विश्वास-प्रस्तुतिः
स जातु शारीरक-सूत्र-भाष्यम्
अध्यापयन्न् अभ्र-सरित्-समीपे ।
शिष्यालि-शङ्काः शमयन्न् उवास
यावन् नभो-मध्यम् इतो विवस्वान् ॥१॥
मूलम्
स जातु शारीरकसूत्रभाष्यमध्यापयन्नभ्रसरित्समीपे ।
शिष्यालिशङ्काः शमयन्नुवास यावन्नभोमध्यमितो विवस्वान् ॥१॥
विश्वास-प्रस्तुतिः
श्रान्तेष्वथाधीत्य शनैर्विनेयेष्वाचार्य उत्तिष्ठति यावदेषः ।
तावद् द्विजः कश्चन वृद्धरुपः कस्त्वं किमध्यापयसीत्यपृच्छत् ॥२॥

शिष्यास्तमूचुर्भगावानसौ नो गुरुः समस्तोपनिषत्स्वतन्त्रः ।
अनेन दुरीकृतभेदवादमकारि शारीरकसूत्नभाष्यम् ॥३॥

स चाब्रवीद्भाष्यकृतं भवन्तमेते वदन्त्यद्भतमेतदास्ताम् ।
अथैकमुच्चारय पारमार्ष यतेऽर्थतस्त्वं यदि वेत्थ सूत्रम् ॥४॥

तमब्रवीद्भाष्यकृग्र्यवाचं सूत्रार्थविद्भयोऽस्तु नमो गुरुभ्यः ।
सूत्रज्ञताहङ्कृतिरस्ति नो मे तथाऽपि यत्पृच्छसि तह्र्वीमि ॥५॥

पप्रच्छ सोऽध्यायमथाधिकृत्य तृतीयमारम्भगतं यतीशम् ।
‘तदन्तरे ’ त्यादिकमस्ति सूत्रं ब्रूह्येतदर्थ यदि वेत्थ किश्चित् ॥६॥

स प्राह जीवः करणावसादे संवेष्टितो गच्छति भूतसूक्ष्मैः ।
ताण्डिश्रुतौ गौतमजैवलीयप्रश्नोत्तराभ्यां प्रथितोऽयमर्थः ॥७॥

इत्युक्तमर्थं निशमय्य तेन स वावदूकः शतधा विकल्प्य ।
अखण्डयत्पण्डितकुज्जराणां मध्ये महाविस्मयमादधानः ॥८॥

अनुद्य सर्व फणितं तदीयं सहस्रधा तीर्थकरश्चखण्ड ।
तयाः सुराचार्यफणीन्द्रवाचोर्दिनाष्टकं वाक्कलहो जजृम्भे ॥९॥

एवं वदन्तौ यतिराड् द्विजेन्द्रौ विलोक्य पार्श्वस्थितपद्मपादः ।
आचार्यमाहेति महीसुरोऽयं व्यासो हि वेदान्तरहस्यवेत्ता ॥१०॥

त्वं शकरः शकर एव साक्षात् व्यासस्तु नारायण एव नूनम् ।
तयोर्विवादे सततं प्रसक्ते किं किकरोऽहं करवणी सद्य ः ॥११॥

इतीदमाकर्ण्य वचो विचित्नं स भाष्यकृत्सूत्रकृतं दिदृक्षुः ।
कृताज्जलिस्तं प्रयतः प्रणम्य बभाण वाणीं नवपद्यरुपाम् ॥१२॥

भवांस्तडिच्चारुजटाकिरीटप्रवर्षुकाम्भोधरकान्तिकान्तः ।
शुभ्रोपवीती धृतकृष्णचर्मा कृष्णो हि साक्षात्कलिदोषहन्ता ॥१३॥

भावत्कसूत्नप्रतिपाद्यतादृक्यपरापरार्थप्रतिपाद्कं सत् ।
अद्वैतभाष्यं तव सम्मतं चेत्सोढ्वा ममाऽगः पुरतो भवाऽऽशु ॥१४॥

एवं द्वन्नयमथैक्षत कृष्णमाराच्चामीकरव्रततिचारुजटाकलापम् ।
विद्युल्लतावलयवेष्टितवारिदाभं चिन्मुद्रया प्रकटयन्तमभीष्टामर्थम् ॥१५॥

गाढोपगूढमनुरागजुषा रजन्या गर्हापदं विदधतं शरदिन्दुबिम्बम् ।
तापिच्छरी तितनुकान्तिझरीपरीतं कान्तेन्दुकान्तघटितं करकं दधानम् ॥१६॥

सप्ताधिकाच्छदरविंशतिमौक्तिकाढयां
सत्यस्य मूर्तिमिव बिभ्रतमक्षमालाम् ।
तत्तादृशस्वपतिवंशविवर्धनात्मा -
क्तारावलीमुपगतामिव चानुनेतुम् ॥१७॥
मूलम्
सप्ताधिकाच्छदरविंशतिमौक्तिकाढयां
सत्यस्य मूर्तिमिव बिभ्रतमक्षमालाम् ।
तत्तादृशस्वपतिवंशविवर्धनात्मा -
क्तारावलीमुपगतामिव चानुनेतुम् ॥१७॥
विश्वास-प्रस्तुतिः
शार्दूलचर्मोद्वहनेन भूतेरुद्धूलनेनापि जटाच्छटाभिः ।
रुद्राक्षमालावलयेन शम्भोरर्धासनाध्यासनसख्यपात्रम् ॥१८॥

अद्वैतविद्यासृणितीक्ष्णधारावशीकृताहङ्कृतिकुज्जरेन्द्रम् ।
स्वशास्त्रशड्कूज्ज्वलसूत्रदामनियान्त्रिताकृत्रिमगोसहस्रम् ॥१९॥

तत्तादृगत्युज्ज्वलकीर्तिशालिशिष्यालिसंशोभितपार्श्वभागम् ।
कटाक्षबीक्षामृतवर्षधारानिवारिताशेषजनानुतापम् ॥२०॥

विलोक्य वाचंयमसार्वभौमं स शकरोऽशकितदर्शनं तम् ।
गुरुं गुरुणामपि हृष्टचेताः प्रत्युद्ययौ शिष्यगणैः समेतः ॥२१॥

अत्यादराच्छात्रगणैः सहासौ प्रत्युद्रतस्तचरणौ प्रणम्य ।
यत्यग्रगामी विनयी प्रहृष्यन्नित्यब्रवीत्सत्यवतीसुतं सः ॥२२॥

द्वैपायन स्वगतमस्तु तुभ्यं दुष्ट्रा भवन्तं चरिता मयाऽर्थाः ।
युक्तं तदेतत्त्वयि सर्वकालं परोपकारव्रतदीक्षितत्त्वात् ॥२३॥

मुने पुराणानि दशाष्ट साक्षाच्छ्रुत्यर्थगर्भाणि सुदुष्कराणि ।
कृतानि पद्यद्वयमत्र कर्तु को नाम शक्रो ति सुसङ्गतार्थम् ॥२४॥

वेदार्णवं व्यतियुतं व्यदधाश्चतुर्धा
शाखाप्रभेदनवशादपि तान् विभक्तान् ।
मन्दाः कलौ क्षितिसुरा जनितार एते
वेदान् ग्रहीतुमलसा इति चिन्तयित्वा ॥२५॥
मूलम्
वेदार्णवं व्यतियुतं व्यदधाश्चतुर्धा
शाखाप्रभेदनवशादपि तान् विभक्तान् ।
मन्दाः कलौ क्षितिसुरा जनितार एते
वेदान् ग्रहीतुमलसा इति चिन्तयित्वा ॥२५॥
विश्वास-प्रस्तुतिः
एष्याद्विजानासि भवन्तमर्थ गतं च सर्व न न वेत्सि यत्तत् ।
नो चेत्कथं भूतभवद्भविष्यत्कथाप्रबन्धान् रचयेरजानन् ॥२६॥

आभासयन्नन्तरमडमान्ध्यं स्थूलं च सूक्ष्मं बहिरन्तरं च ।
अपानुदन् भारतशीतरश्मिरभूदपूर्वो भगवत्पयोधेः ॥२७॥

वेदाः षडङ्गं निखिलं च शास्त्रं महन महाभारतवारिराशिः ।
त्वत्तः पुराणानि च सम्बभूवुः सर्व त्वदीयं खलु वाडयाख्यम् ॥२८॥

द्वीपे कचित् सम्दुअयन्नृतमेव धाम शाखाशस्रसचिवः शुकसेव्यमानः ।
उल्लासयत्यहह यस्तिलको मुनीनामुच्चैः फलानि सुदृशां निजपादभाजाम् ॥२९॥

धत्से सदाऽऽर्तिधमनाय हृदा गिरीशं गोपायसेऽधिवदनं च चिरन्तनीर्गाः ।
दूरीकरोषि नरकं च दयार्द्रदृष्टया कस्ते गुणान् गदितुमद्भुतकृष्ण शक्तः ॥३०॥

यमामनन्ति श्रुतयः पदार्थ न सन्न चासन्न बहिर्न चान्तः ।
स सच्चिदानन्दघनः परात्मा नारायणस्त्व पुरुषः पुराणः ॥३१॥

इति स्तुतस्तेन यथाविधानमासेदिवान् विष्ठरमात्मनिष्ठाः ।
द्वैपायनः प्रश्नयनम्रपूर्वकायं यतीशानमिदं ब्रभाषे ॥३२॥

त्वमस्मदादेः पदवीं गतोऽभूरखण्डपाण्डित्यमवोधयं ते ।
शुकर्षिवत् प्रीतिकरोऽसि विद्वन् पुरेव शिष्यैः सह मा भ्रमीस्त्वम् ॥३३॥

कृतं त्वया भाष्यमितीन्दुमौलेः सभाडणे सिद्धमुखान्निशम्य ।
हृदा प्रहॄष्टेन दिदृक्षया ते दृगध्वनीनः प्रशमिन्नभूवम् ॥३४॥

इत्थं मुनीन्द्रवचनश्रवणोत्थहर्ष रोमाश्चपूरमिषतो बहिरुत्पवन्तम् ।
बिभ्रत्तमभ्ररुचिमाख्यददभ्रशक्तिं श्रीशङ्करः शुकमताणवपूर्णचन्द्रः ॥३५॥

सुमन्तुपैलप्रथमा मुनीद्रा महानुभावा ननु यस्य शिष्याः ।
तृणाल्लघीयानपि तत्र कोऽहं तथाऽपि कारुण्यमदर्शि दीने ॥३६॥

सोऽहं समस्तार्थविवेचकस्य कृत्वा भवत्सूत्रसहस्ररश्मेः ।
भाष्यप्रदीपेन महर्षिमान्य नीराजनं धृष्टतया न लज्जे ॥३७॥

अकारि यत्साहसमात्मबुद्धया भवत्प्रशिष्यव्यपदेशभाजा ।
विचार्य तत्सूक्तिदुरुक्तिजालमर्हः समीकर्तुमिदं कृपालु ः ॥३८॥

इत्थं निगद्योपरतस्य हस्ताद्धस्तद्वयेनाऽऽदरतः स भाष्यम् ।
आदाय सर्वत्र निरैक्षतासौ प्रसादगाम्भीर्यगुणाभिरामम् ॥३९॥

सूत्रानुकारिमृदुवाक्यनिवेदितार्थ स्वीयैः पदैः सह निराकृत्तपूर्वपक्षम् ।
सिद्धान्तयुक्तिविनिवेशिततत्स्वरुपं दृष्ट्राऽभिनन्द्य परितोषवशादवो चत् ॥४०॥

न साहसं तात भवानकार्षीद्यत्सूत्रभाष्यं गुरुणा विनीतः ।
विचार्यतां सूत्रदुरुक्तमत्रेत्येतन्महत्साहसमित्यवैमिं ॥४१॥

मीमांसकानामपि मुख्यभूतो वेत्थाखिलव्याकरणानि विद्वन् ।
विनिः सरेत्ते द्वनाद्यतीन्दो गोविन्दशिष्यस्य कथं दुरुक्तम् ॥

बह्वर्थगर्भाणि लघूनि यानि निगूढभावानि च मत्कृतानि ।
त्वामेवमित्थं विरहय्य नास्ति यस्तानि सम्यग्विवरीतुमीष्टे ॥४४॥

निसर्गदुर्ज्ञानतमानि को वा सूत्राण्यलं वेदितुमर्थतः सन् ।
क्लेशस्तु तावान् विवरीतुरेषां यावान् प्रणेतुर्विबुधा वदन्ति ॥४५॥

भावं मदीयमवबुध्य यथावदेवं
भाष्यं प्रणेतुमनलं भगवानपीशः ।
साङ्ख्यादिनाऽन्यथयितं श्रुतिमूर्धवर्त्मो -
द्धर्तु कथं परशिवांशमृते प्रभुः स्यात् ॥४६॥

रोषानुषडकलयाऽपि सुदूरमुक्तो
धत्सेऽधिमानसमहो सकलाः कलाश्च ।
सर्वात्मना गिरिजयोपहिरतस्वरुपः
शक्यो न वर्णयितुमद्भुतशकरस्तवम् ॥४७॥
मूलम्
रोषानुषडकलयाऽपि सुदूरमुक्तो
धत्सेऽधिमानसमहो सकलाः कलाश्च ।
सर्वात्मना गिरिजयोपहिरतस्वरुपः
शक्यो न वर्णयितुमद्भुतशकरस्तवम् ॥४७॥
विश्वास-प्रस्तुतिः
व्याख्याप्यसङ्ख्यैः कविभिः पुरैतद्वयाख्यास्यते कैश्चिदितः परं च ।
भवानिवास्मद्धृदयं किमेते सर्वज्ञ विज्ञातुमलं निगूढम् ॥४८॥

व्याखाहि भूयो निगमान्तविद्यां विभेदवादान् विदुषो विजित्य ।
ग्रन्थान् भुवि ख्यापय सानुबन्धानहं गमिष्यामि यथाभिलाषम् ॥४९॥

इत्युक्तवन्तं तमसाववोचत् कृतानि भाष्याण्यपि पाठितानि ।
ध्वस्तानि सम्यक्कुमतानि धैर्यादितः परं किं करणीयमस्ति ॥५०॥

मुहूर्तमात्रं मणिकर्णिकायां विधेहि सद्वत्सल सन्निधानम् ।
चिराद्यतेऽहं परमायुषोऽन्ते त्यजामि यावद्वपुरद्य हेयम् ॥५१॥

इतीदमाकर्ण्य वचो विचिन्त्य स शकरं प्राह कुरुष्व मैवम् ।
अनिर्जिताः सन्ति वसुन्धरायां त्वया बुधाः केचिदुदारविद्याः ॥५२॥

जयाय तेषां कति हायनानि वस्तव्यमेव स्थिरधीस्त्वयाऽपि ।
नो चेन्मुमुक्षा भुवि दुर्लभा स्यात् स्थितिर्यथा मातृधुतस्य बाल्ये ॥५३॥

प्रसन्नगम्भीरभवत्प्रणीतप्रबन्धसन्दर्भभवः प्रहर्षः ।
प्रोत्साहत्यात्मविदामृषीणां वरेण्य विश्राणयितुं वरं ते ॥५४॥

अष्टौ वयांसि विधिना तव वत्स दत्ता -
न्यन्यानि चाष्ट भवता सुधियाऽऽर्जितानि ।
भूयोऽपि षोडश भवन्तु भवाज्ञया ते
भूयाच्च भाष्यमिदमारविचन्द्रतारम् ॥५५॥
मूलम्
अष्टौ वयांसि विधिना तव वत्स दत्ता -
न्यन्यानि चाष्ट भवता सुधियाऽऽर्जितानि ।
भूयोऽपि षोडश भवन्तु भवाज्ञया ते
भूयाच्च भाष्यमिदमारविचन्द्रतारम् ॥५५॥
विश्वास-प्रस्तुतिः
त्वमायुषाऽनेन विरोधिवादिगर्वाकुरोन्मूलनजागरुकैः ।
वाक्यैः कुरुष्वोज्झितभेदबुद्धीनद्वैअविद्यापरिपन्थिनोऽन्यान् ॥५६॥

इतीरयन्तं प्रति वाचमूचे स शकरः पावितसर्वलोकः ।
त्वत्सूत्रम्बन्धवशान्मदीयं भाष्यं प्रचारं भुवि यातु विद्वन् ॥५७॥

इतीरयित्वा चरणौ ववन्दे यतिर्मुनेः सर्वविदो महात्मा ।
प्रदाय सम्भाव्य वरं मुनीशो द्वैपायनः सोऽन्तरधाद्यतात्मा ॥५८॥

इत्थं निगद्य ऋषिवृष्णि तिरोहितेऽस्मिन्नन्तर्विवेकनिधिरप्यथ विव्यथे सः ।
हॄत्तापहारिनिरुपाधिकृपारसानां तत्तादृशां कथमहो विरहो विषह्यः ॥५९॥

तत्पादपद्मे निजचित्तपद्मे पश्यन् कथञ्चिद्विरहं विषह्य ।
यतिक्षितीशोऽपि गुरोर्नियोगान्मनो दधे दिग्विजये मनीषी ॥६०॥

भाष्यस्य वार्तिकमथैष कुमारिलेन भट्टेन कारयितुमादरवान् मुनीन्द्रः ।
वन्ध्यायमानदरविन्धयमहीधरेण वाचंयमेन चरितां हरितं प्रतस्थे ॥६१॥

ततः स वेदान्तरहस्यवेत्ता भेत्ताऽमतानां तरसा मतानाम् ।
प्रयागमागात्प्रथमं जिगीषुः कुमारिलं साधितकर्मजालम् ॥६२॥

आमज्जतां किल तनूमसितां सितां च कर्तुं कलिन्दसुतया कलितानुषडाम् ।
अह्राय जह्रुतनयामत निह्रुताघां मध्येप्रयागमगमन्मुनिरर्थमार्गम् ॥६३॥

गडाप्रवाहैरुपरुद्धवेगा कलिन्दकन्या स्तिमितप्रवाहा ।
अपूर्वसख्यागतलज्जयेव यत्राधिकं भाति विचित्रपाथाः ॥६४॥

अन्तेवसद्भिरमलच्छविसम्मदायमध्येतुमाश्रितजलां कुहचिन्मरलैः
चक्रद्वयेन रजनीसहवाससौख्यसंशीलनाय किल संवलितां परत्र ॥६५॥

यत्राप्लुता दिव्यशरीरभाज आचन्द्रतारं दिवि भोगजातम् ।
सम्भुज्जते व्याधिकथानभिज्ञाः प्राहेममर्थ श्रुतिरेव साक्षात् ॥६६॥

अज्ञातसम्भवतिरोधिकथाऽपि वाणी यस्याः मितासिततयैव गृणाति रुपम् ।
भागीरथीं यमुनया परिचर्यमाणामेतां विगाह्य मुदितो मुनिरित्यभाणीत् ॥६७॥

सिद्धापगे पुरविरोधिजटोपरोधक्रुद्धा कुतः शतमदः सदृशान् विधत्से ।
बद्धा न किं नु भवितासि जटाभिरेषामद्धा जडापकृतयो न विदन्ति भावि ॥६८॥

सन्मार्गवर्तनपराऽपि सुरापगे त्वमस्थीनि नित्यमशुचीनि किमाददासि ।
आ ज्ञातमम्ब हृदयं तव सज्जनानां प्रायः प्रसाधनकृते कृतमज्जनानाम् ॥६९॥

स्वापानुषडाजडताभरिताज्जनौघान् स्वापानुषड्जडाताविधुरान्विधत्से ।
दूरीभवद्विषयरागहृदोऽपि तूर्णं धूर्तावतंसंयसि देवि क एष मार्गः ॥७०॥

इति स्तुवंस्तापसराट् त्रिवेणीं शाटया समाच्छाद्य कटीं कृपीटे ।
दोर्दण्डायुग्मोद्धृतवेणुदण्डोऽघमर्षणस्रानमना बभूव ॥७१॥

सस्रौ प्रयागे सह शिष्यसङ्घैः स्वयं कृतार्थो जनसङ्ग्रहार्थी ।
अस्मारि माताऽपि च सा पुपोष दधार या दुःखमसोढ भूरि ॥७२॥

अनुष्ठितिं द्रागवसाय्य वातैः कल्हारशीतैरुपसेव्यमानः ।
तीरे विशश्राम तमालमालिन्यत्नान्तरेऽश्रूयत लोकवार्ता ॥७३॥

गिरेरवप्लुत्य गतिः सतां यः प्रामाण्यमाम्रायगिरामवादीत् ।
यस्य प्रसादात्तिदिवौकसोऽपि प्रपेदिरे प्राक्तनयज्ञभागान् ॥७४॥

सोऽयं गुरोरुन्मथनप्रसक्तं महत्तरं दोषमपाकरिष्णुः ।
अशेषवेदार्थविदास्तिकत्वात्तुषानलं प्राविशदेष धीरः ॥७५॥

अयं ह्यधीताखिलवेदमन्त्रः कूलेकषालोडितमर्वतन्त्रः ।
नितान्तदूरीकृतदुष्टतन्त्रस्त्रैलोक्यविभ्रामितकीर्तियन्त्नः ॥७६॥

श्रुत्वेति तां सत्वरम् एष गच्छन्
व्यालोकयत् तं तुष-राशि-संस्थम् ।
प्रभाकराद्यैः प्रथित-प्रभावैः
उपस्थितं साश्रु-मुखैर् विनेयैः ॥७७॥
मूलम्
श्रुत्वेति तां सत्वरमेष गच्छन् व्यालोकयत्तं तुषराशिसंस्थाम् ।
प्रभाकराद्यैः प्रथितप्रभावैरुपस्थितं साश्रुमुखैर्विनेयैः ॥७७॥
विश्वास-प्रस्तुतिः
धूमायमानेन तुषानलेन
सन्दह्यमाने ऽपि वपुष्य् अशेषे ।
सन्दृश्यमानेन मुखेन बाष्प-
परीत-पद्म-श्रियम् आदधानम् ॥७८॥+++(5)+++
मूलम्
धूमायमानेन तुषानलेन सन्दह्यमानेऽपि वपुष्यशेषे ।
सन्दृश्यमानेन मुखेन वाष्पपरीतपद्मश्रियमादधानम् ॥७८॥
विश्वास-प्रस्तुतिः
दूरे विधूताघम् अपाङ्गभङ्ग्या
तं देशिकं दृष्टिपथावतीर्णम् ।
ददर्श भट्टो ज्वलद्-अग्निकल्पो
जुगोप यो वेद-पथं जितारिः ॥७९॥
मूलम्
दूरे विधूताघमपाङ्गभङ्ग्या तं देशिकं दृष्टिपथावतीर्णम् ।
ददर्श भट्टो ज्वलदग्निकल्पो जुगोप यो वेदपथं जितारिः ॥७९॥
विश्वास-प्रस्तुतिः
अदृष्टपूर्व श्रुतपूर्ववृत्तं दृष्ट्राऽतिमोदं स जगाम भट्टः ।
अचीकरच्छिष्यगणैः सपर्यामुपाददे तामपि देशिकेन्द्रः ॥८०॥

उपात्तभिक्षः परितुष्टचित्तः प्रदर्शयामास स भाष्यमस्मै ।
सर्वो निबन्धो ह्यमलोऽपि लोके शिष्टेक्षितः सञ्चरणं प्रयाति ॥८१॥

दृष्ट्रा भाष्यं हृष्टचेताः कुमारः प्रोचे वाचं शकरं देशिकेन्द्रम् ।
लाके त्वल्पो मत्सरग्रामशाली सर्वज्ञानो नाल्पभावस्य पात्रम् ॥८२॥

अष्टौ सह्स्राणि विभान्ति विद्वन् सद्वार्तिकानां प्रथमेऽत्र भाष्ये ।
अहं यदि स्यामगृहीतदीक्षो ध्रुवं विधास्ये सुनिबन्धमस्य ॥८३॥

भवादृशां दर्शनमेव लोके विशेषतोऽस्मिन् सपये दुरापम् ।
पुराऽऽर्जितैः पुण्यचयैः कथञ्चित्त्वमद्य मे दृष्टिपथं गतोऽभूः ॥८४॥

असारसंसारपयोब्धिमध्ये निमज्जतां सद्भिरुदारवृत्तैः ।
भवादृशैः सङ्गतिरेव साध्या नान्यस्तदुत्तारविधावुपायः ॥८५॥

चिरं दिदृक्षे भगवन्तमित्थं त्वमद्य मे दृष्टिपथं गतोऽभूः ।
नह्यत्र संसारपथे नराणां स्वेच्छाविधेयोऽभिमतेन योगः ॥८६॥

युनक्ति कालः कचिदिष्टवस्तुना कचित्त्वरिष्टेन च नीचवस्तुना ।
तथैव संयोज्य वियोजयत्यसौ सुखासुखे कालकृते प्रवेद्ययत् ः ॥८७॥

कृतो निबन्धो निरणायि पन्था निरासि नैयायिकयुक्तिजालम् ।
तथाऽन्वभूवं विषयोत्थजातं न कालमेनं परिहर्तुमीशे ॥८८॥

निरास्थमीशं श्रुतिलोकसिद्धं श्रुतेः स्वतोमात्वमुदाहरिष्यन् ।
न निह्रुवे येन विना प्रपञ्चः सौख्याय कल्पेत न जातु विद्वन् ॥८९॥

तथागताक्रान्तम् अभूद् अशेषं
स वैदिकोऽध्वा विरली बभूव ।
परीक्ष्य तेषां विजयाय मार्गं
प्रावर्तिषि त्रातुमनाः पुराणम् ॥९०॥
मूलम्
तथागताक्रान्तमभूदशेषं स वैदिकोऽध्वा विरलीबभूव ।
परीक्ष्य तेषां विजयाय मार्गं प्रावर्तिषि त्रातुमनाः पुराणम् ॥९०॥
विश्वास-प्रस्तुतिः
सशिष्यसङ्गाः प्रविशन्ति राज्ञां
गेहं तदादि स्ववशे विधातुम् ।
राजा मदीयोऽजिर् अमस्मदीयं
तद् आद्रियध्वं न तु वेदमार्गाम् ॥९१॥
मूलम्
सशिष्यसङ्गाः प्रविशन्ति राज्ञां गेहं तदादि स्ववशे विधातुम् ।
राजा मदीयोऽजिरमस्मदीयं तदाद्रियध्वं न तु वेदमार्गाम् ॥९१॥
विश्वास-प्रस्तुतिः
वेदोऽप्रमाणं बहुमान-बाधात्
परस्पर-व्याहत-वाचकत्वात् ।
एवं वदन्तो विचरन्ति लोके
न काचिद् एषां प्रतिपत्तिरासीत् ॥९२॥
मूलम्
वेदोऽप्रमाणं बहुमानबाधात् परस्परव्याहतवाचकत्वात् ।
एवं वदन्तो विचरन्ति लोके न काचिदेषां प्रतिपत्तिरासीत् ॥९२॥
विश्वास-प्रस्तुतिः
अवादिषं वेद-विघात-दक्षैस्
तन् नाशकं जेतुम् अबुध्यमानः ।
तदीय-सिद्धान्त-रहस्य-वार्धीन्
निषेध्य-बोधाद्धि निषेध्य-बाधः ॥९३॥
मूलम्
अवादिषं वेदविघातदक्षैस्तन्नाशकं जेतुमबुध्यमानः ।
तदीयसिद्धान्तरहस्यवार्धीन्निषेध्यबोधाद्धि निषेध्यबाधः ॥९३॥
विश्वास-प्रस्तुतिः
तदा तदीयं शरणं प्रपन्नः
सिद्धान्तम् अश्रौषम् अनुद्धतात्मा ।
अदूदुषद् वैदिकम् एव मार्गं
तथागतो जातु कुशाग्र-बुद्धिः ॥९४॥
मूलम्
तदा तदीयं शरणं प्रपन्नः सिद्धान्तमश्रौषमनुद्धतात्मा ।
अदूदुषद्वैदिकमेव मार्गं तथागतो जातु कुशाग्रबुद्धिः ॥९४॥
विश्वास-प्रस्तुतिः
तदाऽपतन् मे सहसाऽश्रुबिन्दुस्
न चाविदुः पार्श्वनिवासिनोऽन्ये ।
तदा प्रभृत्य् एव विवेश शङ्का
मय्य् आप्तभावं परिहृत्य तेषाम् ॥९५॥
मूलम्
तदाऽपतन्मे सहसाऽश्रुबिन्दुस्तचाविदुः पार्श्वनिवासिनोऽन्ये ।
तदाप्रभृत्येव विवेश शङ्का मय्याप्तभावं परिहृत्य तेषाम् ॥९५॥
विश्वास-प्रस्तुतिः
विपक्ष-पाठी बलवान् द्विजातिः
प्रत्याददद् दर्शनम् अस्मदीयम् ।
उच्चाटनीयः कथम् अप्य् उपायैर्
नैतादृशः स्थापयितुं हि योग्यः ॥९६॥
मूलम्
विपक्षपाठी बलवान् द्विजातिः प्रत्याददद्दर्शनमस्मदीयम् ।
उच्चाटनीयः कथमप्युपायैर्नैतादृशः स्थापयितुं हि योग्यः ॥९६॥
विश्वास-प्रस्तुतिः
सम्मन्त्र्य चेत्थं कृतनिश्चयास् ते
ये चापरे ऽहिंसन-वादशीलाः ।
न्यपातयन्न् उच्चतरात् प्रमत्तं
माम् अग्र-सौधाद् विनिपात-भीरुम् ॥९७॥
मूलम्
सम्मन्त्र्य चेत्थं कृतनिश्चयास्ते ये चापरेऽहिंसनवादशीलाः ।
न्यपातयन्नुचतरात् प्रमत्तं मामग्रसौधाद्विनिपातभीरुम् ॥९७॥
विश्वास-प्रस्तुतिः
पतन् पतन् सौधतलान्य् अरूरुवं
“यदि प्रमाणं श्रुतयो भवन्ति ।
जीवेयम् अस्मिन् पतितो ऽसमस्थले”
मज्-जीवने तच्-छ्रुतिमानता गतिः ॥९८॥+++(5)+++
मूलम्
पतन् पतन् सौधतलान्यरीरिवं यदि प्रमाणं श्रुतयो भवन्ति ।
जीवेयमस्मिन् पतितोऽसमस्थले मज्जीवने तच्छ्रुतिमानता गतिः ॥९८॥
विश्वास-प्रस्तुतिः
“यदी"ति सन्देह-पदप्रयोगाद्
व्याजेन शास्त्रश्रवणाच्च हेतोः।
ममोच्चदेशात् पततो व्यनङ्क्षीत्
तद् एक-चक्षुर् - विधिकल्पना सा ॥९९॥+++(5)+++
मूलम्
यदीह सन्देहपदप्रयोगाद्वयाजेन शास्त्रश्रवणाच्च हेतोः।
ममोच्चदेशात्पततो व्यनङ्क्षीत्तदेकचक्षुर्विधिकल्पना सा ॥९९॥
विश्वास-प्रस्तुतिः
एकाक्षरस्यापि गुरुः प्रदाता
शास्त्रोपदेष्टा किमु भाषणीयम् ।
अहं हि सर्वज्ञ-गुरोर् अधीत्य
प्रत्यादिशं तेन गुरोर् महागः ॥१००॥
मूलम्
एकाक्षरस्यापि गुरुः प्रदाता शास्त्रोपदेष्टा किमु भाषणीयम् ।
अहं हि सर्वज्ञगुरोरधीत्य प्रत्यादिशं तेन गुरोर्महागः ॥१००॥
विश्वास-प्रस्तुतिः
तदेवमित्थं सुगतादधीत्य प्राघातयं तत्कुलमेव पूर्वम् ।
जैमिन्युपज्ञेऽभिनिविष्टचेताः शास्त्रे निरास्थं परमेश्वरं च ॥१०१॥

दोषद्वयस्यास्य चिकीर्षुरर्हन यथोदितां निष्कृतिमाश्रयाशम् ।
प्राविक्षमेषा पुरुक्तभूता जाता भवत्पादनिरीक्षणेन ॥१०२॥

भाष्यं प्रणीतं भवतेति योगिन्नाकर्ण्य तत्रापि विधाय वृत्तिम् ।
यशोऽधिगच्छेयमिति स्म वाञ्च्छा स्थिता पुरा सम्प्रति किं तदुक्त्या ॥१०३॥

जाने भवन्तमहमार्यजनार्थजातमद्वैतरक्षणकृते विहितावतारम् ।
प्रागेव चेन्नयनवर्त्म कृतार्थयेथाः पापक्षयाय न तदेदृशमाचरिष्यम् ॥१०४॥

प्रायोऽधुना तदुभयप्रभवाघशान्त्यै
प्राविक्षमार्य तुषपावकमात्तदीक्षः ।
भाग्यं न मेऽजनि हि शाबरभाष्यवत्त्व -
द्भाष्येऽपि किञ्चन विलिख्य यशोऽधिगन्तुम् ॥१०५॥

इत्यूचिवांसमथ भट्टकुमारिलं तमीषद्विकस्वरमुखाम्बुजमाह मौनी ।
श्रुत्यर्थकर्मविमुखान् सुगतान्निहन्तुं जातं गुहं भुवि भवन्तमहन्तु जाने ॥१०६॥

सम्भावनाऽपि भवतो न हि पातकस्य सत्यं व्रतं चरसि सज्जनशिक्षणाय ।
उज्जीवयामि करकाम्बुकणोक्षणेन भाष्येऽपि मे रचय वार्तिकमडभव्यम् ॥१०७॥

इत्यूचिवांसं विबुधावतंसं स धर्मविब्रह्मविदां वरेण्यम् ।
विद्याधनः शान्तिधनाग्रगण्यं समश्रयं वाच्मुवाच भूयः ॥१०८॥

नार्हामि शुद्धमपि लोकविरुद्धकृत्यं कर्तु मयीडय महितोक्तिरियं तवार्हा ।
आजानतोऽतिकुटिलेऽपि जने महान्तस्त्वारोपयन्ति हि गुणं धनुषीव शूराः ॥१०९॥

सञ्जीवनाय चिरकालमृतस्य च त्वं शक्तोऽसि शकर दयोर्मिलदृष्टिपातैः ।
आरब्धमेतदधुना व्रतमागमोक्तं मुश्चन् सतां न भविताऽस्मि बुधाविनिन्द्यः ॥११०॥

जाने तवाहं भगवन् प्रभावं
संहृत्य भूतानि पुनर्यथावत् ।
सष्टुं समर्थोऽसि तथाविधो माम्
उज्जीवयेश् चेद् इह किं विचित्रम् ॥१११॥
मूलम्
जाने तवाहं भगवन् प्रभावं संहृत्य भूतानि पुनर्यथावत् ।
सष्टुं समर्थोऽसि तथाविधो मामुज्जीवयेश्चेदिह किं विचित्रम् ॥१११॥
विश्वास-प्रस्तुतिः
नाभ्युत्सहे किन्तु यतिक्षितीन्द्र
दकल्पितं हातुमिदं व्रताग्र्यम् ।
तत्तारकं देशिकवर्य मह्यमादिश्य तब्रह्म कृतार्थयेथाः ॥११२॥
मूलम्
नाभ्युत्सहे किन्तु यतिक्षितीन्द्र दकल्पितं हातुमिदं व्रताग्र्यम् ।
तत्तारकं देशिकवर्य मह्यमादिश्य तब्रह्म कृतार्थयेथाः ॥११२॥
विश्वास-प्रस्तुतिः
अयं च पन्था यदि ते प्रकाश्यः
सुधीश्वरो मण्डन-मिश्र-शर्मा ।
दिगन्त-विश्रान्त-यशा विजेयो
यस्मिञ्जिते सर्वम् इदं जितं स्यात् ॥११३॥
मूलम्
अयं च पन्था यदि ते प्रकाश्यः सुधीश्वरो मण्डनमिश्रशर्मा ।
दिगन्तविश्रान्तयशा विजेयो यस्मिञ्जिते सर्वमिदं जितं स्यात् ॥११३॥
विश्वास-प्रस्तुतिः
सदा वदन् योगपदं च साम्प्रतं
स विश्वरूपः प्रथितो महीतले ।
(सर्वासु शास्त्रसरणीषु स विश्वरूपो
मत्तोऽधिकः प्रियतमश्च ममाश्रवेषु ।)
महागृही वैदिक-कर्म-तत्परः
प्रवृत्तिशास्त्रे निरतः सुकर्मठः ॥११४॥
मूलम्
सदा वदन् योगपदं च साम्प्रतं स विश्वरूपः प्रथितो महीतले ।
महागृही वैदिककर्मतत्परः प्रवृत्तिशास्त्रे निरतः सुकर्मठः ॥११४॥
विश्वास-प्रस्तुतिः
निवृत्तिशास्त्रे नकृतादरः स्वयं केनाप्युपायेन वशं स नीयताम् ।
वशं गते तत्र भवेन्मनोरथस्तदन्तिकं गच्छतु मा चिरं भवान् ॥११५॥

उंवेक इत्यभिहितस्य हि तस्य लोकैरुवेति बान्धवजनैरभिधीयमाना ।
हेतोः कुतश्चिदिह वाक्सुरुषाऽभिशप्ता दुर्वाससाऽजनि वधूर्दूयभारतीति ॥११६॥

सर्वासु शास्त्रसरणीषु स विश्वरुपो मत्तोऽधिक ः प्रियतमश्च मदाश्रवेषु ।
तत्प्रेयसीं शमधनेन्द्र विधाय साक्ष्ये वादे विजित्य तमिमं वशगं विधेहि ॥११७॥

तेनैव तावककृतिष्वपि वार्तिकानि कर्मन्दिवर्यतम कारय मा विलम्बम् ।
त्वं विश्वनाथ इव मे समये समागास्तत्तारकं समुपदिश्य कृतार्थयेथः॥११८॥

निर्व्याजकारुण्य मुहूर्तमात्रमत्र त्वया भाव्यमहं तु यावत् ।
योगीन्द्रहृत्पकजभाग्यमेतत् ज्यजाम्यसून् रुपमवेक्षमाणः ॥११९॥

इत्यूचिवांसमिममिद्धसुखप्रकाशं ब्रह्मोपदिश्य बहिरन्तरपास्तमोहम् ।
तन्वन्दयानिधिरसौ तरसाऽभ्रमार्गाच्छ्रीमण्डनस्य निलयं स इयेष गन्तुम् ॥१२०॥

अथ गिरमुपसंहृत्यादराद्भट्टपादः शमधनपतिनासौ बोधिताद्वैततत्वः ।
प्रशमितममतः संस्तत्प्रसादेन सद्यो विदलदखिलबन्धो वैष्णवं धाम पेदे ॥१२१॥

इति श्रीमाधवीये तद्वयाससन्दर्शचित्रगः ।
सङ्क्षेपशकरजये सर्गोऽसौ सप्तमोऽभवत् ॥७॥
मूलम्
इति श्रीमाधवीये तद्वयाससन्दर्शचित्रगः ।
सङ्क्षेपशकरजये सर्गोऽसौ सप्तमोऽभवत् ॥७॥
आदितः श्लोकाः ७८४