०६

अथागमहाह्मणसूनुरादरादधीतवेदो दलयन् स्वभासा ।
तेजांसि कश्चित्सरसीरुहाक्षो दिदृक्षमाणः किल देशिकेन्द्रम् ॥१॥
आगत्य देशिकपदाम्बुजयोरपप्तत् संसारवारिधिमनुत्तरमुत्तितीर्षुः ।
वैराग्यवानकृतदारपरिग्रहश्च कारुण्यनावमधिरुह्य दृढां दुरापाम् ॥२॥
उत्थाप्य तं गुरुरुवाच गुरुर्द्विजानां
कस्त्वं क धाम कुत आगत आत्तधैर्यः ।
बालोऽप्यबालधिषणः प्रतिभासि मे त्व -
मेकोऽप्यनेक इव नैकशरीरभावः ॥३॥
पृष्टो बभाण गुरुमुत्तरमुत्तरज्ञो
विप्रो गुरो मम गृहं बुध चोलदेशे ।
यत्रापगा वहति तत्र कवेरकन्या
यस्याः पयो हरिपदाम्बुजभक्तिमूलम् ॥४॥
अटाटयमानो महतो दिदृक्षुः क्रमादिमं देशमुपागतोऽस्मि ।
बिभेमि मज्जन् भववारिराशौ तत्पारगं मां कृपया विधेहि ॥५॥
अपाडैरुत्तुडैरमृतझरभङ्गैः परगुरो
शुचा दूनं दीनं कलय दयया मामविमृशन ।
गुणं वा दोषं वा मम किमपि सञ्चिन्तयसि चेत्
तदा कैव श्लाघा निरखधिक्रुपानीरधिरिति ॥६॥
स्यात्ते दीनदयालुताकृताकृयशोराशिस्त्रिलोकीगुरो
तूर्ण चेद्दयसे ममाद्य न तथा कारुण्यतः श्रीमति ।
वर्षन् भूरि मरुस्थलीषु जलभृत्सद्भिर्यथा पूज्यते
नैवं वर्षशतं पयोनिधिजले वर्षन्नपि स्तूयते ॥७॥
त्वत्सारस्वतसारसारससुधाकूपारसत्सारस -
स्रोतः सम्भृतसन्ततोज्ज्वलक्रीडा मतिर्मे मुने ।
चश्चत्पश्चशरादिवश्चनहतं न्यश्चं प्रपञ्चं हित -
ज्ञानाकिश्चनमा विरिश्चमखिलं चालोचयन्त्यश्चतु ॥८॥
सौरं धाम सुधामरीचिनगरं पौरन्दरं मन्दिरं
कोम्बेरं शिबिरं हुताशनपुरं सामीरसद्मोत्तरम् ।
वैधं चाऽऽवसथं त्वदीयफणितिश्रद्धासमिद्धात्मनः
शुद्धद्वैतविदो न दोग्धि कुतुकं विरतिश्रीघातुकं कौतुकम् ॥९॥
न भौमा रामाद्याः सुषमविषवल्लीफलसमाः
समारम्भन्ते नः किमपि कुतुकं जातु विषयाः ।
न गण्यं न ः पुण्यं रुचिरतरम्भाकुचतटी -
परीरम्भारम्भोज्ज्वलमपि च पौरन्दरपदम् ॥१०॥
न चश्चद्वैरिश्चं पदमपि भवेदादरपदं
वचो भव्यं नव्यं यदकृत कृती शकरगुरुः ।
चकोरालीचश्चूपुटदलितपूर्णेन्दुविगल -
त्सुधाधाराकारं तदिह वयमीहेमहि मुहुः ॥११॥
द्यावाभूमिशिवङ्करैर्नवयशः प्रस्तावसौवस्तिकैः
पूर्वारवर्वतपः पचोलिमफलैः सर्वाधिमुष्टिन्धयैः ।
दीनाढ्यकरणैर्भवाय नितरां वैरायमाणैरलं
कर्मीणं मसितं त्वदीयभजनैः स्यान्मामकीनं मनः ॥१२॥
संसारबन्धामयदुःखशान्त्यै स एव नस्त्वं भगवानुपास्यः ।
भिषक्तमं त्वां भिषजां श्रृणॊमीत्युक्तस्य योऽभूदुदितावतारः ॥१३॥
इत्युक्तवन्तं कृपया महात्मा व्यदीपयत्सेन्यसनं यथावत् ।
प्राहुर्महान्तः प्रथमं विनेयं तं देशिकेन्द्रस्य सनन्दनाख्यम् ॥१४॥
संसारघोरजलधेस्तरणाय शश्वत्सायात्रिकीभवनमर्दयमानमेनम् ।
हन्तोत्तमाश्रमतरीमधिरोप्य पारं निन्ये निपातितकृपारसकेनिपातः ॥१५॥
येऽप्यन्येऽमुं सेवितुं देशतांशा यातास्तेऽपि प्राय एवं विरक्ताः ।
क्षेत्रे तस्मिन्नेव शिष्यत्वमस्य प्रापुः स्पष्टं लोकरीत्याऽपि गन्तुम् ॥१६॥
व्याख्या मौनमनुत्तराः परिदलच्छकाकलकाकुरा
श्छात्रा विश्वपवित्रचित्रचारितास्ते वामदेवादयः ।
तस्यैतस्य विनीतलोकततिमुपगता धन्याः किलान्यादृशाः ॥१७॥
शेषः साधुभिरेव तोषयति नृञ्छब्दैः पुमर्थार्थिनो
वाल्मीकिः कविराज एष वितथैरर्थैमुहुः कल्पितैः इ।
व्याचष्टे किल दीर्घसूत्रसरणिर्वाचं चिरादर्थदां
व्यासः शकरदेशिकस्तु कुरुते सद्यः कृतार्थानहो ॥१८॥
चक्रितुल्यमहिमानमुपासाञ्चक्रिरे तमविमुक्तनिवासाः ।
वक्रसृत्यनुसृतामपि साध्वीं चक्रुरात्मघिषणां तदुपास्त्या ॥१९॥
चण्डभानुरिव भानुमण्डलैः पारिजात इव पुष्पजाततः ।
वृत्रशत्रुरिव नेत्रवारिजैश्छात्रपडिभिरलं ललास सः ॥२०॥
एकदा खलु विजत्त्रिपुरद्विडभाललोचनहुताशनभानोः ।
विस्फुलिडपदवीं दधतीषु प्रज्ज्वलत्तपनकान्तिशिलासु ॥२१॥
दर्शयत्युरुपमरीचिसरस्वत्पूरसृज्यपरमायिनि भानौ ।
साधुनैकमणीकुट्टिममूर्च्छद्रश्मिजालकशिखावलपिच्छम् ॥२२॥
पकजावलिविलीनमराले पुष्करान्तरभिगत्वरमीने ।
शाखिकोटरश्यालुशकुन्ते शैलकन्दरशरण्यमयूरे ॥२३॥
शकरो दिवसमध्यमभागे पकजोत्पलपरागकषायाम् ।
जाह्रवीमभियैयौ सह शिष्यैराह्रिकं विधिवदेष विधित्सुः ॥२४॥
सोऽन्त्यजं पथि निरीक्ष्य चतुर्भिर्भीषणैः श्वभिरनुद्रुतमारात् ।
गच्छ दुरमिति तं निजगाद प्रत्युवाच च स शकरमेनम् ॥२५॥
अद्वितीयमनवद्यमसडं सत्यबोधसुखरुपमखण्डम् ।
आमनन्ति शतशो निगमान्तास्तत्र भेदकलना तव चित्रम् ॥२६॥
दण्डमण्डितकरा धृतकुण्डाः पाटलाभवसनाः पटुवाचः ।
ज्ञानगन्धरहिता गृहसंस्थान् वश्चयन्ति किल केचन वेषैः ॥२७॥
गच्छ दूरमिति देहमुताहो देहिनं परिजिहीर्षसि विद्वन् ।
भिद्यतेऽन्नमयतोऽन्नमयं कि साक्षिणश्च यतिपुङ्गव साक्षी ॥२८।
ब्राह्मणश्वपचभेदविचारः प्रत्यगात्मनि कथं तव युक्तः ।
विम्बितेऽम्बरमणौ सुरनद्यामन्तरं किमपि नास्ति सुरायाम् ॥२९॥
शुचिर्द्विजोऽहं श्वपच व्रजेति मिथ्याग्रहस्ते मुनिवर्य कोऽयम् ।
सन्तं शरीरेष्वशरीरमेकमुपेक्ष्य पूर्ण पुरुषं पुराणम् ॥३०॥
अचिन्त्यमव्यक्तमनन्तमाद्यं विस्मृत्य रुपं विमलं विमोहात् ।
कलेवरेऽस्मिन्करिकर्णलोलाकृतिन्यहन्ता कथमाविरास्ते ॥३१॥
विद्यामवाप्यापि विमुक्तिपद्यां जागर्ति तुच्छा जनसङ्ग्रहेच्छा ।
अहो महान्तोऽपि महेन्द्रजाले मज्जन्ति मायाविवरस्य तस्य ॥३२॥
इत्युदीर्य वचनं विरतेऽस्मिन् सत्यवाक्तदनु विप्रतिपन्नः
अत्युदारचरितोऽन्त्यजमेनं प्रत्युवाच स च विस्मितचेताः ॥३३॥
सत्यमेव भवता यदिदानीं प्रत्यवादि तनुभृत्प्रवरैतत् ।
अन्त्यजोऽयमिति सम्पति बुद्धिं सन्त्यजामि वचसाऽऽत्मविदस्ते ॥३४॥
जानते श्रुतिशिरांस्यपि सर्वे मन्वते च विजितेन्द्रियवर्गाः ।
युज्जते हृदयमात्मनि नित्यं कुर्वते न धिषणामपभेदाम् ॥३५॥
भाति यस्य तु जगद् दृढबुद्धेः सर्वमप्यनिशमात्मतयैव ।
स द्विजोऽस्तु भवतु श्वपचो वा वन्दनीय इति मे दृढनिष्ठा ॥३६॥
या चितिः स्फुरति विष्णुमुखे सा पुत्तिकावधिषु सैव सदाऽहम् ।
नैव दृश्यमिति यस्य मनीषा पुल्कसो भवतु वा स गुरुर्मे ॥३७॥
यत्र यत्र च भवेदिह बोधस्तत्तदर्थसमवेक्षणकाले ।
बोधमात्नमवशिष्टमहं तद्यस्य धीरिति गुरुः स नरो मे ॥३८॥
भाषमाण इति तेन कलावानेष नैक्षत तमन्त्यजमग्रे ।
धूर्जटिं तु समुदैक्षत मौलिस्फूर्जदैन्दवकलं सह वेदैः ॥३९॥
भयेन भक्त्या विनयेन धृत्या युक्तः स हर्षेण च विस्मयेन ।
तुष्टाव शिष्टानुमतः स्तवैस्तं दृष्ट्रा दृशोर्गोचरमष्टमूर्तिम् ॥४०॥
दासस्तेऽहं देहदृष्टयाऽस्मि शम्भो जातस्तेऽंशो जीवदृष्टया त्रिदृष्टे ।
सर्वस्यात्मन्नात्मदृष्टया त्वमेवेत्येवं मे धीर्निश्चिता सर्वशास्त्रैः ॥४१॥
यदालोकादन्तर्बहिरपि च लोको वितिमिरो
न मज्जूषा यस्य त्रिजगति न शाणो न च खनिः ।
यतन्ते चैकान्तं रहसि यतयो यत्प्रणायिनः
नमस्तस्मै स्वस्मै निखिलनिगमोत्तंसमणये ॥४२॥
अहो शास्त्रं शास्त्रात्किमिह यदि न श्रीगुरुकृपा
चिता सा किं कुर्यान्ननु यदि न बोधस्य विभवः ।
किमालम्बश्चासौ न यदि परतत्त्वं मम तथा
नमः स्वस्मै तस्मै यदवधिरिहाश्चर्यधिषणा ॥४३॥
इत्युदारवचनैर्भगवन्तं संस्तुवन्तमथ च प्रणमन्तम् ।
बाष्पपूर्णनयनं मुनिवर्य शकरः सबहुमानमुवाच ॥४४॥
अस्मदादिपदवीमभजस्त्वं शोधिता तव तपोधननिष्ठा ।
बादरायण इव त्वमपि स्याः सद्वरेण्य मदनुग्रहपात्रम् ॥४५॥
संविभज्य सकळश्रुतिजालं ब्रह्मसूत्रमकरोदनुशिष्टः ।
यत्न काणभुजसाङ्ख्यपुरोगाण्युद्धृतानि कुमतानि समूलस् ॥४६॥
तत्र मूढमतयः कलिदोषाद् द्वित्रवेदवचनोद्वलितानि ।
भाष्यकाण्यरचयन् बहुबुद्धैर्दूष्यतामुपगतानि च कैश्चित् ॥४७॥
तद्भवान्विदितवेदशिखार्थस्तानि दुर्ममितानि निरस्य ।
सूत्रभाष्यमधुना विदधातु श्रुत्युपोद्वलितयुक्त्यभियुक्तम् ॥४८॥
एतदेव विबुधैरपि सेन्द्रैरर्चनीयमनवद्यमुदारम् ।
तावकं कमलयोनिसभायामप्यवाप्स्यति वरां वरिवस्याम् ॥४९॥
भास्कराभिनवगुप्तपुरोगान्नीलकण्ठगुरुमण्डनमुख्यान् ।
पण्डितानथ विजित्य जगत्यां ख्यापयाद्वयमते परतत्वम् ॥५०॥
मोहसन्तमसवासरनाथांस्तत्र तत्र विनिवेश्य विनेयान् ।
पालनाय परतत्त्वसरण्या मामुपैष्यसि ततः कृतकृत्यः ॥५१॥
एवमेनमनुगृह्य कृपावानागमैः सह शिवोऽन्तरधत्त ।
विस्मितेन मनसा सह शिष्यैः शकरोऽपि सुरसिन्धुमयासीत् ॥५२॥
सन्निवर्त्य विधिमाह्रिकमीशं ध्यायतो गुरुमथाऽखिलभाष्यम् ।
कर्तुमुद्यतमभूद गुणसिन्धोर्मानसं निखिललोकहिताय ॥५३॥
कर्तृत्वशक्तिमधिगम्य व विश्व्नाथात् काशीपुरान्निरगमत्त्वविकासभाजः ।
प्रीतः सरोजमुकुलादिव चश्चरीकनिर्वन्धतः सुखमवाप यथा द्विजेन्द्रः ॥५४॥
अद्वैतदर्शनविदां भुवि सार्वभौमो यात्येष इत्युडुपबिम्बसितातपत्रम् ।
अस्ताचले वहति चारु पुरः प्रकाशव्याजेन चामरमथादिव दिक्सुकान्ता ॥५५॥
शान्तां दिशं देवनृणां विहाय नान्या दिगस्मै समरोचताद्धा ।
तन्नत्यतीर्थानि निषेवमाणो गन्तुं मनोऽधाद्वदरीं क्रमात्सः ॥५६॥
तेनान्ववर्ति महता कचिदुष्णशालि शीतं कचित्कचिदृजु कचिदप्यरालम् ।
उत्कण्कटकं कचिदकण्टाकवत्कचिच्च तद्वर्त्म मूर्खजनचित्तमिवाव्यवस्थम् ॥५७॥
आत्मानमक्रियमपव्ययमीक्षितापि पान्थैः समं विचलितः पथि लोकरीत्या ।
आदत्फलानि मधुराण्यपिबत्पयांसि प्रायादुपाविशदशेत तथोदतिष्ठत् ॥५८॥
तेन व्यनीयत तदा पदवी दवीयस्यासादिता च बदरी वनपुण्यभूमिः ।
गौरीगुरुस्रवदमन्दझरीपरीता खेलत्सुरीयुतदरी परिभाति यस्याम् ॥५९॥
स द्वादशे वयसि तत्र समाधिनिष्ठैर्ब्रह्मर्षिभः श्रुतिशिरो बहुधा विचार्य ।
षड् मिश्च सप्तभिरथो नवभिश्च खिन्नैर्भव्यं गभीरमधुरं फणति स्म भाष्यम् ॥६०॥
करतलकलिताद्वयात्मतत्वं क्षपितदुरन्तचिरन्तनप्रमोहम् ।
उपचितमुदितोदितैर्गुणौघैरुपनिषदामयमुज्जहार भाष्यम् ॥६१॥
ततो महाभारतसारभूताः स व्याकरोद्भामवतीश्च गीताः ।
सनत्सुजातीयमसत्सुदुरं ततो नृसिंहस्य च तापनीयम् ॥६२॥
ग्रन्थानसङ्ख्यांस्तदनूपदेशसाहस्त्रिकादीन्व्यदधात्सुधीडयः ।
श्रुत्वाऽर्थविद्यानविवेकपाशान्मुक्ता विरक्ता यतयो भवन्ति ॥६३॥
श्रीशङ्कराचार्यरवावुदेत्य प्रकाशमाने कुमतिप्रणीताः ।
व्याख्यान्धकारा प्रलयं समीयुर्दुर्वादिचन्द्रपमयाऽवियुक्तात ॥६४॥
अथ व्रतीन्दुर्विधिवद्विनेयानध्यापयामास स नैजभाष्यम् ।
तर्कै परेषां तरुणैर्विवस्वन्मरीचिभिः सिन्धुबदप्रशोष्यम् ॥६५॥
निजशिष्यहृदब्जभास्वतो गुरुवर्यस्य सनन्दनादयः ।
शमपूर्वगुणैरशुश्रुवन्कतिचिच्छिष्यगणेषु मुख्यताम् ॥६६॥
स नितरामितराश्रवतो लसन्नियममद्भुतमाप्य सनन्दनः ।
श्रुतनिजश्रुतिकोऽप्यभवत्पुनः पिपठिषुर्गहनार्थविवित्सया ॥६७॥
अद्वन्द्वभक्तिममुमात्मपदारविन्दद्वद्वे नितान्तदयमानमना मुनीन्द्रः ।
आम्रायशेखररहस्यनिधानकोशमात्मीयकोशमखिलं त्रिरपाठयत्तम् ॥६८॥
ईर्ष्याभराकुलहृदामितराश्रवाणां प्रख्यापयन्ननुपमामदसीयभक्तिम् ।
अम्रापगापरतटस्थममुं कदाचिदाकारयन्निगमशेखरदेशिकेन्द्रः ॥६९॥
सन्तारिकाऽनवधिसंसृतिसागरस्य किं तारयेन्न सरितं गुरुपादभक्तिः ।
इत्यज्जसा प्रविशतः सलिलं द्युसिन्धुः पद्मान्युदश्चयति तस्य पदे पदे स्म ॥७०॥
पाथोरुहेषु विनिवेश्य पदं क्रमेण प्राप्तोपकण्ठममुमप्रतिमानभक्तिम् ।
आनन्दविस्मयनिरन्तनिरन्तरोऽसावाश्लिष्य पद्मपदनामपदं व्यतानीत् ॥७१॥
तं पाठयन्तमनवद्यतमात्मविद्यां ये तु स्थिताः सदसि तत्वविदां सगर्वाः ।
आचिक्षिपुः कुमतपाशुपताभिमानाः केचिद्विवेकविटपोग्रदवायमानाः॥७२॥
तद्विकल्पनमनल्पमनीषः श्रुत्युदाहरणतः स निरस्य ।
ईषदस्तमितगर्वभराणामागमानपि ममन्थ परेषाम् ॥७३॥
अद्वितीयनिरता सति भेदे मुक्तिरीशसमतैव कथं स्यात् ।
ध्यानजा किमिति सा न विनश्येद्भावकार्यमखिलं हि न नित्यम् ॥७४॥
किञ्च सङ्क्रमणमीशगुणाना मिष्यते पशुषु मोक्षदशायाम् ।
तन्न साध्यवयवैर्विधुराणां सङ्क्रमो न घटते हि गुणानाम् ॥७५॥
पद्मगन्ध इव गन्धवहेऽस्मिन्नात्मनीश्वरगुणोऽस्त्विति चेन्न ।
तत्र गन्धसमवायि नभस्वत्संयुतं दिशति गन्धधियं यत् ॥७६॥
किञ्चैकदेशेन समाश्रयन्ते कार्त्स्न्येन वा शम्भुगुणा विमुक्तान् ।
पूर्वे तु पूर्वोदितदोषसडस्त्वन्तेऽज्ञतादिः परमेश्वरे स्यात् ॥७७॥
इत्थं तर्कैः कुलिशकठिनैः पण्डितं मन्यमाना
भिद्यत्स्वार्थाः स्मयभरमदं तत्यजुस्तान्त्रिकास्ते ।
पक्षाघातैरिव रयभरैस्ताडयमानाः फणासु
क्ष्वेडज्वालां खगकुलपतेः पन्नगाः साभिमानाः ॥७८॥
व्याख्याजम्भितपाटवात्फणिपतेर्मन्दाक्षमुद्दीपयन् ।
सङ्ख्यालघितशिष्यहृद्वनरुहेष्वादित्यतामुद्वहन् ।
उद्वेलस्वयशः सुमैः स भगवत्पादो जगद्भूषयन्
कुर्वन्वादिमृगेषु निर्भरमभाच्छार्दूलविक्रीडितम् ॥७९॥
वेदान्तकान्तारकृतप्रचारः सुतीक्ष्णसद्युक्तिनखाग्रदंष्ट्रः ।
भयकरो वादिमतङ्गजानां महर्षिकण्ठीरव उल्ललास ॥८०॥
अमानुषं तस्य यतीश्वरस्य विलोक्य बालस्य सतः प्रभावम् ।
अत्यन्तमाश्चर्ययुतान्तरडाः काशोपुरस्था जगदुस्तदेत्थम् ॥८१॥
अस्मान्मुहुर्द्योतितसर्वतन्त्रात्पराभवं पण्डितपुण्डरीकाः ।
प्रपेदिरे भास्करगुप्तमिश्रमुरारिविद्येन्द्रगुरुप्रधानाः ॥८२॥
अस्यात्मनिष्ठातिशयेन तुष्टः प्रादुर्भवन् कामरिपुः पुरस्तात् ।
चोदयामास किल प्रणेतुं वेदान्तशारीरकसूत्रभाष्यम् ॥८३॥
कुदृष्टितिमिरस्फुरत्कुमतपकमग्रां पुरा
पराशरभुवा चिराद् बुधमुदे बुधेनोद्धृताम् ।
अहो बत जरद्रवीमनघभाष्यसूक्तामृतै-
रपकयति शकरः प्रणतशकरः सादरम् ॥८४॥
त्नैलोक्यं ससुखं क्रियाफलपयो भुडेः ययाऽविष्कृतं
यस्या वृद्धतरे महीसुरगृहे वासः प्रवृद्धाध्वरे ।
तां पकप्रसृते कुतर्ककुहरे घोरैः खरैः पातितां
निष्पकामकरोत्स भाष्यजलधेः प्रक्षाल्य सूक्तामृतैः ॥८५॥
मिथ्या वक्तीति कैश्चित्पुरुषमुपनिषद्दूरमुत्सारिताऽभू -
दन्यैरस्मिन्नियोज्यं परिचरितुमसावर्हतीति प्रणुन्ना ।
अर्थामासं दधानैर्मृदुभिरिव परैर्वश्चिता चोरितार्थै -
र्विन्दत्यानन्दमेषा सुचिरमशरणा शकरार्य प्रपन्ना ॥८६॥
हन्तुं बौद्धोऽन्वधावत्तदनु कथमपि स्वात्मलाभः कणादा -
ज्जातः कौमारिलार्यैर्निजप्दगमने दर्शितं मार्गमात्रम् ।
साङ्ख्यैर्दुःखं विनीतं परमथ रचिता प्राणधृत्यर्हताऽन्यै -
रित्थं खिन्नं पुमांसं व्यधित करुणया शकरार्यः परेशम् ॥८७॥
ग्रस्तं भूतैर्न देवं कतिचन ददृशुः के च दृष्टाऽप्यधीराः
केचिद्भूतैर्वियुक्तं व्यधुरथ कृतिनः केऽपि सर्वैर्विमुक्तम् ।
किन्त्वेतेषामसत्वं न विदधुरजहान्नैव भीतिं ततोऽसो
तेषमुच्छिद्य सत्तामभयमकृत तं शकरः शकरांशः ॥८८॥
चार्वाकैर्निह्रुतः प्राग्बलिभिरथ मृषा रुपमापाद्य गुप्तः
काणादैर्हा नियोज्यो व्यरचि बलवताऽऽकृत्य कौमारिलेन ।
साङ्ख्यैराकृष्य हृत्वा मलमपि रचितो यः प्रधानैकतन्त्रः
कृष्ट्रा सर्वेश्वरं तं व्यतनुत पुरुषं शकरः शकरांशः ॥८९॥
वाचः कल्पलताः प्रसूनसुमनः सन्दोहसन्दोहनाः
भाष्ये भूष्यतमे समीक्षितवतां श्रेयस्करे शाङ्करे ।
भाष्याभासगिरो दुरन्वयगिराऽऽश्लिष्टा विसृष्टा गुणै -
रिष्टाः स्युः कथमम्बुजासनवधूदौर्भाग्यगर्भीकृताः ॥९०॥
कामं कामकिरातकार्मुकलतापर्यायनिर्यातया
नाराचच्छटया विपाटितमनोधैर्यैर्धिया कल्पितान् ।
आचार्याननवर्यनिर्यदभिदासिद्धान्तशुद्धान्तरो
धीरो नानुसरीसरीति विरसान्ग्रन्थानबन्धापहान् ॥९१॥
सुधास्यन्दाहन्ताविजयिभगवत्पादरचना
समस्कन्धान् ग्रन्थान् रचयति निबद्धा यदि तदा ।
विशकां भङ्गानां मृडमुकुटश्रृडाटसरितः
कृतौ तुल्या कुल्या नियतमुपशल्यादृतगति ः ॥९२॥
यया दीन्नाधीना घनकनकधारा समरचि
प्रतीतिं नीताऽसौ शिवयुवतिसौन्दर्यलहरी ।
भुजडो रोद्रोऽपि श्रुतभयहृदाधायि सुगुरो
र्गिरां धारा सेयं कलयति कवेः कस्य न मुदम् ॥९३॥
गिरां धारा कल्पद्रुमकुसुमधारा परगुरो -
स्तदर्थाली चिन्तामणिकिरणवेण्या गुणनिका ।
अभङ्गव्यडयौघ ः सुरसुरभिदुग्धोर्मिदहभू -
र्दिवं भव्यैः काव्यैः सृजति विदुषां शकरगुरुः ॥९४॥
वाचा मोचाफलाभाः श्रमशमनविधौ ते समर्थास्तदर्था
व्यडयं भङ्गायन्तरं तत्खलु किमपि सुधामाधुरीसाधुरीतिः ।
मन्ये धन्यानि गाढं प्रशमिकुलपतेः काव्यगव्यानि भव्या-
न्येकश्लोकोऽपि येषु प्रथितकविजनानन्दसन्दोहाकन्दः ॥९५॥
वाग्गुम्भैः कुरुविन्दकन्दलनिभैरानन्दकन्दैः सता -
मर्थौघेररविन्दवृन्दकुहरस्यन्दन्मरन्दोज्ज्वलैः ।
व्यडयैः कल्पतरुप्रफुल्लसुमनः सौरभ्यगर्भीकृतै -
र्दत्ते कस्य मुदं न शकरगुरोर्भव्यार्थकाव्यावलिः ॥९६॥
तत्तादृग्यतिशेखरोद्धृतनिषद्भाष्यं निशम्येर्ष्यया
केचिद्देवनदीतटस्थविदुषामक्षाङ्घ्रिपक्षश्रिताः ।
मौर्ख्यात्खण्डयितुं र्पयत्नमनुमानैकेक्षणा विक्षमा -
श्चकुर्भाव्यविचार्य चित्रकिरणं चित्राः पतडा इव ॥९७॥
निघर्षणच्छेदनतापनाद्यैर्यथा सुवर्ण परभागमेति ।
विवादिभिः साधु विमथ्यमानं तथा मुनेर्भाष्यमदीपि भूयः ॥९८॥
स भाष्यचन्द्रो यतिदुग्धसिन्धोरुत्थाय दास्यन्नमृतं बुधेभ्यः ।
विधूय गोभिः कुमतान्धकारानतर्पयद्विममनश्चकोरान् ॥९९॥
अनादिवाक्सागरमन्थनोत्था सेव्या बुधैर्धिक्कृतदुःसपत्नैः ।
विश्राणयन्ती विजरामरत्वं विदिद्युते भाष्यसुधा यतीन्दोः ॥१००॥
सतां हृदब्जानि विकासयन्ती तमांसि गाढानि विदारयन्ती ।
प्रत्यर्थ्युलूकान् प्रविलापयन्ती भाष्यप्रभाऽभाद्यतिवर्यभानोः ॥१०१॥
न्यायमन्दरविमन्थनजाता भाष्यनूतनसुधा श्रुतिसिन्धोः।
केवलश्रवणतो विबुधेभ्यश्चित्रमत्र वितरत्यमृतत्वम् ॥१०२॥
पादादासीत्पद्मनाभस्य गडा शम्भोर्वक्ताच्छाङ्करी भाष्यसूक्तिः ।
आद्या लोकान्दृश्यते मज्जयन्तीत्यन्या मग्रानुद्धरत्येष भेदः ॥१०३॥
व्यासो दर्शयति स्म सूतकलितन्यायौघरत्नावली -
रर्थालाभवशान्न कैरपि बुधैरेता गृहीताश्चिरम् ।
अर्थाप्त्या सुलभाभिराभिरधुना ते मण्डिताः पण्डिता
व्यासश्चाऽऽप कृतार्थतां यतिपतेरौदर्यमाश्चर्यकृत् ॥१०४॥
विद्वज्जालतपः फलं श्रुतिवधूधभ्मिक्लमल्लीस्रजं
सद्वैयासकसूत्रमुग्धमधुरागण्यातिपुण्योदयम् ।
वाग्देवीचिरभोग्यभाग्यविभवप्राग्भारकोशालयं
भाष्य ते निपिबन्ति हन्त न पुनर्येषां भवे सम्भवः ॥१०५॥
मन्थानाद्रिधुरन्धरा श्रुतिसुधासिन्धोर्यतिक्ष्मापते -
र्ग्रन्थानां फणितिः परावरविदामानन्दसन्धायिनी ।
इन्धानैः कुमतान्धकारपटलैरन्धीभवच्चक्षुषां
पन्थानं स्फुटयन्त्यकाण्डकमभात्तकार्कविद्योतितैः ॥१०६॥
आ सीतानाथनेतुः स्थलकृतसलिलद्वैतमुद्रात्समुद्रा -
दारुद्रकर्षणाद्रागवनतशिखराद्भोगसान्द्रान्नगेन्द्रात् ।
आ च प्राचीनभूमीधरमुकुटतटादा तटात्पश्चिमाद्रे -
रद्वैताद्यापवर्गा जयति यतिशरापोद्धृता ब्रह्मविद्या ॥१०७॥
इति श्रीमाधवीये तब्रह्मविद्याप्रतिष्ठितिः ।
सङ्क्षेपशकरजये षष्ठः सर्ग उपारमत् ॥६॥
आदितः श्लोकाः ६६३