०२

ततो महेशः किल केरलेषु श्रीमद्व्षाद्रौ करुणासमुद्रः ।
पूर्णानदीपुण्यतटे स्वयम्भूलिडात्मनऽनडधगाविरासीत् ॥१॥
तच्चोदित ः कश्चन राजशेखरः स्वप्रे मुहुर्दृष्टतदीयवैभवः ।
प्रासादमेकं परिकल्प्य सुप्रभं प्रावर्तयत्तस्य समर्हणं विभोः ॥२॥
तस्येश्वरस्य प्रणतार्तिहर्तुः प्रसादतः प्राप्तनिरीतिभावः ।
कश्चित्तदभ्याशगतोऽग्रहारः कालटयभिख्योऽस्ति महान्मनोज्ञः ॥३॥
कश्चिद्विपश्चिदिह निश्चलधीविरेजे विद्याधिराज इति विश्रुतनामधेयः ।
रुद्रो वृषाद्रिनिलयो ऽवतरीतुकामो यत्पुत्रमात्मपितरं समरोचयत्स; ॥४॥
पुत्रोऽभवत्तस्य पुरात्तपुण्यैः सुब्रह्मतेजाः शिवगुर्वभिख्यः ।
ज्ञाने शिवो यो वचने गुरुस्तस्यान्वर्थनामाऽकृत लब्धवर्णः ॥५॥
स ब्रह्मचारी गुरुगेहवासी तत्कर्यकारी विहितान्नभोजी ।
सायम्प्रभातं च हुताशसेवी व्रतेन वेदं निजमध्यगीष्ट ॥६॥
क्रियाद्यनुष्ठानफलोऽर्थबोधः स नोपजायेत विना विचारम् ।
अधीत्य वेदानथ तद्विचारं चकार दुर्बोधतरो हि वेदः ॥७॥
वेदेष्वधीतेषु विचारितेऽर्थे शिष्यानुरागी गुरुराह तं स्म ।
अपाठि मत्तः सषडडवेदो व्यचारि कालो बहुरत्यगात्ते ॥८॥
भक्तोऽपि गेहं व्रज सम्प्रति त्वं जनोऽपि ते दर्शनलालसः स्यात् ।
गत्वा कदाचित्स्वजनप्रमोदं विधेहि मा तात विलम्बयस्व ॥९॥
विधातुमिष्टं यदिहापराह्णे विजानता तत्पुरुषेण पूर्वम् ।
विधेयमेवं यदिह श्व इष्टं कर्तु तदद्येति विनिश्चितोऽर्थः ॥१०॥
कालोप्तबीजादिह यादृशं स्यात्सस्यं न तादृग्विपरीतकालात् ।
तथा विवाहादि कृतं स्वकाले फलाय कल्पेत न चेद्वृथा स्यात् ॥११॥
आ जन्मनो गणयतो ननु तान्गताब्दान्माता पिता परिणयं तव कर्तुकामौ ।
पित्नोरियं प्रकृतिरेव पुरोपनीतिं यद्धयायतस्तनुभवस्य ततो विवाहम् ॥१२॥
तत्तत्कुलीनपितरः स्पृहयन्ति कामं तत्तत्कुलीनपुरुषस्य विवाहकर्म ।
पिण्डप्रदातॄपुरुषस्य ससन्ततित्वे पिण्डाविलोपमुपरी स्फुटामीक्षमाणाः ॥१३॥
अर्थावबोधनफलो हि विचार एष तच्चापि चित्रबहुकर्मविधानहेतोः ।
अत्राधिकारमधिगच्छति सद्वितीयः कृत्वा विवाहमिति वेदविदा प्रवादः ॥१४॥
सत्यं गुरो न नियमोऽसित गुरोरधीतवेदो गृही भवति नान्यपदं प्रयाति ।
वैराग्यवान्व्रजति भिक्षुपदं विवेकी नो चेद्भृही भवति राजपदं तदेतत् ॥१५॥
श्रीनैष्ठिकाश्रममहं परिगृह्य यावज्जीवं वसामि तव पार्श्वगतश्चिरायुः ।
द्ण्डाजिनी सविनयो बुध जुह्वदग्रौ वेदं पठन् पठित्विस्मृतिहानिमिच्छन् ॥१६॥
दारग्रहो भवति तावदयं सुखाय यावत्कृतोऽनुभवगोचरतां गतः स्यात् ।
पश्चाच्छ्नैर्विरसतामुपयाति सोऽयं किं निह्रुषे त्वननुभूतिपदं महत्मन् ॥१७॥
यागोऽपि नाकफलदो विधिना कृतश्चेत्‌
प्रायः स्मग्रकरणं भुवि दुर्लभं तत् ।
वृष्टयादिवन्न हि फलं यदि कर्मणि स्यात्
दिष्टया यथोक्तविरहे फलदुर्विधत्वम् ॥१८॥
निःस्वो भवेद्यदि गृही निरयी स नुनं
भोक्तुं न दातुमपि यः क्षमतेऽणुमात्नम् ।
पूर्णेपि पूर्तिमभिमन्तुमशक्रुवन्यो
मोहेन शं न मनुते खलु तत्र तत्र ॥१९॥
यावत्सु सत्सु परिपूर्तिरथो अमीषां साधो गृहोपकरणेषु सदा विचारः ।
एकत्र संहतवतः स्थितपूर्वनाशस्तचापयाति पुनरप्यपरेण योगः ॥२०॥
एवं गुरौ वदति तज्जनको निनीषुरागच्छदत्र तनयं स्वगृहं गृहेशः ।
तेनानुनीय बहुलं गुरवे प्रदाप्य यत्नान्निकेतनमनायि गृहितविद्यः ॥२१॥
गत्वा निकेतनमसौ जननीं साऽऽलिडय तद्विरहजं परितापमौज्झत् ।
प्रायेण चन्दनरसादपि शीतलं तद्यत्पुत्रगात्रपरिरम्भणनामधेयम् ॥२२॥
श्रुत्वा गुरोः सदनतश्चिरमागतं तं तद्वन्धौरागमदथ त्वरितेक्षणाय ।
प्रत्युद्रमादिभिरसावपि बन्धुतायाः सम्भावनां व्यधित वित्तकुलानुरुपाम् ॥२३॥
वेदे पदक्रमजटादिषु तस्य बुद्धिं संवीक्ष्य तज्जनयिता बहुशोऽप्यपृच्छत् ।
यस्याभवत्प्रथितनाम वसुन्धरायां विद्याधिराज इति सडतवाच्यमस्य ॥२४॥
भाट्टे नये गुरुमते कणभुडा तादौ
प्रश्नं चकार तनयस्य मतिं बुभुत्सु ः ।
शिष्योऽप्युवाच नतपुर्वगुरुः समाधिं
पित्नोदितः स्मितमुखो हसिताम्बुजास्यः ॥२५॥
वेदे च शास्त्रे च निरीक्ष्य बुद्धिं प्रश्नोत्तरादावपि नैपुणीं ताम् ।
दृष्ट्रा तुतोषातितरां पिताऽस्य स्वतः सुखा या किमु शास्त्रतो वाक् ॥२६॥
कन्यां प्रदातुमनसो बहवोऽपि विप्रास्तन्मन्दिरं प्रति ययुर्गुणपाशकृष्टाः ।
पूर्व विवाहसमयादपि तस्य गेहं सम्बन्धवत्किल बभूव वरीतुकामैः ॥२७॥
बह्नर्थदायिषु बहुष्वपि सत्सु देशे कन्याप्रदातृषु परीक्ष्य विशिष्टजन्म ।
कन्यामयाचत सुताय स विप्रवर्यो विप्रं विशिष्टकुलजं प्रथितानुभावः ॥२८॥
कन्यापितुर्वरपितुश्च विवाद आसीदित्थं तयोः कुलजुषोः प्रथितोरुभूत्योः ।
कार्यस्त्वया परिणयो गृहमेत्य पुत्रीमानीय सद्म तनयाय सुता प्रदेया ॥२९॥
सकल्पिताद् द्विगुणमर्थमहं प्रदास्ये मद्रेहमेत्य परिणीतिरियं कृता चेत् ।
अर्थ विना परिणयं द्विज कारयिष्ये पुत्रेण मे गृहगता यदि कन्यका स्यात् ॥३०॥
तेनानुनीतो वरतातभाषितं द्विजोऽनुमेने वररुपमोहितः ।
दृष्टो गुणः संवरणाय कल्पते मन्त्रोऽभिजापाचिरकालभावितः ॥३२॥
विद्याधिराजमघपण्डितनामधेयौ सम्प्रत्ययं व्यतनुतामभिपूज्य दैवम् ।
सम्यडमुहूर्तमवलम्ब्य विचारणीया मौहूर्तिका इति परस्परमूचिवांसौ ॥३३॥
उद्वाह्य शास्त्रविधिना विहिते मुहूर्ते तौ सम्मुदं बहुमवापतुराप्तकामौ ।
तत्नागतो भृशममोदत बन्धुवर्गः किं भाषितेन बहुना मुदमाप वर्गः ॥३४॥
तौ दम्पती सुवसनौ शुभदन्तपडी सम्भूषितौ विकसिताम्बुजरम्यवक्तौ ।
सव्रीडहासमुखवीक्षणसम्प्रहृष्टौ देवाविवापतुरनुत्तमशर्म नित्यम् ॥३५॥
अग्रीनथाधित महोत्तरयागजातं कर्तु विशेषकुशलैः सहितो द्विजेशः ।
तत्तत्फलं हि यदनाहितहव्यवाहः स्यादुत्तरेषु विहितेष्वपि नाधिकारी ॥३६॥
यागैरनेकैर्बहुवित्तासध्यैर्विजेतुकामो भुवनान्ययष्ट ।
व्यस्मारि देवैरमृतं तदाशैर्दिने दिने सेवितयज्ञभागैः ॥३७॥
सन्तर्पयन्तं पितृदेवमानुषांस्तत्तत्पदार्थैरभिवाञ्छितैः सह ।
विशिष्टवित्तैः सुमनोभिरश्चितं तं मेनिरे जडमकल्ल्पपादपम् ॥३८॥
परोप्कारव्रतिनो दिने दिने व्रतेन वेदं पठतो महात्मनः ।
श्रुतिस्मृतिप्रोदितकर्म कुर्वतः समा व्यतीयुर्दिनमाससम्मिताः ॥३९॥
रुपेषु मारः क्षमया वसुन्धरा विद्यासु वृद्धो धनिनां पुरःसरः ।
गर्वानभिज्ञो विनयी सदा नतः स नोपलेभे तनयाननं जरन् ॥४०॥
गावो हिरण्यं बहुसस्यमालिनी वसुन्धरा चित्रपदं निकेतनम् ।
सम्भावना बन्धुजनैश्च सङ्गमो न पुत्रहीनं बहवोऽप्यमूमुहन् ॥४१॥
अस्यामजाता मम सन्ततिश्चेच्छरद्यवश्य़ं भवितोपरिष्टात् ।
तत्राप्यजाता तत उत्तरस्यामेवं स कालं मनसा निनाय ॥४२॥
खिन्दन्मनाः शिवगुरुः कृतकार्यशेषो जायामचष्ट सुभगे किमतः परं नौ ।
साडं वयोऽर्धमगमत्कुलजे न दृष्टं पुत्राननं यदिहलोक्यमुदाहरन्ति ॥४३॥
एवं प्रिये गतवतोः सुतदर्शनं चेत्पश्चत्वमैष्यदथ नौ शुभमापतिष्यत् ।
अस्याभ्युपायमनिशं भुवि वीक्षमाणो नेक्षे ततः पितृजनिर्विफला ममाभूत् ॥४४॥
भद्रे सुतेन रहितौ भुवि के वदन्ति नौ पुत्रपौत्रसरणिक्रमतः प्रसिद्धिः ।
लोके न पुष्पफलशून्यमुदाहरन्ति वृक्षं प्रवालप्रमये फलितं विहाय ॥४५॥
इतीरिते प्राह तदीयभार्या शिवाख्यकल्पद्रममाश्रयावः ।
तत्सेवनान्नौ भविता सुनाथ फलं स्थिरं जडमरुपमैशम् ॥४६॥
भक्तेप्सितार्थपरिकल्पनकल्पवृक्षं देवं भजाव कपितः सकलार्थसिद्धयै ।
तत्रोपमन्युमहिमा परमं प्रमाणं नो देवतासु जडिमा जडिमा मनुष्ये ॥४७॥
तम्योपधाम किल सन्निहिताऽऽपगैका
स्रात्वा सदाशिवमुपास्त जले स तस्याः ।
कन्दाशनः कतिचिदेव दिनानि पूर्व
पश्चात्तदा स शिवपादयुगाब्जभृडः ॥४९॥
जायाऽपि तस्य विमला नियमोपतापैश्चिक्लेश कायमनिशं शिवमर्चयन्ती ।
क्षेत्रे वृषस्य निवसन्तमजं स भर्तुः कालोऽत्यगादिति तयोस्तपतोरनेकः ॥५०॥
देवः कृपापरवशो द्विजवेषधारी प्रत्यक्षतां शिवगुरुं गत आत्तनिद्रम् ।
प्रोवाच भोः किमभिवाञ्छसि किं तपस्ते पुत्रार्थितेति वचनं स जगाद विप्रः ॥५१॥
देवोऽप्यपृच्छ्दथ तं द्विज विद्धि सत्यं सर्वज्ञ्मेकमपि सर्वगुणोपपन्नम् ।
पुत्रं ददान्यथ बहून्विपरीतकांस्ते भूर्यायुषस्तनुगुणानवदद द्विजेशः ॥५२॥
पुत्रोऽस्तु मे बहुगुण; प्रथितानुभावः सर्वज्ञतापदमितीरित आबभाषे ।
दद्यामुदीरितपदं तनयं तपो मा पूर्णो भविष्यसि गृहं द्विज गच्छ दारैः ॥५३॥
आकर्णयन्निति बुबोध स विप्रवर्यस्तं चाब्रवीन्निजकलत्रमनिन्दितात्मा ।
स्वप्रं शशंस वनितामणिरस्य भार्या सत्यं भविष्यति तु नौ तनयो महात्मा ॥५४॥
तौ दम्पती शिवपरौ नियितौ स्मरन्तौ स्वप्रेक्षितं गृहगतौ बहुदक्षिणान्नैः।
सन्तर्प्य विप्रनिकरं तदुदीरिताभिराशीर्भिरापतुरनल्पमुदं विशुद्धौ ॥५५॥
तस्मिन्दिने शिवगुरोरुपभोक्ष्यमाणे भक्ते प्रविष्टमभवत्किल शैवतेजः ।
भुक्तान्नविप्रवचनादुपभुक्तशेषं सोऽभुक्तः साऽपि निजभर्तृपदाब्जभृडी ॥५६॥
गर्भ दधार शिवगर्भमसौ मृगाक्षी गर्भोऽप्यवर्धत शनैरभवच्छरीरम् ।
तेजोऽतिरेक विनिवारितदृष्टिपातविश्वं रवेर्दिवसमध्य इवोग्रतेजः ॥५७॥
गर्भालसा भगवती ग्तिमान्द्यमीषदापेति नाद्भुतमिदं धरते शिवं या ।
यो विष्टपानि बिभृते हि चतुर्दशापि यस्यापि मूर्तय इमा वसुधाजलाद्याः ॥५८॥
संव्याप्तवानपि शरीरमशेषमेव नोपास्तिमाविरस्कावकृतात्र काञ्चित् ।
यत्पूर्व्मेव महसा दुरतिक्रमेण व्याप्तं शरीरमदसीयमनुष्य हेतोः ॥५९॥
रम्याणि गन्धकुसुमान्यपि गर्धिमस्यै नाधातुमैशत भरात्किमु भूषणानि ।
यद्यद्रौरुत्वपदमस्ति परार्थजातं ततद्विधारणविधावलसा बभूव ॥६०॥
तां दौहृदं भृशमबाधत दुः शरारिः प्रायः परं किल न मुश्चति मुश्चतेऽपि ।
आनीतदुर्लभमपोहति याचतेऽन्यतच्चाप्यपोह्य पुनरर्दति साऽन्यवस्तु ॥६१॥
तां बन्धुताऽऽगमदुपश्रुतदोहदार्तिरादाय दुर्लभमनर्घ्यमपूर्ववस्तु ।
आस्वाद्य बन्धुजनदत्तमसौ जहर्ष हा हन्त गर्भधरणं खलु दुःखहेतुः ॥६२॥
मानुष्यधर्ममनुसृत्य मयेदमुक्तं काऽपि व्यथा शिवमहोभरणे च वध्वाः ।
सर्वव्यथाव्यतिकरं परिहर्तुकामा देवं भजन्त इति तत्त्वविदां प्रवादः ॥६३॥
उक्ष्णा निसर्गधवलेन महीयसा सा स्वात्मानमैक्षत समूढमुपात्तनिद्रा ।
सङ्गीयमानमपि गोतबिशारदाढयैर्विद्याधरप्रभृतिभिर्विनयोपयातैः ॥६४॥
आकर्णयज्जय जयेति वरं दधाना
रक्षेति शद्वमलवलोकय मा दृशेति ।
आकर्ण्य नोत्थितवती पुरुक्तशब्दं
सा विस्मिता किल श्रृणोति निरीक्षमाणा ॥६५॥
नर्मोक्तिकृत्यामपि खिद्यमाना किश्चापि चश्चत्तरमश्चरोहे ।
जित्वा मुदाऽन्यानतिहृद्यविद्यासिंहासनेऽसौ स्थितिमीक्षते स्म ॥६६॥
समानता सात्विकवृत्तिभाजां विरागता वैषयिकप्रवृत्तौ ।
तस्याः स्त्रिया गर्भगपुत्रचित्रचरित्रशंसिन्यजनिष्ट चेष्टा ॥६७॥
तद्रोमवल्ली रुरुचे कुचाद्र्यावृण्वत्प्रभाधुन्युरुशैवलालिः ।
यत्नाच्छिशोरस्य कृते प्रशस्तो न्यस्तो विधात्रेव नवीनवेणुः ॥६८॥
पयोधरद्वन्द्वमिषादमुष्याः पयः पिबत्यर्थविधानयोग्यौ ।
कुम्भौ नवीनामृतपूरितौ द्वावम्भोजयोनिः कलयाम्बभूव ॥६९॥
द्वैतप्रवादं कुचकुम्भमध्ये मध्ये पुनर्माध्यमिकं मतं च ।
सुभ्रूमणेर्गर्भग एव सोऽर्भो द्राग्गर्हयामास महात्मगर्ह्यम् ॥७०॥
लग्रे शुभे शुभयुते सुषुवे कुमारं श्रीपार्वतीव सुखिनी शुभवीक्षिते च ।
जाया सती शिवगुरो र्निजतुडसंस्थे सुर्ये कुजे रविसुतै च गुरौ च केन्द्रे ॥७१॥
दृष्ट्रा सुतं शिवगुरुः शिववारिराशौ
मग्रोऽपि शक्तिमनुसृत्य जले न्यमाङ्क्षीत् ।
व्यश्राणयब्दहु धनं वसुधाश्च गाश्च
जन्मोक्तकर्मविधये द्विजपुङ्गवेभ्यः ॥७२॥
तस्मिन्दिने मृगकरीन्द्रतरक्षुसिहपर्पाखुमुख्यबहुजन्तुगणा द्विषन्तः ।
वैरं विहाय सह चेरुरतीव हृष्टाः कण्डूमपाकृषत साधुतया निघृष्टाः ॥७३॥
वृक्षा लताः कुसुमाराशिफलान्यमुश्चन्नद्यः प्रसन्नसलिला निखिलास्तथैव ।
जाता मुहुर्जलधरोऽपि निजं विकारं भूभृद्रणादपि जलं सहसोत्पपात ॥७४॥
अद्वैतवादिविपरीतमतावलम्बिहस्ताग्रवर्तिवरपुस्तकमप्यकस्मात् ।
उच्चैः पपात जहसुः श्रुतिमस्तकानि श्रीव्यासचित्तकमलं विकचीबभूव ॥७५॥
सर्वाभिराशाभिरलं प्रसेदे वातैरभाव्यद्भुतदिव्यगन्धैः।
प्रजज्वलेऽपि ज्वलनैस्तदानीं प्रदक्षिणीभूतविचित्रकीलैः ॥७६॥
सुमनोहरगन्धिनी सतां सुमनोवद्विमला शिवङ्करी ।
सुमनोनिकरप्रचोदिता सुमनोवृष्टिरभूत्तदाऽद्भुतम् ॥७७॥
लोकत्नयी लोकदृशेव भास्वता महीधरेणेव मही सुमेरुणा ।
विद्या विनीत्येव सती सुतेन सा रराज तत्तादृशराजतेजसा ॥७८॥
सत्कारपूर्वमभियुक्तमुहूर्तवेदिविप्राः शशंसुरभिवीक्ष्य सुतस्य जन्म ।
सर्वज्ञ एव भविता रचयिष्यते च शास्त्रं स्वतन्त्रमथ वागधिपांश्च जेता ॥७९॥
कीर्ति स्वकां भुवि विधास्यति यावदेषा
किं बोधितेन बहुना शिशुरेष पूर्णः ।
नापृच्छि जीवितमनेन व तैर्न चोक्तं
प्रायो विदन्नपि न वक्त्यशुभं शुभज्ञः ॥८०॥
तज्ज्ञातिबन्धूसुहृदिष्टजनाडनास्तास्तं सूतिकागृहनिविष्टमथो निदध्युः ।
सोपायनास्तमभिवीक्ष्य यथा निदाघे चन्द्रं मुदं ययुरतीव सरोजवक्तम् ॥८१॥
तत्सूतिकागृहमवैक्षत न प्रदीपं तत्तेजसा यदवभातमभूत्क्षपायाम् ।
आश्चर्यमेतदजनिष्ट समस्तजन्तोस्तन्मन्दिरं वितिमिरं यदभूददीपम् ॥८२॥
यत्पश्यता शिशुरसौ कुरुते शमग्र्यं तेनाकृतास्य जनकः किल शकराख्याम् ।
यद्वा चिराय किल शकरसम्प्रसादाज्जातस्ततो व्यधित शकरनामधेयम् ॥८३॥
सर्व विदन्सकलशक्तियुतोऽपि बालो मानुष्यजातिमनुसृत्य चचार तद्वत् ।
बालः शनैर्हसितुमारभत क्रमेण स्रप्तुं शशाक गमनाय पदाम्बुजाभ्याम् ॥८४॥
बालेऽथ मश्चे किल शायितेऽस्मिन्सतां प्रसन्नं हॄदयं बभूव ।
संवीक्षमाणे मणिगुच्छवर्य विद्वन्मुखं हन्त विलीनमासीत् ॥८५॥
सन्ताडायन्हन्त शनैः पदाभ्यां पर्यकवर्य कमनीयशय्यम् ।
बिभेद सद्यः शतधा समूहान्विभेदवादीन्द्रमनोरथानाम् ॥८६॥
द्वित्राणि वर्णानि वदत्यमुष्मिन्द्वैतिप्रवीरा दधुरेव मौनम् ।
मुदा चलत्यड् घ्रिसरोरुहाभ्यां दिशः पलायन्त दशापि सद्यः ॥८७॥
उदचारयदर्भको गिरः पदचारानतनोदनन्तरम् ।
विकलोऽभ्वदादिमात्तयोः पिकलोकश्चरमान्मरालकः ॥८८॥
नवविद्रुमपल्लवास्तृतामिव काश्मीरपरागपाटलाम् ।
रचयन्नचलां पदत्विषा स चचारेन्दुनिभः शनैः शनैः ॥८९॥
मूर्धनि हिमकरचिह्रं निटिले नयनाडमंसयोः शूलम् ।
वपुषि स्फटिकसवर्ण प्राज्ञास्तं मेनिरे शम्भुम् ॥९०॥
राज्यश्रीरिव नयको विदस्य राज्ञो विद्येव व्यसनदवीयसो बुधस्य ।
शुभ्रांशेश्छविरिव शारदस्य पित्रोः सन्तोषैः सह ववृधे तदीयमूर्तिः ॥९१॥
नागेनोरपि चामरेण चरणे बालेन्दुना फालके
पाण्योश्चक्रगदाधनुर्डमरुकैर्मूर्घ्रि त्रिशुलेन च ।
तत्तस्याद्भुतमाकलय्य ललितं लेखाकृते लाञ्छितं
चित्रं गात्रममंस्त तत्र जनता नेत्रैर्निमेषोज्झितैः ॥९२॥
सर्गे प्राथमिके प्रयाति विरतिं मार्गे स्थिते दैर्गते
स्वर्गे दुर्गमतामुपेयुषि भृशं दुर्गेऽपवर्गे सति ।
वर्गे देहभृतां निसर्गमलिने जातोपसर्गेऽखिले
सर्गे विश्वसृजस्तदीयवपुषा भर्गोऽवतीर्णो भुवि ॥९३॥
इति श्रीमाधवीये तदवतारकथापरः ।
सङ्क्षेपशकरजये सर्गः पूर्णो द्वितीयकः ॥
आदितः श्लोकाः १९१