विश्वास-प्रस्तुतिः
प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम् ।
प्राचीनशङ्करजये सारः सङ्गृह्यते स्फुटम् ॥१॥
मूलम्
प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम् ।
प्राचीनशङ्करजये सारः सङ्गृह्यते स्फुटम् ॥१॥
विश्वास-प्रस्तुतिः
यद्वद् घटानां पटलो विशालो
विलोक्यतेऽल्पे किल दर्पणेऽपि ।
तद्वन्मदीये लघुसङ्ग्रहेऽस्मिन्
उद्वीक्ष्यतां शाङ्करवाक्यसारः ॥२॥
मूलम्
यद्वद् घटानां पटलो विशालो
विलोक्यतेऽल्पे किल दर्पणेऽपि ।
तद्वन्मदीये लघुसङ्ग्रहेऽस्मिन्
उद्वीक्ष्यतां शाङ्करवाक्यसारः ॥२॥
विश्वास-प्रस्तुतिः
ततो महेशः किल केरलेषु
श्रीमद् वृषाद्रौ करुणासमुद्रः ।
पूर्णानदीपुण्यतटे स्वयंभू-
लिङ्गात्मनाऽनङ्गधगाविरासीत् ॥३॥
मूलम्
ततो महेशः किल केरलेषु
श्रीमद् वृषाद्रौ करुणासमुद्रः ।
पूर्णानदीपुण्यतटे स्वयंभू-
लिङ्गात्मनाऽनङ्गधगाविरासीत् ॥३॥
विश्वास-प्रस्तुतिः
तस्येश्वरस्य प्रणतार्तिहर्तुः
प्रसादतः प्राप्तनिरीतिभावः ।
कश्चित्तदभ्याशगतोऽग्रहारः
कालट्यभिख्योऽस्ति महान्मनोज्ञः ॥४॥
मूलम्
तस्येश्वरस्य प्रणतार्तिहर्तुः
प्रसादतः प्राप्तनिरीतिभावः ।
कश्चित्तदभ्याशगतोऽग्रहारः
कालट्यभिख्योऽस्ति महान्मनोज्ञः ॥४॥
विश्वास-प्रस्तुतिः
कश्चिद्विपश्चिदिह निश्चलधीर्विरेजे
विद्याधिराज इति विश्रुतनामधेयः ।
रुद्रो वृषाद्रिनिलयोऽवतरीतुकामः
यत्पुत्रमात्मपितरं समरोचयत्सः ॥५॥
मूलम्
कश्चिद्विपश्चिदिह निश्चलधीर्विरेजे
विद्याधिराज इति विश्रुतनामधेयः ।
रुद्रो वृषाद्रिनिलयोऽवतरीतुकामः
यत्पुत्रमात्मपितरं समरोचयत्सः ॥५॥
विश्वास-प्रस्तुतिः
पुत्रोऽभवत्तस्य पुरात्तपुण्यैः
सुब्रह्मतेजाः शिवगुर्वभिख्यः ।
ज्ञाने शिवो यो वचने गुरुस्त-
स्यान्वर्थनामाऽकृत लब्धवर्णः ॥६॥
मूलम्
पुत्रोऽभवत्तस्य पुरात्तपुण्यैः
सुब्रह्मतेजाः शिवगुर्वभिख्यः ।
ज्ञाने शिवो यो वचने गुरुस्त-
स्यान्वर्थनामाऽकृत लब्धवर्णः ॥६॥
विश्वास-प्रस्तुतिः
स ब्रह्मचारी गुरुगेहवासी
तत्कार्यकारी विहितान्नभोजी ।
सायंप्रभातं च हुताशसेवी
व्रतेन वेदं निजमध्यगीष्ट ॥७॥
मूलम्
स ब्रह्मचारी गुरुगेहवासी
तत्कार्यकारी विहितान्नभोजी ।
सायंप्रभातं च हुताशसेवी
व्रतेन वेदं निजमध्यगीष्ट ॥७॥
विश्वास-प्रस्तुतिः
बह्वर्थदायिषु बहुष्वपि सत्सु देशे
कन्याप्रदातृषु परीक्ष्य विशिष्टजन्म ।
कन्यामयाचत सुताय स विप्रवर्यो
विप्रं विशिष्टकुलजं प्रथितानुभावः ॥८॥
मूलम्
बह्वर्थदायिषु बहुष्वपि सत्सु देशे
कन्याप्रदातृषु परीक्ष्य विशिष्टजन्म ।
कन्यामयाचत सुताय स विप्रवर्यो
विप्रं विशिष्टकुलजं प्रथितानुभावः ॥८॥
विश्वास-प्रस्तुतिः
विद्याधिराजमघपण्डितनामधेयौ
संप्रत्ययं व्यतनुतामभिपूज्य दैवम् ॥९॥
मूलम्
विद्याधिराजमघपण्डितनामधेयौ
संप्रत्ययं व्यतनुतामभिपूज्य दैवम् ॥९॥
विश्वास-प्रस्तुतिः
अम्यङ्मुहूर्तमवलंब्य विचारणीया
मौहूर्तिका इति परस्परमूचिवांसौ ॥
मूलम्
अम्यङ्मुहूर्तमवलंब्य विचारणीया
मौहूर्तिका इति परस्परमूचिवांसौ ॥
विश्वास-प्रस्तुतिः
उद्वाह्य शास्त्रविधिना विहिते मुहूर्ते
तौ संमुदं बहुमवापतुराप्तकामौ ।
तत्रागतो भृशममोदत बन्धुवर्गः
किं भाषितेन बहुना मुदमाप वर्गः ॥१०॥
मूलम्
उद्वाह्य शास्त्रविधिना विहिते मुहूर्ते
तौ संमुदं बहुमवापतुराप्तकामौ ।
तत्रागतो भृशममोदत बन्धुवर्गः
किं भाषितेन बहुना मुदमाप वर्गः ॥१०॥
विश्वास-प्रस्तुतिः
गर्भं दधार शिवगर्भमसौ मृगाक्षी
गर्भोऽप्यवर्धत शनैरभवच्छरीरम् ।
तेजोऽतिरेकविनिवारित दृष्टिपात-
विश्वं रवेर्दिवसमध्य इवोग्रतेजः ॥११॥
मूलम्
गर्भं दधार शिवगर्भमसौ मृगाक्षी
गर्भोऽप्यवर्धत शनैरभवच्छरीरम् ।
तेजोऽतिरेकविनिवारित दृष्टिपात-
विश्वं रवेर्दिवसमध्य इवोग्रतेजः ॥११॥
विश्वास-प्रस्तुतिः
लग्ने शुभे शुभयुते सुषुवे कुमारं
श्रीपार्वतीव सुखिनी शुभवीक्षिते च ।
जाया सती शिवगुरोर्निजतुङ्गसंस्थे
सूर्ये कुजे रविसुते च गुरौ च केन्द्रे ॥१२॥
मूलम्
लग्ने शुभे शुभयुते सुषुवे कुमारं
श्रीपार्वतीव सुखिनी शुभवीक्षिते च ।
जाया सती शिवगुरोर्निजतुङ्गसंस्थे
सूर्ये कुजे रविसुते च गुरौ च केन्द्रे ॥१२॥
विश्वास-प्रस्तुतिः
यत्पश्यतां शिशुरसौ कुरुते शमग्र्यं
तेनाकृतास्य जनकः किल शङ्कराख्याम् ।
यद्वा चिराय किल शङ्करसंप्रसादात्
जातस्ततो व्यधित शङ्करनामधेयम् ॥१३॥
मूलम्
यत्पश्यतां शिशुरसौ कुरुते शमग्र्यं
तेनाकृतास्य जनकः किल शङ्कराख्याम् ।
यद्वा चिराय किल शङ्करसंप्रसादात्
जातस्ततो व्यधित शङ्करनामधेयम् ॥१३॥
विश्वास-प्रस्तुतिः
कमलानिलयः कलानिधे-
र्विमलाख्यादजनिष्ट भूसुरात् ।
भुवि पद्मपदं वदन्ति यं
सविपद्येन विवादिनां यशः ॥१४॥
मूलम्
कमलानिलयः कलानिधे-
र्विमलाख्यादजनिष्ट भूसुरात् ।
भुवि पद्मपदं वदन्ति यं
सविपद्येन विवादिनां यशः ॥१४॥
विश्वास-प्रस्तुतिः
पवनोऽप्यजनि प्रभाकरात्
सवनोन्मीलितकीर्तिमण्डलात् ।
गलहस्तितभेदवाद्यसौ
किल हस्तामलकाभिधामधात् ॥१५॥
मूलम्
पवनोऽप्यजनि प्रभाकरात्
सवनोन्मीलितकीर्तिमण्डलात् ।
गलहस्तितभेदवाद्यसौ
किल हस्तामलकाभिधामधात् ॥१५॥
विश्वास-प्रस्तुतिः
पवमानदशांशतोऽजनि
प्लवमानाऽञ्चति यद्यशोंबुधौ ।
धरणी मथिता विवादिवाक्
तरणी येन स तोटकाह्वयः ॥१६॥
मूलम्
पवमानदशांशतोऽजनि
प्लवमानाऽञ्चति यद्यशोंबुधौ ।
धरणी मथिता विवादिवाक्
तरणी येन स तोटकाह्वयः ॥१६॥
विश्वास-प्रस्तुतिः
विधिरास सुरेश्वरो गिरां
निधिरानन्दगिरिर्व्यजायत ।
अरुणः समभूत्सनन्दनो
वरुणोऽजायत चित्सुखाह्वयः ॥१७॥
मूलम्
विधिरास सुरेश्वरो गिरां
निधिरानन्दगिरिर्व्यजायत ।
अरुणः समभूत्सनन्दनो
वरुणोऽजायत चित्सुखाह्वयः ॥१७॥
विश्वास-प्रस्तुतिः
अथावतीर्णस्य विधेः पुरन्ध्री
साऽभूद्यदाख्योभयभारतीति ।
सरस्वती सा खलु वस्तुवृत्त्या
लोकोऽपि तां वक्ति सरस्वतीति ॥१८॥
मूलम्
अथावतीर्णस्य विधेः पुरन्ध्री
साऽभूद्यदाख्योभयभारतीति ।
सरस्वती सा खलु वस्तुवृत्त्या
लोकोऽपि तां वक्ति सरस्वतीति ॥१८॥
विश्वास-प्रस्तुतिः
जग्राह पाणिकमलं हिममित्रसूनुः
श्रीविष्णुमित्रदुहितुः करपल्लवेन ।
भेरीमृदङ्गपटहाध्ययनाब्जघोषैः
दिङ्मण्डले सुपरिमूर्च्छति दिव्यकाले ॥१९॥
मूलम्
जग्राह पाणिकमलं हिममित्रसूनुः
श्रीविष्णुमित्रदुहितुः करपल्लवेन ।
भेरीमृदङ्गपटहाध्ययनाब्जघोषैः
दिङ्मण्डले सुपरिमूर्च्छति दिव्यकाले ॥१९॥
विश्वास-प्रस्तुतिः
अथ शिवो मनुजो निजमायया
द्विजगृहे द्विजमोदमुपावहन् ।
प्रथमहायन एव समग्रहीत्
सकलवर्णमसौ निजभाषिकाम् ॥२०॥
मूलम्
अथ शिवो मनुजो निजमायया
द्विजगृहे द्विजमोदमुपावहन् ।
प्रथमहायन एव समग्रहीत्
सकलवर्णमसौ निजभाषिकाम् ॥२०॥
विश्वास-प्रस्तुतिः
द्विसम एव शिशुर्लिखिताक्षरं
गदितुमक्षमताक्षरवित्सुधीः ।
अथ स काव्यपुराणमुपाशृणोत्
स्वयमवैत्किमपि श्रवणं विना ॥२१॥
मूलम्
द्विसम एव शिशुर्लिखिताक्षरं
गदितुमक्षमताक्षरवित्सुधीः ।
अथ स काव्यपुराणमुपाशृणोत्
स्वयमवैत्किमपि श्रवणं विना ॥२१॥
विश्वास-प्रस्तुतिः
अजनि दुःखकरो न गुरोरसौ
श्रवणतः सकृदेव परिग्रही ।
सहनिपाठजनस्य गुरुः स्वयं
स च पपाठ ततो गुरुणा विना ॥२२॥
मूलम्
अजनि दुःखकरो न गुरोरसौ
श्रवणतः सकृदेव परिग्रही ।
सहनिपाठजनस्य गुरुः स्वयं
स च पपाठ ततो गुरुणा विना ॥२२॥
विश्वास-प्रस्तुतिः
शिवगुरुः स जरंस्त्रिसमे शिशौ
अमृत कर्मवशः सुतमोदितः ।
उपनिनीषितसूनुरपि स्वयं
न हि यमोऽस्य कृताकृतमीक्षते ॥२३॥
मूलम्
शिवगुरुः स जरंस्त्रिसमे शिशौ
अमृत कर्मवशः सुतमोदितः ।
उपनिनीषितसूनुरपि स्वयं
न हि यमोऽस्य कृताकृतमीक्षते ॥२३॥
विश्वास-प्रस्तुतिः
उपनयं किल पञ्चमवत्सरे
प्रवरयोगयुते सुमुहूर्तके ।
द्विजवधूर्नियता जननी शिशोः
व्यधित तुष्टमनाः सह बन्धुभिः ॥२४॥
मूलम्
उपनयं किल पञ्चमवत्सरे
प्रवरयोगयुते सुमुहूर्तके ।
द्विजवधूर्नियता जननी शिशोः
व्यधित तुष्टमनाः सह बन्धुभिः ॥२४॥
विश्वास-प्रस्तुतिः
अधिजगे निगमांश्चतुरोऽपि स
क्रमत एव गुरोः सषडङ्गकान् ।
अजनि विस्मितमत्र महामतौ
द्विजसुतेऽल्पतनौ जनता मनः ॥२५॥
मूलम्
अधिजगे निगमांश्चतुरोऽपि स
क्रमत एव गुरोः सषडङ्गकान् ।
अजनि विस्मितमत्र महामतौ
द्विजसुतेऽल्पतनौ जनता मनः ॥२५॥
विश्वास-प्रस्तुतिः
वेदे ब्रह्मसमस्तदङ्गनिचये गार्ग्योपमस्तत्कथा-
तात्पर्यार्थविवेचने गुरुसमस्तत्कर्मसंवर्णने ।
आसीज्जैमिनिरेव तद्वचनजप्रोद्बोधकन्दे समो
व्यासेनैव स मूर्तिमानिव नवो वाणीविलासैर्वृतः
२७॥
मूलम्
वेदे ब्रह्मसमस्तदङ्गनिचये गार्ग्योपमस्तत्कथा-
तात्पर्यार्थविवेचने गुरुसमस्तत्कर्मसंवर्णने ।
आसीज्जैमिनिरेव तद्वचनजप्रोद्बोधकन्दे समो
व्यासेनैव स मूर्तिमानिव नवो वाणीविलासैर्वृतः
२७॥
विश्वास-प्रस्तुतिः
तमवोचत तत्र सादरं
यतिवर्यं गृहिणः कुटुंबिनी ।
कृतिनो हि भवादृशेषु ये
वरिवस्यां प्रतिपादयन्ति ते ॥२८॥
मूलम्
तमवोचत तत्र सादरं
यतिवर्यं गृहिणः कुटुंबिनी ।
कृतिनो हि भवादृशेषु ये
वरिवस्यां प्रतिपादयन्ति ते ॥२८॥
विश्वास-प्रस्तुतिः
विधिना खलु वञ्चिता वयं
वितरीतुं वटवे न शक्नुमः ।
अपि भैक्षमकिञ्चनत्वतो
धिगिदं जन्म निरर्थकं गतम् ॥२९॥
मूलम्
विधिना खलु वञ्चिता वयं
वितरीतुं वटवे न शक्नुमः ।
अपि भैक्षमकिञ्चनत्वतो
धिगिदं जन्म निरर्थकं गतम् ॥२९॥
विश्वास-प्रस्तुतिः
इति दीनमुदीरयन्त्यसौ
प्रददावामलकं व्रतीन्दवे ।
करुणं वचनं निशम्य सोऽ
प्यभवज्ज्ञाननिधिर्दयार्द्रधीः ॥३०॥
मूलम्
इति दीनमुदीरयन्त्यसौ
प्रददावामलकं व्रतीन्दवे ।
करुणं वचनं निशम्य सोऽ
प्यभवज्ज्ञाननिधिर्दयार्द्रधीः ॥३०॥
विश्वास-प्रस्तुतिः
स मुनिर्मुरभित्कुटुंबिनीं
पदचित्रैर्नवनीतकोमलैः ।
मधुरैरुपतस्थिवांस्तवैः
द्विजदारिद्र्यदशानिवृत्तये ॥३१॥
मूलम्
स मुनिर्मुरभित्कुटुंबिनीं
पदचित्रैर्नवनीतकोमलैः ।
मधुरैरुपतस्थिवांस्तवैः
द्विजदारिद्र्यदशानिवृत्तये ॥३१॥
विश्वास-प्रस्तुतिः
अमुना वचनेन तोषिता
कमला तद्भवनं समन्ततः ।
कनकामलकैरपूरयत्
जनताया हृदयं च विस्मयैः ॥३२॥
मूलम्
अमुना वचनेन तोषिता
कमला तद्भवनं समन्ततः ।
कनकामलकैरपूरयत्
जनताया हृदयं च विस्मयैः ॥३२॥
विश्वास-प्रस्तुतिः
इति सप्तमहायनेऽखिल
श्रुतिपारङ्गततां गतो वटुः ।
परिवृत्य गुरोः कुलाद् गृहे
जननीं पर्यचरन्महायशाः ॥३३॥
मूलम्
इति सप्तमहायनेऽखिल
श्रुतिपारङ्गततां गतो वटुः ।
परिवृत्य गुरोः कुलाद् गृहे
जननीं पर्यचरन्महायशाः ॥३३॥
विश्वास-प्रस्तुतिः
जातु मन्दगमनाऽस्य हि माता
स्नातुमंबुनिधिगां प्रतियाता ।
आतपोग्रकिरणे रविबिंबे
सा तपः कृशतनुर्विललंबे ॥३४॥
मूलम्
जातु मन्दगमनाऽस्य हि माता
स्नातुमंबुनिधिगां प्रतियाता ।
आतपोग्रकिरणे रविबिंबे
सा तपः कृशतनुर्विललंबे ॥३४॥
विश्वास-प्रस्तुतिः
सोऽथ नेतुमनवद्यचरित्रः
सज्जनोऽन्तिकमृषीश्वरपुत्रः ।
अस्तवीज्जलधिगां कविहृद्यैः
वस्तुतः स्फुरदलङ्कृतपद्यैः ॥३५॥
मूलम्
सोऽथ नेतुमनवद्यचरित्रः
सज्जनोऽन्तिकमृषीश्वरपुत्रः ।
अस्तवीज्जलधिगां कविहृद्यैः
वस्तुतः स्फुरदलङ्कृतपद्यैः ॥३५॥
विश्वास-प्रस्तुतिः
प्रातरेव समलोकत लोकः
शीतवातहृतशीकरपूतः ।
नूतनामिव धुनीं प्रवहन्तीं
माधवस्य समया सदनं ताम् ॥३६॥
मूलम्
प्रातरेव समलोकत लोकः
शीतवातहृतशीकरपूतः ।
नूतनामिव धुनीं प्रवहन्तीं
माधवस्य समया सदनं ताम् ॥३६॥
विश्वास-प्रस्तुतिः
बहवः श्रुतिपारदृश्वनः
कवयोऽध्यैषत शङ्कराद्गुरोः ।
महतः सुमहान्ति दर्शना-
न्यधिगन्तुं फणिराजकौशलीम् ॥३७॥
मूलम्
बहवः श्रुतिपारदृश्वनः
कवयोऽध्यैषत शङ्कराद्गुरोः ।
महतः सुमहान्ति दर्शना-
न्यधिगन्तुं फणिराजकौशलीम् ॥३७॥
विश्वास-प्रस्तुतिः
मम न मानसमिच्छति संसृतिं
न च पुनर्जननी विजिहासति ।
न च गुरुर्जननी तदुदीक्षते
तदनुशासनमीषदपेक्षितम् ॥३८॥
मूलम्
मम न मानसमिच्छति संसृतिं
न च पुनर्जननी विजिहासति ।
न च गुरुर्जननी तदुदीक्षते
तदनुशासनमीषदपेक्षितम् ॥३८॥
विश्वास-प्रस्तुतिः
इति विचिन्त्य स जातु मिमङ्क्षया
बहुजलां सरितं समुपाययौ ।
जलमगाहत तत्र समग्रहीत्
जलचरश्चरणे जलमीयुषः ॥३९॥
मूलम्
इति विचिन्त्य स जातु मिमङ्क्षया
बहुजलां सरितं समुपाययौ ।
जलमगाहत तत्र समग्रहीत्
जलचरश्चरणे जलमीयुषः ॥३९॥
विश्वास-प्रस्तुतिः
स च रुरोद जले जलचारिणा
धृतपदो ह्रियतेऽंब करोमि किम् ।
चलितुमेकपदं न च पारये
बलवता विवृतोरुमुखेन ह ॥४०॥
मूलम्
स च रुरोद जले जलचारिणा
धृतपदो ह्रियतेऽंब करोमि किम् ।
चलितुमेकपदं न च पारये
बलवता विवृतोरुमुखेन ह ॥४०॥
विश्वास-प्रस्तुतिः
त्यजति नूनमयं चरणं चलो
जलचरोऽंब तवानुमतेन मे ।
सकलसंन्यसने परिकल्पिते
यदि तवानुमतिः परिकल्पये ॥४१॥
मूलम्
त्यजति नूनमयं चरणं चलो
जलचरोऽंब तवानुमतेन मे ।
सकलसंन्यसने परिकल्पिते
यदि तवानुमतिः परिकल्पये ॥४१॥
विश्वास-प्रस्तुतिः
इति शिशौ चकिता वदति स्फुटं
व्यधित साऽनुमतिं द्रुतमंबिका ।
सति सुते भविता मम दर्शनं
मृतवतस्तदु नेति विनिश्चयः ॥४२॥
मूलम्
इति शिशौ चकिता वदति स्फुटं
व्यधित साऽनुमतिं द्रुतमंबिका ।
सति सुते भविता मम दर्शनं
मृतवतस्तदु नेति विनिश्चयः ॥४२॥
विश्वास-प्रस्तुतिः
तदनु संन्यसनं मनसा व्यधात्
अथ मुमोच शिशुं खलनक्रकः ।
शिशुरुपेत्य सरित्तटमत्रसन्
प्रसुवमेतदुवाच शुचाऽऽवृताम् ॥४३॥
मूलम्
तदनु संन्यसनं मनसा व्यधात्
अथ मुमोच शिशुं खलनक्रकः ।
शिशुरुपेत्य सरित्तटमत्रसन्
प्रसुवमेतदुवाच शुचाऽऽवृताम् ॥४३॥
विश्वास-प्रस्तुतिः
संन्यस्तवान् शिशुरयं विधवामनाथां
क्षिप्त्वेति मां प्रति कदाऽपि न चिन्तनीयम् ।
यावन्मया स्थितवता फलमापनीयं
मातस्ततः शतगुणं फलमापयिष्ये ॥४४॥
मूलम्
संन्यस्तवान् शिशुरयं विधवामनाथां
क्षिप्त्वेति मां प्रति कदाऽपि न चिन्तनीयम् ।
यावन्मया स्थितवता फलमापनीयं
मातस्ततः शतगुणं फलमापयिष्ये ॥४४॥
विश्वास-प्रस्तुतिः
इत्थं सुधीः स निरवग्रहमातृलक्ष्मी-
शानुग्रहो घटजबोधितभाविवेदी ।
एकान्ततो विगतभोगपदार्थतृष्णः
कृष्णे प्रतीचि निरतो निरगान्निशान्तात् ॥४५॥
मूलम्
इत्थं सुधीः स निरवग्रहमातृलक्ष्मी-
शानुग्रहो घटजबोधितभाविवेदी ।
एकान्ततो विगतभोगपदार्थतृष्णः
कृष्णे प्रतीचि निरतो निरगान्निशान्तात् ॥४५॥
विश्वास-प्रस्तुतिः
दण्डान्वितेन धृतरागनवांबरेण
गोविन्दनाथवनमिन्दुभवातटस्थम् ।
तेन प्रविष्टमजनिष्ट दिनावसाने
चण्डत्विषा च शिखरं चरमाचलस्य ॥४६॥
मूलम्
दण्डान्वितेन धृतरागनवांबरेण
गोविन्दनाथवनमिन्दुभवातटस्थम् ।
तेन प्रविष्टमजनिष्ट दिनावसाने
चण्डत्विषा च शिखरं चरमाचलस्य ॥४६॥
विश्वास-प्रस्तुतिः
तस्य प्रपन्नपरितोषदुहो गुहायाः
स त्रिः प्रदक्षिणपरिक्रमणं विधाय ।
द्वारं प्रति प्रणिपतन् जनतापुरोगं
तुष्टाव तुष्टहृदयस्तमपास्तशोकम् ॥४७॥
मूलम्
तस्य प्रपन्नपरितोषदुहो गुहायाः
स त्रिः प्रदक्षिणपरिक्रमणं विधाय ।
द्वारं प्रति प्रणिपतन् जनतापुरोगं
तुष्टाव तुष्टहृदयस्तमपास्तशोकम् ॥४७॥
विश्वास-प्रस्तुतिः
तमखिलगुणपूर्णं व्यासपुत्रस्य शिष्याद्
अधिगतपरमार्थं गौडपादान्महर्षेः ।
अधिजिगमिषुरेष ब्रह्मसंस्थामहं त्वां
प्रसृमरमहिमानं प्रापमेकान्तभक्त्या ॥४८॥
मूलम्
तमखिलगुणपूर्णं व्यासपुत्रस्य शिष्याद्
अधिगतपरमार्थं गौडपादान्महर्षेः ।
अधिजिगमिषुरेष ब्रह्मसंस्थामहं त्वां
प्रसृमरमहिमानं प्रापमेकान्तभक्त्या ॥४८॥
विश्वास-प्रस्तुतिः
तस्मिन्निति स्तुवति कस्त्वमिति ब्रुवन्तं
दिष्ट्या समाधिपदरुद्धविसृष्टचित्तम् ।
गोविन्ददेशिकमुवाच ततो वचोभिः
प्राचीनपुण्यजनितात्मविबोधचिह्नैः ॥४९॥
मूलम्
तस्मिन्निति स्तुवति कस्त्वमिति ब्रुवन्तं
दिष्ट्या समाधिपदरुद्धविसृष्टचित्तम् ।
गोविन्ददेशिकमुवाच ततो वचोभिः
प्राचीनपुण्यजनितात्मविबोधचिह्नैः ॥४९॥
विश्वास-प्रस्तुतिः
स्वामिन्नहं न पृथिवी न जलं न तेजो
न स्पर्शनो न गगनं न च तद्गुणा वा ।
नापीन्द्रियाण्यपि तु विद्धि ततोऽवशिष्टो
यः केवलोऽस्ति परमः स शिवोऽहमस्मि ॥५०॥
मूलम्
स्वामिन्नहं न पृथिवी न जलं न तेजो
न स्पर्शनो न गगनं न च तद्गुणा वा ।
नापीन्द्रियाण्यपि तु विद्धि ततोऽवशिष्टो
यः केवलोऽस्ति परमः स शिवोऽहमस्मि ॥५०॥
विश्वास-प्रस्तुतिः
आकर्ण्य शङ्करमुनेर्वचनं तदित्थम्
अद्वैतदर्शनसमुत्थमुपात्तहर्षः ।
स प्राह शङ्कर स शङ्कर एव साक्षात्
जातस्त्वमित्यहमवैमि समाधिदृष्ट्या ॥५१॥
मूलम्
आकर्ण्य शङ्करमुनेर्वचनं तदित्थम्
अद्वैतदर्शनसमुत्थमुपात्तहर्षः ।
स प्राह शङ्कर स शङ्कर एव साक्षात्
जातस्त्वमित्यहमवैमि समाधिदृष्ट्या ॥५१॥
विश्वास-प्रस्तुतिः
तस्योपदर्शितवतश्चरणौ गुहाया
द्वारे न्यपूजयदुपेत्य स शङ्करार्यः ।
आचार इत्युपदिदेश स तत्र तस्मै
गोविन्दपादगुरवे स गुरुर्मुनीनाम् ॥५२॥
मूलम्
तस्योपदर्शितवतश्चरणौ गुहाया
द्वारे न्यपूजयदुपेत्य स शङ्करार्यः ।
आचार इत्युपदिदेश स तत्र तस्मै
गोविन्दपादगुरवे स गुरुर्मुनीनाम् ॥५२॥
विश्वास-प्रस्तुतिः
शङ्करः सविनयैरुपचारैः
अभ्यतोषयदसौ गुरुमेनम् ।
ब्रह्म तद्विदितमप्युपलिप्सुः
संप्रदायपरिपालनबुद्ध्या ॥५३॥
मूलम्
शङ्करः सविनयैरुपचारैः
अभ्यतोषयदसौ गुरुमेनम् ।
ब्रह्म तद्विदितमप्युपलिप्सुः
संप्रदायपरिपालनबुद्ध्या ॥५३॥
विश्वास-प्रस्तुतिः
भक्तिपूर्वकृततत्परिचर्या-
तोषितोऽधिकतरं यतिवर्यः ।
ब्रह्मतामुपदिदेश चतुर्भिः
वेदशेखरवचोभिरमुष्मै ॥५४॥
मूलम्
भक्तिपूर्वकृततत्परिचर्या-
तोषितोऽधिकतरं यतिवर्यः ।
ब्रह्मतामुपदिदेश चतुर्भिः
वेदशेखरवचोभिरमुष्मै ॥५४॥
विश्वास-प्रस्तुतिः
सांप्रदायिकपराशरपुत्र-
प्रोक्तसूत्रमतगत्यनुरोधात् ।
शास्त्रगूढहृदयं हि दयालोः
कृत्स्नमप्ययमबुद्ध सुबुद्धिः ॥५५॥
मूलम्
सांप्रदायिकपराशरपुत्र-
प्रोक्तसूत्रमतगत्यनुरोधात् ।
शास्त्रगूढहृदयं हि दयालोः
कृत्स्नमप्ययमबुद्ध सुबुद्धिः ॥५५॥
विश्वास-प्रस्तुतिः
सोऽधिगम्य चरमाश्रममार्यः
पूर्वपुण्यनिचयैरधिगम्यम् ।
स्थानमर्च्यमपि हंसपुरोगैः
उन्नतं ध्रुव इवैत्य चकाशे ॥५६॥
मूलम्
सोऽधिगम्य चरमाश्रममार्यः
पूर्वपुण्यनिचयैरधिगम्यम् ।
स्थानमर्च्यमपि हंसपुरोगैः
उन्नतं ध्रुव इवैत्य चकाशे ॥५६॥
विश्वास-प्रस्तुतिः
हंसभावमधिगम्य सुधीन्द्रे
तं समर्चति च संसृतिमुक्त्यै ।
सञ्चचाल कथयन्निव मेघः
चञ्चलाचपलतां विषयेषु ॥५७॥
मूलम्
हंसभावमधिगम्य सुधीन्द्रे
तं समर्चति च संसृतिमुक्त्यै ।
सञ्चचाल कथयन्निव मेघः
चञ्चलाचपलतां विषयेषु ॥५७॥
विश्वास-प्रस्तुतिः
छात्रमुख्यममुमाह कियद्भिः
वासरैर्गतघने गगने सः ।
पश्य सौम्य शरदा विमलं खं
विद्ययेव विशदं परतत्त्वम् ॥५८॥
मूलम्
छात्रमुख्यममुमाह कियद्भिः
वासरैर्गतघने गगने सः ।
पश्य सौम्य शरदा विमलं खं
विद्ययेव विशदं परतत्त्वम् ॥५८॥
विश्वास-प्रस्तुतिः
स त्वमुत्तमपुमानसि कश्चित्
तत्त्ववित्प्रवर नान्यसमानः ।
तद्यतस्व निरवद्यनिबन्धैः
सद्य एव जगदुद्धरणाय ॥५९॥
मूलम्
स त्वमुत्तमपुमानसि कश्चित्
तत्त्ववित्प्रवर नान्यसमानः ।
तद्यतस्व निरवद्यनिबन्धैः
सद्य एव जगदुद्धरणाय ॥५९॥
विश्वास-प्रस्तुतिः
गच्छ वत्स नगरं शशिमौलेः
स्वच्छदेवतटिनीकमनीयम् ।
तावता परमनुग्रहमाद्या
देवता तव करिष्यति तस्मिन् ॥६०॥
मूलम्
गच्छ वत्स नगरं शशिमौलेः
स्वच्छदेवतटिनीकमनीयम् ।
तावता परमनुग्रहमाद्या
देवता तव करिष्यति तस्मिन् ॥६०॥
विश्वास-प्रस्तुतिः
प्राप तापसवरः स हि काशीं
नीपकाननपरीतसमीपाम् ।
आपगानिकटहाटकचञ्चद्
यूपपङ्क्तिसमुदञ्चितशोभाम् ॥६१॥
मूलम्
प्राप तापसवरः स हि काशीं
नीपकाननपरीतसमीपाम् ।
आपगानिकटहाटकचञ्चद्
यूपपङ्क्तिसमुदञ्चितशोभाम् ॥६१॥
विश्वास-प्रस्तुतिः
सोऽवगाह्य सलिलं सुरसिन्धोः
उत्ततार शितिकण्ठजटाभ्यः ।
जाह्नवीसलिलवेगहृतस्त-
द्योगपुण्यपरिपूर्ण इवेन्दुः ॥६२॥
मूलम्
सोऽवगाह्य सलिलं सुरसिन्धोः
उत्ततार शितिकण्ठजटाभ्यः ।
जाह्नवीसलिलवेगहृतस्त-
द्योगपुण्यपरिपूर्ण इवेन्दुः ॥६२॥
विश्वास-प्रस्तुतिः
विश्वेशश्चरणयुगं प्रणम्य भक्त्या
हर्याद्यैस्त्रिदशवरैः समर्चितस्य ।
सोऽनैषीत्प्रयतमना जगत्पवित्रे
क्षेत्रेऽसाविह समयं कियन्तमार्यः ॥६३॥
मूलम्
विश्वेशश्चरणयुगं प्रणम्य भक्त्या
हर्याद्यैस्त्रिदशवरैः समर्चितस्य ।
सोऽनैषीत्प्रयतमना जगत्पवित्रे
क्षेत्रेऽसाविह समयं कियन्तमार्यः ॥६३॥
विश्वास-प्रस्तुतिः
अथागमद्ब्राह्मणसूनुरादराद्
अधीतवेदो दलयन् स्वभासा ।
तेजांसि कश्चित्सरसीरुहाक्षो
दिदृक्षमाणः किल देशिकेन्द्रम् ॥६४॥
मूलम्
अथागमद्ब्राह्मणसूनुरादराद्
अधीतवेदो दलयन् स्वभासा ।
तेजांसि कश्चित्सरसीरुहाक्षो
दिदृक्षमाणः किल देशिकेन्द्रम् ॥६४॥
विश्वास-प्रस्तुतिः
पृष्टो बभाण गुरुमुत्तरमुत्तरज्ञो
विप्रो गुरो मम गृहं बुध चोलदेशे ।
यत्रापगा वहति तत्र कवेरकन्या
यस्याः पयो हरिपदांबुजभक्तिमूलम् ॥६५॥
मूलम्
पृष्टो बभाण गुरुमुत्तरमुत्तरज्ञो
विप्रो गुरो मम गृहं बुध चोलदेशे ।
यत्रापगा वहति तत्र कवेरकन्या
यस्याः पयो हरिपदांबुजभक्तिमूलम् ॥६५॥
विश्वास-प्रस्तुतिः
अटाट्यमानो महतो दिदृक्षुः
क्रमादिमं देशमुपागतोऽस्मि ।
बिभेमि मज्जन् भववारिराशौ
तत्पारगं मां कृपया विधेहि ॥६६॥
मूलम्
अटाट्यमानो महतो दिदृक्षुः
क्रमादिमं देशमुपागतोऽस्मि ।
बिभेमि मज्जन् भववारिराशौ
तत्पारगं मां कृपया विधेहि ॥६६॥
विश्वास-प्रस्तुतिः
इत्युक्तवन्तं कृपया महात्मा
व्यदीपयत्संन्यसनं यथावत् ।
प्राहुर्महान्तः प्रथमं विनेयं
तं देशिकेन्द्रस्य सनन्दनाख्यम् ॥६७॥
मूलम्
इत्युक्तवन्तं कृपया महात्मा
व्यदीपयत्संन्यसनं यथावत् ।
प्राहुर्महान्तः प्रथमं विनेयं
तं देशिकेन्द्रस्य सनन्दनाख्यम् ॥६७॥
विश्वास-प्रस्तुतिः
शान्तां दिशं देवनृणां विहाय
नान्या दिगस्मै समरोचताद्धा ।
तत्रत्यतीर्थानि निषेवमाणो
गन्तुं मनोऽधाद्बदरीङ्क्रमात्सः ॥६८॥
मूलम्
शान्तां दिशं देवनृणां विहाय
नान्या दिगस्मै समरोचताद्धा ।
तत्रत्यतीर्थानि निषेवमाणो
गन्तुं मनोऽधाद्बदरीङ्क्रमात्सः ॥६८॥
विश्वास-प्रस्तुतिः
स द्वादशे वयसि तत्र समाधिनिष्ठैः
ब्रह्मर्षिभिः श्रुतिशिरो बहुधा विचार्य ।
षड्भिश्च सप्तभिरथो नवभिश्च खिन्नैः
भव्यं गभीरमधुरं फणति स्म भाष्यम् ॥६९॥
मूलम्
स द्वादशे वयसि तत्र समाधिनिष्ठैः
ब्रह्मर्षिभिः श्रुतिशिरो बहुधा विचार्य ।
षड्भिश्च सप्तभिरथो नवभिश्च खिन्नैः
भव्यं गभीरमधुरं फणति स्म भाष्यम् ॥६९॥
विश्वास-प्रस्तुतिः
करतलकलिताद्वयात्मतत्त्वं
क्षपित दुरन्त चिरन्तनप्रमोहम् ।
उपचितमुदितोदितैर्गुणौघैः
उपनिषदामयमुज्जहार भाष्यम् ॥७०॥
मूलम्
करतलकलिताद्वयात्मतत्त्वं
क्षपित दुरन्त चिरन्तनप्रमोहम् ।
उपचितमुदितोदितैर्गुणौघैः
उपनिषदामयमुज्जहार भाष्यम् ॥७०॥
विश्वास-प्रस्तुतिः
ततो महाभारतसारभूताः
सा व्याकरोद्भागवतीश्च गीताः ।
सनत्सुजातीयमसत्सुदूरं
ततो नृसिंहस्य च तापनीयम् ॥७१॥
मूलम्
ततो महाभारतसारभूताः
सा व्याकरोद्भागवतीश्च गीताः ।
सनत्सुजातीयमसत्सुदूरं
ततो नृसिंहस्य च तापनीयम् ॥७१॥
विश्वास-प्रस्तुतिः
अथ व्रतीन्दुर्विधिवद्विनेयान्
अध्यापयामास स नैजभाष्यम् ।
तर्कैः परेषां तरुणैर्विवस्वन्-
मरीचिभिः सिन्धुवदप्रशोष्यम् ॥७२॥
मूलम्
अथ व्रतीन्दुर्विधिवद्विनेयान्
अध्यापयामास स नैजभाष्यम् ।
तर्कैः परेषां तरुणैर्विवस्वन्-
मरीचिभिः सिन्धुवदप्रशोष्यम् ॥७२॥
विश्वास-प्रस्तुतिः
स जातु शारीरकसूत्रभाष्यम्
अध्यापयन्नभ्रसरित्समीपे ।
शिष्यालिशङ्काः शमयन्नुवास
यावन्नभोमध्यमितो विवस्वान् ॥७३॥
मूलम्
स जातु शारीरकसूत्रभाष्यम्
अध्यापयन्नभ्रसरित्समीपे ।
शिष्यालिशङ्काः शमयन्नुवास
यावन्नभोमध्यमितो विवस्वान् ॥७३॥
विश्वास-प्रस्तुतिः
श्रान्तेष्वथाधीत्य शनैर्विनेये-
ष्वाचार्य उत्तिष्ठति यावदेषः ।
तावद् द्विजः कश्चन वृद्धरूपः
कस्त्वं किमध्यापयसीत्यपृच्छत् ॥७४॥
मूलम्
श्रान्तेष्वथाधीत्य शनैर्विनेये-
ष्वाचार्य उत्तिष्ठति यावदेषः ।
तावद् द्विजः कश्चन वृद्धरूपः
कस्त्वं किमध्यापयसीत्यपृच्छत् ॥७४॥
विश्वास-प्रस्तुतिः
शिष्यास्तमूचुर्भगवानसौ नो
गुरुः समस्तोपनिषत्स्वतन्त्रः ।
अनेन दूरीकृतभेदवादम्
अकारि शारीरकसूत्रभाष्यम् ॥७५॥
मूलम्
शिष्यास्तमूचुर्भगवानसौ नो
गुरुः समस्तोपनिषत्स्वतन्त्रः ।
अनेन दूरीकृतभेदवादम्
अकारि शारीरकसूत्रभाष्यम् ॥७५॥
विश्वास-प्रस्तुतिः
पप्रच्छ सोऽध्यायमथाधिकृत्य
तृतीयमारंभगतं यतीशम् ।
तदन्तरेत्यादिकमस्ति सूत्रं
ब्रूह्येतदर्थं यदि वेत्थ किञ्चित् ॥७६॥
मूलम्
पप्रच्छ सोऽध्यायमथाधिकृत्य
तृतीयमारंभगतं यतीशम् ।
तदन्तरेत्यादिकमस्ति सूत्रं
ब्रूह्येतदर्थं यदि वेत्थ किञ्चित् ॥७६॥
विश्वास-प्रस्तुतिः
स प्राह जीवः करणावसादे
संवेष्टितो गच्छति भूतसूक्ष्मैः ।
ताण्डिश्रुतौ गौतमजैवलीय
प्रश्नोत्तराभ्यां प्रथितोऽयमर्थः ॥७७॥
मूलम्
स प्राह जीवः करणावसादे
संवेष्टितो गच्छति भूतसूक्ष्मैः ।
ताण्डिश्रुतौ गौतमजैवलीय
प्रश्नोत्तराभ्यां प्रथितोऽयमर्थः ॥७७॥
विश्वास-प्रस्तुतिः
एवं वदन्तौ यतिराड्द्विजेन्द्रौ
विलोक्य पार्श्वस्थितपद्मपादः ।
आचार्यमाहेति महीसुरोऽयं
व्यासो हि वेदान्तरहस्यवेत्ता ॥७८॥
मूलम्
एवं वदन्तौ यतिराड्द्विजेन्द्रौ
विलोक्य पार्श्वस्थितपद्मपादः ।
आचार्यमाहेति महीसुरोऽयं
व्यासो हि वेदान्तरहस्यवेत्ता ॥७८॥
विश्वास-प्रस्तुतिः
इतीदमाकर्ण्य वचो विचित्रं
स भाष्यकृत्सूत्रकृतं दिदृक्षुः ।
कृताञ्जलिस्तं प्रयतः प्रणम्य
बभाण वाणीं नवपद्यरूपाम् ॥७९॥
मूलम्
इतीदमाकर्ण्य वचो विचित्रं
स भाष्यकृत्सूत्रकृतं दिदृक्षुः ।
कृताञ्जलिस्तं प्रयतः प्रणम्य
बभाण वाणीं नवपद्यरूपाम् ॥७९॥
विश्वास-प्रस्तुतिः
द्वैपायन स्वागतमस्तु तुभ्यं
दृष्ट्वा भवन्तं चरिता मयाऽर्थाः ।
युक्तं तदेतत्त्वयि सर्वकालं
परोपकारव्रतदीक्षितत्वात् ॥८०॥
मूलम्
द्वैपायन स्वागतमस्तु तुभ्यं
दृष्ट्वा भवन्तं चरिता मयाऽर्थाः ।
युक्तं तदेतत्त्वयि सर्वकालं
परोपकारव्रतदीक्षितत्वात् ॥८०॥
विश्वास-प्रस्तुतिः
अकारि यत्साहसमात्मबुद्ध्या
भवत्प्रशिष्यव्यपदेशभाजा ।
विचार्य तत्सूक्तिदुरुक्तिजालम्
अर्हः समीकर्तुमिदं कृपालुः ॥८१॥
मूलम्
अकारि यत्साहसमात्मबुद्ध्या
भवत्प्रशिष्यव्यपदेशभाजा ।
विचार्य तत्सूक्तिदुरुक्तिजालम्
अर्हः समीकर्तुमिदं कृपालुः ॥८१॥
विश्वास-प्रस्तुतिः
इत्थं निगद्योपरतस्य हस्तात्
हस्तद्वयेनाऽऽदरतः स भाष्यम् ।
आदाय सर्वत्र निरैक्षतासौ
प्रसादगांभीर्यगुणाभिरामम् ॥८२॥
मूलम्
इत्थं निगद्योपरतस्य हस्तात्
हस्तद्वयेनाऽऽदरतः स भाष्यम् ।
आदाय सर्वत्र निरैक्षतासौ
प्रसादगांभीर्यगुणाभिरामम् ॥८२॥
विश्वास-प्रस्तुतिः
बह्वर्थगर्भाणि लघूनि यानि
निगूढभावानि च मत्कृतानि ।
त्वामेवमित्थं विरहय्य नास्ति
यस्तानि सम्यग्विवरीतुमीष्टे ॥८३॥
मूलम्
बह्वर्थगर्भाणि लघूनि यानि
निगूढभावानि च मत्कृतानि ।
त्वामेवमित्थं विरहय्य नास्ति
यस्तानि सम्यग्विवरीतुमीष्टे ॥८३॥
विश्वास-प्रस्तुतिः
भावं मदीयमवबुध्य यथावदेवं
भाष्यं प्रणेतुमनलं भगवानपीशः ।
साङ्ख्यादिनाऽन्यथयितं श्रुतिमूर्धवर्त्मो-
द्धर्तुं कथं परशिवांशमृते प्रभुः स्यात् ॥८४॥
मूलम्
भावं मदीयमवबुध्य यथावदेवं
भाष्यं प्रणेतुमनलं भगवानपीशः ।
साङ्ख्यादिनाऽन्यथयितं श्रुतिमूर्धवर्त्मो-
द्धर्तुं कथं परशिवांशमृते प्रभुः स्यात् ॥८४॥
विश्वास-प्रस्तुतिः
प्रसन्नगंभीरभवत्प्रणीत-
प्रबन्धसन्दर्भभवः प्रहर्षः ।
प्रोत्साहयत्यात्मविदामृषीणां
वरेण्य विश्राणयितुं वरं ते ॥८५॥
मूलम्
प्रसन्नगंभीरभवत्प्रणीत-
प्रबन्धसन्दर्भभवः प्रहर्षः ।
प्रोत्साहयत्यात्मविदामृषीणां
वरेण्य विश्राणयितुं वरं ते ॥८५॥
विश्वास-प्रस्तुतिः
अष्टौ वयांसि विधिना तव वत्स दत्ता-
न्यन्यानि चाष्ट भवता सुधियाऽऽर्जितानि ।
भूयोऽपि षोडश भवन्तु भवाज्ञया ते
भूयाच्च भाष्यमिदमारविचन्द्रतारम् ॥८६॥
मूलम्
अष्टौ वयांसि विधिना तव वत्स दत्ता-
न्यन्यानि चाष्ट भवता सुधियाऽऽर्जितानि ।
भूयोऽपि षोडश भवन्तु भवाज्ञया ते
भूयाच्च भाष्यमिदमारविचन्द्रतारम् ॥८६॥
विश्वास-प्रस्तुतिः
ततः स वेदान्तरहस्यवेत्ता
भेत्ताऽमतानां तरसा मतानाम् ।
प्रयागमागात्प्रथमं जिगीषुः
कुमारिलं साधितकर्मजालम् ॥८७॥
मूलम्
ततः स वेदान्तरहस्यवेत्ता
भेत्ताऽमतानां तरसा मतानाम् ।
प्रयागमागात्प्रथमं जिगीषुः
कुमारिलं साधितकर्मजालम् ॥८७॥
विश्वास-प्रस्तुतिः
८॥गिरेरवप्लुत्य गतिः सतां यः
प्रामाण्यमाम्नायगिरामवादीत् ।
यस्य प्रसादात्त्रिदिवौकसोऽपि
प्रपेदिरे प्राक्तनयज्ञभागान् ॥८८॥
मूलम्
८॥गिरेरवप्लुत्य गतिः सतां यः
प्रामाण्यमाम्नायगिरामवादीत् ।
यस्य प्रसादात्त्रिदिवौकसोऽपि
प्रपेदिरे प्राक्तनयज्ञभागान् ॥८८॥
विश्वास-प्रस्तुतिः
सोऽयं गुरोरुन्मथनप्रसक्तं
महत्तरं दोषमपाकरिष्णुः ।
अशेषवेदार्थविदास्तिकत्वात्
तुषानलं प्राविशदेष धीरः ॥८९॥
मूलम्
सोऽयं गुरोरुन्मथनप्रसक्तं
महत्तरं दोषमपाकरिष्णुः ।
अशेषवेदार्थविदास्तिकत्वात्
तुषानलं प्राविशदेष धीरः ॥८९॥
विश्वास-प्रस्तुतिः
श्रुत्वेति तां सत्वरमेष गच्छन्
व्यालोकयत्तं तुषराशिसंस्थम् ।
प्रभाकराद्यैः प्रथितप्रभावैः
उपस्थितं साश्रुमुखैर्विनेयैः ॥९०॥
मूलम्
श्रुत्वेति तां सत्वरमेष गच्छन्
व्यालोकयत्तं तुषराशिसंस्थम् ।
प्रभाकराद्यैः प्रथितप्रभावैः
उपस्थितं साश्रुमुखैर्विनेयैः ॥९०॥
विश्वास-प्रस्तुतिः
दृष्ट्वा भाष्यं हृष्टचेताः कुमारः
प्रोचे वाचं शङ्करं देशिकेन्द्रम् ।
लोके त्वल्पो मत्सरग्रामशाली
सर्वज्ञानो नाल्पभावस्य पात्रम् ॥९१॥
मूलम्
दृष्ट्वा भाष्यं हृष्टचेताः कुमारः
प्रोचे वाचं शङ्करं देशिकेन्द्रम् ।
लोके त्वल्पो मत्सरग्रामशाली
सर्वज्ञानो नाल्पभावस्य पात्रम् ॥९१॥
विश्वास-प्रस्तुतिः
भवादृशां दर्शनमेव लोके
विशेषतोऽस्मिन् समये दुरापम् ।
पुराऽऽर्जितैः पुण्यचयैः कथञ्चित्
त्वमद्य मे दृष्टिपथं गतोऽभूः ॥९२॥
मूलम्
भवादृशां दर्शनमेव लोके
विशेषतोऽस्मिन् समये दुरापम् ।
पुराऽऽर्जितैः पुण्यचयैः कथञ्चित्
त्वमद्य मे दृष्टिपथं गतोऽभूः ॥९२॥
विश्वास-प्रस्तुतिः
निर्व्याजकारुण्य मुहूर्तमात्रम्
अत्र त्वया भाव्यमहं तु यावत् ।
योगीन्द्रहृत्पङ्कजभाग्यमेतत्
त्यजाम्यसून् रूपमवेक्षमाण: ॥९३॥
मूलम्
निर्व्याजकारुण्य मुहूर्तमात्रम्
अत्र त्वया भाव्यमहं तु यावत् ।
योगीन्द्रहृत्पङ्कजभाग्यमेतत्
त्यजाम्यसून् रूपमवेक्षमाण: ॥९३॥
विश्वास-प्रस्तुतिः
इत्यूचिवांसमिममिद्धसुखप्रकाशं
ब्रह्मोपदिश्य बहिरन्तरपास्तमोहम् ।
तन्वन्दयानिधिरसौ तरसाऽभ्रमार्गात्
श्रीमण्डनस्य निलयं स इयेष गन्तुम् ॥९४॥
मूलम्
इत्यूचिवांसमिममिद्धसुखप्रकाशं
ब्रह्मोपदिश्य बहिरन्तरपास्तमोहम् ।
तन्वन्दयानिधिरसौ तरसाऽभ्रमार्गात्
श्रीमण्डनस्य निलयं स इयेष गन्तुम् ॥९४॥
विश्वास-प्रस्तुतिः
अथ प्रतस्थे भगवान् प्रयागात्
तं मण्डनं पण्डितमाशु जेतुम् ।
गच्छन् स्वसृत्या पुरमालुलोके
माहिष्मतीं मण्डनमण्डितां सः ॥९५॥
मूलम्
अथ प्रतस्थे भगवान् प्रयागात्
तं मण्डनं पण्डितमाशु जेतुम् ।
गच्छन् स्वसृत्या पुरमालुलोके
माहिष्मतीं मण्डनमण्डितां सः ॥९५॥
विश्वास-प्रस्तुतिः
प्रफुल्लराजीववने विहारी
तरङ्गरिङ्गत्कणशीकरार्द्रः ।
रेवामरुत्कंपितसालमालः
श्रमापहृद् भाष्यकृतं सिषेवे ॥९६॥
मूलम्
प्रफुल्लराजीववने विहारी
तरङ्गरिङ्गत्कणशीकरार्द्रः ।
रेवामरुत्कंपितसालमालः
श्रमापहृद् भाष्यकृतं सिषेवे ॥९६॥
विश्वास-प्रस्तुतिः
तस्मिन् स विश्रम्य कृताह्निकः सन्
खस्वस्तिकारोहणशालिनीने ।
गच्छन्नसौ मण्डनपण्डितौको
दासीस्तदीयाः स ददर्श मार्गे ॥९७॥
मूलम्
तस्मिन् स विश्रम्य कृताह्निकः सन्
खस्वस्तिकारोहणशालिनीने ।
गच्छन्नसौ मण्डनपण्डितौको
दासीस्तदीयाः स ददर्श मार्गे ॥९७॥
विश्वास-प्रस्तुतिः
कुत्रालयो मण्डनपण्डितस्ये-
त्येताः स पप्रच्छ जलाय गन्त्रीः ।
ताश्चापि दृष्ट्वाऽद्भुतशङ्करं तं
सन्तोषवत्यो ददुरुत्तरं स्म ॥९८॥
मूलम्
कुत्रालयो मण्डनपण्डितस्ये-
त्येताः स पप्रच्छ जलाय गन्त्रीः ।
ताश्चापि दृष्ट्वाऽद्भुतशङ्करं तं
सन्तोषवत्यो ददुरुत्तरं स्म ॥९८॥
विश्वास-प्रस्तुतिः
स्वतः प्रमाणं परतः प्रमाणं
कीराङ्गना यत्र गिरं गिरन्ति ।
द्वारस्थ नीडान्तर संनिरुद्धा
जानीहि तन्मण्डनपण्डितौकः ॥९९॥+++(5)+++
मूलम्
स्वतः प्रमाणं परतः प्रमाणं
कीराङ्गना यत्र गिरं गिरन्ति ।
द्वारस्थ नीडान्तर संनिरुद्धा
जानीहि तन्मण्डनपण्डितौकः ॥९९॥
विश्वास-प्रस्तुतिः
फलप्रदं कर्म फलप्रदोऽजः
कीराङ्गना यत्र गिरं गिरन्ति ।
द्वारस्थनीडान्तर संनिरुद्धा
जानीहि तन्मण्डनपण्डितौकः ॥१००॥
मूलम्
फलप्रदं कर्म फलप्रदोऽजः
कीराङ्गना यत्र गिरं गिरन्ति ।
द्वारस्थनीडान्तर संनिरुद्धा
जानीहि तन्मण्डनपण्डितौकः ॥१००॥
विश्वास-प्रस्तुतिः
जगद् ध्रुवं स्याज्जगदध्रुवं स्यात्
कीराङ्गना यत्र गिरं गिरन्ति ।
द्वारस्थ नीडान्तर संनिरुद्धा
जानीहि तन्मण्डनपण्डितौकः ॥१०१॥
मूलम्
जगद् ध्रुवं स्याज्जगदध्रुवं स्यात्
कीराङ्गना यत्र गिरं गिरन्ति ।
द्वारस्थ नीडान्तर संनिरुद्धा
जानीहि तन्मण्डनपण्डितौकः ॥१०१॥
विश्वास-प्रस्तुतिः
पीत्वा तदुक्तीरथ तस्य गेहात्
गत्वा बहिः सद्म कवाटगुप्तम् ।
दुर्वेशमालोच्य स योगशक्त्या
व्योमाध्वनाऽवातरदङ्गणान्तः ॥१०२॥
मूलम्
पीत्वा तदुक्तीरथ तस्य गेहात्
गत्वा बहिः सद्म कवाटगुप्तम् ।
दुर्वेशमालोच्य स योगशक्त्या
व्योमाध्वनाऽवातरदङ्गणान्तः ॥१०२॥
विश्वास-प्रस्तुतिः
सौधाग्रसञ्च्छन्ननभोऽवकाशं
प्रविश्य तत्प्राप्य कवेः सकाशम् ।
विद्याविशेषात्तयशःप्रकाशं
ददर्श तं पद्मजसन्निकाशम् ॥१०३॥
मूलम्
सौधाग्रसञ्च्छन्ननभोऽवकाशं
प्रविश्य तत्प्राप्य कवेः सकाशम् ।
विद्याविशेषात्तयशःप्रकाशं
ददर्श तं पद्मजसन्निकाशम् ॥१०३॥
विश्वास-प्रस्तुतिः
तपोमहिम्नैव तपोनिधानं
सजैमिनिं सत्यवतीतनूजम् ।
यथाविधि श्राद्धविधौ निमन्त्र्य
तत्पादपद्मान्यवनेजयन्तम् ॥१०४॥
मूलम्
तपोमहिम्नैव तपोनिधानं
सजैमिनिं सत्यवतीतनूजम् ।
यथाविधि श्राद्धविधौ निमन्त्र्य
तत्पादपद्मान्यवनेजयन्तम् ॥१०४॥
विश्वास-प्रस्तुतिः
अथोपसंस्पृश्य जलं स शान्तः
ससंभ्रमं मण्डनपण्डितोऽपि ।
व्यासाज्ञया शास्त्रविदर्चयित्वा
न्यमन्त्रयद्भैक्षकृते महर्षिम् ॥१०५॥
मूलम्
अथोपसंस्पृश्य जलं स शान्तः
ससंभ्रमं मण्डनपण्डितोऽपि ।
व्यासाज्ञया शास्त्रविदर्चयित्वा
न्यमन्त्रयद्भैक्षकृते महर्षिम् ॥१०५॥
विश्वास-प्रस्तुतिः
स चाब्रवीत्सौम्य विवादभिक्षाम्
इच्छन् भवत्संनिधिमागतोऽस्मि ।
साऽन्योन्यशिष्यत्वपणा प्रदेया
नास्त्यादरः प्राकृतभक्तभैक्ष्ये ॥१०६॥
मूलम्
स चाब्रवीत्सौम्य विवादभिक्षाम्
इच्छन् भवत्संनिधिमागतोऽस्मि ।
साऽन्योन्यशिष्यत्वपणा प्रदेया
नास्त्यादरः प्राकृतभक्तभैक्ष्ये ॥१०६॥
विश्वास-प्रस्तुतिः
मम न किञ्चिदपि ध्रुवमीप्सितं
श्रुतिशिरःपथविस्तृतिमन्तरा ।
अवहितेन मखेष्ववधीरितः
स भवता भवतापहिमद्युतिः ॥१०७॥
मूलम्
मम न किञ्चिदपि ध्रुवमीप्सितं
श्रुतिशिरःपथविस्तृतिमन्तरा ।
अवहितेन मखेष्ववधीरितः
स भवता भवतापहिमद्युतिः ॥१०७॥
विश्वास-प्रस्तुतिः
जगति संप्रति तं प्रथयाम्यहं
समभिभूय समस्तविवादिनम् ।
त्वमपि संश्रय मे मतमुत्तमं
विवद वा वद वाऽस्मि जितस्त्विति ॥१०८॥
मूलम्
जगति संप्रति तं प्रथयाम्यहं
समभिभूय समस्तविवादिनम् ।
त्वमपि संश्रय मे मतमुत्तमं
विवद वा वद वाऽस्मि जितस्त्विति ॥१०८॥
विश्वास-प्रस्तुतिः
इति यतिप्रवरस्य निशम्य तद्
वचनमर्थवदागतविस्मयः ।
परिभवेन नवेन महायशाः
स निजगौ निजगौरवमास्थितः ॥१०९॥
मूलम्
इति यतिप्रवरस्य निशम्य तद्
वचनमर्थवदागतविस्मयः ।
परिभवेन नवेन महायशाः
स निजगौ निजगौरवमास्थितः ॥१०९॥
विश्वास-प्रस्तुतिः
वादं करिष्यामि न सन्दिहेऽत्र
जयाजयौ नौ वदिता न कश्चित् ।
न कण्ठशोषैकफलो विवादो
मिथो जिगीषू कुरुतस्तु वादम् ॥११०॥
मूलम्
वादं करिष्यामि न सन्दिहेऽत्र
जयाजयौ नौ वदिता न कश्चित् ।
न कण्ठशोषैकफलो विवादो
मिथो जिगीषू कुरुतस्तु वादम् ॥११०॥
विश्वास-प्रस्तुतिः
तथेति सूक्ते स्मितशङ्करेण
भविष्यते वादकथा श्व एव ।
तत्साक्षिभावं व्रजतं मुनीन्द्रौ
इत्यर्थयद् बादरजैमिनी सः ॥१११॥
मूलम्
तथेति सूक्ते स्मितशङ्करेण
भविष्यते वादकथा श्व एव ।
तत्साक्षिभावं व्रजतं मुनीन्द्रौ
इत्यर्थयद् बादरजैमिनी सः ॥१११॥
विश्वास-प्रस्तुतिः
विधाय भार्यां विदुषीं सदस्यां
विधीयतां वादकथा सुधीन्द्र ।
इत्थं सरस्वत्यवतारताज्ञौ
तद्धर्मपत्न्यास्तमभाषिषाताम् ॥११२॥
मूलम्
विधाय भार्यां विदुषीं सदस्यां
विधीयतां वादकथा सुधीन्द्र ।
इत्थं सरस्वत्यवतारताज्ञौ
तद्धर्मपत्न्यास्तमभाषिषाताम् ॥११२॥
विश्वास-प्रस्तुतिः
अथानुमोद्याभिहितं मुनिभ्यां
स मण्डनार्यः प्रकृतं चिकीर्षुः ।
आनर्च दैवोपगतान्मुनीन्द्रान्
अग्नीनिव त्रीन्मुनिशेखरांस्तान् ॥११३॥
मूलम्
अथानुमोद्याभिहितं मुनिभ्यां
स मण्डनार्यः प्रकृतं चिकीर्षुः ।
आनर्च दैवोपगतान्मुनीन्द्रान्
अग्नीनिव त्रीन्मुनिशेखरांस्तान् ॥११३॥
विश्वास-प्रस्तुतिः
अथ क्रियान्ते किल सूपविष्टाः
त्रय्यन्तवेद्यार्थविदस्त्रयोऽमी ।
अमन्त्रयंश्चारु परस्परं ते
मुहूर्तमात्रं किमपि प्रहृष्टाः ॥११४॥
मूलम्
अथ क्रियान्ते किल सूपविष्टाः
त्रय्यन्तवेद्यार्थविदस्त्रयोऽमी ।
अमन्त्रयंश्चारु परस्परं ते
मुहूर्तमात्रं किमपि प्रहृष्टाः ॥११४॥
विश्वास-प्रस्तुतिः
प्रातः शोणसरोजबान्धवरुचिप्रद्योतितेव्योमनि
प्रख्यातः स विधाय कर्म नियतं प्रज्ञावतामग्रणीः ।
साकं शिष्यवरैः प्रपद्य सदनं सन्मण्डितं माण्डनं
वादायोपविवेश पण्डितसभामध्ये मुनिर्ध्येयवित्॥११५॥
मूलम्
प्रातः शोणसरोजबान्धवरुचिप्रद्योतितेव्योमनि
प्रख्यातः स विधाय कर्म नियतं प्रज्ञावतामग्रणीः ।
साकं शिष्यवरैः प्रपद्य सदनं सन्मण्डितं माण्डनं
वादायोपविवेश पण्डितसभामध्ये मुनिर्ध्येयवित्॥११५॥
विश्वास-प्रस्तुतिः
ततः समादिश्य सदस्यतायां
सधर्मिणीं मण्डनपण्डितोऽपि ।
स शारदां नाम समस्तविद्या-
विशारदां वादसमुत्सुकोऽभूत् ॥११६॥
मूलम्
ततः समादिश्य सदस्यतायां
सधर्मिणीं मण्डनपण्डितोऽपि ।
स शारदां नाम समस्तविद्या-
विशारदां वादसमुत्सुकोऽभूत् ॥११६॥
विश्वास-प्रस्तुतिः
पत्या नियुक्ता पतिदेवता सा
सदस्यभावे सुदती चकाशे ।
तयोर्विवेक्तुं श्रुततारतम्यं
समागता संसदि भारतीव ॥११७॥
मूलम्
पत्या नियुक्ता पतिदेवता सा
सदस्यभावे सुदती चकाशे ।
तयोर्विवेक्तुं श्रुततारतम्यं
समागता संसदि भारतीव ॥११७॥
विश्वास-प्रस्तुतिः
प्रवृद्धवादोत्सुकतां तदीयां
विज्ञाय विज्ञः प्रथमं यतीन्द्रः ।
परावरज्ञः स परावरैक्य-
परां प्रतिज्ञामकरोत्स्वकीयाम् ॥११८॥
मूलम्
प्रवृद्धवादोत्सुकतां तदीयां
विज्ञाय विज्ञः प्रथमं यतीन्द्रः ।
परावरज्ञः स परावरैक्य-
परां प्रतिज्ञामकरोत्स्वकीयाम् ॥११८॥
विश्वास-प्रस्तुतिः
ब्रह्मैकं परमार्थसच्चिदमलं विश्वप्रपञ्चात्मना
शुक्ती रूप्यपरात्मनेव बहलाज्ञानावृतं भासते ।
तज्ञानान्निखिलप्रपञ्चनिलया स्वात्मव्यवस्था परं
निर्वाणं जनिमुक्तमभ्युपगतं मानं श्रुतेर्मस्तकम् ॥११९॥
मूलम्
ब्रह्मैकं परमार्थसच्चिदमलं विश्वप्रपञ्चात्मना
शुक्ती रूप्यपरात्मनेव बहलाज्ञानावृतं भासते ।
तज्ञानान्निखिलप्रपञ्चनिलया स्वात्मव्यवस्था परं
निर्वाणं जनिमुक्तमभ्युपगतं मानं श्रुतेर्मस्तकम् ॥११९॥
विश्वास-प्रस्तुतिः
बाढं जये यदि पराजयभागहं स्यां
सन्न्यासमङ्ग परिहृत्य कषायचेलम् ।
शुक्लं वसीय वसनं द्वयभारतीयं
वादे जयाजयफलप्रतिदीपिकाऽस्तु ॥१२०॥
मूलम्
बाढं जये यदि पराजयभागहं स्यां
सन्न्यासमङ्ग परिहृत्य कषायचेलम् ।
शुक्लं वसीय वसनं द्वयभारतीयं
वादे जयाजयफलप्रतिदीपिकाऽस्तु ॥१२०॥
विश्वास-प्रस्तुतिः
इत्थं प्रतिज्ञां कृतवत्युदारां
श्रीशङ्करे भिक्षुवरे स्वकीयाम् ।
स विश्वरूपो गृहमेधिवर्यः
चक्रे प्रतिज्ञां स्वमतप्रतिष्ठाम् ॥१२१॥
मूलम्
इत्थं प्रतिज्ञां कृतवत्युदारां
श्रीशङ्करे भिक्षुवरे स्वकीयाम् ।
स विश्वरूपो गृहमेधिवर्यः
चक्रे प्रतिज्ञां स्वमतप्रतिष्ठाम् ॥१२१॥
विश्वास-प्रस्तुतिः
वेदान्ता न प्रमाणं चितिवपुषि पदे तत्र सङ्गत्ययोगात्
पूर्वो भागः प्रमाणं पदचयगमिते कार्यवस्तुन्यशेषे ।
शब्दानां कार्यमात्रं प्रति समधिगता शक्तिरभ्युन्नतानां
कर्मभ्यो मुक्तिरिष्टा तदिह तनुभृतामायुषः स्यात्समाप्तेः॥१२२॥
मूलम्
वेदान्ता न प्रमाणं चितिवपुषि पदे तत्र सङ्गत्ययोगात्
पूर्वो भागः प्रमाणं पदचयगमिते कार्यवस्तुन्यशेषे ।
शब्दानां कार्यमात्रं प्रति समधिगता शक्तिरभ्युन्नतानां
कर्मभ्यो मुक्तिरिष्टा तदिह तनुभृतामायुषः स्यात्समाप्तेः॥१२२॥
विश्वास-प्रस्तुतिः
वादे कृतेऽस्मिन्यदि मे जयान्यः
त्वयोदितात्स्याद्विपरीतभावः ।
येयं त्वयाऽभूद्गदिता प्रसाक्ष्ये
जानाति चेत्सा भविता वधूर्मे॥१२३॥
मूलम्
वादे कृतेऽस्मिन्यदि मे जयान्यः
त्वयोदितात्स्याद्विपरीतभावः ।
येयं त्वयाऽभूद्गदिता प्रसाक्ष्ये
जानाति चेत्सा भविता वधूर्मे॥१२३॥
विश्वास-प्रस्तुतिः
जेतुः पराजित इहाश्रममाददीते-
त्येतौ मिथः कृतपणौ यतिविश्वरूपौ ।
अंबामुदारधिषणामभिषिच्य साक्ष्ये
जल्पं वितेनतुरथो जयदत्तदृष्टी ॥१२४॥
मूलम्
जेतुः पराजित इहाश्रममाददीते-
त्येतौ मिथः कृतपणौ यतिविश्वरूपौ ।
अंबामुदारधिषणामभिषिच्य साक्ष्ये
जल्पं वितेनतुरथो जयदत्तदृष्टी ॥१२४॥
विश्वास-प्रस्तुतिः
आवश्यकं परिसमाप्य दिने दिने तौ
वादं समं व्यतनुतां किल सर्ववेदौ ।
एवं विजेतुमनसोरुपविष्टयोस्तां
मालां गले न्यधित सोभयभारतीयम् ॥१२५॥
मूलम्
आवश्यकं परिसमाप्य दिने दिने तौ
वादं समं व्यतनुतां किल सर्ववेदौ ।
एवं विजेतुमनसोरुपविष्टयोस्तां
मालां गले न्यधित सोभयभारतीयम् ॥१२५॥
विश्वास-प्रस्तुतिः
माला यदा मलिनभावमुपैति कण्ठे
यस्यापि तस्य विजयेतरनिश्चयः स्यात् ।
उक्त्वा गृहं गतवती गृहकर्मसक्ता
भिक्षाशनेऽपि चरितुं गृहिमस्करिभ्याम् ॥१२६॥
मूलम्
माला यदा मलिनभावमुपैति कण्ठे
यस्यापि तस्य विजयेतरनिश्चयः स्यात् ।
उक्त्वा गृहं गतवती गृहकर्मसक्ता
भिक्षाशनेऽपि चरितुं गृहिमस्करिभ्याम् ॥१२६॥
विश्वास-प्रस्तुतिः
ततो यतिक्ष्माभृदवेक्ष्य दाक्ष्यं
क्षोदक्षमं तस्य विचक्षणस्य ।
चिक्षेप तं क्षोभितसर्वपक्षं
विद्वत्समक्षाऽप्रतिभातकक्ष्यम् ॥१२७॥
मूलम्
ततो यतिक्ष्माभृदवेक्ष्य दाक्ष्यं
क्षोदक्षमं तस्य विचक्षणस्य ।
चिक्षेप तं क्षोभितसर्वपक्षं
विद्वत्समक्षाऽप्रतिभातकक्ष्यम् ॥१२७॥
विश्वास-प्रस्तुतिः
इत्याद्या दृढयुक्तिरस्य शुशुभे दत्तानुमोदागिरां
देव्या तादृशविश्वरूपरभसावष्टंभमुष्टिन्धया ।
भर्तृन्यासविलक्ष्यसूक्तिजननीसाक्षित्वकुक्षिंभरिः
सश्लाघाद्भुतपुष्पवृष्टिलहरी सौगन्ध्यपाणिन्धया ॥१२८॥
मूलम्
इत्याद्या दृढयुक्तिरस्य शुशुभे दत्तानुमोदागिरां
देव्या तादृशविश्वरूपरभसावष्टंभमुष्टिन्धया ।
भर्तृन्यासविलक्ष्यसूक्तिजननीसाक्षित्वकुक्षिंभरिः
सश्लाघाद्भुतपुष्पवृष्टिलहरी सौगन्ध्यपाणिन्धया ॥१२८॥
विश्वास-प्रस्तुतिः
इत्थं यतिक्षितिपतेरनुमोद्य युक्तिं
मालां च मण्डनगले मलिनामवेक्ष्य ।
भिक्षार्थमुच्चलतमद्य युवामितीमौ
आचष्ट तं पुनरुवाच यतीन्द्रमंबा ॥१२९॥
मूलम्
इत्थं यतिक्षितिपतेरनुमोद्य युक्तिं
मालां च मण्डनगले मलिनामवेक्ष्य ।
भिक्षार्थमुच्चलतमद्य युवामितीमौ
आचष्ट तं पुनरुवाच यतीन्द्रमंबा ॥१२९॥
विश्वास-प्रस्तुतिः
कोपातिरेकवशतः शपता पुरा मां
दुर्वाससा तदवधिर्विहितो जयस्ते ।
साऽहं यथागतमुपैमि शमिप्रवीरे-
त्युक्त्वा ससंभ्रमममुं निजधाम यान्तीम् ॥१३०॥
मूलम्
कोपातिरेकवशतः शपता पुरा मां
दुर्वाससा तदवधिर्विहितो जयस्ते ।
साऽहं यथागतमुपैमि शमिप्रवीरे-
त्युक्त्वा ससंभ्रमममुं निजधाम यान्तीम् ॥१३०॥
विश्वास-प्रस्तुतिः
जानामि त्वां देवि देवस्य धातुः
र्भार्यामिष्टामष्टमूर्तेः सगर्भ्याम् ।
वाचामाद्यां देवतां विश्वगुप्त्यै
चिन्मात्रामप्यात्तलक्ष्म्यादिरूपाम् ॥१३१॥
मूलम्
जानामि त्वां देवि देवस्य धातुः
र्भार्यामिष्टामष्टमूर्तेः सगर्भ्याम् ।
वाचामाद्यां देवतां विश्वगुप्त्यै
चिन्मात्रामप्यात्तलक्ष्म्यादिरूपाम् ॥१३१॥
विश्वास-प्रस्तुतिः
तस्मादस्मत्कल्पितेष्वर्च्यमाना
स्थानेषु त्वं शारदाख्या दिशन्ती ।
इष्टानर्थानृष्यशृङ्गादिकेषु
क्षेत्रेष्वास्स्व प्राप्तसत्संनिधाना ॥१३२॥
मूलम्
तस्मादस्मत्कल्पितेष्वर्च्यमाना
स्थानेषु त्वं शारदाख्या दिशन्ती ।
इष्टानर्थानृष्यशृङ्गादिकेषु
क्षेत्रेष्वास्स्व प्राप्तसत्संनिधाना ॥१३२॥
विश्वास-प्रस्तुतिः
तथेति संश्रुत्य सरस्वती सा
प्रायात्प्रियं धाम पितामहस्य ।
अदर्शनं तत्र समीक्ष्य सर्वे
आकस्मिकं विस्मयमीयुरुच्चैः ॥१३३॥
मूलम्
तथेति संश्रुत्य सरस्वती सा
प्रायात्प्रियं धाम पितामहस्य ।
अदर्शनं तत्र समीक्ष्य सर्वे
आकस्मिकं विस्मयमीयुरुच्चैः ॥१३३॥
विश्वास-प्रस्तुतिः
मण्डनमिश्रोऽप्यथ विधिपूर्वं
दत्त्वा वित्तं यागे सर्वम् ।
आत्मारोपितशोचिष्केशो
भेजे शङ्करमस्तमिताशः ॥१३४॥
मूलम्
मण्डनमिश्रोऽप्यथ विधिपूर्वं
दत्त्वा वित्तं यागे सर्वम् ।
आत्मारोपितशोचिष्केशो
भेजे शङ्करमस्तमिताशः ॥१३४॥
विश्वास-प्रस्तुतिः
सन्न्यासगृह्यविधिना सकलानि कर्मा-
ण्यह्नाय शङ्करगुरुर्विदुषोऽस्य कुर्वन् ।
कर्णे जगौ किमपि तत्त्वमसीति वाक्यं
कर्णेजपं निखिलसंसृतिदुःखहानेः ॥१३५॥
मूलम्
सन्न्यासगृह्यविधिना सकलानि कर्मा-
ण्यह्नाय शङ्करगुरुर्विदुषोऽस्य कुर्वन् ।
कर्णे जगौ किमपि तत्त्वमसीति वाक्यं
कर्णेजपं निखिलसंसृतिदुःखहानेः ॥१३५॥
विश्वास-प्रस्तुतिः
एवं पुराणगुरुणा परमात्मतत्त्वं
शिष्टो गुरोश्चरणयोर्निपपात तस्य ।
धन्योऽस्म्यहं तव गुरो करुणाकटाक्ष-
पातेन पातिततमा इति भाषमाणः ॥१३६॥
मूलम्
एवं पुराणगुरुणा परमात्मतत्त्वं
शिष्टो गुरोश्चरणयोर्निपपात तस्य ।
धन्योऽस्म्यहं तव गुरो करुणाकटाक्ष-
पातेन पातिततमा इति भाषमाणः ॥१३६॥
विश्वास-प्रस्तुतिः
ततः स संप्राप्य सुरेश्वराख्यां
दिगङ्गनाभिः क्रियमाणसख्याम् ।
सच्छिष्यतां भाष्यकृतश्च मुख्याम्
अवाप तुच्छीकृतधातृसौख्याम् ॥१३७॥
मूलम्
ततः स संप्राप्य सुरेश्वराख्यां
दिगङ्गनाभिः क्रियमाणसख्याम् ।
सच्छिष्यतां भाष्यकृतश्च मुख्याम्
अवाप तुच्छीकृतधातृसौख्याम् ॥१३७॥
विश्वास-प्रस्तुतिः
इति वशीकृतमण्डनपण्डितः
प्रणतसत्करणत्रयदण्डितः ।
सकलसद्गुणमण्डलमण्डितः
स निरगात् कृतदुर्मतखण्डितः ॥१३८॥
मूलम्
इति वशीकृतमण्डनपण्डितः
प्रणतसत्करणत्रयदण्डितः ।
सकलसद्गुणमण्डलमण्डितः
स निरगात् कृतदुर्मतखण्डितः ॥१३८॥
विश्वास-प्रस्तुतिः
तत्र महाराष्ट्रमुखे देशे
ग्रन्थान् प्रचारयन् प्राज्ञतमः ।
शमितमतान्तरमानः शनकैः
सनकोपमोऽगमच्छ्रीशैलम् ॥१३९॥
मूलम्
तत्र महाराष्ट्रमुखे देशे
ग्रन्थान् प्रचारयन् प्राज्ञतमः ।
शमितमतान्तरमानः शनकैः
सनकोपमोऽगमच्छ्रीशैलम् ॥१३९॥
विश्वास-प्रस्तुतिः
प्रणमद्भवबीजभर्जनं
प्रणिपत्यामृतसंपदार्जनम् ।
प्रमुमोद स मल्लिकार्जुनं
भ्रमरांबासचिवं नतार्जुनम् ॥१४०॥
मूलम्
प्रणमद्भवबीजभर्जनं
प्रणिपत्यामृतसंपदार्जनम् ।
प्रमुमोद स मल्लिकार्जुनं
भ्रमरांबासचिवं नतार्जुनम् ॥१४०॥
विश्वास-प्रस्तुतिः
तीररुहैः कृष्णायास्तीरेऽवात्सीत्तिरोहितोष्णायाः
आवर्जिततृष्णाया आचार्येन्द्रो निरस्तकार्ष्ण्यायाः ॥१४१॥
मूलम्
तीररुहैः कृष्णायास्तीरेऽवात्सीत्तिरोहितोष्णायाः
आवर्जिततृष्णाया आचार्येन्द्रो निरस्तकार्ष्ण्यायाः ॥१४१॥
विश्वास-प्रस्तुतिः
अथैकदासौ यतिसार्वभौमः
तीर्थानि सर्वाणि चरन् सतीर्थ्यैः ।
घोरात् कलेर्गोपितधर्ममागात्
गोकर्णमभ्यर्णचलार्णवौघम् ॥१४२॥
मूलम्
अथैकदासौ यतिसार्वभौमः
तीर्थानि सर्वाणि चरन् सतीर्थ्यैः ।
घोरात् कलेर्गोपितधर्ममागात्
गोकर्णमभ्यर्णचलार्णवौघम् ॥१४२॥
विश्वास-प्रस्तुतिः
विरिञ्चिनांभोरुहनाभवन्द्यं
प्रपञ्चनाट्याद्भुतसूत्रधारम् ।
तुष्टाव वामार्धवधूटिमस्त-
दुष्टावलेपं प्रणमन् महेशम् ॥१४३॥
मूलम्
विरिञ्चिनांभोरुहनाभवन्द्यं
प्रपञ्चनाट्याद्भुतसूत्रधारम् ।
तुष्टाव वामार्धवधूटिमस्त-
दुष्टावलेपं प्रणमन् महेशम् ॥१४३॥
विश्वास-प्रस्तुतिः
गुणत्रयातीतविभाव्यमित्थं
गोकर्णनाथं वचसाऽर्चयित्वा ।
तिस्रः स रात्रीस्त्रिजगत्पवित्रे
क्षेत्रे मुदैष क्षिपति स्म कालम् ॥१४४॥
मूलम्
गुणत्रयातीतविभाव्यमित्थं
गोकर्णनाथं वचसाऽर्चयित्वा ।
तिस्रः स रात्रीस्त्रिजगत्पवित्रे
क्षेत्रे मुदैष क्षिपति स्म कालम् ॥१४४॥
विश्वास-प्रस्तुतिः
वैकुण्ठकैलासविवर्तभूतं
हरन्नताघं हरिशङ्कराख्यम् ।
दिव्यस्थलं देशिकसार्वभौमः
तीर्थप्रवासी न चिरादयासीत् ॥१४५॥
मूलम्
वैकुण्ठकैलासविवर्तभूतं
हरन्नताघं हरिशङ्कराख्यम् ।
दिव्यस्थलं देशिकसार्वभौमः
तीर्थप्रवासी न चिरादयासीत् ॥१४५॥
विश्वास-प्रस्तुतिः
भ्रमापनोदाय भिदावदानम्
अद्वैतमुद्रामिह दर्शयन्तौ।
आराध्य देवौ हरिशङ्करौ स
द्व्यर्थाभिरित्यर्चयति स्म वाग्भिः ॥१४६॥
मूलम्
भ्रमापनोदाय भिदावदानम्
अद्वैतमुद्रामिह दर्शयन्तौ।
आराध्य देवौ हरिशङ्करौ स
द्व्यर्थाभिरित्यर्चयति स्म वाग्भिः ॥१४६॥
विश्वास-प्रस्तुतिः
समावहन् केसरितां वरां यः
सुरद्विषत्कुञ्जरमाजघान ।
प्रह्लादमुल्लासितमादधानं
पञ्चाननं तं प्रणुमः पुराणम् ॥१४७॥
मूलम्
समावहन् केसरितां वरां यः
सुरद्विषत्कुञ्जरमाजघान ।
प्रह्लादमुल्लासितमादधानं
पञ्चाननं तं प्रणुमः पुराणम् ॥१४७॥
विश्वास-प्रस्तुतिः
वृषाकपायीवरयोःसपर्यां
वाचाऽतिमोचारसयेति तन्वन् ।
मुनिप्रवीरो मुदितात्मकामो
मूकांबिकायाः सदनं प्रतस्थे ॥१४८॥
मूलम्
वृषाकपायीवरयोःसपर्यां
वाचाऽतिमोचारसयेति तन्वन् ।
मुनिप्रवीरो मुदितात्मकामो
मूकांबिकायाः सदनं प्रतस्थे ॥१४८॥
विश्वास-प्रस्तुतिः
उच्चावचानन्दजबाष्पमुच्चैः
उद्गीर्णरोमाञ्चमुदारभक्तिः ।
अंबामिहापारकृपावलंबां
संभावयन्नस्तुत निस्तुलं सः ॥१४९॥
मूलम्
उच्चावचानन्दजबाष्पमुच्चैः
उद्गीर्णरोमाञ्चमुदारभक्तिः ।
अंबामिहापारकृपावलंबां
संभावयन्नस्तुत निस्तुलं सः ॥१४९॥
विश्वास-प्रस्तुतिः
आराधनं ते बहिरेव केचित्
अन्तर्बहिश्चैकतमेऽन्तरेव ।
अन्ये परे त्वंब कदापि कुर्युः
नैव त्वदैक्यानुभवैकनिष्ठाः ॥१५०॥
मूलम्
आराधनं ते बहिरेव केचित्
अन्तर्बहिश्चैकतमेऽन्तरेव ।
अन्ये परे त्वंब कदापि कुर्युः
नैव त्वदैक्यानुभवैकनिष्ठाः ॥१५०॥
विश्वास-प्रस्तुतिः
इति तां वचनैः प्रपूज्य भैक्षौ-
दनमात्रेण स तुष्टिमान् कृतार्थः।
बहुसाधकसंस्तुतः कियन्तं
समयं तत्र निनाय शान्तचेताः ॥१५१॥
मूलम्
इति तां वचनैः प्रपूज्य भैक्षौ-
दनमात्रेण स तुष्टिमान् कृतार्थः।
बहुसाधकसंस्तुतः कियन्तं
समयं तत्र निनाय शान्तचेताः ॥१५१॥
विश्वास-प्रस्तुतिः
ततः शतानन्दमहेन्द्रपूर्वैः
सुपर्वबृन्दैरुपगीयमानः ।
पद्माङ्घ्रिमुख्यैः सममाप्तकाम-
क्षोणीपतिः शृङ्गगिरिं प्रतस्थे ॥१५२॥
मूलम्
ततः शतानन्दमहेन्द्रपूर्वैः
सुपर्वबृन्दैरुपगीयमानः ।
पद्माङ्घ्रिमुख्यैः सममाप्तकाम-
क्षोणीपतिः शृङ्गगिरिं प्रतस्थे ॥१५२॥
विश्वास-प्रस्तुतिः
यत्राधुनाप्युत्तममृष्यशृङ्गः
तपश्चरत्यात्मभृदन्तरङ्गः ।
संस्पर्शमात्रेण वितीर्णभद्रा
विद्योतते यत्र च तुङ्गभद्रा ॥१५३॥
मूलम्
यत्राधुनाप्युत्तममृष्यशृङ्गः
तपश्चरत्यात्मभृदन्तरङ्गः ।
संस्पर्शमात्रेण वितीर्णभद्रा
विद्योतते यत्र च तुङ्गभद्रा ॥१५३॥
विश्वास-प्रस्तुतिः
अध्यापयामास स भाष्यमुख्यान्
ग्रन्थान्निजांस्तत्र मनीषिमुख्यान् ।
आकर्णनप्राप्यमहापुमर्थान्
आदिष्टविद्याग्रहणे समर्थान् ॥१५४॥
मूलम्
अध्यापयामास स भाष्यमुख्यान्
ग्रन्थान्निजांस्तत्र मनीषिमुख्यान् ।
आकर्णनप्राप्यमहापुमर्थान्
आदिष्टविद्याग्रहणे समर्थान् ॥१५४॥
विश्वास-प्रस्तुतिः
मन्दाक्षनम्रं कलयन्नु शेषं
पराणुदत् प्राणितमांस्यशेषम् ।
निरस्तजीवेश्वरयोर्विशेषं
व्याचष्ट वाचस्पतिनिर्विशेषम् ॥१५५॥
मूलम्
मन्दाक्षनम्रं कलयन्नु शेषं
पराणुदत् प्राणितमांस्यशेषम् ।
निरस्तजीवेश्वरयोर्विशेषं
व्याचष्ट वाचस्पतिनिर्विशेषम् ॥१५५॥
विश्वास-प्रस्तुतिः
प्रकल्प्य तत्रेन्द्रविमानकल्पं
प्रासादमाविष्कृतसर्वशिल्पम् ।
प्रवर्तयामास स देवतायाः
पूजामजाद्यैरपि पूजितायाः ॥१५६॥
मूलम्
प्रकल्प्य तत्रेन्द्रविमानकल्पं
प्रासादमाविष्कृतसर्वशिल्पम् ।
प्रवर्तयामास स देवतायाः
पूजामजाद्यैरपि पूजितायाः ॥१५६॥
विश्वास-प्रस्तुतिः
या शारदांबेत्यभिधां वहन्ती
कृतां प्रतिज्ञां प्रतिपालयन्ती ।
अद्यापि शृङ्गेरिपुरे वसन्ती
प्रद्योततेऽभीष्टवरान् दिशन्ती ॥१५७॥
मूलम्
या शारदांबेत्यभिधां वहन्ती
कृतां प्रतिज्ञां प्रतिपालयन्ती ।
अद्यापि शृङ्गेरिपुरे वसन्ती
प्रद्योततेऽभीष्टवरान् दिशन्ती ॥१५७॥
विश्वास-प्रस्तुतिः
चित्तानुवर्ती निजधर्मचारी
भूतानुकंपी तनुवाग्विभूतिः ।
कश्चिद्विनेयोऽजनि देशिकस्य
यं तोटकाचार्यमुदाहरन्ति ॥१५८॥
मूलम्
चित्तानुवर्ती निजधर्मचारी
भूतानुकंपी तनुवाग्विभूतिः ।
कश्चिद्विनेयोऽजनि देशिकस्य
यं तोटकाचार्यमुदाहरन्ति ॥१५८॥
विश्वास-प्रस्तुतिः
पुमर्थाश्चत्वारः किमुत निगमा ऋक्प्रभृतयः
प्रभेदा वा मुक्तेर्विमलतरसालोक्यमुखराः।
मुखान्याहो धातुश्चिरमिति विमृश्याथ विबुधा
विदुःशिष्यान् हस्तामलकमुखरान् शङ्करगुरोः
१६०॥
मूलम्
पुमर्थाश्चत्वारः किमुत निगमा ऋक्प्रभृतयः
प्रभेदा वा मुक्तेर्विमलतरसालोक्यमुखराः।
मुखान्याहो धातुश्चिरमिति विमृश्याथ विबुधा
विदुःशिष्यान् हस्तामलकमुखरान् शङ्करगुरोः
१६०॥
विश्वास-प्रस्तुतिः
न ख्यातिहेतोर्न च लाभहेतोः
नाप्यर्चनायै विहितः प्रबन्धः ।
नोल्लङ्घनीयं वचनं गुरूणां
नोल्लङ्घने स्याद्गुरुशिष्यभावः ॥१६१॥
मूलम्
न ख्यातिहेतोर्न च लाभहेतोः
नाप्यर्चनायै विहितः प्रबन्धः ।
नोल्लङ्घनीयं वचनं गुरूणां
नोल्लङ्घने स्याद्गुरुशिष्यभावः ॥१६१॥
विश्वास-प्रस्तुतिः
भावानुकारिमृदुवाक्यनिवेशितार्थं
स्वीयैः पदैः सह निराकृतपूर्वपक्षम् ।
सिद्धान्तयुक्तिविनिवेशिततत्स्वरूपं
दृष्ट्वाऽभिनन्द्य परितोषवशादवोचत् ॥१६२॥
मूलम्
भावानुकारिमृदुवाक्यनिवेशितार्थं
स्वीयैः पदैः सह निराकृतपूर्वपक्षम् ।
सिद्धान्तयुक्तिविनिवेशिततत्स्वरूपं
दृष्ट्वाऽभिनन्द्य परितोषवशादवोचत् ॥१६२॥
विश्वास-प्रस्तुतिः
सत्यं यदात्थ विनयिन् मम याजुषी या
शाखा तदन्तगतभाष्यनिबन्ध इष्टः ।
तद्वार्तिकं मम कृते भवता प्रणेयं
सच्चेष्टितं परहितैकफलं प्रसिद्धम् ॥१६३॥
मूलम्
सत्यं यदात्थ विनयिन् मम याजुषी या
शाखा तदन्तगतभाष्यनिबन्ध इष्टः ।
तद्वार्तिकं मम कृते भवता प्रणेयं
सच्चेष्टितं परहितैकफलं प्रसिद्धम् ॥१६३॥
विश्वास-प्रस्तुतिः
तद्वत्त्वदीया खलु काण्वशाखा
ममापि तत्रास्ति तदन्तभाष्यम् ।
तद्वार्तिकं चापि विधेयमिष्टं
परोपकाराय सतां प्रवृत्तिः ॥१६४॥
मूलम्
तद्वत्त्वदीया खलु काण्वशाखा
ममापि तत्रास्ति तदन्तभाष्यम् ।
तद्वार्तिकं चापि विधेयमिष्टं
परोपकाराय सतां प्रवृत्तिः ॥१६४॥
विश्वास-प्रस्तुतिः
इत्थं स उक्तो भगवत्पदेन
श्रीविश्वरूपो विदुषां वरिष्ठः ।
चकार भाष्यद्वयवार्तिके द्वे
ह्याज्ञा गुरूणां ह्यविचारणीया ॥१६५॥
मूलम्
इत्थं स उक्तो भगवत्पदेन
श्रीविश्वरूपो विदुषां वरिष्ठः ।
चकार भाष्यद्वयवार्तिके द्वे
ह्याज्ञा गुरूणां ह्यविचारणीया ॥१६५॥
विश्वास-प्रस्तुतिः
सनन्दनो नाम गुरोरनुज्ञया
भाष्यस्य टीकां व्यधितेरितः पराम् ।
यत्पूर्वभागः किल पञ्चपादिका
तच्छेषगा वृत्तिरिति प्रथीयसी ॥१६६॥
मूलम्
सनन्दनो नाम गुरोरनुज्ञया
भाष्यस्य टीकां व्यधितेरितः पराम् ।
यत्पूर्वभागः किल पञ्चपादिका
तच्छेषगा वृत्तिरिति प्रथीयसी ॥१६६॥
विश्वास-प्रस्तुतिः
अधिगम्य तदाऽऽत्मयोगशक्तेः
अनुभावेन निवेद्य चाऽऽश्रवेभ्यः ।
अवलंबिततारकापथोऽसौ
अचिरादन्तिकमाससाद मातुः ॥१६७॥
मूलम्
अधिगम्य तदाऽऽत्मयोगशक्तेः
अनुभावेन निवेद्य चाऽऽश्रवेभ्यः ।
अवलंबिततारकापथोऽसौ
अचिरादन्तिकमाससाद मातुः ॥१६७॥
विश्वास-प्रस्तुतिः
तत्राऽऽतुरां मातरमैक्षतासौ
ननाम तस्याश्चरणौ कृतात्मा ।
सा चैनमुद्वीक्ष्य शरीरतापं
जहौ निदाघार्त इवांबुदेन ॥१६८॥
मूलम्
तत्राऽऽतुरां मातरमैक्षतासौ
ननाम तस्याश्चरणौ कृतात्मा ।
सा चैनमुद्वीक्ष्य शरीरतापं
जहौ निदाघार्त इवांबुदेन ॥१६८॥
विश्वास-प्रस्तुतिः
असावसङ्गोऽपि तदाऽऽर्द्रचेताः
तामाह मोहान्धतमोपहर्ता ।
अंबायमस्त्यत्र शुचं जहीहि
प्रब्रूहि किं ते करवाणि कृत्यम् ॥१६९॥
मूलम्
असावसङ्गोऽपि तदाऽऽर्द्रचेताः
तामाह मोहान्धतमोपहर्ता ।
अंबायमस्त्यत्र शुचं जहीहि
प्रब्रूहि किं ते करवाणि कृत्यम् ॥१६९॥
विश्वास-प्रस्तुतिः
दृष्ट्वा चिरात् पुत्रमनामयं सा
हृष्टान्तरात्मा निजगाद मन्दम् ।
अस्यां दशायां कुशली मया त्वं
दिष्ट्याऽसि दृष्टः किमतोऽस्ति कृत्यम् ॥१७०॥
मूलम्
दृष्ट्वा चिरात् पुत्रमनामयं सा
हृष्टान्तरात्मा निजगाद मन्दम् ।
अस्यां दशायां कुशली मया त्वं
दिष्ट्याऽसि दृष्टः किमतोऽस्ति कृत्यम् ॥१७०॥
विश्वास-प्रस्तुतिः
इतः परं पुत्रक गात्रमेतद्
वोढुं न शक्नोमि जरातिशीर्णम् ।
संस्कृत्य शास्त्रोदितवर्त्मना त्वं
सद्वृत्त मां प्रापय पुण्यलोकान् ॥१७१॥
मूलम्
इतः परं पुत्रक गात्रमेतद्
वोढुं न शक्नोमि जरातिशीर्णम् ।
संस्कृत्य शास्त्रोदितवर्त्मना त्वं
सद्वृत्त मां प्रापय पुण्यलोकान् ॥१७१॥
विश्वास-प्रस्तुतिः
ततः शरच्चन्द्र मरीचिरोचिः
विचित्रपारिप्लवकेतनाढ्यम् ।
विमानमादाय मनोज्ञरूपं
प्रादुर्बभूवुः किल विष्णुदूताः ॥१७२॥
मूलम्
ततः शरच्चन्द्र मरीचिरोचिः
विचित्रपारिप्लवकेतनाढ्यम् ।
विमानमादाय मनोज्ञरूपं
प्रादुर्बभूवुः किल विष्णुदूताः ॥१७२॥
विश्वास-प्रस्तुतिः
वैमानिकांस्तान्नयनाभिरामान्
अवेक्ष्य हृष्टा प्रशशंस पुत्रम् ।
विमानमारोप्य विराजमानं
अनायि तैः सा बहुमानपूर्वम् ॥१७३॥
मूलम्
वैमानिकांस्तान्नयनाभिरामान्
अवेक्ष्य हृष्टा प्रशशंस पुत्रम् ।
विमानमारोप्य विराजमानं
अनायि तैः सा बहुमानपूर्वम् ॥१७३॥
विश्वास-प्रस्तुतिः
इयमर्चिरहर्वलक्षपक्षान्
षडुदङ्मास समानिलार्कचन्द्रान् ।
चपलावरुणेन्द्रधातृलोकान्
क्रमशोऽतीत्य परं पदं प्रपेदे ॥१७४॥
मूलम्
इयमर्चिरहर्वलक्षपक्षान्
षडुदङ्मास समानिलार्कचन्द्रान् ।
चपलावरुणेन्द्रधातृलोकान्
क्रमशोऽतीत्य परं पदं प्रपेदे ॥१७४॥
विश्वास-प्रस्तुतिः
सञ्चिन्त्य काष्ठानि सुशुष्कवन्ति
गृहोपकण्ठे धृततोयपात्रः।
स दक्षिणे दोष्णि ममन्थ वह्निं
ददाह तां तेन च संयतात्मा ॥१७५॥
मूलम्
सञ्चिन्त्य काष्ठानि सुशुष्कवन्ति
गृहोपकण्ठे धृततोयपात्रः।
स दक्षिणे दोष्णि ममन्थ वह्निं
ददाह तां तेन च संयतात्मा ॥१७५॥
विश्वास-प्रस्तुतिः
इतस्वजननीमसौ मुनिजनैरपि प्रार्थितां
पुनः पतनवर्जितामतनुसौख्यसन्दोहिनीम् ।
यतिक्षितिपतिर्गतिं वितमसं स नीत्वा ततः
ततोऽन्यमतशातने प्रयतते स्म पृथ्वीतले ॥१७६॥
मूलम्
इतस्वजननीमसौ मुनिजनैरपि प्रार्थितां
पुनः पतनवर्जितामतनुसौख्यसन्दोहिनीम् ।
यतिक्षितिपतिर्गतिं वितमसं स नीत्वा ततः
ततोऽन्यमतशातने प्रयतते स्म पृथ्वीतले ॥१७६॥
विश्वास-प्रस्तुतिः
अथशिष्यवरैर्युतः सहस्रैः
अनुयातः स सुधन्वना च राज्ञा।
ककुभो विजिगीषुरेष सर्वाः
प्रथमं सेतुमुदारधीः प्रतस्थे॥१७७॥
मूलम्
अथशिष्यवरैर्युतः सहस्रैः
अनुयातः स सुधन्वना च राज्ञा।
ककुभो विजिगीषुरेष सर्वाः
प्रथमं सेतुमुदारधीः प्रतस्थे॥१७७॥
विश्वास-प्रस्तुतिः
अभिपूज्य स तत्र रामनाथं
सह पाण्ड्यैः स्ववशे विधाय चोलान् ।
द्रविडांश्च ततो जगाम काञ्चीं
नगरीं हास्तिगिरेर्नितंबकाञ्चीम् ॥१७८॥
मूलम्
अभिपूज्य स तत्र रामनाथं
सह पाण्ड्यैः स्ववशे विधाय चोलान् ।
द्रविडांश्च ततो जगाम काञ्चीं
नगरीं हास्तिगिरेर्नितंबकाञ्चीम् ॥१७८॥
विश्वास-प्रस्तुतिः
सुरधाम स तत्र कारयित्वा
परविद्याचरणानुसारि चित्रम्।
अपवार्य च तान्त्रिकानतानीत्
भगवत्याः श्रुतिसम्मतां सपर्याम् ॥१७९॥
मूलम्
सुरधाम स तत्र कारयित्वा
परविद्याचरणानुसारि चित्रम्।
अपवार्य च तान्त्रिकानतानीत्
भगवत्याः श्रुतिसम्मतां सपर्याम् ॥१७९॥
विश्वास-प्रस्तुतिः
निजपादसरोजसेवनायै
विनयेन स्वयमागतानथाऽऽन्ध्रान् ।
अनुगृह्य स वेङ्कटाचलेशं
प्रणिपत्याऽऽप विदर्भराजधानीम् ॥१८०॥
मूलम्
निजपादसरोजसेवनायै
विनयेन स्वयमागतानथाऽऽन्ध्रान् ।
अनुगृह्य स वेङ्कटाचलेशं
प्रणिपत्याऽऽप विदर्भराजधानीम् ॥१८०॥
विश्वास-प्रस्तुतिः
यतिराडथ तेषु तेषु देशे-
ष्विति पाषण्डपरान् द्विजान् विमथ्नन् ।
अपरान्तमहार्णवोपकण्ठं
प्रतिपेदे प्रतिवादिदर्पहन्ता ॥१८१॥
मूलम्
यतिराडथ तेषु तेषु देशे-
ष्विति पाषण्डपरान् द्विजान् विमथ्नन् ।
अपरान्तमहार्णवोपकण्ठं
प्रतिपेदे प्रतिवादिदर्पहन्ता ॥१८१॥
विश्वास-प्रस्तुतिः
बहुलभ्रमवानयं जडात्मा
सुमनोभिर्मथितश्च पूर्वमेव ।
इति सिन्धुमुपेक्ष्य स क्षमावान्
इव गोकर्णमुदारधीः प्रतस्थे ॥१८२॥
मूलम्
बहुलभ्रमवानयं जडात्मा
सुमनोभिर्मथितश्च पूर्वमेव ।
इति सिन्धुमुपेक्ष्य स क्षमावान्
इव गोकर्णमुदारधीः प्रतस्थे ॥१८२॥
विश्वास-प्रस्तुतिः
अवगाह्य सरित्पतिं स तत्र
प्रियमासाद्य तुषारशैलपुत्र्याः।
स्तवसत्तममद्भुतार्थचित्रं
रचयामास भुजङ्गवृत्तरम्यम् ॥१८३॥
मूलम्
अवगाह्य सरित्पतिं स तत्र
प्रियमासाद्य तुषारशैलपुत्र्याः।
स्तवसत्तममद्भुतार्थचित्रं
रचयामास भुजङ्गवृत्तरम्यम् ॥१८३॥
विश्वास-प्रस्तुतिः
यमिनामृषभेण नीलकण्ठं
जितमाकर्ण्य मनीषिधुर्यवर्यम् ।
सहसोदयनादयः कवीन्द्राः
परमद्वैतमुषश्चकंपिरे स्म ॥१८४॥
मूलम्
यमिनामृषभेण नीलकण्ठं
जितमाकर्ण्य मनीषिधुर्यवर्यम् ।
सहसोदयनादयः कवीन्द्राः
परमद्वैतमुषश्चकंपिरे स्म ॥१८४॥
विश्वास-प्रस्तुतिः
विषयेषु वितत्य न्शजभाष्या-
ण्यथ सौराष्ट्रमुखेषु तत्र तत्र ।
बहुधा विबुधैः प्रशस्यमानो
भगवान् द्वारवतीं पुरीं विवेश ॥१८५॥
मूलम्
विषयेषु वितत्य न्शजभाष्या-
ण्यथ सौराष्ट्रमुखेषु तत्र तत्र ।
बहुधा विबुधैः प्रशस्यमानो
भगवान् द्वारवतीं पुरीं विवेश ॥१८५॥
विश्वास-प्रस्तुतिः
निजशिष्यपदं गतानुदीच्यान्
इति कृत्वाऽथ विदेहकौशलाद्यैः ।
विहितापचितिस्तथाऽङ्गवङ्गे-
ष्वयमास्तीर्य यशो जगाम गौडान् ॥१८६॥
मूलम्
निजशिष्यपदं गतानुदीच्यान्
इति कृत्वाऽथ विदेहकौशलाद्यैः ।
विहितापचितिस्तथाऽङ्गवङ्गे-
ष्वयमास्तीर्य यशो जगाम गौडान् ॥१८६॥
विश्वास-प्रस्तुतिः
स्वस्थः सोऽयं ब्रह्म सायं कदाचित्
ध्यायन् गङ्गापूरसङ्गार्द्रवातैः ।
आगच्छन्तं सैकते प्रत्यगच्छत्
योगीशानं गौडपादाभिधानम् ॥१८७॥
मूलम्
स्वस्थः सोऽयं ब्रह्म सायं कदाचित्
ध्यायन् गङ्गापूरसङ्गार्द्रवातैः ।
आगच्छन्तं सैकते प्रत्यगच्छत्
योगीशानं गौडपादाभिधानम् ॥१८७॥
विश्वास-प्रस्तुतिः
आर्यस्याथो गौडपादस्य पादौ
अभ्यर्च्यासौ शङ्करः पङ्कजाभौ ।
भक्तिश्रद्धासंभ्रमाक्रान्तचेताः
प्रह्वस्तस्थावग्रतः प्राञ्जलिः सन् ॥१८८॥
मूलम्
आर्यस्याथो गौडपादस्य पादौ
अभ्यर्च्यासौ शङ्करः पङ्कजाभौ ।
भक्तिश्रद्धासंभ्रमाक्रान्तचेताः
प्रह्वस्तस्थावग्रतः प्राञ्जलिः सन् ॥१८८॥
विश्वास-प्रस्तुतिः
सिञ्चन्नेनं क्षीरवाराशिवीची-
साचिव्यायाऽऽसन्नयत्नैः कटाक्षैः ।
दन्तज्योत्स्नादन्तुराश्चापि कुर्वन्
आशाः सूक्तिं सन्दधे गौडपादः ॥१८९॥
मूलम्
सिञ्चन्नेनं क्षीरवाराशिवीची-
साचिव्यायाऽऽसन्नयत्नैः कटाक्षैः ।
दन्तज्योत्स्नादन्तुराश्चापि कुर्वन्
आशाः सूक्तिं सन्दधे गौडपादः ॥१८९॥
विश्वास-प्रस्तुतिः
कृतास्त्वया भाष्यमुखा निबन्धा
मत्कारिकावारिजनुःसुखार्काः ।
श्रुत्वेति गोविन्दमुखात्प्रहृष्य
दृगध्वनीनोऽस्मि तवाद्य विद्वन् ॥१९०॥
मूलम्
कृतास्त्वया भाष्यमुखा निबन्धा
मत्कारिकावारिजनुःसुखार्काः ।
श्रुत्वेति गोविन्दमुखात्प्रहृष्य
दृगध्वनीनोऽस्मि तवाद्य विद्वन् ॥१९०॥
विश्वास-प्रस्तुतिः
मत्कारिकाभावविबोधितादृङ्
माण्डूक्यभाष्यश्रवणोत्थहर्षः ।
दातुं वरं ते विदुषां वराय
प्रोत्साहयत्याशु वरं वृणीष्व ॥१९१॥
मूलम्
मत्कारिकाभावविबोधितादृङ्
माण्डूक्यभाष्यश्रवणोत्थहर्षः ।
दातुं वरं ते विदुषां वराय
प्रोत्साहयत्याशु वरं वृणीष्व ॥१९१॥
विश्वास-प्रस्तुतिः
स प्राह पर्यायशुकर्षिमीक्ष्य
भवन्तमद्राक्षमतिष्यपूरुषम् ।
वरः परः कोऽस्ति तथाऽपि चिन्तनं
चित्तत्त्वगं मेऽस्तु गुरो निरन्तरम् ॥१९२॥
मूलम्
स प्राह पर्यायशुकर्षिमीक्ष्य
भवन्तमद्राक्षमतिष्यपूरुषम् ।
वरः परः कोऽस्ति तथाऽपि चिन्तनं
चित्तत्त्वगं मेऽस्तु गुरो निरन्तरम् ॥१९२॥
विश्वास-प्रस्तुतिः
तथेति सोऽन्तर्धिमपास्तमोहे
गते चिरञ्चीविमुनावथासौ ।
वृत्तान्तमेतं स मुदाऽऽश्रवेभ्यः
संश्रावयंस्तां क्षणदामनैषीत् ॥१९३॥
मूलम्
तथेति सोऽन्तर्धिमपास्तमोहे
गते चिरञ्चीविमुनावथासौ ।
वृत्तान्तमेतं स मुदाऽऽश्रवेभ्यः
संश्रावयंस्तां क्षणदामनैषीत् ॥१९३॥
विश्वास-प्रस्तुतिः
अथ द्युनद्यामुषसि क्षमीन्द्रो
निर्वर्त्य नित्यं विधिवत्सशिष्यैः ।
तीरे निदिध्यासनलालसोऽभूत्
अत्रान्तरेऽश्रूयत लोकवार्ता ॥१९४॥
मूलम्
अथ द्युनद्यामुषसि क्षमीन्द्रो
निर्वर्त्य नित्यं विधिवत्सशिष्यैः ।
तीरे निदिध्यासनलालसोऽभूत्
अत्रान्तरेऽश्रूयत लोकवार्ता ॥१९४॥
विश्वास-प्रस्तुतिः
जंबूद्वीपं शस्यतेऽस्यां पृथिव्यां
तत्राप्येतन्मण्डलं भारताख्यम् ॥१९५॥
मूलम्
जंबूद्वीपं शस्यतेऽस्यां पृथिव्यां
तत्राप्येतन्मण्डलं भारताख्यम् ॥१९५॥
विश्वास-प्रस्तुतिः
आश्मीराख्यं मण्डलं तत्र शस्तं
यत्राऽऽस्तेऽसौ शारदा वागधीशा ॥
मूलम्
आश्मीराख्यं मण्डलं तत्र शस्तं
यत्राऽऽस्तेऽसौ शारदा वागधीशा ॥
विश्वास-प्रस्तुतिः
द्वारैर्युक्तं माण्डपैस्तच्चतुर्भिः
र्दैव्या गेहं यत्र सर्वज्ञपीठम् ।
यत्राऽऽरोहे सर्ववित्सज्जनानां
नान्ये सर्वे यत्प्रवेष्टुं क्षमन्ते ॥१९६॥
मूलम्
द्वारैर्युक्तं माण्डपैस्तच्चतुर्भिः
र्दैव्या गेहं यत्र सर्वज्ञपीठम् ।
यत्राऽऽरोहे सर्ववित्सज्जनानां
नान्ये सर्वे यत्प्रवेष्टुं क्षमन्ते ॥१९६॥
विश्वास-प्रस्तुतिः
प्राच्याः प्राच्यां पश्चिमाः पश्चिमायां
ये चोदीच्यास्तामुदीचीं प्रपन्नाः ।
सर्वज्ञास्तद्द्वारमुद्घाटयन्तो
दाक्षा नद्धं नो तदुद्घाटयन्ति ॥१९७॥
मूलम्
प्राच्याः प्राच्यां पश्चिमाः पश्चिमायां
ये चोदीच्यास्तामुदीचीं प्रपन्नाः ।
सर्वज्ञास्तद्द्वारमुद्घाटयन्तो
दाक्षा नद्धं नो तदुद्घाटयन्ति ॥१९७॥
विश्वास-प्रस्तुतिः
वार्तामुपश्रुत्य स दाक्षिणात्यो
मानं तदीयं परिमातुमिच्छन् ।
काश्मीरदेशाय जगाम हृष्टः
श्रीशङ्करो द्वारमपावरीतुम् ॥१९८॥
मूलम्
वार्तामुपश्रुत्य स दाक्षिणात्यो
मानं तदीयं परिमातुमिच्छन् ।
काश्मीरदेशाय जगाम हृष्टः
श्रीशङ्करो द्वारमपावरीतुम् ॥१९८॥
विश्वास-प्रस्तुतिः
वादिव्रातगजेन्द्रदुर्मदघटादुर्गर्वसङ्कर्षण-
श्रीमच्छङ्करदेशिकेन्द्रमृगराडायाति सर्वार्थवित् ।
दूरं गच्छत वादिदुःशठगजाः सन्न्यासदंष्ट्रायुधो
वेदान्तोरुवनाश्रयस्तदपरं द्वैतं वनं भक्षति ॥१९९॥
मूलम्
वादिव्रातगजेन्द्रदुर्मदघटादुर्गर्वसङ्कर्षण-
श्रीमच्छङ्करदेशिकेन्द्रमृगराडायाति सर्वार्थवित् ।
दूरं गच्छत वादिदुःशठगजाः सन्न्यासदंष्ट्रायुधो
वेदान्तोरुवनाश्रयस्तदपरं द्वैतं वनं भक्षति ॥१९९॥
विश्वास-प्रस्तुतिः
संश्रावयन्नध्वनि देशिकेन्द्रः
श्रीदक्षिणद्वारभुवं प्रपेदे ।
कवाटमुद्घाट्य निवेष्टुकामं
ससंभ्रमं वादिगणो न्यरौत्सीत् ॥२००॥
मूलम्
संश्रावयन्नध्वनि देशिकेन्द्रः
श्रीदक्षिणद्वारभुवं प्रपेदे ।
कवाटमुद्घाट्य निवेष्टुकामं
ससंभ्रमं वादिगणो न्यरौत्सीत् ॥२००॥
विश्वास-प्रस्तुतिः
अथाब्रवीद्वादिगणः स देशिकं
किमर्थमेवं बहुसंभ्रमक्रिया ।
यदत्र कार्यं तदुदीर्यतां शनैः
न संभ्रमः कर्तुमलं तदीप्सितम् ॥२०१॥
मूलम्
अथाब्रवीद्वादिगणः स देशिकं
किमर्थमेवं बहुसंभ्रमक्रिया ।
यदत्र कार्यं तदुदीर्यतां शनैः
न संभ्रमः कर्तुमलं तदीप्सितम् ॥२०१॥
विश्वास-प्रस्तुतिः
यः कश्चिदेत्येतु परीक्षितुं चेत्
वेदाखिलं नाविदितं ममाणु ।
इत्थं भवान्वक्ति समुन्नतीच्छो
दत्त्वा परीक्षां व्रजदेवतालयम् ॥२०२॥
मूलम्
यः कश्चिदेत्येतु परीक्षितुं चेत्
वेदाखिलं नाविदितं ममाणु ।
इत्थं भवान्वक्ति समुन्नतीच्छो
दत्त्वा परीक्षां व्रजदेवतालयम् ॥२०२॥
विश्वास-प्रस्तुतिः
शास्त्रेषु सर्वेष्वपि दत्तवन्तं
प्रत्युत्तरं तं समपूजयंस्ते ।
द्वारं समुद्घाट्य ददुश्च मार्गं
ततो विवेशान्तरभूमिभागम् ॥२०३॥
मूलम्
शास्त्रेषु सर्वेष्वपि दत्तवन्तं
प्रत्युत्तरं तं समपूजयंस्ते ।
द्वारं समुद्घाट्य ददुश्च मार्गं
ततो विवेशान्तरभूमिभागम् ॥२०३॥
विश्वास-प्रस्तुतिः
पाणौ सनन्दनमसाववलंब्य विद्या
भद्रासनं तदवरोढुमनाश्चचाल ।
अत्रान्तरे विधिवधूर्विबुधाग्रगण्यम्
आचार्यशङ्करमवोचदनङ्गवाचा ॥२०४॥
मूलम्
पाणौ सनन्दनमसाववलंब्य विद्या
भद्रासनं तदवरोढुमनाश्चचाल ।
अत्रान्तरे विधिवधूर्विबुधाग्रगण्यम्
आचार्यशङ्करमवोचदनङ्गवाचा ॥२०४॥
विश्वास-प्रस्तुतिः
सर्वज्ञतैकैव भवेन्न हेतुः
पीठाधिरोहे परिशुद्धता च ।
सा तेऽस्ति वा नेति विचार्यमेतत्
तिष्ठ क्षणं त्वं कुरु साहसं मा ॥२०५॥
मूलम्
सर्वज्ञतैकैव भवेन्न हेतुः
पीठाधिरोहे परिशुद्धता च ।
सा तेऽस्ति वा नेति विचार्यमेतत्
तिष्ठ क्षणं त्वं कुरु साहसं मा ॥२०५॥
विश्वास-प्रस्तुतिः
नास्मिन् शरीरे कृतकिल्बिषोऽहं
जन्मप्रभृत्यंब न सन्दिहेऽहम् ।
व्यधायि देहान्तरसंश्रयाद्यद्
न तेन लिप्येत हि कर्मणाऽन्यः ॥२०६॥
मूलम्
नास्मिन् शरीरे कृतकिल्बिषोऽहं
जन्मप्रभृत्यंब न सन्दिहेऽहम् ।
व्यधायि देहान्तरसंश्रयाद्यद्
न तेन लिप्येत हि कर्मणाऽन्यः ॥२०६॥
विश्वास-प्रस्तुतिः
इत्थं निरुत्तरपदां स विधाय देवीं
सर्वज्ञपीठमधिरुह्य ननन्द सभ्यः ।
संमानितोऽभवदसौ विबुधैश्च वाण्या
गार्ग्या कहोलमुखरैरिव याज्ञवल्क्यः ॥२०७॥
मूलम्
इत्थं निरुत्तरपदां स विधाय देवीं
सर्वज्ञपीठमधिरुह्य ननन्द सभ्यः ।
संमानितोऽभवदसौ विबुधैश्च वाण्या
गार्ग्या कहोलमुखरैरिव याज्ञवल्क्यः ॥२०७॥
विश्वास-प्रस्तुतिः
वादप्रादुर्विनोदप्रतिकथनसुधीवाददुर्वारतर्क-
न्यक्कारस्वैरधाटीभरितहरिदुपन्यस्तमाहानुभाव्यः ।
सर्वज्ञो वस्तुमर्हस्त्वमिति बहुमतः स्फारभारत्यमोघ-
श्लाघाजोघुष्यमाणो जयति यतिपतेः शारदापीठवासः ॥२०८॥
मूलम्
वादप्रादुर्विनोदप्रतिकथनसुधीवाददुर्वारतर्क-
न्यक्कारस्वैरधाटीभरितहरिदुपन्यस्तमाहानुभाव्यः ।
सर्वज्ञो वस्तुमर्हस्त्वमिति बहुमतः स्फारभारत्यमोघ-
श्लाघाजोघुष्यमाणो जयति यतिपतेः शारदापीठवासः ॥२०८॥
विश्वास-प्रस्तुतिः
कचभरवहनं पुलोमजायाः
कतिचिदहान्यपगर्भकं यथा स्यात् ।
गुरुशिरसि तथा सुधाशनाः स्वः
तरुकुसुमान्यथ हर्षतोऽभ्यवर्षन् ॥२०९॥
मूलम्
कचभरवहनं पुलोमजायाः
कतिचिदहान्यपगर्भकं यथा स्यात् ।
गुरुशिरसि तथा सुधाशनाः स्वः
तरुकुसुमान्यथ हर्षतोऽभ्यवर्षन् ॥२०९॥
विश्वास-प्रस्तुतिः
इति मुनिरतितुष्टोऽध्युष्य सर्वज्ञपीठं
निजमतगुरुतायै नो पुनर्मानहेतोः ।
कतिचन विनिवेश्याथर्ष्यशृङ्गाश्रमादौ
मुनिरथ बदरीं स प्राप कैश्चित्स्वशिष्यैः॥२१०॥
मूलम्
इति मुनिरतितुष्टोऽध्युष्य सर्वज्ञपीठं
निजमतगुरुतायै नो पुनर्मानहेतोः ।
कतिचन विनिवेश्याथर्ष्यशृङ्गाश्रमादौ
मुनिरथ बदरीं स प्राप कैश्चित्स्वशिष्यैः॥२१०॥
विश्वास-प्रस्तुतिः
एवंप्रकारैः कलिकल्मषघ्नैः
शिवावतारस्य शुभैश्चरित्रैः ।
द्वात्रिंशदत्युज्ज्वलकीर्तिराशेः
समा व्यतीयुः किल शङ्करस्य ॥२११॥
मूलम्
एवंप्रकारैः कलिकल्मषघ्नैः
शिवावतारस्य शुभैश्चरित्रैः ।
द्वात्रिंशदत्युज्ज्वलकीर्तिराशेः
समा व्यतीयुः किल शङ्करस्य ॥२११॥
विश्वास-प्रस्तुतिः
भाष्यं भूष्यं सुशीलैरकलि कलिमलध्वंसि कैवल्यमूल्यं
हन्ताहन्ता समन्तात्कुमतिनतिकृता खण्डितापण्डितानाम् ।
सद्यो विद्योतिताऽसौ विपथविमथनैर्मुक्तिपद्यानवद्या
श्रेयो भूयो बुधानामधिकतरमितः शङ्करः किं करोतु ॥२१२॥
मूलम्
भाष्यं भूष्यं सुशीलैरकलि कलिमलध्वंसि कैवल्यमूल्यं
हन्ताहन्ता समन्तात्कुमतिनतिकृता खण्डितापण्डितानाम् ।
सद्यो विद्योतिताऽसौ विपथविमथनैर्मुक्तिपद्यानवद्या
श्रेयो भूयो बुधानामधिकतरमितः शङ्करः किं करोतु ॥२१२॥
विश्वास-प्रस्तुतिः
इति कृतसुरकार्यं नेतुमाजग्मुरेनं
रजतशिखरशृङ्गं तुङ्गमीशावतारम् ।
विधिशतमखचन्द्रोपेन्द्रवाय्वग्निपूर्वाः
सुरनिकरवरेण्याः सर्षिसङ्घाः ससिद्धाः ॥२१३॥
मूलम्
इति कृतसुरकार्यं नेतुमाजग्मुरेनं
रजतशिखरशृङ्गं तुङ्गमीशावतारम् ।
विधिशतमखचन्द्रोपेन्द्रवाय्वग्निपूर्वाः
सुरनिकरवरेण्याः सर्षिसङ्घाः ससिद्धाः ॥२१३॥
विश्वास-प्रस्तुतिः
इन्द्रोपेन्द्रप्रधानैस्त्रिदशपरिवृढैः स्तूयमानः प्रसूनैः
दिव्यैरभ्यर्च्यमानः सरसिरुहभुवा दत्तहस्तावलंबः ।
आरुह्योक्षाणमग्र्यं प्रकटितसुजटाजूटचन्द्रावतंसः
शृण्वन्नालोकशब्दं समुदितमृषिभिर्धाम नैजं प्रतस्थे ॥२१४॥
मूलम्
इन्द्रोपेन्द्रप्रधानैस्त्रिदशपरिवृढैः स्तूयमानः प्रसूनैः
दिव्यैरभ्यर्च्यमानः सरसिरुहभुवा दत्तहस्तावलंबः ।
आरुह्योक्षाणमग्र्यं प्रकटितसुजटाजूटचन्द्रावतंसः
शृण्वन्नालोकशब्दं समुदितमृषिभिर्धाम नैजं प्रतस्थे ॥२१४॥