॥ श्रीः ॥
॥ अद्वैतमतावलम्बिमहाजनेभ्यः काचिद्विज्ञापना ॥
औपनिषदानाद्य्-अद्वैत-मत-व्यतिरिक्तेषु
प्रायशः सर्वेष्व् अपि मतेषु
वस्तुतः प्रमाण-प्रमेय-बलयोर् अविद्यमानत्वेऽपि,
प्रमातृबलं पुष्कलमनुभूयते ।(5 हह)
तथा हि– तन्-मतावलम्बिनां पण्डितानां प्रभूणां गुरूणां वा
स्वीयमते अतितरां दृढोऽभिनिवेशः,
अनितरसाधारणो ऽभिमानः,
तन्र्-अमतावलम्बिनां सामान्य-जनानाम् अपि स्वीय-मत-संबन्धि-प्रमेयविशेषस्य सामान्यतोऽपि वा परिज्ञानं,
स्वीयाचार्येषु भक्त्य्-अतिशयः,
स्वीय-मतस्य प्रचारण-विषये तीव्र-श्रद्धा,
स्वीयानाम् असाधारणम् आराधनं,
परमतावलम्बिषु परमा अवज्ञा,
परस्परम् ऐकमत्यं,
स्वीय-मत-प्रचारणार्थं प्रभ्व्-आदीनां मुक्त-हस्तता,
तदर्थं विशेषतो द्रव्यव्ययः,
इत्य्-आदिः स्वीय-मताभिवृद्धि-प्रकारः प्रत्यक्षं दरीदृश्यते ।
अद्वैतमते तु तद्-वैपरीत्येन
वस्तुतो विद्यमानेन प्रमाणप्रमेययोर् बलेनैव
तस्य आसेतुहिमाचलं प्रचय-गमनम् अनुभूयते ।
न तु परकीय-मतेष्व् इव
पुष्कलं प्रमातृ-बलं विलोक्यते ।
तथा हि- अद्वैतमतावलम्बिनां पण्डितानां प्रभ्वादीनां वा
स्वीयमते न दृढोऽभिनिवेशः,
न वा बलवान् अभिमानः,
अद्वैतमतावलम्बिनां सामान्य-जनानाम्
अद्वैत-मत-संबन्धि-प्रमेय-विशेषस्य सामान्यतो ऽप्य् अनवबोधः,(5)
अन्ततः स्वयम् अद्वैतिन इत्य् अपि स्व-स्वरूपापरिज्ञानं,(5)
स्वीयाचार्येषु तीव्र-भक्त्य्-अभावः,
स्वमतस्य प्रचारण-विषये श्रद्धाभावः,
परस्परम् ऐकमत्याभावः,
स्वमताभिज्ञ-पण्डितानादरः,
स्वीयाराधनाभावः,
अद्वैत-मतावलम्बिनां प्रभ्व्-आदीनां मुक्त-हस्तत्वाभावः,
अद्वैतमत-प्रचारणार्थं काच-कणस्याप्य् अव्ययः,
इत्य्-आदिः मतह्रास-प्रकारः
विशेषतो दरीदृश्यते ।
परेषाम् इव मतान्तर-स्थेषु अवज्ञाऽभावः
परं अद्वैतिनां गुणः श्लाघास्पदम् ।(5)
हन्त - ईदृश्यां परिस्थितौ सत्यां
असाधारण्येन अखिल-लोक-क्षेम-निदान-परम-शान्ति-बोधकाद्वैत-मत-प्रचारण-विषये
भगवान् रमा-रमणः उमा-रमण एव च शरणम् ।
तस्मात् अस्मिन् विषये कर्तव्यम् आलोचयत, अवधत्त, जाग्रत, मा स्वपत ॥
पोलहम् - सु. श्रीरामशास्त्री