०५

इति सप्तमहायनेऽखिलश्रुतिपारङ्गततां गतो वटुः ।
परिवृत्य गुरोः कुलाद् गृहे जननीं पर्यचरन्महायशाः ॥१॥
परिचरज्जननीं निगमं पठन्नपि हुताशरवीं सवनद्वयम् ।
मनुवरैर्नियतं परिपूजयञ्छिशुरवर्तत संस्तरणिर्यथा ॥२॥
शिशुमुदीक्ष्य युवाऽपि न मन्युमान् दिशति वृद्धतमोऽपि निजासनम् ।
अपि करोति जनः करयोर्युगं वशगतो विहिताज्जलि तत्क्षणात् ॥३॥
मृदु वचश्चरितं कुशलां मतिं वपुरनुत्तममास्पदमोजसाम् ।
सकलमेतदुदीक्ष्य सुतस्य सा सुखमवाप निरर्गलमम्बिका ॥४॥
जातु मन्दगमनाऽस्य हि माता स्रातुमबुनिधिगां प्रतियाता ।
आतपोग्रकिंरणे रविबिम्बे सा तपः कृशतनुर्विललम्बे ॥५॥
शकरस्तदनु शकितचित्तः पकजैर्विगतपकजलार्द्रैः ।
वीजयन्नुपगतो गतमोहां तां जनेन सदनं सह निन्ये ॥६॥
सोऽथ नेतुमनवद्यचरित्रः सद्यनोऽन्तिकमृषीश्वरपुत्रः ।
अस्तवीज्जलधिगां कविहृद्यैर्वस्तुतः स्फुरदलङ्कृतपद्यैः ॥७॥
ईहितं तव भविष्यति काल्ये यो हितं जगत इच्छसि बाल्ये ।
इत्यवाप्य स वरं तटिनीतः सत्यवाक् सदनमाप विनीतः ॥८॥
प्रातरेव समलोकत लोकः शीतवातहृतशीकरपूतः ।
नूतनामिव धुनीं प्रवहन्तीं माधवस्य समया सदनं ताम् ॥९॥
एवमेनमतिमर्त्यचरित्रं सेवमानजनदैन्यलवित्रम् ।
केरलक्षितिपतिर्हि दिदृक्षुः प्राहिणोत्सचिवमदृतभिक्षुः ॥१०॥
सोऽप्यतन्दितमभीरुपदाभिः प्राप्य तं यदनु सद्विरदाभिः ।
उक्तिभिः सरसमज्जुपदाभिः शक्तिभृत्सममजिज्ञपदाभिः ॥११॥
यस्य नैव सदृशो भुवि बोद्धा दृश्यते रणशिरःसु च योद्धा ।
तस्य केरलनृपस्य नियोगाद् दृश्यसे मम च सत्कृतियोगात् ॥१२॥
राजिताभ्रवसनैर्विलसन्तः पूजिता; सदसि यस्य वसन्तः ।
पण्डिता ः सरसवादकथाभिः खण्डितापरगिरोऽवितथाभिः ॥१३॥
सोऽयमाजिजितसर्वमहिपः स्तूयमानचरणः कुलदीपः ।
पादरेणुसपवनं भवभाजामादरेण तव विन्दतु राजा ॥१४॥
एष सिन्धुरपरो मदपूर्णो दोषगन्धरहितः प्रवितीर्णः ।
अस्तु तेऽद्य रजसा परिपूतं वस्तुतो नृपगृहं शुचिभूतम् ॥१५॥
इत्युदीर्य परिसाधितदौत्यं प्रत्युदीरितसदुक्तिममात्यम् ।
अत्युदारमृषिभिः परिशस्तं प्रत्युवाच वचनं क्रमशस्तम् ॥१६॥
भैक्षमन्नमजिनं परिधानं रुक्षमेव नियमेन विधानम् ।
कर्म दातृवर शास्ति वटूनां शर्मदायिनिगमाप्तिपटूनाम् ॥१७॥
कर्म नैजमपहाय कुभोगैः कुर्महेऽह किमु कुम्भिपुरोगैः ।
इच्छया सुखममात्य यथेतं गच्छ नाथममसकृत्कथयेत्थम् ॥१८॥
प्रत्युत क्षितिभृताऽखिलवर्णा वृत्त्युपाहरणतो विगतर्णाः ।
धर्मवर्त्मनिरता रचनीयाः कर्म वर्ज्यमिति नो वचनीयाः ॥१९॥
इत्यमुष्य वचनाइकलकः प्रत्यगात्पुनरमात्यमृगाक; ।
वृत्तमय स निशम्य धरापः सत्तमस्य सविधं स्वयमाप ॥२०॥
भूसुरार्भकवरैः परिवीतं भासुरोडुपगभस्त्युपवीतम् ।
अच्छजह्रुसुतया विलसन्तं सुच्छविं नगमिव द्रुमवन्तम् ॥२१॥
चर्म कृष्णहरिणस्य दधानं कर्म कृत्स्रमुचितं विदधानम् ।
नूतनाम्बुदनिभाम्बरवन्तं पूतनारिसहजं तुलयन्तम् ॥२२॥
जातरुपरुचिमुज्जसुधाम्रा छातरुपकटिमद्भुतधाम्रा ।
नाकग्भूजमिव सत्कृतिलब्धं पाकपीतलतिकापरिरब्धम् ॥२३॥
सस्मितं मुनिवरस्य कुमारं विस्मितो नरपतिर्बहुवारम् ।
संविधाय विनतिं वरदाने ते विधातृसदृशं भुवि मेने ॥२४॥
तेन पृष्टकुशलः क्षितिपालः स्वेन सृष्टमथ शात्रवकालः ।
हाटकायुतसमर्पणपूर्व नाटकत्रयमवोचदपूर्वम् ॥२५॥
तद्रसार्द्रगुणरीतिविशिष्टं भद्रसन्धिरुचिरं सुकवीष्टम् ।
सङ्ग्रहेण स निशम्य सुवाचं तं गृहाण वरमित्यमुमूचे ॥२६॥
तां नितान्तहृदयडमसारां गां निशम्य तुलितामृतधाराम् ।
भूपतिः स रचिताज्जलिबन्धः स्वोपमं सुतभियेष सुसन्धः ॥२७॥
नो हिताय मम हाटकमेतद्देहि नस्तु गृहवासिजनाय ।
ईहितं तव भविष्यति शीघ्रं याहि पूर्णमनसेत्यवदम् ॥२८॥
राजवर्यकुलवृद्धिनिमित्तां व्याजहार रहसिश्रुतिवित्ताम् ।
इष्टिमस्य सकलेष्टविधातुस्तुष्टिमाप हि तया क्षितिनेता ॥२९॥
स विशेषविदा सभाजितः कविमुख्येन कलाभृतां वर; ।
अगमत्कृतकृत्यधीर्निजां नगरीमस्य गुणानुदीरयन् ॥३०॥
बहवः श्रुतिपारदृश्वनः कवयोऽध्यैषत शकराद्र्रोः ।
महतः सुमहान्ति दर्शनान्यधिगन्तुं फणिराजकौशलीम् ॥३१॥
पठितं श्रुतमादरात्पुनः पुनरालोक्य रहस्यनूनकम् ।
प्रविभज्य निमज्जतः सुखे स विधेयान् विदधेतमां सुधीः ॥३२॥
सर्वार्थतत्त्वविदपि प्रकृतो पचारैः
शास्त्रोक्तभक्त्यतिशयेन विनीतशाली ।
सन्तोषयन् स जननीअनयत्कियन्ति
सम्मानितो द्विजवरैर्दिवसानि धन्यः ॥३३॥
सा शकरस्य शरणं स च तज्जनन्या
अन्योन्ययोगविरहस्त्वनयोरसह्यः ।
नो वोढुमिच्छति तथाऽऽप्यमनुष्यभावाना
मेरुं गतः किमपि वाञ्छति दुष्प्रदेशम् ॥३४॥
कृतविद्याममुं चिकीर्षवः श्रितगार्हस्थ्यमथाप्तबन्धवः ।
अनुरुपगुणामचिन्तयन्ननवद्येषु कुलेषु कन्यकाम् ॥३५॥
अथ जातु दिदृक्षवः कलाववतीर्ण मुनयः पुरद्विषम् ।
उपमन्युदधी चिगौतमत्रितलागस्त्यमुखाः समाययुः ॥३६॥
प्रणिपत्य स भक्तिसन्नतः प्रसवित्र्या सह तान्विधानवित् ।
विधिवन्मधुपर्कपूर्वया प्रतिजग्राह सपर्यया मुनीन् ॥३७॥
विहिताज्जलिना विपश्चिता विनयोक्त्याऽर्पितविष्टरा अमी ।
ऋषयः परमार्थसंश्रया अमुना साकमचीकरन् कथाः ॥३८॥
निजगाद कथान्तरे मुनीज्जननी तस्य समस्तदर्शिनः ।
वयमद्य कृतार्थतां गता भगवन्तो यदुपागता गृहान् ॥३९॥
क कलिर्वहुदोषभाजनं क च युष्मचरणावलोकनम् ।
तदलभ्यत चेत्पुराकृतं सुकृतं नः किमिति प्रपञ्चये ॥४०॥
शिशुरेष किलातिशैशवे यदशेषागमपारगोऽभवत् ।
महिमाऽपि यदद्भुतोऽस्य तद द्वयमेतत्कुरुते कुतूहलम् ॥४१॥
करुणार्द्रदृशाऽनुगृह्यते स्वयमागत्य भवद्भिरप्ययम् ।
वदतास्य पुराकृतं तपः क्षममाकर्णयितुं मया यदि ॥४२॥
इति सादरमीरितां तया गिग्याकर्ण्य महर्षिसंसदि ।
प्रतिवक्तुमभिप्रचोदितो घटजन्मा प्रवयाः प्रचक्रमे ॥४३॥
तनयाय पुरा पतिव्रते तव पत्या तपसा प्रमादितः ।
स्मितपूर्वमुपाददे वचो रजनीवल्लभखण्डमण्डनः ॥४४॥
वरयस्व शतायुषः सुतानपिइइ वा सर्वमिदं मितायुषम् ।
सुतमेकमितीरितः शिवं सति सर्वज्ञमयाचतात्मजम् ॥४५॥
तदभीप्सितसिद्धये शिवस्तव भाग्यात्तनयो यशस्विनि ।
स्वयमेव बभूव सर्वविन्न ततोऽन्योऽस्ति यतः सुरेष्वपि ॥४६॥
इति तद्वचनं निशम्य सा मुनिवर्य पुनरप्यवोचत ।
कियदायुरमुष्य भो मुने सकलज्ञोऽस्यनुकम्पया वद ॥४७॥
शरदोऽष्ट पुनस्तथाऽष्ट ते तनस्यस्यास्य तथाऽप्यसौ पुनः ।
निवसिष्यति कारणान्तराद्भुवनेऽस्मिन् दश षट् च वत्सरान् ॥४८॥
इति वादिनि भाविनीं कथामृषिमुख्ये घटजे निवार्य तम् ।
ॠषयः सह तेन शकरं समुपामन्त्र्य ययुर्यथागतम् ॥४९॥
सृणिना करिणीव साऽर्दिता शुचिना शैवलिनीव शोषिता ।
मरुता कदलीव कम्पिता मुनिवाचा सुतवत्सलाऽभवत् ॥५०॥
अथ शोकपरीतचेतनां द्विजराडित्थमुवाच मातरम् ।
अवगम्य च संसृतिस्थितिं किमकाण्डे परिदेवना तव ॥५१॥
प्रबलानिलवेगवेल्लितध्वचीनांशुककोटिचश्चले ।
अपि मूढमतिः कलेबरे कुरुते क ः स्थिरबुद्धिमम्बिके ॥५२॥
कति नाम सुता न लालिताः कति वा नेह वधूरभुज्जि हि ।
कनु ते कच ताः कवा वयं भवसङ्गः खलु पान्थसङ्गमः ॥५३॥
भ्रमतां भव्रवर्त्मनि भ्रमान्न हि किञ्चित्सुखमम्ब लक्षये ।
तदवाप्य चतुर्थमाश्रमं प्रयतिष्ये भवबन्धमुक्तये ॥५४॥
इति कर्णकठोरभाषणश्रवणाद्वष्पपिनद्धकण्ठया ।
द्विगुणीकृतशोकया तया जगदे गद्रदवाक्यया मुनिः ॥५५॥
त्यज बुद्धिमिमां श्रृणुष्व मे गृहमेधी भव पुत्नमाप्नुहि ।
यज च क्रतुभिस्ततो यतिर्भवितास्यड सतामयं क्रमः ॥५६॥
कथमेकतनूभवा त्वया रहिता जीवितुमुत्सहेऽबला ।
अनयैव शुचौर्ध्वदेहिकं प्रमृतायां मयि कः करिष्यति ॥५७॥
त्वमशेषविदप्यपास्य मां जरठाअं वत्स कथं गमिष्यसि ।
द्रवते हृदयं कथं न ते न कथङ्कारमुपैति वा दयाम् ॥५८॥
एवं व्यथां तां बहुधाऽऽश्रयन्तीमपास्तमोहैर्बहुभिर्वचोभिः ।
अम्बामशोकां व्यदधाद्विधिज्ञाः शुद्धाष्टमेऽचिन्तयदेतदन्तः ॥५९॥
मम न मानसमिच्छति संसृतिं न च पुनर्जननी विजिहासति ।
न च गुरुर्जननी तदुदीक्षते तदनुशासनमीषदपेक्षितम् ॥६०॥
इति विचिन्त्य स जातु मिमङ्क्षया बहुजलां सरितं समुपाययौ ।
जलमगाहत तत्र समग्रहीज्जलचरश्चरणे जलमीयुषः ॥६१॥
स च रुरोद जले जलचारिणा धृतपदो हियतेऽम्ब करोमि किम् ।
चलितुमेकपदं न पारये बलवता विवृतोरुमुखेन ह ॥६२॥
गृहगता जननी तदुपाश्रृणोत्परवशा द्रुतमाप सरित्तटम् ।
मम मृतेः प्रथमं शरणं धवस्तदनु मे शरणं तनयोऽभवत् ॥६३॥
स च मरिष्यति नक्रवशं गतः शिव न मेऽजनि हन्त पुरा मृतिः ।
इति शुशोच जनन्यपि तीरगा जलगतात्मजवक्तगतेक्षणा ॥६४॥
त्यजति नूनमयं चरणं चलो जलचरोऽम्ब तवानुमतेन मे ।
सकलसन्न्यसने परिकल्पिते य्दि तवानुमतिः परिकल्पये ॥६५॥
इति शिशौ चकिता वदति स्फुटं व्यधित साऽनुमतिं द्रुतमम्बिका ।
सति सुते भविता मम दर्शनं मृतवतस्तदु नेति विनिश्चयः ॥६६॥
तदनु सन्न्यसनं मनसा व्यधादथ मुमोच शिशुं खलनक्रकः ।
शिशुरुपेत्य सरित्तटमत्रसन् प्रसुवमेतदुवाच शुचाऽऽवृताम् ॥६७॥
मातार्विधेयमनुशाधि यदत्र कार्य
सन्न्यासिना तदु करोमि न सन्दिहेऽहम् ।
वस्त्राशने तव यथेष्टममी प्रदद्यु -
गृह्णन्ति ये धनमिदं मम पैतृकं यत् ॥६८॥
देहेऽम्ब रोगवशगे च सनाभयोऽमी
द्रक्ष्यन्ति शक्तिमनुसृत्य मृतिप्रसडे ।
अर्थग्रहाज्जनभयाच यथाविधानं
कुर्युश्च संस्कृतिममी न विभेयमीषत् ॥६९॥
यज्जीवितं जलचरस्य मुखात्तदिष्टं सन्न्याससङ्गरवशान्मम देहपाते ।
संस्कारगेत्य विधिवत्कुरु शकर त्वं नो चेत्प्रसूय मम किं फलमीरय त्वम् ॥७०॥
अह्रयम्ब रात्रिसमये समयान्तरे वा
सञ्चिन्तय स्ववशगाऽवशगाऽथवा माम ।
एष्यामि तत्र समयं सकलं विहाय
विश्वासमाप्नुहि मृतावपि संस्करिष्ये ॥७१॥
सन्न्यस्तवाञ्छिशुरयं विधवामनाथां
क्षिप्त्वेति मां प्रति कदाऽपि न चिन्तनीयम् ।
यावन्मया स्थितवता फलमापनीयं
मातस्ततः शतगुणं फलमापयिष्ये ॥७२॥
इत्थं स्वमातरमनुग्रहणेच्छुरुक्त्वा प्रोचे सनाभिजनमेष विचक्षणाग्र्यः ।
सन्न्यासकल्पितमना व्रजितोऽस्मि दूरं तां निक्षिपामि जननीमधवां भवत्सु ॥७३॥
एवं सनाभिजनमुत्तममुत्तमाग्र्यः श्रीमातृकार्यमभिभाष्य करद्वयेन ।
सम्प्रार्थयन् स्वजननीं विनयेन तेषु न्यक्षेपयन्नयनजाम्बु निषिश्चमानाम् ॥७४॥
आत्मीयमन्दिरसमीपगतामथासौ चक्रे विदूरगनदीं जननीहिताय ।
तत्तीरसंश्रितयद्वद्वहधाम किञ्चित्सा निम्रागाऽऽरभत ताडयितुं तरडैः ॥७५॥
वर्षासु वर्षति हरौ जलमेत्य किञ्चिदन्तःपुरं भगवतोऽपनुनोद मृत्स्राम् ।
आरब्ध मूर्तिरनघा चलितुं क्रमेण देवोऽविभेदिव न मुश्चति भीरुहिंसाम् ॥७६॥
प्रस्थातुकाममनघं भगवाननडवाचाऽवदत्कथमपि प्रणिपत्य मातुः ।
पादारविन्दयुगलं परिगृह्य चाज्ञां श्रीशङ्करं जनहितैकरसं स कृष्णः ॥७७॥
आनेष्ट दूरगनदीम कृपया भवान् यां सा माऽतिमात्रमनिशं बहुलोर्मिहस्तैः ।
क्लिश्राति ताडनपरा वद कोऽभ्युपायो वस्तुं क्षमे न नितरां द्विजपुत्र यासि ॥७८॥
आकर्ण्य वाचमिति तामतनुं गुरुर्नः प्रोद्धत्य कृष्णमचलं शनकैर्भुजाभ्याम् ।
प्रातिष्ठिपन्निकट एव न यत्र बाधा नद्येत्युदीर्घ सुखमास्स्व चिराय चेति ॥७९॥
तस्मात्स्वमातुरपि भक्तिवशादनुज्ञा -
मादाय संसृतिमहाब्धिविरक्तिमान् सः ।
गन्तुं मनो व्यधित सन्न्यासनाय दूरं
किं नौस्थितः पतितुमिच्छति वारिराशौ ॥८०॥
इत्थं सुधीः स निरवग्रहमातृलक्ष्मी -
शानुग्रहो घटजबोधितभाविवेदी ।
एकान्ततो विगतभोगपदार्थतृष्ण ः
कृष्णे प्रतीचि निरतो निरगान्निशान्तात् ॥८१॥
यस्य त्रिनेत्रापरविग्रहस्य कामेन नास्थीयत दृक्पथेऽपि ।
तन्मूलकः संसृतिपाशबन्धः कथं प्रसज्येत महानुभावे ॥८२॥
स्मरेण किल मोहितौ विधिविधू च जातून्पथौ
तथाऽहमपि मोहिनीकुच्कचादिवी क्षापरः ।
अगामहह मोहिनीमिति विमृश्य सोऽजागरीत्
यतीशवपुषा शिवः स्मरकृतार्तिवार्तोज्झितः ॥८३॥
निष्पत्राकुरुतासुरानपि सुरान् मारः सपत्राऽकरो -
दप्यन्यानिह निष्कुलाऽकृततरां गन्धर्वविद्याधरान् ।
यो धानुष्कवरो नराननलसात्कृत्वोदलासीदलं
यस्तम्मिन्नशुशूरतैष मुनिभिर्वर्ण्यः कथं शकरः ॥८४॥
शान्तिश्चावशयन्मनो गतिमुखा दान्तिर्न्यरुद्ध क्रियाः
आधात्ता विषयान्तरादुपरतिः क्षान्तिर्मृदुत्वं व्यधात् ।
ध्यानैकोत्सुकतां समाधिविततिश्चक्रे तथाऽऽस प्रिया
श्रद्धा हन्त वसुप्रथाऽस्य तु कुतो वैराग्यतो विद्मि नो ॥८५॥
विजनतावनितपरितोषितो विधिवितीर्णकृतात्मतनुस्थितिः ।
परिहरन् ममतां गृहगोचरां हॄदयगेन शिवेन समं ययौ ॥८६॥
गच्छन्वनानि सरितो नगराणि शैलान्
ग्रामाज्जनानपि पशून पथि सोऽपि पश्यन् ।
नन्वैन्द्रजालिक इवाद्भुतमिन्द्रजालं
ब्रह्मैवमेव परिदर्श्यतीति मेने ॥८७॥
वादिभिर्निजनिजाध्वकर्शितां वर्तयन् पथि जरद्रवीं निजे ।
दण्डमेकमवहज्जगद्रुरुर्दण्डिताखिलकदध्वमण्डलः ॥८८॥
सारडा इव विश्वकद्रुभिरहङ्कुर्वद्भिरुच्छृङ्खलै
जल्पाकैः परमर्मभेदनकलाकण्डूलजिह्वाश्चलैः ।
पाखण्डैरिह कान्दिशी कमनसः कं नाप्रुयुर्वैदिकाः
क्लेशं द्ण्डधरो यदि स्म न मुनिस्त्राता जगद्देशिकः ॥८९॥
दण्डान्वितेन धृतरागनवाम्बरेण गोविन्दनाथवनमिन्दुभवातटस्थम् ।
तेन प्रविष्टमजनिष्ठ दिनावसाने चण्डत्विषा च शिखरं चरमाचलस्य ॥९०॥
तीरद्रुमागतमरुद्विगतश्रमः सन् गोविन्दनाथवनमध्यतले लुलोके ।
शंसन्ति यत्र तरवो वसतिं मुनीनां शाखाभिरुज्ज्वलमृगाजिनवल्कलाभिः ॥९१॥
आदेशमेकमनुयोक्तुमयं व्यवस्यन् प्रादेशमात्रविव्रप्रतिहारप्रतिहारभाजम् ।
तत्र स्थितेन कथितां यमिनां गप्पेन गोविन्ददेशिकगुहां कुतुकी ददर्श ॥९२॥
यस्य प्रपन्नपरितोषदुहो गुहायाः स त्रिः प्रदक्षिणपरिक्रमणं विधाय ।
द्वारं प्रति प्रणिपतज्जनतापुरोगं तुष्टाव तुष्टहॄदयस्तमपास्तशोकम् ॥९३॥
पर्यकतां भजति यः पतगेन्द्रकेतोः पादाडदत्वमथवा परमेश्वरस्य ।
तस्यैव मूर्ध्रि धृतसाब्धिमहीध्रभूमेः शेषस्य विग्रहमशेषमहं भजे त्वाम् ॥९४॥
दृष्टा पुरा निजसहस्रमुखीमभैषुरन्तेवसन्त इति तामपहाय शान्तः ।
एकाननेन भुवि यस्त्ववतीर्य शिष्यानन्वग्रहीन्ननु स एव पतज्जलिस्त्वम् ॥९५॥
उरगपतिमुखादधीत्य साक्षात्स्वयमवनेर्विवरं प्रविश्य येन ।
प्रकटितमचलातले सयोगं जगदुपकारपरेण शब्दभाष्यम् ॥९६॥
तमखिलगुणपूर्ण व्यासपुत्रस्य शिष्यादधिगतपरमार्थ गौडपादान्महर्षेः ।
अधिजिगमिषुरेष ब्रह्मसंस्थामहं त्वां प्रसृमरमहिमनं प्रापमेकान्तभक्त्या ॥९७॥
तस्मिन्निति स्तुवति कस्त्वमितिब्रुवन्तं दिष्टया समाधिपदरुद्धविसृष्टचित्तम् ।
गोविन्ददेशिकमुवाच ततो वचोभिः प्राचीनपुण्यजनितात्मविबोधचिह्रैः ॥९८॥
स्वामिन्नहं न पृथिवी न जलं न तेजो
न स्पर्शनो न गगनं न च तद्रुणा वा ।
नापीन्द्रियाण्यपि तु विद्धि ततोऽवशिष्टो
यः केक्लोऽस्ति परमः स शिवोऽहमस्मि ॥९९॥
आकर्ण्य शकरमुनेर्वचनं तदित्थ
मद्वैतदर्शनसमुत्थमुपात्तहर्षः ।
स प्राह शकर स शकर एव साक्षा
ज्जातस्त्वमित्यहमवैमि समाधिदृष्टया ॥१००॥
तस्योपदर्शितवतश्चरणौ गुहाया
द्वारे न्यपूजयदुपेत्य स शकरार्यः ।
आचार इत्युपदिदेश स तत्र तस्मै
गोविन्दपादगुरवे स गुरुर्मुनीनाम् ॥१०१॥
शकरः सविनयैरुपचारैर भ्यतोषयदसौ गुरुमेनम् ।
ब्रह्म तद्विदितमप्युपलिप्सुः सम्प्रदायपरिपालनबुद्धया ॥१०२॥
भक्तिपूर्वकृततत्परिचर्यातोषितोऽधिकतरं यतिवर्यः ।
ब्रह्मतामुपदिदेश चतुर्भिर्वेदशेखरवचोभिरमुष्मै ॥१०३॥
साम्प्रदायिकपराशरपुत्रप्रोक्तसूतमतगत्यनुरो घात् ।
शास्त्रगूढहृदयं हि दयालोः कृत्स्रमप्ययमबुद्ध सुबुद्धिः ॥१०४॥
व्यासः पराशरसुतः किल सत्यवत्यां
तस्यात्मजः शुकमुनिः प्रथितानुभावः ।
तच्छिष्यतामुपगतः किल गौडपादो
गोविन्दनाथमुनिरस्य च शिष्यभूतः ॥१०५॥
शुश्राव तस्य निकटे किल शास्त्रजालं
यश्चाश्रृणोद्भुजगसद्मगतस्त्वनन्तात् ।
शब्दाम्बुराशिमखिलं समयं विधाय
यश्चाखिलानि भुवनानि बिभर्ति मूर्ध्रा ॥१०६॥
सोऽधिगम्य चरमाश्रममार्यः पूर्वपुण्यनिचयैरधिगम्यम् ।
स्थानमर्च्यमपि हंसपुरोगैरुन्नतं ध्रुव इवैत्य चकाशे ॥१०७॥
छन्नमूर्तिरतिपाटलशाटीपल्लवेन रुरुचे यतिराजः ।
वासरोपरमरक्तपयोदाच्छादितो हिमगिरेरिव कूटः ॥१०८॥
एष धूर्जटिरबोधमहेभं सन्निहत्य रुधिराप्लुतचर्म ।
उद्यदुष्णकिरणारुणशाटीपल्लवस्य कपटॆन बिभर्ति ॥१०९॥
श्रुतीनामाक्रीडः प्रथितपरहंसोचितगति
र्निजे सत्ये धाम्रि त्रिजगदतिवर्तिन्यभिरतः।
असौ ब्रह्मैवास्मिन्न खलु पिशये किन्तु कलये
बृहेरर्थ साक्षादनुपचरितं केवलतया ॥११०॥
मितं पादनैव त्रिभुवनमिहैकेन महसा
विशुद्धं यत्सत्वं स्थितिजनिलयेष्वप्यनुगतम् ।
दशाकारातीतं स्वमहिमनि निर्वेदरमणं
ततस्तद्विष्णोः परमप्दमाख्याति निगमः ॥१११॥
न भूतेष्वासडः कचन न गवा वा विहरणं
न भूत्या संसर्गो न परिचितता भोगिभिरपि ।
तदप्याम्रायान्तस्त्रिपुरदहनत्केवलदृशा
तुरीय्म निर्द्वन्द्वं शिवमतितरां वर्णयति तम् ॥११२॥
न धर्मः सौवर्णो न पुरुषफलेषु प्रवणता
न चैवाहोरात्रस्फुर्दरियुतः पार्थिवरथः ।
असाहाय्येनैवं सति विततपुयष्टकजये
कथं तं न ब्रूयान्निगमनिकुरम्बं परशिवम् ॥११३॥
दुःखासारदुरन्तदुष्कृतघनां दुःसंसृतिप्रावृषं
दुर्वारामिह दारुणां परिहरन्दूरदुदाराशयः ।
उच्चण्डप्रतिपक्षपण्डितयशोनालीकनालाकुर
ग्रासो हंसकुलावतंसपदभाक् सन्मानसे क्रीडति ॥११४॥
क्षीरं ब्रह्म जगच्च नीरमुभयं तद्योगमभ्यागतं
दुर्भेदं त्वितरेतरं चिरतरं सम्यग्विभक्तीकृतम् ।
येनाशेषविशेषदोषलहरीमासेदुषीं शेमुषीं
सोऽयं शीलवतां पुनाति परमो हंसो द्विजात्यग्रणीः ॥११५॥
नीरक्षीरनयेन तथ्यवितथे सम्पिण्डते पण्डितै
दुर्बोधे सकलैर्विवेचयति यः श्रीशङ्कराख्यो मुनिः ।
हंसोऽयं परमोऽस्तु ये पुनरिहाशक्ताः समस्ताः स्थिताः
जृम्भान्निम्बफलाशनैकरसिकान् काकानमून्मन्महे ॥११६॥
दृष्टिं यः प्रगुणीकरोति तमसा बाह्येन मन्दीकृतां
नालीकप्रियतां प्रयाति भजते मित्नत्वमव्याहतस् ।
विश्वस्योपकृतेर्विलुम्पति सुहृचक्रस्य चार्ति घना
हंसः सोऽयमभिव्यनक्ति महतां जिज्ञास्यमर्थ मुहुः ॥११७॥
हंसभावमधिगम्य सुधीन्द्रे तं समर्चति च संसृतिमुक्त्यै ।
सञ्चचाल कथयन्निव मेघश्चाज्जलाचपलतां विषयेषु ॥११८॥
एष नः स्पृशति निष्ठरपादैस्तत्तु तिष्ठतु वितीर्णमवन्यै ।
अस्मदीयमपि पुष्पमनैषादित्यरोधि नलिनीपतिरब्दैः ॥११९॥
वारिवाहनिवहे क्षणलक्ष्यश्रीररोचत किलाचिररोचिः ।
अन्तरडगतबोधकलेव व्यापृतस्य विदुषो विषयेषु ॥१२०॥
किं नु विष्णुपदसंश्रयतोऽब्दा ब्रह्मतामुपदिशन्ति सुहृद्भयः ।
यन्निशम्य निखिलाः स्वनमेषां विभ्रति स्म किल निर्भरमोदान् ॥१२१॥
देवराजमपि मां न यजन्ति ज्ञानवर्गभरिता यतयोऽमी ।
इत्यमर्षवशगेन पयोदस्यन्दनेन धनुराविरकारि ॥१२२॥
आववुः कुटजकन्दलबाणास्फीतरेणुकलिता वनवात्याः ।
सत्वमध्यमतमोगुणमिश्रा मायिका इव जगत्सु विलासः ॥१२३॥
बभ्रमुस्तिमिरसच्छविगात्राश्चित्रकार्मुकभृतः खरघोषाः ।
ध्यानयज्ञमथनाय यतीनां विद्युदुज्ज्वलदृशो घनदैत्याः ॥१२४॥
उत्ससर्जुरसकृज्जलधारा वारिदा गगनधाम पिधाय ।
शकरो हृदयमात्मनि कृत्वा सञ्जहार सकलेन्द्रियवृत्तीः ॥१२५॥
शनैः सान्त्वालापैः सनयमुपनीतोपनिषदां
चिरायत्तं त्यक्त्वा सहजमधिमानं दृढतरम् ।
तमेत्य प्रेयांसं सपदि परहंसं पुनरसा
वधीरा संस्पष्टुं कनु सपदि तद्धोलयमगात् ॥१२६॥
न सूर्यो नैवेन्दुः स्फुरति न च ताराततिरियं
कुतो विद्युलेखा किय्दिह कृशानोर्विलमितम् ।
नो विद्यो रोदस्यौ न च समयमस्मिन्न जलदे
चिदाकाशे सान्द्रस्वसुखरसवर्ष्मण्यविरतम् ॥१२७॥
किमादेयं हेयं किमिति सहजानन्दजलधा
वतिस्वच्छेतुच्छीकृतसकालमाये परशिवे ।
तदेतस्मिन्नेव स्वमहिमनि विस्मापनपदे
स्वतः सत्ये नित्ये रहसि परमे सोऽकृत कृती ॥१२८॥
प्राप विष्णुपदभागपि मेघः प्रावृडागमनतो मलिनत्वम् ।
विद्युदुज्ज्वलरुचाऽनुसृतश्च कोऽध्यवन्यपि भजेन्न विरागम् ॥१२९॥
आशये कलुषिते सलिलानां मानसोत्कहृदयाः कलहंसाः ।
कोऽन्यथा भवति जीवनलिप्सुर्नाश्रये भजति मानसचिन्ताम् ॥१३०॥
अभ्रवर्त्मनि परिभ्रममिच्छञ्शुदीधितिरदभ्रपयोदे ।
न प्रकाशनमवाप कलावान् कश्चकास्ति मलिनाम्बरवासी ॥१३१॥
चातकावलिरनल्पपिपासा प्राप तृप्तिमुदकस्य चिराय ।
प्राप्रुयादमृतमप्यभिवाञ्छन् कालतो वत घनाश्रयकारी ॥१३२॥
इत्युदीर्णजलवाहविनीले स्फीतवातपरिधूततमाले ।
प्राणभृत्प्रचरणप्रतिकूले नीडनीलघनशालिनि काले ॥१३३॥
अग्रहारशतसम्भृतशोभे सुग्रहाक्षतुरगः स महात्मा ।
अध्युवास तटमिन्दुभवायाः सुध्युपास्यचरणं गुरुमर्चन् ॥१३४॥
त्रस्तमर्त्यगणमस्तमिताशं हस्तिहस्तपृथुलोदकधाराः ।
मुश्चति स्म समुदश्चितविद्युत्पश्चरात्रमहिशत्रुरजस्रम् ॥१३५॥
तीरभ्रूरुहततीरपकर्षन्नग्रहारनिकरैः सह पूरः ।
आययावधिकघोषमनल्पः कल्पवार्धिलहरीव तटिन्याः ॥१३६॥
घोषवारिझरभीरुनराणां घोषमेव कलुषं स निशम्य ।
देशिकं ध्रुवसामाधिविधानं वीक्ष्य च क्षणमभूदविवक्षुः ॥१३७॥
सोऽभिमन्त्र्य करकं त्वरमाणस्तत्प्रबाहपुरतः प्रणिधाय ।
कृत्स्रमत्र समवेशयदम्भः कुम्भसम्भव इव स्वकरेऽब्धम् ॥१३८॥
तं निशम्य निखिलैरपि लोकैरुत्थितोऽम्य गुरुरुक्तमुदन्तम् ।
योगसिद्धिमचिरादयमापेत्यभ्यपद्यततरां परितोषम् ॥१३९॥
छात्रमुख्यममुमाह कियद्भिर्वासरैर्गतघने गगने सः ।
पश्य सौम्य शरदा विमलं खं विद्ययेव विशदं परतत्वम् ॥१४०॥
वारिदा यतिवराश्च सुपाथोधारया सदुपदेशगिरा च ।
ओषधीरनुचरांश्च कृतार्थीकृत्य सम्प्रति हि यान्ति यथेच्छम् ॥१४१॥
शीतदीधितिरसौ जलमुग्भिर्मुक्तपद्धतिरतिस्फुटकान्तिः ।
भाति तत्वविदुपामिव बोधो मायिकावरणनिर्गमशुभ्रः ॥१४२॥
वरिवाहनिवहे प्रतियाते भान्ति भानि शुचिभानि शुभानि ।
मत्सरादिविगमे सति मैत्रीपूर्वका इव गुणाः परिशुद्धाः ॥१४३॥
मत्स्यकच्छपमयी धृतचक्रा गर्भवर्तिभुवना नलिनाढया ।
श्रीयुताऽद्य तटिनी परहंसैः सेव्यते मधुरिपोरिव मूर्तिः ।१४४॥
नीरदाः सुचिरसम्भृतमेते जीवनं द्विजगणाय वितीर्य ।
त्यक्तविद्युदबलाः परिशुद्धाः प्रब्रजन्ति घनवीथिगृहेभ्यः ॥१४५॥
चन्द्रिकाभसितचर्चितगात्रश्चन्द्रमण्डलकमण्डलुशोभी ।
बन्धुजीवकुसुमोत्करशाटीसंवृतो यतिरिवायमनेहाः ॥१४६॥
हंससङ्गतिलसद्विरजस्कं क्षोभवर्जितमपह्रुतपकम् ।
वारि सारसमतीव गभीरं तावकं मन इव प्रतिभाति ॥१४७॥
शारदाम्बुधरजालपरीतं भ्राजते गगनमुज्ज्वलभानु ।
लिप्तचन्दनरजः समुदश्चत्कौस्तुभं मुररिपोरिव वक्षः ॥१४८॥
पकजानि समुदूढहरीणि प्रोद्रतानि विकचानि कनन्ति ।
सौम्य योगकलयेव विफुल्लान्यमुखानि हृदयानि मुनीनाम् ॥१४९॥
रेणुभस्मकलितैर्दलशाटीसंवृतैः कुसुमालिडजपमालैः ।
वृन्तकुड्मलकमण्ड्लुयुक्तैर्धायते क्षितिरुहैर्यतितौल्यम ॥१५०॥
धारणादिभिरपि श्रवणाद्यैर्वार्षिकाणि दिवसान्यपनीय ।
पादपद्मरजसाऽद्य पुनन्तः सञ्चरन्ति हि जगन्ति महान्तः ॥१५१॥
तद्भवान् व्रजतु वेदकदम्बदुद्भवां भवदवाम्बुदमालाम् ।
तत्वपद्धतिमभिज्ञ विवेक्तुं सत्वरं हरपुरीमविविक्ताम् ॥१५२॥
अत्र कृष्णमुनिना कथितं मे पुत्र तच्छृणु पुरा तुहिनाद्रौ ।
वृत्रशत्रुमुखदैवतजुष्टं सत्रमत्रिमुनिकर्तृकमास ॥१५३॥
संसदि श्रुतिशिरोऽर्थमुदारं शंसति स्म पराशरसूनुः ।
इत्यपृच्छमहमत्रभवन्तं सत्यवाचमभियुक्ततमं तम् ॥१५४॥
आर्य वेदनिकरः प्रविभक्तो भारतं कृतमकारि पुराणम् ।
योगशास्त्रमपि सम्यगभाषि ब्रह्मसूत्रमपि सूत्रितमासीत् ॥१५५॥
अत्र केचिदिह विप्रतिपन्नाः कल्पयन्ति हि यथायथामर्थान् ।
अन्यथाग्रहणनिग्रह्दक्षं भाष्यमस्य भगवन् करणीयम् ॥१५६॥
मद्वचः स च निशम्य सभायां विद्वदग्रसर वाचमवोचत् ।
पूर्वमेव दिविषद्भिरुदीर्णः पार्वतीपतिसदस्ययमर्थः ॥१५७॥
वत्स तं श्रृणु समस्तविदेको मत्समस्तव भविष्यति शिष्यः ।
कुम्भ एव सरितः सकलं यः संहरिष्यति महोल्बणमम्भः ॥१५८॥
दुर्मतानि निरसिष्यति सोऽयं शर्मदायि च करिष्यति भाष्यम् ।
कीर्तयिष्यति यशस्तव लोकः कार्तिकेन्दुकरकौतुकि येन ॥१५९॥
इत्युदीर्य मुनिराट् स वनान्ते पत्युराप सुगिरिं गिरिजायाः ।
तन्मुखाच्छ्रुतमशेषमिदानीं सन्मुनिप्रिय मया त्वयि दृष्टम् ॥१६०॥
स त्वमुत्तमपुमानसि कश्चित्तत्त्ववित्प्रवर नान्यसमानः ।
तद्यतस्व निरवद्यनिबन्धैः सद्य एव जगदुद्धरणाय ॥१६१॥
गच्छ वत्स नगरं शशिमौलेः स्वच्छदेवतटिनीकमनीयम् ।
तावता परमनुग्रहमाद्या देवता तव करिष्यति तस्मिन् ॥१६२॥
एवमेनमनुशास्य दयालुः पावयन्निजदृशा विससर्ज ।
भावतः स्वचरणाम्बुजसेवामेव शश्वदभिकामयमानम् ॥१६३॥
पकजप्रतिभटं पदयुग्मं शकरोऽस्य निरगादसहिष्णुः ।
तद्वियोगमभिवन्द्य कथञ्चितद्विलोकनमयन् हृदयाब्जे ॥१६४॥
प्राप तापसवरः स हि काशीं नीपकाननपरीतसमीपाम् ।
आपगानिकटहाटकचश्चद्यूपपडिसमुदश्चितशोभाम् ॥१६५॥
सन्ददश स भगीरथतप्तामन्दतीव्रतपसः फलभूतामा ।
योगिराडुचिततीरनिकुज्जां भोगिभूषणजटातटभूषाम् ॥१६६॥
विष्णुपादनखराज्जननाद्वा शम्भुमौलिशशिस्म्गमनाद्वा ।
या हिमाद्रिशिखरात्पतनाद्वा स्फाटिकोपमजला प्रतिभाति ॥१६७॥
गायतीव कलषट्पदनादैर्नृत्यतीव पवनोचलिताब्जैः ।
मुश्चतीव हसितं सितफेनैः श्लिष्यतीव चपलोर्मिकरैर्या ॥१६८॥
श्यामला कचिदपाडमयूरवैश्चित्रिता कचन भूषणभाभिः ।
पाटला कुचतटीगलितैर्या कुडुमैः कचन दिव्यवधूनाम् ॥१६९॥
सोऽवगाह्य सलिलं सुरसिन्धोरुत्ततार शितिकण्ठजटाभ्यः ।
जाह्रवीसलिलवेगहृतस्तद्योगपुण्यपरिपूर्ण इवेन्दुः ॥१७०॥
स्वर्णदीजलकणाहितशोभा मूर्तिरस्य सुतरां विललास ।
चन्द्रपादगलदम्बुकणाका पुत्निका शशिशिलारचितेव ॥१७१॥
विश्वेशश्चरणयुगं प्रणम्य भक्त्या हर्याद्यैस्त्रिदशवरैः समर्चितस्य ।
सोऽनैषीत्प्रयतमना जगत्पवित्रे क्षेत्रेऽसाविह समयं कियन्तमार्यः ॥१७२॥
इति श्रीमाधवीये तत्सुखाश्रमनिवासगः ।
सङ्क्षेपशकरजये सर्गोऽयं पश्चमोऽभवत् ॥५॥