प्रस्तुतयः
- शङ्करार्यकृत-कृतयः। तेषु केचनैव तेनैव कृता इत्य् अङ्गीक्रियन्ते - प्रस्थान-त्रयभाष्याणि, गौडपादकारिकाभाष्यम्, उपदेश-सहस्री - न पुनः ४३३ सङ्ख्यकाः।
- ३० शङ्करविजयाः सन्ति पौराणिकप्रायाः।
- प्रसिद्ध-प्रस्तुतयः
- प्रकाशात्मकृत-विवरणम् - पद्मपाद-कृत-पञ्चपादिकाटीका शङ्करकृतब्रह्मसूत्र-भाष्यस्य। १००० तमवर्ष-परिसरे कृतम्।
- वाचस्पतिमिश्र-कृत-भामतिः
- सुरेश्वरः।
- सच्चिदानन्देन्द्र-सरस्वती साक्षाच् छङ्करं साध्व् अवाजगाम। प्राचीनेषु सुरेश्वरेणैव शङ्करः साधु प्रसुत इति तन्मतिः।
- मूलविद्यानिरास इति कृतिं लिलेख - साम्प्रदायिकैस् तिरस्कृतो ऽपि दृढः।
- शङ्करम् अवगन्तुं केवलं तदीयाः प्रामाणिक-कृतय एवावलम्बनीया इति।
- तेन बहूनां ग्रन्थानां रचना कृता भाषात्रये। प्रचारार्थं कार्यशाला आयोजिताः। अध्यात्म-प्रकाश-कार्यालय इति प्रारब्धो मठ-स्थाने।
- तत्-परम्परायां मत्तूरु-विद्वांसः केचिद् वर्तन्ते। यथा होळे-नरसीपुरे ऽश्वत्थनारायणावधानी, राजाजीजगरे ऽद्वयानन्द-सरस्वती।
- तेन प्रभावितेषु गणेशोऽवधानी, गॆग्डे-मञ्जुश्रीः।
- विज्ञान-वाद-भ्रमः - आधुनिक-काले विशिष्य - जगच् चित्तस्य विज्ञानम् (projection of consciousness) एवेति विज्ञानवादस्य प्रचारो ऽद्वैत-वेदान्तनाम्ना। शङ्करस्य तु ब्रह्मवादः, विवर्तवादः - appearance of brahman इति।
- जीवन्मुक्ता हि चलत्-प्रस्तुतयः। तेष्व् अपि शास्त्रज्ञा विशिष्यन्ते।