यभवत् परात्मविदुषां प्रवरः ।
न निशाटनाहिततमः कचिप्यदहनि प्रभां मलिनयेत्तरणेः ॥१५॥

इति जैमिनीयवचसां हृदयं कथितं निशम्य यतिकेसरिणा ।
मनसा ननन्द कविराण्णितरां सह शारदाश्च सदसस्पतयः ॥१६॥

विदिताशयोऽपि परिवर्तिमनाग्विशयः स जैमिनिमवाप हृदा ।
अवगन्तुमस्य वचसाऽपि पुनः स च संस्मृतः सविधमाप कवेः ॥१७॥

अवदच्च श्रुण्विति स भाष्यकृति प्रजहाहि संशयमिमं सुमते ।
यदवोचदेष मम सूत्रततेर्हृदयं तदेव मम नापरथा ॥१८॥

न ममैव वेद हृदयं यमिराडपि तु श्रुतेः सकलशास्त्रततेः ।
यदभूद्भविष्यति भवत्तदपि ह्ययमेव वेद न तथा त्वितरः ॥१९॥

गुरुणा चिदेकरसतत्परता निरणायि हि श्रुतिशिरोवचसाम् ।
कथमेकसूत्रमपि तद्विमतं कथयाम्यहं तदुपसादितधीः ॥२०॥

अलमाकलय्य विशयं सुयशः श्रृणु मे रहस्यमिममेव परम् ।
त्वमवेहि संसृतिनिमग्रजनोत्तरणे गृहीतवपुषं पुरुषम् ॥२१॥

आद्ये सत्वमुनिः सतां वितरति ज्ञानं द्वितीये युगे
दत्तो द्वापरनामके तु स्कुमतिर्व्यासः कलौ शकरः ।
इत्येवं स्फुटमीरतोऽस्य महिमा शैवे पुराणे यत
स्तस्य त्वं सुमते मते त्ववतरेः संसारवार्धि तरेः ॥२२॥

इति बोधितद्विजवरोऽन्तरधान्मनसोपगुह्य यमिनामृषभम् ।
स च यायजूकपरिषत्प्रमुखः प्रणिपत्य शकरमवोचदिदम् ॥२३॥

विदितोऽस्ति सम्प्रति भवाज्जगतः प्रकृतिर्निरस्तसमतातिशयः ।
अवबोधमात्रवपुरप्यबुधोद्धरणाय केवलमुपात्ततनुः ॥२४॥

यदेकमुदितं पदं यतिवर त्नयीमस्तकै
स्तदस्य परिपालकस्त्वमसि तत्त्व्मस्यायुधः ।
परं गलितसौगतप्रलपितान्धकूपान्तरे
पतत्कथमिवान्यथा प्रलयमद्य नापत्स्यते ॥२५॥

प्रबुद्धोऽहं स्वप्रादिति कृतमतिः स्वप्रमपरं
यथा मूढः स्वप्रे कलयति तथा मोहवशगाः ।
विमुक्तिं मन्यन्ते कतिचिदिह लोकान्तरगतिं
हसन्त्येतान् दासास्तव गलितमायाः परगुरोः ॥२६॥

मुहुर्धिग्विग्भेदिप्रलपितविमुक्तिं यदुदयेऽप्य
सारः संसारो विरमति न कर्तृत्वमुखरः ।
भृशं विद्वन्मोदे स्थिरतमविमुक्तिं त्वदुदितां
भवातीता येयं निरवधिचिदानन्दलहरी ॥२७॥

अविद्याराक्षस्या गिलितमखिलेशं परगुरो
पिचण्डं भित्त्वास्याः सरभसममुष्मादुदहरः।
वृतां पश्यन् रक्षोयुवतिभिरमुष्य प्रियतमां
हनूमांल्लोकेडयस्तव तु कियती स्यान्महितता ॥२८॥

जगदार्तिहन्ननवगम्य पुरा महिमानमीदृशमचिन्त्यमहम् ।
तव यत्पुरोऽव्रवमसाम्प्रतमप्यखिलं क्षमस्व करुणाजलधे ॥२९॥

कपिलाक्षपदाकणभुक्प्रमुखा अपि मोहमीयुरमितप्रतिभाः ।
श्रुतिभावनिर्णयाविधावितरः प्रभवेत्कथं परशिवांशमृते ॥३०॥

समेतैरेतैः किं कपिलकणभुग्गौतमवच -
स्तमस्तोमैंश्चेतोमलिनिसममरम्भणचणैः ।
सुधाधारोद्रारप्रचुरभगवत्पादवदन
प्ररोहद्वयाहारमृतकिरणपुज्जे विजयिनि ॥३१॥

भिन्दानैर्देवमेतैरभिनवयवनैः सद्रवीभज्जनोत्कै-
र्व्याप्ता सर्वेयमुर्वी क जगति भजतां कैव मुक्तिप्रसक्तिः ।
यद्वा सद्वादिराजा विजितकलिमला विष्णुतत्त्वानुरक्ता
उज्जृम्भन्ते समन्ताद्दिशि दिशि कृतिनः किं तया चिन्तया मे ॥३२॥

कथमल्पबुद्धिविवृतिप्रचयप्रबलोरगक्षतिहताः श्रुतयः ।
न यदि त्वदुक्त्यमृतसेकधृता विहरेयुरात्मविधृतानुशयाः ॥३३॥

भवदुक्तसूक्त्यमृतभानुकरा न चरेयुरार्य यदि क ः शमयेत् ।
अतितीव्रदुः सहभवोष्णकरप्रचुरातपप्रभवतापमिमम् ॥३४॥

बत कर्मयन्त्रमधिरुह्य तपः श्रुतगेहदारसुतभृत्यधनैः ।
अतिरुढमानभरितः पतितो भवतोद्धृतोऽस्मि भवकूपबिलात् ॥३५॥

अहमचरं बहुतपोऽसुकरं ननु पूर्वजन्मसु न चेदधुना ।
जगदीश्वरेण करुणानिधिना भवता कथा मम कथं घटते ॥३६॥

शान्तिपाक्सुकृताकुरं दमसमुल्लासोल्लसत्पल्लवं
वैराग्यद्रुमकोरकं सहनतावल्लीप्रसूनोत्करम् ।
ऐकाग्रीसुमनो म्रन्दविसृतिं श्रद्धासमुद्यत्फलं
विन्देयं सुगुरोर्गिरां परिचयं पुण्यैरगण्यैरहम् ॥३७॥

त्रिदिवौकसामपि पुमर्थकरीमिह संसरज्जनविमुक्तिकरीम् ।
करुणोर्मिलां तव कटाक्षझरीमवगाहतेऽत्र खलु धन्यतमः ॥३८॥

केचिचश्चललोचनाकुचतटीचेलाश्चलोचालन
स्पर्शद्राक्परिरम्भसम्भ्रमकलालीलासु लोलाशयाः ।
सन्त्वेते कृतिनस्तु निस्तुलयशः कोंशादयः श्रीगुरु -
व्याहारक्षरितामृताब्धिलहरीदोलासु खेलन्त्यमी ॥३९॥

चिन्तासन्तानतन्तुग्रथितनवभवत्सुक्तिमुक्ताफलौघै
रुद्यद्वैशद्यसद्यःपरिहृततिमिरैर्हारिणो हारिणोऽमी ।
सन्तः सन्तोषवन्तो यतिवर किमतो मण्डनं पण्डितानां
विद्या हृद्या स्वयं तान् शतमखमुखरान् वारयन्ती वृणीते ॥४०॥

सन्तः सन्तोषपोषं दधतु तव कृताम्रायशोभैर्यशोभिः
सौरालोकैरुलूका इव निखिलखला मोहमाहो वहन्तु ।
धीरश्रीशङ्करार्यप्रणतिपरिणतिभ्रश्यदन्तर्दुरन्त -
ध्वान्ताः सन्तो वयं तु प्रचुरतर निजानन्दसिन्धौ निमग्राः ॥४१॥

चिन्तासन्तानशाखी पदसरसिजयोर्वन्दनं नन्दनं ते
सकल्पः कल्पवल्ली मनसि गुणनुतेर्वर्णना स्वर्णदीयम् ।
स्वर्गो दृग्गोचरस्त्वत्पदभजनमतः संविचार्येदमार्या
मन्यन्ते स्वर्गमन्यं तृणवदतिलघुं शकरार्य त्वदीयाः ॥४२॥

तद् अहं विसृज्य सुत-दार-गृहं
द्रविणानि कर्म च गृहे विहितम् ।
शरणं वृणोमि भगवच्चरणाव्
अनुशाधि किङ्करम् अमुं कृपया ॥४३॥
मूलम्
तदहं विसृज्य सुतदारगृहं द्रविणानि कर्म च गृहे विहितम् ।
शरणं वृणोमि भगवच्चरणावनुशाधि किङ्करममुं कृपया ॥४३॥
विश्वास-प्रस्तुतिः
इति सूनृतोक्तिभिरुदीर्णगुणः सुधियाऽऽत्मवाननुजिघुक्षुरसौ ।
समुदैक्षतास्य सहधर्मचरीं विदिताशया मुनिमवोचत सा ॥४४॥

यतिपुण्डरीक तव वेद्मि मनो ननु पूर्वमेव विदितं च मया ।
इह भावि तापसमुखादखिलं तदुदीर्यते श्रृणु ससभ्यजनः ॥४५॥

मयि जातु मातुरुपकण्ठजुषि प्रभया तडित्प्रतिभटोचजटः ।
सितभूतिरुषितसमस्ततनुः श्रमणॊऽभ्ययादपरसूर्य इव ॥४६॥

परिगृह्य पाद्यमुखयाऽर्हणया रचिताज्जलिर्नमितपूर्वतनुः ।
जननी तदाऽऽत्तवरिवस्यममुं मुनिमन्वयुक्त मम भाव्यखिलम् ॥४७॥

भगवन्न वेद्मि दुहिर्तुमम भाव्यखिलं च वेत्ति तपसा हि भवान् ।
प्रणते जने हि सुधियः कथयन्त्यपि गोप्यमार्यसदृशाः कृपया ॥४८॥

कियदायुरवाप्स्यति सुतान् कति वा दयितं कथविधमुपैष्यति च ।
अथ च क्रतूनपि करिष्यति मे दुहिता प्रभूतधनधान्यवती ॥४९॥

इति पृष्टभाविचरितः प्रसुवा क्षणमात्रमीलितविलोचनकः ।
सकलं क्रमेण कथयन्निदमप्यपरं जगाद सुरहस्यमपि ॥५०॥

निगमाध्वनि प्रबलबाह्यमतैरमितैरधिक्षिति खिले द्रुहिणः ।
पुनरुद्दिधीर्षुरवतीर्य खलु प्रतिभाति मण्डनकवीन्द्रमिषात् ॥५१॥

तमवाप्य रुद्रमिव साऽद्रिसुता दुहिता तवाच्युतमिवाब्धिसुता ।
अनुरुपमाहृतसमस्तमखा ससुता भविष्यति चिरं मुदिता ॥५२॥

अथ नष्टमौपनिषदं प्रबलैः कुमतैः कृतान्तमिह साधयितुम् ।
ननु मानुषं वपुरुपेत्य शिवः समलङ्करिष्यति धरां स्वपदैः ॥५३॥

सह तेन वादमुपगम्य चिरं दुहितुः पतिस्तु यतिवेषजुषा ।
विजितस्तमेव शरणं जगतां शरणं गमिष्यति विसृष्टगृहः ॥५४॥

इति गामुदीर्य स मुनिः प्रययौ सकलं यथातथामभूच्च मम ।
भवदीयशिष्यपदमस्य कथं वितथं भविष्यति मुनेर्वचसि ॥५५॥

अपि तु त्वयाऽद्य न समग्र-जितः
प्रथिताग्र-णीर् मम पतिर्, यद् अहम् ।
वपुर् अर्धम् अस्य न जिता मतिमन्न्
अपि मां विजित्य कुरु शिष्यम् इमम् ॥५६॥
मूलम्
अपि तु त्वयाऽद्य न समग्रजितः प्रथिताग्रणीर्मम पतिर्यदहम् ।
वपुरर्धमस्य न जिता मतिमन्नपि मां विजित्य कुरु शिष्यमिमम् ॥५६॥
विश्वास-प्रस्तुतिः
यदपि त्वमस्य जगतः प्रभवो ननु सर्वविच परमः पुरुषः ।
तदपि त्वयैव सह वाद्कृते हृदयं बिभर्ति मम तूत्कलिकाम् ॥५७॥

इति यायजऊकसहधर्मचरीकथितं वचोऽर्थद्वगर्ह्यपदम् ।
मधुरं निशम्य मुदितः सुतरां प्रतिवक्तुमैहत यतिप्रवरः ॥५८॥

यदवादि कलहोत्सुकतां प्रतिपद्यते हृदयमित्यबले ।
तदसाम्प्रतं न हि महायशसो महिलाजनेन कथयन्ति कथाम् ॥५९॥

स्व-मतं प्रभेत्तुम् इह यो यतते
स वधू-जनो ऽस्तु यदि वाऽस्त्व् इतरः ।
यतितव्यम् एव खलु तस्य जये
निज-पक्ष-रक्षण-परैर् भगवन् ॥६०॥
मूलम्
स्वमतं प्रभेत्तुमिह यो यतते स वधूजनोऽस्तु यदि वाऽस्त्वितरः ।
यतितव्यमेव खलु तस्य जये निजपक्षरक्षणपरैर्भगवन् ॥६०॥
विश्वास-प्रस्तुतिः
अत एव गार्ग्यभिधया कलहं सह याज्ञवल्क्यमुनिराडकरोत् ।
जनकस्तथा सुलभयाऽबलया किममी भवन्ति न यशोनिधयः ॥६१॥

इति युक्तिमद्रदितमाकलयन्मुदितान्तरः श्रुतिसरिज्जलघिः ।
स तया विवादमधिदेवतया वचसामियेष विदुषां सदसि ॥६२॥

अथ सा कथा प्रववृत्ते स्म तयोरुभयोः परस्प्रजयोत्सुकयोः ।
मतिचातुरीरचितशब्दझरी श्रुतिविस्मयीकृतविचक्षणयोः ॥६३॥

अनयोर्विचित्रपदयुक्तिभरैर्निशमय्य सङ्कथनमाकलितम् ।
न फणीशमयतुलयन्न पपीं न गुरुं कविं किमपरं जगति ॥६४॥

न दिवा न निश्यपि च वादकथा विरराम नैयमिककालमृते ।
इति जल्पतोः सममनल्पधियोर्दिवसाश्च सप्त दश चात्यगमन् ॥६५॥

अथ शारदाऽकृतसन्न्यसनो नियमैः परैरविधुरश्च सदा ।
तमजय्यमात्मनि विचिन्त्य मुनिं पुनरप्यचिन्तयदिदं तरसा ॥६६॥

अतिबाल्य एव कृतसन्न्यसनो नियमैः परैरविधुरश्च सदा ।
मदनागमेष्वकृतबुद्धिरसौ तदनेन सम्प्रति जयेयमहम् ॥६७॥

इति सम्प्रधार्य पुनरप्यमुना कथने प्रसङ्गमथ सङ्गतितः ।
यमिनं सदस्यमुमपृच्छदसौ कुसुमास्त्रशास्त्रहृदयं विदुषी ॥६८॥

कलाः कियन्त्यो वद पुष्प-धन्वनः
किम्-आत्मिकाः, किञ् च पदं समाश्रिताः ।
पूर्वे च पक्षे कथम् अन्यथा स्थितिः,
कथं युवत्यां, कथम् एव पूरुषे ॥
मूलम्
कलाः कियन्त्यो वद पुष्पधन्वनः किमात्मिकाः किञ्च पदं समाश्रिताः ।
पूर्वे च पक्षे कथमन्यथा स्थितिः कथं युवत्यां कथमेव पूरुषे ॥
विश्वास-प्रस्तुतिः
नेतीरितः किञ्चिदुवाच शकरो विचिन्तयन्नत्र चिरं विचक्षणः ।
तासामनुक्तौ भविताऽल्पवेदिता भवेत्तदुक्तौ मम धर्मसङ्क्षयः ॥७०॥

इति संविचिन्त्य स हृदाऽऽशु तदाऽनवबुद्धपुष्पशरशास्त्र इव ।
विदितागमोऽपि सुरिरक्षयिषुर्नियमं जगाद व्रतिनाम् ॥७१॥

इह मासमात्रवधिः क्रियतामनुमन्यते हि दिवसस्य गणः ।
तदनन्तरं सुदति हास्यासि भोः कुसुमास्त्रनिपुणत्वमपि ॥७२॥

उररीकृते सति तथेति तयाऽऽक्रमते स्म योगिमृगराड् गगनम् ।
श्रुतविग्रहः श्रुतविनेययुतो दधदभ्रचारमथ योगदृशा ॥७३॥

स ददर्श कुत्रचिदमर्त्यमिव त्रिदिवच्युतं विगतसत्त्वमपि ।
मनुजेश्वरं परिवृत्तं प्रलपत्प्रमदाभिरार्तिमदमात्यजनम् ॥७४॥

अथो निशाखेटवशादटव्यां मूले तरोर्मोहवशात्परासुम् ।
तं वीक्ष्य मार्गेऽमरुकं नृपालं सनन्दनं प्राह स संयमीन्द्रः ॥७५॥

सौन्दर्यसौभाग्यनिकेतसीमाः परः शता यस्य पयोरुहाक्ष्यः ।
स एव रजाऽमरुकाभिधानः शेते गतासुः श्रमतो धरण्याम् ॥७६॥

प्रविश्य कायं तमिमं परासोनृपस्य राज्येऽस्य सुतं निवेश्य ।
योगानुभावात्पुनरप्युपैतुमुत्कण्ठते मानसमस्मदीयम् ॥७७॥

अन्यादृशानामदसीयनानाकुशेशयाक्षीकिलकिश्चितानाम् ।
सर्वज्ञतानिर्वहणाय सोऽहं साक्षित्वमप्याश्रयितुं समीहे ॥७८॥

इत्यूचिवांसं यतितल्लजं तं सनन्दनः प्राह ससान्त्वमेनम् ।
सर्वज्ञ नैवाविदितं तवास्ति तथाऽपि भक्तिर्मुखरं तनोति ॥७९॥

मत्स्येन्द्रनामा हि पुरा महात्मा गोरक्षमादिश्य निजाडगुप्त्यै ।
नृपस्य कस्यापि तनुं परासोः प्रविश्य तत्पत्तनमाससाद ॥८०॥

भद्रासनाध्यासिनि योगिवर्ये भद्राण्यनिद्राण्यभवन्प्रजानाम् ।
ववर्ष कालेषु वलाहकोऽपि सस्यानि चाशास्यफलान्यभूवन् ॥८१॥

विज्ञाय विज्ञा; सचिवा नृपस्य काये प्रविष्टं कमपीह दिव्यम् ।
समादिशन्नाजसरोरुहाक्षीः सर्वात्मना तस्य वशीक्रियायै ॥८२॥

सङ्गीतलास्याभिनयादिकेषु संसक्तचेता ललितेषु तासाम् ।
स एष विस्मृत्य पुनः समाधिं सर्वात्मना प्राकृतवद्वभूव ॥८३॥

गोरक्ष एषोऽथ गुरोः प्रवृत्तिं विज्ञाय रक्षन् बहुधाऽस्य देहम् ।
निशान्तकान्तानटनोपदेष्टा नितान्तमस्याभवदन्तरडः ॥८४॥

तत्रैकदा तत्त्वनिबोधनेन निवृत्तरागं निजदेशिकं सः ।
योगानुपूर्वीमुपदिश्य निन्ये यथापुरं प्राक्तनमेव देहम् ॥८५॥

हन्तेदृशोऽयं विषयानुरागः किञ्चोर्ध्वरेतोव्रतखण्डनेन ।
किं नोदयेत्किल्बिषमुल्बणं ते कृत्यं भवानेव कृतीं विवेक्तुम् ॥८६॥

व्रतमस्मदीयमतुलं क महत क च कामशास्त्रमतिगर्ह्यमिदम् ।
तदपीष्यते भगवतैव यदि ह्यनवस्थितं जगदिहैव भवेत् ॥८७॥

अधिमेदिनि प्रथयितुं शिथिलं धृतककणस्य यतिधर्ममिमम् ।
भवतः किमस्त्यविदितं तदपि प्रणयान्मयोदितमिदं भगवन् ॥८८॥

स निशम्य पद्मचरणस्य गिरं गिरति स्म गीष्पतिसमप्रतिभः ।
अविगीतमेव भवता फणितं श्रृणु सौम्य वच्मि परमार्थमिदम् ॥८९॥

असडिनो न प्रभवन्ति कामा हरेरिवाभीरवधूसखस्य ।
वज्रोलियोगप्रतिभूः स एष वत्सावकीर्णित्वविपर्ययो न ः ॥९०॥

सकल्प एवाखिलकाममूलं स एव मे नास्ति समस्य विष्णोः ।
तन्मूलहानौ भवपाशनाशः कर्तुः सदा स्याद्भवदोषदृष्टेः ॥९१॥

अविचार्य यस्तु वपुराद्यहमित्यभिमन्यते जडमितः सुदृढम् ।
तमबुद्धतत्त्वमधिकृत्य विधिप्रतिषेधशास्त्रमखिलं सफलम् ॥९२॥

कृतधीस्त्वनाश्रममवर्णमजात्यवबोधमात्रमजमेकरसम् ।
स्वतयाऽवगत्य न भजेन्निवसन्निगमस्य मूर्घ्रि विधिकिकरताम् ॥९३॥

कलशादि मृत्प्रभवमस्ति यथा मृदमन्तरा न जगदेवमिदम् ।
परमात्मजन्यमपि तेन विना समयत्रयेऽपि न समस्तिं खलु ॥९४॥

कथमज्यते जगदशेषमिदं कलयन्मृषेति हृदि कर्मफलैः ।
न फलाय हि स्वपनकालकृतं सुकृतादि जात्वनृतबुद्धिहतम् ॥९५॥

तदयं करोतु हयमेधशतान्यमितानि विप्रहननान्यथवा ।
परमार्थविन्न सुकृतैर्दुरितैरपि लिप्यतेऽस्तमितकर्तृतया ॥९६॥

अवधीत्तिशीर्षमददाच यतीन् वृकमण्डलाय कुपितः शतशः ।
बत लोमहानिरपि तेन कृता न शतक्रतोरिति हि बह् वृचगीः ॥९७॥

बहुदक्षिणैरयजत क्रतुभिर्विबुधानतर्पयदसङ्ख्यधनैः ।
जनकस्तथाऽप्यभयमाप परं न तु देहयोगमिति काण्ववचः ॥९८॥

न विहीयतेऽहिरिपुवद्दुरितैर्न च वर्धते जनकवत्सुकृतैः ।
न स तापमेत्यकरवं दुरितं किमहं न साध्वकरवं त्विति च ॥९९॥

तदनडशास्त्रपरिशीलनमप्यमुनैव सौम्य करणेन कृतम् ।
न हि दोषकृत्तदपि शिष्टसरण्यवनार्थमन्यवपुरेत्य यते ॥१००॥

इति सत्कथाः स कथनीययशा भवभीतिभज्जनकरीः कययन ।
सुदुरासदं चरणचारिजनैर्गिरिश्रृडमेत्य पुनरेव जगौ ॥१०१॥

अधिसानु पश्यत विभाति गुहा पुरतः शिला समतला विपुला ।
सरसी च तत्परिसरेऽच्छजला फलभारनम्रतरुरम्यतटा ॥१०२॥

परिपाल्यतामिह वसद्भिरिदं वपुरप्रमादमनवद्यगुणाः ।
अहमास्थितस्तदुचितं करणं कलयामि यावदसमेषुकलाम् ॥१०३॥

इति शिष्यवर्गमनुशास्य यतिप्रवरो विसृष्टकरणोऽधिगुहम् ।
महिपस्य वर्ष्म गुरुयोगबलोऽविशदातिवाहिकशरीरयुतः ॥१०४॥

अडुष्ठमारभ्य समीरणं नयन् करन्ध्रमार्गाद्वहिरेत्य योगवित् ।
करन्ध्रमार्गेण शनैः प्रविष्टवान् मृतस्य यावचरणाग्रमेकधीः ॥१०५॥

गात्रं गतासोर्वसुधाधिपस्य शनैः समास्पन्दत हृत्प्रदेशे ।
तथोदमीलन्नयनं क्रमेण तथोदतिष्ठत्स यथापुरैव ॥१०६॥

आदौ तदडमुदयन्मुखकान्ति पश्चान्नासान्तनिर्यदनिलं शनकैः परस्तात् ।
उन्मीलदङ्घ्रिचलनं तदनुद्यदक्षिव्याकोचमुत्थितमुपात्तबलं क्रमेण ॥१०७॥

तं प्राप्तजीवमुपलभ्य पतिं प्रभूतहर्षस्वनाः प्रमुदिताननपकजास्ता ः ।
नार्यो विरेजुररुणोदयसम्प्रफुल्लपद्माः ससारसरवा इव वारिजिन्यः ॥१०८॥

हर्ष तासामुदितमतुलं वीक्ष्य वामेक्षणाना -
मात्तप्राणं नृपमपि महामात्यमुख्याः प्रहृष्टाः ।
दध्मुः शखान् पणवपटहान् दुन्दुभीश्चाभिजघ्नु -
स्तेषां घोषाः सपदि बधिरिचक्रिरे द्यां भुवं च ॥१०९॥

इति श्रीमाधवीये तत्सार्वज्ञ्योपायगोचरः ।
सङ्क्षेपशकरजये सर्गोऽयं नवमोऽभवत् ॥९॥