०१

प्रणम्य परमात्मानं श्रीविद्यातीर्थरुपिणम् ।
प्राचीनशडरजये सारः सङ्गॄह्नाते स्फ़ुटम् ॥१ ॥
यद्वद्घटानां पटलो विशालो विलोक्यतेऽल्पे किल दर्पणेऽपि ।
तद्वन्मदीये लघुसङ्ग्रहेऽस्मिन्नुदीक्ष्यतां शाडरवाक्यसारः ॥२॥
यथाऽतिरुच्ये मधुरेऽपि रुच्युत्पादाय रुच्यान्तरयोजनाऽर्हा ।
तथेष्यतां प्राक्कविह्नद्येष्वेषाऽपि मत्पद्यनिवेशभङ्गी ॥३॥
स्तुतोऽपि सम्यक्कविभिः पुराणैः कृत्याऽपि नस्तुष्यतु भाष्यकारः ।
क्षीराब्धिवासी सरसीरुहाक्षः क्षीरं पुनः किं चकमे न गोष्ठे ॥४॥
पयोब्धिविवरीसुनिःसृतसुधाझरीमाधुरी-
धुरीणभणिताधरीकॄतफ़णाधराधीशितुः ।
शिवडरसुशडराभिघजगद्रुरोः प्रायशी
यशो ह्नदयशोधकं कलयितुं समीहामहे ॥५॥
क्केमे शडरसद्रुरोर्गुणगणा दिग्जालकूलडषाः
कालोन्मीलितमालतीपरिमलावष्टम्भमुष्टिङ्घयाः ।
काहं हन्त ताथऽपि सदुरुकृपापीयूषपारम्परी-
मग्नोग्नकटाक्षवीक्षणबलादस्ति प्रशस्ताऽर्हता ॥६॥
धन्यम्मन्यविवेकशून्यसुजनम्मन्याब्धिकन्यानटी-
नृत्योन्मत्तनराधमाधमकथांसम्मर्ददुष्कर्दमैः ।
दिग्धां मे गिरमद्य शडरगुरुक्रीडासमुद्यद्यशः-
पारावारसमुच्चलज्जलझरैः सङ्क्षालयामि स्फ़ुटम् ॥७॥
बन्ध्यासूनुखरीविषाणसदृशक्षुद्रक्षितीन्द्रक्षमा-
शौर्यौदार्यदयादिवर्णनकळादुर्वासनावासिताम् ।
मद्वाणीमधिवासयामि यमिनस्त्रैलोक्यरड्स्थली-
नॄत्यत्कीर्तिनटीपटीरपटली चूर्णैरर्विकीर्णैः क्षितौ ॥८॥
पीयूषद्युतिखण्डमण्डनकृपारुपान्तरश्रीगुरु-
प्रेम्स्थेमसमर्हणार्हमधुरव्याहारसूनोत्करः-
प्रौढोऽयं नवकालिदासकवितासन्तानसन्तानको
दद्यादद्य समुद्यतः सुमनसामामोदपारम्परीम् ॥९॥
सामोदैरनुमोदिता मॄगमदैरानन्दिता चन्दनै-
र्मन्दारैरभिवन्दिता प्रियगिरा काश्मीरजैः स्मेरिता ।
वागोषा नवकालिदासविदुषो दोषोज्झिता दुष्कवि-
व्रातैर्निष्करुणैः क्रियेत विकृता धेनुस्तुरुष्कैरिव ॥१०॥
यद्वा दीनदयालवः सह्नदयाः सौजन्यकल्लोलिनी-
दोलन्दोलनखेलनैकरसिकखान्ताः समन्तादमी ।
सन्तः सन्ति परोक्तिकजुषः किं चिन्तयाऽनन्तया
यद्वा तुष्यति शडरः परगुरुः कारुण्यरत्नाकरः ॥११॥
उपक्रम्य स्तोतुं कतिचन गुणात्र्छडरगुरोः
प्रभग्नाः श्र्लोकार्धे कतिचन तदर्धार्धरचने ।
अहं तुष्टूषुस्तानहह कलये शीतकिरणं
कराभ्यामाहर्तु व्यवसितमतेः साहसिकताम् ॥१२॥
तथाऽप्युज्जृम्भन्ते मयि विपुकदुग्धाब्धिहरी-
ललत्कल्लोलालीलसितपरिहासैकरसिकाः ।
अमी मूकान्वाचालयितुमपि शत्त्का यतिपतेः
कटाक्षाः किं चित्रं भृशमघटिताभीष्टघटने ॥१३ ॥
अस्म ज्जिह्नाग्रसिंहासनमुपनयतु खोक्तिधारामुदारा-
मद्वैताचार्यपादस्तुतिकृतसुकृतोदारता शारदाम्बा ।
नॄत्यन्मॄत्युत्र्जयोच्चैर्मुकुटतटकुटी नि-स्त्रवत्स्वःस्त्रत्रन्ती
कल्लोलोद्वेलकोलाहलमदलहरीखण्डिपाण्डित्यह्नद्याम् ॥१४॥
क्केदं शडकरसदुरोः सुचरितं काहं वराकी कथं
निर्बध्रासि चिरार्जितं मम यशः किं मज्जयस्यम्बुघौ ।
इत्युक्तवा चपलां पलायितवतीं वाचं नियुडेः बलात्
प्रत्याह्नत्य गुणस्तुतौ कविगणश्र्चित्रं गुरोर्गौरवम् ॥१५॥
रुक्षैकाक्षरवाडनिघण्टुशरणैरौणादिकप्रत्यय-
प्रायैर्हन्त यडन्तदन्तुरतरैर्दुर्बोधद्वरान्वयैः ।
क्रराणां कवितावतां कतिपयैः कष्टेन कॄष्टैः पदै-
र्हाहा स्याद्वशगा किरातविततेरेणीव वाणी मम ॥१६॥
नेता यत्रोल्लसति भगवत्पादसञ्ज्ञो महेशः
शान्तिर्यत्र प्रकचति रसः शेषवानुज्वला द्यैः ।
यत्राविद्याक्षतिरपि फ़लं तस्य काव्यस्य कर्ता
धन्यो व्यासाचलकविवरस्तत्कॄतिजज्ञाश्र्च धन्याः ॥१७॥
तत्रादिम उपोद्धातो द्वितेये तु तदुभ्दवः ।
तृतीये तत्तदमॄतान्धोवतारनरुपणम् ॥१८॥
चतुर्थसर्गे तच्छुद्धाष्टमप्रावचरितं स्थितम् ।
पत्र्चमे तद्योग्यसुखाश्रमप्राप्तिनिरुपणम् ॥१९॥
महताऽनेहसा यैषा सम्प्रदायागता गता ।
तस्याः शुद्धात्मविद्यायाः षष्ठे सर्गे प्रतिष्ठितिः ॥२०॥
तद्वयासाचार्यसन्दर्शविचित्रं सप्तमे स्थितम् ।
स्थितोऽष्टमे मण्डनार्यसंवादो नवमे मुनेः ॥२१॥
वाणीसाक्षिकसार्वज्ञनिर्वाहोपायाचिन्तनम् ।
दशमे योगशक्तया भूपतिकायप्रवेशनम् ॥२२॥
बुद्धवा मीनध्वजकलास्तत्प्रसडप्रपत्र्चनम् ।
सर्ग एकादशे तूग्रभैरवाभिधनिर्जयः ॥२३॥
द्वादशे हस्तधात्र्यार्यतोटको भयसंश्रयः ।
वार्तिकान्तब्रह्नाविद्याचालनं तु त्रयोदशे ॥२४॥
चतुर्दशे पद्यपादतीर्थयात्रानिरुपणम् ।
सर्गे पत्र्चदशे तूक्तं तदाशाजयकौतुकम् ॥२५॥
षोडशे शारदापीठवासस्तस्य महात्मनः ।
इति षोडशभिः सगैर्व्युत्पाद्या शाडरी कथा ॥२६॥
सैषा कलिमलच्छेत्री सकॄच्छ्रुत्याऽपि कामदा ।
नानाप्रश्रोत्तरै रम्या विदामारभ्यते मुदे ॥२७॥
एकदा देवता रुप्याचलस्थमुपतस्थिरे ।
देवदेवं तुषारांशुमिव पूर्वाचलस्थितम् ॥२८॥
प्रसादानुमितस्वार्थसिद्धयः प्रणिपत्य तम ।
मुकुलीकृतहस्ताब्जा विनयेन व्यजिज्ञपन् ॥२९॥
विज्ञातमेव भगवन्विदद्यते यद्धिताय नः ।
वत्र्चयन्सुगतान् बुद्धवपुर्धारी जनार्दनः ॥३०॥
तत्प्रणीतागमालभ्बैर्बैर्दर्शनदूषकैः ।
व्याप्तेदानीं प्रभो धात्री रात्रिः सन्तमसैरिव ॥३१॥
वर्णाश्रमसमाचारान्द्विषन्ति ब्रह्मविद्विषः ।
ब्रुवन्त्याम्नायवचसां जीविकामात्रतां प्रभो ॥३२॥
न सन्ध्यादीनि कर्माणि न्यासं वा न कदाचन ।
करोति मनुजः कश्र्चित्सर्वे पाखण्डतां गताः ॥३३॥
*श्रुते पिदधति श्रोत्रे क्रतुरित्यक्षरद्वये ।
क्रियाः कर्थ प्रवर्तेरन् कथं क्रतुभुजो वयम् ॥३४॥
शिवविष्ण्त्रागमपरैर्लिड्रचक्रादिचिह्नितैः ।
पाखण्डैः कर्म सैन्यस्तं कारुण्यमिव दुर्जनैः ॥३५॥
अनन्येनैव भावेन गच्छन्त्युत्तमपूरुषम् ।
श्रुतिः साध्वी मदक्षीबैः का वा शावयैर्न दूषिता ॥३६॥
सद्यः कॄत्त द्विजशिरःपडजार्चितभैरवैः ।
न ध्वस्ता लोकमर्यादा का वा कापालिकाधमैः ॥३७॥
अन्येऽपि बहवो मार्गाः सन्ति भूमौ सकण्टकाः ।
जनैर्येषु पदं दत्त्वा दुरन्तं दुःखमाप्यते ॥३८॥
तभ्दवान् लोकरक्षार्थमुत्साद्य निखिलान् खलान् ।
वर्त्म स्थापयतु श्रौतं जगद्येन सुखं व्रजेत् ॥३९॥
इत्युक्त्वोपरतान्देवानुवाच गिरिजाप्रियः ।
मनोरथं पूरयिष्ये मानुष्यमवलम्ब्य वः ॥४०॥
दुष्टाचारविनाशाय धर्मसंस्थापनाय च ।
भाष्यं कुर्वन्ब्रह्मसूत्रतात्पर्यार्थविनिर्णयम् ॥४१॥
मोहनप्रकृतिद्वैध्वान्तमध्याह्रभानुभिः ।
चतुर्भिः सहितः शिष्यैश्चतुरैर्हरिवद्भुजैः ॥४२॥
यतीन्द्रः शकरो नाम्रा भविष्यामि महीतले ।
मद्वत्तथा भवन्तोऽपि मानुषीं तनुमाश्रिताः ॥४३॥
तं मामनुसरिष्यन्ति सर्वे त्रिदिववासिनः ।
तदा मनोरथ ःपूर्णो भवतां स्यान्न संशयः ॥४४॥
ब्रुवन्नेवं दिविषदः कटाक्षानन्यदुर्लभान् ।
कुमारे निदधे भानुः किरणानिव पकजे ॥४५॥
क्षीरनीरनिधेर्वीचिसचिवान् प्राप्य तान् गुहः ।
कटाक्षान्मुमुदे रश्मीनुदन्वानैन्दवानिव ॥४६॥
अवदन्नन्दनं स्कन्दममन्दं चन्द्रशेखरः ।
दन्तचन्द्रातपानन्दिवॄन्दारकचकोरकः ॥४७॥
श्रृणु सौम्य वचः श्रेया जगदुद्धऽरगोचरम् ।
काण्डत्रयात्मके वेदे प्रोद्धृते स्याद द्विजोद्धृतिः ॥४८॥
तद्रक्षणे रक्षितं स्यात्सकलं जगतीतलम् ।
तदधीनात्वतो वर्णाश्रमधर्मततेस्ततः ॥४९॥
इदानी मिदमुद्धार्यमितिवृत्तमतः पुरा ।
मम गूढाशयविदौ विष्णुशेषौ समीपगौ ॥५०॥
मध्यमं काण्डमुद्धर्तुमनुज्ञातौ मयैव तौ ।
अवतीर्याशतो भूमौ सकर्षणपतज्जली ॥५१॥
मुनी भूत्वा मुदोपास्तियोगकाण्डकृतौ स्थितौ ।
अग्निमं ज्ञानकाण्डं तूद्धरिष्यामीति देवताः ॥५२॥
सम्प्रति प्रतिजाने स्म जानात्येव भवानपि ।
जैमिनीयनयाम्भोधेः शरत्पर्वशशी भव ॥५३॥
विशिष्टं कर्मकाण्डं त्वमुद्धर ब्रह्मणः कृते ।
सुब्रह्मण्य इति ख्यातिं गमिष्यसि ततोऽधुना ॥५४॥
नैगमीं कुरु मर्यादामवतीर्य महीतले ।
निर्जित्य सौगतान्सर्वानाम्रायार्थविरोधिनः ॥५५॥
ब्रह्माऽपि ते सहायार्थ मण्डनो नाम भूसुरः ।
भविष्यति महेन्द्रोऽपि सुधन्वा नाम भूमिपः ॥५६॥
तथेति प्रतिजग्राह विधेरपि विधायिनीम् ।
बुधानीकपतिर्वाणीं सुधाधारामिव प्रभोः ॥५७॥
अथेन्द्रो नृपतिर्भूत्वा प्रज्ञा धर्मेण पालयन् ।
दिवं चकार पृथिवीं स्वपुरीममरावतीम् ॥५८॥
सर्वज्ञोऽप्यसतां शास्त्रे कृत्रिमश्रद्धयाऽन्वितः ।
प्रतीक्षमाणः क्रौश्चारिं मेलयामास सौगतान् ॥५९॥
ततः स तारकारातिरजनिष्ट महीतले ।
भट्टपादाभिधा यस्य भूषा दिक्सुदृशामभूत् ॥६०॥
स्फुटयन्वेदतात्पर्यमभाज्जैमिनिसूत्रितम् ।
सहस्रांशुरिवानूरुण्यज्जितं भासयज्जगत् ॥६१॥
राज्ञः सुधन्वनः प्राप नगरीं स जयन्दिशः ।
प्रत्युद्रभ्य क्षितीन्द्रोऽपि विधिवत्तमपूजयत् ॥६२॥
सोऽभिनन्द्याशिषा भूपमासीनः काश्चनासने ।
तां सभां शोभयामास सुरभिर्द्यवनीमिव ॥६३॥
सभासमीपविटपिटपिश्रितकोकिलकूजितम् ।
श्रुत्वा जगाद तद्वयाजाद्राजानं पण्डिताग्रणीः ॥६४॥
मलिनैश्चेन्न सडस्ते नीचैः काककुलैः पिक ।
श्रुतिदूषकनिर्हादैः श्लाघनीयस्तदा भवेः ॥६५॥
षडभिज्ञा निशम्येमां वाचं तात्पर्यगर्भिताम् ।
नितरां चरणस्पृष्टा भुजडा इव चुक्रुधुः ॥६६॥
छित्त्वा युक्तिकुठारेण बुद्धसिद्धान्तशाखिनम् ।
स तद्ग्रन्थेन्धनैश्चीर्णैः क्रोधज्वालामवर्धयत् ॥६७॥
सा सभा वदनैस्तेषां रोषपाटालकान्तिभिः ।
बभौ बालातपाताम्रैः सरसीव सरोरुहैः ॥६८॥
उपन्यस्यत्सु साक्षेपं खण्डयत्सु परस्परम् ।
तेषूदतिष्ठन्निर्घोषो भिन्दन्निव रसातलम् ॥६९॥
अधः पेतुर्बुधेन्द्रेण क्षताः पक्षेषु तत्क्षणम् ।
व्यूढकर्कशतर्केन तथागतधराधराः ॥७०॥
स सर्वज्ञपदं विज्ञोऽसहमान इव द्विषाम् ।
चकार चित्रविन्यस्तानेतान्मौनविभूषितान् ॥७१॥
ततः प्रक्षीणदर्पेषु बौद्धेषु वसुधाधिपम् ।
बोधयन्बहुधा वेदवचांसि प्रशशंस सः ॥७२॥
बभाषेऽथ धराधीशो विद्यायत्तौ जयाजयौ ।
यः पतित्वा गिरेः श्रृडादव्यग्रस्तन्मतं ध्रुवम् ॥७३॥
तदाकर्ण्य मुखान्यन्ये परस्परमलोकयन् ।
द्विजाग्र्यस्तु स्मरन्वेदानारुरोह गिरेः शिरः ॥७४॥
यदि वेदाः प्रमाणं स्युर्भूयात्काचिन्न मे क्षतिः ।
इति घोषयता तस्मान्न्यपाति सुमहात्मना ॥७५॥
किमु दौहित्नदत्तेऽपि पुण्ये विलयमास्थिते ।
ययातिश्चयवते स्वर्गात्पुनरित्यूचिरे जनाः ॥७६॥
अपि लोकगुरुः शैलात्तूलपिण्ड इवापतत् ।
श्रुतिरात्मशरण्यानां व्यसनं नोच्छिनत्ति किम् ॥७७॥
श्रुत्वा तदद्भुतं कर्म द्विजा दिग्भ्यः समाययुः ।
घनघोषमिवाकर्ण्य निकुज्जेभ्यः शिखावळाः ॥७८॥
दृष्ट्रा तमक्षतं राजा श्रद्धां श्रुतिषु सन्दधे ।
निनिन्द बहुधाऽऽत्मानं खलसंसर्गदूषितम् ॥७९॥
सौगतास्त्वब्रुवन्नेदं प्रमाणं मतिनिर्णये ।
मणिमन्त्रौषधैरेवं देहरक्षा भवेदिति ॥८०॥
दुर्विधैरन्यथा नीते प्रत्यक्षेऽर्थेऽपि पार्थिवः ।
भ्रुकुटीभीकरमुखः सन्धामुग्रतरां व्यधात् ॥८१॥
पृच्छामि भवतः किश्चिद्वक्तुं न प्रभवन्ति ये ।
यन्त्रोपलेषु सर्वास्तान्घातयिष्याम्यसंशयम् ॥८२॥
इति संश्रुत्य गोत्रेशो घटमाशीविषान्वितम् ।
आनीयात्र किमस्तीति पप्रच्छ द्विजसौगतान् ॥८३॥
वक्ष्यामहे वयं भूप श्वः प्रभातेऽस्य निर्णयम् ।
इति प्रसाद्य राजानं जग्मुर्भूसुरसौगताः ॥८४॥
पद्मा इव तपस्तेषुः कण्ठद्वयसपाथसि ।
द्युमणिं प्रति भूदेवाः सोऽपि प्रादुरभृत्ततः ॥८५॥
सन्दिश्य वचनीयांशमादित्येऽन्तर्हिते द्विजाः ।
आजग्मुरपि निश्चित्य सौगताः कलशस्थितम् ॥८६॥
ततस्ते सौगताः सर्वे भुजङ्गोऽस्तीत्यवादिषुः ।
भोगीशभोगशयनो भगवानिति भूसुराः ॥८७॥
श्रुतभूसुरवाक्यस्य वदनं पृथिवीपतेः ।
कासारशोषणम्लानसारसश्रियमाददे ॥८८॥
अथ प्रोवाच दिव्या वाक् सम्राजमशरीरिणी ।
तुदन्ती संशयं तस्य सर्वेषामेव श्रृण्वताम् ॥८९॥
सत्यमेव महाराज ब्राह्मणा यद्वभाषिरे ।
मा कृथाः संशयं तत्र भव सत्यप्रतिश्रवः ॥९०॥
श्रुत्वाऽशरीरिणीं वाणीं ददर्श वसुधाधिपः ।
मूर्तिं मधुद्विषः कुम्भे सुधामिव सुराधिपः ॥९१॥
निरस्ताखिलस्नदेहो विन्यस्तेतरदर्शनात् ।
व्यधादाज्ञां ततो राजा वधाय श्रुतिविद्विषाम् ॥९२॥
आसेतोरातुषाराद्रेर्बौद्धानावृद्धबालकम् ।
न हन्ति यः स हन्तव्यो भृत्यानित्यन्वशान्नृपः ॥९३॥
इष्टोऽपि दृष्टदोषश्चेद्वध्य एव महात्मनाम् ।
जननीमपि किं साक्षान्नावधीद्भुगुनन्दनः ॥९४॥
स्कन्दानुसारिराजेन जैना धर्मद्विषो हताः ।
योगीन्द्रेणेव किं योगघ्रा विघ्रास्तत्त्वालम्बिना ॥९५॥
हतेषु तेषु दुष्टेषु परितस्तार कोविदः ।
श्रौतवर्त्म अमिस्त्रेषु नष्टेष्विव रविर्महः ॥९६॥
कुमारिलमृगेन्द्रेण हतेषु जिनहस्तिषु ।
निष्प्रत्यूहमवर्धन्त श्रुतिशाखाः समन्ततः ॥९७॥
प्रागित्थं ज्वनलभुवा प्रवर्तितेऽस्मिन् कर्माध्वन्यखिलविदा कुमारिलेन ।
उद्धर्तु भुवनमिदं भवाब्धिमग्रं कारुण्याम्बुनिधिरियेष चन्द्रचूडः ॥९८॥
इति श्रीमाधवीये तदुपोद्धातकथापरः ।
सङ्क्षेपशकरजये सर्गोऽय़ं प्रथमोऽभवत् ॥
आदितः श्लोकाः ९८