०४

अथ शिवो मनुजो निजमायया द्विजगृहे द्विजमोदमुपावहन् ।
प्रथमहायन एव समग्रहीत्सकलवर्णमसौ निजभाषिकाम् ॥१॥
द्विसम एव शिशुर्लिखिताक्षरं गदितुमक्षमताक्षरवित्सुधीः ।
अथ स काव्यपुराणमुपाश्रृणोत्स्वयमवैत्किमपि श्रवणं विना ॥२॥
अजनि दुःखकरो न गुरोरसौ श्रवणतः सकृदेव परिग्रही ।
सहनिपाठजनस्य गुरुः स्वयं स च पपाठ ततो गुरुणा विना ॥३॥
रजसा तमसाऽप्यनाश्रितो रजसा खेलनकाल एव हि ।
स कलाधरसत्तमात्मजो सकलाश्चापि लिपीविन्दत ॥४॥
सुधियोऽस्य विदिद्युतेऽधिकं विधिवच्चौलविधानसंस्कृतम् ।
ललितं करणं घृताहुतिज्वलितं तेज इवाशुशुक्षणेः ॥५॥
उपपादननिर्व्यपेक्षधीः स पपाठाहृतिपूर्वकागमान् ।
अधिकाव्यमरंस्त कर्कशेऽप्यधिकांस्तर्कनयेऽत्यवर्तत ॥६॥
हरतस्त्रिदह्सेज्यचातुरीं पुरतस्तस्य न वक्तुमीश्वराः ।
प्रभवोऽपि कथासु नैजवाग्विभवोत्सारितवादिनो बुधाः ॥७॥
अमुकक्रमिकोक्तिधोरणीमुरगाधीशकथावधीरिणीम् ।
मुमुहुर्निशमय्य वादिनः प्रतिवाक्योपहृतौ प्रमादिनः ॥८॥
कुमतानि च तेन कानि नोन्मथितानि प्रथितेन धीमता ।
स्वमतान्यपि तेन खण्डितान्यतियत्नैरपि साधितानि कैः ॥९॥
अमुना तनयेन भूषितं यमुनातातसानवर्चसा ।
तुलया रहितं निजं कुलं कलयामास स पुत्रिणां वरः ॥१०॥
शिवगुरुः स जरंस्त्रिसमे शिशावमृत कर्मवशः सुतमोदितः ।
उपनिनीषितसूनुरपि स्वयं न हि यमोऽस्य कृताकृतमीक्षते ॥११॥
इह भवेत्सुलभं न सुतेक्षणं न सुतरां सुलभं विभवेक्षणम् ।
सुतमवाप कथश्चिदयं द्विजो न खलु वीक्षितुमैष्ट सुतोदयम् ॥१२॥
मृतमदीदिहदात्मसनाभिभिः पितरमस्य शिशोर्जननी ततः ।
समनुनीतवती धवखण्डितां स्वजनता मृतिशोकहरैः पदैः ॥१३॥
कृतवती मृतचोदितमक्षमा निजजनैरपि कारितवत्यसौ ।
उपनिनीषुरभूत्सुतमात्मनः परिसमाप्य च वत्सरदीक्षणम् ॥१४॥
उपनयं किल पश्चमवत्सरे प्रवरयोगयुते सुमुहूर्तके ।
द्विजवधूर्नियता जननी शिशोर्व्यधित तुष्टमनाः सह बन्धुभिः ॥१५॥
अधिजगे निगमांश्चतुरोऽपि स क्रमत एव गुरोः सषडडकान् ।
अजनि विस्मितमत्र महामतौ द्विजसुतेऽल्पतनौ जनतामनः ॥१६॥
सहनिपाठयुता बहवः समं पठितुमैशत न द्विजसूनुना ।
अपि गुरुर्विशयं प्रतिपेदिवान्क इव पाठयितुं सहसा क्षमः ॥१७॥
अत्न किं स यदशिक्षत सर्वाश्चित्रमागमगणाननुवृत्तः ।
द्वित्रिमासपठनादभवद्यस्तत्र तत्र गुरुणा समविद्यः ॥१८॥
वेदे ब्रह्मसमस्तदडानिचये गार्ग्योपमस्तत्कथा
तात्पर्यार्थविवेचने गुरुसमप्तत्कर्मसंवर्णने ।
आसीज्जैमिनिरेव तद्वचनजप्रोद्धोधाकन्दे समो
व्यासेनैव स मूर्तिमानिव नवो वाणीविलासैर्वृतः ॥१९॥
आन्वीक्षिक्यैक्षि तन्त्रे परिचितिरतुला कापिले काऽपि लेभे
पीतं पातश्चलाम्भः परमपि विदितं भाटटघट्टार्थरत्वम् ।
यत्तैः सौख्यं तदस्यान्तरभवदमलाद्वैतविद्यासुखेऽस्मि
न्कूपे योऽर्थ ः स तीर्थे सुपयसि वितत्ते हन्त नान्तर्भवेत्किम् ॥२०॥
स हि जातु गुरोः कुले वसन्सवयोभिः सह भैक्षलिप्सया ।
भगवान्भवनं द्विजन्मनो धनहीनस्य विवेश क्स्यचित् ॥२१॥
तमवोचत तत्र सादरं यतिवर्य गृहिणः कुटुम्बिनी ।
कृतिनो हि भवादृशेषु ये वरिवस्यां प्रतिपादयन्ति ते ॥२२॥
विधिना खलु वश्चिता वयं वितरीतुं वटवे न शुक्रुमः ।
अपि भैक्षमकिश्चनत्वतो धिगिदं जन्म निरर्थकं गतम् ॥२३॥
इति दीनमुदीरयन्त्यसौ प्रददावामलकं व्रतीन्दवे ।
करुणं वचनं निशम्य सोऽप्यभवज्ज्ञाननिधिर्दयार्द्रधीः ॥२४॥
स मुनिर्मुरभित्कृटुम्बिनीं पदचित्रैर्नवनीतकोमलैः ।
मधुरैरुपतस्थिवांस्तवैर्द्विजदारिद्रयदशानिवृत्तये ॥२५॥
अथ कैटभजित्कुटुम्बिनी तटिदुद्दामनिजाडकान्तिभिः ।
सकलाश्च दिशः प्रकाशन्त्यचिरादाविरभूत्तदग्रतः ॥२६॥
अभिवन्द्य सुरेन्द्रवन्दितं पदयुग्मं पुरतः कृताज्जलिम् ।
ललितस्तुतिभिः प्रहर्षिता तमुवाच स्मितपूर्वकं वचः ॥२७॥
विदितं तव वत्स हृद्रते कृतमेभिर्न पुरा भवे शुभम् ।
अधुना मदपाडपात्रतां कथमेते महितामवाप्नुयुः ॥२८॥
इति तद्वचनं स शुश्रुवान्निजगादाम्ब मयीदमर्पितम् ।
फलमद्य ददस्व तत्फलं दयनीयो यदि तेऽहमिन्दिरे ॥२९॥
अमुना वचनेन तोषिता कमला तद्भवनं समन्ततः ।
कनकामलकैरपूरयज्जनताया हृदयं च विस्मयैः ॥३०॥
अथ चक्रभृतो वधूमये सुकृतेऽन्तर्धिमुपागते सति ।
प्रशशंसुरतीव शकरं महिमानं तमवेक्ष्य विस्मिताः ॥३१॥
दिवि क्ल्पतरुर्यथा तथा भुवि कल्याणगुणो हि शकरः ।
सुरभूसुरयोरपि प्रियः समभूदिष्टविशिष्टवस्तुदः ॥३२॥
अमरस्पृहणीयसम्पदं द्विजवर्यस्य निवेशमात्मवान् ।
स विधाय यथापुरं गुरोः सविधे शास्त्रवराण्यशिक्षत ॥३३॥
वरमेनमवाप्य भेजिरे परभागं सकलाः कला अपि ।
समवाप्य निजोचितं पतिं कमनीया इव वामलोचनाः ॥३४॥
सरहस्यसमग्रशिक्षिताखिलविद्यस्य यशस्विनो वपुः ।
उपमानकथाप्रसडमप्यसहिष्णुश्रियमन्वपद्यत ॥३५॥
जयति स्म सरोरुहप्रभमदकुण्ठीकरणक्रियाचरणम् ।
द्विजराजकरोपललितं पदयुग्मं परगर्वहारिणः ॥३६॥
जलमिन्दुमणिं स्रवेद्यदि यदि पद्मं दृषदः ततः सरः ।
यदि तत्र भवेत्कुशेशयं तदमुष्याङ्घ्रितुलामवाप्नुयात ॥३७॥
पादौ पद्मसमौ वदन्ति करिचिच्छ्रिशकरस्यानघौ
वक्तं च द्विजराज -मण्डलनिभं नैतद् द्वयं साम्प्रतम् ।
प्रेष्यः पद्मपदः किल त्रिजगति ख्यातः पदं दत्तवा-
नम्भोजे द्विजराजमण्डलशतैः प्रेष्यैरुपास्यं मुखम् ॥३८॥
मुहुः सन्तो नैजं हृदयकमलं निर्मलतरं
विधातुं योगीन्द्राः पदकमलस्मिन्निदधति ।
दुरापां शक्राद्यैर्वमति वदनं यन्नवसुधां
ततो मन्ये पद्यात्पदमधिकामिन्दोश्च वदनम् ॥३९॥
तत्वज्ञानफलेग्रहिर्घनतरच्यामोहमुष्टिन्धयो
निःशेषव्यसनोदरम्भरिरघप्राग्भारकूलङ्कषः ।
लुण्टाको मदमत्सरादिविततेस्तापत्रयारन्तुदः
पादः स्यादमितम्पचः करुणया भद्रङ्करः शकरः ॥४०॥
पादाघातस्फोटवरणकिणितकार्तान्तिकभुजं
प्रघाणव्याघातप्रणतविमतद्रोहबिरुदम् ।
परं ब्रह्मैवासौ भवति तत एवास्य सुपदं
गतापस्मारार्तीज्जगति महतोऽद्यापि तनुते ॥४१॥
प्राप्तस्याभ्युदयं नवं कलयतः सारस्वतोज्जम्भणं
स्वालोकेन विधूतविश्वतिमिरस्यासन्नतारस्य च ।
तापं नस्त्वरितं क्षिपन्ति घनतापन्नं प्रसन्ना मुने
राह्लाद च कलाधरस्य मधुराः कुर्वन्ति पादक्रमाः ॥४२॥
नतिर्दत्ते मुक्तिं नतमुत पदं वेति भगव -
त्पदस्य प्रागल्भ्याज्जगति विवदन्ते श्रुतिविदः ।
वयन्तु ब्रूमस्तद्भजनरतपादाम्बुजरजः -
परीरम्भारम्भः सपदि हृदि निर्वाणशरणम् ॥४३॥
लांशुकपल्लवावृतं विललासोरुयुगं विपश्चितः ।
वृतार्णवफेनमज्जरीच्छुरितैरावतहस्तशस्तिभृत् ॥४४॥
इदं हाटकवल्लरीत्रयीघटिता स्फाटिककूटभृत्तटी ।
टमस्य तया कटीतटी तुलिता स्यात्कलितत्रिमेखला ॥४५॥
आदाय पुस्तकवपुः श्रुतिसारमेकहस्तेन वादिकृततद्वकण्टकानाम् ।
उद्धारमारचयतीव विबोधमुद्रामुद्विभ्रता निजकरेण परेण योगी ॥४६॥
सुधीराजः कल्पद्रुमकिसलयाभौ करवरौ
करोत्येतौ चेतस्यमलकमलं यत्सहचरम् ।
रुचेश्चोरावेतावहनि किमु रात्राविति भिया
निशादेराप्रातर्निजदलकवाटं घटयति ॥४७॥
रुचिरा तदुरस्थली बभावररस्फालविशालमांसला
धरणीभ्रमणोदितश्रमात्पृथुशय्येव जयश्रियाऽश्रिता ॥४८॥
परिघपथिमापहारिणौ शुशुभाते शुभलक्षणौ भुजौ ।
बहिरन्तरशत्रुनिग्रहे विजयस्तम्भयुगीधुरन्धरौ ॥४९॥
उपवीतममुष्य दिद्युते बिसतन्तुक्रियमाणसौहृदम् ।
शरदिन्दुमयूखपाण्डिमातिशयोल्लघनजाडिकप्रभम् ॥५०॥
समराजत कण्ठकम्बुराड् भगवत्पादमुनेर्यदुद्भव;।
निनदः प्रतिपक्षनिग्रहे जयशखध्वनितामविन्दत ॥५१॥
अरुणाधरसङ्गताऽधिकं शुशुभे तस्य हि दन्तचन्द्रिका ।
नवविद्रुमवल्लरीगता तुहिनांशोरिव शारदी छविः ॥५२॥
सुकपोलतले यशस्विनः शुशुभाते सितभानुवर्चसः ।
वदनाश्रितभारतीकृते विधिसकल्पितदर्पणाविव ॥५३॥
समाजीत्तस्यास्ये सुकृतजलधेः सर्वजगतां
पयः पारावारादजनि रजनीशो बहुमतात् ।
सुधाधारोद्रारः सुसदृगनयोः किन्तु शशभृ
त्सतां तेजः पुज्जं हरति वदनं तस्य दिशति ॥५४॥
पुरा क्षीराम्भोधेरहह तनया यद्विषयता -
जुषो दीनस्याग्रे घनकनकधाराः समकिरत् ।
इदं नेत्रं पात्रं कमलनिलयाप्रीतिवितते -
र्मुनीशस्य स्तोतुं कृतसुकृत एव प्रभवति ॥५५॥
दुर्वारप्रतिपक्षदूषणसमुन्मेषक्षितौ कल्पने
सेतोरप्यनघस्य तापसकुलैणाकस्य लकारयः ।
अपन्नानतिकायविभ्रममुषः संसारिशाखामृगान्
पुष्णन्त्यच्छपयो ब्ववीचिद्वलकाराः कटाक्षाकुराः ॥५६॥
निःशकक्षतिरुक्षकण्टककुलं मी नाकदावानल
ज्वालासङ्कुलमार्तिपडिलतरं व्यध्वं धृतिध्वंसिनम् ।
संसाराकृतिमामयच्छलचलद्दर्वारदुर्वारणं
मुष्णन्ति श्रममाश्रिता नवसुधावृष्टयायिता दृष्टयः ॥५७॥
त्निपुण्ट्रं तस्याहुः सितभसितशोभि त्रिपथगां
कृपापारावारं कतिचन मुनिं तं श्रितवतीम् ।
वयं त्वेतद् ब्रूमो जगति किल तिस्रः सुरुचिरा
स्रयीमौलिव्याकृत्युपकृतिभवाः कीर्तय इति ॥५८॥
असौ शम्भोर्लीलावपुरिति भृशं सुन्दर इति
द्वयं सम्पत्ये तज्जनमनसि सिद्धं च सुगमम् ।
यदन्तः पश्यन्तः करणमदसीयं निरुपमं
तृणीकुर्वन्येते सुषममपि कामं सुमतयः ॥५९॥
अज्ञानान्तर्गहनपतितानात्मविद्योपदेशै
स्त्रातुं लोकान्भवदवशिखातापपापच्यमानान् ।
मुक्त्वा मौनं वटविटपिनो मूलतो निष्पतन्ती
शम्भोर्मूर्तिश्चरति भुवने शकराचार्यरुपा ॥६०॥
उच्चण्डाहितवावदुककुहनापाण्डित्यवैतण्डिकं
जाते देशिकशेखरे पदजुषां सन्तापचिन्तापहे ।
कातर्यं हृदि भूयसाऽकृत पदं वैभाषिकादेः कथा -
चातुर्य कलुषात्मनो लयमगाद्वैशेषिकादेरपि ॥६१॥
अमुना क्रतवः प्रसाधिताः क्रतुविभ्रंशकरः स शकर; ।
इयमेव भिदाऽनयोर्जितस्मरयोः सर्वविदोर्बुधेडययोः ॥६२॥
कलयाऽपि तुलानुकारिणं कलयामो न वयं ज्गत्तूये ।
विदुषां स्वसमो यदि स्वयं भविता नेति वदन्ति तत्र के ॥६३॥
द्युवनान्त इवामरद्रुमा अमरद्रष्विव पुष्पसश्चयाः ।
भ्रमरा इव पुष्पसश्चयेष्वतिसङ्ख्याः किल शकरे गुणाः ॥६४॥
कामं वस्तुविचारतोऽच्छिनदयं पारुष्यहिंसाक्रुधः
क्षान्त्या दैन्यपरिग्रहानृतकथालोभांस्तु सन्तोषतः ।
मात्सर्य त्वनसूयया मदमहामानौ चिरं भावित -
स्वान्योत्कर्षगुणेन तृप्तिगुणतस्तृष्णां पिशाचीमपि ॥६५॥
कामं यस्तु समूलघातमवधात्स्वार्गापवर्गापहं
रोषं यः खलु चूर्णपेषमपिषन्निः शेषदोषावहम् ।
लोभादीनपि यः परांस्तृणसमुच्छेदं समुच्चिच्छदे
स्वस्यान्तेवसतां सतां त भगवत्पादः कथं वर्ण्यते ॥६६॥
केऽपी कान्त दिवा निशाकरकरा धर्मस्य मर्मच्छिदो
मुग्धे शम्भुनवावतारसुगुरो रेते गुणानां गणाः ।
कस्मादुत्पलसन्ततिर्विकसिता विस्मेरदिग्योषिता -
मेषाऽडझरीति दिग्गजवधूप्रश्नोत्तरे रेजतुः ॥६७॥
नाक्ष्णा माक्षिकमीक्षितं क्षणमपि द्राक्षा मुहुः शिक्षिता
क्षीरेक्षू स्मुपेक्षितौ भुवि यया सा शकरश्रीगुरोः ।
कान्तानन्तदिगन्तलघनकलाजघालतत्तद्रुण -
श्रेणी निर्भरमाधुरीमदधुरा धन्येति मन्यामहे ॥६८॥
क्षान्तिश्चेद्वसुधा जहातु महतीं सर्वसहत्वप्रथां
विद्याश्चेद्विरहन्तु षण्मुखमुखाः स्वावर्गगर्वावलीम् ।
वैराग्यं यदि बादरायणियशः कार्श्य परं गाहतां
किं जल्पैर्मुनिशेखरस्य न तुलां कुत्रापि मन्यामहे ॥६९॥
या मूर्तिः क्षमया मुनीश्वरीमयी गोत्रासगोत्रायते
विद्याभिर्निरवद्यकीर्तिभिरलं भाषाविभाषयते ।
भक्ताभीप्सितकल्पनेन नितरां कल्पादिकल्पायते
कस्तां नान्यपृथग्जनैस्तुलयितुं मन्दाक्षमन्दायते ॥७०॥
न बभूव पुरातनेषु तत्सदृशो नाद्यतनेषु दृश्यते ।
भविता किमनागतेषु वा न सुमेरोः सदृशो यथा गिरिः ॥७१॥
समशोभत तेन तत्कुलं स च शीलेन परं व्यरोचत ।
अपि शीलमदीपि विद्यया ह्यपि विद्या विनयेन दिद्युते ॥७२॥
सुयशः कुसुमोच्चयः श्रयद्विबुधालिर्गुणपल्लवोद्रमः ।
अवबोधफलः क्षमारसः सुरशाखीव रराज सूरिराट् ॥७३॥
न च शेषभावी न कापिली गणिता काणभुजी न गीरपि ।
फणितिष्वितरासु का कथा कविराजो गिरि चातुरीजुषि ॥७४॥
भटटभास्करविमर्ददुर्दशामज्जदागमशिरः करग्रहा ।
हन्त शकरगुरोर्गिरः क्षरन्त्यक्षरं किमपि तद्रसायनम् ॥७५॥
जाटाटकजटाकुटीरविहरन्नैलिनी -
क्षोणीशप्रियकृन्नवावतरणावष्टम्भगुम्फच्छिदः ।
गर्जन्तोऽवतरन्ति शकरगुरुक्षोणीधरेन्द्रोदरा
द्वाणीनिर्झरिणीझराः क नु भयं दुर्भिक्षुदुर्भिक्षतः ॥७६॥
वारी चित्तमतडजस्य नगरी बोधात्मनो भूपते
र्दूरीभूतदुरन्तदुर्वदझरी हारीकृता सुरिभिः ।
चिन्तासन्ततितूलवातलहरी वेदोल्लसचातुरी
संसाराब्धितरीरुदेति भगवत्पादीयवग्वैखरी ॥७७॥
कथादर्पोत्सर्पत्कथकबुधकण्डूलरसना -
सनालाघ ः पाते स्वयमुदयमन्त्रो व्रतिपतेः ।
निगुम्फः सूक्तीनां निगमशिखराम्भोजसुरभिः
जयत्यद्वैतश्रीजय बिरुदघण्टाघणघणः ॥७८॥
कस्तूरीघनसारसौरभपरीरम्भप्रियम्भावुका -
स्तापोन्मेषमुषो निशाकरकराहङ्कारकूलङ्कषाः ।
द्राक्षामाक्षिकशर्करामधुरिमग्रामाविसंवादिनो
व्याहारा मुनिशेखरस्य न कथङ्कारं मुदे कुर्वते ॥७९॥
अद्वैते परिमुक्तकण्टकपथे कैवल्यघण्टापथे
स्वाहम्पूर्वकदुर्विकल्परहितप्राज्ञाध्वनीनाकुले ।
मस्कन्दन्मकरन्दवृन्दकुसुमस्रक्तो रणप्रकिया -
माचार्यस्य वितन्वते नवसुधासिक्ताः स्वयं सूक्तयः ॥८०॥
दूरोत्सारितदुष्टपांसुपटलीदुर्नीतयोऽनीतयो
वाता देशिकवाडयाः शुभगुणग्रामालया मालयाः ।
मुष्णन्ति श्रममुल्लसत्परिमलश्री मेदुरा मे दुरा -
यासस्याऽऽधिहविर्भुजो भावमये धीप्रान्तरे प्रान्तरे ॥८१॥
नृत्यन्त्या रसनाग्रसीमनि गिरां देव्याः किमड् घ्रिकण
न्मज्जीरोर्जितसिज्जितान्युत नितम्बालम्बिकाश्चीरवाः ।
किं वल्गत्करपद्मकडणझणत्कारा इति श्रीमतः
शकामकुरयन्ति शकरकवेः सद्युक्तयः सूक्तयः ॥८२॥
वर्षारम्भविजम्भमाणजलमुग्गम्भीरघोषोपमो
वात्यातूर्णविघूर्णदर्णवपयः कल्लोलदर्पापहः ।
उन्मीलन्नवमल्लिकापरिमलाहन्तानिहन्ता निरा -
तकः शकरयोगिदेशिकगिरां गुम्फः समुज्जम्भते ॥८३॥
हृद्या पद्यविनाकृता प्रशमिताविद्याऽमृषोद्या सुधा -
स्वाद्या माद्यदरातिचोद्यभिदुराऽभेद्या निषद्यायिता ।
विद्यानामनघोद्यमा सुचरिता साद्यापदुद्यापिनी
पद्या मुक्तिपदस्य साऽद्य मुनिवाड्नुद्यादनाद्या रुजः ॥८४॥
आयासस्य नवाकुरं घनमनस्तापस्य बीजं निजं
क्लेशानामपि पूर्वरडमलघुमस्तावनाडिण्डिमम् ।
दोषाणामनृतस्य कार्मणमसचिन्ताततेर्निष्कुटं
देहादौ मुनिशेखरोक्तिरतुलाऽहङ्कारमुत्कृन्तति ॥८५॥
तथागतपथाहतक्षपणकप्रथालक्षण -
प्रतारणहतानुवर्त्यखिलजीवसज्जीवनी ।
हरत्यतिदुरत्ययं भवभयं गुरुक्तिर्नृणा -
मनाधुनिकभारतीजरठशुक्तिमुक्तामणि ः ॥८६॥
झञ्झामारुतवेल्लितामरधुनीकल्लोलकोलाहल -
प्राग्भारैकसागर्भ्यरजरीजम्भद्वचोनिर्झरा ः ।
नैकालीकमतालिधूलिपटलीमर्मच्छितः सद्रुरो -
रुद्यद्दुर्मतिघमदुर्मति निकृन्तन्ति नः ॥८७॥
उन्मीलन्नवमल्लिसौरभपरीरम्भप्रियम्भावुकाः
मन्दारद्रुमरन्दबृन्दविलुठन्माधुर्यधुर्या गिरः ।
उद्रीर्णा गुरुणा विपारकरुणावाराकरेणाऽऽदरात्
सच्चेतो रमयन्ति हन्त मदयन्त्यामोदयन्ति द्रुतम् ॥८८॥
धारावाहिसुखानुभूतिमुनिवाग्धरासुधाराशिषु
क्रीडन्द्वैतिवचः सुकः पुनरनुक्रीडेत मूढेतरः ।
चित्रं काश्चनम्बरं परिदधच्चिते विधत्ते मुहुः
कच्चित्कच्चरदुष्पटचरजरत्कन्थानुबद्धादरम् ॥८९॥
तत्तादृक्षमुनिक्षपाकरवचः शिक्षासपक्षाशयः
क्षारं क्षीरमुदीक्षते बुधजनो न क्षौद्रमाकाङ्क्षति ।
रुक्षां क्षेपयति क्षितौ खलु सितां नेक्षुं क्षणं प्रेक्षते
द्राक्षां नापि दिदृक्षते न कदलीं क्षुद्रां जिघृक्षत्यलम् ॥९०॥
विक्रीता मधुना निजा मधुरता दत्ता मुदा द्राक्षया
क्षीरैः पात्रधियाऽर्पिता युधि जिताल्लब्धा बलदिक्षुतः ।
न्यस्ता चोरभयेन हन्त सुधया यस्मादतस्तद्रिरां
माधुर्यस्य समृद्धिरद्भुततरा नान्यत्र सा वीक्ष्यते ॥९१॥
कर्पूरेण ऋणीकृतं मृगमदेनाधीत्य सम्पादितं
मल्लीभिश्चिरसेवनादुपगतं क्रीतं तु काश्मीरजैः ।
प्राप्तं चौरतया पटीरतरुणा यत्सौरभं तद्रिरा
मक्षय्यं महि तस्य तस्य महिमा धन्योऽयमन्यादृशः ॥९२॥
अप्सां द्रप्सं सुलिप्सं चिरतरमचरं क्षीरमद्रःक्षमिक्षुं
साक्षाद्‌द्राक्षामचक्षं मधुरसमधयं प्रागविन्दं मरन्दम् ।
मोचामाचाममन्यो मधुरिमगिरमा शकराचार्यवाचा -
माचान्तो हन्त किं तैरलमपि सुधासारसीसारसीम्रा ॥९३॥
सन्तप्तानां भवदवथुभिः स्फारकर्पूरवृष्टिः
मुक्तायष्टिईः प्रकृतिविमला मोक्षलक्ष्मीमृगाक्ष्याः ।
अद्वैतात्मानवधिकसुवासारकासारहंसी
बुद्धेः शुद्धयै भवतु भगवत्पाददिव्योक्तिधारा ॥९४॥
आम्रायान्तालवला विमलतरसुरेशादिसूक्ताम्बुसिक्ता
कैवल्याशापलाशा विबुधजनमनः सालजालाधिरुढा ।
तत्वज्ञानप्रसूना स्फुरदमृतफला सेवनीया द्विजैर्या
सा मे सोमावतंसावतरगुरुवचोवल्लिरस्तु प्रशस्त्यै ॥९५॥
नृत्यद्भूरेशवल्गन्मुकुटतटरटत्स्वर्धुनीस्पर्धिनीभि -
र्वाग्भिर्न्निर्भिन्नकूलोचलदमृतसरः सारिणीधोरणीभिः ।
उद्वेलद्द्वैतवादिस्वमतपरिणताहङ्क्रियाहुङ्क्रियाभि -
र्भाति श्रीशङ्करार्यः सततमुपनिषद्वाहिनी गाहिनीभिः ॥९६॥
साहकारसुरासुरावलिकराकृष्टभ्रमन्मदर-
क्षुब्धक्षीरपयोब्धिवीचिसचिवैः सूक्तैः सुधावर्षणात् ।
जडालैर्भवदावपावकशिखाजालैर्जटालात्मनां
जन्तूनां जलदः कथं स्तुतिगिरां वैदेशिको देशिकः ॥९७॥
कलशाब्धिकचाकचिक्षमं क्षणदाधीशगदागदिप्रियम् ।
रजताद्रिभुजाभुजिक्रियं चतुरं तस्य यशः स्म राजते ॥९८॥
परिशुद्धकथासु निर्जितो यशसा तस्य कृताकनः शशी ।
स्वकलकनिवृत्तयेऽधुनाऽप्यदधौ मज्जति सेवते शिवम् ॥९९॥
धम्मिल्ले नवमल्लिवल्लिकुसुमस्रक्कल्पनाशिल्पिनो
भद्रश्रीरसचित्रचित्रितकृतः कान्ते ललाटान्तरे ।
तारावल्यनुहारिहारलतिकानिर्माणकर्माणुकाः
कण्ठे दिक्सुदृशां मुनीश्वरयशः पूराः नभ; पूरकाः ॥१००॥
उत्सडेषु दिगडना निदधते ताराः कराकर्षिकाः
रागाद् द्यौरवलम्ब्य चुम्बति वियद्रडा समालिडति ।
लोकालोकदरी प्रसीतति फणी शेषोऽस्य दत्ते रतिं
त्रैलोक्ये गुरुराजकीर्तिश शिनः सौन्दर्यमत्यद्भुतम् ॥१०१॥
सम्प्राप्ता मुनिशेखरस्य हरितामन्तेषु साङ्काशिनं
कल्लोला यशसः शशाककिराणानालक्ष्य सांहासिनम् ।
कुर्वन्ति प्रथयन्ति दुर्मदसुधावैदग्ध्यसंलोपिनं
सम्यग् घ्रन्ति च विश्वजाङ्घिकतमः सङ्घातसाङ्घातिनम् ॥१०२॥
सोत्कण्ठाकुण्ठकण्ठीरवनखवरक्षुण्णमत्तेभकुम्भ
प्रत्यग्रोन्मुक्तमुक्तामणिगणसुषमाबद्धदोर्युद्धलीला ।
मन्थाद्रिक्षुब्धदुग्धार्णवनिकटासमुल्लोल्कल्ललमैत्नी-
पात्रीभूता प्रभूता जयति यतिपतेः कीर्तिमाला विशाल ॥१०३॥
लोकालोकदरि प्रसीदसि चिरात्किं शकरश्रीगुरु -
प्रोद्यत्कीर्तिनिशाकरं प्रियतमं संश्लिष्य सन्तुष्यसि ।
त्वं चाप्युत्पलिनि प्रहृष्यसि चिरात्कस्तत्र हेतुस्तयो -
रित्थं प्रश्नगिरां परस्परमभूत्स्मेरत्वमेवोत्तरम् ॥१०४॥
दुर्वाराखर्वगर्वाहितबुधजनतातूलवातूलवेगो
निर्बाधागाधबोधामृतकिरणसमुन्मेषदुग्धाम्बुराशिः ।
निष्प्रत्यूहं प्रसर्पद्भवदवदहनोद्भूतसन्तापमेघो
जागर्ति स्फीतकीर्तिर्जगति यतिपतिः शकराचार्यवर्यः ॥१०५॥
इतिहासपुराणभारतस्मृतिशास्त्राणि पुनः पुनर्मुदा ।
विबुधैः सुबुधो विलोकयन्सकलज्ञात्वपदं प्रपेदिवान् ॥१०६॥
स पुनः पुनरैक्षतादराद्वरवैयासिकशान्तिवाक्ततीः ।
समगादुपशान्तिसम्भवां सकलज्ञत्ववदेव शुद्धताम्‌ ॥१०७॥
असत्प्रपज्जश्चतुराननोऽपि सन्नभोगयोगी पुरुषोत्तमोऽपि सन् ।
अनडजेताऽप्यविरुपदर्शनो जयत्यपूर्वो जगदद्वयीगुरुः ॥१०८॥
आलोक्याननपकजेन दधतं वाणीं सरोजासनं
शश्वत्सन्निहितक्षमाश्रियममुं विश्वम्भरं पूरुषम् ।
आर्याराधितकोमलाड् घ्रिकमलं कामद्विषं कोविदाः
शङ्कन्ते भुवि शकरं व्रतिकुलालकारमकागताः ॥१०९॥
एकस्मिन् पुरुषोत्तमे रतिमतीं सत्तामयोन्युद्भवां
मायाभिक्षुहृतामनेकपुरुषासाक्तिभ्रमान्निष्ठराम् ।
जित्वा तान् बुधवैरिणः प्रियतया प्रत्याहरद्यश्चिता
दास्ते तापसकैतवात् त्रिजगतां त्राता स नः शकरः ॥११०॥
इति श्रीमाधवीये तदाशुद्धाष्टमवृत्तगः ।
सङ्क्षेपशकरजये चतुर्थः सर्ग आभवत् ॥
आदितः श्लोकाः ३८४