०८

विश्वास-प्रस्तुतिः

अथ प्रतस्थे भगवान् प्रयागात्तं मण्डनं पण्डितमाशु जेतुम् ।
गच्छन् खसृत्या पुरमालुलोके माहिष्मतीं मण्डनमण्डितां सः ॥१॥

मूलम्

अथ प्रतस्थे भगवान् प्रयागात्तं मण्डनं पण्डितमाशु जेतुम् ।
गच्छन् खसृत्या पुरमालुलोके माहिष्मतीं मण्डनमण्डितां सः ॥१॥

विश्वास-प्रस्तुतिः

अवातरद्रत्न विचित्रवप्रां विलोक्य तां विस्मितमानसोऽसौ ।
पुराणवत्पुष्करवर्तनीतः पुरोपकण्ठस्थवने मनोज्ञे ॥२॥

मूलम्

अवातरद्रत्न विचित्रवप्रां विलोक्य तां विस्मितमानसोऽसौ ।
पुराणवत्पुष्करवर्तनीतः पुरोपकण्ठस्थवने मनोज्ञे ॥२॥

विश्वास-प्रस्तुतिः

प्रफुल्लराजीववने विहारी तरडरिडत्कणशीकरार्द्रः ।
रेवामरुत्कम्पितसालमालः श्रमापहृद भाष्यकृतं सिषेवे ॥३॥

मूलम्

प्रफुल्लराजीववने विहारी तरडरिडत्कणशीकरार्द्रः ।
रेवामरुत्कम्पितसालमालः श्रमापहृद भाष्यकृतं सिषेवे ॥३॥

विश्वास-प्रस्तुतिः

तस्मिन् स विश्रम्य कृताह्रिकः सन् खस्वस्तिकारोहणशालिनीने ।
गच्छन्नसौ मण्डनपण्डितौको दासीस्तदीयाः स ददर्श मार्गे ॥४॥

मूलम्

तस्मिन् स विश्रम्य कृताह्रिकः सन् खस्वस्तिकारोहणशालिनीने ।
गच्छन्नसौ मण्डनपण्डितौको दासीस्तदीयाः स ददर्श मार्गे ॥४॥

विश्वास-प्रस्तुतिः

कुत्रालयो मण्डनपण्डितस्येत्येताः स पप्रच्छ जलाय गन्त्रीः ।
ताश्चापि दृष्ट्राऽद्भुतशकरं तं सन्तोषवत्यो ददुरुत्तरं स्म ॥५॥

मूलम्

कुत्रालयो मण्डनपण्डितस्येत्येताः स पप्रच्छ जलाय गन्त्रीः ।
ताश्चापि दृष्ट्राऽद्भुतशकरं तं सन्तोषवत्यो ददुरुत्तरं स्म ॥५॥

विश्वास-प्रस्तुतिः

स्वतः प्रमाणं परतः प्रमाणं
कीराङ्गना यत्र गिरं गिरन्ति ।
द्वारस्थ नीडान्तर संनिरुद्धा
जानीहि तन्मण्डनपण्डितौकः ॥६॥

मूलम्

स्वतः प्रमाणं परतः प्रमाणं
कीराङ्गना यत्र गिरं गिरन्ति ।
द्वारस्थ नीडान्तर-संनिरुद्धा
जानीहि तन् मण्डन-पण्डितौकः ॥६॥+++(5)+++

विश्वास-प्रस्तुतिः

फलप्रदं कर्म फलप्रदोऽजः
कीराङ्गना यत्र गिरं गिरन्ति ॥
द्वारस्थनीडान्तर-सन्निरुद्धा
जानीहि तन् मण्डनपण्डितौकः ॥७॥

मूलम्

फलप्रदं कर्म फलप्रदोऽजः कीराङ्गना यत्र गिरं गिरन्ति ॥
द्वारस्थनीडान्तरसन्निरुद्धा जानीहि तन्मण्डनपण्डितौकः ॥७॥

विश्वास-प्रस्तुतिः

जगद् ध्रुवं स्याज् जगद् अध्रुवं स्यात्
कीराङ्गना यत्र गिरं गिरन्ति ।
द्वारस्थनीडान्तरसन्निरुद्धा
जानीहि तन्मण्डनपण्डितौकः ॥८॥

मूलम्

जगद् ध्रुवं स्याज्जगदध्रुवं स्यात्कीराङ्गना यत्र गिरं गिरन्ति ।
द्वारस्थनीडान्तरसन्निरुद्धा जानीहि तन्मण्डनपण्डितौकः ॥८॥

विश्वास-प्रस्तुतिः

पीत्वा तदुक्तीरथ तस्य गेहाद्रत्वा बहिः सद्म कवाटगुप्तम् ।
दुर्वेशमालोच्य स योगशक्त्या व्योमाध्वनाऽवातरदडणान्तः ॥९॥

मूलम्

पीत्वा तदुक्तीरथ तस्य गेहाद्रत्वा बहिः सद्म कवाटगुप्तम् ।
दुर्वेशमालोच्य स योगशक्त्या व्योमाध्वनाऽवातरदडणान्तः ॥९॥

विश्वास-प्रस्तुतिः

तदा स लेखेन्द्रनिकेतनाभं स्फुरन्मरुचश्चलकेतनाभम् ।
समग्रामालोकत मण्डनस्य निवेशनं भूतलमण्डनस्य ॥१०॥

मूलम्

तदा स लेखेन्द्रनिकेतनाभं स्फुरन्मरुचश्चलकेतनाभम् ।
समग्रामालोकत मण्डनस्य निवेशनं भूतलमण्डनस्य ॥१०॥

विश्वास-प्रस्तुतिः

सौधाग्रसञ्च्छन्ननभोवकाशं प्रविश्य तत्पाप्य कवेः सकाशम् ।
विद्याविशेषात्तयशः प्रकाशं ददर्श तं पद्मजसन्निकाशम् ॥११॥

मूलम्

सौधाग्रसञ्च्छन्ननभोवकाशं प्रविश्य तत्पाप्य कवेः सकाशम् ।
विद्याविशेषात्तयशः प्रकाशं ददर्श तं पद्मजसन्निकाशम् ॥११॥

विश्वास-प्रस्तुतिः

तपोमहिम्रैव तपोनिधानं सजैमिनिं सत्यवतीतनूजम् ।
यथाविधि श्राद्धविधौ निमन्त्र्य तत्पादपद्मान्यवनेजयन्तम् ॥१२॥

मूलम्

तपोमहिम्रैव तपोनिधानं सजैमिनिं सत्यवतीतनूजम् ।
यथाविधि श्राद्धविधौ निमन्त्र्य तत्पादपद्मान्यवनेजयन्तम् ॥१२॥

विश्वास-प्रस्तुतिः

तत्रान्तरिक्षादवतीर्य योगिवर्यः समागम्य यथार्हमेषः ।
द्वैपायनं जैमिनिमप्युभाभ्यां ताभ्यां सहर्ष प्रतिनन्दितोऽभूत् ॥१३॥

मूलम्

तत्रान्तरिक्षादवतीर्य योगिवर्यः समागम्य यथार्हमेषः ।
द्वैपायनं जैमिनिमप्युभाभ्यां ताभ्यां सहर्ष प्रतिनन्दितोऽभूत् ॥१३॥

विश्वास-प्रस्तुतिः

अथ द्युमार्गादवतीर्णमन्तिके मुन्योः स्थितं ज्ञानशिखोपवीतिनम् ।
सन्न्यास्यसावित्यवगत्य सोऽभवत्प्रवृत्तिशास्त्रैकरतोऽपि कोपनः ॥१४॥

मूलम्

अथ द्युमार्गादवतीर्णमन्तिके मुन्योः स्थितं ज्ञानशिखोपवीतिनम् ।
सन्न्यास्यसावित्यवगत्य सोऽभवत्प्रवृत्तिशास्त्रैकरतोऽपि कोपनः ॥१४॥

विश्वास-प्रस्तुतिः

तदाऽतिरुष्टस्य गृहाश्रमेशितुर्यतीश्वरस्यापि कुतूहलम्भृतः ।
क्रमात्किलैवं बुधशस्तयोस्तयोः प्रश्नोत्तराण्यासुरथोत्तरोत्तरम् ॥१५॥

मूलम्

तदाऽतिरुष्टस्य गृहाश्रमेशितुर्यतीश्वरस्यापि कुतूहलम्भृतः ।
क्रमात्किलैवं बुधशस्तयोस्तयोः प्रश्नोत्तराण्यासुरथोत्तरोत्तरम् ॥१५॥

विश्वास-प्रस्तुतिः

“कुतो मुण्ड्य्” “आ-गलान् मुण्डी”
“पन्थास् ते पृच्छ्यते मया” ।
“किम् आह पन्थास्” “त्वन्-माता
मुण्डेत्य् आह” “तथैव हि” ॥१६॥

मूलम्

कुतो मुण्ड्यागलान्मुण्डी पन्थास्ते पृच्छ्यते मया ।
किमाह पन्थास्त्वन्माता मुण्डेत्याह तथैव हि ॥१६॥

विश्वास-प्रस्तुतिः

“पन्थानं त्वम् अपृच्छस्, त्वां
पन्थाः प्रत्याह मण्डन ।
त्वन्-मातेत्य् अत्र शब्दोऽयं
न मां ब्रूयाद् अपृच्छकम्” ॥१७॥

मूलम्

पन्थानं त्वमपृच्छस्त्वां पन्थाः प्रत्याह मण्डन ।
त्वन्मातेत्यत्र शब्दोऽयं न मां ब्रूयादपृच्छकम् ॥१७॥

विश्वास-प्रस्तुतिः

“अहो पीता किमु सुरा?”
“नैव, श्वेता - यतः स्मर” ।
“किं त्वं जानासि तद्-वर्णम्?”
“अहं वर्णं, भवान् रसम्” ॥१८॥+++(5)+++

मूलम्

अहो पीता किमु सुरा नैव श्वेता यतः स्मर ।
किं त्वं जानासि तद्वर्णमहं वर्णं भवान् रसम् ॥१८॥

विश्वास-प्रस्तुतिः

“मत्तो जातः कलञ्जाशी+++(=विष-बाण-हत-मांस-खादकः)+++
विपरीतानि भाषते” ।
“सत्यं ब्रवीति पितृवत्
त्वत्तो जातः कलञ्जभुक्” ॥१९॥

मूलम्

मत्तो जातः कलञ्जाशी विपरीतानि भाषते ।
सत्यं ब्रवीति पितृवत्त्वत्तो जातः कलञ्जभुक् ॥१९॥

विश्वास-प्रस्तुतिः

“कन्थां वहासि दुर्बुद्धे
गर्दभेनापि दुर्वहाम् ।
शिखा-यज्ञोपवीताभ्यां
कस्ते भारो भविष्यति” ॥२०॥+++(5)+++

मूलम्

कन्थां वहासि दुर्बुद्धे गर्दभेनापि दुर्वहाम् ।
शिखायज्ञोपवीताभ्यां कस्ते भारो भविष्यति ॥२०॥

विश्वास-प्रस्तुतिः

“कन्थां वहामि दुर्बुद्धे
तव पित्रापि दुर्वहाम् ।
शिखा-यज्ञोपवीताभ्यां
श्रुतेर् भारो भविष्यति” ॥२१॥

मूलम्

कन्थां वहामि दुर्बुद्धे तव पित्रापि दुर्बहाम् ।
शिखायज्ञोपवीताभ्यां श्रुतेर्भारो भविष्यति ॥२१॥

विश्वास-प्रस्तुतिः

“त्यक्त्वा पाणि-गृहीतीं स्वाम्
अशक्त्या परिरक्षणे ।
शिष्य-पुस्तक-भारेच्छोर्
व्याख्याता ब्रह्मनिष्ठता” ॥२२॥

मूलम्

त्यक्त्वा पाणिगृहीतीं स्वामशक्त्या परिरक्षणे ।
शिष्यपुस्तकभारेच्छोर्व्याख्याता ब्रह्मनिष्ठता ॥२२॥

विश्वास-प्रस्तुतिः

“गुरु-शुश्रूषणालस्यात्
समावर्त्य गुरोः कुलात् ।
स्त्रियः शुश्रूषमाणस्य
व्याख्याता कर्म-निष्ठाता” ॥२३॥

मूलम्

गुरुशुश्रूषणालस्यात्समावर्त्य गुरोः कुलात् ।
स्त्रियः शुश्रूषमाणस्य व्याख्याता कर्मनिष्ठाता ॥२३॥

विश्वास-प्रस्तुतिः

स्थितोऽसि योषितां गर्भे
ताभिर् एव विवर्धितः ।
अहो कृतघ्नता मूर्ख
कथं ता एव निन्दसि ॥२४॥+++(5)+++

मूलम्

स्थितोऽसि योषितां गर्भे ताभिरेव विवर्धितः ।
अहो कृतघ्नता मूर्ख कथं ता एव निन्दसि ॥२४॥

विश्वास-प्रस्तुतिः

यासां स्तन्यं त्वया पीतं
यासां जातोऽसि योनितः ।
तासु मूर्खतम स्त्रीषु
पशुवद् रमसे कथम् ॥२५॥

मूलम्

यासां स्तन्यं त्वया पीतं यासां जातोऽसि योनितः ।
तासु मूर्खतम स्त्रीषु पशुवद्रमसे कथम् ॥२५॥

विश्वास-प्रस्तुतिः

“वीर-हत्याम् अवाप्तोऽसि
वह्नीन् उद्वास्य यत्नतः ।”
“आत्म-हत्याम् अवाप्तस् त्वम्
अविदित्वा परं पदम्” ॥२६॥

मूलम्

वीरहत्यामवाप्तोऽसि वह्रीनुद्वास्य यत्नतः ।
आत्महत्यामवाप्तस्त्वमविदित्वा परं पदम् ॥२६॥

विश्वास-प्रस्तुतिः

“दौवारिकान् वर्जयित्वा
कथं स्तेनवदागतः ।”
“भिक्षुभ्योऽन्नमदत्वा त्वं
स्तेनवद्भोक्ष्यासे कथम्” ॥२७॥

मूलम्

दौवारिकान्वर्जयित्वा कथं स्तेनवदागतः ।
भिक्षुभ्योऽन्नमदत्वा त्वं स्तेनवद्भोक्ष्यासे कथम् ॥२७॥

विश्वास-प्रस्तुतिः

“कर्मकाले न सम्भाष्य
अहं मूर्खेण सम्पति” ।
“अहो प्रकटितं ज्ञानं
+++(प्रथम-पादान्ते)+++ यति-भङ्गेन भाषिणा” ॥२८॥

मूलम्

कर्मकाले न सम्भाष्य अहं मूर्खेण सम्पति ।
अहो प्रकटितं ज्ञानं यतिभङ्गेन भाषिणा ॥२८॥

विश्वास-प्रस्तुतिः

“यतिभङ्गे प्रवृत्तस्य
यतिभङ्गो न दोषभाक्” ।
“+++(यतेस् सङ्काशाद् भङ्ग इति)+++
यतिभङ्गे प्रवृत्तस्य
पञ्चम्यन्तं समस्यताम्” ॥२९॥

मूलम्

यतिभङ्गे प्रवृत्तस्य यतिभङ्गो न दोषभाक् ।
यतिभङ्गे प्रवृत्तस्य पश्चम्यन्तं समस्यताम् ॥२९॥

विश्वास-प्रस्तुतिः

“क्व ब्रह्म, क्व च दुर्मेधाः
क्व सन्न्यासः, क्व वा कलिः ।
स्वाद्व्-अन्न-भक्ष-कामेन
वेषोऽयं योगिनां धृतः” ॥३०॥

मूलम्

क ब्रह्म क च दुर्मेधाः क सन्न्यासः क वा कलिः ।
स्वाद्वन्नभक्षकामेन वेषोऽयं योगिनां धृतः ॥३०॥

विश्वास-प्रस्तुतिः

“क्व स्वर्गः क्व दुराचारः
क्वाग्निहोत्रं क्व वा कलिः।
स्वाद्व्-अन्न-भक्ष-कामेन
वेषोऽयं कर्मिणां धृतः” ॥३१॥

मूलम्

क स्वर्गः क दुराचारः काग्निहोत्रं क वा कलिः।
स्वाद्वन्नभक्षकामेन वेषोऽयं कर्मिणां धृतः ॥३१॥

विश्वास-प्रस्तुतिः

इत्यादिदुर्वाक्यगणं ब्रुवाणे
रोषेण साऽहङ्कृति-विश्वरुपे ।
श्रीशङ्करे वक्तरि तस्य तस्यो-
त्तरं च कौतूहलतश्च चारु ॥३२॥

मूलम्

इत्यादिदुर्वाक्यगणं ब्रुवाणे रोषेण साऽहङ्कृतिविश्वरुपे ।
श्रीशङ्करे वक्तरि तस्य तस्योत्तरं च कौतूहलतश्च चारु ॥३२॥

विश्वास-प्रस्तुतिः

तं मण्डनं सम्मित-जैमिनीक्षितं
व्यासोऽब्रवीज् जल्पसि वत्स दुर्वचः ।
आचारणा नेयम् अनिन्दितात्मनां
ज्ञातात्मतत्त्व-यमिनं धुतैषणम् ॥३३॥

मूलम्

तं मण्डनं सम्मितजैमिनीक्षितं व्यासोऽब्रवीज्जल्पसि वत्स दुर्वचः ।
आचारणा नेयमनिन्दितात्मनां ज्ञातात्मतत्त्व यमिनं धुतैषणम् ॥३३॥

विश्वास-प्रस्तुतिः

अभ्यागतोऽसौ स्वयमेव विष्णुर्
इत्येव मत्वाऽऽशु निमन्त्रय त्वम् ।
इत्याश्रवं ज्ञात-विधिं प्रतीतं
सुध्य्-अग्रणीः साध्व् अशिषन् मुनिस् तम् ॥३४॥

मूलम्

अभ्यागतोऽसौ स्वयमेव विष्णुरित्येव मत्वाऽऽशु निमन्त्रय त्वम् ।
इत्याश्रवं ज्ञातविधिं प्रतीतं सुध्यग्रणीः साध्वशिषन्मुनिस्तम् ॥३४॥

विश्वास-प्रस्तुतिः

अथोपसंस्पृश्य जलं स शान्तः
ससम्भ्रमं मण्डन-पण्डितोऽपि ।
व्यासाज्ञया शास्त्र-विद् अर्चयित्वा
न्यमन्त्रयद् भैक्ष्यकृते महर्षिम् ॥३५॥

मूलम्

अथोपसंस्पृश्य जलं स शान्तः ससम्भ्रमं मण्डनपण्डितोऽपि ।
व्यासाज्ञया शास्त्रविदर्चयित्वा न्यमन्त्रयद्भैक्ष्यकृते महर्षिम् ॥३५॥

विश्वास-प्रस्तुतिः

स चाब्रवीत् सौम्य विवादभिक्षाम्
इच्छन् भवत्सन्निधिमागतोऽस्मि ।
साऽन्योन्यशिष्यत्व-पणा प्रदेया
नास्त्य् आदरः प्राकृत-भक्त-भैक्ष्ये ॥३६॥

मूलम्

स चाब्रवीत्सौम्य विवादभिक्षामिच्छन् भवत्सन्निधिमागतोऽस्मि ।
साऽन्योन्यशिष्यत्वपणा प्रदेया नास्त्यादरः प्राकृतभक्तभैक्ष्ये ॥३६॥

विश्वास-प्रस्तुतिः

मम न किञ्चिदपि ध्रुवम् ईप्सितं
श्रुतिशिरः पथ-विस्तृतिम् अन्तरा ।
अवहितेन मखेष्व् अधीरितः
स भवता भव-ताप-हिम-द्युतिः ॥३७॥

मूलम्

मम न किञ्चिदपि ध्रुवमीप्सितं श्रुतिशिरः पथविस्तृतिमन्तरा ।
अवहितेन मखेष्वधीरितः स भवता भवतापहिमद्युतिः ॥३७॥

विश्वास-प्रस्तुतिः

जगति सम्प्रति तं प्रथयाम्य् अहं
समभिभूय समस्त-विवादिनम् ।
त्वमपि संश्रय मे मतम् उत्तमं
विगद वा वद वाऽस्मि जितस् त्व् अति ॥३८॥

मूलम्

जगति सम्प्रति तं प्रथयाम्यहं समभिभूय समस्तविवादिनम् ।
त्वमपि संश्रय मे मतमुत्तमं विगद वा वद वाऽस्मि जितस्त्वति ॥३८॥

विश्वास-प्रस्तुतिः

इति यतिप्रवरस्य निशम्य तद्
वचनम् अर्थवद् आगतविस्मयः ।
परिभवेन नवेन महायशाः
स निजगौ निजगौरवमास्थितः ॥३९॥

मूलम्

इति यतिप्रवरस्य निशम्य तद्वचनमर्थवदागतविस्मयः ।
परिभवेन नवेन महायशाः स निजगौ निजगौरवमास्थितः ॥३९॥

विश्वास-प्रस्तुतिः

अपि सहस्रमुखे फणिनामके
न विजितस् त्व् इति जातु फणत्य् अयम् ।
न च विहाय मतं श्रुति-सम्मतं
मुनिमते निपतेत् परिकल्पिते ॥४०॥

मूलम्

अपि सहस्रमुखे फणिनामके न विजितस्त्विति जातु फणत्ययम् ।
न च विहाय मतं श्रुतिसम्मतं मुनिमते निपतेत्परिकल्पिते ॥४०॥

विश्वास-प्रस्तुतिः

अपि कदाचिदुदेष्यति कोविदः सरसवादकथाऽपि भविष्यति ।
इति कुतूहलिनो मम सर्वदा जयमहोऽयमहो स्वयमागतः ॥४१॥

मूलम्

अपि कदाचिदुदेष्यति कोविदः सरसवादकथाऽपि भविष्यति ।
इति कुतूहलिनो मम सर्वदा जयमहोऽयमहो स्वयमागतः ॥४१॥

विश्वास-प्रस्तुतिः

भवतु सम्प्रति वादकथाऽऽवयोः फलतु पुष्कलशास्त्रपरिश्रमः ।
उपनता स्वयमेव न गृह्यते नवसुधा वसुधावसथेन किम् ॥४२॥

मूलम्

भवतु सम्प्रति वादकथाऽऽवयोः फलतु पुष्कलशास्त्रपरिश्रमः ।
उपनता स्वयमेव न गृह्यते नवसुधा वसुधावसथेन किम् ॥४२॥

विश्वास-प्रस्तुतिः

अयमहं यमहन्तुरपि स्वयं शमयिता मयि तावकसद्रिगम् ।
सुकलहं कलहंसकलाभृतां दिश सुधाशुसुधामलसत्तनो ॥४३॥

मूलम्

अयमहं यमहन्तुरपि स्वयं शमयिता मयि तावकसद्रिगम् ।
सुकलहं कलहंसकलाभृतां दिश सुधाशुसुधामलसत्तनो ॥४३॥

विश्वास-प्रस्तुतिः

अपि तु दुर्हृदयस्मयकाननक्षतिकठोरकुठारधुरन्धरा ।
न पटुता मम ते श्रवणान्तिकं ननु गताऽनुगताखिलदर्शना ॥४४॥

मूलम्

अपि तु दुर्हृदयस्मयकाननक्षतिकठोरकुठारधुरन्धरा ।
न पटुता मम ते श्रवणान्तिकं ननु गताऽनुगताखिलदर्शना ॥४४॥

विश्वास-प्रस्तुतिः

अत्यल्पमेतद्भवतेरितं मुने भैक्ष्यं प्रकुर्वे य्दि वाददित्सुता ।
गतोद्यमोऽहं श्रुतवादवार्तया चिरेप्सितेयं वदिता न कश्चन ॥४५॥

मूलम्

अत्यल्पमेतद्भवतेरितं मुने भैक्ष्यं प्रकुर्वे य्दि वाददित्सुता ।
गतोद्यमोऽहं श्रुतवादवार्तया चिरेप्सितेयं वदिता न कश्चन ॥४५॥

विश्वास-प्रस्तुतिः

वादं करिष्यामि न सन्दिहेऽत्र जयाजयौ नौ वदिता न कश्चित् ।
न कण्ठशोषैकफलो विवादो मिथो जिगीषू क्रुरुतस्तु वादम् ॥४६॥

मूलम्

वादं करिष्यामि न सन्दिहेऽत्र जयाजयौ नौ वदिता न कश्चित् ।
न कण्ठशोषैकफलो विवादो मिथो जिगीषू क्रुरुतस्तु वादम् ॥४६॥

विश्वास-प्रस्तुतिः

वादे हि वादि-प्रतिवादिनौ द्वौ
विपक्ष-पक्ष-ग्रहणं विधत्तः ।
“का नौ प्रतिज्ञा, वदतोश् च तस्यां
किं मानम् इष्टं, वद कः स्वभावः” ॥४७॥

मूलम्

वादे हि वादिप्रतिवादिनौ द्वौ विपक्षपक्षग्रहणं विधत्तः ।
का नौ प्रतिज्ञा वदतोश्च तस्यां किं मानमिष्टं वद कः स्वभावः ॥४७॥

विश्वास-प्रस्तुतिः

“कः पार्श्निको +++(←प्रश्नः)+++ +++(मध्यस्थः)+++”, ऽहं गृह-मेधि-सत्तमस्
त्वं भिक्षुराजो वदताम् अनुत्तमः ।
जयाजयौ नौ सुपणौ विधीयतां
ततः परं साधु वदाव सुस्मितौ ॥४८॥

मूलम्

कः पार्श्निकोऽहं गृहमेधिसत्तमस्त्वं भिक्षुराजो वदतामनुत्तमः ।
जयाजयौ नौ सुपणौ विधीयतां ततः परं साधु वदाव सुस्मितौ ॥४८॥

विश्वास-प्रस्तुतिः

अद्यातिधन्योऽस्मि यदार्यपादो मया सहाभ्यर्थयते विवादम् ।
भविष्यते वादकथाऽपरेद्युर्माध्याह्रिकं सम्प्रति कर्म कुर्याम् ॥४९॥

मूलम्

अद्यातिधन्योऽस्मि यदार्यपादो मया सहाभ्यर्थयते विवादम् ।
भविष्यते वादकथाऽपरेद्युर्माध्याह्रिकं सम्प्रति कर्म कुर्याम् ॥४९॥

विश्वास-प्रस्तुतिः

तथेति सूक्ते स्मितशकरेण भविष्यते वादकथा श्व एव ।
तत्साक्षिभावं व्रजतं मुनीन्द्रावित्यर्थयद्वादरजैमिनी सः ॥५०॥

मूलम्

तथेति सूक्ते स्मितशकरेण भविष्यते वादकथा श्व एव ।
तत्साक्षिभावं व्रजतं मुनीन्द्रावित्यर्थयद्वादरजैमिनी सः ॥५०॥

विश्वास-प्रस्तुतिः

विधाय भार्यां विदुषीं सदस्यां विधीयतां वादकथा सुधीन्द्र ।
इत्थं सरस्वत्यवतारताज्ञौ तद्धर्मपत्न्यास्तमभाषिषाताम् ॥५१॥

मूलम्

विधाय भार्यां विदुषीं सदस्यां विधीयतां वादकथा सुधीन्द्र ।
इत्थं सरस्वत्यवतारताज्ञौ तद्धर्मपत्न्यास्तमभाषिषाताम् ॥५१॥

विश्वास-प्रस्तुतिः

अथानुमोद्याभिहितं मुनिभ्यां स मण्डनार्यः प्रकृतं चिकीर्षुः ।
आनर्च दैवोपगतान्मुनीन्द्रानग्रीनिव त्रीन्मुनिशेखरांस्तान् ॥५२॥

मूलम्

अथानुमोद्याभिहितं मुनिभ्यां स मण्डनार्यः प्रकृतं चिकीर्षुः ।
आनर्च दैवोपगतान्मुनीन्द्रानग्रीनिव त्रीन्मुनिशेखरांस्तान् ॥५२॥

विश्वास-प्रस्तुतिः

भुक्त्वोपविष्टस्य मुनित्रयस्य श्रमापनोदाय तदीयशिष्यौ ।
अतिष्ठतां पार्श्वगतौ वटू द्वौ सचामरौ वीजनमाचरन्तौ ॥५३॥

मूलम्

भुक्त्वोपविष्टस्य मुनित्रयस्य श्रमापनोदाय तदीयशिष्यौ ।
अतिष्ठतां पार्श्वगतौ वटू द्वौ सचामरौ वीजनमाचरन्तौ ॥५३॥

विश्वास-प्रस्तुतिः

अथ क्रियान्ते किल सूपविष्टास्रय्यन्तवेद्यार्थविदस्रयोऽमी ।
अमन्त्रयंश्चारु परस्परं ते मुहूर्तमात्रं किमपि प्रहृष्टाः ॥५४॥

मूलम्

अथ क्रियान्ते किल सूपविष्टास्रय्यन्तवेद्यार्थविदस्रयोऽमी ।
अमन्त्रयंश्चारु परस्परं ते मुहूर्तमात्रं किमपि प्रहृष्टाः ॥५४॥

विश्वास-प्रस्तुतिः

तेषां द्विजेन्द्रालयनिर्गतानामदर्शनं ज्गमतुरज्जसा द्वौ ।
रेवातटे रम्यकदम्बजाले देवालयेऽवस्थितवांस्तृतीयः ॥५५॥

मूलम्

तेषां द्विजेन्द्रालयनिर्गतानामदर्शनं ज्गमतुरज्जसा द्वौ ।
रेवातटे रम्यकदम्बजाले देवालयेऽवस्थितवांस्तृतीयः ॥५५॥

विश्वास-प्रस्तुतिः

इति स यतिवरेण्यो दैवयोगाद्रुरु
णामितरजनदुरापं दर्शनं प्राप्य हृष्टः ।
तदुदित्वचनानि श्रावयन्नात्मशि -
ष्याननय्दमृततुल्यान्यात्मवित्तां त्रियामाम् ॥५६॥

मूलम्

इति स यतिवरेण्यो दैवयोगाद्रुरु
णामितरजनदुरापं दर्शनं प्राप्य हृष्टः ।
तदुदित्वचनानि श्रावयन्नात्मशि -
ष्याननय्दमृततुल्यान्यात्मवित्तां त्रियामाम् ॥५६॥

विश्वास-प्रस्तुतिः

प्रातः शोणसरोजबान्धवरुचिप्रद्योतिते व्योमनि
प्रख्यातः स विधाय कर्म नियतं प्रज्ञावतामग्रणीः ।
साकं शिष्यवरैः प्रपद्य सदनं सन्मण्डितं माण्डनं
वादायोपविवेश पण्डितसभामध्ये मुनिर्ध्येयवित् ॥५७॥

ततः समादिश्य सदस्यतायां सधर्मिणीं मण्डनपण्डितोऽपि ।
स शारदां नाम समस्तविद्याविशारदां वादसमुत्सुकोऽभूत् ॥५८॥

मूलम्

ततः समादिश्य सदस्यतायां सधर्मिणीं मण्डनपण्डितोऽपि ।
स शारदां नाम समस्तविद्याविशारदां वादसमुत्सुकोऽभूत् ॥५८॥

विश्वास-प्रस्तुतिः

पत्या नियुक्ता पतिदेवता सा सदस्यभावे सुदती चकाशे ।
तयोर्विवेक्तुं श्रुततारतम्यं समागता संसदि भारतीव ॥५९॥

मूलम्

पत्या नियुक्ता पतिदेवता सा सदस्यभावे सुदती चकाशे ।
तयोर्विवेक्तुं श्रुततारतम्यं समागता संसदि भारतीव ॥५९॥

विश्वास-प्रस्तुतिः

प्रवृद्धवादोत्सुकतां तदीयां विज्ञाय विज्ञः प्रथमं यतीन्द्रः ।
परावरज्ञः स परावरैक्यपरां प्रतिज्ञामकरोत्स्वकीयाम् ॥६०॥

मूलम्

प्रवृद्धवादोत्सुकतां तदीयां विज्ञाय विज्ञः प्रथमं यतीन्द्रः ।
परावरज्ञः स परावरैक्यपरां प्रतिज्ञामकरोत्स्वकीयाम् ॥६०॥

विश्वास-प्रस्तुतिः

ब्रह्मैकं परमार्थ-सच्-चिद्-अमलं विश्वप्रपञ्चात्मना शुक्ती रूप्यपरात्मनेव बहलाज्ञानावृतं भासते ।
तज्-ज्ञानान् निखिल-प्रपञ्च-निलया स्वात्म-व्यवस्था परं
निर्वाणं जनि-मुक्तम् अभ्युपगतं, मानं श्रुतेर् मस्तकम् ॥६१॥

मूलम्

ब्रह्मैकं परमार्थसच्चिदमलं विश्वप्रपञ्चात्मना शुक्ती रूप्यपरात्मनेव बहलाज्ञानावृतं भासते ।
तज्ज्ञानान्निखिलप्रपञ्चनिलया स्वात्मव्यवस्था परं
निर्वाणं जनिमुक्तमभ्युपगतं मानं श्रुतेर्मस्तकम् ॥६१॥

विश्वास-प्रस्तुतिः

“बाढं जये यदि पराजयभाग् अहं स्यां
सन्न्यासम् अङ्ग परिहृत्य कषायचेलम्
शुक्लं वसीय वसनं, द्वयभारतीयं
वादे जयाजयफल-प्रतिदीपिका ऽस्तु” ॥६२॥

मूलम्

बाढं जये यदि पराजयभागहं स्यां सन्न्यासमङ्ग परिहृत्य कपायचेलम् ।
शुक्लं वसीय वसनं द्वयभारतीयं वादे जयाजयफलप्रतिदीपिकाऽस्तु ॥६२॥

विश्वास-प्रस्तुतिः

इत्थं प्रतिज्ञां कृतवत्युदारां श्रीशङ्करे भिक्षुवरे स्वकीयाम् ।
स विश्वरुपो गृहमेधिवर्यश्चके प्रतिज्ञां स्वमतप्रतिष्ठाम् ॥६३॥

मूलम्

इत्थं प्रतिज्ञां कृतवत्युदारां श्रीशङ्करे भिक्षुवरे स्वकीयाम् ।
स विश्वरुपो गृहमेधिवर्यश्चके प्रतिज्ञां स्वमतप्रतिष्ठाम् ॥६३॥

विश्वास-प्रस्तुतिः

वेदान्ता न प्रमाणं +++(ब्रह्मणः)+++, चिति-वपुषि +++(ब्रह्मणि)+++ +++(वेदान्तादि-)+++पदे तत्र सङ्गत्य्-अयोगात्
पूर्वो भागः प्रमाणं, पद-चय-गमिते कार्य-वस्तुन्य् अशेषे ।
शब्दानां कार्य-मात्रं प्रति समधिगता शक्तिर् अभ्युन्नतानां
कर्मभ्यो मुक्तिर् इष्टा, तद् इह तनुभृताम् आयुषः स्यात् समाप्तेः ॥६४॥

मूलम्

वेदान्ता न प्रमाणं चिति?पदे तत्र सङ्गत्ययोगा -
त्पूर्वो भागः प्रमाणं पदचयगमिते कार्यवस्तुन्यशेषे ।
शब्दानां कार्यमात्रं प्रति समधिगता शक्तिरभ्युन्नतानां
कर्मभ्यो मुक्तिरिष्टा तदिह तनुभृतामाऽऽयुषः स्यात्समाप्तेः ॥६४॥

विश्वास-प्रस्तुतिः

वादे कृतेऽस्मिन् यदि मे जयान्यस्+++(=पराजयः)+++
+++(सन्न्यासत्यागादेः)+++ त्वयोदितात् स्याद् विपरीत-भावः ।
येयं त्वयाऽभूद् गदिता प्रसाक्ष्ये +++(द्वयभारती)+++
+++(अनु)+++जानाति चेत् सा भविता वधूर् मे ॥६५॥

मूलम्

वादे कृतेऽस्मिन्यदि मे जयान्यस्त्वयोदितात्स्याद्विपरीतभावः ।
येयं त्वयाऽभूद् गदिता प्रसाक्ष्ये जानाति चेत्सा भविता वधूर्मे ॥६५॥

विश्वास-प्रस्तुतिः

जेतुः पराजित इहाश्रममादददीतेत्येतौ मिथः कृतपणौ यतिविश्वरुपौ ।
अम्बामुदारधिषणामभिषिच्य साक्ष्ये जल्पं वितेनतुरथो जयदत्तदृष्टी ॥६६॥

मूलम्

जेतुः पराजित इहाश्रममादददीतेत्येतौ मिथः कृतपणौ यतिविश्वरुपौ ।
अम्बामुदारधिषणामभिषिच्य साक्ष्ये जल्पं वितेनतुरथो जयदत्तदृष्टी ॥६६॥

विश्वास-प्रस्तुतिः

आवश्यकं परिसमाप्य दिने दिने तौ वादं समं व्यतनुतां किल सर्ववेदौ ।
एवं विजेतुमनसोरुपविष्टयोस्तां मालां गले न्यधित सोभयभारतीयम् ॥६७॥

मूलम्

आवश्यकं परिसमाप्य दिने दिने तौ वादं समं व्यतनुतां किल सर्ववेदौ ।
एवं विजेतुमनसोरुपविष्टयोस्तां मालां गले न्यधित सोभयभारतीयम् ॥६७॥

विश्वास-प्रस्तुतिः

माला यदा मलिनभावमुपैति कण्ठेयस्यापि तस्य विजयेतरनिश्चयः स्यात् ।
उक्त्वा गृहं गतवती गृहकर्मसक्ता भिक्षाशने पिचरितुं गृहिमस्करिभ्याम् ॥६८॥

मूलम्

माला यदा मलिनभावमुपैति कण्ठेयस्यापि तस्य विजयेतरनिश्चयः स्यात् ।
उक्त्वा गृहं गतवती गृहकर्मसक्ता भिक्षाशने पिचरितुं गृहिमस्करिभ्याम् ॥६८॥

विश्वास-प्रस्तुतिः

अन्योन्यसज्जयफले विहितादरौ तौ वादं विवादपरिनिर्णयमातनिष्टाम् ।
ब्रह्मादयः सुरवरा अपि वाहनस्थाः श्रोतुं तदीयसदने स्थितवन्त ऊर्ध्वम् ॥६९॥

मूलम्

अन्योन्यसज्जयफले विहितादरौ तौ वादं विवादपरिनिर्णयमातनिष्टाम् ।
ब्रह्मादयः सुरवरा अपि वाहनस्थाः श्रोतुं तदीयसदने स्थितवन्त ऊर्ध्वम् ॥६९॥

विश्वास-प्रस्तुतिः

ततस्तयोरास महान्विंवादः सदस्यविश्राणितसाधुवादः ।
स्वपक्षसाक्षी कृतसर्ववेदः परस्परस्यापि कृतप्रमोदः ॥७०॥

मूलम्

ततस्तयोरास महान्विंवादः सदस्यविश्राणितसाधुवादः ।
स्वपक्षसाक्षी कृतसर्ववेदः परस्परस्यापि कृतप्रमोदः ॥७०॥

विश्वास-प्रस्तुतिः

दिने दिने चाधिगतपकर्षो भूरीमवत्पण्डितसन्निकर्षः ।
अन्योन्यभङ्गाहिततीव्रतर्षस्तथाऽपि दूरीकृतजन्यमर्षः ॥७१॥

मूलम्

दिने दिने चाधिगतपकर्षो भूरीमवत्पण्डितसन्निकर्षः ।
अन्योन्यभङ्गाहिततीव्रतर्षस्तथाऽपि दूरीकृतजन्यमर्षः ॥७१॥

विश्वास-प्रस्तुतिः

दिने दिने वासरमध्यमे सा ब्रूते पतिं भोजनकालमेव ।
समेत्य भिक्षू समयं च भैक्ष्ये दिनान्यभूवन्निति पश्चषाणि ॥७२॥

मूलम्

दिने दिने वासरमध्यमे सा ब्रूते पतिं भोजनकालमेव ।
समेत्य भिक्षू समयं च भैक्ष्ये दिनान्यभूवन्निति पश्चषाणि ॥७२॥

विश्वास-प्रस्तुतिः

अन्योन्यधुत्तरमखण्डयतां प्रगल्भं
बद्धासनौ स्मितविकासिमुखारविन्दौ ।
न स्वेदकम्पगगनेक्षणशालिनों वा
न क्रोधवाक्छलमवादि निरुत्तराभ्याम् ॥७३॥

मूलम्

अन्योन्यधुत्तरमखण्डयतां प्रगल्भं
बद्धासनौ स्मितविकासिमुखारविन्दौ ।
न स्वेदकम्पगगनेक्षणशालिनों वा
न क्रोधवाक्छलमवादि निरुत्तराभ्याम् ॥७३॥

विश्वास-प्रस्तुतिः

ततो यतिक्ष्माभृदवेक्ष्य दाक्ष्यं क्षोदक्षमं तस्य चिचक्षणस्य ।
चिक्षेप तं क्षोभितसर्वपक्षं विद्वत्समक्षाप्रतिभातकक्ष्यम् ॥७४॥

मूलम्

ततो यतिक्ष्माभृदवेक्ष्य दाक्ष्यं क्षोदक्षमं तस्य चिचक्षणस्य ।
चिक्षेप तं क्षोभितसर्वपक्षं विद्वत्समक्षाप्रतिभातकक्ष्यम् ॥७४॥

विश्वास-प्रस्तुतिः

ततः स्वसिद्धानसमर्थनाय प्रागल्भ्यहीनोऽपि स सभ्यमुख्यः ।
जगाद वेदान्तवचःप्रसिद्धमद्वैअसिद्धान्तमपाकरिष्णुः ॥७५॥

मूलम्

ततः स्वसिद्धानसमर्थनाय प्रागल्भ्यहीनोऽपि स सभ्यमुख्यः ।
जगाद वेदान्तवचःप्रसिद्धमद्वैअसिद्धान्तमपाकरिष्णुः ॥७५॥

विश्वास-प्रस्तुतिः

भो भो यतिक्ष्माधिपते भवद्भिर्
जीवेशयोर् वास्तवम् ऐकरुप्यम् ।
विशुद्धमङ्गीक्रियते हि तत्र
प्रमाणम् एवं न वयं प्रतीमः ॥७६॥

मूलम्

भो भो यतिक्ष्माधिपते भवद्भिर्जीवेशयोर्वास्तवमैकरुप्यम् ।
विशुद्धमङ्गीक्रियते हि तत्र प्रमाणमेवं न वयं प्रतीमः ॥७६॥

विश्वास-प्रस्तुतिः

स प्रत्यवादीद् इदम् एव मानं
यच् छ्वेतकेतु-प्रमुखान् विनेयान् ।
उद्दालकाद्या गुरवो महान्तः
सङ्ग्राहयन्त्य् आत्मतया परेशम् ॥७७॥

मूलम्

स प्रत्यवादीदिदमेव मानं यच्छ्वेतकेतुप्रमुखान्विनेयान् ।
उद्दालकाद्या गुरवो महान्तः सङ्ग्राहयन्त्यात्मतया परेशम् ॥७७॥

विश्वास-प्रस्तुतिः

वेदावसानेषु हि तत्-त्वमादि-
वचांसि जप्तान्य् अघमर्पणानि ।
हुम्-फण्-मुखानीव वचांसि योगिन्
नैषां विवक्षाऽस्ति कुहस्विद् अर्थे ॥७८॥+++(4)+++

मूलम्

वेदावसानेषु हि तत्त्वमादिवचांसि जप्तान्यघमर्पणानि ।
हुम्फण्मुखानीव वचांसि योगिन्नैषां विवक्षाऽस्ति कुहस्विदर्थे ॥७८॥

विश्वास-प्रस्तुतिः

अर्थाप्रतीतौ किल हुम्फडादेर्जपोपयोगित्वमभाणि विज्ञैः ।
अर्थप्रतीतौ स्फुटमत्र सत्यां कथं भवेत्प्राज्ञ जपार्थतैव ॥७९॥

मूलम्

अर्थाप्रतीतौ किल हुम्फडादेर्जपोपयोगित्वमभाणि विज्ञैः ।
अर्थप्रतीतौ स्फुटमत्र सत्यां कथं भवेत्प्राज्ञ जपार्थतैव ॥७९॥

विश्वास-प्रस्तुतिः

आपाततस् “तत् त्वमसी"ति वाक्याद्
यतीश जीवेश्वरयोर् अभेदः ।
प्रतीयते ऽथाऽपि मखादिकर्तृ-
प्रशंसया स्याद् विधि-शेष एव ॥८०॥

मूलम्

आपाततस्तत्त्वमसीति वाक्याद्यतीश जीवेश्वरयोरभेदः ।
प्रतीयतेऽथाऽपि मखादिकर्तृप्रशंसया स्याद्विधिशेष एव ॥८०॥

शङ्करः -

विश्वास-प्रस्तुतिः

क्रत्व्-अङ्ग-यूपादिकम् अर्यमादि-
देवात्मना वाक्य-गणः प्रशंसन् ।
+++(विधि-)+++शेषः क्रिया-काण्ड-गतो यदि स्यात्,
+++(तत्त्वमसीत्यादि)+++ काण्डान्तर-स्थोऽपि भवेत् कथं सः +++(विधि-शेषः?)+++॥८१॥+++(4)+++

मूलम्

क्रत्वङ्गयूपादिकमर्यमादिदेवात्मना वाक्यगणः प्रशंसन् ।
शेषः क्रियाकाण्डगतो यदि स्यात्काण्डान्तरस्थोऽपि भवेत्कथं सः ॥८१॥

मण्डनः -

विश्वास-प्रस्तुतिः

तर्ह्य् अस्तु जीवे परमात्मदृष्टि-
विधायकः कर्म-समृद्धये ऽर्हन् ।
अब्रह्मणि ब्रह्म-धियं विधत्ते
यथा मनो ऽन्नार्क-नभस्वद्-आदौ ॥८२॥

मूलम्

तर्ह्यस्तु जीवे परमात्मदृष्टिविधायकः कर्मसमृद्धयेऽर्हन् ।
अब्रह्मणि ब्रह्मधियं विधत्ते यथा मनोऽन्नार्कनभस्वदादौ ॥८२॥

विश्वास-प्रस्तुतिः

संश्रूतयेऽन्यत्र यथा लिडादिर्विधायको ब्रह्मविभावनाय ।
तथा विधेरश्रवणान्मनीषिन् सञ्जाघटीत्यत्र कथं विधानम् ॥८३॥

मूलम्

संश्रूतयेऽन्यत्र यथा लिडादिर्विधायको ब्रह्मविभावनाय ।
तथा विधेरश्रवणान्मनीषिन् सञ्जाघटीत्यत्र कथं विधानम् ॥८३॥

विश्वास-प्रस्तुतिः

यद्वत्प्रतिष्ठाफलदर्शनेन विधिर्यतीनां वर रात्निसत्रे ।
प्रकल्प्यते तद्वदिहापि मुक्तिफलश्रुतेः कल्पयितुं स युक्तः ॥८४॥

मूलम्

यद्वत्प्रतिष्ठाफलदर्शनेन विधिर्यतीनां वर रात्निसत्रे ।
प्रकल्प्यते तद्वदिहापि मुक्तिफलश्रुतेः कल्पयितुं स युक्तः ॥८४॥

विश्वास-प्रस्तुतिः

तर्हि क्रियाजन्यतया विमुक्तिः
स्वर्गादिवद् +धन्त विनश्वरा स्यात् ।
उपासना कर्तुम् अकर्तुम् अन्यथा
वा कर्तुम् अर्हा मनसः क्रियैव ॥८५॥

मूलम्

तर्हि क्रियाजन्यतया विमुक्तिः स्वर्गादिवद्धन्त विनश्वरा स्यात् ।
उपासना कर्तुमकर्तुमन्यथा वा कर्तुमर्हा मनसः क्रियैव ॥८५॥

विश्वास-प्रस्तुतिः

मा भूदिदं तत्त्वमसीति वाक्यमुपासनापर्यवसायि कामम् ।
किन्त्वस्य जीवस्य परेण साम्यप्रत्यायकं सत्तम बोभवीतु ॥८६॥

मूलम्

मा भूदिदं तत्त्वमसीति वाक्यमुपासनापर्यवसायि कामम् ।
किन्त्वस्य जीवस्य परेण साम्यप्रत्यायकं सत्तम बोभवीतु ॥८६॥

विश्वास-प्रस्तुतिः

किं चेतनत्वेन विवक्ति साम्यं सार्वज्ञ्यसार्वात्म्यमुखैर्गुणैर्वा ।
आद्ये प्रसिद्धं न खलूपदेश्यमन्ते स्वसिद्धान्तविरुद्धता स्यात् ॥८७॥

मूलम्

किं चेतनत्वेन विवक्ति साम्यं सार्वज्ञ्यसार्वात्म्यमुखैर्गुणैर्वा ।
आद्ये प्रसिद्धं न खलूपदेश्यमन्ते स्वसिद्धान्तविरुद्धता स्यात् ॥८७॥

विश्वास-प्रस्तुतिः

नित्यत्वमात्रेणं मुने परात्मगुणोपमानैः सुखबोधपूर्वैः ।
गुणैरविद्यावृतितोऽप्रतीतैः साम्यं ब्रवीत्वस्य ततो न दोषः ॥८८॥

मूलम्

नित्यत्वमात्रेणं मुने परात्मगुणोपमानैः सुखबोधपूर्वैः ।
गुणैरविद्यावृतितोऽप्रतीतैः साम्यं ब्रवीत्वस्य ततो न दोषः ॥८८॥

विश्वास-प्रस्तुतिः

यद्येवमेतस्य परत्वमेव प्रत्याययत्वत्र दुराग्रहः कः ।
त्वयैव तस्य प्रतिभासशका विद्वन्नविद्यावरणान्निरस्ता ॥८९॥

मूलम्

यद्येवमेतस्य परत्वमेव प्रत्याययत्वत्र दुराग्रहः कः ।
त्वयैव तस्य प्रतिभासशका विद्वन्नविद्यावरणान्निरस्ता ॥८९॥

विश्वास-प्रस्तुतिः

भोश्चेतनत्वेन शरीरिसाम्यमावेद्यतापस्य जगत्प्रसूतेः ।
चिदुत्थितत्वेन परोदितस्याप्यणुप्रधानप्रभृतेर्निरासः ॥९०॥

मूलम्

भोश्चेतनत्वेन शरीरिसाम्यमावेद्यतापस्य जगत्प्रसूतेः ।
चिदुत्थितत्वेन परोदितस्याप्यणुप्रधानप्रभृतेर्निरासः ॥९०॥

विश्वास-प्रस्तुतिः

हन्तैवमस्तीति तदा प्रयोगः स्यात्त्वन्मते तत्त्वमसीति न स्यात् ।
तदैक्षतेत्यत्र जडत्वशकाव्यावर्तनाचात्र पुनर्न चोद्यम् ॥९१॥

मूलम्

हन्तैवमस्तीति तदा प्रयोगः स्यात्त्वन्मते तत्त्वमसीति न स्यात् ।
तदैक्षतेत्यत्र जडत्वशकाव्यावर्तनाचात्र पुनर्न चोद्यम् ॥९१॥

मण्डनः -

विश्वास-प्रस्तुतिः

नन्व् एवम् अप्य् ऐक्यपरत्वम् अस्य
प्रत्यक्ष-पूर्व-प्रमिति-प्रकोपात् ।
न युज्यते, तज् जप-मात्र-योगि-
स्वाध्याय-विध्य्-आश्रितम् अभ्युपेयम् ॥९२॥

मूलम्

नन्वेवमप्यैक्यपरत्वमस्य प्रत्यक्षपूर्वप्रमितिप्रकोपात् ।
न युज्यते तज्जपमात्रयोगिस्वाध्यायविध्याश्रितमभ्युपेयम् ॥९२॥

शङ्करः -

विश्वास-प्रस्तुतिः

अक्षेण चेद् भेद-मितिस् तदा स्याद्
अ-भेद-वादि-श्रुति-वाक्य-बाधः ।
असन्निकर्षान् न भवेद् +धि भेद-
प्रमैव तेनास्य कुतो विरोधः ॥९३॥

मूलम्

अक्षेण चेद्भेदमितिस्तदा स्यादभेदवादिश्रुतिवाक्यबाधः ।
असन्निकर्षान्न भवेद्धि भेदप्रमैव तेनास्य कुतो विरोधः ॥९३॥

विश्वास-प्रस्तुतिः

भिन्नो ऽहम् ईशाद् इति भासते हि
भेदस्य जीवात्म-विशेषणत्वम् ।
तत्-सन्निकर्षो ऽस्त्व् अथ सम्प्रयोगा-
भावेऽपि भेदेन्द्रिययोर् मनीषिन् ॥९४॥

मूलम्

भिन्नोऽहमीशादिति भासते हि भेदस्य जीवात्मविशेषणत्वम् ।
तत्सन्निकर्षोऽस्त्वथ सम्प्रयोगाभावेऽपि भेदेन्द्रिययोर्मनीषिन् ॥९४॥

विश्वास-प्रस्तुतिः

अतिप्रसक्तेर् न तु केवलस्य
विशेषणत्वस्य तद्-अभ्युपेयम् ।
भेदाश्रये हीन्द्रिय-सन्निकृष्टे
न सन्निकृष्टत्वम् इहात्मनो ऽसित ॥९५॥

मूलम्

अतिप्रसक्तेर्न तु केवलस्य विशेषणत्वस्य तदभ्युपेयम् ।
भेदाश्रये हीन्द्रियसन्निकृष्टे न सन्निकृष्टत्वमिहात्मनोऽसित ॥९५॥

विश्वास-प्रस्तुतिः

भेदाश्रयात्मेन्द्रियसन्निकर्षो नेत्युक्तमेतचतुरं न यस्मात् ।
चित्तात्मनोर्द्रव्यतया द्वयोरप्यस्त्येव संयोगसमाश्रयत्वम् ॥९६॥

मूलम्

भेदाश्रयात्मेन्द्रियसन्निकर्षो नेत्युक्तमेतचतुरं न यस्मात् ।
चित्तात्मनोर्द्रव्यतया द्वयोरप्यस्त्येव संयोगसमाश्रयत्वम् ॥९६॥

विश्वास-प्रस्तुतिः

आत्मा विभुः स्वादथवाऽणुमात्रः संयोगिता नोभयथाऽपि युक्ता ।
दृष्टा हि सा सावयवस्य लोके संयोगिता सावयवेन योगिन् ॥९७॥

मूलम्

आत्मा विभुः स्वादथवाऽणुमात्रः संयोगिता नोभयथाऽपि युक्ता ।
दृष्टा हि सा सावयवस्य लोके संयोगिता सावयवेन योगिन् ॥९७॥

विश्वास-प्रस्तुतिः

मनोऽक्षमित्यभ्युपगम्य भेदासडित्वमुक्तं परमार्थतस्तु ।
साहाय्यकृल्लोचनपूर्वकस्य दीपादिवन्नेन्द्रियमेव चित्तम् ॥९८॥

मूलम्

मनोऽक्षमित्यभ्युपगम्य भेदासडित्वमुक्तं परमार्थतस्तु ।
साहाय्यकृल्लोचनपूर्वकस्य दीपादिवन्नेन्द्रियमेव चित्तम् ॥९८॥

विश्वास-प्रस्तुतिः

भेदप्रमा नेन्द्रियजाऽस्तु तर्हि साक्षिस्वरुपैव तथाऽपि योगिन् ।
तया विरोधात्परमात्मजीवाभेदं कथं बोधयितुं प्रमाणम् ॥९९॥

मूलम्

भेदप्रमा नेन्द्रियजाऽस्तु तर्हि साक्षिस्वरुपैव तथाऽपि योगिन् ।
तया विरोधात्परमात्मजीवाभेदं कथं बोधयितुं प्रमाणम् ॥९९॥

विश्वास-प्रस्तुतिः

प्रत्यक्षमात्मेश्वरयोरविद्यामाजायुजोर्द्योतयति प्रभेदम् ।
श्रुतिस्तयोः केवलयोरभेदं भिन्नाश्रयत्वान्न तयोर्विरोधः ॥१००॥

मूलम्

प्रत्यक्षमात्मेश्वरयोरविद्यामाजायुजोर्द्योतयति प्रभेदम् ।
श्रुतिस्तयोः केवलयोरभेदं भिन्नाश्रयत्वान्न तयोर्विरोधः ॥१००॥

विश्वास-प्रस्तुतिः

स्याद्वा विरोधस्तदपि प्रवृत्तं प्रत्यक्षमग्रेऽबलमेव बाध्यम् ।
प्राबल्यवत्या चरमप्रवृत्त्या श्रुत्वा ह्यपच्छेदनयोक्तरीत्या ॥१०१॥

मूलम्

स्याद्वा विरोधस्तदपि प्रवृत्तं प्रत्यक्षमग्रेऽबलमेव बाध्यम् ।
प्राबल्यवत्या चरमप्रवृत्त्या श्रुत्वा ह्यपच्छेदनयोक्तरीत्या ॥१०१॥

विश्वास-प्रस्तुतिः

नन्व् एवम् अप्य् अस्त्य् अनुमान-बाधो
ऽभेदश्रुतेः संयमिचक्रवर्तिन् ।
घटाद् इव ब्रह्म-निरुपितेन
भेदेन युक्तोऽयम् असर्ववित्वात् ॥१०२॥

मूलम्

नन्वेवमप्यस्त्यनुमानबाधोऽभेदश्रुतेः संयमिचक्रवर्तिन् ।
घटादिवब्रह्मनिरुपितेन भेदेन युक्तोऽयमसर्ववित्वात् ॥१०२॥

विश्वास-प्रस्तुतिः

किमेष भेदः परमार्थभूतः प्रसाध्यते काल्पनिकोऽथवाऽऽद्ये ।
दृष्टान्तहानिश्चरमे तु विद्वन्नूरीकृतोऽस्माभिरसाधनीयः ॥१०३॥

मूलम्

किमेष भेदः परमार्थभूतः प्रसाध्यते काल्पनिकोऽथवाऽऽद्ये ।
दृष्टान्तहानिश्चरमे तु विद्वन्नूरीकृतोऽस्माभिरसाधनीयः ॥१०३॥

विश्वास-प्रस्तुतिः

स्व-प्रत्ययाबाध्य-भिदाश्रयत्वं
साध्यं घटादौ च तद् अस्ति योगिन् ।
त्वयाऽऽत्मबोधेन भिदा न बाध्येत्य्
अनभ्युपेतेति न कोऽपि दोषः ॥१०४॥

मूलम्

स्वप्रत्ययाबाध्यभिदाश्रयत्वं साध्यं घटादौ च तदस्ति योगिन् ।
त्वयाऽऽत्मबोधेन भिदा न बाध्येत्यनभ्युपेतेति न कोऽपि दोषः ॥१०४॥

विश्वास-प्रस्तुतिः

ननु स्व-शब्देन सुखादिमान् वा
विवक्षितस् तद्-विधुरो ऽथवा ऽऽत्मा ।
आद्यो ऽस्मद्-इष्टं ननु साध्यम् अन्त्ये
दृष्टान्त-हानिः पुनर् एव ते स्यात् ॥१०५॥

मूलम्

ननु स्वशब्देन सुखादिमान्वा विवक्षितस्तद्विधुरोऽथवाऽऽत्मा ।
आद्योऽस्मदिष्टं ननु साध्यमन्त्ये दृष्टान्तहानिः पुनरेव ते स्यात् ॥१०५॥

विश्वास-प्रस्तुतिः

योगिन्ननौपाधिकभेदवत्त्वं विवक्षितं साध्यमिह त्वदिष्टः ।
औपाधिकस्त्वीश्वरजीवभेदो घटेशभेदो निरुपाधिकश्च ॥१०६॥

मूलम्

योगिन्ननौपाधिकभेदवत्त्वं विवक्षितं साध्यमिह त्वदिष्टः ।
औपाधिकस्त्वीश्वरजीवभेदो घटेशभेदो निरुपाधिकश्च ॥१०६॥

विश्वास-प्रस्तुतिः

घटेशभेदेऽप्युपधिर्ह्यविद्या तवानुमानेषु जडत्वमेव ।
चित्वादभिन्नः परवत्परस्मादात्मेति वाऽत्र प्रतिपक्षहेतु ॥१०७॥

मूलम्

घटेशभेदेऽप्युपधिर्ह्यविद्या तवानुमानेषु जडत्वमेव ।
चित्वादभिन्नः परवत्परस्मादात्मेति वाऽत्र प्रतिपक्षहेतु ॥१०७॥

विश्वास-प्रस्तुतिः

धर्मिप्रमाबाध्यशरीरिभेदो ह्यसंसृतौ ब्रह्मणि साध्यमिष्टम् ।
त्वयेष्यते ब्रह्मधियाऽऽत्मभेदो बाध्यो घटादिप्रमया त्वबाध्यः ॥१०८॥

मूलम्

धर्मिप्रमाबाध्यशरीरिभेदो ह्यसंसृतौ ब्रह्मणि साध्यमिष्टम् ।
त्वयेष्यते ब्रह्मधियाऽऽत्मभेदो बाध्यो घटादिप्रमया त्वबाध्यः ॥१०८॥

विश्वास-प्रस्तुतिः

किं कृत्स्रधर्मिप्रमया न बाध्यः किं वा स यत्किञ्चनधर्मिबोधात् ।
घटाधिके ब्रह्मणि चात्मभेदस्यैवयात् पुनः स्यान्ननु पूर्वदोषः ॥१०९॥

मूलम्

किं कृत्स्रधर्मिप्रमया न बाध्यः किं वा स यत्किञ्चनधर्मिबोधात् ।
घटाधिके ब्रह्मणि चात्मभेदस्यैवयात् पुनः स्यान्ननु पूर्वदोषः ॥१०९॥

विश्वास-प्रस्तुतिः

किञ्चागुणो वा सगुणो मनीषिन्विवक्ष्यते धर्मिपदेन नान्त्यः ।
भेदस्य तद्बुध्यविबाध्यतेष्टेर्नाद्यश्च तत्रोभयथाऽपि दोषात् ॥११०॥

मूलम्

किञ्चागुणो वा सगुणो मनीषिन्विवक्ष्यते धर्मिपदेन नान्त्यः ।
भेदस्य तद्बुध्यविबाध्यतेष्टेर्नाद्यश्च तत्रोभयथाऽपि दोषात् ॥११०॥

विश्वास-प्रस्तुतिः

किं निर्विशेषं प्रमितं न वाऽन्त्ये प्राप्ताऽऽश्रयासिद्धिरथाद्यकल्पे ।
शरीर्यभेदेन परस्य सिद्धेः प्राप्रोति धर्मग्रहमानकोपः ॥१११॥

मूलम्

किं निर्विशेषं प्रमितं न वाऽन्त्ये प्राप्ताऽऽश्रयासिद्धिरथाद्यकल्पे ।
शरीर्यभेदेन परस्य सिद्धेः प्राप्रोति धर्मग्रहमानकोपः ॥१११॥

विश्वास-प्रस्तुतिः

भो ‘द्वा सुपर्णा सयुज सखाये’त्य्-
आद्या श्रुतिर् भेदम् उदीरयन्ती ।
जीवेशयोः पिप्पल-भोक्त्र्-अभोक्त्रोस्
तयोर् अभेद-श्रुति-बाधिकाऽस्तु ॥११२॥

English

MANDANA: (Not being able to show or establish the distinctiveness of Brahman and the Jiva by reasoning, Mandana again resorts to Sruti.) There is the following Upanishadic verse,

‘There are two birds of beautiful plumage, unified in friendship through eternity, occupying the same tree. Of them, one eats the fruits of the tree, while the other merely looks on without eating,’

Here, the two birds are the Jiva and Brahman, and the Sruti asserts their difference. By this the Sruti contradicts the idea of their unity which, you say, is asserted by other Vedic sentences.

मूलम्

भो ‘द्वा सुपर्णा सयुज सखाये’ त्याद्या श्रुतिर्भेदमुदीरयन्ती ।
जीवेशयोः पिप्पलभोक्त्रभोक्त्रोस्तयोरभेदश्रुतिबाधिकाऽस्तु ॥११२॥

शङ्करः -

विश्वास-प्रस्तुतिः

प्रत्यक्ष-सिद्धे विफले परात्म-
भेदे, +++(तद्-अनुवाद-परा)+++ श्रुतिर् नो नयवित् प्रमाणम् ।
स्याद् अन्यथा मानम्, अतत्परोऽपि
स्वार्थेऽर्थवादः सकलोऽपि विद्वन् ॥११३॥

English

A Vedic sentence must give you some knowledge unattainable through other means like perception, or they must prompt you to some fruitful action. Others are mere Arthavadas, figures of speech and exaggerations, whose meaning is not what they purport to say. The passage you have quoted is only an Arthavada. There are many such passages in the Veda with dualistic import.

मूलम्

प्रत्यक्षसिद्धे विफले परात्मभेदे श्रुतिर्नो नयवित्प्रमाणम् ।
स्यादन्यथा मानमतत्परोऽपि स्वार्थेऽर्थवादः सकलोऽपि विद्वन् ॥११३॥

विश्वास-प्रस्तुतिः

स्मृतिप्रसिद्धार्थविबोधि वाक्यं यथेष्यते मूलतया प्रमाणम् ।
प्रत्यक्षसिद्धार्थकवाक्यमेवं स्यादेव तन्मूलतया प्रमाणम् ॥११४॥

मूलम्

स्मृतिप्रसिद्धार्थविबोधि वाक्यं यथेष्यते मूलतया प्रमाणम् ।
प्रत्यक्षसिद्धार्थकवाक्यमेवं स्यादेव तन्मूलतया प्रमाणम् ॥११४॥

विश्वास-प्रस्तुतिः

श्रुतिः स्मृतेऽर्थे यदि वेदविद्भिर्भवेन्न तन्मूलतया प्रमाणम् ।
कथं भवेद्वेदकथानभिज्ञैर्ज्ञातेऽपि भेदे परजीवयोः सा ॥११५॥

मूलम्

श्रुतिः स्मृतेऽर्थे यदि वेदविद्भिर्भवेन्न तन्मूलतया प्रमाणम् ।
कथं भवेद्वेदकथानभिज्ञैर्ज्ञातेऽपि भेदे परजीवयोः सा ॥११५॥

विश्वास-प्रस्तुतिः

जीवेश्वरौ सा वदतीत्युपेत्य प्रावोचमेतत्परमार्थतस्तु ।
विविच्य सत्वात्पुरुषं समस्तसंसारराहित्यममुष्य वक्ति ॥११६॥

मूलम्

जीवेश्वरौ सा वदतीत्युपेत्य प्रावोचमेतत्परमार्थतस्तु ।
विविच्य सत्वात्पुरुषं समस्तसंसारराहित्यममुष्य वक्ति ॥११६॥

विश्वास-प्रस्तुतिः

यदीयमाख्यात्यथ सत्त्वजीवौ विहाय सर्वज्ञशरीरभाजौ ।
जडस्य भोक्तृत्वमुदाहरन्ती प्रामाण्यमहिन् कथमश्नुवीत ॥११७॥

मूलम्

यदीयमाख्यात्यथ सत्त्वजीवौ विहाय सर्वज्ञशरीरभाजौ ।
जडस्य भोक्तृत्वमुदाहरन्ती प्रामाण्यमहिन् कथमश्नुवीत ॥११७॥

विश्वास-प्रस्तुतिः

न चोदनीया वयमत्र विद्वन् यतस्त्वया पैडिरहस्यमेव ।
अत्तीति सत्त्वं त्वभिपश्यति ज्ञ इति स्म सम्यग्विवृणोति मन्त्रम् ॥११८॥

मूलम्

न चोदनीया वयमत्र विद्वन् यतस्त्वया पैडिरहस्यमेव ।
अत्तीति सत्त्वं त्वभिपश्यति ज्ञ इति स्म सम्यग्विवृणोति मन्त्रम् ॥११८॥

विश्वास-प्रस्तुतिः

शरीरवाची ननु सत्त्वशब्दः क्षेत्रज्ञशब्दः परमात्मवाची ।
तत्राप्यतो नान्यपरत्वमस्य वाक्यस्य पैडयोदितवर्त्मनाऽपि ॥११९॥

मूलम्

शरीरवाची ननु सत्त्वशब्दः क्षेत्रज्ञशब्दः परमात्मवाची ।
तत्राप्यतो नान्यपरत्वमस्य वाक्यस्य पैडयोदितवर्त्मनाऽपि ॥११९॥

विश्वास-प्रस्तुतिः

तदेतदित्यादिगिरा हि चित्ते प्रदर्शिता सत्वपदस्य वृत्तिः ।
क्षेत्रज्ञशब्दस्य च वृत्तिरुक्ता शारीरके द्र्ष्टरि तत्र विद्वन् ॥१२०॥

मूलम्

तदेतदित्यादिगिरा हि चित्ते प्रदर्शिता सत्वपदस्य वृत्तिः ।
क्षेत्रज्ञशब्दस्य च वृत्तिरुक्ता शारीरके द्र्ष्टरि तत्र विद्वन् ॥१२०॥

विश्वास-प्रस्तुतिः

येनेति हि स्वप्रदृशिक्रियायाः कर्तोच्यते तत्न स जीव एव ।
क्षेत्रज्ञशब्दाभिहितश्च योगिन् स्यात्स्वप्रदृक् सर्वविदीश्वरोऽपि ॥१२१॥

मूलम्

येनेति हि स्वप्रदृशिक्रियायाः कर्तोच्यते तत्न स जीव एव ।
क्षेत्रज्ञशब्दाभिहितश्च योगिन् स्यात्स्वप्रदृक् सर्वविदीश्वरोऽपि ॥१२१॥

विश्वास-प्रस्तुतिः

तिङ्प्रत्ययेनाभिहितोऽत्न कर्ता ततस्तृतीया करणेऽभ्युपेया ।
द्रष्टा च शारीरतया मनीषिन् विशेष्यते तेन स नेश्वरः स्यात् ॥१२२॥

मूलम्

तिङ्प्रत्ययेनाभिहितोऽत्न कर्ता ततस्तृतीया करणेऽभ्युपेया ।
द्रष्टा च शारीरतया मनीषिन् विशेष्यते तेन स नेश्वरः स्यात् ॥१२२॥

विश्वास-प्रस्तुतिः

वृत्तिः शरीरे भवतीत्यमुष्मिन्नर्थे हि शारीरपदस्य योगिन् ।
तस्मिन् भवन् सर्वगतो महेशः कथं न शारीरपदाभिधेयः ॥१२३॥

मूलम्

वृत्तिः शरीरे भवतीत्यमुष्मिन्नर्थे हि शारीरपदस्य योगिन् ।
तस्मिन् भवन् सर्वगतो महेशः कथं न शारीरपदाभिधेयः ॥१२३॥

विश्वास-प्रस्तुतिः

भवञ्छरीरादितरत्र चेशः कथं च शारीरपदाभिधेयः ।
नभः शरीरेऽपि भवत्यथापि न केऽपि शारीरमितीरयन्ति ॥१२४॥

मूलम्

भवञ्छरीरादितरत्र चेशः कथं च शारीरपदाभिधेयः ।
नभः शरीरेऽपि भवत्यथापि न केऽपि शारीरमितीरयन्ति ॥१२४॥

विश्वास-प्रस्तुतिः

यद्येष मन्त्रोऽनभिधाय जीवप्राज्ञौ वदेद्धुशरीरभाजौ ।
अत्तीति भोक्तृत्वमचेतनाया बुद्धेर्वदेत्तार्हि कथं प्रमाणम् ॥१२५॥

मूलम्

यद्येष मन्त्रोऽनभिधाय जीवप्राज्ञौ वदेद्धुशरीरभाजौ ।
अत्तीति भोक्तृत्वमचेतनाया बुद्धेर्वदेत्तार्हि कथं प्रमाणम् ॥१२५॥

विश्वास-प्रस्तुतिः

अदाहकस्याप्ययसः कृशानोराश्लेषणाद्दाहकता यथाऽऽस्ते ।
तथैव भोक्तृत्वमचेतनाया बुद्धेरपि स्याच्चिदनुप्रवेशात् ॥१२६॥

मूलम्

अदाहकस्याप्ययसः कृशानोराश्लेषणाद्दाहकता यथाऽऽस्ते ।
तथैव भोक्तृत्वमचेतनाया बुद्धेरपि स्याच्चिदनुप्रवेशात् ॥१२६॥

विश्वास-प्रस्तुतिः

छायातपौ यद्वदतीव भिन्नौ जीवेश्वरौ तद्वदिति ब्रुवाणा ।
ॠतं पिबन्ताविति काठकेषु श्रुतिस्त्वभेदश्रुतिबाधिकाऽस्तु ॥१२७॥

मूलम्

छायातपौ यद्वदतीव भिन्नौ जीवेश्वरौ तद्वदिति ब्रुवाणा ।
ॠतं पिबन्ताविति काठकेषु श्रुतिस्त्वभेदश्रुतिबाधिकाऽस्तु ॥१२७॥

विश्वास-प्रस्तुतिः

भेदं वदन्ती व्यवहारसिद्धं न बाधतेऽभेदपरश्रुतिं सा ।
एषा त्वपूर्वार्थतया बलिष्ठा भेदश्रुतेः प्रत्युत बाधिका स्यात् ॥१२८॥

मूलम्

भेदं वदन्ती व्यवहारसिद्धं न बाधतेऽभेदपरश्रुतिं सा ।
एषा त्वपूर्वार्थतया बलिष्ठा भेदश्रुतेः प्रत्युत बाधिका स्यात् ॥१२८॥

विश्वास-प्रस्तुतिः

मानान्तरोपोद्वलिता हि भेदश्रुतिर्बलिष्ठा यमिनां वरेण्य ।
तद्वाधितुं सा प्रभवत्यभेदश्रुतिं प्रमाणान्तरबाधितार्थाम् ॥१२९॥

मूलम्

मानान्तरोपोद्वलिता हि भेदश्रुतिर्बलिष्ठा यमिनां वरेण्य ।
तद्वाधितुं सा प्रभवत्यभेदश्रुतिं प्रमाणान्तरबाधितार्थाम् ॥१२९॥

विश्वास-प्रस्तुतिः

प्राबल्यम् आपादयति श्रुतीनां
+++(प्रत्यक्षादि-)+++मानान्तरं नैव बुधाग्रयायिन् ।
गतार्थताऽऽदान-मुखेन तासां
दौर्बल्य-सम्पादकम् एव किन्तु ॥१३०॥ +++(4)+++

मूलम्

प्राबल्यमापादयति श्रुतीनां मानान्तरं नैव बुधाग्रयायिन् ।
गतार्थतादानमुखेन तासां दौर्बल्यसम्पादकमेव किन्तु ॥१३०॥

विश्वास-प्रस्तुतिः

इत्य्-आद्या दृढ-युक्तिर् अस्य शुशुभे,, दत्तानुमोदा गिरां
देव्या, तादृश-विश्वरुप-रभसावष्टम्भ–मुष्टिन्-धया+++(←धेट् (पाने))+++ ।
भर्तृ-न्यास-विलक्ष्य–सूक्ति-जननी, साक्षित्व-कुक्षिम्-भरिः
स-श्लाघा-ऽद्भुत-पुष्प-वृष्टि-लहरी-सौगन्ध्य-पाणिन्-धया+++(←धेट् (पाने))+++ ॥१३१॥

मूलम्

इत्याद्या दृढयुक्तिरस्य शुशुभे दत्तानुमोदा गिरां
देव्या तादृशविश्वरुपरभसावष्टम्भमुष्टिन्धया ।
भर्तृन्यासविलक्ष्यसूक्तिजननीसाक्षित्वकुक्षिम्भरिः
सश्लाघाद्भुतपुष्पवृष्टिलहरी सौगन्ध्यपाणिन्धया ॥१३१॥

विश्वास-प्रस्तुतिः

इत्थं यतिक्षितिपते रनुमोद्य युक्तिं मालां च मण्डनगले मलिनामवेक्ष्य ।
भिक्षार्थमुचलतमद्य युवामितीमावाचष्ट तं पुनरुवाच यतीन्द्रमम्बा ॥१३२॥

मूलम्

इत्थं यतिक्षितिपते रनुमोद्य युक्तिं मालां च मण्डनगले मलिनामवेक्ष्य ।
भिक्षार्थमुचलतमद्य युवामितीमावाचष्ट तं पुनरुवाच यतीन्द्रमम्बा ॥१३२॥

विश्वास-प्रस्तुतिः

कोपारितेकवशतः शपता पुरा मां दुर्वाससा तदवधिर्विहितो जयस्ते ।
साऽहं यथागतमुपैमि शमिप्रवीरेत्युक्त्वा ससम्भ्रममुं निजधाम यान्तीम् ॥१३३॥

मूलम्

कोपारितेकवशतः शपता पुरा मां दुर्वाससा तदवधिर्विहितो जयस्ते ।
साऽहं यथागतमुपैमि शमिप्रवीरेत्युक्त्वा ससम्भ्रममुं निजधाम यान्तीम् ॥१३३॥

विश्वास-प्रस्तुतिः

बबन्ध निःशकमरण्यदुर्गामन्त्रेण तां जेतुमना मुनीन्द्रः ।
जयोऽपि तस्याः स्वमतैक्यसिद्धयै सार्वज्ञतः स्वस्य न मानहेतोः ॥१३४॥

मूलम्

बबन्ध निःशकमरण्यदुर्गामन्त्रेण तां जेतुमना मुनीन्द्रः ।
जयोऽपि तस्याः स्वमतैक्यसिद्धयै सार्वज्ञतः स्वस्य न मानहेतोः ॥१३४॥

विश्वास-प्रस्तुतिः

जानामि देवीं भवतीं विधातुर्देवस्य भार्या पुरभित्सगर्भ्याम् ।
उपात्तलक्ष्म्यादिविचित्ररुपां गुप्त्यै प्रपञ्चस्य कृतावताराम् ॥१३५॥

मूलम्

जानामि देवीं भवतीं विधातुर्देवस्य भार्या पुरभित्सगर्भ्याम् ।
उपात्तलक्ष्म्यादिविचित्ररुपां गुप्त्यै प्रपञ्चस्य कृतावताराम् ॥१३५॥

विश्वास-प्रस्तुतिः

व्रज जननि तदा त्वं भक्तचूडामणिस्ते
निजपदमनुदास्याम्यभ्यनुज्ञां यदैतुम् ।
इति निजवच्नेऽस्मिञ्छारदासम्मतेऽसौ
मुनिरथ मुदितोऽभून्माण्डनं हृद्वुभुत्सुः ॥१३६॥

मूलम्

व्रज जननि तदा त्वं भक्तचूडामणिस्ते
निजपदमनुदास्याम्यभ्यनुज्ञां यदैतुम् ।
इति निजवच्नेऽस्मिञ्छारदासम्मतेऽसौ
मुनिरथ मुदितोऽभून्माण्डनं हृद्वुभुत्सुः ॥१३६॥

विश्वास-प्रस्तुतिः

इति श्रीमाधवीये तन्मण्डनार्यकथापरः ।
सङ्क्षेपशकरजये सर्गोऽसावष्टमोऽभवत् ॥८॥

मूलम्

इति श्रीमाधवीये तन्मण्डनार्यकथापरः ।
सङ्क्षेपशकरजये सर्गोऽसावष्टमोऽभवत् ॥८॥

आदितः ९२०