०३

इति बालमृगाकशेखरे सति बालत्वमुपागते ततः ।
दिविषत्प्रवराः प्रजज्ञिरे भुवि षट् शास्त्रविदां सतां कुले ॥१॥
कमलानिलयः कलानिधेर्विमलाख्यादजनिष्ट भूसुरात् ।
भुवि पद्मपदं वदन्ति यं सविपद्येन विवादिनां यशः ॥२॥
पवमानोऽप्यजनि प्रभाकरात्सवनोन्मीलितकीर्तिमण्डलात् ।
गलहस्तितभेदवाद्यसौ किल हस्तामलकाभिधामघात् ॥३॥
पवमानदशांशतोऽजनि पवमानाऽश्चति यद्यशोम्बुधौ ।
धरणी मथिता विवादिवाक्तरणी येन स तोटकाह्वयः ॥४॥
उदभावि शिलादसूनुना मदवद्वादिकदम्बनिग्रहैः ।
समुदश्चितकीर्तिशालिनं यमुदकं ब्रुवते महीतले ॥५॥
विधिरास सुरेश्वरो गिरां निधिरानन्दगिरिर्व्यजायत ।
अरुणः समभूत्सनन्दनो वरुणोऽजायत चित्सुरवाह्वयः ॥६॥
अपरेऽप्यभवन्दिवौकसः स्वपरेर्ष्याप्रविद्विषः प्रभोः ।
चरणं परिसेवितुं जगच्छरणं भूसुरपुडवात्मजाः ॥७॥
चार्वाकदर्शनविधानसरोषधातृ -
शापेन गीष्पतिरभूद्भुवि मण्डनाख्यः ।
नन्दीश्वरः करुणयेश्वरचोदितः स -
न्नानन्दगिर्यभिधया व्यजनीति केचित् ॥८॥
अथावतीर्णस्य विधेः पुरन्घ्री साऽभूद्यदाख्योभयभारती ति ।
सरस्वती सा खलु वस्तृवृत्या लोकोऽपि तां वक्ति सरस्वतीति ॥९॥
पुरा किलाध्यैषत धातुरन्तिके सर्वज्ञकल्पा मुनयो निजं निजम् ।
वेदं तदा दुर्वसनोऽतिकोपनो वेदान्धीयन्कचिद्स्खलत्स्वरे ॥१०॥
तदा जहासेन्दुमुखी सरस्वती यदडमर्णोद्भवशब्दसन्ततिः ।
चुकोप तस्यै दहनानुकारिणा निरैक्षताक्ष्णा मुनिरुग्रशासनः ॥११॥
शशाप तां दुर्विनयेऽवनीतले जायस्व मर्त्येष्वबिभेत्सरस्वती ।
प्रसादयामास निसर्गकोपनं तत्पादमूले पतिता विषादिनी ॥१२॥
दृष्टा विषण्णां मुनयः सरस्वतीं प्रसादयाञ्चक्रुरिमं तमादरात् ।
कृतापराधा भगवन्क्षमस्व तां पितेव पुत्र विहितागसं मुने ॥१३॥
प्रसादितोऽभूदथ सम्प्रसन्नो वाण्या मुनीन्द्रैरपि शापमोक्षम् ।
ददौ यदा मानुषशकरस्य सन्दर्शनं स्याद्भवितास्यमर्त्या ॥१४॥
सा शोणतीरेऽजनि विप्रकन्या सर्वार्धवित्सर्वगुणोपपन्ना ।
यस्या बभूवुः सहजाश्च विद्याः शिरोगतं के परिहर्तुमीशाः ॥१५॥
सर्वाणि शास्त्राणी षडडवेदान्काव्यादिकान्वेत्ति परं च सर्वम् ।
तन्नास्ति नो वेत्ति यदत्र बाला तस्मादभूचित्रपदं जनानाम् ॥१६॥
सा विश्वरुपं गुणिनं गुणज्ञा मनोऽभिरामं द्विजपुडवेभ्यः ।
शुश्राव तां चापि स विश्वरुपस्तस्मात्तयोर्दर्शनलालसाऽभूत् ॥१७॥
अन्योन्यसन्दर्श्नलालसौ तौ चिन्ताप्रकर्षादधिगम्य निद्राम् ।
अवाप्य सन्दर्शनभाषणानि पुनः प्रबुद्धौ विरहाग्नितप्तौ ॥१८॥
दिदृक्षमाणावपि नेक्षमाणावन्योन्यवार्ताहॄतमानसौ तौ ।
यथोचिताहारविहारहीनौ तनौ तनुत्वं स्मरणादुपेतौ ॥१९॥
दृष्ट्रा तदीयौ पितरौ कदाचिदपृच्छतां तौ परिकर्शिताडौ ।
वपुः कृशं ते मनसोऽप्यगर्वो न व्याधिमीक्षे न च हेतुमन्यम् ॥२०॥
इष्टस्य हानेरनभीष्टयोगाद्भवन्ति दुःखानि शरीरभाजाम् ।
वीक्षे न तौ द्वावपि वीक्षमाणो विना निदानं नहि कार्यजन्म ॥२१॥
न तेऽत्यगादुद्वहनस्य कालः परावमानो न च निःस्वता वा ।
कुटुम्बभारो मयि दुःसहोऽयं कुमारवृत्तेस्तव काऽत्र पीडा ॥२२॥
न मूढभावः परितापहेतुः पराजितिर्वा तव तन्निदानम् ।
विद्वत्सु विस्पष्टतयाऽग्रपाठात्सुदुर्गमार्थादपि तर्कविद्भिः ॥२३॥
आ जन्मनो विहितकर्मनिषेवणं ते
स्वप्नेऽपि नास्ति विहितेतारकर्मसेवा ।
तस्मान्न भेयमपि नारकयातनाभ्यः
किं ते मुखं प्रतिदिनं गतशोभमास्ते ॥२४॥
निर्बन्धतो बहुदिनं प्रतिपाद्यमानौ
वक्तुं कृपाभरयुताविद्मूचतुः स्म ।
निर्बन्धतस्तव वदामि मनोगतं मे
वाच्यं न वाच्यमिति यद्वितनोति लज्जाम् ॥२५॥
शोणाख्यपुन्नदतटे वसतो द्विजस्य
कन्या श्रुतिं गतवती द्विजपुडवेभ्यः ।
सर्वज्ञतापदमनुत्तमरुपवेषां
तामुद्विवक्षति मनो भगवन्मदीयम् ॥२६॥
पुत्रेण सोऽतिविनयं गदितोऽन्वशाद् द्वौ
विप्रौ वधूवरणकर्मणि सम्प्रवीणौ
तावापतुर्द्विजगृहृं द्विजसन्दिदूक्षू
देशानतीत्य बहुलान्निजकार्यसिद्धयै ॥२७॥
भूभृन्निकेतनगतः श्रुतविश्वशास्त्रः
श्रीविश्वरुप इति यः प्रथितः पृथिव्याम् ।
तत्पादपद्मरजसे स्पृहयामि नित्यं
साहाय्यमत्र यदि तात भवान्विदध्यात् ॥२८॥
पुत्र्या वचः पिबति कर्णपुटेन ताते
श्रीविश्वरुपगुरुणा गुरुणा द्विजानाम् ।
आजग्मतुः सुवसनौ विशदाभयष्टी
सम्प्रेषितौ सुतवरोद्वहनक्रियायै ॥२९॥
तावार्च्य स द्विजवरौ विहितोपचारैरायानकारणमथो शनकैरपृच्छत् ।
श्रीविश्वरुपगुरुवाक्यत आगतौ स्व इत्यूचतुर्वरणकर्मणि कन्यकायाः ॥३०॥
सम्प्रेषितौ श्रुतवयः कुलवृत्तधर्मैः साधारणीं श्रुतवता स्वसुतस्य तेन ।
याचावहे तव सुतां द्विज तस्य हेतोरन्योन्यसङ्घटनमेतु मणिद्वयं तत् ॥३१॥
मह्यं तदुक्तमभिरोचत एव विप्रौ पृष्टा वधू मम पुनः करवाणि नित्यम् ।
कन्याप्रदानमिदमायतते वधूषु नो चेदमूर्व्यसनसक्तिषु पीडयेयुः ॥३२॥
भार्यामपृच्छदथ किं करवाव भद्रे
विप्रौ वरीतुमनसौ खलु राजगेहात् ।
एतां सुतां सुतनिभा तव याऽस्ति कन्या
ब्रूहि त्वमेकमनुमाय पुनर्न वाच्यम् ॥३३॥
दूरे स्थितिः श्रुतवयः कुलवृत्तजातं न ज्ञायते तदपि किं प्रवदामि तुभ्यम् ।
वित्तान्विताय कुलवृत्तसमन्विताय देया सुतेति विदितं श्रुतिलोकयोश्च ॥३४॥
नैवं नियन्तुमनघॆ तव शक्यमेतत्तां रुक्मिणीं यदुकुलाय कुशस्थलीशे ।
प्रादात्स भीष्मकनृपः खलु कुण्डिनेशस्तीर्थापदेशमटते त्वपरीक्षिताय ॥३५॥
किं केन सडतमिदं सति मा विचारीर्यो वैदिकीं सरणिमप्रहतां प्रयत्नात ।
प्रातिष्ठिपत्सुगतदुर्जयनिर्जयेन शिष्यं यमेनम शिषत्स च भटट्पादः ॥३६॥
किं वर्ण्यते सुदति यो भविता वरो नो
विद्याधनं द्विजवरस्य न बाह्यवित्तम् ।
याऽन्वेति सन्ततमनन्तदिगन्तभाजं
यां राजचोरवनिता न च हर्तुमीशाः ॥३७॥
वध्वर्जनावनपरिव्ययगानि तानि
वित्तानि चित्तमनिशं परिखेदयन्ति ।
चोरान्नपात्स्व्जनतश्च भयं धनानां
शर्मेति जातु न गुणः खलु बालिशस्य ॥३८॥
केचिद्धनं निदधते भुवि नोपभोगं कुर्वन्ति लोभवशगा न विदन्ति केचित् ।
अन्येन गोपितमथान्यजना हरन्ति तचेन्नदीपरिसरे जलमेव हर्तृ ॥३९॥
सर्वात्मना दुहितरो न गृहे विधेयास्ताश्चेत्पुरा परिणयाद्रज उद्रतं स्यात् ।
पश्येयुरात्मपितरौ बत पातयन्ति दुःखेषु घोरनरकेष्विति धर्मशास्त्रम् ॥४०॥
मा भूदयं मम सुता कलहः कुमारीं
पृच्छाव सा वदति यं भविता वरोऽस्या ः।
एवं विधाय समयं पितरौ कुमार्याः
अभ्याशमीयतुरितो गदितेष्टकार्यौ ॥४१॥
श्रीविश्वरुपगुरुणा प्रहितौ द्विजाती
कन्यार्थिनौ सुतनु किं करवाव वाच्यम् ।
तस्याः प्रमोदनिचयो न ममौ शरीरे
रोमाश्चपूरमिषतो बहिरुज्जगाम ॥४२॥
तेनैव सा प्रतिवचः प्रददौ पितृभ्यां तेनैव तावपि तयोर्युगलाय सत्यम् ।
आदाय विप्रमपरं पितृगेहतोऽस्यास्तौ जग्मतुर्द्विजवरौ स्वनिकेतनाय ॥४३॥
अस्माचतुर्दशदिने भविता दशम्यां
जामित्रभादिशुभयोगयुतो मुहूर्तः ।
एवं विलिख्य गणितादिषु कौशलास्या
व्याख्यापराय दिशति स्म सरस्वती सा ॥४४॥
तौ हृष्टपुष्टमनसौ विहितेष्टकार्यौ
श्रीविश्वरुपगुरुमुत्तममैक्षिषाताम् ।
सिद्धं समीहितमिति प्रथितानुभावो
दृष्ट्रैव तन्मुखमसावथ निश्चिकाय ॥४५॥
अन्यः स्वहस्तगतपत्रमदात्स पत्रं दृष्ट्रा जहास सुखवारिनिधौ ममज्ज ।
विप्रान्यथोचितमपूजयदागतांस्तान्नत्वाऽंशुकदिभिरयं बहुवित्तलभ्यैः ॥४६॥
पित्रानुशिष्टावसुधासुरशन्तितेन विज्ञापितः सुखमवाप स विश्वरुपः ।
कार्याण्यथाह पृथगात्मजनान्समेतान्बन्धुप्रियः परिणयोचितसाधनाय ॥४७॥
मौहुर्तिकैर्बहुभिरेत्य मुहूर्तकाले सन्दर्शिते द्विजवरैर्बहुविद्भिरिष्टैः ।
माडल्यवस्तुसहितोऽखिलभूषणाढयः स प्रापदक्षततनुः पृथुशोणतीरम् ॥४८॥
शोणस्य तीरमुपयातमुपाश्रृणोत्स जामातरं बहुविधं किल विष्णुमित्रः ।
प्रत्युज्जगाम मुमुदे प्रियदर्शनेन प्रावीविशद गृहममुं बहुवाद्यघोषैः ॥४९॥
दत्त्वाऽऽसनं मृदुवचः समुदीर्य तस्मै पाद्यं ददौ समधुपर्कमनर्घपात्रे ।
अर्घ्यं ददावहमियं तनया गृहास्ते गावो हिरण्यमखिलं भवदीयमूचे ॥५०॥
अस्माकमद्य पवितं कुलमादृताः स्मः सन्दर्शनं परीणयव्यपदेशतोऽभूत ।
नोचेद्भवान्बहुविदग्रसरः कचाहं भद्रेण भद्रमुपयाति पुमान्विपाकात् ॥५१॥
यद्यद्रहेऽत्र भगवन्निह रोचते ते तत्तन्निवेद्यमखिलं भवदीयमेतत् ।
वक्ष्यामि सर्वमभिलाषदं त्वदीयं युक्तं हि सन्ततमुपासितवृद्धपूगे ॥५२॥
एवं मिथः परिनिगद्य विशेषमृद्वया वाचा युतौ मुदमवापतुरुत्तमां तौ ।
अन्ये च सम्मुमुदिरे प्रियैसत्कथाभिः स्वेच्छाविहारहसनैरुभये विधेयाः ॥५३॥
कन्यावरौ प्रकृतिसिद्धसुरुपवेषौ दृष्टोभयेऽपि परिकर्म विलम्बमानाः ।
चक्रुर्विधेयमिति कर्तुमनीश्वरास्ते शोभाविशेषमपि मडलवासरेऽस्मिन् ॥५४॥
एतत्प्रभाप्रतिहतत्मविभूतिभावादाकल्पजातमपि नातिशयं वितेने ।
लोकप्रसिद्धिमनुसृत्य विधेयबुद्धया भूषां व्यधुस्तदुभये न विशेषबुद्धया ॥५५॥
पश्चात्तदुक्ताशुभयोगयुते शुभांशे मौहूर्तिकाः स्वमतितो जगृहुर्मुहूर्तम् ॥५६।
जग्राह पाणिकमलं हिममित्रसूनुः श्रीविष्णुमित्रदुहितुः करपल्लवेन ।
भेरीमृदडपटहाध्ययनाब्जघोषैर्दिडमण्डले सुपरिमूर्च्छति दिव्यकाले ॥५७॥
यं यं पदार्थमभिकामयते पुमान्यस्तं ते प्रदाय समतूतुषतां तदीडयौ ।
देवद्रुमाविव महासुमनस्त्वयुक्तौ सम्भूषितौ सदसि चेरतुरात्मलाभौ ॥५८॥
आघाय वह्रिमथ तत्र जुहाव सम्य -
ग्गृह्योक्तमार्गम्नुसृत्यज स विश्वरुपः ।
लाजाज्जुहाव च वधूः परिजिघ्रति स्म
धूमं प्रदक्षिणमथाकृत सोऽपिइ चाग्रिम् ॥५९॥
होमावसानपरितोषितविप्रवर्यः प्रस्थापिताखिलसमागतबन्धुवर्गः ।
संरक्ष्य वह्रिमनया सममग्निगेहे दीक्षाधरो दिनचतुष्कमुवास हृष्टः ॥६०॥
प्रतिष्ठमाने दयिते वरेऽस्मिन्नुपेत्य मातापितरौ वरायाः ।
आभाषिषातां श्रृणु सावधानो बालेव बाला न तु वेत्ति किश्चित् ॥६१॥
बालैरियं क्रिडति कन्दुकाद्यैर्जातक्षुधा गेहमुपैति दुःखात् ।
एकेति बाल गृहकर्म नोक्ता संरक्षणीया निजपुत्रितुल्या ॥६२॥
बालेयमड वचनैर्मृदुभिर्विधेया कार्या न रुक्षवचनैर्न करोति रुष्टा ।
केचिन्मृदूक्तिवशगा विपरीतभावाः केचिद्विहातुमनलं प्रकृतिं जनो हि ॥६३॥
कश्चिद् द्विजातिरधिगम्य कदाचिदेनामुद्वीक्ष्य लक्षणमवोचदनिन्दितात्म ।
मानुष्यमात्रजननं निजदेवभावेत्यस्माच्चा वो वचनमुग्रमयोज्यमस्याम् ॥६४॥
सर्वज्ञतालक्षणमस्ति पूर्णमेषा कदाचिद्वदतोः कथायाम् ।
तत्साक्षिभावं व्रजिताऽनवद्या सन्दिश्य नावेबमसौ जगाम ॥६५॥
श्वश्रूर्वराया वचनेन वाच्या स्नुषाभिरक्षाऽऽयतते हि तस्याम् ।
निक्षेपभूता तव सुन्दरीयं कार्या गृहे कर्म शनैः शनैस्ते ॥६६॥
बाल्येषु बाल्यात्सुलभोऽपरधः स नेक्षणीयो गृहिणीजनेन ।
वयं सुधीभूय हि सर्व एव पश्चाद्रुरुत्वं शनकैः प्रयाताः ॥६७॥
दृष्ट्राऽभिधातुमनलं च मनोऽस्मदीयं
गेहाभिरक्षणविधौ न हि दृश्यतेऽन्यः ।
दृष्ट्राऽभिधानफलमेव यथा भवेन्नो
ब्रूयात्तथेष्टजनता जननीं वरस्य ॥६८॥
वत्से त्वमद्य गमितऽसि दशामपूर्वा तद्रक्षणे निपुणधीर्भव सुभ्रु नित्यम् ।
कुर्यान्न बालविहृतिं जनतोहास्यां सा नाविवापरमियं परितोषयेत्ते ॥६९॥
पाणिग्रहात्स्वाधिपती समीरितौ पुरा कुमार्याः पितरौ ततः परम् ।
पतिस्तमेकं शरणं व्रजानिशं लोकद्वयं जेष्यसि येन दुर्जयम् ॥७०॥
पत्यावभुक्तवति सुन्दरि मा स्म भुडक्ष्व याते प्रयातमपि मा स्म भवेद्विभूषा ।
पूर्वापरादिनियमोऽस्ति निमज्जनादौ वृद्धाडानाचरितमेव परं प्रमाणम् ॥७१॥
रुष्टे धवे सति रुषेह न वाच्यमेकं क्षन्तव्यमेव सकलं स तु शाम्यतीत्थम् ।
तस्मिन्प्रसन्नवदने चकितेव वत्से सिध्यत्यभीष्टमनघे क्षमयैव सर्वम् ॥७२॥
भर्तुः समक्षमपि तद्वदनं समीक्ष्य
वाच्यो न जातु सुभगे परपूरुषस्ते ।
कि वाच्य एष रहसीति तवोपदेशः
शका वधूपुरुषयोः क्षपयेद्धि हार्दम् ॥७३॥
आयाति भर्तरि तु पुत्रि विहाय कार्य -
मुत्थाय शीघ्रमुदकेन पदावनेकः ।
कार्यो यथाभिरुचि हे सति जीवन वा
नोपेक्षणीयमणुमात्रमपीह कं ते ॥७४॥
धवे परोक्षेऽपि कदाचिदेयुर्गृहं तदीया अपि वा महान्तः ।
ते पूजनीया बहुमानपूर्व नो चेन्निराशाः कुलदाहकाः स्युः ॥७५॥
पित्रोरिव श्वशुरयोरनुवर्तितव्यं
तद्वन्मृगाक्षि सहजेष्वपि देवरेषु ।
ते स्नेहिनो हि कुपिता इतरेतरस्य
योगं विभिद्युरिति मे मनसि प्रतर्कः ॥७६॥
हितोपदेशए विनिविष्टमानसौ वधूवरौ राजगृहं समीयतुः ।
लब्धानुमानौ गुरुबन्धुवर्गतो बभूव सञ्ज्ञोभयभारतीन्ति ॥७७॥
सा भारती दुर्वसनेन दत्त पुनः प्रसन्नेन पुराऽऽत्तहर्षा ।
शापवधिं संसदि वर्त्स्यते यत्सर्वज्ञतानिर्वहणाय साक्ष्यम् ॥७८॥
स भारती साक्षिकसर्ववित्त्वोऽप्यात्मीयशक्त्या शिशुवद्विभातः ।
स्वशैशव्स्योचितमन्वकाङ्क्षीत्स केशवो यद्वदुदारवृत्तः ॥७९॥
शैशवे स्थितवता चपलाशे शार्डिणेव वटवृक्षपलाशे ।
आत्मनीदमखिलं विलुलोके भाविभूतमपि यत्खलु लोके ॥८०॥
तं ददर्श जनताऽद्भुतबालं लीलयाऽधिगतनूतनदोलम् ।
वासुदेवमिव वामनलीलं लोचनैरनिमिषैरनुवेलम् ॥८१॥
कोमलेन नवनीरदराजिश्यामलेन नितरां समराजि ।
केशवेशतमसाऽधिकमस्य केशवेशचतुरास्यसमस्य ॥८२॥
शाक्यैः पाशुपतैरपि क्षपणकैः कापालिकैर्वैष्णवै -
रप्यन्यैरखिलैः खलैः खलु खिलं दुर्वादिभिर्वैदिकम् ।
पन्थानं परिरक्षितुं क्षितितलं प्राप्तः परिक्रीडते
घोरे संसृतिकानने विचरतां भद्रङ्करः शकरः ॥८३॥
इति श्रीमाधवीये तत्तद्देवावतारार्थकः ।
सङ्क्षेपशकरजये तृतीयः सर्ग आभवत् ॥
आदितः श्लोकाः २७४