मत-सङ्ग्रहः

(TODO: To be updated, fixed.)

आन्तरिक-बाह्य-क्रिया-विवेकः

केषाञ्चन वस्तूनाम्
आन्तरिकी क्रिया काचित्, बाह्यक्रिया चेति विभाग इष्यते।
यथा सूर्यस्यान्तरिकी क्रिया परमाणुसंयोजनम्,
बाह्यक्रिया प्रकाशतापादि-विकिरणम्।
बाह्यान्तरिक-क्रिययोर् आधेयाधार-भावो विद्यते।

एवं तत्त्व-कल्पनम्।
बाह्यतोऽभ्यन्तर-क्रमेणेमानि स्थूल-तत्त्वानि -

  • जड-प्रकृतिः(=nature)
  • जीवात्मानः(=soul)
  • बुद्धितत्त्वम् ‌/ ज्ञान-लोकः/ आकृति-लोकः / प्रज्ञा-लोकः (=Nous)
  • देव-गणः ‌/ प्रत्येकता

जड-प्रकृतिः

अस्मल्-लोकय् नाना-नाम-रूपैर् आकृति-प्रकटनाय
भित्तिर् इव जड-प्रकृतिर् नाम वस्तु
रूप-विशेष-रहितम् /सूक्ष्म-रूपम् प्रयुज्यते।

बौद्धिकम्(=intellectual), इन्द्रिय-गम्यम्(=sensible) इति च जड-प्रकृतौ विभागः कैश्चन प्लाटायनैः कृतः।
तत्र बौद्धिकम् पवित्रतरम्, इन्द्रियगम्यं दुष्टञ् चामन्यन्त - केचित् त्व् इयाम्ब्लिचादयो न तथामन्यन्त।

इदं लोक-भृन्(=demiurge)-नाम देव-विशेषस्य मनसि भ्रियमाणम् ज्ञान-लोकान्तरम्
इति मन्तुम् अलम्।

जीवाः

जड-प्रकृतिर् नाना-जीवैर् नियन्त्र्यते, आविर्भाव्यते च।
एवं जीव-चयस्य बाह्यक्रिया जड-प्रकृति-व्यवस्थापनम्।

शरीराणि

देवैर् विश्व-व्यवस्थापनाङ्गत्वेन जीवानां नाना-प्राकृत-जड-शरीरापत्तिः।

आत्मसु शरीर-भेदेन -
विश्वात्मा, ताराद्य्-आत्मा, अस्मादृशात्मेति विभागः कृत इयाम्बिचेन,
यत्र पूर्वयोः परिपूर्णज्ञानतया न दुःखानुभवः।

जीव-शरीर-बन्धने विभाजकाख्या(=daimons) व्यक्ति-विशिष्ट-देवावरावताराः करणानि।
ता जड-प्रकृति-शक्तय इव।
देवस्मरणार्थेष्व् आराधनेषु
विभाजको ऽपाक्रियते स्म।
विभाजक-राज्ञी हेकता(=Hecate) नाम मायादेवीति प्राचीन-चाल्दिकाः।

जीवाः पूर्णतया न शरीरेण बद्धा इति प्लोतिनोऽवदत्,
इलाम्बिचादयस् तु न तथा।

विश्वात्मनः खण्डकानीव अविश्व-शरीर-बद्धा जीवाः।

जीव-वाहनम्

जीवानां वाहनम्(=ochema) इन्द्रियाग्राह्यम् अपि वर्तते,
यदीय-(तारात्मवद्-)दैवी(→गोलकी)-क्रियया देव-सम्बन्धः शक्यः।

ज्ञान-लोकः

ज्ञान-लोकः(=Nous) कश्चन वर्तते।
तस्यैवाकृति-लोक इति नामान्तरम्।

ज्ञानानि /आकृतयः नानाविधानि तत्र कल्पितानि देवैः।
तेष्व् एव कानिचिज् ज्ञानानि प्रत्यञ्चि आत्म-भूतानि।
कानिचिद् इतराणि देवतावताराः।

तेष्व् एव केषाञ्चनाकृतीनाम्
जड-प्रकृताव् अभिव्यक्त्यै
कश्चन जीवात्म-चयः पुरस् क्रियते।
इयञ्च पुरस्क्रिया लोक-भृद्-आख्येन देवेन क्रियते।

देवाः

नैकत्वम्

देवा नैके।
तेषु भेदः स्वभावजः।
अत्र भेदकारी नित्य-धर्मः प्रत्येकता नाम,
यस्य सद् इति नामान्तरम् भवतु।
ते हि सर्वस्य मूलाधारभूताः।
तेभ्यो हि बिद्धितत्त्वम् / ज्ञानलोक उद्भवति।

पुनर् एषु देवेषु समस्तकल्याणगुणा वर्तन्ते,
दोषाश् च न।

लोक-भृतिः

देवगणः स्वलीलायय् आकृति-खण्डानि लोकय् आविर् भावयन्ति।
तेषु लोक-भृद्(=demiurge) विश्वकर्मापरनामा कश्चन
विश्व-व्यवस्थापने नियुक्तः।
सृष्टिश् निरन्तरा।

प्रत्येको ऽपि देवः सर्वविधकर्मसाधनपटुः -
यथैकैव जनः कदाचिद् वैद्यवेषं धरेत्, कदाचिद् आरक्षकवेषम् -
तादृशं तत्।

अवतार-ततिः

देवानाम् पर-रूपं किञ्चिज् ज्ञान-शक्त्यात्मकं मूलतो वर्तते।

ततोऽवतार-परम्परा वर्तते प्रत्येकस्य।
परेषां देवतानां बौद्धिकस्तरे पवित्र-पुरण-प्रकाशितानि स-कथानि रूपाणि वर्तन्ते -
अयं हि बौद्धिकावतारः
जीवानुजिघृक्षा हि प्रायेणेदृशावतारस्य कारणम्।

पुनः प्राणिष्व् आविष्टाः
नाना-वीरेषु काशन्ते।

जीवानुभवः

सुखासुखे

तेन जीवात्मनः परार्थाः।
ते च देवावतारा इव नित्य-कल्पाः।

स्व-परार्थतायाः लोक-विव्यवस्था-पात्रत्वस्य वा विस्मरणेन
शरीर-मात्र-बद्ध-सङ्कुचित-धियो दुष्टा बहवो जीवा दूयन्ते।

देव-सम्बन्ध-स्मरणेन तेषाम् उल्लासः ।

देवाराधनम्

प्लाटायनेष्व् इयाम्ब्लिचादयः देवकर्मपटवः।

स्व-सहित-प्रपञ्चस्य परार्थतायाः स्मरणार्थं
देवाराधने नाना-विध-पवित्राणि वस्तूनि क्रियाश् चावलम्ब्यन्ते।
ईदृशाः देवसान्निध्यप्रकल्पकाः पदार्थाः सङ्केता(=sunthemata) इत्य् उच्यन्ते।

दिव्यानुभवविशेषा जायन्ते क्रमशः -

  • इन्द्रियातिसङ्गाद् व्यावृत्त्या।
  • पुनः स्वपात्रानुगुण्येन दिव्य-किङ्करत्वे।

प्रगत-साधकेष्व् अखिलम् एव ब्रह्माण्डं देवाराधन-प्रेरको महा-सङ्केत इववर्तते,
जीवनम् महद् आराधनम् इव।
तदा देहश् च मन्दिरति।

विस्तारः (द्रष्टुं नोद्यम्)

As the soul became increasingly purified by theurgy so that it received such visions,
its experience of matter became less like that of the Phaedo
and more like the cosmological matter of the Timaeus,
transforming the entire world into an immense receptacle,
a sunthema revealing the “will of the gods.”

परम्परा

प्लातो नाम प्रधान आचार्यो नानाकृतीर् व्यरचयत्,
यत्र क्वचित् परस्पर-विरोधाभासो ऽवर्तत - यथा शरीर-सम्बन्धस्य पावित्र्ये।
प्लातस्याचार्यो ऽरिष्टतलः, प्राचार्यश् च सुक्रतुः।
तेषु प्रमुखांशेषु समन्वयम् अर्वाचीना अविन्दत।

विस्तारः (द्रष्टुं नोद्यम्)

E.R. Dodds explained that the task specifically was to reconcile the cosmology of the Timaeus
with the psychology of the Phaedo and Phaedrus

पश्चात् केचिद् ज्ञास्तिकाख्या दैवासुरद्वन्द्ववादिनो ऽवर्तन्त,
यत्-प्रभावेन शरीरसम्बन्धं दोषैक-दृष्ट्या केचिद् व्यैक्षन्त।

केचित् त्व् अन्ये इयाम्ब्लिचादयः देवकर्मपटवश् शरीरसम्बन्धं दोषसम्भावनासहितम् अपि पवित्रम् अमन्यन्त।
प्लातस्य +इन्द्रियाधीनतातिरस्कारं, पुनर् देहपावित्र्यकथनञ्च क्रमशो ऽधिकारिभेदेन शुद्ध्यर्थ इत्य् अवदन्।

विस्तारः (द्रष्टुं नोद्यम्)

That matter and embodiment were described both negatively and positively by Plato
suggests that his writings were not to be taken as univocal truths
but—as Iamblichus believed— spiritual exercises
employed by students at different stages of development
and under the careful guidance of teachers.[^3]
While one student would be encouraged to dwell on the ascetic themes of the Phaedo,
another would be directed to the Symposium to contemplate erotic connections
that would be impossible
unless the soul had already practiced the asceticism and withdrawal encouraged by the Phaedo.(5)

सङ्ख्याभिर् आकृतिभिश् च ते तत्त्वानि प्रतिपादयितुम् प्रायतन्त।
यथा

  • एकस्माद् द्वित्त्वम्, ततस् त्रित्वम्‌ /बहुत्वं वा।
  • शुद्धात्मनां गोलकाकृतिः।