ब्रह्म-सूत्राणि

जिज्ञासा

अथातो ब्रह्मजिज्ञासा । १,१।१ ।
जन्माद्य् अस्य यतः । १,१।२ ।
शास्त्र-योनित्वात् (नान्यथा ज्ञेयम्) । १,१।३ ।
तत् तु (वेद-वाक्य-)समन्वयात् । १,१।४ ।

ईक्षत्यधिकरणम्

(‘तदैक्षत बहु स्यां प्राजायेयेति तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इत्यत्र) ईक्षतेर् नाशब्दम्(=अचेतनम्, यच्च साङ्ख्योक्तम् “प्रधानम्”) । १,१।५ ।
(ईक्षतिर् अत्र “शालयो वृष्टिम् उदीक्षन्त” इत्यत्र यथा तथा) गौणश् चेन् (मन्यते), न - आत्म-शब्दात् । १,१।६ ।
तन्-निष्ठस्य मोक्षोपदेशात् । १,१।७ ।
हेयत्वावचनाच् च । १,१।८ ।
प्रतिज्ञाविरोधात् । १,१।९ ।
स्वाप्ययात् । १,१।१० ।
गतिसामान्यात् । १,१।११ ।
श्रुतत्वाच् च । १,१।१२ ।

आनन्दमयाधिकरणम्

आनन्दमयो ऽभ्यासात् । १,१।१३ ।
विकारशब्दान् नेति चेन् न प्राचुर्यात् । १,१।१४ ।
तद्धेतुव्यपदेशाच् च । १,१।१५ ।
मान्त्रवर्णिकमेव च गीयते । १,१।१६ ।
नेतरो ऽनुपपत्तेः । १,१।१७ ।
भेदव्यपदेशाच् च । १,१।१८ ।
कामाच् च नानुमानापेक्षा । १,१।१९ ।
अस्मिन्न् अस्य च तद्योगं शास्ति । १,१।२० ।

अन्तरधिकरणम्

अन्तस् तद्धर्मोपदेशात् । १,१।२१ ।
भेदव्यपदेशाच् चान्यः । १,१।२२ ।

आकाशप्राणौ

(‘अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम्’ (छा. उ. १ । ९ । १) इत्यादाव् अमहाभूतं चेत एव+) आकाशस् - (नानावचनेषु) तल्(→ब्रह्म)-लिङ्गात् (आपाततः “आकाश” इति रूढेर् अग्रहणे, तेन श्रुतेर् विरोधाभासे ऽपि) । १,१।२३ ।
अत एव प्राणः । १,१।२४ ।

ज्योतिश्चरणाधिकरणम्

ज्योतिश् चरणाभिधानात् । १,१।२५ ।
छन्दो ऽभिधानान् नेति चेन् न तथा चेतोऽर्पणनिगदात् तथा हि दर्शनम् । १,१।२६ ।
भूतादिपादव्यपदेशोपपत्तेश् चैवम् । १,१।२७ ।
उपदेशभेदान् नेति चेन् नोभयस्मिन्न् अप्य् अविरोधात् । १,१।२८ ।

प्रतर्दनाधिकरणम्

प्राणस् तथानुगमात् । १,१।२९ ।
न वक्तुर् आत्मोपदेशाद् इति चेद् अध्यात्मसम्बन्धभूमा ह्य् अस्मिन् । १,१।३० ।
शास्त्रदृष्ट्या तूपदेशो वामदेववत् । १,१।३१ ।
जीवमुख्यप्राणलिङ्गान् नेति चेन् नोपासात्रैविध्यादाश्रितत्वाद् इह तद्योगात् । १,१।३२ ।

सर्वत्र प्रसिद्धोपदेशात् । १,२।१ ।
विवक्षितगुणोपपत्तेश् च । १,२।२ ।
अनुपपत्तेस् तु न शारीरः । १,२।३ ।
कर्मकर्तृव्यपदेशाच् च । १,२।४ ।
शब्दविशेषात् । १,२।५ ।
स्मृतेश् च । १,२।६ ।
अर्भकौस्त्वात् तद्व्यपदेशाच् च नेति चेन् न निचाय्यत्वाद् एवं व्योमवच् च । १,२।७ ।
सम्भोगप्राप्तिर् इति चेन् न वैशेष्यात् । १,२।८ ।
अत्ता चराचरग्रहणात् । १,२।९ ।
प्रकरणाच् च । १,२।१० ।
गुहां प्रविष्टाव् आत्मानौ हि तद्दर्शनात् । १,२।११ ।
विशेषणाच् च । १,२।१२ ।
अन्तर उपपत्तेः । १,२।१३ ।
स्थानादिव्यपदेशाच् च । १,२।१४ ।
सुखविशिष्टाभिधानाद् एव च । १,२।१५ ।
अत एव च स ब्रह्म । १,२।१६ ।
श्रुतोपनिषत्कगत्यभिधानाच् च । १,२।१७ ।
अनवस्थितेर् असम्भवाच् च नेतरः । १,२।१८ ।
अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् । १,२।१९ ।
न च स्मार्तम् अतद्धर्माभिलापाच् छारीरश् च । १,२।२० ।
उभये ऽपि हि भेदेनैनम् अधीयते । १,२।२१ ।
अदृश्यत्वादिगुणको धर्मोक्तेः । १,२।२२ ।
विशेषणभेदव्यपदेशाभ्यां च नेतरौ । १,२।२३ ।
रूपोपन्यासाच् च । १,२।२४ ।
वैश्वानरः साधारणशब्दविशेषात् । १,२।२५ ।
स्मर्यमाणम् अनुमानं स्याद् इति । १,२।२६ ।
शब्दादिभ्यो ऽन्तःप्रतिष्ठानाच् च नेति चेन् न तथा दृष्ट्युपदेशाद् असम्भवात् पुरुषमपि चैनम् अधीयते । १,२।२७ ।
अत एव न देवता भूतं च । १,२।२८ ।
साक्षाद् अप्य् अविरोधं जैमिनिः । १,२।२९ ।
अभिव्यक्तेर् इत्य् आश्मरथ्यः । १,२।३० ।
अनुस्मृतेर् बादरिः । १,२।३१ ।
सम्पत्तेर् इति जैमिनिस् तथा हि दर्शयति । १,२।३२ ।
आमनन्ति चैनम् अस्मिन् । १,२।३३ ।

द्युभ्वाद्यायतनं स्वशब्दात् । १,३।१ ।
मुक्तोपसृप्यव्यपदेशाच् च । १,३।२ ।
नानुमानम् अतच्छब्दात् प्राणभृच् च । १,३।३ ।
भेदव्यपदेशात् । १,३।४ ।
प्रकरणात् । १,३।५ ।
स्थित्यदनाभ्यां च । १,३।६ ।
भूमा सम्प्रसादाद् अध्युपदेशात् । १,३।७ ।
धर्मोपपत्तेश् च । १,३।८ ।
अक्षरम् अम्बरान्तधृतेः । १,३।९ ।
सा च प्रशासनात् । १,३।१० ।
अन्यभावव्यावृत्तेश्च । १,३।११ ।
ईक्षतिकर्मव्यपदेशात् सः । १,३।१२ ।
दहर उत्तरेभ्यः । १,३।१३ ।
गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च । १,३।१४ ।
धृतेश् च महिम्नो ऽस्यास्मिन्न् उपलब्धेः । १,३।१५ ।
प्रसिद्धेश् च । १,३।१६ ।
इतरपरामर्शात् स इति चेन् नासम्भवात् । १,३।१७ ।
उत्तराच् चेद् आविर्भूतस्वरूपस् तु । १,३।१८ ।
अन्यार्थश् च परामर्शः । १,३।१९ ।
अल्पश्रुतेर् इति चेत् तद् उक्तम् । १,३।२० ।
अनुकृतेस् तस्य च । १,३।२१ ।
अपि च स्मर्यते । १,३।२२ ।
शब्दाद् एव प्रमितः । १,३।२३ ।
हृद्यपेक्षया तु मनुष्याधिकारत्वात् । १,३।२४ ।
तदुपर्य् अपि बादरायणः सम्भवात् । १,३।२५ ।
विरोधः कर्मणीति चेन् नानेकप्रतिपत्तेर् दर्शनात् । १,३।२६ ।
शब्द इति चेन् नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् । १,३।२७ ।
अत एव च नित्यत्वम् । १,३।२८ ।
समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश् च । १,३।२९ ।
मध्वादिष्व् असम्भवाद् अनधिकारं जैमिनिः । १,३।३० ।
ज्योतिषि भावाच् च । १,३।३१ ।
भावं तु बादरायणो ऽस्ति हि । १,३।३२ ।
शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि । १,३।३३ ।
क्षत्रियत्वगतेश् च । १,३।३४ ।
उत्तरत्र चैत्ररथेन लिङ्गात् । १,३।३५ ।
संस्कारपरामर्शात् तदभावाभिलापाच् च । १,३।३६ ।
तदभावनिर्धारणे च प्रवृत्तेः । १,३।३७ ।
श्रवणाध्ययनार्थप्रतिषेधात् । १,३।३८ ।
स्मृतेश् च । १,३।३९ ।
कम्पनात् । १,३।४० ।
ज्योतिर् दर्शनात् । १,३।४१ ।
आकाशो ऽर्थान्तरत्वादिव्यपदेशात् । १,३।४२ ।
सुषुप्त्युत्क्रान्त्योर् भेदेन । १,३।४३ ।
पत्यादिशब्देभ्यः । १,३।४४ ।

आनुमानिकम् अप्य् एकेषाम् इति चेन् न शरीर-रूपक-विन्यस्त-गृहीतेर् दर्शयति च । १,४।१ ।
सूक्ष्मं तु तदर्हत्वात् । १,४।२ ।
तदधीनत्वाद् अर्थवत् । १,४।३ ।
ज्ञेयत्वावचनाच् च । १,४।४ ।
वदतीति चेन् न प्राज्ञो हि प्रकरणात् । १,४।५ ।
त्रयाणाम् एव चैवम् उपन्यासः प्रश्नश् च । १,४।६ ।
महद्वच् च । १,४।७ ।
चमसवदविशेषात् । १,४।८ ।
ज्योतिरुपक्रमा तु तथा ह्य् अधीयत एके । १,४।९ ।
कल्पनोपदेशाच् च मध्वादिवदविरोधः । १,४।१० ।
न सङ्ख्योपसङ्ग्रहादपि ज्ञानाभावाद् अतिरेकाच् च । १,४।११ ।
प्राणादयो वाक्यशेषात् । १,४।१२ ।
ज्योतिषैकेषाम् असत्यन्ने । १,४।१३ ।
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः । १,४।१४ ।
समाकर्षात् । १,४।१५ ।
जगद्वाचित्वात् । १,४।१६ ।
जीवमुख्यप्राणलिङ्गान् नेति चेत् तद्व्याख्यातम् । १,४।१७ ।
अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्याम् अपि चैवम् एके । १,४।१८ ।
वाक्यान्वयात् । १,४।१९ ।
प्रतिज्ञासिद्धेर् लिङ्गम् आश्मरथ्यः । १,४।२० ।
उत्क्रमिष्यत एवं भावाद् इत्य् औडुलोमिः । १,४।२१ ।
अवस्थितेर् इति काशकृत्स्नः । १,४।२२ ।
प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधात् । १,४।२३ ।
अभिध्योपदेशाच् च । १,४।२४ ।
साक्षाच् चोभयाम्नानात् । १,४।२५ ।
आत्मकृतेः । १,४।२६ ।
परिणामात् । १,४।२७ ।
योनिश् च हि गीयते । १,४।२८ ।
एतेन सर्वे व्याख्याता व्याख्याताः । १,४।२९ ।

स्मृत्यनवकाशदोषप्रसङ्ग इति चेन् नान्यस्मृत्यनवकाशदोषप्रसङ्गात् । २,१।१ ।
इतरेषां चानुपलब्धेः । २,१।२ ।
एतेन योगः प्रत्युक्तः । २,१।३ ।
न विलक्षणत्वाद् अस्य तथात्वं च शब्दात् । २,१।४ ।
अभिमानिव्यपदेशस् तु विशेषानुगतिभ्याम् । २,१।५ ।
दृश्यते तु । २,१।६ ।
असद् इति चेन् न प्रतिषेधमात्रत्वात् । २,१।७ ।
अपीतौ तद्वत्प्रसङ्गाद् असमञ्जसम् । २,१।८ ।
न तु दृष्टान्तभावात् । २,१।९ ।
स्वपक्षदोषाच् च । २,१।१० ।
तर्काप्रतिष्ठानाद् अपि । २,१।११ ।
अन्यथानुमेयम् इति चेद् एवम् अप्य् अनिर्मोक्षप्रसङ्गः । २,१।१२ ।
एतेन शिष्टापरिग्रहा अपि व्याख्याताः । २,१।१३ ।
भोक्त्रापत्तेर् अविभागश् चेत् स्याल् लोकवत् । २,१।१४ ।
तदनन्यत्वम् आरम्भणशब्दादिभ्यः । २,१।१५ ।
भावे चोपलब्धेः । २,१।१६ ।
सत्वाच् चापरस्य । २,१।१७ ।
असद्व्यपदेशान् नेति चेन् न धर्मान्तरेण वाक्यशेषाद्युक्तेः शब्दान्तराच् च । २,१।१८ ।
पटवच् च । २,१।१९ ।
यथा च प्राणादिः । २,१।२० ।
इतरव्यपदेशाद् धिताकरणादिदोषप्रसक्तिः । २,१।२१ ।
अधिकं तु भेदनिर्देशात् । २,१।२२ ।
अश्मादिवच् च तदनुपपत्तिः । २,१।२३ ।
उपसंहारदर्शनान् नेति चेन् न क्षीरवद् धि । २,१।२४ ।
देवादिवद् अपि लोके । २,१।२५ ।
कृत्स्नप्रसक्तिर् निरवयवत्वशब्दकोपो वा । २,१।२६ ।
श्रुतेस् तु शब्दमूलत्वात् । २,१।२७ ।
आत्मनि चैवं विचित्राश् च हि । २,१।२८ ।
स्वपक्षदोषाच् च । २,१।२९ ।
सर्वोपेता च तद्दर्शनात् । २,१।३० ।
विकरणत्वान् नेति चेत् तद् उक्तम् । २,१।३१ ।
न प्रयोजनवत्त्वात् । २,१।३२ ।
लोकवत् तु लीलाकैवल्यम् । २,१।३३ ।
वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति । २,१।३४ ।
न कर्माविभागाद् इति चेन् नानादित्वाद् उपपद्यते चाप्य् उपलभ्यते च । २,१।३५ ।
सर्वधर्मोपपत्तेश् च । २,१।३६ ।

रचनानुपपत्तेश् च नानुमानं प्रवृत्तेश् च । २,२।१ ।
पयो ऽम्बुवच् चेत् तत्रापि । २,२।२ ।
व्यतिरेकानवस्थितेश् चानपेक्षत्वात् । २,२।३ ।
अन्यत्राभावाच् च न तृणादिवत् । २,२।४ ।
पुरुषाश्मवद् इति चेत् तथापि । २,२।५ ।
अङ्गित्वानुपपत्तेश् च । २,२।६ ।
अन्यथानुमितौ च ज्ञशक्तिवियोगात् । २,२।७ ।
अभ्युपगमे ऽप्य् अर्थाभावात् । २,२।८ ।
विप्रतिषेधाच् चासमञ्जसम् । २,२।९ ।
महद्दीर्घवद् वा ह्रस्वपरिमण्डलाभ्याम् । २,२।१० ।
उभयथापि न कर्मातस्तदभावः । २,२।११ ।
समवायाभ्युपगमाच् च साम्याद् अनवस्थितेः । २,२।१२ ।
नित्यम् एव च भावात् । २,२।१३ ।
रूपादिमत्त्वाच् च विपर्ययो दर्शनात् । २,२।१४ ।
उभयथा च दोषात् । २,२।१५ ।
अपरिग्रहाच् चात्यन्तम् अनपेक्षा । २,२।१६ ।
समुदाय उभयहेतुके ऽपि तदप्राप्तिः । २,२।१७ ।
इतरेतरप्रत्ययत्वाद् उपपन्नम् इति चेन् न सङ्घातभावानिमित्तत्वात् । २,२।१८ ।
उत्तरोत्पादे च पूर्वनिरोधात् । २,२।१९ ।
असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा । २,२।२० ।
प्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधाप्राप्तिर् अविच्छेदात् । २,२।२१ ।
उभयथा च दोषात् । २,२।२२ ।
आकाशे चाविशेषात् । २,२।२३ ।
अनुस्मृतेश् च । २,२।२४ ।
नासतो ऽदृष्टत्वात् । २,२।२५ ।
उदासीनानाम् अपि चैवं सिद्धिः । २,२।२६ ।
नाभाव उपलब्धेः । २,२।२७ ।
वैधर्म्याच् च न स्वप्नादिवत् । २,२।२८ ।
न भावो ऽनुपलब्धेः । २,२।२९ ।
सर्वथानुपपत्तेश् च । २,२।३० ।
नैकस्मिन्न् असम्भवात् । २,२।३१ ।
एवं चात्माकार्त्स्न्यम् । २,२।३२ ।
न च पर्यायाद् अप्य् अविरोधो विकारादिभ्यः । २,२।३३ ।
अन्त्यावस्थितेश् चोभयनित्यत्वाद् अविशेषः । २,२।३४ ।
पत्युर् असामञ्जस्यात् । २,२।३५ ।
अधिष्ठानानुपपत्तेश् च । २,२।३६ ।
करणवच् चेन् न भोगादिभ्यः । २,२।३७ ।
अन्तवत्त्वम् असर्वज्ञता वा । २,२।३८ ।
उत्पत्त्यसम्भवात् । २,२।३९ ।
न च कर्तुः करणम् । २,२।४० ।
विज्ञानादिभावे वा तदप्रतिषेधः । २,२।४१ ।
विप्रतिषेधाच् च । २,२।४२ ।

न वियदश्रुतेः । २,३।१ ।
अस्ति तु । २,३।२ ।
गौण्यसम्भवाच् छब्दाच् च । २,३।३ ।
स्याच् चैकस्य ब्रह्मशब्दवत् । २,३।४ ।
प्रतिज्ञाहानिर् अव्यतिरेकात् । २,३।५ ।
शब्देभ्यः । २,३।६ ।
यावद्विकारं तु विभागो लोकवत् । २,३।७ ।
एतेन मातरिश्वा व्याख्यातः । २,३।८ ।
असम्भवस् तु सतो ऽनुपपत्तेः । २,३।९ ।
तेजो ऽतस् तथा ह्य् आह । २,३।१० ।
आपः । २,३।११ ।
पृथिवी । २,३।१२ ।
अधिकाररूपशब्दान्तरेभ्यः । २,३।१३ ।
तदभिध्यानाद् एव तु तल्लिङ्गात् सः । २,३।१४ ।
विपर्ययेण तु क्रमो ऽत उपपद्यते च । २,३।१५ ।
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गाद् इति चेन् नाविशेषात् । २,३।१६ ।
चराचरव्यपाश्रयस् तु स्यात् तद्व्यपदेशो भाक्तस् तद्भावभावित्वात् । २,३।१७ ।
नात्मा श्रुतेर् नित्यत्वाच् च ताभ्यः । २,३।१८ ।
ज्ञो ऽत एव । २,३।१९ ।
उत्क्रान्तिगत्यागतीनाम् । २,३।२० ।
स्वात्मना चोत्तरयोः । २,३।२१ ।
नाणुरतच्छ्रुतेर् इति चेन् नेतराधिकारात् । २,३।२२ ।
स्वशब्दोन्मानाभ्यां च । २,३।२३ ।
अविरोधश् चन्दनवत् । २,३।२४ ।
अवस्थितिवैशेष्याद् इति चेन् नाभ्युपगमाद् धृदि हि । २,३।२५ ।
गुणाद्वा लोकवत् । २,३।२६ ।
व्यतिरेको गन्धवत् तथा हि दर्शयति । २,३।२७ ।
पृथगुपदेशात् । २,३।२८ ।
तद्गुणसारत्वात् तु तद्व्यपदेशः प्राज्ञवत् । २,३।२९ ।
यावदात्मभावित्वाच् च न दोषस् तद्दर्शनात् । २,३।३० ।
पुंस्त्वादिवत् त्व् अस्य सतो ऽभिव्यक्तियोगात् । २,३।३१ ।
नित्योपलब्ध्यनुपलब्धिप्रसङ्गो ऽन्यतरनियमो वान्यथा । २,३।३२ ।
कर्ता शास्त्रार्थवत्त्वात् । २,३।३३ ।
उपादानाद् विहारोपदेशाच् च । २,३।३४ ।
व्यपदेशाच् च क्रियायां न चेन् निर्देशविपर्ययः । २,३।३५ ।
उपलब्धिवदनियमः । २,३।३६ ।
शक्तिविपर्ययात् । २,३।३७ ।
समाध्यभावाच् च । २,३।३८ ।
यथा च तक्षोभयथा । २,३।३९ ।
परात् तु तच्छ्रुतेः । २,३।४० ।
कृतप्रयत्नापेक्षस् तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः । २,३।४१ ।
अंशो नानाव्यपदेशाद् अन्यथा चापि दाशकितवादित्वम् अधीयत एके । २,३।४२ ।
मन्त्रवर्णात् । २,३।४३ ।
अपि स्मर्यते । २,३।४४ ।
प्रकाशादिवत् तु नैवं परः । २,३।४५ ।
स्मरन्ति च । २,३।४६ ।
अनुज्ञापरिहारौ देहसम्बन्धाज् ज्योतिरादिवत् । २,३।४७ ।
असन्ततेश् चाव्यतिकरः । २,३।४८ ।
आभास एव च । २,३।४९ ।
अदृष्टानियमात् । २,३।५० ।
अभिसन्ध्यादिष्व् अपि चैवम् । २,३।५१ ।
प्रदेशभेदाद् इति चेन् नान्तर्भावात् । २,३।५२ ।

तथा प्राणाः । २,४।१ ।
गौण्यसम्भवात् तत्प्राक् श्रुतेश् च । २,४।२ ।
तत्पूर्वकत्वाद् वाचः । २,४।३ ।
सप्त गतेर् विशेषितत्वाच् च । २,४।४ ।
हस्तादयस् तु स्थिते ऽतो नैवम् । २,४।५ ।
अणवश् च । २,४।६ ।
श्रेष्ठश् च । २,४।७ ।
न वायुक्रिये पृथगुपदेशात् । २,४।८ ।
चक्षुरादिवत् तु तत्सहशिष्ट्यादिभ्यः । २,४।९ ।
अकरणत्वाच् च न दोषस् तथा हि दर्शयति । २,४।१० ।
पञ्चवृत्तिर् मनोवत् व्यपदिश्यते । २,४।११ ।
अणुश् च । २,४।१२ ।
ज्योतिर् आद्यधिष्ठानं तु तदामननात्प्राणवता शब्दात् । २,४।१३ ।
तस्य च नित्यत्वात् । २,४।१४ ।
त इन्द्रियाणि तद्व्यपदेशाद् अन्यत्र श्रेष्ठात् । २,४।१५ ।
भेदश्रुतेर् वैलक्षण्याच् च । २,४।१६ ।
सञ्ज्ञामूर्तिकॢप्तिस् तु त्रिवृत्कुर्वत उपदेशात् । २,४।१७ ।
मांसादि भौमं यथाशब्दमितरयोश् च । २,४।१८ ।
वैशेष्यात् तु तद्वादस् तद्वादः । २,४।१९ ।

तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् । ३,१।१ ।
त्र्यात्मकत्वात् तु भूयस्त्वात् । ३,१।२ ।
प्राणगतेश् च । ३,१।३ ।
अग्न्यादिश्रुतेर् इति चेन् न भाक्तत्वात् । ३,१।४ ।
प्रथमे ऽश्रवणाद् इति चेन् न ता एव ह्य् उपपत्तेः । ३,१।५ ।
अश्रुतत्वाद् इति चेन् नेष्टादिकारिणां प्रतीतेः । ३,१।६ ।
भाक्तं वानात्मवित्त्वात् तथा हि दर्शयति । ३,१।७ ।
कृतात्यये ऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च । ३,१।८ ।
चरणाद् इति चेन् न तदुपलक्षणार्थेति कार्ष्णाजिनिः । ३,१।९ ।
आनर्थक्यम् इति चेन् न तदपेक्षत्वात् । ३,१।१० ।
सुकृतदुष्कृते एवेति तु बादरिः । ३,१।११ ।
अनिष्टादिकारिणाम् अपि च श्रुतम् । ३,१।१२ ।
संयमने त्व् अनुभूयेतरेषामारोहाव् अरोहौ तद्गतिदर्शनात् । ३,१।१३ ।
स्मरन्ति च । ३,१।१४ ।
अपि सप्त । ३,१।१५ ।
तत्रापि तद्व्यापारादविरोधः । ३,१।१६ ।
विद्याकर्मणोर् इति तु प्रकृतत्वात् । ३,१।१७ ।
न तृतीये तथोपलब्धेः । ३,१।१८ ।
स्मर्यते ऽपि च लोके । ३,१।१९ ।
दर्शनाच् च । ३,१।२० ।
तृतीयशब्दावरोधः संशोकजस्य । ३,१।२१ ।
तत्स्वाभाव्यापत्तिरुपपत्तेः । ३,१।२२ ।
नातिचिरेण विशेषात् । ३,१।२३ ।
अन्याधिष्ठिते पूर्ववदभिलापात् । ३,१।२४ ।
अशुद्धम् इति चेन् न शब्दात् । ३,१।२५ ।
रेतःसिग्योगो ऽथ । ३,१।२६ ।
योनेःशरीरम् । ३,१।२७ ।

सन्ध्ये सृष्टिराह हि । ३,२।१ ।
निर्मातारं चैके पुत्रादयश् च । ३,२।२ ।
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् । ३,२।३ ।
पराभिध्यानात् तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ । ३,२।४ ।
देहयोगाद्वा सो ऽपि । ३,२।५ ।
सूचकश् च हि श्रुतेराचक्षते च तद्विदः । ३,२।६ ।
तदभावो नाडीषु तच्छ्रुतेरात्मनि च । ३,२।७ ।
अतः प्रबोधो ऽस्मात् । ३,२।८ ।
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः । ३,२।९ ।
मुग्धेर्ऽधसम्पत्तिः परिशेषात् । ३,२।१० ।
न स्थानतो ऽपि परस्योभयलिङ्गं सर्वत्र हि । ३,२।११ ।
भेदाद् इति चेन् न प्रत्येकमतद्वचनात् । ३,२।१२ ।
अपि चैवम् एके । ३,२।१३ ।
अरूपवदेव हि तत्प्रधानत्वात् । ३,२।१४ ।
प्रकाशवच्चावैयर्थ्यात् । ३,२।१५ ।
आह च तन्मात्रम् । ३,२।१६ ।
दर्शयति चाथो अपि स्मर्यते । ३,२।१७ ।
अत एव चोपमा सूर्यकादिवत् । ३,२।१८ ।
अम्बुवदग्रहणात् तु न तथात्वम् । ३,२।१९ ।
वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवं दर्शनाच् च । ३,२।२० ।
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः । ३,२।२१ ।
तदव्यक्तमाह हि । ३,२।२२ ।
अपि संराधने प्रत्यक्षानुमानाभ्याम् । ३,२।२३ ।
प्रकाशादिवच्चावैशेष्यं प्रकाशश् च कर्मण्यभ्यासात् । ३,२।२४ ।
अतो ऽनन्तेन तथा हि लिङ्गम् । ३,२।२५ ।
उभयव्यपदेशात्त्वहिकुण्डलवत् । ३,२।२६ ।
प्रकाशाश्रयवद्वा तेजस्त्वात् । ३,२।२७ ।
पूर्ववद्वा । ३,२।२८ ।
प्रतिषेधाच् च । ३,२।२९ ।
परमतस्सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः । ३,२।३० ।
सामान्यात् तु । ३,२।३१ ।
बुद्ध्यर्थः पादवत् । ३,२।३२ ।
स्थानविशेषात्प्रकाशादिवत् । ३,२।३३ ।
उपपत्तेश् च । ३,२।३४ ।
तथान्यप्रतिषेधात् । ३,२।३५ ।
अनेन सर्वगतत्वमायामशब्दादिभ्यः । ३,२।३६ ।
फलमत उपपत्तेः । ३,२।३७ ।
श्रुतत्वाच् च । ३,२।३८ ।
धर्मं जैमिनिरत एव । ३,२।३९ ।
पूर्वं तु बादरायणो हेतुव्यपदेशात् । ३,२।४० ।

सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् । ३,३।१ ।
भेदान् नेति चेद् एकस्याम् अपि । ३,३।२ ।
स्वाध्यायस्य तथात्वे हि समाचारे ऽधिकाराच् च सववच् च तन्नियमः । ३,३।३ ।
दर्शयति च । ३,३।४ ।
उपसंहारोर्ऽथाभेदाद्विधिशेषवत्समाने च । ३,३।५ ।
अन्यथात्वं शब्दाद् इति चेन् नाविशेषात् । ३,३।६ ।
न वा प्रकरणभेदात् परोवरीयस्त्वादिवत् । ३,३।७ ।
सञ्ज्ञातश् चेत् तद् उक्तम् अस्ति तु तद् अपि । ३,३।८ ।
व्याप्तेश् च समञ्जसम् । ३,३।९ ।
सर्वाभेदादन्यत्रेमे । ३,३।१० ।
आनन्दादयः प्रधानस्य । ३,३।११ ।
प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे । ३,३।१२ ।
इतरे त्वर्थसामान्यात् । ३,३।१३ ।
आध्यानाय प्रयोजनाभावात् । ३,३।१४ ।
आत्मशब्दाच् च । ३,३।१५ ।
आत्मगृहीतिर् इतरवद् उत्तरात् । ३,३।१६ ।
अन्वयाद् इति चेत् स्याद् अवधारणात् । ३,३।१७ ।
कार्याख्यानादपूर्वम् । ३,३।१८ ।
समान एवं चाभेदात् । ३,३।१९ ।
सम्बन्धादेवमन्यत्रापि । ३,३।२० ।
न वा विशेषात् । ३,३।२१ ।
दर्शयति च । ३,३।२२ ।
सम्भृतिद्युव्याप्त्यपि चातः । ३,३।२३ ।
पुरुषविद्यायामपि चेतरेषामनाम्नानात् । ३,३।२४ ।
वेधाद्यर्थभेदात् । ३,३।२५ ।
हानौ तूपायनशब्दशेषत्वात् कुशाच्छन्दस्स्तुत्युपगानवत्तदुक्तम् । ३,३।२६ ।
साम्पराये तर्तव्याभावात् तथा ह्य् अन्ये । ३,३।२७ ।
छन्दत उभयाविरोधात् । ३,३।२८ ।
गतेर् अर्थवत्त्वम् उभयथान्यथा हि विरोधः । ३,३।२९ ।
उपपन्नस् तल्लक्षणार्थोपलब्धेर् लोकवत् । ३,३।३० ।
यावदधिकारम् अवस्थितिर् आधिकारिकाणाम् । ३,३।३१ ।
अनियमस्सर्वेषामविरोधश्शब्दानुमानाभ्याम् । ३,३।३२ ।
अक्षरधियां त्ववरोधस्सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् । ३,३।३३ ।
इयदामननात् । ३,३।३४ ।
अन्तरा भूतग्रामवत्स्वात्मनो ऽन्यथा भेदानुपपत्तिर् इति चेन् नोपदेशवत् । ३,३।३५ ।
व्यतिहारो विशिंषन्ति हीतरवत् । ३,३।३६ ।
सैव हि सत्यादयः । ३,३।३७ ।
कामादीतरत्र तत्र चाऽयतनादिभ्यः । ३,३।३८ ।
आदरादलोपः । ३,३।३९ ।
उपस्थिते ऽतस्तद्वचनात् । ३,३।४० ।
तन्निर्धारणानियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम् । ३,३।४१ ।
प्रदानवदेव तदुक्तम् । ३,३।४२ ।
लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि । ३,३।४३ ।
पूर्वविकल्पः प्रकरणात्स्यात् क्रियामानसवत् । ३,३।४४ ।
अतिदेशाच् च । ३,३।४५ ।
विद्यैव तु निर्धारणाद्दर्शनाच् च । ३,३।४६ ।
श्रुत्यादिबलीयस्त्वाच् च न बाधः । ३,३।४७ ।
अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश् च तदुक्तम् । ३,३।४८ ।
न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः । ३,३।४९ ।
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात् त्व् अनुबन्धः । ३,३।५० ।
एक आत्मनः शरीरे भावात् । ३,३।५१ ।
व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् । ३,३।५२ ।
अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् । ३,३।५३ ।
मन्त्रादिवद्वाविरोधः । ३,३।५४ ।
भूम्नः क्रतुवज्ज्यायस्वं तथा हि दर्शयति । ३,३।५५ ।
नाना शब्दादिभेदात् । ३,३।५६ ।
विकल्पो ऽविशिष्टफलत्वात् । ३,३।५७ ।
काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् । ३,३।५८ ।
अङ्गेषु यथाश्रयभावः । ३,३।५९ ।
शिष्टेश् च । ३,३।६० ।
समाहारात् । ३,३।६१ ।
गुणसाधारण्यश्रुतेश् च । ३,३।६२ ।
न वा तत्सहभावाश्रुतेः । ३,३।६३ ।
दर्शनाच् च । ३,३।६४ ।

पुरुषार्थो ऽतः शब्दाद् इति बादरायणः । ३,४।१ ।
शेषत्वात्पुरुषार्थवादो यथान्येष्व् इति जैमिनिः । ३,४।२ ।
आचारदर्शनात् । ३,४।३ ।
तच्छ्रुतेः । ३,४।४ ।
समन्वारम्भणात् । ३,४।५ ।
तद्वतो विधानात् । ३,४।६ ।
नियमात् । ३,४।७ ।
अधिकोपदेशात् तु बादरायणस्यैवं तद्दर्शनात् । ३,४।८ ।
तुल्यं तु दर्शनम् । ३,४।९ ।
असार्वत्रिकी । ३,४।१० ।
विभागः शतवत् । ३,४।११ ।
अध्ययनमात्रवतः । ३,४।१२ ।
नाविशेषात् । ३,४।१३ ।
स्तुतये ऽनुमतिर्वा । ३,४।१४ ।
कामकारेण चैके । ३,४।१५ ।
उपमर्दं च । ३,४।१६ ।
ऊर्ध्वरेतस्सु च शब्दे हि । ३,४।१७ ।
परामर्शं जैमिनिरचोदनाच्चापवदति हि । ३,४।१८ ।
अनुष्ठेयं बादरायणस्साम्यश्रुतेः । ३,४।१९ ।
विधिर् वा धारणवत् । ३,४।२० ।
स्तुतिमात्रम् उपादानाद् इति चेन् नापूर्वत्वात् । ३,४।२१ ।
भावशब्दाच् च । ३,४।२२ ।
पारिप्लवार्था इति चेन् न विशेषितत्वात् । ३,४।२३ ।
तथा चैकवाक्योपबन्धात् । ३,४।२४ ।
अत एव चाग्नीन्धनाद्यनपेक्षा । ३,४।२५ ।
सर्वापेक्षा च यज्ञादिश्रुतेर् अश्ववत् । ३,४।२६ ।
शमदमाद्युपेतस् स्यात् तथापि तु तद्विधेस् तदङ्गतया तेषाम् अप्य् अवश्यानुष्ठेयत्वात् । ३,४।२७ ।
सर्वान् नानुमतिश् च प्राणात्यये तद्दर्शनात् । ३,४।२८ ।
अबाधाच् च । ३,४।२९ ।
अपि स्मर्यते । ३,४।३० ।
शब्दश् चातो ऽकामकारे । ३,४।३१ ।
विहितत्वाच् चाऽश्रमकर्मापि । ३,४।३२ ।
सहकारित्वेन च । ३,४।३३ ।
सर्वथापि त एवोभयलिङ्गात् । ३,४।३४ ।
अनभिभवं च दर्शयति । ३,४।३५ ।
अन्तरा चापि तु तद्दृष्टेः । ३,४।३६ ।
अपि स्मर्यते । ३,४।३७ ।
विशेषानुग्रहश् च । ३,४।३८ ।
अतस् त्व् इतरज्ज्यायो लिङ्गाच् च । ३,४।३९ ।
तद्भूतस्य तु नातद्भावो जैमिनेर् अपि नियमात् तद्रूपाभावेभ्यः । ३,४।४० ।
न चाधिकारिकम् अपि पतनानुमानात् तदयोगात् । ३,४।४१ ।
उपपूर्वम् अपीत्य् एके भावमशनवत् तद् उक्तम् । ३,४।४२ ।
बहिस् तूभयथापि स्मृतेर् आचाराच् च । ३,४।४३ ।
स्वामिनः फलश्रुतेर् इत्य् आत्रेयः । ३,४।४४ ।
आर्त्विज्यम् इत्य् औडुलोमिः तस्मै हि परिक्रीयते । ३,४।४५ ।
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् । ३,४।४६ ।
कृत्स्नभावात् तु गृहिणोपसंहारः । ३,४।४७ ।
मौनवद् इतरेषाम् अप्य् उपदेशात् । ३,४।४८ ।
अनाविष्कुर्वन्न् अन्वयात् । ३,४।४९ ।
ऐहिकम् अप्रस्तुतप्रतिबन्धे तद्दर्शनात् । ३,४।५० ।
एवं मुक्तिफलानियमस् तदवस्थावधृतेस् तदवस्थावधृतेः । ३,४।५१ ।

आवृत्तिर् असकृदुपदेशात् । ४,१।१ ।
लिङ्गाच् च । ४,१।२ ।
आत्मेति तूपगच्छन्ति ग्राहयन्ति च । ४,१।३ ।
न प्रतीके न हि सः । ४,१।४ ।
ब्रह्मदृष्टिर् उत्कर्षात् । ४,१।५ ।
आदित्यादिमतयश् चाङ्ग उपपत्तेः । ४,१।६ ।
आसीनः सम्भवात् । ४,१।७ ।
ध्यानाच् च । ४,१।८ ।
अचलत्वं चापेक्ष्य । ४,१।९ ।
स्मरन्ति च । ४,१।१० ।
यत्रैकाग्रता तत्राविशेषात् । ४,१।११ ।
आप्रयाणात् तत्रापि हि दृष्टम् । ४,१।१२ ।
तदधिगम उत्तरपूर्वाघयोर् अश्लेषविनाशौ तद्व्यपदेशात् । ४,१।१३ ।
इतरस्याप्य् एवम् असंश्लेषः पाते तु । ४,१।१४ ।
अनारब्धकार्ये एव तु पूर्वे तदवधेः । ४,१।१५ ।
अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् । ४,१।१६ ।
अतो ऽन्यापि ह्य् एकेषाम् उभयोः । ४,१।१७ ।
यद् एव विद्ययेति हि । ४,१।१८ ।
भोगेन त्व् इतरे क्षपयित्वाथ सम्पद्यते । ४,१।१९ ।

वाङ्मनसि दर्शनाच् छब्दाच् च । ४,२।१ ।
अत एव सर्वाण्यनु । ४,२।२ ।
तन्मनः प्राण उत्तरात् । ४,२।३ ।
सो ऽध्यक्षे तदुपगमादिभ्यः । ४,२।४ ।
भूतेषु तच्छ्रुतेः । ४,२।५ ।
नैकस्मिन् दर्शयतो हि । ४,२।६ ।
समाना चासृत्युपक्रमाद् अमृतत्वं चानुपोष्य । ४,२।७ ।
तदापीतेः संसारव्यपदेशात् । ४,२।८ ।
सूक्ष्मं प्रमाणतश् च तथोपलब्धेः । ४,२।९ ।
नोपमर्देनातः । ४,२।१० ।
अस्यैव चोपपत्तेर् ऊष्मा । ४,२।११ ।
प्रतिषेधाद् इति चेन् न शारीरात् स्पष्टो ह्येकेषाम् । ४,२।१२ ।
स्मर्यते च । ४,२।१३ ।
तानि परे तथा ह्य् आह । ४,२।१४ ।
अविभागो वचनात् । ४,२।१५ ।
तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच् । ४,२।१६ ।
रश्म्यनुसारी । ४,२।१७ ।
निशि नेति चेन् न सम्बन्धस्य यावद्देहभावित्वाद् दर्शयति च । ४,२।१८ ।
अतश् चायने ऽपि दक्षिणे । ४,२।१९ ।
योगिनः प्रति स्मर्येते स्मार्ते चैते । ४,२।२० ।

अर्चिरादिना तत्प्रथितेः । ४,३।१ ।
वायुमब्दादविशेषविशेषाभ्याम् । ४,३।२ ।
तटितो ऽधि वरुणः सम्बन्धात् । ४,३।३ ।
आतिवाहिकास् तल्लिङ्गात् । ४,३।४ ।
वैद्युतेनैव ततस् तच्छ्रुतेः । ४,३।५ ।
कार्यं बादरिरस्य गत्युपपत्तेः । ४,३।६ ।
विशेषितत्वाच् च । ४,३।७ ।
सामीप्यात् तु तद्व्यपदेशः । ४,३।८ ।
कार्यात्यये तदध्यक्षेण सहातः परम् अभिधानात् । ४,३।९ ।
स्मृतेश् च । ४,३।१० ।
परं जैमिनिर् मुख्यत्वात् । ४,३।११ ।
दर्शनाच् च । ४,३।१२ ।
न च कार्ये प्रत्यभिसन्धिः । ४,३।१३ ।
अप्रतीकालम्बनान् नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश् च । ४,३।१४ ।
विशेषं च दर्शयति । ४,३।१५ ।

सम्पद्याविर्भावः स्वेन शब्दात् । ४,४।१ ।
मुक्तः प्रतिज्ञानात् । ४,४।२ ।
आत्मा प्रकरणात् । ४,४।३ ।
अविभागेन दृष्टत्वात् । ४,४।४ ।
ब्राह्मेण जैमिनिर् उपन्यासादिभ्यः । ४,४।५ ।
चितितन्मात्रेण तदात्मकत्वाद् इत्य् औडुलोमिः । ४,४।६ ।
एवम् अप्य् उपन्यासात् पूर्वभावाद् अविरोधं बादरायणः । ४,४।७ ।
सङ्कल्पाद् एव तच्छ्रुतेः । ४,४।८ ।
अत एव चानन्याधिपतिः । ४,४।९ ।
अभावं बादरिर् आह ह्य् एवम् । ४,४।१० ।
भावं जैमिनिर् विकल्पामननात् । ४,४।११ ।
द्वादशाहवद् उभयविधं बादरायणो ऽतः । ४,४।१२ ।
तन्वभावे सन्ध्यवद् उपपत्तेः । ४,४।१३ ।
भावे जाग्रद्वत् । ४,४।१४ ।
प्रदीपवदावेशस् तथा हि दर्शयति । ४,४।१५ ।
स्वाप्ययसम्पत्योर् अन्यतरापेक्षम् आविष्कृतं हि । ४,४।१६ ।
जगद्व्यापारवर्जं प्रकरणाद् असन्निहितत्वाच् च । ४,४।१७ ।
प्रत्यक्षोपदेशाद् इति चेन् नाधिकारिकमण्डलस्थोक्तेः । ४,४।१८ ।
विकारावर्ति च तथा हि स्थितिम् आह । ४,४।१९ ।
दर्शयतश् चैवं प्रत्यक्षानुमाने । ४,४।२० ।
भोगमात्रसाम्यलिङ्गाच् च । ४,४।२१ ।
अनावृत्तिः शब्दाद् अनावृत्तिः शब्दात् । ४,४।२२ ।